०१ देशाचारादि

अथ देशाचारादि

तत्र गौतमः- ऽदेशजातिकुलधर्माश् चाम्नायैः अविरुद्धाः प्रमाणम् । कर्षकवणिक्पशुपालकुसीदिकारवः स्वे स्वे वर्गे । तेभ्यो यथाधिकारम् अर्थान् प्रत्यवहृत्य धर्मव्यवस्था" । “देशधर्मः” – यथा करविभागादिः प्रसिद्धो यो यत्र स तत्रैव प्रमाणम् । “जातिधर्मः” – यथा आभीराणां दन्तरञ्जनाभावः । “कुलधर्मः” – यथा दध्यमथनादिः । “आम्नायैः” श्रुतिस्मृत्यादिभिः । “प्रत्यवहृत्य” अवधार्य ।

मनुः ।

जातिजानपदान् धर्मान् श्रेणीधर्मांश् च धर्मवित् ।
समीक्ष्य कुलधर्मांश् च स्वधर्मं प्रतिपादयेत् ॥
स्वानि कर्माणि कुवाणा दूरे मन्तो ऽपि मानवाः ।
प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्य् अवस्थिताः ॥

[२०] > सद्भिर् आचरितं यस् स्याद् धर्मिकैश् च द्विजातिभिः ।

तद्देशकुलजातीनाम् अविरुद्धं प्रकल्पयेत् ॥

“श्रेणय” एककर्मप्रवृत्ताः वणिक् कृषील्वलादयः । “अविरुद्धम्” शास्त्रेण्ēति शेषः ।

कात्यायनः [८४, ४६, ४०] ।

गोत्रस्थितिस् तु या येषां क्रमायातापि धर्मतः ।
कुलधर्मं तु तं प्राहुः पालयेत् तं तथैव तु ॥
यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः ।
श्रुतिस्मृत्यविरोधेन देशधर्मः स उच्यते ॥
प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् ।
वर्णानां नियतं धर्मं न्यायोपेतं न चालयेत् ॥

बृहस्पतिः [१.१२६–१२७] ।

प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनां ।
देशजातिकुलानां च ये धर्माः प्राक्प्रवर्तिताः ॥
तथैव ते पालनीयाः प्रजाः प्रक्षुभ्यते ऽन्यथा ।
जनापरक्तिर् भवति बलं कोशश् च नश्यति ॥

[२१]

उदुह्यते दाक्षिणात्यैर् मातुलस्य सुता द्विजैः ।
मध्यदेशे कर्मकराः शिल्पिनश् च गवाशिनः ॥
मत्स्यादाश् च नराः पूर्वे व्यभिचाररताः स्त्रियः ।
उत्तरे मद्यपा नार्यः स्पृश्या नॄणां रजस्वलाः ॥
स्वसजाताः प्रगृह्णन्ति भ्रातृभार्याम् अभर्तृकाम् ।
अनेन कर्मण नैते प्रायश्चित्तदमार्हकाः ॥
विहिताकरणान् नित्यं प्रतिषिद्धनिषेवणात् ।
भक्ताश् छादं प्रदायैषां शेषं गृह्णीत पार्थिवः ॥

ऽनैते प्रायश्चित्तदमार्हका" इति । नैतैः प्रायश्चित्तं कर्तव्यम्, प्रायश्चित्तानपेयपापत्वात् । न च दण्डनीयाः । प्रजाप्रक्षोभप्रसङ्गात् । “विहिताकरणान् नित्यम्” इत्यादि । विहितस्य वर्णाश्रमकर्मणो ऽसकृत्प्रमादात् आपद्व्यतिरेकेणाननुष्ठानात् । तथा प्रतिषिद्धस्य अभक्ष्यभक्षणादेर् नित्यम् अनुष्ठानात् । यावता भक्ताच्छादनं संपद्यते तावत्परित्यज्य शेषं धनं राजा गृह्णीयाद् इत्य् अर्थः । एतच् च देशाचारव्यतिरिक्तनिषिद्धाचरणाद् अवगन्तव्यम् । न देशाचारकरणे । तत्र “अनेन कर्मणा नैते प्रायश्चित्तदमार्हका” इत्य् उक्तत्वात् । । तथा च देशाचारव्यतिरेकेण सामान्यतो गौतमवचनम् (१२.२४)- ऽशिष्टाकरणे प्रतिषिद्धसेवायां [च] नित्यं चैलपिण्डाद् ऊर्ध्वं स्वहरणम्" इति । [२२]

कात्यायनः ।

अप्रवृत्तं कृतं यत्र श्रुतिस्मृत्यनुमोदितम् ।
नान्यथा तत् पुनः कार्यं न्यायापेतं विवर्जयेत् ॥

“अप्रवृत्तम्” पूर्वं यन् न प्रवृत्तम्, यथा – उदीच्यानां रजस्वलास्पर्शवर्जनम् । “श्रुतिस्मृत्यनुमोदितम्” श्रुतिस्मृत्यनुगृहीतम् । “नान्यथा तत् पुनः कार्यम्” इत्य् अत्र हेतुः । “न्यायापेतं विवर्जयेत्” इदं यतो ऽन्यायवद् इत्य् अर्थः । बृहस्पतिः [१.१३३, १३२] ।

भागशुल्कोचितदमे मासषाण्मासिके करे ।
मर्यादा लेखिता धार्या नैग्माधिष्थिता सदा ॥
शास्त्रवद् यत्नतो रक्ष्या संदिग्धौ साधनं तु सा ।
तां दृष्ट्वा निर्णयं कुर्यात् प्राङ्निविष्टव्यवस्थया ॥

“नैगमाः” वणिजः । “संदिग्धौ” संदेहे । कात्यायनः [४८] ।

देशस्यानुमतेनैव व्यवस्था या निरूपिता ।

[२३]

लिखिता तु सदा धार्या मुद्रिता राजमुद्रया ॥
[शास्त्रवद् यत्नतो रक्ष्या तां निरीक्ष्य विनिर्णयेत्] ।
नैगमस्थैस् तु तत्कर्यं लिखितं यद् व्यवस्थितम् ॥
तस्मात् तत् संप्रवर्तेत नान्यथैव प्रवर्तयेत् ।
प्रमाणं देशदृष्टं तु यद् एवम् इति निश्चितम् ॥

“नैगमस्थैः” वणिङ्मध्ये वासिभिः कारुप्रभृतिभिः ।

[२४]