॥ श्रीः ॥
श्रीलक्ष्मीधरविरचितः
कृत्यकल्पतरुः
राजधर्मकाण्डम्
मङ्गलाचरणम्
ॐ नमो विघ्नराजाय निर्विघ्नफलदायिने ।
[१]
न्याय्ये वर्त्मनि यज् जगद् गुणवतां गेहेषु यद् दन्तिनो
राज्ञां मूर्द्धनि यत् पदं व्यरचयद् गोविन्दचन्द्रो नृपः ।
तत् सर्वं खलु यस्य मन्त्रमहिमाश्चर्यं स लक्ष्मीधरः
काण्डे शंसति राजधर्मनिचयान् एकादशे पुण्यधीः ॥
प्रतिज्ञा (विषयनिर्देशः)
राजप्रशंसा प्रथमम् अभिषेको गुणास् ततः ।
अमात्या अथ दुर्गाणि वास्तुकर्मविधिस् ततः ॥
राष्ट्रसङ्ग्रहणं कोशो दण्डो मित्रं ततः पुनः ।
राजपुत्राभिरक्षा च मन्त्रः षाड्गुण्यम् एव च ॥
यात्राभिषिक्तकृत्यानि देवयात्राविधिस् ततः ।
महोत्सवश् च कौमुद्या ध्वजोच्छ्रायविधिस् ततः ॥
महानवम्यां पूजा च विधिश् चिह्नस्य चाप्य् अथ ।
गवोत्सर्गो वसोर् धारा पर्वाण्य् एकादशे क्रमात् ॥
[२]
१ — अथ राजप्रशंसा
तत्र मनुः ।
राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः ।
सम्भवश् च यथा तस्य सिद्धिश् च परमा यथा ॥
अराजके हि लोके ऽस्मिन् सर्वतो ऽभिद्रुते भयात् ।
रक्षार्थम् अस्य सर्वस्य राजानम् असृजत् प्रभुः ॥
इन्द्रानिलयमार्काणाम् अग्नेश् च वरुणस्य च ।
चन्द्रवित्तेशयोश् चैव मात्रा निर्हृत्य शाश्वतीः ॥
यस्माद् एषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः ।
तस्माद् अभिभवत्य् एष सर्वभूतानि तेजसा ॥
तपत्य् आदित्यवच् चैव चक्षूंषि च मनांसि च ।
न चैवं भुवि शक्नोति कश्चिद् अप्य् अभिवीक्षितुम् ॥
सो ऽग्निर् भवतु वायुश् च सो ऽर्कः सोमः स धर्मराट् ।
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥
नारदः ।
पञ्च रूपाणि राजानो धारयन्त्य् अमितौजसः ।
अग्नेर् इन्द्रस्य सोमस्य यमस्य धनदस्य च ॥
[३] कारणान् निर्निमित्तं वा यदा क्रोधवशं गतः ।
प्रजा दहति भूपालस् तदाग्निर् अभिधीयते ॥
यदा तेजः समालम्बेद् विजिगीषुर् उदायुधः ।
अभियाति परान् राजा तदेन्द्रः समुदाहृतः ॥
विगतक्रोधसन्तापो हृष्टरूपो यदा नृपः ।
प्रजानां दर्शनं याति सोमे इत्य् उच्यते तदा ॥
धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः ।
समः सर्वेषु भूतेषु तदा वैवस्वतो यमः ॥
यदा त्व् अर्थिगुरून् प्राज्ञान् भृत्यादीन् पृथिवीपतिः ।
अनुगृह्णाति दानेन तदा धनद उच्यते ॥
मनुः ।
इन्द्रस्यार्कस्य वातस्य यमस्य वरुणस्य च ।
सोमस्याग्नेः पृथिव्याश् च तेजोवृत्तं नृपश् चरेत् ॥
वार्षिकांश् चतुरो मासान् यथेन्द्रो ऽभिप्रवर्षति ।
तथाभिवर्षेत् तद् राष्ट्रं कामैर् इन्द्रव्रतं चरन् ॥
अष्टौ मासान् यथादित्यस् तोयं हरति रश्मिभिः ।
तथा हरेत् करं राष्ट्रात् सम्यग् अर्कव्रतं हि तत् ॥
प्रविश्य सर्वभूतानि यथा चरति मारुतः ।
तथा चारैः प्रवेष्टव्यं व्रतम् एतद् धि मारुतम् ॥
[४] यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।
तथा राज्ञा नियन्तव्यः सर्वस् तद् धि यमव्रतम् ॥
परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः ।
तथा प्रकृतयो यस्मिन् स चन्द्रव्रतिको नृपः ॥
प्रतापयुक्तस् तेजस्वी नित्यं स्यात् पापकर्मसु ।
दुष्टसामन्तहिंस्रश् च तद् आग्नेयं व्रतं स्मृतम् ॥
यथा सर्वाणि भूतानि धरा धारयते समम् ।
तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥
नारदः ।
अनादिश् चाप्य् अनन्तश् च द्विपदां पृथिवीपतिः ।
दीप्तत्वाच् च शुचित्वाच् च यद्य् असौ न पथश् च्युतः ॥
अशुचिर् वचनाद् यस्य शुचिर् भवति पूरुषः ।
शुचिश् चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥
तस्मात् तं नावजानीयान् नाक्रोशेन् न विशेषयेत् ।
आज्ञायां तस्य तिष्ठेत् तु मृत्युः स्यात् तद्व्यतिक्रमात् ॥
[५] आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
स यद् भ्रूयाद् असत् सद् वा स धर्मो व्यवहारिणाम् ॥
राजनामा चरत्य् एष भूमौ साक्षात् सहस्रदृक् ।
न तस्याज्ञाम् अतिक्रम्य प्रतिष्थेरन्न् इमाः प्रजाः ॥
रक्षाधिकारादीशत्वाद् भूतानुग्रहदर्शनात् ।
यद् एव कुरुते राजा तत् प्रमाणम् इति स्थितिः ॥
निर्गुणो ऽपि यथा स्त्रीणां पूज्य एव पतिः सदा ।
प्रजानां निर्गुणो ऽप्य् एवं पूज्य एव नराधिपः ॥
राज्ञाम् आज्ञाभयाद् यस्मान् न च्यवन्ते पथः प्रजाः ।
व्यवहारस् ततो ज्ञेयः शंसतो राज्यशासनम् ॥
स्थित्यर्थं पृथिवीपालैश् चारित्रविधयः कृताः ।
चरित्रेभ्यो ऽप्य् अतः प्राहुर् गरीयो राजशासनम् ॥
तपःक्रीताः प्रजा राज्ञः प्रभुर् आसां तथा नृपः ।
तस्मात् तद्वचसि स्थेयं वर्त्ता तासां तदाश्रया ॥
“चारित्रविधयः” राजकृता भागादिव्यवस्थाप्रकाराः । “राजशासनम्” राजाज्ञा । “वार्त्ता” कृषिपशुपाल्यादिवृत्तिः ।
मनुः ।
बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्य् एषा नररूपेण तिष्ठति ॥
[६] एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥
कार्यं चावेक्ष्य शक्तिं च देशकालौ च तत्वतः ।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥
यस्य प्रसादे पद्मा श्रीर् विजयश् च पराक्रमे ।
मृत्युश् च वसति क्रोधे सर्वतेजोमयो हि सः ॥
तं यस् तु द्वेष्टि सम्मोहात् स विनश्यत्य् असंशयम् ।
तस्मात् त्व् आशु विनाशाय राजा प्रकुरुते मनः ॥
तस्माद् धर्मं यम् इष्टेषु स व्यवस्येन् नराधिपः ।
अनिष्टं वाप्य् अनिष्टेषु तं धर्मं न विचारयेत् ॥
दण्डानुवृत्तौ मनुः ।
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य शक्तितः ।
यथार्हतः सम्प्रणयेन् नरेष्व् अन्यायवर्त्तिषु ॥
स राजा पुरुषो दण्डः स नेता शासिता च सः ।
चतुर्णाम् आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः ॥
समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस् तु विनाशयति सर्वतः ॥
[७] राजेत्य् अनुवृत्तौ गौतमः- “तम् उपर्य् आसीनम् अधस्ताद् उपासीरन्न् अन्ये ब्राह्मणेभ्यः । ते ऽप्य् एनं मन्येरन्” ।
बृहस्पतिः ।
बलेन चतुरङ्गेण यतो रञ्जयति प्रजाः ।
दीप्यमानः स वपुषा तेन राजाभिधीयते ॥
अङ्गिराः ।
गुरुवद् येन भूपालः पापं दण्डेन भूयसा ।
संस्करोत्य् अवनाच् चैव तेनासौ गुरु उच्यते ॥
“पापम्” पापकारिणम् । “अवनात्” रक्षणात् ।
श्रीरामायणे ।
नाराजके जनपदे योगः क्षेमं प्रवर्तते ।
न चाप्य् अराजके सेना शत्रून् विषहते परान् ॥
विपालाश् च यथा गावो यथा चानृणकं वनम् ।
[८] अजलाश् च यथा नद्यस् तथा राष्ट्रम् अराजकम् ।
अन्धं तम् इवेदं स्यान् नेह ज्ञायेत् किञ्चन ॥
राजा चेन् न भवेल् लोके विभजन् शाध्वसाधुनी ॥
इति राजप्रशंसा ॥
२ — अथाभिषेकः
तत्र ब्रह्मपुराणे ।
सुतिथौ च सुनक्षत्रे स्नानं नक्षत्रनामकम् ।
मुहूर्ते सुगुणोपेते सर्वोत्पातविवर्जिते ॥
स्थिरे राशौ शुभयुते केन्द्रे चोपचयान्विते ।
काश्मीरायान्तु पार्वत्यां शङ्करात्मा महीपतिः ॥
सर्वलक्षणसंयुक्तस् त्व् अभिषेच्यो नवस् तदा ।
नगरं तत्र कर्तव्यं पताकाध्वजसङ्कुलम् ॥
नीरजस्कास् तथा कार्या राजमार्गाः शुभैः जलैः ।
पौरैः स्नातैः सुवस्त्रैश् च भाव्यं मङ्गलपाणिभिः ॥
[१०] गन्तव्यं वारमुख्याभिस् तथा राजनिवेशनम् ।
पौरमुख्यैस् तथा वाद्यैर् गुणमुख्यैस् तथैव च ॥
शोभनीयं च नगरं सविलासैश् च नर्तकैः ।
स्नानकाले च कर्तव्यो महाकोलाहलस् तथा ॥
वादित्रशङ्खपुण्याहैः सूतमागधवन्दिभिः ॥
आदौ कृत्वा माहाशान्तिं पुण्यां वैनायिकीं शुभाम् ।
ग्रहशान्तिं तथा श्रेष्ठां तृतीयाम् आहुतिं तथा ॥
पुरोधाः सोपवासश् च श्रुतिस्मृतिसमन्वितः ।
त्रयोदश महामन्त्रान् तर्पयेज् जातवेदसि ॥
गणं चैवाप्रतिरथं सत्यधर्मगणौ तथा ।
आयुष्यम् अभयं चैव तथा स्वस्त्ययनं परम् ॥
वैष्णवान् अथ मन्त्रांश् च तथा पौरन्दरान् अपि ।
सावित्रब्राह्मरौद्रांश् च वारुणान् अथ सर्वदा ॥
“ऋताषाड्” इति त्रयोदश् महामन्त्राः । “गणः” ऽईदृग् अन्या गृहे" त्यादयः । “अप्रतिरथः” ऽआशुः शिशान" इति । “सत्यगणः” ऽआगात् सत्यम्" इति । “धर्मगणः” ऽयास् ते अग्ने घ्रोरास् तनुव" इति । “अभयस्वस्त्ययने” ऽयत्र इन्द्र" “स्वस्तिदा” इति ।
[११] तथा ।
राजा स्नातः पुनः स्नाप्यः पञ्चगव्येन देववत् ।
मृत्ताम्ररौप्यहेमोत्थैः जलपूर्णैस् ततो घटैः ॥
तोयेन शूद्रैः स्नाप्यश् च पश्चिमां दिशम् आश्रितैः ।
ततः क्षीरेण् वैश्यैश् च दक्षिणस्यां दिशि स्थितैः ॥
क्षत्रियैश् च ततो दध्ना पूर्वस्यां दिश्य् अवस्थितैः ।
अमृतेन ततो विप्रैः घृतेनोत्तरतः स्थितैः ॥
पर्वतोत्थमृदा पश्चाद् राज्ञः शोध्यं शिरो द्विजैः ।
वल्मीकमृदया कर्णौ शोधितव्यौ प्रयत्नतः ॥
शक्रस्थानाच् च मृदया ग्रीवा शोध्या च भूभृतः ।
राजवेश्मगृहद्वारमृदया हृदयं तथा ॥
देवालयमृदा पृष्थं शोध्यं तस्याथ राजभिः ।
गजदन्तोद्धृतमृदा दक्षिणस् तु तथा भुजः ॥
शोधनीया शनैर् नासा वृषभशृङ्गलग्नया ।
कटिदेशस् ततो वैश्यैः वेश्याद् वारमृदा तथा ॥
नदीकूलमृदा पार्श्वे शोधितव्ये यथाक्रमम् ।
अश्वशालामृदा शूद्रैः शोध्ये तस्याथ जानुनी ॥
[१२] गोकुलान् मृदया जङ्घे पादौ च सरसो मृदा ।
सर्वौषधैः सर्वबीजैः गन्धै रत्नैश् च सर्वदा ॥
सर्वपुष्पैः सर्वफलैः स्नाप्यो रोचनया तथा ।
अथ भद्रासनगतः सर्वतोयैः सुभास्वरैः ॥
यथाशक्त्या समानीतैः पुरस्कृत्य पुरोहितम् ।
नृपतिस् त्व् अभिषेक्तव्यो दैवज्ञवचनान् नरैः ॥
ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रमुख्यैस् तथैव च ।
पतिव्रताभिर् नारीभिः पुत्रिणीभिश् च पुत्रवत् ॥
ततः स्नातो विलिप्ताङ्गः कृतदेवाग्नितर्पणः ।
आबद्धमुकुटः स्रग्वी बद्धपट्टो विभूषितः ॥
मङ्गलानां शतं पश्येत् पुण्यम् अष्टोत्तरं शतम् ।
शान्त्यै प्राधानिके स्थाने सर्वम् एतद् यथाक्रमम् ॥
कृत्वा शेषं ततो हुत्वा दद्यात् पूर्णाहुतिं ततः ।
अभिषिक्तस् ततो राजा सम्पूज्यादौ विनायकम् ॥
ततः क्रमेण देवांश् च ब्रह्मविष्णुमहेश्वरान् ।
ग्रहान् नीलं च नागेन्द्रम् अग्निं विप्रान् पुरोहितम् ॥
देवान् पितॄन् समुद्दिश्य दद्याद् विप्रेषु दक्षिणाम् ।
अभयं सर्वभूतेभ्यः सम्यक् तत्र ददाति च ॥
अथातस् स्थानगान् सर्वान् पशून् अपि विमोचयेत् ।
बन्धनस्थानसंस्थांश् च प्रमोचयति शास्त्रवत् ॥
गोब्राह्मणादिहन्तॄंश् च कण्टकान् दारुणान् अपि ।
[१३] जहाति हस्तिहन्तॄंश् च क्रूरांश् चापि सुशिक्षितान् ॥
व्याघ्रचर्मोत्तरे रम्ये तथा सिंहासने शुभे ।
उपवेश्यो भवेद् राजा स्वयम् एव पुरोधसा ॥
सिंहासनस्थः सम्पश्येत् प्रकृतीश् च समागताः ।
छत्रायुधानि सम्पूज्य गणमुख्यांस् तुरङ्गमान् ॥
आरुह्यालङ्कृतं नागं विसृज्यन् धनसञ्चयम् ।
प्रदक्षिणीकृत्य पुरं प्रविश्य च पुनर् गृहम् ॥
सभास्थान् पौरमुख्यांश् च कृत्वा पूजां विसर्जयेत् ।
गतेषु तेषु च धनैस् तर्पयेन् नटनर्तकान् ॥
ब्राह्मणान् भोजयेत् सर्वान् दीनान् अनाथांश् च बान्धवान् ।
ततो महाजनैः सार्धं पूर्वराजक्रमादिभिः ॥
आहारं कुरुते राजा राजभृत्यान् विभज्य च ।
आचम्य ताम्बूलमुखो विहरेत ततः क्षणम् ॥
ततः कतिपयैः सार्धम् अन्तःपुरनिवासिभिः ।
रक्षेत् प्रयत्नाद् आत्मानं भूयो भुङ्क्ते यथासुखम् ॥
अनेनैव विधानेन कुर्याद् वर्धापनं सदा ।
अभिषेकाह्नि यत्नेन प्रतिसंवत्सरं नृपः ॥
श्रीरामायणे ।
शनैस् तस्मिन् प्रशान्ते तु जनघोषे नराधिपः ।
[१४] प्रणम्य गुरुम् आसीनम् इत्य् उवाच पुरोहितम् ॥
अभिषेकाय रामस्य यत् कर्म सपरिच्छदम् ।
तद् अस्य भगवन् सर्वम् आज्ञापयितुम् अर्हसि ॥
तच् छ्रुत्वा भूमिपालस्य वसिष्थो द्विजसत्तमः ।
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ॥
“युक्तान्” नियोगिपुरुषान् ।
सुवर्णादीनि रत्नानि मणीन् सर्वौषधीर् अपि ।
शुक्लं च माल्यं लाजांश् च पृथक् च मधुसर्पिषी ॥
अहतानि च वासांसि रथं सर्वायुधानि च ।
सितवर्णं च तुरगं गजं च शुभलक्षणम् ॥
चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम् ।
शतं च शातकौम्भानां कुम्भानाम् अग्निवर्चसाम् ॥
हिरण्यशृङ्गं वृषभं समग्रं व्याघचर्म च ।
यच् चान्यत् किञ्चिद् एष्टव्यं यच् च किञ्चिन् मनोनुगम् ॥
उपस्थापयत प्रातर् अग्न्यगारे महीपतिः ।
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ॥
चन्दनैः स्रग्भिर् अर्च्यन्तां सुमनोदामभिस् तथा ।
प्रशस्तवस्तुगुणवद् दधिक्षीरोपसेचनम् ॥
द्विजानां शतसाहस्रं सत्प्रकारफलं लभेत् ।
[१५] सिद्धमन्त्राद्य्सम्भारः प्रत्यूषस्य् एव कल्प्यताम् ॥
सूर्ये ऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।
ब्राह्मणाश् च निमन्त्र्यन्तां कल्प्यन्ताम् आसनानि च ॥
आज्ञाप्यन्तां पताकाश् च राजमार्गश् च सिच्यताम् ।
सर्वे च नागराश् चैव गणिकाश् च स्वलङ्कृताः ॥
कक्ष्यां द्वितीयाम् आसाद्य तिष्ठन्तु नृपवेश्मनि ।
“कक्ष्याऽं प्रकोष्टम् ।
देवायतनचैत्येषु नानाभक्ष्याः सदक्षिणाः ।
उपस्थापयितव्याश् च माल्ययोगाः पृथक् पृथक् ॥
बद्धदीर्घासयो योधाः सन्नद्धा मृष्टवाससः ।
महाराजस्य भवनं प्रविशन्तु महोदयम् ॥
एवम् आज्ञाप्य तत् सर्वं कृतम् इत्य् अभ्यवेदयत् ।
सुप्रीतमनसे राज्ञे वसिष्ठो हर्षयन् पुनः ॥
तथा ।
आभिषेचनिकं द्रव्यं सर्वम् एवोपकल्पितम् ।
[१६] गङ्गायमुनयोश् चैव सङ्गमाद् आहृतं जलम् ॥
याश् चान्याः सरितः पुण्यास् ताभ्यश् च जलम् आहृतम् ।
सर्वबीजानि गन्धाश् च रत्नानि विविधानि च ॥
वाहनं नरसंयुक्तं दर्भाः सुमनसः पयः ।
अहतानि च वासांसि भृङ्गारं च हिरण्मयम् ॥
क्षीरवृक्षप्रवालैश् च पश्चात् फलविमिश्रितैः ।
पूर्णकुम्भाः स्वलङ्कृत्य काञ्चना उपकल्पिताः ॥
रसो गोरोचना चैव लाजा दधि घृतं मधु ।
तथैव पुण्यतीर्थेभ्यो मृद् आपो जङ्गमानि च ॥
चन्द्रांशुविमले चारुमणिदण्डे स्वलङ्क्र्ते ।
चामरव्यजने श्रीमद्रामार्थम् उपकल्पिते ॥
पूर्णेन्दुमण्डलाभं च श्रीमन्माल्यविभूषितम् ।
रामस्य यौवराज्यार्थम् आतपत्रं प्रकल्पितम् ॥
मत्तो गजवरश् चैव औपवाह्यः प्रतीक्षते ॥
“औपवाह्यः” राजवाह्यः ।
श्वेतश् च तुरगः श्रेष्ठो रामार्थम् उपकल्पितः ।
अष्टौ कन्याश् च मङ्गल्याः सर्वाभरणभूषिताः ॥
रूपयौवनसम्पन्ना गणिकाश् च स्वलङ्कृताः ।
श्वेतपुष्पाणि धेनुश् च निस्त्रिंशो धनुर् एव च ॥
हेमदाम्ना स्वलङ्कृत्य ककुद्मान् पाण्दुरो वृषः ।
[१७] सिंहासनं व्याघ्रचर्म समिद्धश् च हुताशनः ॥
वादित्राणि च सर्वाणि सूतमागधवन्दिनः ।
आचार्या ब्राह्मणा गावः पुण्याश् च मृगपक्षिणः ॥
पौरजानपदाः श्रेणी नैगमानां गणैः सह ।
एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः ॥
तथा रामं प्रति दशरथवाक्यम् ।
आदिष्टो ह्य् असि मे ज्येष्ठ प्रसूतः सदृशो गुणैः ।
ज्येष्ठायाम् अपि मे पत्न्यां सदृश्यां सदृशः सुतः ॥
उत्पन्नः स्वैर् गुणैर् ज्येष्ठो रामो नामात्मजः प्रियः ।
त्वया तात प्रजा ज्य् एताः स्वगुणैर् अनुरञ्जिताः ॥
तस्मात् त्वं पुष्ययोगेन यौवराज्यम् अवाप्स्यसि ॥
तथा ।
गते पुरोहिते रामस् ततो नियतमानसः ।
सह पत्न्या विशालाक्ष्या नारायणम् उपागमत् ॥
प्रगृह्य शिरसा पात्रं हविष्यं विधिवत् ततः ।
महते दैवतायाज्यं जुहाव ज्वलिते ऽनले ॥
शेषं च हविषस् तस्य प्राश्याशास्यात्मनिश्चयम् ।
द्यायन् नारायणं देवं स्थण्डिले कुशसंस्तरे ॥
वाग्यतः सह वैदेह्या भूत्वा व नियतात्मवान् ।
श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥
कृतोपवासं रामं तु वैदेह्या सहितं तदा ।
सदर्भायां क्षितौ सुप्तं शुश्राव विधिवज् जनः ॥
इत्य् अभिषेकविधिः ।
[१८]
३ — अथ राजगुणाः
तत्र शङ्खलिखितौ- “राजा दीर्घदर्शी महोत्साहः शक्तिमान् अनसूयुर् भक्तवत्सलः । त्यागी शरण्यः सर्वभूतानां संविभक्ता सत्यवाक् अमत्सरी गम्भीरो ऽमर्षणो बुधस् तेजस्वी प्रतिविधानकुशल अदीर्घसूत्रो दक्षः क्षमावान् लक्ष्यज्ञो देशकालद्रव्यप्रयोगसङ्ग्रहनिमित्तज्ञानकुशलो गूढमन्त्रप्रचारः संवृतरन्ध्रः पररन्धज्ञो दृढप्रहारी लघुहस्तो जितस्थानासनहिमातपो जितरागद्वेषलोभमत्सरः प्रजाभिरामो दीनानुग्रहकर्ता ब्राह्मणेष्व् अन्नप्रदाता श्रीयशोर्थी” ।
“दीर्घवर्शी” अनागतकार्यतत्त्वज्ञः । “गम्भीरः” अनुपलक्षितक्रोधहर्षाद्याकारः । “अमर्षणः” परसमृद्धेर् असोढा । “अदीर्घसूत्रः” अचिरक्रियः । “गूढमन्त्रप्रचारः” फलानुमितमन्त्रतत्त्वज्ञः । “सम्वृतरन्ध्रः” रन्ध्रे यत्रे परे प्रहरन्ति तदावृतं यस्य । “प्रजाभिरामः” प्रजानाम् अभिरमयिता ।
गौतमः- “राजा सर्वस्येष्टे ब्राह्मणवर्जम् । साधुकारी स्यात् साधुवादी [१९] त्रय्याम् आन्वीक्षिक्यादिकायां चाभिविनीतः शुचिर् जितेन्द्रियो गुणवत्सहायोपायसम्पन्नः समः प्रजासु स्यात् । हितं चासां प्रकुर्वीत” ।
“ईष्टे” अधिपतिर् भवति । “आन्वीक्षिकी” न्यायविद्या ।
याज्ञवल्क्यः ।
महोत्साहः स्थूललक्ष्यः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्वसम्पन्नः कुलीनः सत्यवाक् छुचिः ॥
अदीर्घसूत्रः स्मृतिमान् अक्षुद्रो ऽपरुषस् तथा ।
धार्मिनो ऽव्यसनश् चैव प्राज्ञः शूरो रहस्यवित् ॥
स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस् त्व् अथ वार्तायां त्रय्यां चैव नराधिपः ॥
“महोत्साहः” महोद्यमः । “स्थूललक्ष्यः” बहुव्ययः ।
[२०] कात्यायनः ।
विनीतः शास्त्रसम्पन्नः कोशशौर्यसमन्वितः ।
ब्रह्मण्यो दानशीलः स्यात् सत्यधर्मपरो नृपः ॥
स्तम्भोपतापपैशुन्यचापलक्रोधवर्जितः ।
प्रगल्भः सन्नतोदग्रः सम्भाषी प्रियदर्शनः ॥
वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरम् अत्यन्तं श्रीर् निषेवते ॥
“स्तम्भः” पराप्रणतिः । “उपतापो” अत्र प्रजापीडनम् । “पैशुन्यम्” परदोषाविष्करणम् । “प्रगल्भः” अपरिषद्भीरुः ।
विष्णुः ।
प्रजासुखैः सुखी राजा तद्दुःखैर् यश् च दुःखितः ।
[२१] स कीर्तियुक्तो लोके ऽस्मिन् प्रेत्य स्वर्गे महीयते ॥
याज्ञवल्क्यः ।
ब्राह्मणेषु क्षमी स्निग्धेष्व् अजिह्मी क्रोधितो ऽरिषु ।
स्याद् राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥
मनुः ।
स्वराष्ट्रे न्यायवृत्तिः स्याद् भृशदण्डश् च शत्रुषु ।
सुहृत्स्व् अजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तार्यते यशो लोके तैलबिन्दुर् इवाम्भसि ॥
कात्यायनः ।
आत्मीय संस्थिता धर्मे नृपाः शक्रत्वम् आप्नुयुः ।
अवीचिवासिनो ये तु व्यपेताचारिणः सदा ॥
गच्छेत् सम्यग् अविज्ञाय वशं क्रोधस्य यो नृपः ।
वसेत् स नरके घोरे कल्पार्धं तु न संशयः ॥
सुराध्यक्षश् च्युतः स्वर्गान् नृपरूपेण तिष्ठति ।
कर्तव्यं तेन तन् नित्यं येन तत्त्वं समाप्नुयात् ॥
इति राजगुणाः ।
[२२]
४ — अथामात्याः
तत्र नराधिप इत्य् अनुवृत्तौ याज्ञवल्क्यः ।
सन्मन्त्रिणः प्रकुर्वीत पाज्ञान् मौलान् स्थिरान् शुचीन् ।
तैः सार्द्धं चिन्तयेद् राज्यं विप्रेणाथ ततः स्वयम् ॥
“मौलान्” पितृपैतामहान् । “शुचीन्” उपधाशुद्धान् ।
मनुः ।
मौलान् शास्त्रविदः शूरांल् लब्धलक्ष्यान् कुलोद्गतान् ।
सचिवान् सप्त चाष्टौ वा प्रकुर्वीत प्रीक्षितान् ॥
[२३] “लब्धलक्ष्यान्” परिदृष्टकर्मणः ।
अपि यत् सुकरं कर्म तद् अप्य् एकेन दुष्करम् ।
विशेषतो ऽसहायेन किम् उ राज्यं महोदयम् ॥
तेषां स्वं स्वम् अभिप्रायम् उपलभ्य पृथक् पृथक् ।
समस्तानां च कार्येषु विदध्याद् धितम् आत्मने ॥
सर्वेषां तु विशेषेण ब्राह्मणेन विपश्चिता ।
मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥
नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निक्षिपेत् ।
तेन सार्धं विनिश्चित्य ततः कार्यं समाचरेत् ॥
मत्स्यपुराणे ।
तस्मात् सहायान् वरयेत् कुलीनान् नृपतिः स्वयम् ।
शूरान् कुलीनजातीयान् बलयुक्तान् श्रियान्वितान् ॥
रूपसत्त्वगुणोपेतान् सज्जनान् क्षमयान्वितान् ।
क्लेशक्षमान् महोत्साहान् धर्मज्ञांश् च प्रियंवदान् ॥
हितोपदेशकान् राज्ञः स्वामिभक्तान् सुवत्सलान् ।
एवंविधान् सहायांस् तु शुभकर्मसु योजयेत् ॥
[२४] राजगुनानुवृत्तौ कात्यायनः ।
एतैर् एव गुणैर् युक्तम् अमात्यं कार्यचिन्तकम् ।
ब्राह्मणं तु प्रकुर्वीत नृपभक्तं कुलोद्गतम् ॥
मन्त्रिणो यत्र सभ्याश् च वैद्याश् च प्रियवादिनः ।
राज्याद् धर्मात् सुखात् तत्र क्षिप्रं हीयेत पार्थिवः ॥
न तस्य वचने कोपम् एतेषां तु प्रवर्तयेत् ।
यस्माद् एतैः सदा वाच्यं न्याय्यं सुपरिनिष्ठितम् ॥
“मन्त्रिणो” राजकृत्येषु । “सभ्याः” प्रायश्चित्तादौ । “वैद्याः” चिकित्सायाम् ।
महाभारते ।
भृत्या ये तत्र योग्याः स्युः सम्यक् स्थाप्याः परीक्षिताः ।
नापरीक्ष्य महीपालः प्रकर्तुं भृत्यम् अर्हति ॥
तथा ।
न बालिशा न च क्षुद्राः नाप्राज्ञा नाजितेन्द्रियाः ।
नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा ॥
साधवः कुलजाः शूरा ज्ञानवन्तो ऽनसूयकाः ।
अक्षुद्राः शुचयो दक्षाः स्युर् नराः पारिपार्श्वकाः ॥
परीक्षेत प्रत्यहं भृत्यान् आप्तैश् चारैर् नराधिपः ।
समानशीलैर् विस्रब्धैः विवृणोति मनोगतम् ॥
[२५] मत्यपुराणे ।
कुलीनः शीलसम्पन्नो धनुर् वेदविशारदः ।
हस्तिशिक्षादिशिक्षासु कुशलः श्लक्ष्णभाषिता ॥
निमित्ते शकुनज्ञाने वेत्ता चैव चिकित्सिते ।
कृतज्ञः कर्मणां शूरस् तथा क्लेशसहो ऋजुः ॥
व्यूहतन्त्रविधानज्ञः फल्गुसारविशेषवित् ।
राज्ञा सेनापतिः कर्यो ब्राह्मणः क्षत्रियो ऽथ वा ॥
“व्यूहतन्त्रविधानज्ञः” चक्रदण्डाद्याकारसैन्यसन्निवेशो व्यूहः । तस्य “तन्त्रम्” शास्त्रम्, तेन व्यूहप्रकारं यो जानाति ।
प्रांशुः सुरूपो दक्षश् च प्रियवादी न चोद्धतः ।
चित्तग्राही च सर्वेषां प्रतीहारी विधीयते ॥
यथोक्तवादी दूतः स्याद् देशभाषाविशारदः ।
सूक्तः क्लेशसहो वाग्मी देशकालविभागवित् ॥
विज्ञाय देशं कालं च कृतं यत् यान् महीक्षितः ।
वक्तापि तस्य यः काले स दूतो नृपतेर् भवेत् ॥
[२६] प्रांशवो व्यायताः शूरा दृढभक्ता निराकुलाः ।
राज्ञा तु रक्षिणः कार्याः सदा क्लेशसहा हिताः ॥
अनाहार्यो ऽनृशंसश् च दृढभक्तिश् च पार्थिवे ।
ताम्बूलधारी भवति नारी वाप्य् अथ तद्गुणा ॥
“अनाहार्यः” परैर् अभेद्यः ।
षाड्गुण्यविधितत्त्वज्ञो देशकालविशारदः ।
सान्धिविग्रहिकः कार्यो राज्ञा नयविशारदः ॥
“षड्गुणाः” सन्धिविग्रहयानासनद्वैधीभावसंश्रयाः, तेषां विधेः प्रकारस्य वेत्ता ।
आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः ।
कृताकृतज्ञो भृत्यानां ज्ञेयः स्याद् अक्षरक्षिता ॥
“अक्षरक्षिता” अक्षपरिपालकः ।
सुरूपस् तरुणः प्रांशुर् दृढभक्तिः कुलोचितः ।
शूरः क्लेशसहश् चैवे खड्गधारी प्रकीर्तितः ॥
शूरश् च बलयुक्तश् च गजाश्वरथकोविदः ।
धनुर्धारी भवेद् राज्ञः सर्वक्लेशसहः शुचिः ॥
निमित्तशकुनज्ञान(नी) हयशिक्षाविशारदः ।
[२७] हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ॥
बलाबलज्ञो रथिनः स्थिरदृष्टिः प्रियंवदः ।
शूरश् च कृतविद्यश् च सारथिः परिकीर्तितः ॥
अनाहार्यः शुचित् दक्षश् चिकित्सितविदां वरः ।
सूपशास्त्रविधानज्ञाः सूदाध्यक्षः प्रशस्यते ॥
सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः ।
सर्वे महानसे धार्या नीचकेशनखा नराः ॥
समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः ।
विप्रमुख्यः कुलीनश् च धर्माधिकरणो भवेत् ॥
कार्यास् तथाविधास् तत्र द्विजमुख्याः सभासदः ।
सर्वदेशाक्षराभिज्ञः सर्वशास्त्रविशारदः ॥
लेखकः कथितो राज्ञः सर्वाधिकरणो बुधैः ।
शीर्षोपेतान् सुसम्पूर्णान् समश्रेणिगतान् शुभान् ॥
अक्षरान् वै लिखेद् यस् तु लेखकः स वरः स्मृतः ।
उपायवाक्यकुशलः सर्वशास्त्रविशारदः ॥
बह्वर्थवक्ता चाल्पेन लेखकः स्यान् नृपोत्तम ।
[”उपायाः" सामदानभेददण्डाह् । तेषु वाक्ये च निपुणः ।
वाक्याभिप्रायतत्त्वज्ञो देशकालविभागवित् ।
[२८] अनाहार्यो नृपे भक्ते लेखकः स्यान् नृपोत्तम ॥ ]
पुरुषान्तरतत्त्वज्ञाः प्रांशवश् चाप्य् अलोलुपाः ।
धर्माधिकरणैः कार्या जनाह्वानकरा नराः ॥
एवंविधास् तथा कार्या राज्ञा दौवारिका जनाः ।
लोहवस्त्राजिनादीनां रत्नानां च विधानवित् ॥
विज्ञाता फल्गुसाराणाम् अनाहर्यः शुचिः सदा ।
**[**निपुणश् चाप्रमत्तश् च धनाध्यक्षः प्रकीर्तितः ॥
आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः ।
व्ययद्वारेषु च तथा कर्तव्या पृथिवीक्षिता ॥
परस्परागतो यः स्याद् अष्टाङ्गे तु चिकित्सिते ।
अनाहार्यः स वैद्यः स्याद् धर्मार्त्मा च कुलोद्गतः ॥
प्राणाचार्यः**]** स विज्ञेयो वचनं तस्य भूभुजा ।
राजन् राज्ञा सदा कार्यं यथा कार्यं पृथग्जनैः ॥
हस्तिशिक्षाविधानज्ञो वनजातिविशारदः ।
क्लेशक्षमस् तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥
एतैर् एव गुणैर् युक्तः स्वासनश् च विशेषतः ।
गजारोही नरेन्द्रस्य सर्वकर्मसु शस्यते ॥
“स्वासनो” दृढासनः ।
[२९] हयशिक्षाविधानज्ञश् चिकित्सितविशारदः ।
अश्वाध्यक्षो महीभर्तुः स्वासनश् च प्रशस्यते ॥
अनाहार्यश् च शूरश् च तथा प्राज्ञः कुलोद्गतः ।
दुर्गाध्यक्षः स्मृतो राज्ञ उद्युक्तः सर्वकर्मसु ॥
वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः ।
दीर्घदर्शी च शूरश् च स्थपतिः परिकीर्तितः ॥
यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते ।
अस्त्राचार्यो निरुद्वेगः कुशलश् च विशिष्यते ॥
“यन्त्रमुक्ते” शरादौ । “पाणिमुक्ते” शक्त्यादौ । “अमुक्ते” कड्गादौ । “मुक्तधारिते” यष्ट्यादौ ।
वृद्धः कुलोद्गतः सूक्तः पितृपैतामहः शुचिः ।
राज्ञाम् अन्तःपुराध्यक्षो विनीतश् च तथेष्यते ॥
पञ्चाशाब्दाधिका योषाः पुरुषाः सप्ततेः परे ।
अन्तःपुरचराः कार्या राज्ञा सर्वेषु कर्मसु ॥
स्थापनाजातितत्त्वज्ञः सततं प्रतिजाग्रतः ।
राज्ञः स्याद् आयुधागारे दक्षः कर्मसु चोद्यतः ।
“स्थापना” आयुधयन्त्राणाम् उचितदेशनिवेशः । “जातयः” आयुधादीनाम् अन्तरभेदाः ।
[३०] कर्माण्य् अपरिमेयानि राज्ञो नृपकुलोद्वह ।
उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिवः ॥
उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ।
नर्कर्मविपर्यासाद् राजा नाशम् अवाप्नुयात् ॥
“नरकर्मविपर्यासाद्” इति उत्तमे कर्मण्य् अधमं मध्यमे कर्मण्य् उत्तमं नियोजयन् नश्यति ।
नियोगं पौरुषं भक्तिं श्रुतं शौर्यं कुलं नयम् ।
ज्ञात्वा वृत्तिर् विधातव्या पुरुषाणां महीक्षिता ॥
शङ्खलिखितौ- “न गृध्नुपरिवारः स्यात् कामं गृध्नू राजा श्रेयान् न सपरिवारः परिवाराद् धि दोषाः प्रादुर्भवन्ति ते ऽलं विनाशाय तस्मात् पूर्वम् एव तत्परिवारं लिप्सेत” ।
श्रुतशीलोपपन्नान् मन्त्रिणो ऽभिधाय मनुः ।
अन्यान् अपि प्रकुर्वीत शुचीन प्राज्ञान् अवस्थितान् ।
आप्तान् अर्थसमाहर्तॄन् अमात्यान् सुपरीक्षितान् ॥
निवर्तेतास्य यावद्भिर् इतिकर्तव्यता नृभिः ।
तावतो ऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥
शङ्खलिखितौ- “सर्वेषां राजकुलरक्षणम्, कोशपरिपालनम्, गोब्राह्मणपरित्राणम्, [३१] साम्परायिकम्, क्रियासाधारणत्वाद् अनुजीविनां विशेषेण चारप्रतिचारौ मन्त्रप्रणिधयश् च सर्पास् तत्प्रयोजनत्वात् प्रत्यक्षा परोक्षा वृत्तिस् तस्य राज्ञो भवेद् एकान्ततो हि दोषः, तस्माद् भृत्यपक्षाः क्रोधलोभमानभयदोषोपहताः संलपिता विमानिताभ्याख्याता दानमानस्थानव्यवरोपिता हृतसर्वस्वाः स्वदोषोपहतादयः सततं प्रत्यवेक्षितव्याः । धर्मार्थनितेष्व् एतेषां यतेत स्वविषयाश्रावः परविषयभेदः सामादिभिर् उपायैः मन्त्रज्ञेषु मन्त्रकर्मकरेषु दण्डकर्मवीराः महत्स्व् आत्मनि च धर्मनित्याः, सङ्ग्रहेष्व् अलुब्धाः, प्रत्यन्तेषु मौलाः, शुचयो ऽर्थकृत्येषु अन्येषु यथानुरूपं नियोज्याः” ।
“सर्वेषाऽं अमात्यानाम् । “सम्परायो” युद्धं तदुपयोगी साम्परायिकम् । “क्रियासाधारणत्वात्” राज्यरक्षणरूपैकक्रियत्वात् । “चारो” जनपदचरितज्ञानाय प्रच्छन्नचारी । तच्चरितज्ञः प्रच्छन्नः “प्रतिचारः” । “मन्त्रप्रणिधयः” राज्ञो मन्त्रान्वेष्टारः । एते परराजसम्बन्धिनः सर्पाः शङ्कनीया इत्य् अर्थः । “तत्प्रयोजनत्वात्” यतस् तद् एव चरितज्ञानं चारादीनां प्रयोजनम् । “प्रत्यक्षा वृत्तिः” स्वयं कार्यदर्शनम् । “परोक्षा” चारैः चरितज्ञानम् । “एकान्ततः” अन्यतरवृत्तिमात्राश्रयेण । “भृत्यपक्षाः” भृत्याः । पूर्वं सम्मानिताः पश्चाद् विमानिताः । “अभ्याख्यानम्” आभिमुख्येन गुणाख्यानम् । “दानमानस्थानव्यवरोपिताः” दानेन व्यवरोपिता मानेन व्यवरोपिताः स्थानेन व्यवरोपिताः । “स्वदोषोपहताः” आत्मदोषदूषिताः एवमादयः “सततं प्रत्यवेक्षितव्याः” तेन [३२] कारणेन । “एतेषाऽं सम्बन्धिषु धर्मादिषु यतेत । “स्वविषयाश्रावः” स्वविषयमन्त्रस्याश्रावणम् अप्रकाशनं कार्यम् । “महत्सु” कार्येषु “स्वात्मनि” रक्षितव्याः । “धर्मनित्या” धार्मिकाः । “सङ्ग्रहेषु” अर्थस्येति शेषः । “प्रयन्तेषु” स्वमण्डलप्रत्यन्तदेशेषु “मौलाः” तद्देशजाताः ।
विष्णुः- “आकर [लवण] शुल्कतरनागवनेष्व् आप्तान् नियुञ्जीत । धर्मिष्ठान् धर्मकार्येषु । निपुणान् अर्थकार्येषु । शूरान् सङ्ग्रामकार्येषु । उग्रानुग्रेषु । षण्ढान् स्त्रीषु” ।
मनुः ।
तेषाम् अर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।
शुचीन् आकरकर्मान्ते भीरून् अन्तर्निवेशने ॥
सांवत्सरिकम् आप्तैश् च राष्ट्राद् आहारयेद् बलिम् ।
स्याद् आश्रयपरो लोके वर्तेत पितृवन् नृषु ॥
अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः ।
[३३] तेऽस्य सर्वाण्य् अवीक्षेरन् नृणाम् कार्याणि कुर्वताम् ॥
“सांवत्सरिकं बलिम्” संवत्सरग्राह्यं करम् ।
तथा ।
दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।
इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥
अनुरक्तः शुचिर् दक्षः स्मृतिमान् देशकालवित् ।
वपुष्मान् वीतभीर् वाग्मी दूतो राज्ञः प्रशस्यते ॥
अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
नृपतौ कोशराष्ट्रे तु दूते सन्धिविपर्ययौ ॥
दूत एव हि सन्धत्ते भिनत्त्य् एव च संहतान् ।
दूतस् तत् कुरुते कर्म भिद्यन्ते येन मानवाः ॥
स विद्याद् अस्य कृत्येषु निगूढेङ्गितचेष्टितैः ।
आकारम् इङ्गितं चेष्टां कृत्येषु च चिकीर्षितम् ॥
बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् ।
तथा प्रयत्नम् आतिष्ठेद् यथात्मानं न पीडयेत् ॥
महाभारते ।
न तु हन्यान् महीपालो दूतं कस्याञ्चिद् आपदि ।
दूतहन्ता तु नरकम् आविशेत् सचिवैः सह ॥
[३४] श्रीरामायणे ।
दूता न वध्याः प्रवदन्ति सन्तो दूतस्य दण्डा बहवः प्रदिष्टाः ।
वैरूप्यम् अङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसन्निपातः ॥
एतान् हि दूते प्रवदन्ति दण्डान् दूतस्य दण्डो हि वधो न दृष्टः ॥
इत्य् अमात्याः ।
अथानुजीविवृत्तम्
तत्र मत्स्यपुराणे मत्स्य उवाच ।
यथानुवर्तितव्यं स्यान् मनो राज्ञो ऽनुजीविभिः ।
तथा ते कथयिष्यामि निबोध गदतो मम ॥
ज्ञात्वा सर्वात्मना कार्यं स्वशक्त्या रविनन्दन ।
आक्षिप्य वचनं तस्य न वक्तव्यं कदाचन ॥
अनुकूलं प्रियं त्व् अस्य वक्तव्यं जनसंसदि ।
रहोगतस्य वक्तव्यम् अप्रियं यद् धितं भवेत् ॥
[३५] यथार्थम् अस्य वक्तव्यं स्वस्थे चेतसि पार्थिव ।
स्वार्थः सुहृद्भिर् वक्तव्यो न स्वयं हि कदाचन ॥
कार्यातिपातः सर्वेषु रक्षितव्यः प्रयत्नतः ।
न च हिंस्याद् धनं किञ्चिन् नियुक्तेन च कर्मणि ॥
नोपेक्ष्यं तस्य मानं च तस्य राज्ञः प्रियो भवेत् ।
राज्ञश् च तथा कार्यं वेषभाषितचेष्टितम् ॥
राजलीला न कर्तव्या तद्द्विष्टं च विवर्जयेत् ।
अन्तःपुरजनाध्यक्षवैरीभूतैर् निराकृतैः ॥
शंसनं न व्रजेद् राजन् विना पार्थिवशासनम् ।
निःस्नेहतां चावमानं तत् प्रयत्नेन गोपयेत् ॥
यच् च गुह्यं भवेद् राज्ञो न तल् लोके प्रकाशयेत् ।
नृपेण श्रावितं यत् स्याद् गुह्यागुह्यं नृपोत्तम ॥
न तत् संश्रावयेल् लोके तथा राज्ञः प्रियो भवेत् ।
आज्ञाप्यमाने वान्यस्मिन् समुत्थाय त्वरान्वितः ॥
अहं किं करवाणीति वाच्यो राजा विजानता ।
कार्यावस्थां च विज्ञाय कार्यम् एतत् तथा भवेत् ॥
सततं क्रियमाणे ऽस्मिंल् लाघवं तु भवेद् ध्रुवम् ।
[३६] राज्ञः प्रियाणि वाच्यानि न चात्यर्थं पुनः पुनः ॥
न हास्यशिलस् तु भवेन् न वापि भृकुटीमुखः ।
नातिवक्ता न निर्वक्ता न च मात्सरिकस् तथा ॥
आत्मसम्भावितश् चैव न भवेत् तु कथञ्चन ।
दुष्कृतानि नरेन्द्रस्य न तु सङ्कीर्तयेत् क्वचित् ॥
वस्त्रम् अस्त्रम् अलङ्कारं राज्ञा दत्तं तु धारयेत् ।
औधार्येण न तद् देयम् अन्यस्मै भूतिम् इच्छता ॥
न चैवात्यशनं कार्यं दिवास्वप्नं न कारयेत् ।
नानिर्दिष्टे तथा द्वारे प्रविशेत् तु कथञ्चन ॥
न च पश्येत् तु राजानम् अयोग्यासु च भूमिषु ।
राज्ञस् तु दक्षिणे पार्श्वे वामे वोपविशेत् तदा ॥
पुरस्ताच् च तथा पश्चाद् आसनं तु विगर्हितम् ।
जृम्भां निष्ठीवनं कासं कोपं पर्यस्तिकाश्रयम् ॥
भ्रुकुटिं वान्तम् उद्गारं तत्समीपे विवर्जयेत् ।
स्वयं तत्र न कुर्वीत स्वगुणाख्यापनं बुधः ॥
स्वगुणाख्यापने युक्त्या परम् एव प्रयोजयेत् ।
हृदयं निर्मलं कृत्वा परां भक्तिम् उपाश्रितैः ॥
अनुजीविगणैर् भाव्यं नित्यं राज्ञाम् अतन्द्रितैः ।
शाठ्यं लौल्यं च पैशुन्यं नास्तिक्यं क्षुद्रता तथा ॥
चापल्यं च परित्याज्यं नित्यं राज्ञो ऽनुजीविभिः ।
श्रुतेन विद्याशिल्पैश् च संयोज्यात्मानम् आत्मना ॥
[३७] राजसेवां ततः कुर्याद् भूतये भूतिवर्धनीम् ।
नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः ॥
सचिवैश् चास्य विश्वासो न तु कार्यः कथञ्चन ।
अपृष्टश् चास्य न ब्रूयात् कामं ब्रूयात् तथापदि ॥
हितं पथ्यं च वचनं हितैः सह सुनिश्चितम् ।
चित्तं चैवास्य विज्ञेयं नित्यम् एवानुजीविना ॥
भर्तुर् आराधनं कुर्यात् चित्तज्ञो मानवः सुखम् ¦
रागापरागौ चैवास्य विज्ञेयौ भूतिम् इच्छता ॥
त्यजेद् विरक्तं नृपतिं रक्ताद् वृत्तिं तु कारयेत् ।
विरक्तः कारयेन् नाशं विपक्षाभ्युदयं तथा ॥
आशावर्धनकं कृत्वा फलनाशं करोति च ।
अकोपो ऽपि सकोपाभः प्रसन्नो ऽपि न निष्फलः ॥
वाक्यं समन्दं वदति वृत्तिच्छेदं करोति च ।
प्रदेशवाक्यैर् मुदितो न सम्भावयते ऽन्यथा ॥
आराधनासु सर्वासु सुप्तवच् च विचेष्टते ।
कथासु दोषं क्षिपति वाक्यभङ्गं करोति च ॥
लज्जते ऽभिमुखश् चैव गुणसङ्कीर्तने ऽपि च ।
दृष्टिं क्षिपत्य् अथान्यत्र क्रियमाणे च कर्मणि ॥
विरक्तलक्षणं ह्य् एतच् छृणु रक्तस्य लक्षणम् ।
दृष्ट्या प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ॥
कुशलादिपरिप्रश्नं सम्प्रयच्छति चासनम् ।
विविक्तदर्शने चास्य रहस्य् एनं न शङ्कते ॥
३८] [जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम् ।
अप्रियाण्य् अपि वाक्यानि तद् उक्तान्य् अभिनन्दते ॥ ]
उपायनं च गृह्णाति स्तोकम् अप्य् आदरात् तथा ।
कथान्तरेषु स्मरति प्रहृष्टवदनस् तथा ॥
इति रक्तस्य कर्तव्या सेवा रविकुलोद्वह ।
आपत्सु न त्यजेत् पूर्वं विरक्तम् अपि सेवितम् ॥
मित्रं न चापत्सु तथा च भृत्यं त्यजन्ति ये निर्गुणम् अप्रमेयम् ।
प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रदामामरवृन्दजुष्टम् ॥
इत्य् अनुजीविवृत्तम् ।
[३९]
५ — अथ दुर्गाणि
याज्ञवल्क्यः ।
रम्यं पशव्यम् आजीव्यं जाङ्गलं देशम् आवसेत् ।
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥
“पशव्यम्” पशुभ्यो हितम् । “जाङ्गलम्” उच्चभूभागप्रायम् ।
मनुः ।
जाङ्गलं सस्यसम्पन्नम् आर्यप्रायम् अनाविलम् ।
रम्यम् आनतसामन्तं स्वाजीव्यं देशम् आवसेत् ॥
मत्स्यपुराणे ।
वैश्यशूद्रजनप्रायम् अनाहार्यं तथा परैः ।
[४०] किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥
अदेवमातृकं रम्यम् अनुरक्तजनावृतम् ।
करैर् अपीडितं वापि बहुपुष्पफलं तथा ॥
अगम्यं परचक्राणां तद् वासगृहम् आपदि ।
समदुःखसुखं राज्ञः सततं च प्रिये स्थितम् ॥
सरीसृपविहीनं च व्यालतस्करवर्जितम् ।
एवंविधं यथालाभं राजा विषयम् आवसेत् ॥
मनुः ।
धन्वदुर्गं महीदुर्गं मृद्दुर्गं वार्क्षम् एव च ।
नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत् पुरम् ॥
“धन्वम्” मरुभूमिः । “महीदुर्गम्” अतिनिम्नोन्नता भूमिः । “वार्क्षऽं वनदुर्गम् ।
बृहस्पतिः ।
आत्मदारार्थलोकानां सञ्चितानां च गुप्तये ।
नृपतिः कारयेद् दुर्गं प्राकारद्वारसंयुतम् ॥
[४१] मनुः ।
सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
बाहुगुण्येन तेषां हि गिरिदुर्गं विशिष्यते ॥
तथा ।
एकः शतं योधयति प्रासादस्थो धनुर्धरः ।
शतं शतसहस्राणि तस्माद् दुर्गं विशिष्यते ॥
बृहस्पतिः ।
भूतानाम् इन्धनरसैर् वेत्रशष्पान्नवाहनैः ।
यन्त्रायुधैश् च विविधैः स्निग्धैः शूरैर् नरैर् युतम् ॥
वेदविद्याविदो विप्रान् क्षत्रियान् अग्निहोत्रिणः ।
आहृत्य स्थापयेत् तत्र तेषां वृत्तिं प्रकल्पयेत् ॥
अनाच्छेद्याः करास् तेभ्यः प्रदेया गृहभूमयः ।
मुक्ता भाव्याश् च न्र्पतेर् लेखयित्वा स्वशासने ॥
नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं सदा ।
पौराणां कर्म कुर्युस् ते सन्दिग्धे विनयं तथा ॥
समा निम्नोन्नता वापि यत्र भूमिर् यथाविधा ।
[४२] शालाट्टपरिखाद्याश् च कर्तव्याश् च तथाविधाः ॥
समन्तात् तत्र वेश्मानि कुर्युः प्रकृतयस् ततः ।
द्विजवैद्यवणिक्शिल्पिकारुकारक्षकास् तथा ॥
स्थलावस्थाननिष्काशभ्रमश्वभ्रचतुष्पथान् ।
समाजविक्रयस्थानगोव्रजांश् चैव कल्पयेत् ॥
“सिद्धैः” अनुरक्तैः । “भूमय” इति विभक्तिव्यत्ययः । आराध्यकरविशेषः ।
इति दुर्गाणि ॥
अथ पुरनिर्माणम्
तत्र मत्स्यपुराणे ।
गोपुरं सकपाटं च तत्र स्यात् सुमनोहरम् ।
सपताकं गजारूढो येन राजा विशेत् पुरम् ॥
चतस्रश् च तथा तत्र कार्याश् चापणवीथयः ।
एकस्मिंस् तत्र वीथ्यग्रे देववेश्म भवेद् दृढम् ॥
वीथ्यग्रे च द्वितीये च राजवेश्म विधीयते ।
धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ॥
[४३] चतुर्थे चैव वीथ्यग्रे गोपुरं तु विधीयते ।
आयतं चतुरस्रं वा वृत्तं वा कारयेत् पुरम् ॥
स्रक्तिहीनं त्रिकोणं च यवमध्यं तथैव च ।
अर्धचन्द्रप्रकारं च वज्राकारं च कारयेत् ॥
अर्धचन्द्रं प्रशंसन्ति नदीतीरेषु तद्वशात् ।
अन्यत्र तत्र कर्तव्यं प्रयत्नेन विजानता ॥
“गोपुरम्” पुरद्वारम् । आयतम्” दीर्घम् । “स्रक्तिहीनम्” कोणरहितम् ।
बृहस्पतिः ।
दुर्गमध्ये गृहं कुर्याज् जलवृक्षान्वितं पृथक् ।
प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत् सभाम् ॥
माल्यधूपासवोपेतां वीररत्नसमन्विताम् ।
प्रतिमालेख्यदेवैस् तु युक्ताम् अग्न्यम्बुना तथा ॥
मत्स्यपुराणे ।
राज्ञा कोशगृहं कार्यं दक्षिणे राजवेश्मनः ।
तस्यापि दक्षिणे भागे गजस्थानं विधीयते ॥
गजानां प्राङ्मुखी शाला कर्तव्या वाप्य् उदङ्मुखी ।
आग्नेये च तथा भागे आयुधागारम् इष्यते ॥
[४४] महानसं च धर्मज्ञः कर्मशालास् तथा पराः ।
गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ॥
मन्त्रिवेदविदश् चैव चिकित्साकर्तुर् एव च ।
तत्रैव च तथा भागे कोष्ठागारं विधीयते ॥
गवां स्थानं तथैवात्र तुरगाणां तथैव च ।
उत्तराभिमुखा श्रेणी तुरङ्गाणां विधीयते ॥
प्राङ्मुखी वाथ धर्मज्ञ प्रिशिष्टास् तु गर्हिताः ।
तुरगास् ते तथा धार्याः प्रदीपे सर्वरात्रिकैः ॥
कुक्कुटान् वानरांश् चैव मर्कटांश् च विशेषतः ।
धारयेद् अश्वशालासु सवत्सां धेनुम् एव च ॥
अजाश् च धर्या यत्नेन तुरगाणां हितैषिणा ।
गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमः ॥
अस्तङ्गते न कर्तव्या देवदेवे दिवाकरे ।
ततस् तत्र यथास्थानं राजा विज्ञाय सारथीन् ॥
दद्याद् आवसथस्थानं सर्वेषाम् अनुपूर्वशः ।
योधानां शिल्पिनां चैव सर्वेषाम् अविशेषतः ॥
[४५] दद्याद् आवसथान् दुर्गे मन्त्रकालविदां शुभान् ।
गोवैद्यान् अश्ववैद्यांश् च गजवैद्यांस् तथैव च ॥
आहरेत भृशं राजा दुर्गे हि प्रबला रुजः ।
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ॥
न बहुनामतो दुर्गं विना कार्यं तथा भवेत् ।
दुर्गे च यन्त्राः कर्तव्या नानाप्रहरणान्विताः ॥
सहस्रघातिनो राज्ञा तैस् तु रक्षा विधीयते ।
दुर्गे द्वाराणि गुप्तानि कार्याण्य् अपि च भूभुजा ॥
सञ्चयश् चात्र सर्वेषाम् आयुधानां प्रशस्यते ।
धनुषां क्षेपणीयानां तोमराणां च पार्थिव ॥
शराणाम् अथ खड्गानां कवचानां तथैव च ।
लगुडानां गुडानां च हुडानां परिघैः सह ॥
अश्मनां च प्रभूतानां मुद्गराणां तथैव च ।
त्रिशूलानां पट्टिशानां कणपानां च पार्थिव ॥
प्रासानां च सशूलानां शक्तीनां च नरोत्तम ।
परश्वधानां चक्राणां वर्मणां चर्मभिः सह ॥
कुद्दालरज्जुवेत्राणां पिटकानां तथैव च ।
हिंसकानां च दात्राणाम् अङ्गाराणां च सञ्चयाः ॥
सर्वेषां शिल्पिभाण्डानां सञ्चयश् चात्र शिष्यते ।
वादित्राणां च सर्वेषाम् ओषधीनां तथैव च ॥
यवसानां प्रभूतानाम् इन्धनस्य च सञ्चयः ।
गुडस्य सर्वतैलानां गोरसानां तथैव च ॥
[४६] वसानाम् अथ मज्जानां स्नायूनाम् अस्थिभिः सह ।
गोचर्मपटहानां च धान्यानां सर्वतस् तथा ॥
तथैवाभ्रपटानां च यवगोधूमयोर् अपि ।
रत्नानां सर्ववस्त्राणां लोहानाम् अप्य् अशेषतः ॥
कलायमुद्गमाषाणां चणकानां तिलैः सह ।
तथा च सर्वसस्यानां पांसुगोमययोर् अपि ॥
शणसर्जुरसम्पूर्णं जतुलाक्षा च टङ्कणम् ।
राजा सञ्चिनुयाद् दुर्गे यच् चान्यद् अपि किञ्चन ॥
कुम्भेष्व् आशीविषाः कार्याः व्यालसिंहादयस् तथा ।
मृगाश् च पक्षिणश् चैव रक्ष्यास् ते च परस्परम् ॥
स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक् ।
कर्तव्यानि महाभाग यत्नेन पृथिवीक्षिता ॥
तथा ।
यन्त्रायुधाट्टालमयोपपन्नं समग्रधान्यौषधिसम्प्रयुक्तम् ।
वणिग्जनैश् चावृतम् आवसेत दुर्गं सुगुप्तं नृपतिः सदैव ॥
तथा ।
शिरीषोदुम्बरशमीबीजपूर्णं घृतप्लुतम् ।
क्षुद्योगः कथितो राजन् मासार्धस्य पुरातनैः ॥
[४७] कशेरूत्फलमूलानि इक्षुमूलं तथाविधम् ।
पूर्वाक्षीरघृतैर् मण्डः सिद्धो ऽयं मासिकः परः ॥
नरं शस्त्रहतं प्राप्य तस्यास्थि अरणिर् भवेत् ।
कल्माषवेणुना तत्र जनयेत् तु विभावसुम् ॥
गृहे त्रिर् अपसव्यं तु क्रियते यत्र पार्थिवः ।
नान्यो ऽग्निर् ज्वलते तत्र नात्र कार्या विचारणा ॥
कार्पासास्थ्नि भुजङ्गस्य तथा निर्मोचनं भवेत् ।
सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ॥
सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका ।
तथानुलिप्तं यद् वेश्म नाग्निना दह्यते नृप ॥
दिवा च दुर्गे रक्ष्यो ऽग्निर् वाति वाते विशेषतः ॥
इति पुरनिर्माणम् ।
अथ परभूशुद्धिः
तत्र देवीपुराणे, इन्द्र उवाच ।
कीदृशं तु पुरं कार्यं नगरं कीदृशं शुभम् ।
कस्मिन् स्थाने सुरश्रेष्ठ एतद् इच्छामि वेदितुम् ॥
[४८] ब्रह्मोवाच ।
सर्वौषधिभवे देशे सर्वलोकसुखावहे ।
पूर्वोत्तरप्लवे स्थाने कार्यं शक्रपुरादिकम् ॥
शर्कराद्यश्मरहिते कटुकण्टकवर्जिते ।
संहते पांसुरहिते कुशादिभिर् अनावृते ॥
चलगन्धसमायुक्ता मही स्वादोपलक्षिता ।
चण्डालपतितत्यक्ता शरावशकलैर् विना ॥
देवावासपरित्यक्ताह् निराभाधा मनोरमाह् ।
उदगाधिप्लवा गाधा वैषम्यादिविवर्जिता ॥
शुद्धा सा दहनाद्यैश् च अथ चण्डेश्वरान्विता ।
सर्वेश्वरयुता वापि अन्यथा भयदा मही ॥
पूर्ववर्णविपर्यस्ता स्थानकालादिसूत्रगा ।
स्वामिश्रेष्ठिपुरादीनां भयदा जायते मही ॥
कश्मलाद्यैः परिक्लिष्टा पूतनादिसमाकुला ।
पताकी वर्जनीया तु सर्वदोषकरी मही ॥
वत्सरं या परित्यक्ता कृष्णधान्यरुहा च या ।
सा मही शुभदा ज्ञेया या च तृप्तिकरी भवेत् ॥
रक्ष्या देव्यः सदैवात्र पूजनीयाः स्वभागगाः ।
स्थानानि कल्पयेत् तासाम् अधिवासं तु कारयेत् ॥
“चण्डेश्वरो” महादेवस्य गणविशेषः । “अधिवासः” स्थापनम् ।
[४९] तथा ।
चतुर्दण्डः प्रकर्तव्यो भूमाव् आदौ परिग्रहः ।
गां सवत्सां समादाय कुम्भं धान्यम् अयं तथा ॥
सवस्त्रं हेमगर्भं तु सहकारदलान्वितम् ।
पृथ्वीं सङ्कल्पयेत् तस्मिन् मेरुकर्णिकशोभिताम् ॥
वनशौलसमायुक्तां सागरैः परिवेष्टिताम् ।
एवं सम्पूजयित्वा तु देवदेवं त्रिलोचनम् ॥
कुमारादिशिवादींश् च विचार्यादिमहामहीम् ।
सूर्यादिलोकपालादिनागपक्षादिदेवताः ॥
पूर्वं सम्पूजयित्वा तु पश्चाद् दद्याद् दिशां बलिम् ।
स्वप्नमाणवकं जप्त्वा शेते तत्र यथासुखम् ॥
आचार्यः सूत्रदारश् च शुभं स्वप्नं निशाक्षये ।
निमित्तं शकुनं दृष्ट्वा सूत्रयेल् लक्षितां दिशम् ॥
-
“स्वप्नमाणवकम्” “यज् जाग्रत” इति ।
चित्रास्वत्यन्तरे पूर्वा पुष्यपित्र्यसमागमे ।
उत्तराध्रुवमध्यस्थाः शेषाः सिद्धा यथागमम् ॥
“चित्रास्वात्यात्योर्” उदितयोर् मध्ये या, तथा पुष्यमघानक्षत्राभ्यां चार्जवेन संयुता सा पूर्वदिग् इत्य् अर्थः ।
[५०] शकुना तदभावे तु पूर्वासां साधयेद् द्विजः ।
एवं दिशासु सुद्धासु सूत्रपातं समाचरेत् ॥
आचार्यं पूजयित्वा तु सूत्रधारं द्विजोत्तमान् ।
देवतायतनं पूर्वम् आचार्यं ब्राःमणौकसम् ॥
राजधाम तु शेषांस् तु गृहान् वर्णक्रमाद् गुरुः ।
पुरं वृत्तायतं कार्यं त्र्यस्रं वा चतुरस्रकम् ॥
यथा स्थानविभागेन हट्टशोभासमन्वितम् ।
राजदामाग्रतः कार्यं देवधाम अथापि वा ॥
सुसूत्रं देवतायुक्तं शिवमातृगणावृतम् ।
मङ्गला धनुहा कार्या मध्यान्ते सर्वसिद्धिदा ॥
न सूर्याद् वह्नियाम्ये वा नैरृते वा हरिः क्वचित् ।
न विष्णुः पश्चिमे सौम्ये वायव्यां कारयेच् छिवम् ॥
कृते विनश्यते कर्ता तत्स्थानं चोद्वसं भवेत् ।
[देवो न पूज्यते तत्र तस्मिन् स्थाने स्वके शुभे ॥
विसूत्रेषु प्रवक्ष्यामि येन शान्तिं शुभं भवेत् । ]
नगराणां पुराणाम् च देवानां गोपुरादिषु ॥
विमार्गेषु शिवः शस्तः सम्मुखः सौम्यभागगः ।
सौम्याग्रे सर्वतो दुर्गे पुरं नन्दति रक्षितम् ॥
तस्माद् दुर्गः प्रकर्तव्यो नगरेषु पुरादिषु ।
[५१] महालक्ष्म्यादिका शक्र क्षेमकारी सचण्डिका ॥
मङ्गला मङ्गलारूपा महिषघ्नी शिवानना ।
यथा स्थानविभागस्था सर्वलोके सुखावहा ॥
महालक्ष्मीः पुरः शस्ता आग्नेये महिषापहा ।
याम्यां चैव शिवा प्रोक्ता चर्चिका पश्चिमे पुरात् ॥
उत्तरे शुभदा क्षेमा पञ्चैताः शान्तिदाः पुरे ।
नगरे नव कर्तव्या दुर्गे पञ्चैव चण्डिकाः ॥
तथा ।
नगरं देवतावीतं समस्तप्रकृतीयुतम् ।
सप्त पञ्च पुरैः कार्यं मण्डपैर् उपशोभितम् ॥
कोष्टकाः सश्रियः कार्या मण्डपाद् अग्रतः शुभाः ।
एवं देवालयोपेतं सुवर्नवर्णसमन्वितम् ॥
नवदुर्गसमायुक्तं नगरं परिकीर्तितम् ।
पुरं हट्टसमायुक्तं देवतादिसमाकुलम् ॥
हट्टं हेममणिर् वस्त्रं पत्रोर्णा चर्मविक्रयम् ।
सुरापेयादिकं यस्मिंस् तत् पुरं पत्तने शृणु ॥
असंहतं समं कार्यं वणिक् हट्टं सुशोभनम् ।
सुरनाम स्वनामं वा पत्तनं सर्वकामदम् ॥
[५२] अवेधं कारयेत् पङ्कगर्तादिभिः सुरोत्तम ।
उभयोर् अन्तरे कार्यं देवतायतनादिकम् ॥
देवलक्ष्मविहीनं तु समदृष्टिगतं शुभम् ।
चिह्नदृष्टिगते देवे न दृष्टेः सन्निरूपणम् ॥
समे मानसमायुक्ते कार्यदृष्टिसमा शुभा ।
ऊनाधिका न कर्तव्या व्यालसिंहादिनावृते ॥
एवं कुर्यात् पुत्रे हट्टं प्राकारान्तर्गतं शुभम् ।
चतुर्हस्तं समं कार्यं समसूत्रं सुशोभनम् ॥
पथः समं पुरं कार्यं सममार्गविनिर्गमम् ।
चतुष्पथानि शुद्धानि नित्यं पूजायुतानि च ॥
देवान्तराणि कार्याणि स्वाधिकार्यावृतानि च ।
देवान्तरेषु मन्त्रज्ञाः स्वे स्वे देशाः शुभावहाः ॥
भिन्ना बहुप्रदा लोके यथाशस्तपरिग्रहः (?) ।
न शुभा मन्त्रहीनास् तु द्विजाद्या नैष्ठिकास् तथा ॥
चर्चिकाद्यास् तथा शक्र मन्त्रहीना भयावहाः ।
अग्रतः पृष्ठतो देवा उभयोः पार्श्वयोर् द्विजाः ॥
हस्तानां तु शतं त्याज्यं नृपराष्ट्रसुखार्थिभिः ।
दृष्टिभङ्गो न कर्तव्यो रक्षेद् देवीषु यत्नतः ॥
दण्डाष्टकं सुविस्तीर्णं कृते राजा विनश्यति ।
[५३] तस्माद् दृष्टिः सदा देया तोरणान्तर्गता शुभा ॥
अष्टहस्तं सुशोभाढ्यं शैलवृक्षमयं च वा ।
तोरणं शस्यते देव्या वापीकूपजलं वनम् ॥
पूर्वोत्तरं तथैशान्याम् आरामः शुभदः कृतः ।
देवीनां मातृकाणां च स भवेत् सर्वकामदः ॥
यथाशुभग्रहाद् दैवाद् यच् च कालकृतं भवेत् ।
तत् सर्वं देवतागारे कृते भवति शोभनम् ॥
बलिजाप्यक्रिया नित्यं मातॄणां च शुभा भवेत् ।
पुरपत्तनग्रामाणां ब्रह्मपुर्यः सकामदाः ॥
ब्रह्मविद्याकलोपेता यत्र वेदविदो ऽवसन् ।
सा पुरी कमला नाम सर्वलोकसुखावहा ॥
विद्या ह्य् एका तथा द्वित्रा चतस्रो यत्र संस्थिताः ।
रुद्रो देवी सविजया गायत्री चक्रम् आत्मना ॥
गृहाः पङ्क्तिगताः कार्याः शुभवर्त्म ऋजुस्थिताः ।
पूर्वोत्तरसुमार्गस्थाः सजला देवतान्विताः ॥
ब्रह्मत्रिदशपूजार्थं मठादिम् उपकल्पयेत् ।
पाठस्थानानि कुर्वीत शिवायतनवेधसोः ॥
पुरे वा नगरे वत्स राजधान्यां च पत्तने ।
दुर्गे हट्टे शुभा दृष्टिर् महालक्ष्म्याः समङ्गलाः ॥
मुखलिङ्गगणेशानां धनदस्य विशेषतः ।
श्रियश् च सौम्यरूपायाः स्वामीशस्य शुभस्य च ॥
[५४] रक्षोदेवीषु चोग्रासु दृष्टिर् देया न चान्यथा ।
वाह्ये वनोपकण्ठे च नदीनदतटे ऽथ वा ॥
प्रासादे चोत्तमा कार्या तीर्थे हट्टानुगाथ वा ।
वाराही भैरवी चोग्रा नारसिंही त्रिविक्रमी ॥
पुरपत्तनगेहेषु दृष्टिर् वर्ज्या प्रयत्नतः ।
उग्रा दृष्टिर् हरेद् राष्ट्रं दारुणा नगरादिकम् ॥
नरसिंहवराहाणां दृष्टिर् हन्यात् प्रियं जनम् ।
तस्माद् दृष्टिः शुभा कार्या समा सर्वगता ततः ॥
विवाहे ऽपि शुभा दृष्टिः समा भवति नान्यथा ।
अतो यत्नेन देवानां दृष्टिः सौम्या प्रशस्यते ॥
ग्रहाणां सौम्यरूपाणां लग्ने दृष्टिः शुभावहा ।
पुरपत्तनदुर्गेषु तथा सौम्या शुभावहा ॥
एवं हट्टे पुरे दुर्गे देया दृष्टिः शुभा नृप ।
शुभार्थे सौम्यरूपाणाम् उग्राणां परिवर्जयेत् ॥
आवाहने जले वाथ उग्रा दृष्टिः शुभावहा ॥
इति पुरभूशुद्धिः ।
[५५]
६ — अथ वास्तुकर्मविधिः
तत्र मत्स्यपुराणे सूत उवाच ।
(कालफलम्)
अथातः सम्प्रवक्ष्यामि गृहकालविनिर्णयम् ।
यथाकालं शुभं ज्ञात्वा तदा भवनम् आरभेत् ॥
चैत्रे व्याधिम् अवाप्नोति यो गृहं कारयेन् नरः ।
वैशाखे धनरत्नानि ज्येष्ठे मृत्युं तथैव च ॥
आषाढे भृत्यरत्नानि वस्त्रं वर्यम् अवाप्नुयात् ।
श्रावणे मित्रलाभं तु हानिं भाद्रपदे तथा ॥
पत्नीनाशम् आश्वयुजे कार्त्तिके धनधान्यकम् ।
मार्गशीर्षे तथा भक्तं पौषे तस्करतो भयम् ॥
लाभं च बहुशो विन्देद् अग्निं माघे विनिर्दिशेत् ।
फाल्गुने काञ्चनं पुरान् इति कालफलं स्मृतम् ॥
**[५६] **(नक्षत्रफलम्)
अश्विनी रोहिणी मूलम् उत्तरात्रयम् ऐनदव्म् ।
स्वातिर् हस्तो ऽनुराधा च गृहारम्भे प्रशस्यते ॥
(वारफलम्)
आदित्यभौमवर्ज्यं च सर्वे वाराः शुभावहाः ॥
(योगफलम्)
वर्ज्यं व्याघातशूलेषु व्यतिपातातिगण्डयोः ।
विष्कम्भगण्डपरिघवज्रयोगेषु [न] कारयेत् ॥
(मुहूर्तफलम्)
स्वातौ मैत्रेयमाहेन्द्रगन्धर्वाभिजिद्रौहिणे ।
तथा वैराजसावित्रे मुहूर्त्ते गृहम् आरभेत् ॥
(लग्नफलम्)
चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् ।
स्तम्भोच्छ्रयादि कर्तव्यम् अन्यत्र परिवर्जयेत् ॥
(भूमिपरीक्षा)
प्रासादेष्व् एवम् एव स्यात् कूपवापीषु शस्यते ।
पूर्वं भूमिं परीक्षेत पश्चाद् वास्तुं प्रकल्पयेत् ॥
श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्वशः ।
विप्रादेः शस्यते भूमिर् अतः कार्यं परीक्षणम् ॥
[५७] विप्राणां मधुरास्वादा कषाया क्षत्रियस्य तु ।
कषायकटुका तद्वद् वैश्यशूद्रेषु शस्यते ॥
रत्निमात्रे तु वै गर्त्ते स्वनुलिपे च सर्वशः ।
घृतम् आमशरावस्थं क्र्त्वा वर्त्तिचतुष्टयम् ॥
ज्वालयेद् भूपरीक्षार्थं पूर्णं तत् सर्वदिङ्मुखम् ।
दीप्तां पूर्वादि गृह्णीयाद् वर्णानाम् अनुपूर्व्शः ॥
वास्तुः सामूहिको नाम दीप्यते सर्वतस् तु यः ।
शुभदः सर्ववर्णानां प्रासादेषु गृहेषु च ॥
रत्निमात्रं तु वै गर्त्तं परीक्ष्यं खातपूरणैः ।
अधिके श्रियम् आप्नोति न्यूने हानिं समे समम् ॥
फालकृष्टे ऽथ वा देशे सर्वबीजानि वापयेत् ।
त्रिपञ्चसप्तरात्रेण यत्र रोहन्ति तान्य् अपि ॥
ज्येष्ठोत्तमकनिष्ठा भूर् वर्जयेद् इतरां सदा ।
पञ्चगव्यौषधिजलैः परीक्षित्वाथ सेचयेत् ॥
एकाशीतिपदं कृत्वा रेखाभिः कनकेन तु ।
पञ्चाल् लेपेन वालिप्य सूत्रेणालेड्य सर्वतः ॥
दशपूर्वायता रेखा दश चैवोत्तरायताः ।
सर्ववास्तुविभागेषु विज्ञेया नवका नव ॥
**[५८] **(देवपूजनम्)
एकाशीतिपदं कृत्वा वास्तुवित् सर्ववास्तुषु ।
पदस्थान् पूजयेद् देवान् त्रिंशत् पञ्चदशैव तु ॥
द्वात्रिंशद् बाह्यतः पूज्याः पूज्याश् चान्तस् त्रयोदश ।
नामतस् तान् प्रवक्ष्यामि स्थानानि च निबोधत ॥
ईशानकोणादिषु तान् पूजयेच् च विधानतः ।
शिखी चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ॥
सूर्यः सत्यो भृगुश् चैव आकाशो वायुर् एव च ।
पूषा च वितथश् चैव गृहक्षतयमाव् उभौ ॥
गन्धर्वो भृङ्गराजश् च मृगः पितृगणस् तथा ।
दौवारिको ऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ॥
असुरः शोषपापौ च रोगो ऽहिर्मुख्य एव च ।
भल्लाटः सोमसूर्यौ च अदितिश् च दितिस् तथा ॥
बहिर् द्वात्रिंशद् एते तु तदन्तश् चतुरः शृणु ।
ईशानादिचतुष्कोणे संस्थितान् पूजयेद् बुधः ॥
आपश् चैवाथ सावित्रो जयो रुद्रस् तथैव च ।
मध्ये चतुष्पदो ब्रह्मा तस्याप्य् अष्टौ समीपगाः ॥
सर्वान् एकान्तरान् विद्यात् पूर्वाद्यान् नामतः शृणु ।
अर्यमा सविता चैव विवस्वान् विबुधाधिपः ॥
मित्रो ऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ।
[५९] अष्टमश् चापवत्सस् तु परितो ब्रह्मणः स्मृताः ॥
आपश् चैवापवत्सश् च पर्जन्यो ऽग्निर् दितिस् तथा ।
पदिकानां च वर्गो ऽयम् एवं कोणेष्व् अशेषतः ॥
तन्मध्ये तु बहिर् वत्सद्विपद्स् ते तु सर्वतः ।
वंशान् इदानीं वक्ष्यामि रज्जून् अपि पृथक् पृथक् ॥
वायुं यावत् तथा रोगात् पितृभ्यः शिखिनं पुरः ।
मुख्याद् भृशं तथा शेषाद् वितथं यावद् एव तु ॥
सुग्रीवादितिं यावन् मृगात् पर्जन्यम् एव च ।
एते वंशाः समाख्याताः क्वचिद् रज्जव एव तु ॥
एतेषां यस् तु सम्पातः पदं मध्यं समं तथा ।
मर्म चैतत् समाख्यातं त्रिशूलं कोणगं च यत् ॥
स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्वदा ।
कीलकुड्योपघातादि वर्जयेद् यत्नतो नरः ॥
सर्वत्र वास्तुनिर्दिष्टः पितृवंशान्तरायतः ।
शिरस्य् अग्निः समाविष्टो मुखे चापः समाश्रितः ॥
पृथ्वीधरो ऽर्यमा चैव स्तनयोस् ताव् अधिष्ठितौ ।
वक्षस्थले त्व् आपवत्सः पूजनीयः सदा बुधैः ॥
नेत्रयोर् दितिपर्जन्यौ श्रोत्रे ऽदितिज्यन्तकौ ।
[६०] सर्पेन्द्राव् अंससंस्थौ तु पूजनीयौ प्रयत्नतः ॥
सत्यरोगादयस् तद्वद् बाह्वोः पञ्च च पञ्च च ।
रुद्रश् च राजयक्ष्मा च वामहस्ते समास्थितौ ॥
सावित्रः सविता तद्वद् धस्तं दक्षिणम् आश्रितौ ।
विवस्वान् अथ मित्रश् च जठरे संव्यवस्थितौ ॥
पूषा च राजयक्ष्मा च हस्तयोर् मणिबन्धने ।
तथैवासुरशीर्षौ तु वामपार्श्वे समाश्रितौ ॥
पार्श्वे तु दक्षिणे तद्वद् वितथः सगृहक्षतः ।
ऊर्वोर् यमाम्बुपौ ज्ञेयौ जान्वोर् गन्धर्वपुष्पकौ ॥
जङ्घयोर् भृगुसुग्रीवौ स्फिक्स्थो दौवारिको मृगः ।
जयः शक्रस् तथा मेढ्रे पादयोः पितरस् तथा ॥
मधे नवपदो ब्रह्मा हृदये स तु पूज्यते ।
चतुष्षष्टिपदो वास्तुः प्रासादे ब्रह्मणा स्मृतः ॥
ब्रह्मा चतुष्पदस् तत्र कोणेष्व् एकपदस् ततः ।
बहिः कोणेषु चाष्टौ तु सार्धाश् चोभयतः स्थिताः ॥
विंशतिर् द्विपदास् तेषां चतुष्षष्टिपदाः स्मृताः ।
गृहारम्भे तु कण्डूतिः स्वाम्यङ्गे यत्र जायते ॥
शल्यं त्व् अपनयेत् तत्र प्रासादे भवेने ऽपि वा ।
सशल्यं भयदं यस्माद् अशल्यं भयनाशनम् ॥
[६१] हीनाधिकाङ्गतां वास्तोः सर्वथा परिवर्जयेत् ।
नगरग्रामदेशेषु सर्वत्रैवं प्रकल्पयेत् ॥
ऽशुभनिरीक्षितऽं शुभग्रहनिरीक्षितम् । ऽऐन्दवऽं मृगशिरः । ऽदीप्तौ पूर्वादीति” पूर्वां दिशम् आरभ्य प्रदक्षिणं सम्यक् वर्तिप्रदीपने ब्राह्मणादीनां वर्णानां यथासङ्ख्यं सुखावहम् इत्य् अर्थः । “खातपूरणैः” खातस्य गर्तस्य तैर् एव सम्बन्धिभिः पूरणैः । “पितृवंशान्तरायतः” पितृगणाद् आरभ्य वह्निं यावद् यो वंशः प्रसारितः, तद्वद् आयतो वा वास्तुपुरुषः । “अम्बुपो” जलाधिपः । “पुष्पकः” पुष्पदन्तः । “जयश्शक्र” इत्य् अत्र जयशब्दः शक्रवाची । ऽतद्वत् कोणेष्व् एकपदा” इति । एकाशीतिपदे वास्तौ याः कोणेष्व् एकपदा देवता इहापि तास् तथैव बोद्धव्याः । ऽबहिःकोणेषु चेत्यादि" प्रान्तकोणेषु चतुर्षु ये उभयपार्श्वे कोष्टकास् तेष्व् अष्टौ देवताः । ऽसार्धा भवन्ति" देवताचतुष्टयसहिता भवन्तीत्य् अर्थः ।
(चतुश्शालादिलक्षणम्)
चतुश्शालं त्रिशालं च द्विशालं चैकशालकम् ।
नामतस् तानि वक्ष्यामि स्वरूपेण द्विजोत्तमाः ॥
सूत उवाच ।
चतुश्शालं प्रवक्ष्यामि स्वरूपान् नामतस् तथा ।
[६२] चतुश्शालं चतुर्द्वारैर् अलिन्दैः सर्वतो वृतम् ॥
नाम्ना तत् सर्वतो भद्रं शुभं देवनृपालये ।
पश्चिमद्वारहीनं तु नन्द्यावर्त्तं प्रचक्षते ॥
दक्षिणद्वारहीनं तु [वर्धमानम् उदाहृतम् ।
पूर्वद्वारविहीनं तु] स्वस्तिकं नाम विश्रुतम् ॥
रुचकं चोत्तरद्वारविहीनं तु प्रचक्षते ।
सौम्यशालाविहीनं यत् त्रिशालं धन्यकं च तत् ॥
क्षेमवृद्धिकरं नॄणां बहुपुत्रफलप्रदम् ।
शालया पूर्वया हीनं सुक्षेत्रम् इति विश्रुतम् ॥
धन्यं यशस्यम् आयुष्यं शोकमोहविनाशनम् ।
चुल्ही तु याम्यया हीनं त्रिशालं शालया तु यत् ॥
कुलक्षयकरं नॄणां सर्वव्याधिभयावहम् ।
हीनं पश्चिमया यत् तु पक्षघ्नं नाम तद् विदुः ॥
मित्रबन्धुसुतान् हन्ति तथा सर्पभयावहम् ।
याम्यापराभ्यां शालाभ्यां धनधान्यफलप्रदम् ॥
क्षेमवृद्धिकरं नॄणां तथा पुत्रफलप्रदम् ।
यमसूर्यं च विज्ञेयं पश्चिमोत्तरशालकम् ॥
राजाग्निभयदं नॄणां कुलक्षयकरं च तत् ।
उदक्पूर्वे तु शाले द्वे दण्डाख्यं तत्र तद् भवेत् ॥
अकालमृत्युभयदं परचक्रभयावहम् ।
[६३] चापाख्यं याम्यपूर्वाभ्यां शालाभ्यां यद् द्विशालकम् ॥
विषशस्त्राग्निभयदं पराभवभयावहम् ।
चुल्ही पूर्वापराभ्यां च सा भवेन् मृत्युसूचनी ॥
विधवत्वाय च स्त्रीणाम् अनेकभयकारकम् ।
कार्यम् उत्तरयाम्याभ्यां शालाभ्यां भयदं नृणाम् ॥
सिद्धार्थवर्ज्जं वर्ज्यानि द्विशालानि सदा बुधैः ॥
ऽअलिन्दऽं द्वारचतुष्किका । “सौम्यशाला” उत्तरद्वारशाला । ऽसिद्धार्थवर्ज्जऽं याम्यात् पराभ्यां शालाभ्यां युक्तं यद् द्विशालं तद् विहाय ।\
(राजादिगृहलक्षणम्)
अथातः सम्प्रवक्ष्यामि भवनं पृथिवीपतिः ।
पञ्चप्रकारं तत् प्रोक्तम् उत्तमादिविभेदतः ॥
अष्टोत्तरं हस्तशतं विस्तारश् चोत्तमो मतः ।
चतुर्ष्व् अन्येषु विस्तारो हीयते चाष्टभिः करैः ॥
चौत्र्थांशाधिकं दैर्घ्यं पञ्चस्व् अपि निगद्यते ।
युवराजस्य वक्ष्यामि तथा भवनपञ्चकम् ॥
षड्भिः षड्भिस् तथाशीतिर् हीयते तत्र विस्तरात् ।
त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्व् अपि निगद्यते ॥
[६४] सेनापतेः प्रवक्ष्यामि तथा भवनपञ्चकम् ।
चतुःषष्टिः सुविस्तारः षड्भिः षड्भिः प्रहीयते ॥
पञ्चस्व् एतेषु दैर्घ्यं च षड्भागेनाधिकं भवेत् ।
मन्त्रिणाम् अथ वक्ष्यामि तथा भवनपञ्चकम् ॥
चतुश्चतुर्विहीना स्यात् करषष्टिः प्रविस्तरे ।
अष्टांशेनाधिकं दैर्घ्यं पञ्चस्व् अपि निग्द्यते ॥
सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम् ।
चत्वारिंशत् तथाष्टौ च चतुर्भिर् हीयते क्रमात् ॥
[चतुर्थांशाधिकं दैर्घ्यं पञ्चस्व् एतेषु शस्यते ।
शिल्पिनां कञ्चुकीनां च वैश्यानां गृहपञ्चकम् ॥
अष्टाविंशत्कराणां तद्विहीनं विस्तरात् क्रमात् ।
द्विगुणं दैर्घ्यम् एवोक्तं मध्यमेष्व् एवम् एव तु ॥
दूतकर्मान्तिकादीनां वक्ष्ये भवनपञ्चकम् ।]
चतुर्थांशाधिकं दैर्घ्यं विस्तारो द्वादशैव च ॥
अध्यर्धं करहानिः स्याद् विस्तरात् पञ्चसु क्रमात् ।
दैवज्ञगुरुवैद्यानां सभास्तारपुरोधसाम् ॥
तेषाम् अपि प्रवक्ष्यामि क्रमाद् भवनपञ्चकम् ।
चत्वारिंशत् प्रविस्ताराच् चतुर्भिर् हीयते क्रमात् ॥
पञ्चस्व् एतेषु दैर्घ्यं च षड्भागेनाधिकं भवेत् ।
चातुर्वर्ण्यस्य वक्ष्यामि सामान्यं गृहपञ्चकम् ॥
द्वात्रिंश्द् वै कराणां तु चतुर्भिर् हीयते क्रमात् ।
आ षोडशाद् इति परं न्यूनम् अन्त्यावसायिनाम् ॥
[६५] दशांशेनाष्टभागेन त्रिभागेनाथ भागिकम् ।
अधिकं दैर्घ्यम् इत्य् आहुः ब्राह्मणादेः प्रशस्यते ॥
सेनापतेर् नृपस्यापि चातुर्वर्ण्यस्य चान्तरे ।
वासाय च गृहं कार्यं राजपूज्येषु सर्वदा ॥
अन्तरा प्रभवानां च स्वपितुर् न्यूनम् इष्यते ।
तथा हस्तशताद् अर्वाग् गमितं वनवासिनाम् ॥
सेनापतेर् नृपस्यापि सप्तत्या सहितैर् हि ते ।
चतुर्दशाहृते व्यासे शालान्यासः प्रकीर्तितः ॥
पञ्चत्रिंशोद्धृते तस्मिन् अलिन्दः समुदाहृतः ।
तथा षट्त्रिंशद्धस्ता तु सप्ताङ्गुलसमन्विता ॥
विप्रस्य महती शाला न दैर्घ्यं परतो भवेत् ।
दशाङ्गुलाधिका तद्वत् क्षत्रियस्य विधीयते ॥
पञ्चत्रिंशत्करा वैश्ये अङ्गुलानि त्रयोदश ।
तावत्करैव शूद्रस्य युता पञ्चदशाङ्गुलैः ॥
शालायास् तु त्रिभागेन यस्याग्रे वीथिका भवेत् ।
सोष्णीषं नाम तद् वास्तु पश्चाच् छायाश्रयं भवेत् ॥
पार्श्वयोर् वीथिका यत्र सावष्टम्भं तद् उच्यते ।
समन्ताद् वीथिका यत्र सुस्थितं तद् इहोच्यते ॥
शुभदं सर्वम् एतत् स्याच् चातुर्वर्ण्ये चतुर्विधम् ।
विस्तारात् षोडशो भागस् तथा हस्तचतुष्टयम् ॥
प्रथमो भूमिकोच्छ्रायः उपरिष्टात् प्रहीयते ।
[६६] द्वादशांशेन सर्वासु भूमि कासु तथोच्छ्रयात् ॥
पक्वेष्टका भवेद् भित्तिः षडंशांशेन विस्तरात् ।
दारवैर् अपि कल्प्या स्यात् तथा मृण्मयभित्तिका ॥
गर्भमानेन मानं तु सर्ववास्तुषु शस्यते ।
गृहव्यासस्य पञ्चाशद् अष्टादशभिर् अङ्गुलैः ॥
संयुतो द्वारविष्कम्भात् द्विगुणश् चोच्छर्यो भवेत् ।
द्वारशाखासु बाहुल्यम् उच्छ्रायकरसम्मितैः ॥
अङ्गुलैः सर्ववास्तूनां पृथुत्वं शस्यते बुधैः ।
उदुम्बरोत्तमाङ्गं च तदध्यर्धप्रविस्तरात् ॥
ऽसेनापतेर् नृपस्यापि सप्त्येऽत्यादि । सेनापतेर् नृपस्य गृहे यावान् विस्तार उक्तस् तं करसप्तत्या सहितं कृत्वा, तदर्धं गृहीत्वा तस्यार्धस्य चतुर्दशविभागं कृत्वा यावद् अवशिष्टं भवति तावद् विस्तारां शालां कुर्याद् इत्य् अर्थः । तेनाष्टोत्तरहस्तशतविस्तारे राजवेश्मनि पञ्चहस्तप्रमाणा शाला भवति । “पञ्चत्रिंशओद्धृत” इति । तस्मिन्न् एव नवाशीतिविस्तारे राजवेश्मनि पञ्चहस्तपञ्चत्रिंशता भागहारे कृते ये एकोनविंशतिहस्ता अवशिष्यन्ते तावान् अलिन्दः कर्तव्यः । “उदुम्बरो” देहली ।
(स्तम्भमाननिर्णयः)
अथातः सम्प्रव्क्ष्यामि स्तम्भमानविनिर्णयम् ।
[६७] तद् वास्तुभवनोच्छ्रायं सदा सप्तगुणं विदुः ॥
अशीत्यंशं पृथुत्वे स्याद् अग्रे नवगुणैः सह ।
रुचकश् चतुरस्रः स्याद् अष्टास्रो वज्र उच्यते ॥
द्विवज्रः षोडशास्रस् तु द्वात्रिंशास्रः प्रलीनकः ।
मध्यप्रदेशे यः स्तम्भो वृत्तो वृत्त इति स्मृतः ॥
एते पञ्च महास्तम्भाः प्रशस्ताः सर्ववास्तुषु ।
पद्मवल्लीलताकुम्भपत्रदर्पणभूषिताः ॥
स्तम्भस्य नवमांशेन पद्मकुम्भान्तराणि तु ।
स्तम्भतुल्या तुला प्रोक्ता हीना चोपतुला ततः ॥
त्रिभागेनेह सर्वत्र चतुर्भागेन वा पुनः ।
हीनं हीनं चतुर्थांशात् तथा सर्वासु भूमिषु ॥
सावरोहाणि सर्वेषां प्रवेशो दक्षिणेन तु ॥
(द्वारविधिः)
द्वाराणि तु प्रवक्ष्यामि प्रशस्तानीह यानि तु ।
पूर्वेणेन्द्रं जयन्तं च द्वारं सर्वत्र शस्यते ॥
याम्यं च वितथं चैव दक्षिणेन विदुर् बुधाः ।
पश्चिमे पुष्पदन्तं तु वारुणं च प्रशस्यते ॥
उत्तरेण तु भल्लाटं सौम्यं तु सुखदं भवेत् ।
तथा वास्तुषु सर्वत्र वेधं द्वारस्य वर्जयेत् ॥
द्वारे तु रथ्यया विद्धे भवेत् सर्वकुलक्षयः ।
तरुणा दोषबाहुल्यं शोकः पङ्केन जायते ॥
[६८] अपस्मारो भवेन् नूनं कूपवेधेन सर्वदा ।
व्यथा प्रस्रवणेन स्यात् कीलेनाग्निभयं भवेत् ॥
विनाशो देवताविद्धे स्तम्भेन स्त्रीकृतो भवेत् ।
गृहभर्तुर् विनाशः स्याद् गृहेण च गृहे कृते ॥
अमेध्यावस्करैर् विद्धे गृहिणी बन्धकी भवेत् ।
तत्र शस्त्रभयं विद्याद् अन्त्यजस्य गृहेण तु ॥
उच्छ्रायद्विगुणां भूमिं त्यक्त्वा वेधो न जायते ।
स्वयम् उद्घाटिते द्वारे उन्मादो गृहवासिनाम् ॥
स्वयं च पिहिते विद्यात् कुलनाशं विचक्षणः ।
मानाधिके राजभयं न्यूने तस्करतो भयम् ॥
द्वारोपरि च यद् द्वारं तद् अन्तकभयं स्मृतम् ।
आध्मातं मध्यदेशे तु अधिको यस्य विस्तरः ॥
वज्रं तु सङ्कटं मध्ये सद्यो भर्तृविनाशनम् ।
तथान्यपीडितं द्वारं बहुदोषकरं भवेत् ॥
मूलद्वारात् तथात्यन्तं नाधिकं शोभया भवेत् ।
कुम्भश्रीपर्णवल्लीभिः मूलद्वारं तु शोभयेत् ॥
पूजयेच् चापि तन् नित्यं बलिना चाक्षतोदकैः ॥
(गृह वृक्षारोपणविधिः)
भवनस्य वटः पूर्वे दिग्भागे सार्वकामिकः ।
उदुम्बरस् तथा याम्ये वारुणे पिप्पलः शुभः ॥
[६९] प्लक्षश् चोत्तरतो धन्यो विपरीतास् त्व् असिद्धये ।
कण्टकी क्षीरवृक्षश् च आसन्नः सफलद्रुमः ॥
भार्याहानिः प्रजाहानिः भवेतां क्रमशः सदा ।
न छिन्द्याद् यदि तान् वृक्षान् अन्तरे स्थापयेच् छुभान् ॥
पुन्नागाशोकतिल्कशमीवकुलचम्पकान् ।
दाडिमीं पिप्पलीं द्राक्षां तथा कुसुममण्डपान् ॥
जम्बीरपूगपनसद्रुमकेतकीभिः
जातीसरोजशतपत्रिकमल्लिकाभिः ।
यन् नालिकेरकदलीदलपाटलाभिः ।
युक्तं तद् अत्र भवनं श्रियम् आतनोति ॥
“रथ्या” मार्गः । “वेधो” अत्राभिमुखेनावस्थानम् । “उच्छ्रायद्विगुणम्” इति । यावान् द्वारस्योछ्रायो दैर्घ्यं तद्द्विगुणं द्वाराग्रभूमेः परतो यद्य् एते रथ्यादयो भवन्ति, तदा न वेधो वास्तुवेध इत्य् अर्थः ।
सूत उवाच ।
उदगादिप्लवं वास्तोः समानस्य शिरस् तथा ।
परीक्ष्य पूर्ववत् कुर्यात् स्तम्भोच्छ्रायं विचक्षणः ॥
“समानस्य” मानसहितस्य वास्तुपुरुषस्य ।
[७०] न देवपूर्तसविधे चत्वराणां समीपतः ।
कारयेद् भवनं प्राज्ञो दुःखशोकसमन्वितम् ॥
(ग्रहप्रवेशविधिः)
तस्य प्रवेशाश् चत्वारस् तस्योत्सङ्गाग्रतः शुभाः ।
पृष्ठतः पृष्ठतो गन्तुं सव्यावर्तं प्रशस्यते ॥
अपसव्यो विनाशाय दक्षिणे शीर्णकस् तथा ।
सर्वकामफलो नॄणां सम्पूर्णो नाम वामतः ॥
एवं प्रवेशम् आलोच्य यत्नेन गृहम् आरभेत् ।
अथ सांवत्सरप्रोक्ते मुहूर्ते शुभलक्षणे ॥
रत्नोपरिशिलां कृत्वा सर्वबीजसमन्विताम् ।
चतुर्भिर् ब्राह्मणैः स्तम्भं वस्त्रालङ्कारपूजितम् ॥
शुक्लाम्बरधरः शिल्पी सहितो वेदपारगैः ।
स्नापितं तन् न्यसेत् तद्वत् सर्वौषधिसमन्वितम् ॥
नानाक्षतसमोपेतं वस्त्राभरणसंयुतम् ।
ब्रह्मघोषेण वाद्येन गीतमङ्गलनिःस्वनैः ॥
प्रदोषे भोजयेद् विप्रान् होमस् तु मधुसर्पिषा ।
ऽवास्तोष्पते प्रतिजानीहि" मन्त्रेणानेन सर्वदा ॥
सूत्रपाते तथा कार्यम् एवं स्तम्भोच्छ्रये पुनः ।
[७१] द्वारवंशोच्छ्रये तद्वत् प्रवेशसमये तथा ॥
वास्तूपशमने तद्वद् वास्तुयज्ञस् तु पञ्चधा ।
ईशाने सूत्रपातः स्याद् आग्नेये स्तम्भरोपणम् ॥
प्रदक्षिणं च कुर्वीत वास्तोष्पन्दविलेखनम् ।
तर्जनी मध्यमा चैव तथाङ्गुष्ठस् तु दक्षिणे ॥
प्रवालरत्नकनकं फलमृष्टाक्षतोदकम् ।
सर्ववास्तुविभागेषु शस्तं पदविलेखनम् ॥
न भस्माङ्गारकाष्ठेन न शस्त्रनखचर्मभिः ।
न शृङ्गास्थिकपालैश् च क्वचिद् वास्तु विलेखयेत् ॥
एभिर् विलेकितं कुर्यात् दुःखशोकभयादिकम् ।
यदा गृहप्रवेशः स्याच् छिल्पी तत्राभिलक्षयेत् ॥
स्तम्भसूत्रादिकं तद्वच् छुभाशुभफलोदयम् ।
आदित्याभिमुखं रौति शकुनिः परुषं यदि ॥
तुल्यकालं स्पृशेद् अङ्गं गृहभर्त्ता यद् आत्मनः ।
वास्त्वङ्गे तद् विजानीयान् नरः शल्यं भयप्रदम् ॥
शकुनानन्तरं यत्र हस्त्यश्व्स्श्वापदं भवेत् ।
तदङ्गसम्भवं विद्यात् तत्र शल्यं विचक्षणः ॥
प्रसार्यमाणे सूत्रे तु श्वगोमायुविलङ्घिते ।
तत्र शल्यं विजानीयात् खरशब्दे च भैरवे ॥
[७२] यदीशाने तु दिग्भागे मधुरं रौति वायसः ।
धनं तत्र विजानीयाद् भागे वा स्वाम्यधिष्ठिते ॥
सूत्रच्छेदे भवेन् मृत्युर् व्याधिः कीले त्व् अधोमुखे ।
अङ्गारेषु तथोन्मादं कपालेषु च सम्भ्रमम् ॥
कण्ठशल्येषु जानीयात् पौंश्चल्यं स्त्रीषु शास्त्रवित् ।
गृहकर्तुर् गृहस्यापि विनाशः शिल्पिसम्भ्रमे ॥
स्तम्भस्कन्धाच्युते कुम्भे शिरोरोगान् विनिर्दिशेत् ।
कुम्भापहारे सर्वस्य कुलस्यापि क्षयो भवेत् ॥
मृत्युस्थानच्य्ते कुम्भे भग्ने बन्धं विदुर् बुधाः ।
करसंस्था विनाशे तु नाशं गृहपतेर् विदुः ॥
बीजौषधिविहीने तु भूतेभ्यो भयम् आदिशेत् ।
प्राग्दक्षिणेन विन्यस्य स्तम्भे छत्रं निवेशयेत् ॥
ततः प्रदक्षिणेनान्यान् न्यसेत् स्तम्भान् विचक्षणः ।
यस्माद् भयङ्क्रा नॄणां योजितास् त्व् अप्रदक्षिणाः ॥
रक्षां कुर्वीत यत्नेन स्तम्भोपद्रवनाशिनी ।
तथा फलवतीं शाखां स्तम्भोपरि निवेशयेत् ॥
प्रागुदक्प्रवणं कुर्याद् दिङ्मूढं तु न कारयेत् ।
स्तम्भं वा भवनं चापि द्वारं वासगृहं तथा ॥
दिङ्मूढे कुलनाशः स्यान् न च संवर्धते गृहम् ।
यदि संवर्धयेद् गेहं सर्वम् एव विवर्जयेत् ॥
[७३] पूर्वेण वर्धितं वास्तु कुर्याद् वैराणि सर्वदा ।
दक्षिणे वर्धितं वास्तु मृत्यवे स्यान् न संशयः ॥
पश्चाद् विवृद्धं यद् वास्तु तदर्थक्षयकारकम् ।
वर्धापितं तथा सौम्ये बहुसन्तापकारकम् ॥
आग्नेये यत्र वृद्धिः स्यात् तदग्निभयदं भवेत् ।
वर्धितं राक्षसे कोणे वित्तक्षयकरं भवेत् ॥
वर्धापितं वायव्ये वातव्याधिप्रकोपकृत् ।
ईशाने सस्यहानिः स्याद् वास्तौ संवर्धिते सदा ॥
ईशाने देवतागारं तथा शान्तिगृहं भवेत् ।
महानसं तथाग्नेये तत्पार्श्वे चोत्तरे जलम् ॥
गृहस्योपस्करं सर्वं नैरृते स्थापयेद् बुधः ।
वर्चस्थानं बहिः कुर्यात् स्नानमण्डपम् एव च ॥
धनधान्यं च वायव्ये कर्मशाला ततो बहिः ।
एवं वास्तुनिवेशः स्याद् गृहभर्तुः शुभावहः ॥
(दार्वाहरणविधिः)
अथातः सम्प्रवक्ष्यामि दार्वाहरणम् उत्तमम् ।
धनिष्ठापञ्चकं मुक्त्वा विष्ट्यादिकम् अतः परम् ॥
ततः सांवत्सरादिष्टे दिने यायाद् वनं बुधः ।
प्रथमं बलिपूजां च कुर्याद् वृक्षाय सर्वथा ॥
[७४] पूर्वोत्तरेण पतितं गृहदारु प्रशस्यते ।
अन्यथा च शुभं विद्याद् याम्यापरनिपातने ॥
क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत् ।
कृताधिवासं विहगैर् अनलानिलपीडितम् ॥
गजावभग्नं च तथा विद्युन् निर्घातपीडितम् ।
ऊर्ध्वशुष्कं तथा दारु भग्नं वक्रं तथैव च ॥
चैत्यदेवालयोत्पन्नं नदीसङ्गम् अजं तथा ।
श्मशानकूपनिलयं तडागादिसमुद्भवम् ॥
वर्जयेत् सर्वदा दारु यदीच्छेद् विपुलां श्रियम् ।
तथा कण्टकिनो वृक्षान् नीपनिम्बविभीतकान् ॥
श्लेष्मातकासारतरून् वर्जयेद् गृहकर्मणि ।
असनाशोकमधुकसर्जसालाः शुभावहाः ॥
चन्दनं पनसं धन्याः सुरदारुहरिद्रकाः ।
द्वाभ्याम् एकेन वा कुर्यात् त्रिभिर् वा भवनं शुभम् ॥
बहुभिः कारितं यस्माद् अनेकभयदं भवेत् ।
एकैव शिंशपा धन्या श्रीपर्णी तिन्दुकी तथा ॥
एते नान्यसमायुक्ताः वास्तुकार्ये शुभप्रदाः ।
तरुच्छेदे तथा पीते गोधां विद्याद् विचक्षणः ॥
माञ्जिष्ठवर्णे भेकः स्यान् नीले सर्पं विनिर्दिशेत् ।
अरुणे सरटं विद्यान् मुद्गाभे शुकम् आदिशेत् ॥
कपिले मूषिकां विद्यात् खङ्गाभे जलम् आदिशेत् ।
[७५] एवंविधं समग्रं तु वर्जयेद् वास्तुकर्मणि ॥
पूर्वच्छिन्नं तु गृह्णीयान् निमित्तशकुनैः शुभैः ॥
(ध्वजलक्षणम्)
व्यासेन गुणिते दैर्ध्ये अष्टभिर् वै हृते तथा ।
यच् छेषमायं तं विद्याद् अष्टभेदं वदामि वः ॥
ध्वजो धूमश् च सिंहश् च श्वा वृषः खर एव च ।
गजो ध्वाङ्क्षश् च् पूर्वाद्याः करशेषा भवन्त्य् अमी ॥
ध्वजः सर्वमुखो धन्यः प्रत्यग्द्वारो विशेषतः ।
उदङ्मुखो भवेत् सिंहः प्राङ्मुखो वृषभो भवेत् ॥
दक्षिणाभिमुखो हस्ती सप्तभिः समुदाहृतः ।
एकेन द्वज उद्दिष्टस् त्रिभिः सिंहः प्रकीर्तितः ॥
पञ्चभिर् वृषभः प्रोक्तो विकोणस्थांश् च वर्जयेत् ।
तम् एवाष्टगुणं कृत्वा करराशिं विचक्षणः ॥
सप्तविंशहृते भागे दक्षं विद्याद् विचक्षणः ।
अष्टभिर् भाजयेच् छेषं यच् छेषं स व्ययो मतः ॥
व्ययाधिक्यं न कुर्वीत यतो दोषकरं भवेत् ।
आयाधिके भवेच् छानित्र् इत्य् आह भगवान् हरिः ॥
कृत्वाग्रतो द्विजवरान् अथ पूर्णकुम्भं
दध्यक्षताम्रदलपुष्पफलोपशोभम् ।
दत्वा हिरण्यवसनानि तथा द्विजेभ्यो
मङ्गल्यशान्तिनिलयाय गृहं विशेत ॥
[७६] गृह्योक्तहोमविधिना बलिकर्म कुर्यात्
प्रासादवास्तुशमने च विधिर् य उक्तः ।
सन्तर्पयेद् द्विजवरान् अथ भक्ष्यभोज्यैः
शुक्लाम्बरश् च भवनं प्रविशेत् मधूपम् ॥
ऽद्वाभ्याम् एकेन वा" इति । यदा अनेकजातीयैर् वृक्षैर् गृहं कुर्यात् तदा द्वाभ्यां त्रिभिर् वा, न पुनः चतुष्पञ्चजातीयप्रभृतिभिर् इत्य् अर्थः । “सरटः” कृकलासः । “मुद्गाभे” मुद्गसमानवर्णे । “अश्मन्तकः” पाषाणः । “खङ्गाभे” श्यामले । ऽव्यासेन गुणिते दैर्घ्ये" इति । “व्यासेन” विस्तारसङ्ख्यया ऽदैर्घ्ये गुणिते" आवर्त्तिते सति यावन्तो हस्ता भवन्ति तेष्व् अष्टकम् अष्टकं कृत्वा भागहारे कृते यद् अवशिष्यते स आयो भवति । स च द्वजादिभेदेनाष्टधा भिद्यते । “पूर्वाद्याः” पूर्वादिदिगष्टकावस्थिताः यथा क्रमेण । ऽतम् एव" पूर्वोक्तं व्यासगुणितं दैर्घ्यकरराशिम् । ऽअष्टभिर् भाजिते दक्षे" अष्टभिर् भागैर् हृते नक्षत्रस्य हृते करसमूहे ।
बह्वृचगृह्ये-
अथातो वास्तुपरीक्षानूषरम् अविवदिष्णुभूमौषधिवनस्पतिवत् यस्मिन् कुशवीरणं प्रभूतं कण्टकिक्षीरिणस् तु समूलान् परिखायोद्वासयेत् । अपामार्गः शाकस्तिल्वकः परिव्याध इति चैतानि यत्र सर्वत आपो मध्यं समेत्य प्रदक्षिणं शमनीयं परीत्य प्राच्यः स्यन्देरन् अप्रपतत्यस् तत् सर्वं समृद्धं समवस्रवे भक्तशरणं कारयेत् । बह्वन्नं **[७७]** हि भवति दक्षिणाप्रवणे सभां मापयेत् । साद्यूताह भवति युवानस् तस्यां कितवाः कलहिनः प्रमायुका भवन्ति यत्र सर्वत आयः प्रस्यन्देरन् सा स्वस्त्ययिन्यद्यूता च ।
अथैतैर् वास्तु परीक्षेत । जानुमात्रं गर्तं खात्वा तैर् एव पांसुभिः प्रतिपूरयेत् । अधिके प्रशस्तं समे वार्तं न्यूने गर्हितं अस्तमिते ऽपां पूर्णं परिवासयेत् । सोदके प्रशस्तं आर्ध्रे वार्त्तं शुष्के गर्हितं श्वेतं मधुरास्वादं सिकतोत्करं ब्राह्मणस्य लोहितं क्षत्रियस्य पीतं वैश्यस्य तत् सहस्रसीतं कृत्वा यथादिक् समचतुरस्रं मापयेत् । आयतचतुरस्रं वा । तच्छमीशाखयौदुम्बरशाखया वा शन्तातीयेन त्रिः प्रदक्षिणं परिव्रजन् प्रोक्षत्य् अविच्छिन्नया चोदकधारया “आपो हिष्ठा मयो भुव” इत्य् तृचेन । वंशान्तरेषु शरणानि कारयेद् गर्तेष्व् अवकाः शीपालम् इत्य् अवधापयेन् न हास्य दाहुको भवतीति विज्ञायते । मध्यमस्थूणाया गर्ते ऽवधाय प्रागग्रोदगग्रान् कुशान् आस्तीर्य व्रीहियवमतीरप आसेचयेद् “अच्युताय भौमाय स्वाहा” इत्य् अथैनाम् उच्छ्रीयमाणाम् अनुमन्त्र्येत “इहैव तिष्ठ निमिता तिल्विलास् त्वाम् इरावतीं मध्ये पोषस्य तिष्ठतीम् आ त्वा प्रापन्नघायवः । आ त्वा कुमारस् तरुण आ वत्सो जायतां सह । आ त्वा परिश्रितः कुम्भ आ दध्नः कलशैरय” इति ।
वंशम् आधीयमानम् “ऋतेन स्थूणाम् अधिरोह वंश द्राधीय आयुःप्रतरं दधाना” इति । सदूर्वासु चतसृषु शिलासु मणिकं प्रतिष्ठापयेत्” पृथिव्या अधिसम्भवेति अरङ्गरो वावदीति त्रेधा बद्धो वरत्रया इरामुह प्रशंसत्य् अनिरामप्रबाधताम्” इति वाथास्मिन्न् अप आ सेचयति “ऐतु राजा वरुणो रेवतीभिः **[७८]** अस्मिन् स्थाने तिष्ठतु मोदमानः इऋआं वहन्तो घृतम् उक्षमाणा मित्रेण साकं सह संविशन्त्व्” इत्य् अथैतच् छमयति व्रीहियवमतीभिर् अद्भिर् हिरण्यम् अवधाय शन्तातीयेन त्रिः प्रदक्षिणं परिव्रजन् प्रोक्षत्य् अविच्छिन्नया चोदकधारया “आपो हि ष्ठा मयो भुव” इति तृचेन । मध्ये ऽगारस्य स्थालीपाकं श्रपयित्वा “वास्तोष्पते प्रतिजानीह्य् अस्मान्” इति चतसृभिः प्रत्यृचं हुत्वान्नं संस्कृत्य ब्राह्मणाय भोजयित्वा शिवं वास्तु शिवं वास्त्व् इति वाचयीत ।
“अविवदिष्णु”यत्र विवदिष्णुर् विवदिना न विद्यते तत् । अविवादीर् इति तु पाठे विवादरहितम् इत्य् अर्थः । “भूमौषधिवनस्पतिवत्” बहुतरौषधिवनस्पत्युत्पत्तियोग्यम् । “परिखाय” उत्पाट्य । “परिच्याधो” राजवृक्षविशेषः । “प्रदक्षिणं शयनीयं परीत्य” शयनगृहं प्रदक्षिणं यथा भवति तथा कृत्वा । “प्रपतन्त्यः” प्रकर्षेण गच्छन्त्यः । “सर्वसमृद्धं” सर्वैः पुत्रादिभिः सम्पूर्णम् । “समवश्रवे” प्रणालिकादेशे । “भक्तशरणं” पाकशाला । “सभा” गृहस्थस्य समाजशाला सा । यदि दक्षिणाप्रवणे देशे क्रियते तदा द्यूतवती भवत्य् अतो न तथा कार्येत्य् अर्थः । “प्रमायुकाः” मरणशीलाः । “वार्त्तं” नात्युत्कृष्टं नापकृष्टम् इत्य् अर्थः । “सहस्रसीतं” अपरिमितकृष्टम् । “शन्तातीयेन” “शन् न इन्द्राग्नी भवतेति” सूक्तेन । “अवकाः” शम्बुकाः । “शीपालाः” शैवालाः ॥
**इति वास्तुकर्मविधिः**
**[७९]**
**७ — अथ राष्ट्रसङ्ग्रहणम्**
तत्र मनुः ।
राष्ट्रस्य सङ्ग्रहे नित्यं विधानम् इदम् आचरेत् ।
सुसङ्गृहीतराष्ट्रे हि पार्थिवः सुखम् एधते ॥
द्वयोस् त्रयाणां पञ्चानां मध्ये गुल्मम् अवस्थितम् ।
तथा ग्रामशतानां च कुर्याद् राष्ट्रस्य गुप्तये ॥
ग्रामस्याधिपतिं कुर्याद् दशग्र्माधिपं तथा ।
विंशतीशं शतेशं च सहस्रपतिम् एव च ॥
“द्वयोः” ग्रामयोर् इत्य् अन्वयः । “गुल्मः” पदातिसमूहः । आपस्त्म्बः-
ग्रामेषु नगरेषु चार्थान् शुचीन् सत्यशीलान् प्रजागुप्तये निदध्यात् । तेषां पुरुषास् तथागुणा एव स्युः । सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् । क्रोशो ग्रामेभ्यः ॥
मनुः ।
तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि ।
राज्ञो ऽन्यः सचिवः स्निग्धस् तानि पश्येद् अतन्द्रितः ॥
नगरे नगरे चैव कुर्यात् सर्वार्थचिन्तकम् ।
उच्चैःस्थानं घोररूपं नक्षत्राणाम् इव ग्रहम् ॥
स तान् अनुपरिक्रामेत् सर्वान् आयुक्तकान् स्वयम् ।
तेषां वृत्ते परिणयेत् सम्यग् राष्ट्रेषु तच्चरैः ॥
[तथा]
ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् ।
संसेद् ग्रामदशेशाय दशेशो विंशतीशिने ॥
विंशतीशस् तु तत् सर्वं शतेशाय निवेदयेत् ।
शंसेद् ग्रामशतेशस् तु सहस्रपतये स्वयम् ॥
एवं सर्वं विधायेदम् इति कर्तव्यम् आत्मनः ।
युक्तश् चैवाप्रमत्तश् च परिरक्षेद् इमाः प्रजाः ॥
यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।
[८१] अन्नपानेन्धनादीनि ग्रामिनस् तान्य् अवाप्नुयात् ॥
दशी कुलं तु भुञ्जीत विंशी पञ्चकुलानि च ।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥
“अनुपरिक्रमेत्” यदा न्यायिभिस् ते नियुक्ता अभिभूयन्ते, तदा तान् स्वबलेन पूरयेद् इत्य् अर्थः । “परिणयेत्” प्रापयेत् । कुलं ग्रामैकदेशः पाटकाख्यः । विष्णुः ।
ग्रामदोषाणां ग्रामाध्यक्षः परिहारं कुर्यात् । अशक्तो देशाध्यक्षाय निवेदयेत् । सो ऽप्य् अशक्तो देशाध्यक्षाय । देशाध्यक्षो ऽपि सर्वाट्मना दोषम् उच्छिन्द्यात् ॥
शङ्खलिखितौ ।
वाहनयोधानां सततम् अन्वीक्षणम् । प्रतिमासं द्विसौवर्णिकी वृत्तिः । षाण्मास्यस्मरणं चातुर्मास्यं वा । स्वर्यातेषु [८२] दानम् अनुक्रोशः विदितेष्व् अनुप्रदानं कुलचारित्रशीलविद्यालक्षणाधिकेषु सम्मानं प्रयुञ्जीत ॥
ऽस्वर्यातेषु दानम्" इत्यादि । राजकार्येण मृतेषु योधेषु तत्पुत्रादिभ्यो दानं दया च राज्ञा विधातव्या । प्रसिद्धेषु तु योधेषु दानवेतनाद् अधिकम् अपि वस्त्रादि देयम् इत्य् अर्थः ॥ मनुः ।
राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ।
प्रत्यहं कल्पयेद् वृत्तिं स्थानकर्मानुरूपतः ॥
पणा देयावकृष्टस्य षट् तूत्कृष्टस्य भक्तकम् ।
षाण्मासिकस् तथाच्छादो धान्यद्रोणस् तु मासिकः ॥
ऽषट् पणा" इत्य् अन्वयः । “आच्छादः” आच्छादनवस्त्रम् । बृहस्पतिः ।
गुणवान् इति यः प्रोक्तः ख्यापितो जनसंसदि ।
कथं तेनैव वक्त्रेण निर्गुणः परिकथ्यते ॥
तस्मात् प्रभुत्वं वृत्तिं च निर्दोषस्य न चालयेत् ।
अनवस्था प्रसङ्गः स्यान् नश्येतोपग्रहस् तथा ॥
“उपग्रहः” परिग्रहः ।
[८३] सम्यङ्निविष्टदेशस् तु कृतदुर्गस् तु शास्त्रतः ।
कण्टकोद्धरणे नित्यम् आतिष्ठेद् यत्नम् उत्तमम् ॥
यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।
तथा रक्षेन् नृपो राष्ट्रं हन्याच् च परिपन्थिनः ॥
राष्ट्रेषु रक्षाधिकृताः परस्वादायिनः शठाः ।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद् इमाः प्रजाः ॥
“निर्दाता” लविता । ऽकक्षऽं तृणम् । याज्ञवल्क्यः ।
चाटतस्करदुर्वृत्तमहासाहसिकादिभिः ।
पीड्यमानाः प्र्जा रक्षेत् कायस्थेभ्यो विशेषतः ॥
मनुः ।
मोहाद् राजा स्वराष्ट्रं यः कर्षयत्य् अनवेक्षया ।
सो ऽचिराद् भ्रश्यते स्वाम्याज् जीविताच् च सबान्धवः ॥
शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा ।
तथा राज्ञाम् अपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥
[८४] कात्यायनः ।
श्रोत्रिया विधवा बाला दुर्बलाश् च कुटुम्बिनः ।
एते राजबला राज्ञा रक्षितव्याः प्रयत्नतः ॥
अनाथस्य नृपो नाथस् त्व् अगृहस्य नृपो गृहम् ।
अपुत्रस्य नृपः पुत्रो ह्य् अपितुः पार्थिवः पिता ॥
यत्र कर्माणि नृपतिः स्वयं पश्यति धर्मतः ।
तत्र साधुसमाचारा निवसेयुः सुखं प्रजाः ॥
मनुः ।
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।
सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥
ऽब्राःमं संस्कारम्" ब्राह्मणेन क्रियमाणम् अभिषेकम् इत्य् अर्थः ।
[८५] कात्यायनः ।
प्रजानां रक्षणं नित्यं कण्टकानां च शोधनम् ।
द्विजानां पूजनं चैव एतद् अर्थं कृतो नृपः ॥
बृहस्पतिः ।
तत् प्रजापालनं प्रोक्तं त्रिविधं न्यायवेदिभिः ।
परचक्राच् चौरभयाद् बलिनो ऽन्यायवेदिनः ॥
परानीकस् तेन भयम् उपायैः शमयेन् नृपः ।
बलवत्परिभूतानां प्रत्यहं न्यायदर्शनैः ॥
रक्षण् धर्मेण भूतानि राजवध्यांश् च घातयन् ।
यजते ऽहर् अहर् यज्ञैः सहस्रशतदक्षिणैः ॥
यद् अधीत यद् यजते यज् जुहोति यद् अर्चति ।
तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥
शङ्खः ।
न व्रतैर् नोपवासेन न च यज्ञैः पृथग्विधैः ।
राजा स्वर्गम् अवाप्नोति प्राप्नोति परिपालनात् ॥
यमः ।
वानप्रस्थाः परिव्राजः श्रोत्रियाश् चाहिताग्नयः ।
षड्भागस्य प्रदातारो नैते राज्ञो हिरण्यदाः ॥
“षभागस्य” पुण्यषड्भागस्य ।
[८६] मनुः ।
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षणात् ।
अधर्माद् अपि षड्भागो भवत्य् अस्य ह्य् अरक्षतः ॥
यो ऽरक्षन् बलिम् आदत्ते करशुल्कं च पार्थिवः ।
प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥
अरक्षितारं राजानं बलिषड्भागहारिणम् ।
तम् आहुः सर्वलोकस्य समग्रमलहारकम् ॥
अनपेक्षितमर्यादं नास्तिकं विप्रलोपकम् ।
अरक्षितारम् (अत्तारं) नृपं विद्याद् अधोगतिम् ॥
यो हृत्वा गोसहस्राणि नृपो दद्याद् अरक्षिता ।
स शब्दमात्रफलभाग् राजा भवति तस्करः ॥
“विप्रलोपकम्” विच्छेदकं वृत्त्यादीनम् इति शषः । ऽअत्तारऽं भोक्तारम् ॥
**इति राष्ट्रसङ्ग्रहणम्**
**[८७]**
**८ — अथ कोशः**
तत्र महाभारते ।
अधनं दुर्बलं प्राहुर् धनेन बलवान् भवेत् ।
सर्वं बलवतः पथ्यं सर्वं तरति कोशवान् ॥
अर्थाद् धर्मश् च कामश् च स्वर्गश् चैव नराधिप ।
प्राणयात्रापि लोकस्य विनार्थेन न सिध्यति ॥
नाध्नो धर्मकार्याणि यथावद् अनुतिष्ठति ।
धनाद् धि कर्मः स्रवति सौलद् इव सरत्सरः ॥
अधनेनार्थकामेन चेतुं धर्मो न शक्यते ।
अर्थैर् अर्थाः निबध्यन्ते गजैर् इव महागजाः ॥
अर्थेभ्यो हि प्रवृद्धेभ्यः सम्भृतेभ्य इतस् ततः ।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्यः इवापगाः ॥
कोशाक्षपटलं यस्य कोशवृद्धिकरैर् नरैः ।
पात्रभूतैश् च सततं धार्यते स नृपोत्तमः ॥
यो राजकोशं नश्यन्तम् आचक्षीत नराधिपे ।
श्रोतव्यं तस्य च रहो रक्ष्यश् चामत्यतो भवेत् ॥
“चेतुम्” सञ्चेतुम् ।
[८८] मनुः ।
क्रयविक्रयम् अद्ध्वानं भक्तं च सपरिव्ययम् ।
योगक्षेमं च सम्प्रेक्ष्य वणिजो दापयेत् करान् ॥
यथा फलेन युज्येत राजा कर्ता च कर्मणाम् ।
तथा वीक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ॥
यथाल्पाल्पम् अदन्त्य् आद्यं वार्योकोवत्सषट्पदाः ।
तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ॥
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
धान्यानाम् अष्टमो भागः षष्ठो द्वादश एव च ॥
आदद्याच् चाथ षड्भागं द्रुमांसमधुसर्पिषाम् ।
गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥
[८९] पत्रशाकतृणामां च कर्मणां वैणवस्य च ।
मृण्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥
तथा ।
चतुर्थम् आददानो हि क्षत्रियो भागम् आपदि ।
प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ॥
स्वधर्मो विजये तस्य न भये स्यात् पराङ्मुखः ।
शस्त्रेण वैश्यान् रक्षित्वा धर्म्यम् आहारयेद् बलिम् ॥
धान्ये ऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् ।
कर्मोपकरणाः शूद्राः कारवः शिल्पिनस् तथा ॥
“अदन्ति” भक्षयन्ति । “आद्यम्” भक्षणीयम् । “वार्योकसः” जलौकसः । द्रुशब्देन वृक्ष उच्यते । “आपदि” कोशशून्यत्वे । बृहस्पतिः ।
दशाष्टषष्ठं नृपतेर् भागं दद्यात् कृषीवलः ।
खिलाद् वर्षाद् वसन्ताच् च कृष्यमाणाद् यथाक्रमम् ॥
[९०] देशस्थित्या बलिं दद्युर् भूतं षण्मासवार्षिकम् ।
एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥
“भूतम्” यथाव्यवस्थितम् । “कीनाशः” कृषीवलः । विष्णुः ।
प्रजाभ्यो बल्यर्थं [संवत्सरेण] धान्यतः षष्ठम् अंशम् आदद्यात् । सर्वसस्येभ्यश् च । द्विकं शतं पशुहिरण्ययोर् वस्त्रेभ्यश् च । मांसमधुघृतौषधिगन्धपुष्पमूलरसशाकपत्राजिनमृद्भाण्डाश्मभाण्द-वैणवेभ्यः षष्ठभागं । ब्राह्मणेभ्यः करादानं न कुर्यात् । ते हि राज्ञां धर्मकरदाः ॥
कात्यायनः ।
भूस्वामी तु स्मृतो राजा नान्यद् द्रव्यस्य सर्वदा ।
तत्फलस्य हि षड्भागं प्राप्नुयान् नान्यथैव तु ॥
भूतानां तन्निवासित्वात् स्वामित्वं तेन कीर्तितम् ।
तत्क्रियाबलिषड्भागं शुभाशुभनिमित्तजम् ॥
[९१] मनुः ।
म्रियमाणो ऽप्य् आददीत न राजा श्रोत्रियात् करम् ।
न च क्षुधास्य संसीदेच् छ्रोत्रियो विषये वसन् ॥
आपस्तम्बः ।
अकरः श्रोत्रियः सर्ववर्णानां च स्त्रियः कुमाराश् च प्राग्व्यञ्जनेभ्यः । ये च विद्यार्था वसन्ति तपस्विनश् च ये धर्मपराः । शूद्रश् च पादावनेक्ता अन्धमूकबधिरा रोगाविष्टाश् च । ये व्यर्था द्रव्यपरिग्रहैः ।
“व्यञ्जनानि” श्मश्रुप्रभृतीनि । ऽव्यर्था द्रव्यपरिग्रहैः" अर्थसङ्ग्रहे विगतप्रयोजनाः । मनुः ।
[अन्धो जडः पीठसर्पी सप्तत्याः स्थविरश् च यः ।
[९२] श्रोत्रियेषु प्रकुर्वंश् च न दाप्यः केनचित् करम् ॥
“पीठसर्पी” पङ्गुः । वसिष्ठः ।
नदीकक्षवनदाहशैलोपभोगाः विष्कराः] स्युः । तदुपजीविनो वा दद्युः । प्रतिमासं [उद्वाहकरं तु आगमयेत । ]
“वनदाहः” दग्धवनम् । “तदुपजीविनः” तान् एव ये उपजीवन्ति । सैव तेषां वृत्तिः ।
गौतमः ।
शिल्पिनो मासि मास्य् एकं कर्म कुर्युः । एतेनात्मोपजीविनो व्याख्याताः नौचक्रिवन्तश् च । भक्तं तेभ्यो ऽपि दद्यात् ।
“शिल्पिनो” लोहकारादयः । मास्य् एकैकम् अहर् आत्मानुरूपं राज्ञः कर्म कुर्युः, नान्यत् तेभ्यो ग्राह्यम् । “आत्मोपजीविनः” भारवाहनटनर्तकादयः । “नौचक्रिवन्तः” नौशकटव्यवहारिणः । [९३] मनुः ।
नोच्छिन्द्याद् आत्मनो मूलं परेषां चातितृष्णया ।
उच्छिन्दन्न् आत्मनो मूलम् आत्मानं तांश् च नाशयेत् ॥
करशुल्कादेर् अग्रहणं “आत्ममूलच्छेदः” । यथोचिताद् अधिकग्रहणम् “परमूलच्छेदः” । याज्ञवल्क्यः ।
अन्यायेन नृपो राष्ट्रात् स्वकोशं यो ऽभिवर्धयेत् ।
सो ऽचिराद् विगतश्रीको नाशम् एति सबान्धवः ॥
प्रजापीडनसन्तापात् समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणान् नादग्ध्वा विनिवर्तते ॥
कात्यायनः ।
अन्यायेन हि यो राष्ट्रात् करं दण्डं च पार्थिवः ।
सस्यभागं च शुल्कं चाप्य् आददीत स पापभाक् ॥
मनुः ।
अनादेयं नाददीत परिक्षीणो ऽपि पार्थिवः ।
न चादेयं समृद्धो ऽपि सूक्षमम् अप्य् अर्थम् उत्सृजेत् ॥
[९४] अनादेयस्य चादानाद् आदेयस्य च वर्जनात् ।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह विनश्यति ॥
स्वादानाद् वर्णसंसर्गाद् दुर्बलानां च रक्षणात् ।
बलं सञ्जायते राज्ञः स प्रेत्येह च वर्धते ॥
“वर्णसंसर्गाद्” इति वर्णानां ब्राह्मणादीनां वर्णैर् एव समानजातीयैर् विवाहादिसम्बन्धत्वेन वर्णसङ्करो न जायत इत्य् अर्थः । कात्यायनः ।
एवं प्रवर्तते यस् तु लोभं त्यक्त्वा नराधिपः ।
तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश् च वर्धते ॥
महाभारते ।
धर्मार्जितो महान् कोशो यस्य स्यात् पृथिवीपतेः ।
सो ऽत्यल्पपरिवारो ऽपि पृथिवीम् अधितिष्ठति ॥
इति कोशः
[९५]
९ — अथ दण्डः
तत्र महाभारते ।
प्रकाशश् चाप्रकाशश् च दण्डो ऽत्र परिकल्पितः ।
प्रकाशो ऽष्टविधस् तत्र गुह्यश् च बलवत्तरः ॥
रथा नागा हयाश् चैव पादाताश् चैव भारत ।
विष्टिर् नाविचाराश् चैव दैशिका इति चाष्टमः ॥
अनुरक्तेन हृष्टेन पुष्टेन च महीपते ।
स्वल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥
“विष्टिः” बलात्कारेण आकृष्टः कर्मकरः । “दैशिकाः” देशे भवाः पुरुषाः ॥
इति दण्डः ॥
[९६]
१० — अथ मित्रम्
तत्र मनुः ।
हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा कृशम् अप्य् आयतिक्षमम् ॥
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिम् एव च ।
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥
याज्ञवल्क्यः ।
हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा यतः ।
अतो यतेत तत्प्राप्त्यै रक्षेत् सत्यं समाहितः ॥
मत्स्यपुराणे ।
पितृपैतामहं मित्रं सामन्ताश् च तथा रिपोः ।
कृत्रिमं च महाभाग त्रिविधं मित्रम् उच्यते ॥
महाभारते ।
वेदितव्यानि मित्राणि बोद्धव्याश् चापि शत्रवः ।
[९७] एतत् सुसूक्ष्मं लोके ऽस्मिन् दृश्यते प्राज्ञसम्मतम् ॥
यो ऽस्मिन् जीतितस्यार्थे पश्यन् पीडां न जीवति ।
स तस्य तावन् मित्रं स्याद् यावत् तस्माद् विपर्ययः ॥
नास्ति मैत्री स्थिरा नाम न च घ्रुवम् असौहृदम् ।
अर्थयुक्त्याभिजायन्ते मित्राणि रिपवस् तथा ॥
मित्रं च शत्रुताम् एति कस्मिंश्चित् कालपर्यये ।
शत्रुश् च मित्रताम् एति स्वार्थस् तु बलवत्तरः ॥
व्यासः ।
न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः ।
सामर्थ्ययोगाज् जायन्ते मित्राणि रिपवस् तथा ॥
याज्ञावल्क्यः ।
स्वाम्यमात्यजना दुर्गं कोशो दण्डस् तथैव च ।
मित्राण्य् एताः प्रकृतयः राज्यं सप्ताङ्गम् उच्यते ॥
मनुः ।
स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत् तथा ।
सप्तप्रकृतयो ह्य् एताः सप्ताङ्गं राष्ट्रम् उच्यते ॥
सप्तानां प्रकृतीनां च राज्यस्यासां यथाक्रमम् ।
[९८] पूर्वं पूर्वं गुरुतरं जानीयाद् व्यसनं नृपः ॥
सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत् ।
अन्योन्यगुणवैशम्यान् न किञ्चिद् अतिरिच्यते ॥
तेषु तेषु हि कृत्येषु तत् तद् अङ्गं विशिष्यते ।
येन तत् स्थाप्यते कार्यं तत् तस्मिन् श्रेष्ठम् उच्यते ॥
“व्यसनम्” व्यसनकारणं दोषवद् इति शेषः ॥
इति मित्रम् ॥
[९९]
११ — अथ राजपुत्ररक्षा
तत्र मत्स्यपुराणे ।
राजपुत्रस्य रक्षा च कर्तव्या पृथिवीक्षिता ।
आचार्यश् चापि कर्तव्यो नित्ययुक्तैश् च रक्षिभिः ॥
धर्मकामार्थसूत्राणि धनुर्वेदं च शिक्षयेत् ।
रथे च कुञ्जरे चैनं व्यायामं कारयेत् सदा ॥
शिल्पानि शिक्षयेच् चैनम् आप्तैर् मिथ्याप्रियं वदेत् ।
शरीररक्षाव्याजेन रक्षिणो ऽस्य नियोजयेत् ॥
न चास्य सङ्गो दातव्यः क्षुद्रलुब्धावमानितैः ।
तथा च विनयेद् एनं यथा यौवनगो मुखे ॥
इन्द्रियैर् नापकृष्येत सतां मार्गात् सुदुर्गमात् ।
गुणाधानम् अशक्यं तु यस्य कर्तुः स्वभावतः ॥
बन्धनं तस्य कर्तव्यं गुप्तदेशे सुखान्वितम् ।
[१००] अविनीतकुमारं हि कुलम् आशु विशीर्यते ॥
अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ।
आदौ स्वल्पे ततः पश्चात् क्रमेण च महत्स्व् अपि ॥
“यौवनगः” यौवनप्राप्तः । “मुखे” आदौ । महाभारते ।
नैव स्वैर् अरिभिर् वापि ग्रस्यते पुत्रवान् नृपः ।
तस्माद् राजा सदा पुत्रं संरक्षेच् छिक्षयेत च ॥
अमात्यैर् आत्मसदृशैः राजपुत्रस्य रक्षणम् ।
चारैश् च विविधोपायैः प्रविधेयं पृथग्विधैः ॥
“स्वकीयैः” सामन्तादिभी रक्षणं प्रविधेयम् इत्य् अन्वयः ॥
इति राजपुत्ररक्षा
[१०१]
१२ — अथ मन्त्रः
तत्र मनुः ।
उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुत्वाग्निं ब्राह्मणांश् चार्च्य प्रविशेत् स शुभां सभाम् ॥
तत्रास्थिताः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ॥
श्रीरामायणे ।
त्रिविधाः पुरुषा लोके उत्त्माधममध्यमाः ।
तेषां तु समवेतानां गुणदोषं वदाम्य् अहम् ॥
मन्त्रिभिर् मन्त्रसंयुक्तैः समर्थैर् मन्त्रनिश्चये ।
मित्रैर् वापि समानार्थैर् बान्धवैश् चातिवाहितैः ॥
मन्त्रिभिर् मन्त्रयित्वा यः कर्मारम्भे प्रवर्तते ।
तत्रैव कुरुते यत्नं तम् आहुः पुरुषोत्तमम् ॥
एको ऽर्थं विमृशत्य् एको धर्मे प्रकुरुते मतिम् ।
एकः कार्याणि कुरुते तम् आहुर् मध्यमं नरम् ॥
गुणदोषाव् अनिश्चित्य त्यक्तधर्मव्यपाश्रयः ।
[१०२] करिष्यामीत्य् उपेक्षेत यः कार्यं स नराधमः ॥
यथैव पुरुषा नित्यम् उत्तमाधममध्यमाः ।
एवं मन्त्रो ऽपि विज्ञेयाः उत्तमाधममध्यमः ॥
ऐकमत्यम् उपागत्य शास्त्रदृष्टेन चक्षुषा ।
मन्त्रिणां मन्त्रनियमः तम् आहुर् मन्त्रम् उत्तमम् ॥
बह्व्यस् तु मतयो भूत्वा मन्त्रिणाम् अर्थसिद्धये ।
पुनर् यत्रैकतां यान्ति स मन्त्रो मध्यमः स्मृतः ॥
अन्योन्यमतिम् आस्थाय यत्र सम्प्रतिपद्यते ।
न चैकमत्ये श्लेषो ऽस्ति स मन्त्रो ऽधम उच्यते ॥
अर्थानर्थौ हि यत्रोभौ संशयश् च परीक्ष्यते ।
स मन्त्र इति विज्ञेयः शेषस् तु खलु विक्रमः ॥
“समानार्थैः” समानप्रयोजनैः । मनुः ।
गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः ।
अरण्ये निःशलाके वा मन्त्रयेद् आ विभाइतः ॥
यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
[स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनो ऽपि पार्थिवः ॥
[१०३] “निःशलाके” निर्जने । याज्ञवल्क्यः ।
मन्त्रमूलं यतो राज्यम् अतो मन्त्रं सुरक्षितम् ।
कुर्याद् यथास्य न] विदुः कर्मणाम् आ फलोदयात् ॥
मनुः ।
जडमूकान्धबधिरांस् तैर्यग्योनान् वयोतिगान् ।
स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकाले प्रसेधयेत् ॥
निन्दन्त्य् अवमता मन्त्रं तैर्यग्योनास् तथैव च ।
स्त्रियश् चैव विशेषेण तस्मात् तास्व् आदृतो भवेत् ॥
“तैर्यग्योनाः” तिर्यग्योनिभवाः शुकसारिकादयः । महाभारते ।
मन्त्रभेदस्य यत् प्राज्ञो द्वाराणीमानि कल्पयेत् ।
अथ सम्पत्तिकामश् च रक्षेद् एतानि नित्यशः ॥
मदं स्वप्नम् अवज्ञानम् आकारं चात्मसम्भवम् ।
दुष्टामात्येषु विश्रम्भं दूतं चाकुशलं तथा ॥
मन्त्रनिश्चयतत्त्वज्ञं षाड्गुण्यगुणवेदिनः ।
[१०४] शक्तान् कुलोचितान् भक्तान् अनाक्षारितपूर्वकान् ॥
नीतिज्ञान् व्यवहारज्ञान् इतिहासार्थकोविदान् ।
इङ्गितज्ञान् उपायज्ञान् शरान् [शूरान्?] वीरान् कुलोद्भवान् ॥
सर्वकार्येषु निपुणान् इष्वस्त्रविधिपारगान् ।
दुर्गयन्त्रविधानज्ञान् धर्मशास्त्रार्थपारगान् ॥
अक्षुद्रान् क्षमिणः प्राज्ञान् अनागतविधायिनः ।
आयत्यां प्रतिकारज्ञांस् तदात्वे दृढनिश्चयान् ॥
द्विषन्मित्राद्युदासीनभावज्ञान् संशितव्रतान् ।
स्वभावगुप्तान् अचलान् अचलान् इव भारत ॥
धर्मशीलान् अकृपणांस् तथा सर्वोपधातिगान् ।
धिया सर्वान् सम्परीक्ष्य राजा कुर्वीत मन्त्रिणः ॥
ये ऽस्य राजधुरं वोढुं समर्थाः सद्गवा इव ।
तैः समेत्य महीपालो गुप्तमन्त्रो जितेन्द्रियः ॥
विधानं दर्शने यत्नम् आतिष्ठेद् भरतर्षभ ॥
“अनाक्षारितपूर्वकान्” वाचानवमानितान् । “सर्वोपधातिगान्” सर्वच्छद्मवर्जितान् ।
मत्स्यपुराणे ।
नैकस् तु मन्तयेन् मन्त्रं न राजा बहुभिः सह ।
नारुह्य विषमां नावं नापरीक्षितवाविकाम् ॥
[१०५] श्रीरामायणे ।
अनभिज्ञाय शास्त्राणि बहवः पशुबुद्धयः ।
प्रागल्भ्याद् वक्तुम् इच्छन्ति मन्त्रेष्व् अभ्यन्तरीकृताः ॥
मन्त्रिरूपा हि रपवः सम्भाव्यास् ते विचक्षणैः ।
ये हितोदयम् उत्सृज्य विपरीतोपसेविनः ॥
अहितं हि हिताकारं धार्ष्ट्याज् जल्पन्ति ये नराः ।
अवेक्ष्या मन्त्रबाह्यास् ते कर्तव्याः कृतदूषणाः ॥
विनाशाय स्वभर्तुर् हि संहताः शत्रुभिर् बुधैः ।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥
मनुः ।
मौलान् शास्त्रविदः शूरांल् लब्धलक्ष्यान् कुलोद्गतान् ।
सचिवान् सप्त वाष्टौ वा प्रकुर्वीत परीक्षितान् ॥
तेषां स्वं स्वम् अभिप्रायम् उपलभ्य पृथक् पृथक् ।
समस्तानां च कार्येषु विदध्याद् धितम् आत्मने ॥
सर्वेषां तु विशिष्ठेन ब्राह्मणेन विपश्चिता ।
मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥
नित्यं तस्मिन् समाश्वासः सर्वकार्याणि निक्षिपेत् ।
तेन सार्धं विनिश्चित्य ततः कार्यं समारभेत् ॥
[१०६] श्रीरामायणे ।
यत् प्रियं च हितं चैव साधुधर्म्यं च सर्वशः ।
ब्रूयुस् तन्मन्त्रिणो वाक्यं मन्त्र्यमाणे विशेषतः ॥
प्राप्ते कार्ये शरीरं तु नेतुं स्वां गुणसम्पदम् ।
प्रियम् उत्सृज्य वक्तव्यं हितम् एव हि मन्त्रिणा ॥
सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥
मन्त्रिणः इत्य् अनुवृत्तौ मनुः ।
तैः सार्धं चिन्तयेन् नित्यं सामान्यं सन्धिविग्रहम् ।
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥
मध्यन्दिने च रात्रौ च विश्रान्तो विगतक्लमः ।
चिन्तयेद् धर्मकामार्थान् सार्धं तैर् एक एव वा ॥
परस्परविरुद्धानां तेषां च समुपार्जनम् ।
कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥
दूतसम्प्रेषणं चैव कार्यशेषं तथैव च ।
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥
[१०७] कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च यत्नतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥
मध्यमस्य प्रचारं च विजिगीषोश् च चेष्टितम् ।
उदासीनप्रचारं च शत्रोश् चैव प्रयत्नतः ॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥
अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः ।
प्रत्येकं कथिता ह्य् एताः सङ्क्षेपेण द्विसप्ततिः ॥
अनन्तरम् अरिं विद्याद् अरिसेविनम् एव च ।
अरेर् अनन्तरं मित्रम् उदासीनं तयोः परम् ॥
विकृष्टे ऽध्वन्य् अनायत्तम् उदासीनो बलान्वितः ।
स खिलो मण्डलार्थस् तु यस्मिन् ज्ञेयः स मध्यमः ॥
तथा ।
प्राज्ञं कुलीनं दातारं शूरं दक्षं तथैव च ।
कृतज्ञं शक्तिमन्तं च कष्टम् आहुर् अरिं बुधाः ॥
[१०८] आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
स्थूललक्षश् च सततम् उदासीनगुणोदयः ॥
तथा ।
तान् सर्वान् अभिसन्दध्यात् सामादिभिर् उपक्रमैः ।
व्यस्तैश् चैव समस्तैश् च पौरुषेण नयेन च ॥
“स्थानम्” चतुर्विधं सैन्यकोशपुरराष्ट्रभेदेन । “समुदयः” कृषिव्यजनगुल्मस्थानवणिक्पशुशुल्कदाण्डदिः । “गुप्तिः” राष्ट्रादिरक्षा । “लब्धप्रशमनम्” देवताश्रमविद्यावतां धार्मिकाणां दानसम्मानयोगः । “तेषाम्” धर्मार्थकामानाम् । “समुपार्जनम्” सम्यगविरोधेनोत्पादनम् । “प्रणिधयः” चराः । ऽअष्टविधं कर्म" उशनसोक्तं यथा ।
आदाने च विसर्गे च तथा प्रैषनिषेधयोः ।
पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥
दण्डशुद्धौ तथा युक्त आत्मशुद्धौ तथैव च ।
अष्टकर्मा दिवं याति राजा शक्राभिपूजितः ॥
“पञ्चवर्गः” पञ्चप्रकाराणां चाराणां समूहः । ते च यथा – श्रद्धेयदेशविशेषशिल्पभाषादिविदो जनाः । [१०९] तथा कुब्जवामनकिरातमूकबधिर-जडान्धादिछद्मिनः । तथा नटनर्तकगायनादयः । तथा स्त्रियो ऽभ्यन्तरचारिण्यः । तथा श्रमणादयः । एतेषां प्रवृत्तिज्ञानार्थाश् चारसमूहाः स्वस्य परस्य च बोद्धव्याः । “अनुरागापरागौ” मन्त्रिपुरोहितसेनापतियुवराजदौवारिकादीनाम् आत्मीयपञ्चविधचारवर्गाद् बोद्धव्यौ इत्य् अर्थः । ऽमध्यमस्य प्रचारम्" इति । एतस्मिन् राजमण्डले इमाश् चतस्रो राजप्रकृतयो भवन्ति, विजिगीषुर् अरिर् मध्यम उदासीन इति । तत्रैषाम् एव राजप्रकृतिसम्पन्नो जेतुम् अभ्युद्यतः स विजिगीषुः । शत्रुस् त्रिविधः – सहजः, कृत्त्रिमः, स्वभूम्यनन्तर इति । “मध्यमः” अनयोर् अरिजिगीषावृत्तयोर् असंहतयोर् निग्रहसमर्थः । “उदासीनः” अरिविजिगीषुमध्यमानाम् असंहतानां निग्रहसमर्थः । एतासां चतसृणां मण्डलस्य मूलप्रकृतीनाम् एकैकस्याः प्रकृतेर् अमित्रमित्रं वेति द्वे द्वे प्रकृती । एता अष्टौ, आद्याश् चतस्रः । एवम् उभयतो द्वादश भवन्ति । “अमात्य” इत्यादि अमात्यादयः पञ्च प्रकृतयः द्वादशानां प्रकृतीनाम् एकैकस्या भवन्त्य् अतः षड्द्वादशकाद् द्विसप्ततिर् भवति ।
[११०] महाभारते ।
विजिगीषोर् अरिर् मित्रम् अरेर् मित्रम् अतः परम् ।
मित्रमित्रं शत्रुमित्रं मित्रं ज्ञेयं पुरःसरम् ॥
पार्ष्णिग्राहस् तथा क्रन्दः पार्ष्ण्यासारश् च पृष्ठतः ।
आक्रन्दासार इति च ज्ञेयं मण्डलचिन्तकैः ॥
पार्ष्णिग्राहाभिसारं च पार्ष्णिग्राहं च विग्रहे ।
राजाक्रन्दाभिसारेण तथाक्रन्देन वर्धयेत् ॥
विरोधयेच् छत्रुमित्रं मित्रमित्रम् अरेस् तथा ।
मित्रेण मित्रमित्रेण मध्यमत्वाभिवाञ्छकः ॥
मन्त्रप्रभूत्साहशक्तिः पालयेद् आत्मवान् नृपः ॥
“वर्धयेत्” छेदयेत् ॥
*इति मन्त्रः *
[१११]
१३ — अथ षाड्गुण्यम्
तत्र मनुः ।
सन्धिं च विग्रहं चैव यानम् आसनम् एव च ।
द्वैधीभावं संश्रयं च षड्गुणांश् चिन्तयेत् सदा ॥
आसनं चैव यानं च सन्धाय विगृह्य च ।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयम् एव च ॥
सन्धिं तु द्विविधं विद्याद् राजविग्रहम् एव च ।
उभे यानासने चैव द्वैधं संश्रयम् एव च ॥
समानयानकर्मा च विपरीतस् तथैव च ।
तदात्वायतिसंयुक्तः सन्धिर् ज्ञेयो विचक्षणैः ॥
स्वयं कृतं च कार्यार्थम् अकाले काल एव च ।
[११२] मित्रं चैवाप्य् अप्रकृते द्विविधो विग्रहः स्मृतः ॥
एकाकिनश् चात्ययिके काले प्राप्ते यथेच्छया ।
संहतस्य च मित्रेण द्विविधं यानम् उच्यते ॥
क्षीणस्य चैव क्रमशो दैवात् पूर्वकृतेन वा ।
मित्रस्य चानुरोधेन द्विविधं स्मृतम् आसनम् ॥
बलस्य स्वामिनश् चैव स्थितिः कार्यस्य सिद्धये ।
द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥
अर्थसम्पादनार्थं च पीड्यमानश् च शत्रुभिः ।
साधुषु व्यपदेशश् च द्विविधः संश्रयः स्मृतः ॥
यदावगच्छेद् आयत्याम् आधिक्यं ध्रुवम् आत्मनः ।
तदात्वे वाधिकां पीडां तदा सन्धिं समाश्रयेत् ॥
यदा प्रकृष्टा मन्येत सर्वास् तु प्रकृतीर् भृशम् ।
अत्युच्छ्रितं तथात्मानं तदा मन्येत विग्रहम् ॥
यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
परस्य विपरीतं च तदा यायाद् रिपुं प्रति ॥
यदा तु स्यात् परिक्षीणो वाहनेन बलेन च ।
तदासीत प्रयत्नेन शनकैः सान्त्वयन्न् अरीन् ॥
मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।
[११३] तदा द्विधा बलं कृत्वा साधयेत् कार्यम् आत्मनः ॥
यदा परबलानां तु गमनीयतमो भवेत् ।
तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं रिपुम् ॥
निग्रहं प्रकृतीनां च कुर्याद् यो निर्बलस्य च ।
उपसेवेत तं नित्यं सर्वयत्नैर् गुरुं यथा ॥
यदि तत्रापि सम्पश्येद् दोषं संश्रयकारिणम् ।
सुयुद्धम् एव तत्रापि निर्विशङ्कः समाचरेत् ॥
सर्वोपायैस् तथा कुर्यान् नीनिज्ञः पृथिवीपतिः ।
यथा स्वाद् अधिका न स्युर् मित्रोदासीनशत्रवः ॥
आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥
आयत्यां गुण्दोषज्ञस् तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञः शत्रुभिर् नाभिभूयते ॥
यथैनं नाभिसन्दध्युर् मित्रोदासीन्श्त्रवः ।
तथा सर्वं समादध्याद् एष सामासिको नयः ॥
तथा ।
चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् ।
[११४] स्वशक्तिं परशक्तिं च नित्यं विद्यात् परात्मनोः ॥
पीड्नानि च सर्वाणि व्यसनानि तथैव च ।
आरभेत ततः कार्यं सञ्चिन्त्य गुरुलाघवम् ॥
आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः ।
कर्माण्य् आरभमाणं हि पुरुषं श्रीर् निषेवते ॥
इति षाड्गुण्यम् ।
[११५]
१४ — अथ यात्रा
तत्र मनुः ।
यदा तु यानम् आतिष्ठेद् अरिराष्ट्रं प्रति प्रभुः ।
तदानेन विधानेन यायाद् अरिपुरं शनैः ॥
मार्गशीर्षे शुभे मासे यायाद् यात्रां महीपतिः ।
फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥
अन्येष्व् अपि तु कालेषु यदा पश्येद् ध्रुवं जयम् ।
तदा यायाद् विगृह्यैव व्यसने वोत्थिते रिपोः ॥
याज्ञवल्क्यः ।
यदा सत्यगुणोपेतं परराष्ट्रं परं व्रजेत् ।
परश् च हीन आत्मा च हृष्टवाहनपूरुषः ॥
मत्स्यपुराणे ।
यदा मन्येत नृपतिर् आक्रन्देन बलीयसा ।
पार्ष्णिग्राहाभिभूतो ऽयं तदा यात्रां प्रयोजयेत् ॥
[११६] पार्ष्णिग्राहाधिकं सैन्यं मूले निक्षिप्य च व्रजेत् ।
दिव्यान्तरिक्षक्षितिजैर् उत्पातैः पीडितं परम् ॥
तम् ऋक्षपीडासन्तप्तं पीडितं च यथाग्रहैः ।
स्वबलव्यसनोपेतं तथा दुर्भिक्षापीडितम् ॥
सम्भूतान्तरकोपं च क्षिप्रं यायाद् अरिं नृपः ।
शरीरस्फुरणे धन्ये तथा सुस्वप्नदर्शने ॥
तथा ।
निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ।
अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं शुभम् ॥
अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य च ।
लाञ्छनं पिटकं चैव ज्ञेयं स्फुरणवत् तथा ॥
विपर्ययेन विहितं सर्वस्त्रीणां विपर्ययम् ।
दक्षिणे ऽपि प्रशस्ते ऽङ्गे प्रशस्तं स्याद् विशेषतः ॥
अथोन्यथा सिद्धिर् अजल्पनात् तु
फलस्य शस्तस्य विनिन्दितस्य ।
अरिष्टचिह्नोपगमे द्विजानां
कार्यं सुवर्णेन च तर्पणं स्यात् ॥
श्रीरामायणे शुभाशुभविषये त्रिजटावाक्यम् ।
समग्रभवनां कृत्स्नां ग्रसमानः पुरीम् इमाम् ।
[११७] स्वप्ने रामो मया दृष्टो रुधिरं पीतवान् बहु ॥
गजदन्तमयीं दिव्यां शिबिकाम् अन्तरिक्षगाम् ।
युक्तां नागसहस्रेण सुखम् आस्थाय राघवः ॥
स्वप्ने चाद्य मया दृष्टः शुक्लाम्बरवरावृतः ।
सागरेण परिक्षिप्तं श्वेतं पर्वतम् आस्थितः ॥
राघवश् च मया दृष्टश् चतुर्दन्तं महागजम् ।
आरूढः शैलसङ्काशं विचरन् सह लक्ष्मणः ॥
ततस् तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा ।
शुक्लमाल्याम्बरधरौ जानकीं प्रत्युपस्थितौ ॥
ततस् तस्य नगरस्याग्राद् आकाशस्थस्य दन्तिनः ।
भर्त्रा परिगृहीतस्य जानकी स्कन्धम् आश्रिता ॥
भर्तुर् अङ्कात् समुत्पत्य ततः कमललोचना ।
चन्द्रसूर्यौ मया दृष्टा पाणिना परिमार्जती ॥
ततस् ताभ्यां कुमाराभ्याम् आस्थितः स गजोत्तमः ।
सीतया च विशालाक्ष्या लङ्कां पर्यभिसंस्थितः ॥
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ।
शुक्लमाल्याम्बरो रामो लक्ष्मणेन सहागतः ॥
[रावणश् च मया दृष्टः क्षितौ तैलसमुक्षितः ।
रक्तवासाः पिबन् मत्तः करवीरकृतस्रजः ॥]
विमानात् पुष्पकाद् अद्य रावणः पतितो मया ।
क्रुश्यमाणः स्त्रिया दृष्टो मुण्डः पीताम्बरो हसन् ॥
[११८] रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।
स गत्वा दक्षिणाम् आशां प्रविष्टो गोमयं ह्रदम् ॥
कण्ठे बध्वा दशग्रीवं प्रमदा रक्तवासिनी ।
काली करालवदना दिशं याम्यां प्रकर्षति ॥
वराहेण दशग्रीवः शिंशुमारेण चासकृत् ।
उष्ट्रेण च मया दृष्टो प्रयातो दक्षिणां दिशम् ॥
समाजश् च मया दृष्टो गीतवादित्रनृत्यवान् ।
बिभ्रतां रक्तमाल्यानि रक्षसां रक्तवाससाम् ॥
लङ्का चेयं पुरी दृष्टा गजवाजिसमाकुला ।
सागरे पतिता कृत्स्ना भग्नप्राकारतोरणा ॥
पीत्वा तैलं प्रनृत्यन्ति प्रहसन्ति महास्वनाः ।
लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः ॥
कुम्भकर्णादयश् चेमे सर्वे राक्षसपुङ्गवाः ।
पीतैर् निवसनैर् दृष्टाः क्रीडन्तो गोमयह्रदे ॥
मत्स्यपुराणे ।
इदानीं कथयिष्यामि निमित्तं स्वप्नदर्शने ।
[११९] नाभिं विनान्यगात्रेषु तृणवृक्षसमुद्भवः ॥
चूर्णनं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा ।
मलिनाम्बरधारित्वम् अभ्यङ्गः पङ्कदिग्धता ॥
उच्चैः प्रपतनं चैव दोलारोहणम् एव च ।
अञ्जनं पङ्कलोहानां तपताम् अपि धारणम् ॥
रक्तपुष्पद्रुमाणां च चण्डालस्य तथैव च ।
वराहर्क्षखरोष्ट्राणां तथा चारोहणक्रिया ॥
भक्षणं पक्वमांसानां तैलस्य कृशरस्य च ।
नर्तनं हसनं चैव विवाहो गतिम् एव च ॥
तन्त्रीवाद्यविहीनानां वाद्यानाम् अपि वादनम् ।
स्रोतो ऽवगाहो गमनं स्नानं गोमयवारिणा ॥
पङ्कोदकेन च तथा महीतोयेन चाप्य् अथ ।
मातुः प्रवेशो जठरे चितारोहणम् एव च ॥
शक्रध्वजानां पतनं पतनं शशिसूर्ययोः ।
द्वियान्तरिक्षभौमानाम् उत्पातानां च दर्शनम् ॥
देवद्विजातिभूपालगुरूणां क्रोध एव च ।
आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ॥
हानिश् चैव स्वगात्राणां विरेकवमनक्रिया ।
दक्षिणाशाभिगमनं व्याधिनाभिभवस् तथा ॥
फलापहारहानिश् च गृहाणां चैव पातनम् ।
[१२०] गृहसम्मार्जनं चैव धनहानिं विनिर्दिशेत् ॥
पीडा पिशाचक्रव्यादवानरान्त्यनरैर् अपि ।
पराद् अभिभवश् चैव तस्माच् च व्यसनोद्भवः ॥
काषायवस्त्रधारित्वं तद्वत् स्त्रीक्रीडनं। तथा ।
स्नेहपानावगाहौ च रक्तमाल्यानुलेपनम् ॥
ऽतद्वत् स्त्रीक्रीडनम्" काषायवस्त्रयुक्तस्त्रिया सह क्रीडनम् ।
एवमादीन्य् अधन्यानि स्वप्नानि तु विनिर्दिशेत् ।
एषाम् अकथनं धन्यं भूयश् च स्वपनं तथा ॥
कल्कस्नानं तिलैर् होमो ब्राह्मणानां च पूजनम् ।
स्तुतिश् च वासुदेवस्य तथा तस्यैव पूजनम् ॥
गजेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्ननाशनम् ।
स्वप्नास् तु प्रथमे यामे संवत्सरविपाकिनः ॥
षड्भिर् मासैर् द्वितीये तु त्रिभिर् मासैस् तृतीयके ।
चतुर्थे मासमात्रेण पश्यतो नात्र संशयः ॥
एकस्यां यदि वा रात्रौ शुभं वा यदि वाशुभम् ।
पश्चाद् दृष्टस् तु यस् तत्र तस्य पाकं विनिर्दिशेत् ॥
[१२१] तस्माच् छोभनके स्वप्ने पश्चात् स्वप्नं न शस्यते ।
शैलप्रासादनागाश् च वृषभारोहणं हितम् ॥
द्रुमाणां श्वेतपुष्पाणां गमनं च तथा द्विज ।
द्रुमतृनोद्भवो वाहौ तथा च बहुबाहुता ॥
तथा च बहुशीर्षत्वं पलितोद्भव एव च ।
सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता ॥
चन्द्रार्कताराग्रसनं परिमार्जनम् एव च ।
शक्रध्वजालिङ्गनं च तदुच्छ्रायक्रिया तथा ॥
भूम्यम्बुधराग्रसनं शत्रूणां च वधक्रिया ।
जयो विवादे द्यूतेषु सङ्ग्रामे च तथा द्विजः ॥
भक्षणं चार्द्रमांसानां [मत्स्यानां पायसस्य च ।
दर्शनं रुधिरस्यापि स्नानं च रुधिरेण ह ॥
सुरारुधिरमद्यानां] पानं क्षीरस्य चाप्य् अथ ।
अन्त्रैर् विवेष्टनं भूमौ निर्मलं गगनं तथा ॥
सुखेन दोहनं शस्तं महिषीणां गवां तथा ।
संहीनां हस्तिनीनां च बडवानां तथैव च ॥
प्रसादो देवविप्रेभ्यो गुरुभ्यश् च तथा शुभाः ।
अम्भसा त्व् अभिषेकस्य गवां शृङ्गाश्रितेन च ॥
चन्द्राद् भ्रष्टेन वै राजन् ज्ञेयो राज्यप्रदो हि सः ।
राज्याभिषेकश् च तथा छेदनं शिरसस् तथा ॥
[१२२] मरणं वह्निदाहश् च वह्निदाहो गृहादिषु ।
लब्धिश् च राज्यलिङ्गानां तन्त्रीवाद्यादिवादनम् ॥
तथोदकानां तरणं विषयस्य च लङ्घनम् ।
हस्तिनीबडवानां च गवां च प्रसवो गृहे ॥
आरोहणं तथा श्वानां रोदनं च तथा शुभम् ।
वरस्त्रीणां तथा लाभस् तदालिङ्गनम् एव च ॥
निगडैर् बन्धनं धन्यं तथा विष्टानुलेपनम् ।
जीवानां भूमिपालानां सुहृदाम् अपि दर्शनम् ॥
दर्शनं देवतार्चानां विमलानां तथाम्भसाम् ॥
शुभान्य् अथैतानि नरस् तु दृष्ट्वा
प्राप्नोत्य् अयत्नाद् भुवम् अर्थलाभम् ।
स्वप्नानि धर्मज्ञ भृतां वरिष्ठ
व्याधेर् विमोक्षं च तथातुरो ऽपि ॥
मनुः ।
कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।
उपगृह्यास्पदं चैव चारान् सम्यग् विधाय च ॥
संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् ।
साम्परायिककल्पेन यायाद् रिपुपुरं प्रति ॥
[१२३] शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥
“साम्परायिककल्पेन” युद्धकल्पेन । मत्स्यपुराणे ।
पदातिनागबहुलां सेनां प्रावृषि योजयेत् ।
हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम् ॥
खरोष्ट्रबहुलं सेनां तथा ग्रीष्मे नराधिपः ।
चतुर्विधबलोपेतां वसन्ते वा शरद्य् अथ ॥
सेना पदातिबहुला यस्य स्यात् पृथिवीपतेः ।
अभियोज्यो भवेत् तेन शत्रुर् विषमम् आश्रितः ॥
रम्ये वृक्षावृते देशे स्थितं शत्रुं तथैव च ।
किञ्चित् पङ्के तथा यायाद् बहुनागो नराधिपः ॥
रथाश्वबहुलो यायात् क्षेत्रं समपथाश्रयम् ।
जलाश्रयं नौबहुलस् तथा राजा रुपूञ् जयेत् ॥
खरोष्ट्रबहुलो राजा शत्रुं बन्धनसंस्थितम् ।
बन्धनस्थो ऽपि योज्यो ऽरिः सदा प्रावृषि भूभुजा ॥
[१२४] हिमपातयुते देशे स्थितं ग्रीष्मे ऽभियोजयेत् ।
यवसेन्धनसंयुक्तं काले पार्थिवहैमजे ॥
शरद्वसन्तौ धर्मज्ञ कालौ साधारणौ स्मृतौ ॥
विज्ञाय राजा द्विजदेशकालौ
दैवं त्रिकालं च तथैव बुध्वा ।
यायात् परं कालविदां मतेन
सञ्चिन्त्यमानं द्विजमन्त्रविद्भिः ॥
मनुः ।
दण्डव्यूहेन तन् मार्गं यायात् तु शकटेन वा ।
वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥
यतः शङ्केत सभयं ततो विस्तारयेद् बलम् ।
पद्मेन चैव व्यूहेन निवसेत तदा स्वयम् ॥
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।
भयं यतो वा शङ्केत तां प्राचीं कल्पयेद् दिशम् ॥
गुल्मांश्च स्थापयेद् आप्तान् शतसङ्ख्यांस् ततस् ततः ।
स्थाने युद्धे च कुशलान् अभीतान् अधिकारिणः ॥
[१२५] शङ्खलिखितौ ।
राजक्रतुर् एवाश्वमेधस् तं नासार्वभौमः प्रतिपादयितुम् अर्हति । अश्वमेधेन यक्ष्ये इति परविषयम् अभियायाद् देशकालशक्तिसम्पन्नः प्रभूतयवसेन्धनोदकाविच्छिन्नसाम्परायिकः । पथि संविहितसर्वोपकरणो दुर्गासारामात्यदेशदण्डाक्रन्दाद्यगुणविधिज्ञः, पर्षदम् प्रति नयवान् विदितम् अध्वानं हितम् अनुक्रामेद् यथा भूमिभागस् तथा विनियोगः श्रेयान् पानभोजनोपनिवेशः स्थानशङ्काप्रतिविधानकुशलो भूपतिर् अवहितः शत्रुणा सह युध्येत् ॥
याज्ञवल्क्यः ।
य एव धर्मो नृपतेः स्वराष्ट्रपरिपालने ।
तम् एव कृत्स्नम् आप्नोति परराष्ट्रं वशं नयन् ॥
मनुः ।
उपरुध्यारिम् आसीत राष्ट्रं वास्योपपीडयेत् ।
दूषयेच् चास्य सततं यवसान् नोदकेन्धनम् ॥
भिन्द्याच् चैव तडाकानि प्राकारपरिखास् तथा ।
समवस्कन्दयेच् चैनं रात्रौ वित्रासयेत् तथा ॥
उपरुध्यानुपजपेद् युध्येतैव च तत्कृतम् ।
[१२६] युक्ते च दैवे युध्येत जपप्रेप्सुर् अपेतभिः ॥
तथा ।
एवं विजयमानस्य ये ऽस्य स्युः परिपन्थिनः ।
तान् आनयेद् वशं सर्वान् सामादिभिर् उपक्रमैः ॥
यदि ते तु न तिष्ठेयुर् उपायैः प्रथमैस् त्रिभिः ।
दण्डेनाभिप्रसह्यैनं शनकैर् वशम् आनयेत् ॥
याज्ञवल्क्यः ।
उपायाः साम दानं च भेदो दण्डस् तथैव च ।
सम्यक् प्रयुक्ताः सिध्येयुर् दण्डस् त्व् अगतिका गतिः ॥
मनुः ।
सामादीनाम् उपायानां चतुर्णाम् अपि पण्डिताः ।
सामदण्डौ प्रशंसन्ति नित्यं राज्याभिवृद्धये ॥
मत्स्यपुराणे ।
सामभेदस् तथा दानं दण्डश् च मनुजोत्त्म ।
[१२७] उपेक्षा च तथा माया इन्द्रजालं च पार्थिव ॥
प्रयोगाः कथिताः सप्त तान् मे निगदतः शृणु ।
द्विविधं कथितं साम तथ्यं चातथ्यम् एव च ॥
तत्राप्य् अतथ्यं साधूनाम् आक्रोशायैव जायते ।
तथा साधुः प्रयत्नेन सामसाध्यो नरोत्तम ॥
महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः ।
सामसाध्या न चातथ्यन्तेषु साम प्रयोजयेत् ॥
तथ्यं साम च कर्तव्यं कुलशीलादिवर्णनम् ।
तथा तदुपचाराणां कृतानां चैव वर्णनम् ॥
अनयैव तथा युक्त्या कृतज्ञख्यापनं स्वकम् ।
एवं सान्त्वेन कर्तव्या वशगा धर्मतत्पराः ॥
साम्ना यद्य् अपि रक्षांसि गृह्णन्तीति परा श्रुतिः ।
तथाप्य् एतद् असाधूनां प्रयुक्तं नोपकारकम् ॥
अतिशङ्क्तम् इत्य् एवं पुरुषं सामवेदितम् ।
असाधवो विजानन्ति तस्मात् तत् तेषु वर्जितम् ॥
तथा ।
परस्परं च ये दुष्टाः क्रुद्धा भीतावमानिताः ।
तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥
आत्मीयां दर्शयेद् आशां परस्माद् दर्शयेद् भयम् ।
एवं हि भेदयेद् भिन्नान् यथावद् वशम् आनयेत् ॥
[१२८] सङ्गतां हि विना भेदं शक्रेणापि तु दुःसहा ।
भेदम् एव प्रशंसन्ति तस्मान् नयविशारदाः ॥
महिषी युवराजश् च तथा सेनापतिर् द्विज ।
अमात्या मन्त्रिणश् चैव राजपुत्रास् तथैव च ॥
अन्तःकोपा विनिर्दिष्टा दारुणा पृथिवीक्षिताम् ।
“अतिशङ्कितम्” अतिशपिता शङ्का यस्मिन् स तथा । “सामवेदिनम्” सामप्रयोक्तारम् ।
ब्रह्मपुराणे ।
स्वपक्षभेदो यत्नेन न कर्तव्यः कदाचन ।
दुर्गं कोशश् च देशश् च परराष्ट्रभयं विना ॥
स्वभेदेनैव नश्यन्ति बद्धमूला अपि प्रजाः ।
ऽपरराष्ट्रभयं विना" इति । स्वपक्षभेदे हि परचक्रभयं विनापि दुर्गादिकं नश्यतीत्य् अर्थः ।
[१२९] मत्स्यपुराणे ।
सर्वेषाम् अप्य् उपायानां दानं श्रेष्ठतमं मतम् ।
सुदत्तेनेह भवति दानेनोभयलोकजित् ॥
यद्य् अप्य् अलुब्धगम्भीराः पुरुषाः सागरोपमाः ।
न गृह्णन्ति तथाप्य् एते जायन्ते पक्षपातिनः ॥
न शक्या ये वशीकर्तुम् उपायत्रितयेन तु ।
दण्डेन तान् वशीकुर्याद् दण्डो हि वशकृत्तमः ॥
श्रीरामायणे ।
तत्र साम प्रयोक्तव्यम् आर्येषु गुणवत्सु च ।
दानं लुब्धेषु भेदश् च शङ्कितेष्व् इति निश्चयः ॥
दण्डस् तथैव पात्यश् च नित्यकाले दुरात्मसु ॥
मनुः ।
साम्ना भेदेन दानेन समस् तैर् उत वा पृथक् ।
विजेतुं प्रयतेतारीन् न युद्धेन कदाचन ॥
अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ।
पराजयश् च सङ्ग्रामे तस्माद् युद्धं विवर्जयेत् ॥
तथा ।
त्रयाणाम् अप्य् उपायानां पूर्वोक्तानां परिक्षये ।
[१३०] तथा युध्येत सम्पन्नो विजयेत रिपून् तथा ॥
तथा ।
संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून् ।
सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥
युध्येत स्यन्दनाश्वेन समे भूपोन्नतद्विपैः ।
वृक्षगुल्मावृते चापैर् असिचर्मायुधैः स्थले ॥
कुरुक्षेत्रांश् च मत्स्यांश् च पाञ्चालान् शरसेनजान् ।
दीर्घांल् लघूंश् चैव नरान् उग्रानीकेषु योजयेत् ॥
प्रहर्षयेद् बलं व्यूह्य भृशार्त्तांश् च परीक्षयेत् ।
चेष्टाश् चैव विजानीयाद् आरात् योधयताम् अपि ॥
महाभारते ।
राज्ञो ऽभियोगाद् योद्धव्यं ब्राह्मणेन विशेषतः ।
राज्ञो ऽधिकम् इत्य् अनुवृत्तौ गौतमः- “सङ्ग्रामे संस्थितानम् अनिवृत्तिश् च” । यमः ।
क्षत्रियस्योरसि क्षेत्रं पृष्ठे ब्रह्म प्रतिष्ठितम् ।
[१३१] तस्मात् पृष्ठं रणे रक्षेन् मा भवेद् ब्रह्मघातकः ॥
मनुः ।
समोत्तमाधमै राजा त्व् आहूतः समरे परैः ।
न निवर्तेत सङ्ग्रामात् क्षत्रधर्मम् अनुस्मरन् ॥
आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥
न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् ।
न कर्णिभिर् नापि दिग्धैर् नाग्निज्वालिततेजनैः ॥
[परस्परम्] “मिथः” स्पर्धमाना इति शेषः । “दिग्धैः” विषाक्तैः । बौधायनः ।
भीतमत्तोन्मत्तप्रमत्तविसन्नाहस्त्रीबालवृद्धब्राह्मणैर् न युध्येत अन्यत्राततायिनः ॥
गौतमः ।
न दोषो हिंशयाम् आहवे अन्यत्र व्यश्वसारथ्यायुध**[१३२]**कृताञ्जलिप्रकीर्णकेश-पराङ्मुखोपविष्टस्थलवृक्षारूढाद् ऋते गोब्राह्मणवादिभ्यः ॥
मनुः ।
न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्तकेशम् आसीनं न तवास्मीति वादिनम् ॥
न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥
नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥
देवलः ।
तृणखादी परप्रेप्सुर् अलसः शरणं गतः ।
षण्डः परार्दितो लिङ्गी स्थविरः पतितः शिशुः ॥
न धर्मयुद्धे हन्तव्या ज्ञेया योधर् अनापदि ॥
याज्ञवल्क्यः ।
य आहवेषु यध्यन्ते भूम्यर्थम् अपराङ्मुखाः ।
अकूटैर् आयुधैर् यान्ति ते स्वर्गं योगिनो यथा ॥
[१३३] देवलः ।
प्रजार्थं क्षत्रियो युद्ध्येत् स्वान् प्राणान् सम्परित्यजेत् ।
अश्वमेधफलं कृत्स्नं निसर्गेणाधिगच्छति ॥
शस्त्रेण निहतः सङ्ख्ये द्विषद्भिर् अपराङ्मुखः ।
शक्रलोकम् अवाप्नोति स्ववीर्याद् विजितं शुभम् ॥
आहवे ऽभुमुखे शूरं प्रहितानि द्विषद्गणैः ।
भिन्धुर् यावन्ति शस्त्राणि तावन्तः क्रतवो ऽस्य ते ॥
क्षतेभ्यः प्रस्रुतं रक्तं क्षितिपांसु सुसंस्पृशेत् ।
स देवलोके तावन्तं कालं तिष्ठति वै ध्रुवम् ॥
नास्ति राज्ञां समरतनुत्यागसदृशो धर्मः । गोब्राह्मणमित्रधनरक्षणार्थं मृतास् ते सर्गलोकभाजः । आपस्तम्बः- “ब्राह्मणस्वान्य् अपजिगीषमाणो [राजा यो हन्यते तम् आहुर् आत्मयूपो यज्ञो ऽनन्तदक्षिणः” इति ।
[१३४] “ब्राह्मणस्वानि” चोरादिभिर् अपहृतानि । “अपजिगीषमाणः” अपजित्य प्रत्यानेतुम् इच्छन्ति । ऽयो राजा" युध्यमानो “हन्यते” असौ साक्षात् यज्ञधर्म इत्य् अर्थः । व्यासः ।
ये हता निशितैः शस्त्रैः क्षत्रधर्मपरायणाः ।
ते गता ब्रह्मसदनं न मे ऽत्रास्ति विचारणा ॥
न यज्ञैर् दक्षिणाभिर् वा न तपोभिर् न विद्यया ।
स्वर्गं यान्ति तथा मर्त्या यथा योधा रणे हताः ॥
न ह्य् अधर्मो ऽस्ति पापीयान् क्षत्रियस्य पलायनात् ।
युद्धाद् धि धर्मः श्रेयान् वै पन्थाः स्वर्गस्य विद्यते ॥
याज्ञवल्क्यः ।
पदानि क्रतुतुल्यानि भग्नेषु विनिवर्तनात् ।
[१३५] राजा सुकृतम् आदत्ते हतानां विपलायिनाम् ॥
मनुः ।
यस् तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः ।
भर्तुर् यद् दुष्कृतं किञ्चित् सर्वं तत् प्रतिपद्यते ॥
यद् अस्य सुकृतं किञ्चिद् अमुत्रार्थम् उपार्जितम् ।
भर्ता तत् सर्वम् आदत्ते परावृत्तहतस्य तु ॥
पराशरः ।
पतितं स्वामिनं युद्धे त्यक्त्वा यान्ति पराङ्मुखाः ।
ये तेषां पापबुद्धीनां ब्रह्महत्या पदे पदे ॥
आदित्यपुराणे ।
सङ्ग्रामे प्रस्थितं भूपं भृत्यस् त्यजति यः क्षणात् ।
स तेन नृपदण्डेन मूढो नरकम् ऋच्छति ॥
जित्वारिं भोगसम्प्राप्तिर् मृतस्य च परा गतिः ।
निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ॥
शराणां यद् विनिर्याति रक्तम् आधावतां क्वचित् ।
तेनैव सह पाप्मानं सर्वं त्यजति वै मुने ॥
तथैव विचिक्त्सायां वेदना सहते तु याम् ।
ततो नास्त्य् अधिको लोके तपः परमदारुणम् ॥
मृतस्य नास्ति संस्कारो नाशौचं नोदकक्रिया ।
[१३६] कर्तुम् इच्छति यस्येह सङ्ग्रामाद् अधिकं हि किम् ॥
वराप्सरःसहस्राणि शूरम् आयोधने हतम् ।
अभिद्रवन्ति कामार्ता मम भर्ता भविष्यति ॥
यः सहायान् न परित्यज्य स्वस्थः सन् गन्तुम् इच्छति ।
अस्थितस्य च कुर्वन्ति देवाः शक्रपुरोगमाः ॥
शूरस्याग्रे यदा विप्र आर्त उत्क्रोशते भृशम् ।
न च तं त्रायते पापाच् छूरो नरकभाग् भवेत् ॥
ब्राह्मणानां गवां चैव रक्षार्थं हन्यते यदि ।
स शूरो जीवितं हित्वा इन्दुलोकं प्रपद्यते ॥
तथा ।
तोषयित्वा नृपं युद्धे राज्ञां कृत्वाग्रतः स्थितः ।
जित्वा न हरति द्रव्यं स नरः स्वर्गम् आश्रितः ॥
मृद्नाति यदि राष्ट्राणि यदा न हरते धनम् ।
यदि बध्येत तत्रैव स नरः स्वर्गम् आश्रितः ॥
तथा ।
प्रजार्थे निहता ये च राजानो धर्मतत्पराः ।
अग्निविद्युद्धता ये च सिंहव्याघ्रहताश् च ये ॥
प्राप्नुवन्ति च ते सर्वे पुरीम् ऐरावतीम् इमाम् ॥
[१३७] मनुः ।
रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः ।
सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ॥
राज्ञश् च दद्युर् उद्धारम् इत्य् एषा वैदिकी श्रुतिः ।
राज्ञा च सर्वयोधेभ्यो दातव्यम् अपृथग्जितम् ॥
गौतमः ।
जेता लभेत साङ्ग्रामिकं वित्तम्, वाहनं तु राज्ञः, उद्धारांश् चापृथग्जये । अन्यत् तु यथार्हं भाजयेद् राजा ॥
मनुः ।
जित्वा सम्पूजयेद् देवान् ब्राह्मणांश् चैव धार्मिकान् ।
प्रदद्यात् परिहारांश् च ख्यापयेद् अभयानि च ॥
[१३८] सर्वेषां तु विदित्वैषां समम् एव चिकीर्षितम् ।
स्थापयेत् तत्र तद्वंश्यं कुर्याच् च समयक्रियाम् ॥
प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् ।
रत्नैश् च पूजयेद् एनं प्रधानपुरुषैः सह ॥
आदानम् अप्रियकरं दानं च प्रियकारकम् ।
अभीप्सितानाम् अर्थानां कालयुक्तं प्रशस्यते ॥
[ऽप्रदद्यात् परिहारान्ऽ] राजग्राह्यम् अपि ऽजनानुरागार्थं किञ्च्द् अंशं परित्यजेद् इत्य् अर्थः । “प्रमाणानि” इति । यस्मिन् देशे ये धर्मास् ते तथैव पालनीयाः । “कालयुक्तम्” इति । अप्रियकरम् अपि कालाप्रेक्षया प्रशस्यत इत्य् अर्थः । विष्णुः ।
राजा परपुरप्राप्तौ तत्कुलीनम् अभिषिञ्चयेत् । न राजकुलम् उच्छिन्द्यात् अन्यत्राकुलीनराजकुलात् ॥
[१३९] कात्यायनः ।
दुष्टस्यापि नरेन्द्रस्य तद्राष्ट्रं न विनाशयेत् ।
न प्रजानुमतो यस्माद् अन्यायेषु प्रवर्तते ॥
याज्ञवल्क्यः ।
यस्मिन् देशे य आचारो व्यवहारः कुलस्थितः ।
तथैव परिपाल्यो ऽसौ यदा वशम् उपागतः ॥
[अथ पौरुषम्]
मनुः ।
सर्वं कर्मेदम् आयत्तं विधानं दैवमानुषे ।
तत्र दैवम् अचिन्त्यं च मानुषे विद्यते क्रिया ॥
[१४०] दैवमानुषसम्पन्ना यात्रा सर्वार्थसाधिका ।
तस्याम् अतिशये दैवं वर्तते पौरुषं समम् ॥
केचित् पुरुषकारेण केचिद् दैवेन कर्मणा ।
उभाभ्यां केचिद् इच्छन्ति फलं कुशलबुद्धयः ॥
दैवमानुषसद्भावे नार्या गर्भः प्रसिध्यति ।
पुंसा सत्य् अपि संयोगे दैवाभावे न सिध्यति ॥
न हि दैवम् उदासीनं कदाचिद् अपि मानवम् ।
अर्थानर्थफलेनेह संयुनक्त्य् अवशं क्वचित् ॥
काकतालीयवद् दैवाद् दृष्ट्वापि विधिम् अग्रतः ।
न पौरुषाद् ऋते तेन विधिना युज्यते पुमान् ॥
श्रीरामायणे ।
यस् तु नारभते कार्यं नरो दैवपरायणः ।
क्षिप्रं भवति निर्द्रव्यः पलायनपरायणः ॥
तथा ।
विक्लवो हीनवीर्यो यः सदैवम् अनुवर्तते ।
अविक्लवस् तु तेजस्वी न दैवम् अनुवर्तते ॥
[१४१] दैवं पुरुषकारेण यतते यः प्रबोधितुम् ।
न स दैवविपन्नार्थः कदाचिद् अवसीदति ॥
मत्स्यपुराणे ।
दैवं पुरुषकारश् च कालश् च पुरुषोत्तम ।
त्रयम् एतन् मनुष्यस्य पिण्डितं स्यात् फलाय वै ॥
कृषिवृष्टिसमायोगाद् दृश्यन्ते फलसिद्धयः ।
वर्षाकाले प्रशस्यन्ते नैवाकाले कथञ्चन ॥
व्यासः ।
विधिर् विधानं नियतिः स्वभावः
कालो ग्रहा ईश्वरकर्म दैवम् ॥
भाग्यानि पुण्यानि कृतान्तयोगः
पर्यायनामानि पुराकृतस्य ॥
दैवम् आत्मकृतं विद्यात् कर्म यत् पौर्वदेहिकम् ।
स्मृतः पुरुषकारस् तु क्रियते यद् इहापरम् ॥
[इति पौरुषम्]
[१४२] मनुः ।
सह वापि व्रजेद् युक्तः सन्धिं कृत्वा प्रयत्नतः ।
मित्रं हिरण्यं भूमिं वा सम्पश्यंस् त्रिविधं फलम् ॥
पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाक्रन्दं च मण्डले ।
मित्राद् अथाप्य् अमित्राद् वा यात्राफलम् अवाप्नुयात् ॥
विष्णुः- “परेणाभियुक्तश् च सर्वात्मना [स्वं] राष्ट्रं गोपायेत् । सर्वतश् चात्मानं गोपायेत्” ।
मनुः ।
क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीम् अपि ।
परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन् ॥
आपदर्थं धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।
[१४३] आत्मा तु सर्वतो रक्ष्यो दारैर् अप् धनैर् अपि ॥
सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।
संयुक्तांश् च वियुक्तांश् च सर्वोपायान् जयेद् बुधः ॥
उपेतारम् उपेयं च सर्वोपायांश् च कृत्स्नशः ।
एतत् त्रयं समाश्रित्य प्रयतेतात्मसिद्धये ॥
इति यात्रा ॥
अथाभिषिक्तस्य कृत्यानि
तत्र मनुः ।
इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् ।
जितेन्द्रियश् च शक्नोति वशे स्थापयितुं प्रजाः ॥
दश कामसमुत्थानि तथाष्टौ क्रोधजानि च ।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
वियुज्यते ऽर्थधर्माभ्यां क्रोधजे स्वात्मनैव तु ॥
मृगयाक्षा दिवास्वप्नः परिवादः स्त्रियो मदः ।
[१४४] तौर्यत्रिकं वृथाट्या च कामजो दशको गुणः ॥
पैशुन्यं साहसं द्रोहं ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः ॥
द्वयोर् अप्य् एतयोर् मूलं यं पूर्वे कवयो विदुः ।
तं यत्नेन जयेल् लोभं तज्जाव् एताव् उभौ गणौ ॥
पानम् अक्षाः स्त्रियश् चैव मृगया च यथाक्रमम् ।
एतत् कष्टतरं विद्यात् चतुष्कं कामजे गणे ॥
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजे ऽपि गणे विद्यात् कष्टम् एतत् त्रिकं सदा ॥
सप्तकस्यास्य वर्गस्य सर्वस्यैवानुषङ्गिणः ।
पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनम् आत्मनः ॥
[१४५] व्यसनस्य च मृत्योश् च व्य्सनं कष्टम् उच्यते ।
व्यसन्य् अधो ऽधो व्रजति स्वर् यात्य् अव्यसनी मृतः ॥
महाभारते ।
पानम् अक्षास् तथा नार्यो मृगया गीतवादिते ।
एतानि युक्त्या सेवेत प्रसङ्गो ह्य् अत्र दोषवान् ॥
यस् तु संसेवमानो ऽपि धर्मार्थाभ्यां न हीयते ।
कामं तद् उपसेवेत न मूढव्रतम् आचरेत् ॥
न कामपर एव स्यात् सर्वान् सेवेत सर्वदा ।
धर्मं पूर्वे धनं मध्ये जघन्ये कामम् आचरेत् ॥
धर्मार्थौ यः समुत्सृज्य कामम् एवानुवर्तते ।
तस्माद् उद्विजते लोकः सर्पाद् वेश्मगताद् इव ॥
तस्माद् धर्म्प्रधानेन सेव्यो ऽर्थः संयतात्मना ।
विश्वासयित्वा भूतानि साम्ना समुपरामयेत् ॥
धर्मार्थकामसंयुक्तः सो ऽमुत्रेह च नन्दति ॥
[१४६] तथा ।
ऊषरेष्व् अपि वर्षन्तं पात्रेषु मृदुवर्षिणम् ।
पर्जन्यम् अपि निन्दन्ति किं पुनर् वसुधाधिपम् ॥
तथा ।
प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः ।
दाता नापात्रवर्षी स्यात् प्रगल्भः स्याद् अनिष्ठुरः ॥
विष्णुः- “आयद्वाराणि नोच्छिन्द्यान् नापात्रवर्षी स्यात्” । “आयद्वाराणि” द्रव्योत्पत्तिस्थानानि ।
मत्स्यपुराणे ।
व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत् ।
[१४७] लोकसङ्ग्रहणार्थाय कृतकव्यसनी भवेत् ॥
तथा ।
अर्थस्य दूषणं राजा द्विःप्रकारं विवर्जयेत् ।
अर्थानां दूषणं चैकं तथैवार्थेन दूषणम् ॥
प्राकाराणां समुच्छेदो दुर्गादीनाम् असत्क्रिया ।
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वम् एव च ॥
अदेशकाले यद् दानम् अपात्रे दानम् एव च ।
अर्थैस् तु दूषणं प्रोक्तम् असत्कर्मप्रवर्तनम् ॥
कामः क्रोधो मदो मानो लोभो हर्षस् तथैव च ।
जेतव्यो रिपुषड्वर्ग आन्तरः पृथिवीक्षिता ॥
एतेषां विजयं कृत्वा कार्यो भृत्यजयस् ततः ।
कृत्वा भृत्यजयं राजा पौरजानपदान् जयेत् ॥
कृत्वा च विजयं तेषां शत्रून् बाह्यांस् ततो जयेत् ।
न राज्ञा मृदुना भाव्यं मृदुर् हि परिहीयते ॥
न भाव्यं दारुणेनापि तीक्ष्णाद् उद्विजते जनः ।
भृत्यैः सह महीपालः परिहासं विवर्जयेत् ॥
भृत्याः परिभवन्तीह नृपं हर्षवशं गतम् ॥
मनुः ।
अहन्य् अनह्य् अवेक्षेत कर्मार्त्तान् वाहनानि च ।
[१४८] आयव्ययौ च नियताव् आकरान् कोशम् एव च ॥
याज्ञवल्क्यः ।
धर्मेणालब्धम् ईहेत लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन् नित्यं वृद्धं पात्रेषु निक्षिपेत् ॥
उशनाः ।
आदाने च विसर्गे च तथा प्रैषनिषधयोः ।
पञ्चमे वाथ वचने व्यवहारस्य चेक्षणे ॥
दण्डशुद्धौ सदा युक्त आत्मशुद्धौ तथैव च ।
अष्टकर्मा दिवं याति राजा शक्राभिपूजितः ॥
महाभारते ।
सदाधिगच्छेद् विनयं विनीतात्मा हि पार्थिवः ।
विनीतात्मा हि नृपतिर् न क्वचित् परिभूयते ॥
न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असाम्प्रतम् ।
श्रियं ह्य् अविनयो हन्ति जरा रूपम् इवोत्तमम् ॥
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।
[१४९] विद्यानां ग्रहणं कार्यं यथान्यायं नराधिपः ॥
त्रैविद्येभ्यस् त्रयीं विद्यां दण्डनीतिं प्रयोक्तृतः ।
आन्वीक्षिकीं तर्कविद्यां वार्तारम्भांश् च लोकतः ॥
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन ।
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ॥
अप्य् उत्तमान् प्रलपतो बालाच् च परिजल्पतः ।
सर्वतः सारम् आदद्याद् अश्मभ्य इव काञ्चनम् ॥
धनुर्वेदेतिहासे च यत्नः कार्यो विजानता ।
हस्तिपृष्ठे ऽश्वपृष्ठे च रथचर्यासु चैव हि ॥
द्वौ भागाव् इतिहासार्थं भागस् त्रय्यां विधीयते ।
इष्वस्त्रादिषु भागो ऽन्यः चतुर्धैवम् अहः स्मृतम् ॥
येषां स्त्रीण्य् अवदातानि योनिर् विद्या च कर्म च ।
तान् सेवेत् तैः सहास्या हि शास्त्रेभ्यो ऽपि गरीयसी ॥
गुरुपूजां च सततं वृद्धानां पर्युपासनम् ।
श्रवणं चैव विद्यानां कुर्वन् श्रेयो ऽधिगच्छति ॥
न वै श्रुतम् अविज्ञाय वृद्धान् अनुपसेव्य च ।
धर्मार्थौ विदितुं शक्यौ बृहस्पतिसमैर् अपि ॥
विद्यावृद्धान् सदैव त्वम् उपासीथा नराधिप ।
शृणुया यच् च ते ब्रूयुः कुर्याच् चैवाविचारयन् ॥
सहस्रम् अपि मूर्खाणां यद्य् उपासते महीपतिः ।
[१५०] अथ वाप्य् अयुतान्य् एव नास्ति तेषु सहायिता ॥
एको ऽपि शास्त्रवित् प्राज्ञो गुरूणां पर्युपासितः ।
राजानं राजपुत्रं वा प्रापयेन् महतीं श्रियम् ॥
सदैव हितकामानां सुहृदां न शृणोति यः ।
प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ॥
आदाव् एव मनुष्येण वर्तितव्यं यथाक्रमम् ।
तथा नातीतम् अर्थं वै पश्चात्तापेन शोचति ॥
अर्थानाम् ईश्वरो यः स्याद् इन्द्रियाणाम् अनीश्वरः ।
इन्द्रियाणाम् अनैश्वर्याद् ऐश्वर्याद् भ्रश्यतीह सः ॥
सन्नियच्छति यो वेगम् उत्थितं कामहर्षयोः ।
स श्रियो भाजनं राजन् पश्चाद् यस् तु न मुह्यति ॥
नावमान्या बुद्धिमद्भिर् नावरोत्कृष्टमध्यमाः ।
न हि मानप्रदग्धानां कश्चिद् अस्ति मदं क्वचित् ॥
अवृत्तेर् भयम् अन्त्यानां मध्यानां मरणाद् भयम् ।
उत्तमानां तु मर्त्यानाम् अवमानात् परं भयम् ॥
कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् ।
प्रसादयति यो लोकं तं लोको न प्रसीदति ॥
यो नोद्धतं जातु करोति वेषं
न पौरुषेणापि विकत्थिते च ।
नात्याह किञ्चित् क्षमते विवादं
सर्वत्र तादृक् लभते प्रशंसाम् ॥
[१५१] राज्ञो ऽधिकम् इत्य् अनुवृत्तौ गौतमः- “योगश् च विजये भये विशेषेण चर्या च रथधनुर्भ्याम्” । “योगः” उद्योगः । “विजये” आत्मेन्द्रियामात्यादीनां वशीकारे ऽभियोगः कार्यः । “भये” विशेषेण अन्येनाभिभवे उपस्थिते तद्रक्षणार्थं विशेषेणोद्यमः कर्तव्यः । “चर्या” पर्यटनम् । तद् वाहनायुधवता कर्तव्यम् इत्य् अर्थः । मनुः ।
नित्यम् उद्धृतदण्डः स्यान् नित्यं विधृतपौरुषः ।
नित्यं संवृतसञ्चार्यो नित्यं छिद्रानुसार्य् अरेः ॥
नित्यम् उद्धृतदण्डस्य कृत्स्नम् उद्विजते जगत् ।
तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥
अमाययैव वर्तेत न कथञ्चन मायया ।
[१५२] भ्ध्येतारिप्रयुक्ताम् च मायां नित्यं सुसंवृतः ॥
नास्य छिद्रं परो विद्याच् छिन्द्याच् छिद्रं परस्य तु ।
गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः ॥
बकवच् चिन्तयेद् अर्थान् सिंहवच् च पराक्रमेत् ।
वृकवच् चानुलिम्पेत शशवच् च विनिष्पतेत् ॥
तथा ।
तीक्ष्णश् चैव मृदुश् च स्यात् कार्यं वीक्ष्य महीपतिः ।
तीक्ष्णश् चैव मृदुश् चैव राजा भवति सम्मतः ॥
राजेत्य् अनुवृत्तौ विष्णुः ।
सुदर्शनश् च स्याद् विषध्वागदमन्त्रधारी च नापरीक्षितम् उपयुञ्ज्यात् स्मितपूर्वभाषी स्याद् वध्येष्व् अपि न भ्रुकुटिम् आचरेत् ।
“अगदः” औषधम् । मत्स्यौराणे ।
शौण्डीरस्य नरेन्द्रस्य नित्यम् उद्रिक्तचेतसः ।
जना उद्वेगम् आयान्ति सदा दुःखविभाविताः ॥
अदीर्घसूत्रश् च भवेत् सर्वकर्मसु पार्थिवः ।
दीर्घसूत्रस्य नृपतेः कर्महानिर् ध्रुवं भवेत् ॥
[१५३] रागे दर्पे च माने च क्रोधे पापे च कर्मणि ।
अप्रिये चैव कर्तव्ये दीर्घसूत्रः प्रशस्यते ॥
नारोहेत् कुञ्जरं व्यालं नादान्तं तुरगं तथा ।
नाविज्ञातां स्त्रियं गच्छेन् नैव देवोत्सवे वसेत् ॥
शङ्खलिखितौ ।
राजा स्वस्वाधीनवृत्तिर् आत्मप्रत्ययकोशः स्वयं कृत्यानुदर्शी विप्रस्वनिवृत्तश् चिरं भद्राणि पश्यति ॥
यमः ।
याचितो नेति न ब्रूयाद् दीक्षितो नानृतं वदेत् ।
सङ्ग्रामे न निवर्तेत तं देवाः क्षत्रियं विदुः ॥
दाता यज्वा च शूरश् च देवद्विजपरायणः ।
समः सर्वेषु भूतेषु चिरं पालयते महीम् ॥
मार्कण्डेयपुराणे ।
अहो तितिक्षा माहात्म्यम् अहो दानफलं महत् ।
पद्भ्यां गतो हरिश्चन्द्रः पुरश् चेन्द्रत्वम् आगतः ॥
यमः ।
अन्तर्दोषं समुत्पन्नम् आकारेणोपलक्षयेत् ।
सङ्क्येषु शङ्कितो नित्यं रक्षेच् छक्त्या सदोत्थितः ॥
पापानां निग्रहं कुर्यात् साधूनां परिपालनम् ।
[१५४] यथाक्रमं च वृद्धानां काले काले निषेवणम् ॥
शङ्खलिखितौ ।
स्वपक्षे परपक्षे च स्थानवृद्धिक्षयाश्रयः ।
स्थानादीनां विभागश् च काले द्रव्यार्थसङ्ग्रहः ॥
मनुः ।
सङ्ग्रामेष्व् अनिवर्तित्वं प्रजानां परिपालनम् ।
ब्राह्मणानां च शुश्रूषा राज्ञो निःश्रेयसं परम् ॥
नारदः ।
सताम् अनुग्रहो नित्यम् असतां निग्रहस् तथा ।
एष धर्मः स्मृतो राज्ञाम् अर्थश् चापि भवेत् ततः ॥
तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञ्ōपसेवनम् ।
दर्शनं व्यवहाराणाम् आत्मनश् चाभिरक्षणम् ॥
यमः ।
समः सर्वेषु भूतेषु नयानयविशारदः ।
नैकः कार्याणि यः कुर्यात् सो ऽत्यन्तं याति मेदिनीम् ॥
[१५५] तथा ।
पर्जन्यम् इव भूतानि महाद्रुमम् इवाण्डजाः ।
भृत्या यम् उपजीवन्ति स राजा शक्रलोकभाक् ॥
कात्यायनः ।
गच्छेत् सम्यग् अविज्ञाय वशं क्रोधस्य यो नृपः ।
वसेत् स नरके घोरे कल्पार्धं तु न संशयः ॥
ब्रह्मपुराणे ।
नित्यं राज्ञा समुत्थाय पूजनीयाः सुर्द्विजाः ।
वह्निसम्पूजनं कार्यं द्रष्टव्यं चन्दनं घृतम् ॥
श्रोतव्ये तिथिनक्षत्रे कर्तव्यं वैद्यभाषितम् ॥
शङ्खलिखितौ ।
राज्ञः प्रत्यहं घृतान्वीक्षणम्, मङ्गलदर्शनम्, कपिलाप्रदानम्, स्वलङ्कृतस्य सम्भाषणम्, वैद्यदर्शनम्, सप्रहासं सविकल्पं विनयपूर्वं वृद्धेषु ॥
याज्ञवल्क्यः ।
ऋत्विक् पुरोहिताचार्यैर् आशीभिर् अभिनन्दितः ।
दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गां काञ्चनं महीम् ॥
[१५६] नैवेशिकानि च ततः श्रोत्रियाणां गृहाणि च ॥
सभाम् इत्य् अनुवृत्तौ बृहस्पतिः ।
पूर्वाह्णे ताम् अधिष्ठाय वृद्धामात्यानुजीविनः ।
पश्येत् सुरान् स धर्मार्थशास्त्राणि शृणुयात् तथा ॥
मनुः ।
स्वे स्वे धर्मे निविष्टानां सर्वेषाम् अनुपूर्वशः ।
वर्णानाम् आश्रमाणां च राजा सृष्टो हि रक्षिता ॥
तेन यद् यत् सभृत्येन कर्तव्यं रक्षता प्रजाः ।
तत् तद् वो ऽहं प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥
ब्राह्मणान् पर्युपासीत प्रातर् उत्थाय पार्थिवः ।
त्रैविद्यवृद्धान् विदुषस् तिष्ठेत् तेषां च शासने ॥
वृद्धांश् च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
वृद्धसेवी च सततं रक्षोभिर् अपि पूज्यते ॥
तेभ्यो ऽधिगच्छेद् विनयं विनीतात्मापि नित्यशः ।
विनीतात्मा हि नृपतिर् न विनश्यति कर्हिचित् ॥
वनस्थाश् चैव राज्यानि विनयात् प्रतिपेदिरे ।
[१५७] बहवो ऽविनयान् नष्टा राजानः सपरिच्छदाः ॥
वेनो विनष्टो ऽविनयान् नहुषश् चैव पार्थिवः ।
सुदाः पैजवनश् चैव सुमुखो निमिर् एव च ॥
पृथुश् च विनयाद् राज्यं प्राप्तवान् मनुर् एव च ।
कुबेरश् च धनैश्वर्यं विद्यां दण्डनीतिं च शाश्वतीम् ।
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भंश् च सर्वतः ॥
याज्ञवल्क्यः ।
कृतरक्षः समुत्थाय पश्येद् आयव्ययौ स्वयम् ।
व्यवहारान् ततो दृष्ट्वा श्रुत्वा भुञ्जीत कामतः ॥
मनुः ।
एवं सर्वम् इदं राजा सह सम्मन्त्र्य मन्त्रिभिः ।
व्यायम्याप्लुत्य मध्याह्ने भोक्तुम् अन्तःपुरं व्रजेत् ॥
तत्रात्मबूतैः कालज्ञैः आहार्यैः परिचारिकैः ।
सुपरीक्षितम् अन्नाद्यम् अद्यान् मन्त्रैर् विषापहैः ॥
[१५८] विषघ्नैर् उदकैश् चास्य सर्वद्रव्याणि नेजयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥
परीक्षिताः स्त्रियश् चैनं व्यञ्जनोदकधूपनैः ।
वेषाभरणसंयुक्ताः संस्पृशेयुः समाहिताः ॥
एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।
स्नाने प्रसाधने चैव सर्वालङ्कारकादिषु ॥
मत्स्यपुराणे ।
विषाच् च रक्ष्यो नृपतिस् तत्र युक्तिं निबोध मे ।
क्रीडानिमित्तं नृपतिर् धारयेन् मृगपक्षिणः ॥
अन्नं वै प्राक् परीक्षेत वह्नौ चान्यतमेषु च ।
वस्त्रं पत्रम् अलङ्कारं भोजनाच्छादनं तथा ॥
नापरीक्षितपूर्वं तु स्पृशेद् अपि महीपतिः ।
श्यावास्यचक्रः सन्तप्तः सोद्वेगं च निरीक्ष्यते ॥
“श्यावास्यचक्रः” ईषत्कृष्णश्वेतमुखमण्डलः ।
विषादो वा विषं दत्वा यत्र तत्र निरीक्षते ॥
[१५९] स्रस्तोत्तरीयो विमनाः स्तम्भकुड्यादिभिस् तथा ।
प्रच्छादयति चात्मानं लज्जति स्खलते तथा ॥
भुवं विलेखति ग्रीवां तथा चालयति द्विजान् ।
कण्डूयति च मूर्द्धानं परिलक्ष्यो नरः सदा ॥
क्रियासु स्वरितो राजन् विपरीतास्व् अपि ध्रुवम् ।
एवमादीनि चिह्नानि विषदस्य परीक्षयेत् ॥
ततो विचारयेद् अग्नौ तद् अन्नं त्वरयान्वितः ।
इन्द्रायुधसवर्णो ऽग्निरूक्षः स्फोटसमन्वितः ॥
एकवर्णो ऽथ दुर्गन्धि भृशं चटचटायते ।
तद्धूमदर्शनाज् जन्तोः शिरोरोगश् च जायते ॥
सविषे ऽन्ने विलीयन्ते न च पार्थिव मक्षिकाः ।
निलीनाश् च विपद्यन्ते दृष्टे च सविषे तथा ॥
विरज्यति चकोरस्य दृष्टिः पार्थिवसत्तम ।
विकृतिं च स्वरो याति कोकिलस्य तथा नृप ॥
गतिः स्खलति हंसस्य भृङ्गराजश् च कूजति ।
क्रौञ्चो मदम् अथाभ्येति कृकवाकुर् विरौति च ॥
विक्रोशति शुको राजन् सारिका वमते तथा ।
चामीकरो ऽन्यतो याति मृत्युं कारण्डवस् तथा ॥
मेहते वानरो राजन् ग्लायते जीवजीवकः ।
[१६०] हृष्टरोमा भवेद् बभ्रुः पृष्ठतश् चैव रोदिति ॥
हर्षम् आयाति च शिखी विषसन्दर्शनान् नृपः ।
अन्नं च सविषं राजन् चिरेण च विपच्यते ॥
तथा भवति साश्रावं पक्वं पर्युषितोपमम् ।
व्यापन्नरसगन्धं च चन्द्रिकाभिस् तथा युतम् ॥
व्युञ्जनानां च शुष्कत्वं द्रवाणां बुद्बुदोद्भवः ।
ससैन्धवानां द्रव्याणां जायते फेनमालिका ॥
सस्यराजिश् च ताम्रा स्यान् नीला च पयसस् तथा ।
कोकिलाभा च मद्यस्य तोयस्य च नृपोत्तम ॥
धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च ।
मधुश्यामा च तक्रस्य नीलपीता तथैव च ॥
घृतस्योदकसङ्काशा कपोताभा च मस्तुनः ।
हरिता माक्षिकस्यापि तैलस्य च तथारुणा ॥
फलानाम् अप्य् अपक्वानां पाकः क्षिप्रं प्रजायते ।
प्रक्लेदश् चैव पक्वानाम् आप्लानां (?) म्लानता तथा ॥
मृदुता कठिनानां च मृदूनां च विपर्ययः ।
सूक्ष्मतन्तूपसदनं तथा चैवातिरोमता ॥
श्याममण्डलता चैव वस्त्राणां च विशेषतः ।
लोहानां च मणीनां च मलपङ्कोपदिग्धता ॥
[१६१] अनुलेपनगन्धानां माल्यानां च नृपोत्तम ।
विगन्धता च विज्ञेया पर्णानां म्लानता तथा ॥
[पीतावभासता ज्ञेया तथा राजन् जलस्य तु ।
दन्ता ओष्ठौ त्वचः श्यामः तनुमत्वास् तथैव च ॥ ]
एवमादीनि चिह्नानि विज्ञेयानि नृपोत्तम ।
तस्माद् राजा सदा तिष्ठेन् मणिमन्त्रौषधागदैः ॥
उक्तैः संरक्षितो राजा प्रमादपरिवर्जकः ॥
प्रजातरोर् मूलम् इहावणीशस्
तद्रक्षणाद् वृद्धिम् उपैति राज्यम् ।
तस्मात् प्रयत्नेन नृपस्य रक्षा
सर्वेण कार्या रविवंशचन्द्र ॥
मनुः ।
भुक्तवान् विहरेच् चैव स्त्रीभिर् अन्तःपुरे सह ।
विहृत्य च तथा कालं पुनः कार्याणि चिन्तयेत् ॥
अलङ्कृतस् तथा पश्येद् आयुधीयं पुनर् जनम् ।
वाहनानि च सर्वाणि वस्त्राण्य् आभरणानि च ॥
याज्ञवल्क्यः ।
हिरण्यं व्यापृतानीतं भाण्डागारे न्यसेत् ततः ।
[१६२] पश्येच् चोरान् तथा दूतान् प्रेषयेन् मन्त्रिसङ्गतः ।
ततः स्वैरविहारी स्यान् मन्त्रिभिर् वा समागतः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥
सन्ध्याम् उपास्य शृणुयाच् चाराणां गूढभाषितम् ।
गीतनृत्ये च युञ्जीत पठेत् स्वाध्यायम् एव च ॥
मनुः ।
सन्ध्याम् उपास्य शृणुयाद् अन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥
गत्वा कक्षाण्तरं त्व् अन्यत् समनुज्ञाप्य तं जनम् ।
प्रविशेद् भोजनार्थं तु स्त्रीवृतो ऽन्तःपुरं पुनः ॥
तत्र भुक्त्वा पुनः किञ्चित् तूर्यघोषैः प्रहर्षितः ।
संविशेच् च् अयथाकालम् उत्तिष्ठेच् च गतक्लमः ॥
शङ्खलिखितौ- “राज्ञः शङ्खपटहतूर्येण प्रस्वापोत्थानम्” । याज्ञवल्क्यः ।
संविशेत् तूर्यघोषेण प्रतिबुध्येत् तथैव च ।
[१६३] शास्त्राणि चिन्तयेद् बुद्ध्वा सर्वकर्तव्यतां तथा ।
प्रेषयेच् च ततश् चारान् स्वेष्व् अन्येषु च सादरम् ॥
“स्वेषु” स्वसामन्तादिषु । “अन्येषु” महीपतिषु । मनुः ।
एतएवृत्तं समातिष्ठेद् अरोगः पृथिवीपतिः ।
अस्वस्थः सर्वम् एवैतन् मन्त्रिमुख्ये निवेशयेत् ॥
कात्यायनः ।
शौर्यविद्यार्थबाहुल्यात् प्रभुत्वाच् च विशेषतः ।
सदा चित्तं नरेन्द्राणां मोहम् आयाति कारणात् ॥
तस्माच् चित्तं प्रबोद्धव्यं राजधर्मे सदा द्विजैः ।
पवित्रं परमं पुण्यं श्रुतिवाक्यं न लङ्घयेत् ॥
[१६४] विष्णुः- “राजा सर्वेषु कार्येषु सांवत्सराधीनः स्यात्” । तथा । “शान्तिस्वस्त्ययनैर् देवोपघातान् प्रशमयेत् । परचक्रोपघातांश् च शस्त्रनित्यतया । वेदेतिहासधर्मशास्त्रकुशलं कुलीनम् अव्यङ्गं तपस्विनं च पुरोहितं [वरयेत्] ॥
“शस्त्र्नित्यतया” शस्त्राभ्यासपरत्वेन । गौतमः- ।
ब्राह्मणं च पुरोदधीत । विद्याभिजनवाग्रूपवयःशील**[१६५]**सम्पन्नम् । न्यायवृत्तं तपस्विनम् । तत्प्रसूतः कर्माणि कुर्वीत । ब्रह्मप्रसूतं हि क्षत्रम् ऋध्यते न व्यथत इति च विज्ञायते । यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस् तान्य् आद्रियेत । तदधीनम् अप्य् एके योगक्षेमं प्रतिजानते । शान्तिपुण्याहस्वस्त्ययनायुष्यमङ्गल-संयुक्तान्य् आभ्युदयिकानि विद्वेषणसंवननाभिचारद्विषद्व्यृद्धियुक्तानि च शालाग्नौ कुर्यात् । तथोक्तम् ऋत्विजो ऽन्यानि ॥
“तत्प्रसूतः” तदनुज्ञातः । “संवननम्” वशीकरणम् । “द्विषद्व्यृद्धिः” शत्रूणाम् ऋद्ध्यभावः ।
[१६६] ब्रह्मपुराणे ।
द्वौ लक्षहोमौ कुर्वीत तथा संवत्सरं प्रति ।
एकं च कोटिहोमं च यत्नात् सर्वाभयप्रदम् ॥
अथर्ववेदविधिना समन्त्री सपुरोहितः ।
नित्यान्य् आहार्यकाम्यानि तथा नैमित्तिकानि च ॥
ग्रहणे सूर्यशशिनोर् भूकम्पोत्पातदर्शने ।
तत्क्षणे च महाशान्तिः कर्तव्यानिष्टनाशिनी ॥
याज्ञवल्क्यः ।
पुरोहितं च कुर्वीत दैवज्ञम् उदितोदितम् ।
दण्डनीत्यां च कुशलम् अथर्वाङ्गिरसे तथा ॥
महाभारते ।
पुरोहितप्रधानो हि राजा हितम् अवाप्नुयात् ।
सदाचरति यो धर्मं नृपो ब्राह्मणदेशितम् ॥
तावता स कृतप्रज्ञश् चिरं यशसि तिष्ठति ।
तस्य धर्मस्य सिद्धस्य भागी राज्ञः पुरोहितः ॥
याज्ञवल्क्यः ।
श्रौतस्मार्तक्रियाहेतोर् वृणुयाद् ऋत्विजस् तथा ।
[१६७] यज्ञांश् चैव प्रकुर्वीत विधिवद् भूरिदक्षिणान् ॥
भोगांश् च दद्याद् विप्रेभ्यो वसूनि विविधानि च ।
अक्षयो ऽयं निधी राज्ञां यद् विप्रेषूपपादितम् ॥
मनुः ।
आवृत्तान्ं गुरुकुलाद् विप्राणां पूजको भवेत् ।
विप्राणाम् अक्षयो ह्य् एष निधिर् ब्राह्मो विधीयते ॥
न तं स्तेना न चामित्रा हरन्ति न च नश्यति ।
तस्माद् राज्ञा विधातव्यो ब्राह्मणेष्व् अक्षयो निधिः ॥
न् स्कन्दते न व्यथते न विनश्यति कर्हिचित् ।
वरिष्ठम् अग्निहोत्राद् धि ब्राह्मणस्य मुखे हुतम् ॥
कात्यायनः ।
अक्लेशेनार्थिने यस् तु राजा सम्यङ् निवेदयेत् ।
तत् तारयत्य् अनन्तं स्याद् धर्मार्थं दानम् ईदृशम् ॥
न्यायेनाक्रम्य यल् लब्धं रिपुं निर्जित्य पार्थिवैः ।
तच् छुद्धं तत् प्रदेयं च नान्यथोपहृतं क्वचित् ॥
राजधर्मेषु विष्णुः- “परदत्तां च भुवं नापहरेत् ब्राह्मणेभ्यः । [सर्वदायान् प्रय्च्छेत्” ।
[१६८] राजधर्मेषु आपस्तम्बः- “भृत्यानाम् अनुरोधेन क्षेत्रं वित्तं च ददद् ब्राह्मणेभ्यो यथार्हम् अनन्तंल् लोकान् जयति” । कात्यायनः ।
वेदध्वनिप्रभावेण वेदाः स्वर्गनिवासिनः ।
ते ऽपि तत्र प्रमोदन्ते तृप्तास् तु द्विजपूजनात् ॥
तस्माद् यत्नेन कर्तव्या द्विजपूजा सदा नृपैः ।
तेन भूयो ऽपि शक्रत्वं नरेन्द्रत्वं पुनः पुनः ॥
राजेत्य् अनुवृत्तौ शङ्खलिखितौ ।
दद्याद् दानम् अर्चयित्वा ब्राह्मणाय निमित्तपूर्वं शेषेभ्यः, कृपणातुरानाथ-व्यङ्गविधवाबालवृद्धान् औषधावसथाशनाच्छादनैर् बिभृयात् ॥
[१६९] वसिष्ठः \
राजनि च दद्यात् प्रेते प्रासाङ्गिकम् । अनेन मातापितृवृत्तिर् व्याख्याता । राजमहिषीपितृव्यमातुलान् राजा बिभृयात् । तद्वधूश् चान्याश् च राजपत्न्यो ग्रासाच्छादनार्थं लभेरन् अनिच्छन्त्यो वा व्रजेयुः । क्लीबोन्मत्तान् राजा बिभृयात् तद्गामित्वाद् रिक्थस्य ।
“प्रासङ्गिकम्” श्राद्धप्रसङ्गेन ब्राह्मणपूजनम् । मनुः ।
श्रोत्रियं व्याधितार्तौ च बालवृद्धाव् अकिञ्चनम् ।
[१७०] महाकुलीनम् आर्यं च राजा सम्पूजयेत् सदा ॥
गौतमः- “बिभृयाद् ब्राह्म्ण्व्च् छ्रोत्रियान् । निरुत्साहांश् चाब्राह्मणान् । अकरांश् चोपकुर्वाणांश् च” । आपस्तम्बः ।
आवसथे श्रोत्रिया[वरार्ध्या]न् अतिथीन् वासयेत् । **[१७१]** तेषां यथागुणम् आवसथाः शय्यान्नपानं च [वि]देयं गुरून् अमात्यांश् च नातिजीवेत् ।
शङ्खलिखितौ ।
राजन्यवैश्याव् अप्य् अजीवन्तौ राजानम् उपतिष्ठेयाताम् । ताव् उभौ शक्तितः संविभक्ताव् उपकुर्यातां स्वधर्मानुष्ठानेन शिल्पिनः कारवश् च शूद्राः ।
मनुः ।
यस्य राज्ञस् तु विषये ब्राह्मणः सीदति क्षुधा ।
तस्यापि तत्क्षुधा राष्ट्रम् अचिरेणैव सीदति ॥
श्रुतवृत्ते विदित्वास्य वृत्तिधर्मं प्रकल्पयेत् ।
संर्क्षेत् सर्वतश् चैनं पिता पुरम् इवौरसम् ॥
संरक्ष्यमाणो राज्ञायं कुरुते धर्मम् अन्वहम् ।
तेनायुर् वर्धते राज्ञो द्रविणं राष्ट्रम् एव च ॥
[१७२] यमः ।
पूर्वरात्रान्तरात्रेषु द्विजा यस्य ह्य् अधीयते ।
स राजा सह राष्ट्रेण वर्धते ब्रह्मतेजसा ॥
राजा यत् कुरुते पापं प्रमादात् सहते न वा ।
वसन्तो ब्राह्मणा राष्ट्रे जप्येन शमयन्ति तत् ॥
ब्राह्मणान पूजयेन् नित्यं प्रातर् उत्थाय भूपतिः ।
ब्राह्मणानां प्रसादेन वसन्ति दिवि देवताः ॥
यद् अन्य् व्याहरन्त्य् एते शुभं वा यदि वाशुभम् ।
तत् तथा नान्यथा कुर्याद् ब्राह्मणो ह्य् अत्र कारणम् ॥
तथा ।
अभेद्यम् अच्छेद्यम् अनादिम् अक्षयं
निधिं पुराणं परिपालयन्ति ये ।
महीपतिस् तान् अभिपूज्य वै द्विजान्
भवेद् अजेयो दिवि देवराड् इव ॥
शक्यं हि कवचं भेत्तुं नाराचेन शरेण वा ।
अपि वज्रसहस्रेण ब्राह्मणाशीः सुदुर्भिदा ॥
[१७३] मनुः ।
नाब्रह्म क्षत्रम् ऋध्नोति नाक्षत्रं ब्रह्म वर्धते ।
ब्रह्मक्षत्रेण संयुक्तम् इह चामुत्र वर्धते ॥
यमः ।
राजा वृक्षो ब्राह्मणस् तस्य मूलं ।
पौराः पर्णं मन्त्रिणस् तस्य शाखा ।
तस्माद् राज्ञा ब्राह्मणा रक्षणीया
मूले गुप्ते नास्ति वृक्षस्य नाशः ॥
आसन्नो हि दहत्य् अग्निर् दुराद् दहति ब्राह्मणः ।
प्ररोहत्य् अग्निना दग्धं ब्रह्मदग्धं न रोहति ॥
ब्राह्मणानां च शापेन सर्वभक्षो हुताशनः ।
समुद्रश् चाप्य् अपेयश् च विफलस् तु पुरन्दरः ॥
चन्द्रमा राजयक्ष्मा च पृथिव्याम् ऊषराणि च ।
वनस्पतीनां निर्यासो दानवानां पराजयः ॥
अनन्तान्य् एव तेजांसि ब्राह्मणानां महात्मनाम् ।
तस्माद् विप्रेषु नृपतिः प्रणमेन् नियमेन च ॥
“विफलो” वृषणरहितः ।
[१७४] मनुः ।
पराम् अप्य् आपदं प्राप्तो ब्राह्मणं न प्रकोपयेत् ।
ते ह्य् एनं कुपिता हन्युः सद्यः सबलवाहनम् ॥
यैः कृतः सर्वभक्षो ऽग्निर् अपेयश् च महोदधिः ।
क्षयी चाप्यायितः सोमः को न नश्येत् प्रकोप्य तान् ॥
लोकान् अलोकान् कुर्युस् ते लोकपालांश् च कोपिताः ।
देवान् कुर्युर् अदेवांश् च कः क्षिण्वंस् तान् समृध्नुयात् ॥
यान् उपाश्रित्य तिष्ठन्ति देवा लोकाश् च सर्वदा ।
ब्रहमैव च धनं येषां को हिंस्यात् तान् जिजीविषुः ॥
प्रणीतश् चाप्रणीतश् च यथग्निर् दैवतं महत् ।
अविद्वांश् च विद्वांश् चैव ब्राह्मणो दैवतं महत् ॥
श्मशानेष्व् अपि तेजस्वी पावको नैव दुष्यति ।
हूयमानश् च यज्ञेषु भूय एवाभिपूज्यते ॥
एवं यद्य् अप्य् अनिष्टेषु वर्तन्ते सर्वकर्मसु ।
सर्वथा ब्राह्मणाः पूज्या दैवतं परमं हि तत् ॥
क्षत्रस्यापि प्रवृद्धस्य ब्राह्मणान् प्रति सर्वतः ।
[१७५] ब्रह्मैव सन्नियन्तृ स्यात् क्षत्रं हि ब्रह्मसम्भवम् ॥
अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥
महाभारते ।
अष्टौ पूर्वनिमित्तानि नरस्य विरमिष्यतः ।
ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणांश् च विरुध्यते ॥
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश् च जिघांसति ।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥
नैतान् स्मरति कृत्येषु याचितश् चाभ्यसूयति ।
एतान् दोषान् नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥
तथा ।
भीष्म उवाच ।
एतद् राज्ञः कृत्यतमम् अभिषिक्तस्य भारत ।
ब्राह्मणानाम् अनुज्ञानम् अत्यन्तं सुखम् इच्छतः ॥
कर्तव्यं पार्थिवेनेह तद्विद्धि भरतर्षभ ।
श्रोत्रियान् स्नातकान् वृद्धान् नित्यम् एवाभिपूजयेत् ॥
पौरजानपदांश् चापि ब्राह्मणांश् च बहुश्रुतान् ।
[१७६] सान्त्वेन भोगदानेन नमस्कारैस् तथेज्यया ॥
एतत् कृत्यतमं राज्ञां नित्यम् एवाभिलक्षयेत् ।
यथात्मानं यथा पुत्रांस् तथैतान् परिपालयेत् ॥
ये चाप्य् एषां पूज्यतमास् तान् नृपः प्रतिपूजयेत् ।
तेषु शान्तेष् तद्राष्ट्रं सर्वम् एव विराजते ॥
राजेत्य् अनुवृत्तौ ब्रह्मपुराणे ।
नित्यं सन्निहितान् देवान् मुनीन् नागांश् च पूजयेत् ।
पिशाचेभ्यो बलिं दद्यात् सन्ध्याकाले च नित्यशः ॥
भविष्यपुराणे ।
राज्ञां पूज्यः सदा प्रोक्तः कार्त्तिकेयो महीपते ।
कार्त्तिकेयाद् ऋते राज्ञां नान्यं पूज्यं प्रचक्षते ॥
सङ्ग्रामे गच्छमानो यः पूजयेत् कृत्तिकासुतम् ।
स शत्रून् जयते वीरो यथेन्द्रो दानवान् रणे ॥
तस्मात् सर्वप्रयत्नेन पूजयेच् छङ्करात्मजम् ।
पूज्यमानस् तु तं भक्त्या चम्पकैर् विविधैर् नृप ॥
मुच्यते सर्वपापेभ्यः स वै गच्छेच् छिवालयम् ॥
देवीपुराणे ।
नामभेदेन सा भिन्ना अभिन्ना परमार्थतः ।
शिवा नारायणी गौरी चर्चिका विमला उमा ॥
सा वन्द्या पूजनीया च सततं तत्प्रभावितैः ।
विजयार्थं मृपैः खड्गे छुरिका पादुके पटे ॥
[१७७] चामुण्डां चित्ररूपां च लिखतां चाथ पुस्तके ।
ध्वजे वा कारयेच् छत्रं स नृपो विजयेद् रिपून् ॥
इति राजकृत्यम् ॥
[१७८]
१५ — अथ देवयात्राविधिः
तत्र ब्रह्मपुराणे ।
वैशाखादिषु मासेषु षट्सु देवगृहेषु च ।
यात्रोत्सवः सदा कार्यः प्रतिसंवत्सरेष्व् अपि ॥
कार्या च ब्रह्मणे यात्रा प्रतिपद्य् अपि सर्वदा ।
द्वितीयायां च देवेभ्यो विद्यारम्भे महोत्सवे ॥
भागीरथ्यै तृतीयायां कर्तव्या च सुशोभना ।
विनायकाय नागेभ्यश् चतुर्थ्याम् अथ कारयेत् ॥
ऽचतुर्थ्याम् अथ" इत्य् अथशब्देन पञ्चम्य् उपादीयते \
स्कन्दाय षष्ठ्यां सप्तम्यां सूर्येभ्यश् च यथाक्रमम् ।
पुरन्दराय चाष्टम्यां रुद्राय सगणाय च ॥
दुर्गाद्याभ्यश् च मातृभ्यो नवम्याम् अथ सर्वदा ।
भूम्यै दशम्यां कर्तव्या सर्वोपकरणान्विता ॥
एकादश्यां समासेन विधात्रे विश्वकर्मणे ।
द्वादश्यां विष्णवे कार्या सायुधाय महात्मने ॥
त्रयोदश्यां तु कामाय चतुर्दश्यां कपर्दिने ।
पौर्णमास्यां तु देवेभ्यस् तथा चन्द्रमसे तथा ॥
[१७९] अमावास्यायां पर्वान्ते पितृभ्यश् चात्र कुत्रचित् ।
चतुर्दश्यां चतुर्थ्यां वा पितृराजे यमे तथा ॥
द्वादश्यां पौर्णमास्यां वा नागेभ्यः पञ्चमे ऽहनि ।
नारायणाय सर्वासु कार्या तिथिषु सर्वदा ॥
यात्रां च कर्तुकामेन प्रारम्भे तु दिने दिने ।
विनायकाय पूजा च कर्तव्या मोदकोत्करैः ॥
द्वितीये ऽहनि कर्तव्या ग्रहशान्तिर् यथाक्रमम् ।
गन्धर्वेभ्यस् तथा पूजा चतुर्थे ऽहनि शास्त्रवित् ॥
पञ्चमे स्थाननागाय पयसा पायसेन च ।
षष्ठे देयं ब्राह्मणेभ्यो भोजनं च सदक्षिणम् ॥
स्नपनं सप्तमे कार्यं देशं कृत्वा सुरक्षितम् ।
सुधावदातं कर्तव्यं चित्रितं देवतागृहम् ॥
रङ्गस्थानं तु देवेभ्यो विहितं कारयेत् तथा ।
स्रग्वस्त्रमाल्यहेमाद्यैः प्रधानं देवम् अर्चयेत् ॥
ततो ऽर्चास्नपनं कार्यं कल्पशाखाक्रमेण च ।
पुण्याहगीतनृत्याद्यैर् होमैर् बल्युपहारकैः ॥
ततो ऽर्चास्नपनस्यान्ते पौरैर् नृत्यपुरःसरम् ।
आनेतव्यं च महता विभवेनोदकं शुभम् ॥
नित्यं सन्निहितात् तीर्थाद् यथा प्राप्तैर् घटैर् नवैः ।
देशकालानुसारेण गजाश्ववृषमानवैः ॥
[१८०] तेनोदकेन प्रतिमा स्नाप्या भूमौ च शास्त्रवत् ।
नदभूमिश् च कर्तव्या सर्वदोषविवर्जिता ॥
प्राप्ते तु यात्रादिवसे कूटागारं तु कारयेत् ।
पुष्पैर् माल्यैस् तथा वस्त्रैः पताकाभिश् च शोभितम् ॥
घण्टासहस्रनिनदं सर्वशोभासमन्वितम् ।
आरोप्या प्रतिमा तत्र सुसूक्ष्मा च सुश्ōभना ॥
कूटागारं च वोढव्यं गजैर् अश्वैर् नरैर् वृषैः ।
देशकालानुसारेण वस्त्रमाल्याद्यलङ्कृतैः ॥
सबलेनानुगन्तव्यो राजा देवस्य पृष्ठतः ।
सुदूरे चानुगन्तव्यस् तत्प्रयुक्तैश् च मन्त्रिभिः ॥
यस्य यस्य समीपे तु स देवो याति पूजितः ।
तेनातिथ्यं च कर्तव्यं तस्मै धूपादिभिः सदा ॥
क्ष्वेडितोत्कृष्टशब्दैश् च जयवाद्यस्वनेन च ।
यथागमं च कर्तव्यं नगरे च प्रदक्षिणम् ॥
ततो देवगृहं तां तु सम्पूज्य प्रतिमां नयेत् ।
महान्तम् उत्सवं कुर्वन् गीतनृत्यसमाकुलम् ॥
तस्याम् राज्ञा ततो देया दीपाः शतसहस्रशः ।
रङ्गभूमौ दिदृक्षूणां प्रकाशार्थं महात्मनः ॥
तैस् तैः सुभाषितैः श्लोकैर् हर्षयित्वा जनांस् तथा ।
सर्वेषाम् अनुकम्पार्थं धर्मचक्रं प्रवर्तयेत् ॥
रङ्गोपजीविनां पश्येत् तृतीये ऽहनि कौशलम् ।
यथाशक्ति धनं तेभ्यो दद्याद् दम्भं च वर्जयेत् ॥
[१८१] प्रेक्षाकाले प्रधानास् ते पूजितव्याः क्रमेण तु ।
सम्मानपूर्वं विधिवत् ताम्बूलकुसुमादिभिः ॥
यात्रावसाने भूतानि पूजनीयानि सर्वदा ।
पूजोपचारैर् बलिभिस् ततो नक्तञ्चरान् अपि ॥
अदृष्टविग्रहान् एवं दिदृक्षूणां महोत्सवम् ।
सन्ध्यायां परया भक्त्या त्यक्त्वा सन्देहम् आत्मनः ॥
सर्वम् अस्तीति विज्ञाय चेतसा निर्मलेन च ।
एकान्तदेवताः पूज्या वैशाखे मासि पूववत् ॥
गृहे गृहस्थैः सम्पूज्या स्त्रियश् च गृहदेवताः ।
आचारान् पालयेद् एतान् यस् तु राजा समाहितः ॥
स पुत्रपौत्रसंयुक्तो दीर्घायुधनवान् भवेत् ।
सर्वत्र जयम् आप्नोति याति स्वर्गं च शाश्वतम् ॥
यद् एतद् वैष्णवं वाक्यं देशे ऽस्मिंल् लङ्घ्यते जनैः ।
तदा सस्यानि नश्यन्ति घोरैर् उदकविप्लवैः ॥
अतिवृष्टिर् अनावृष्टिर् दुर्भिक्षं च तथा मृतिः ।
दम्भाभिमानलोभांस् तु तस्मात् त्यक्त्वा प्रयत्नतः ॥
यद् उक्तं विष्णुना वाक्यं तत् कुर्यात् कृतनिश्चयः ॥
*इति देवयात्राविधिः *
[१८२]
१६—अथ कौमुदीमहोत्सवः
तत्र स्कन्दपुराणे ।
प्रातःप्रभृति राजा च आज्ञापयति कौमुदीम् ।
देवरात्रिं च देवस्य रुद्रस्यासुरनाशिणीम् ॥
सुसम्मृष्टोपलिप्ताभी रथ्याभिः क्रियतां पुरम् ।
वासोभिः संहतैः सर्वे भवन्तु पुरवासिनः ॥
स्रग्विणश् च शिरःस्नाताः सदाम्पत्या यथाक्रमम् ।
गायन्तु गायनाश् चैव नृत्यन्तु नटनर्तकाः ॥
उच्छ्रियन्तां पताकाश् च गृहे वीथ्यापणेषु च ।
गृहाणि चोपलिप्तानि नित्यम् एव भवन्तु वः ॥
पुष्पप्रकरजुष्ठानि भूपैर् नानाविधैर् अपि ।
स्रग्दामवन्ति सर्वाणि वनमालाकुलानि च ॥
दीपा रात्रौ च सर्वत्र राजमार्गे गृहेषु च ।
अनन्तराः क्रियन्तां वै प्रचुरस्नेहवर्तयः ॥
[तरुणाः सह योषिद्भिः समन्तात् पर्यटन्तु च ।
रममाणा हसन्तश् च गायन्तो नृत्यसेविनः ॥
भाण्डवाद्यानि वाद्यन्तां नृत्यन्तां दिव्ययोषितः ।
[१८३] महादेवस्य पूजां च गन्धपुष्पादिकां शुभाम् ॥ ]
उपहारांश् च विविधान् शयनानि महान्ति च ।
दीपांश् च विविधाकारान् पानानि कृशरांस् तथा ॥
फलानि च विचित्राणि मांसपक्वं तथामकम् ।
सुवर्णमणिचित्राणि ईश्वराय प्रयच्छत ॥
वध्यन्तां पशवश् चात्र भोज्यन्तां च द्विजोत्तमाः ।
यो न कुर्याद् इदं सर्वं पुरवासी नरः क्वचित् ॥
पातयेत् तस्य शारीरं दण्डं राजा महायशाः ।
राजापि संयतः शान्तः शुचिः प्रयतमानसः ॥
दिवसे दिवसे रुद्रं स्नापयीत प्रयत्नवात्न् ।
पञ्चगव्येन शुद्धेन तैलेन च सुगन्धिना ॥
क्षीरेण सर्पिषा दध्ना रसैश् च बहुभिः शुबैः ।
पुष्पैः फलैश् च बीजैश् च रत्नैश् चाद्भिः समन्वितैः ॥
भस्मना गन्धयुक्तेन उदकेन सुगन्धिना ।
एकैकशः स्वयं राजा घटानां दशभिः शतैः ॥
दिवसे दिवसे व्यास त्र्यम्बकं सो ऽभिषेचयेत् ।
गन्धैः पुष्पैश् च धूपैश् च जाप्यैर् बलिभिर् एव च ॥
पूजयित्वा ततो राजा विप्रान् अन्यांश् च भोजयेत् ।
स कृत्वा पशुभिर् मेध्यैर् वस्तैर् मणिभिर् एव च ।
बलिवस्त्रान्नदानैश् च स्तूयमानो गृहान् व्रजेत् ॥
इति कौमुदीमहोत्सवः ॥
[१८४]
१७ — अथेन्द्रध्वजोच्छ्रायविधिः
तत्र देवीपुराणे ।
शुभे ऋक्षे च करणे मुहूर्ते शुभमङ्गले ।
दैवज्ञः सूत्रधारश् च वनं गच्छेत् सहायवान् ॥
देवीप्रतिष्ठाविधिना यात्रायां यः प्रचोदितः ।
गत्वान्विष्य सुभं वृक्षं प्रियङ्गुधवम् अर्जुनम् ॥
उदुम्बरं गजकर्णं च पञ्चैतान् शोभनान् हरेत् ।
ध्वजार्थे वर्जयेद् वत्स देवतोद्यानजान् द्रुमान् ॥
कन्याम् अध्योत्तमा यष्टीः करमानेन कल्पयेत् ।
एकादशकरा वत्स नवपञ्चकरापरा ॥
अनिबद्धां कृमिचितां तथा पक्षिनिकेतनाम् ।
वल्मीकपित्र्यवनजां सशुष्कां च सकोटराम् ॥
कुञ्जां च घटसंसिक्तां तथा स्त्रीनाम् अगर्हिताम् ।
विद्युद्वज्रहताञ् चैव दग्धां च परिवर्जयेत् ॥
अलाभे चम्पकं चाम्रं शालशाकमयं तथा ।
[१८५] कर्तव्यं शक्रचिह्नार्थे न चान्यद् वृक्षजं क्वचित् ॥
शुभभूमिभवं ग्राह्यं शुभतोयं शुभावहम् ।
ततः सम्पूजयेद् वृक्षं प्राङ्मुखोदङ्मुखो ऽपि वा ॥
“नम वृक्षपते वृक्ष त्वाम् अर्चयति पार्थिवः ।
ध्वजार्थं तत्त्वतो नात्र अन्यथा उपगम्यताम्” ॥
रात्रौ देयो बलिः श्वभ्रे दिक्षु वृक्षे तथैव च ।
वासं वने महावृक्ष कृत्वा ह्य् अन्यत्र गम्यताम् ॥
ध्वजार्थे देवराजस्य रक्षन्ति तव चात्र च ।
पूजयित्वा ततो वृक्षं बलिं सौमं तु दापयेत् ॥
प्रभाते छेदयेद् वृक्षं शुभस्वप्नादिदर्शनैः ।
उदङ्मुखः प्राङ्मुखो वा मध्वक्तेनाथ पर्शुना ॥
पूर्वोत्तरं पतन् शस्तो निःशब्दो निर्व्रणः शुभः ।
अलग्नः पादपे ऽन्यस्मिन् अन्यथा तु परित्यजेत् ॥
अष्टाङ्गुलं त्यजेन् मूलम् अग्रं तत्र जले क्षिपेत् ।
तथा तं चानयेद् वत्स शकटेन वृषैर् अथ ॥
युवभिर् बलसम्पन्नैः प्रयत्नात् पुरतः पुरम् ।
नीयमाना यदा यष्टिः समा वा चौत्रस्रिका ॥
वृत्ता वा भङ्गम् आदत्ते राजपुत्रपुरोहितौ ।
आराभङ्गे बलं भिन्द्यान् नेम्या भङ्गे क्षयस् तथा ॥
रथस्य त्व् अक्षभङ्गे तु शान्तिः तत्र तु कारयेत् ।
इन्द्रं यच्छेति मन्त्रेण जातवेदो मयेन वा ॥
[१८६] तथा नीत्वा शुभे लग्ने पुरे ताम् उपवेशयेत् ।
द्वारे शोभां पुरे रथ्या गृहेष्व् अपि च कारयेत् ॥
पटुभिः पटहानादैः वेश्यासङ्घस्य मङ्गलैः ।
द्विजानां वेदशब्दैश् च तां नयेद् यत्र चोच्छ्रयेत् ॥
[तत्रस्थां चित्रकर्मारनिर्मितैस् तां तु वेष्टयेत् ।
वस्त्रैः तदैव कृत्तौतैः शुभैः सूक्ष्मैर् यथाक्रमम् ॥
नन्दोपनन्दसञ्ज्ञाश् च कुमार्यः प्रथमांशके । ]
देव्यो जयाविजयाख्याः षोडशांशैः व्यवस्थिताः ॥
[अम्बिकां शत्रुजयित्रीं] नत्वाथ द्वजदैवतम् ।
द्वजस्य परिमाणे ताः सम्पाद्येव विनिर्दिशेत् ॥
षोडशांशविहीनानि कुर्याच् छेषाणि बुद्धिमान् ।
वाससां चित्रवर्णानां स्वयम्भूः प्रथमाम् अदात् ॥
सुभक्तां चतुरस्रां च विश्वकर्मा द्वितीयकम् ।
अष्टास्रिं च स्वयं शक्रो नीलरक्ताम् अदत् पुरा ॥
कृष्णं यमेन दत्तं च वरुणेन महांशुकम् ।
[१८७] मञ्जिष्टं जलजाकारं वायुर् देवाय सूकरम् ॥
नीलवर्णं च तत् प्रादाच् छन्दोवह्निविचित्रितम् ।
वृत्तन्तु दहनः प्रादात् स्ववर्णं तच् च अष्टमम् ॥
वैडूल्य्सदृशं चेन्द्रो ग्रैवेयं पुनर् अप्य् अदात् ।
चक्राङ्काकृतिवत् सूर्यो विश्वेदेवास् तु पद्मकम् ॥
नीलं नीलोत्पलाभासम् ऋषयो ऽपि च तं विदुः ।
शुक्रेण गुरुणा न्यस्तं विशालं तच् च मूर्ध्नि ॥
गृहैर् अपि विचित्राणि तानि दत्तानि मातृभिः ।
यद् यद् येनैव दत्तं तु केतोस् तत् तस्य भूषणम् ॥
तद् दैवं तद् विजानीयात् यन्त्रादिभिर् अथोच्छ्रयेत् ।
कर्षन्ती प्रवरां भूमिं यष्टी राष्ट्रं निहन्ति च ॥
बालानां तलशब्देन देशघातं विनिर्दिशेत् ।
नृपघातकरी कीर्णां सर्वशान्ता सुभावहा ॥
शम्भुसूर्ययमेन्द्रेन्द्रधनदानां च वारुणैः ।
वह्नेर् नागस्य मन्त्रैश् च होतव्या दधि चाक्षताः ॥
शुक्रं स्कन्दं गुरुं रुद्रम् अप्सरोभिः प्रपाठयेत् ।
हुत्वा च विधिवद् वह्निज्वालां लक्षेच् च बुद्धिमान् ॥
[१८८] सुतेजःसुमनोदीप्ता महती रविसप्रभा ।
रक्ताशोकसमाकारा रथभेरीस्वना शुभा ॥
शङ्खदुन्दुभिमेघानां नादाः शस्तास् तु पावके ।
कदलीष्व् इक्षुदण्डेषु पताकाश् च समुच्छ्रयेत् ॥
अन्याश् च विविधाः शोभाः शक्रकेतौ समुच्छ्रयेत् ।
प्रौष्ठपद्याम् अथाष्टम्यां शुक्लायां शोभने च ते ॥
आश्विने चाथ शुक्लायां श्रवणे वाथ उच्छ्रयेत् ।
घोषैश् च नटवृन्दैश् च पटभेरीनिनादितम् ॥
वितानध्वजशोभाढ्यपताकाभिः समुज्ज्वलम् ।
विष्ण्वीशशक्रमन्त्रेण सिंहरक्षःकृतेन च ॥
दृढमातृकरन्ध्रस्थं शुभतोरणमार्गणम् ।
अवलम्बितम् उत्तानम् अभग्नपिटकं समम् ॥
न द्रुतं च समुत्थाप्यः केतुर् वासवजो विभो ।
उच्छिर्तं रक्षयेत् प्राज्ञः काकोलूककपोतयोः ॥
न तत्र लयनं दद्याद् अयेषाम् अपि पक्षिणाम् ।
मन्त्रेण चोच्छ्रयं कुर्याद् इन्द्रकेतोर् यथाविधि ॥
[१८९] यथा सुसंस्कृतं पूज्य सुखयन्त्रं सुयन्त्रितम् ।
रात्रौ जागरणं कुर्याद् इन्द्रमन्त्रानुकीर्तनैः ॥
पुरोहितः सदैवज्ञः शुभशान्तिरतः सदा ।
केतुपातो नृपं हन्यात् पताका महिषीवधम् ॥
पीटको युवराजस्य सदैवम् अनुकल्पयेत् ।
राष्ट्रं तोरणपातेन ध्वज अन्नक्षयो भवेत् ॥
पतिते शक्रदण्डे च नृपम् अन्यं समादिशेत् ।
कृमिजालसमुत्थाने शलभात् तस्कराद् भयम् ॥
सुसमे संस्थिते शान्तिर् नृपस्य नगरस्य च ।
तिष्ठत्य् एवोत्थितो यावत् तावद् युगसमाः समाः ॥
निरता यजने केतो रञ्जीरन्न् इन्द्रकन्यकाः ।
पतिते तु तथा कार्या पूजोत्थाने तु यादृशी ॥
रात्रौ शुभं कृत्यतमं नादृष्टं काकपोतकैः ।
नृपतिः सह राष्ट्रीयैर् यश् चैवं कारयेत् क्रतुम् ॥
नगरे वा पुरे खेटे यद्य् एवं कुरुते नृपः ।
पौरन्दरं नगरद्वारे वृषसिंहसमुच्छ्रितम् ॥
केतुं समस्तघोराणां नाशनं जयदं मतम् ।
एवं पूर्वं हरिः केतुं प्राप्तवान् वृषवाहनात् ॥
ततो ब्रह्माथ तेनैव ब्रह्मणः शक्रम् आगतः ।
तेन सोमस्य तद् दत्तं ततो दक्षं समागतः ॥
तदाप्रभृति कुर्वन्ति नृपा अद्यापि चोच्छ्रयम् ।
[१९०] एवं यः कारयेद् राजा केतुं विजयकारकम् ॥
तस्य पृथ्वी धनोपेता सद्वीपा वशगा भवेत् ॥
इतीन्द्रध्वजोच्छ्रायविधिः ॥
[१९१]
१८ — अथ महानवमीपूजा
अथ आश्विनशुक्लनवम्यां देवीपूजा
तत्र देवीपुराणे ।
ब्रह्मोवाच ।
हते घोरे महावीरे सुरासुरभयङ्करे ।
देव्या उपासका देवाः प्रभूता राक्षसास् तथा ॥
आगता घातितं दृष्ट्वा महिषं तं सुदुर्जयम् ।
ब्रह्मविष्णुमहेशानां इन्द्रचन्द्रयमानिलाः ॥
आदित्या वसवो रुद्रा ग्रहा नागाः सगुह्यकाः ।
समेत्य सर्वे देवास् ते देवीं भक्त्याथ तुष्टुवुः ॥
वरं च सर्वलोकानां प्रददौ भयनाशिनी ।
बलिं ददुश् च भूतानां महिषाजामिषेण तु ॥
पुरेषु शङ्खभेर्यश् च शतशो ऽथ सहस्रशः ।
कृता दुन्दुभिनादाश् च पटुशब्दाः समर्दलाः ॥
पताकाध्वजयन्त्रादि घण्टाचामरशोभितम् ।
तद् दिनं कारयेच् छ्क्र देवीभक्तः सुरोत्तम ॥
एवं तस्मिन् दिने वत्स भूतप्रेतसमाकुले ।
कृताथ सर्वदेवैश् च महापूजाथ शाश्वती ॥
[१९२] आश्विने मासि मेघान्ते महिषारिनिबर्हिणीम् ।
देवीं सम्पूजयित्वा ये अर्धरात्रे ऽष्टमीमुखे ॥
घतयन्ति पशून् भक्त्या ते भवन्ति महाबलाः ।
बलिं च ये प्रयच्छन्ति सर्वभूतविनाशकम् ॥
तेषां तु तुष्यते देवी यावत्कल्पं तु शाङ्करम् ।
क्रीडन्ति विविधैर् भोगैर् देवलोके सुदुर्लभे ॥
नाधयो व्याधयस् तेषां न च शत्रुभयं भवेत् ।
न च देवग्रहा दैत्या न सुरा न च पन्नगाः ॥
पीडयन्ति सुराध्यक्ष देवीपादसमाश्रितान् ।
यावद् भूर् वायुर् आकाशं जलं वह्निः शशी ग्रहाः ॥
तावच् च चण्डिका पूज्या भविष्यन्ति सदा भुवि ।
प्रावृट्काले विशेषेण आश्विने चाष्टमीषु च ॥
महाशब्दो नवम्यां च लोके ख्यातिं गमिष्यति ।
एतत् ते देवराजेन्द्र स्वर्गवासफलप्रदम् ॥
परापरविभागं तु क्रियायोगेन कीर्तितम् ॥
इन्द्र उवाच ।
आश्विनस्य सिते पक्षे नवम्यां प्रतिवत्सरम् ।
श्रोतुम् इच्छाम्य् अहं तात उपवासव्रतादिकम् ॥
ब्रह्मोवाच ।
शृणु शक्र प्रवक्ष्यामि यथा त्वं परिपृच्छसि ।
महासिद्धिप्रदं धन्यं सर्वशत्रुनिबर्हणम् ॥
सर्वलोकोपकारार्थं विशेषात् पथिवृत्तिषु ।
कर्तव्यं ब्राह्मणाद्यैस् तु क्षत्रियैर् लोकपालकैः ॥
[१९३] गोधनार्थं तथ वैश्यैः शूद्रैः पुत्रसुखार्थिभिः ।
सौभाग्यार्थं तथा स्त्रीभिर् अन्यैश् च धनकाङ्क्षिभिः ॥
महाव्रतं महापुण्यं शङ्कराद्यैर् अनुष्ठितम् ।
कर्तव्यं देवराजेन्द्र देवीभक्तिसमन्वितैः ॥
कन्यासंस्थे रवौ शक्र श्क्लाम् आरभ्य नन्दिकाम् ।
अयाचिताश्य् उपवासी नक्ताशी त्व् अथ वाय्वदः ॥
प्रातःस्नायी जितद्वन्द्वस् त्रिकालं शिवपूजकः ।
जपहोमसमायुक्तः कन्यकां भोजयेत् सदा ॥
अष्टम्यां नवगेहानि दारुजानि शुभानि च ।
एकं वा वित्तभावेन कारयेत् सुरसत्तम ॥
तस्मिन् देवी प्रकर्तव्या हैमी वा राजतापि वा ।
वृक्षाद् वा लक्षणोपेता खड्गे शले ऽथ पूजयेत् ॥
सर्वोपहारसम्पन्ना वस्त्ररत्नफलादिभिः ।
कारयेद् रथदोलादि बलिपूजां च दैविकीम् ॥
पुष्पादिद्रोणबिल्वादिजातीपुन्नागचम्पकैः ।
विचित्रां रचयेत् पूजाम् अष्टम्यां समुपासयेत् ॥
दुर्गाग्रतो जपेन् मन्त्रम् एकचित्तः सुभावितः ।
तदर्धयामिनीशेषे विजयार्थं नृपः पशुम् ॥
पञ्चाब्दं लक्षणोपेतं गन्धधूपसुगन्धितम् ।
विधिवत् कालि कालीति जप्त्वा खड्गेन घातयेत् ॥
[१९४] तदुत्थं रुधिरं मांसं गृहीत्वा पूजनादिषु ।
नैरृतेभ्यः प्रदातव्यं महाकौशिकमन्त्रितम् ॥
तस्याग्रतो नृपः स्नायाच् छत्रं कृत्वा तु पूजितम् ।
खड्गेन घातयित्वा तु दद्यात् स्कन्दविशाखयोः ॥
देवीं च स्नापयेत् प्राज्ञः क्षीरसर्पिर्जलादिभिः ।
कुङ्कुमागुरुकर्पूरचन्दनैश् चार्च्य धूपयेत् ॥
देयानि पुष्परत्नानि वासांसि त्व् अहतानि च ।
नैवेद्यं सुप्रभूतं तु देयं देव्याः सुभावितैः ॥
देवीभक्ताश् च पूज्यन्ते कन्यकाप्रमदादयः ।
द्विजान् दीनान्धपाषण्डान् अन्नपानेन तर्पयेत् ॥
नन्दाभक्ता नरा ये तु महाव्रतधराश् च ये ।
पूजयित्वा विशेषेण तस्मात् तद् रूपम् आविकम् ॥
मातॄणां चैव देवीनां पूजा कार्या सदा निशि ।
ध्वजच्छत्रपताकादि उच्छ्रयेद् अम्बिकागृहे ॥
रथयात्रा बलिक्षेमं स्फुटवाद्यरवाकुलम् ।
कारयेत् तुष्यते येन देवी पशुनिपातनैः ॥
अश्वमेधम् अवाप्नोति भक्तिनः सुरसत्तमः ।
महानवम्यां पूजेयं सर्वकामप्रदायिका ॥
[१९५] सर्वेषु वत्स वर्णेषु तव भक्त्या प्रकीर्तिता ।
कृत्वाप्नोति यशोराज्यपुत्रायुर्धनसम्पदः ॥
इति महानवमीपूजा ॥
[१९६]
१९ — अथ चिह्नविधिः
तत्र देवीपुराणे ।
ब्रह्मोवाच ।
क्षीराशी कार्त्तिकारम्भे देवीभक्तिर् अतो नरः ।
शाकयावकएकाशी प्रातःस्नायी शिवानतः ॥
पूजयेत् तिलहोमं तु दधिक्षीरघृतादिभिः ।
कुर्याद् देव्यास् तु मन्त्रेण शृणु पुण्यफलं हरे ॥
महापातकसंयुक्तो युक्तो वाप्य् उपपातकैः ।
मुच्यते नात्र सन्देहो यस्मात् सर्वगता शिवा ॥
अन्यो वा भावनायुक्तस् त्व् अनेन विधिना शिवाम् ।
स्वयं वा अन्यतो वापि पूजयेत् पूजयीत वा ॥
न तस्य भवति व्याधिर् न च शत्रुकृतं भयम् ।
नोत्पातग्रहदौस्थ्यं वा न च राष्ट्रं विनश्यति ॥
सदा स्वभावसम्पन्ना ऋतवः शुभदा घनाः ।
निष्पतिइः सर्वसस्यानां तस्करा न भवन्ति च ॥
प्रभूतपयसो गावो ब्राह्मणाश् च क्रियापराः ।
स्त्रियः पतिव्रताः सर्वा नृपा निर्वृतिकारिणः ॥
[१९७] फलपुष्पवती धात्री सस्यानि रसवन्ति च ।
भवेयुर् नात्र सन्देहश् चर्चिकाविधिपूजनात् ॥
“जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमो ऽस्तु वः” ॥
अनेनैव तु मन्त्रेण जपं होमं तु कारयेत् ।
प्रातस् तु संस्मृता वत्स महीषघ्नी सुपूजिता ॥
अघं नाशयते क्षिप्त्रं यथा सूर्योदये नमः ।
सिंहारूढा ध्वजे यस्य न तस्य रिपुहा उमा ॥
द्वारस्था पूज्यते वत्स न तस्य रिपुजं भयम् ।
कपिसंस्था महामाया सर्वशत्रुविनाशिनी ॥
वृषे यथेप्सितं दद्यात् कलभे श्रियम् उत्तमम् ।
हंसे विधार्थकामं तु बर्हिणे ऽभीष्टपुत्रदा ॥
गरुत्मति महामाया सर्वरोगविनाशिनी ।
महिषस्था महामारी शमयेत् ध्वजसंस्थिता ॥
करिगा सर्वकार्येषु नृपैः कार्या त्रिशूलिनी ।
पद्मस्था चर्चिका रौप्या धर्मकामार्थमोक्षदा ॥
प्रेतस्था सर्वभयदा नित्यं पशुनिपातनैः ।
पूजिता देवजाजेन्द्र नीलोत्पलकरा वरा ॥
भवेत् तु सिद्धिकामस्य चिह्नाग्रे संव्यवस्थिता ।
गन्धपुष्पार्चितां कृत्वा वस्त्रहेमसुचर्चिताम् ॥
[१९८] फलशालियवैः शूकवर्धमानैर् विभूषिताम् ।
शोहनाम् उच्छ्रयेद् अग्रे पताकां वा महोरमाम् ॥
चामरं कलशं शङ्खं सातपत्रं वितानकम् ।
भवेत् तु सिद्धिकामस्य नृपस्य फलदायकम् ॥
“नमो विश्वेश्वरि दुर्गे चामुण्डे मुण्दहारिणि ।
ध्वजं समुच्छ्रयिष्यामि वसोर् धारासुखावहम्” ॥
इति चिह्नविधिः ॥
[१९९]
२० — अथ वगोत्सर्गः
तत्र देवीपुराणे ।
कृष्णपक्षे त्व् अमावास्या कार्त्तिकस्य ततः परे ।
यो ऽह्नि कुर्याद् गवोत्सर्गम् अश्वमेधफलं लभेत् ॥
सुवर्णदाने गोदाने भूमिदाने च यत् फलम् ।
तत् फलं कोटिगुणितं गवोत्सर्गेण लभ्यते ॥
तस्मान् मनोरमे स्थाने शद्वले गर्त्तवर्जिते ।
शार्कराअश्मरहिते शङ्खभेरीनिनादिते ॥
स्तम्भद्वयं समारोप्य पूवपश्चिमसंस्थितम् ।
तत्र दर्भमयी कर्या शरवंशभवाथ वा ॥
मध्ये कम्बलसंयुक्ता दीर्घरज्जुः सुशोभना ।
उभयोः पार्श्वयोर् विप्राः वेदध्वनिसमन्विताः ॥
एवं विधानतः कृत्वा उत्सर्गं कारयेत् ततः ।
प्रथमं गच्छते होता यजमानसमन्वितः ॥
ब्रह्मक्षत्रविशः शूद्रास् तथा गावः प्रजाः पुनः ।
तथान्ये वर्णबाह्यास् तु चण्डालपरिवर्जिताः ॥
गच्छन्ति मुदिता हृष्टा हास्यतोषसमन्विताः ।
यस् त्व् एवं कुरुते राजा पुरे ग्रामे ऽथ पत्तने ॥
[२००] नश्यन्ति चेतयः सर्वाः प्रजानां नन्दने चिरम् ।
नाकाले म्रियते राजा पुत्रपौरैश् च वर्धते ॥
देवा भवन्ति सुप्रीतास् तथा वै मातरस् तथा ।
गोलोकं च लभेत् वत्स सर्वान् कामान् अवाप्नुयात् ॥
“ईतयः” प्रसिद्धाः । यथा ।
अतिवृष्टिर् अनावृष्टिर् मूषकाः शलभाः शुकाः ।
अत्यासन्नाश् च राजानः षड् एता ईतयः स्मृताः ॥
इति गवोत्सर्गः ।
[२०१]
२१ — अथ वसोर् धारा
तत्र भविष्यपुराणे ।
अगस्त्य उवाच ।
वसोर् धारास्थिता देवी सर्वकामप्रदायिका ।
तथा ते कथयिष्यामि शृणु पुण्यविवृद्धये ॥
सर्वेषाम् एव देवानां कथितेयं मयोत्तमा ।
विशेषेण तु वह्निस्था आयुर् आरोग्यदा मता ॥
विजयं भूमिलाभं च मानवानां प्रियं तथा ।
विद्यासौभाग्यपुत्रादि कुण्डस्था सम्प्रयच्छति ॥
तस्मान् नृपेण भूत्यर्थं वसोर् धाराश्रिता शिवा ।
पूजनीया यथा शक्त्या सर्वकामफलप्रदा ॥
रुद्रादित्या ग्रहा विष्णुर् वयं यक्षाः सकिन्नराः ।
हुताशनमुखाः सर्वे दृष्टादृष्टफलप्रदाः ॥
गोदानं भूमिदानं च रत्नसर्पिस्तिलादि च ।
दानानि च महान्त्य् आहुस् तेषां धारा विशिष्यते ॥
विप्राणां कोटिकोटीनां भोजयित्वा तु यत् फलम् ।
[२०२] [सद्वृत्तिरतिना शान्ते एकेनापि च तद् भवेत् ॥
लभते तद् अवाप्नोति धारां दत्वा हुताशने । ]
व्यतीपातेन सन्देहः स च सूक्ष्मः प्रकीर्तितः ॥
अयनं विषवच् चैव दिनच्छिद्रं तथैव च ।
दुष्प्रापं दानहोमानां धारायां लभते नृप ॥
तस्मान् नृपेण वृद्ध्यर्थं दृष्टादृष्टजिगीषुणा ।
वसोर् धारा प्रकर्तव्या सर्वकामसुखावहा ॥
समं वा अर्धम् अर्धं वा ऋतुमासार्धवासरम् ।
कृत्वा विभवरूपेण शाश्वतं लभ्यते फलम् ॥
एकाहम् अपि यो देवीं कल्पयित्वा हुताशने ।
पातयेत् सर्पिषो धारां स लभेद् ईप्सितं फलम् ॥
देवीमातृसमीपस्थं शिवविष्णुसमीपगम् ।
भानोः प्रजापतेर् वापि वसोर् धारागृहं भवेत् ॥
चिरन्तनेषु सर्वेषु स्वयं वा संस्कृतेषु च ।
पर्वतेषु च दिव्येषु नदीनां सङ्गमेषु च ॥
गुहासु च विचित्रासु गृहगर्भेषु भूमिषु ।
दत्वा समीहितान् कामान् विधिना लभते नृप ॥
अथ सामान्यतो गेहं समसूत्रं जलोन्मुखम् ।
वास्तुसंशुद्धविन्यासम् एकादशकरं परम् ॥
[२०३] त्रीणि पञ्चाथ वा सप्त दश वा नव कारयेत् ।
विंशकं वा यद् एकोनं विंशद् ऊर्ध्वं न कारयेत् ॥
पक्वेष्टं शैलदार्वं वा सालिन्दं सहतोरणम् ।
पञ्च सप्ताथ नव वा गवाक्षकविभूषितम् ॥
सर्वतोभद्रविन्यस्तं क्रमवृद्ध्या विवर्धितम् ।
ऊर्ध्वं वै धूमनिष्काशं सप्रकाशं विशेषतः ॥
सदेवसङ्ग्रहं कार्यम् अथ वा दैवतैः समम् ।
तस्य मध्ये भवेत् कुण्डं हस्तादिशुभलक्षणम् ॥
चतुष्कम् अथ वा वृत्तं पङ्कजाकृति वाथ वा ।
पृथिवीजयदं शाक्रं वृत्तं कामफलप्रदम् ॥
“शाक्रम्” चतुरस्रम् ।
पङ्कजे जयम् आरोग्यं योगदानफलप्रदम् ।
शेषाः कार्या विधानेन कुण्डाः कार्या विजानता ॥
सामान्यं सर्वहोमेषु शाक्रकुण्डं वरोत्तमम् ।
विस्तारं खाततुल्यं तु त्रिमेखलसमन्वितम् ॥
चतुस् त्रीन् द्वौ च वा कुर्याद् अङ्गुलान् कुण्डमानतः ।
द्विगुणं द्विगुणे कुण्डे होमानुसारेण कारयेत् ॥
एवं संसादयेद् विप्र ततः पात्रं सशृङ्खलम् ।
[२०४] हैमं वा राजतं वापि ताम्रं वा लक्षणान्वितम् ॥
चतुर्भिः कटकैर् युक्तम् अयःशृङ्खलसङ्ग्रहम् ।
तस्य मध्ये भवेद् रन्ध्रं कार्यं वत्स शलाकया ॥
हेमोत्थया प्रमाणेन चतुरङ्गुलमानया ।
घृतनिष्क्रमणार्थाय कार्यं सम्यग् विपश्चिता ॥
पलैर् दशभिर् अर्धोनैर् नाड्येकान् तु यथा व्रजेत् ।
पञ्चभिस् तु शतैर् होमः सप्तत्या च षड् अग्रयोः ॥
यथा पूर्णा व्रजेद् वत्स तथा कुर्यान् न चान्यथा ।
हस्तमात्रं भवेद् धैमं शृङ्खलं भुजगाकृतिम् ॥
रन्ध्रे सूत्रनिबद्धं च अवलम्ब्य अधस् ततः ।
मणिं वा पङ्कजं यत्र साश्वत्थं कारयेत् तले ॥
एवं कार्यास् तु रूपेण द्विगुणं त्रिगुणं च वा ।
कुर्यात् पात्रं घृतं चैव प्रतिष्ठादेवचोदितम् ॥
उद्देशं कुञ्चिद् अत्रापि कथयामि नृपोत्तम ।
समानम् ऋतुर् मासपकाहोरात्रपूर्ववत् ॥
लग्नात् प्रसाधयेद् वत्स सर्वकामप्रदा यदा ।
क्षणिकेषु च कार्येषु भक्तियुक्तः क्षणे शुभे ॥
क्षणं देवी च द्रष्टव्या यथा सर्वगता शिवा ।
तत्त्वभूता ग्रहा नागास् त्रिविधापि शिवा गुणाः ॥
[नित्यनैमित्तिके होमे मन्त्रयोगेन दापयेत् ।
[२०५] यो यस्य भक्तिम् आसक्तः तस्य कुर्यात् सुसन्निधिम् ॥
सङ्ग्रहांल् लोकपालांश् च मातरो भुजगाञ् छिवान् ।
कल्पयेत् सर्वहोमेषु देवी एतेषु संस्थिता ॥ ]
स्थूलरूपा तु सा सर्वा तुष्टा देवी महाफला ।
कालादिबलिगन्धादिप्रतिष्ठां वत्स कारयेत् ॥
यथा सम्पत्तिसम्पन्नः सर्वकालं प्रदापयेत् ।
तदा मातृग्रहान् भूतांल् लोकपालान् निवेशयेत् ॥
हेमराजतताम्रान् वा स्वनिवेशोपलक्षितान् ।
वर्णपुष्पबलिं गन्धं दक्षिणादि यथाक्रमम् ॥
मातॄणां लोकपालानां ग्रहाणां च यथाविधि ।
हृदयेन प्रदेयं च मूलमन्त्रैः पुरातनैः ॥
अथ वा सर्वसामान्यान् वैदिकान् अपि कारयेत् ।
अथर्वविधिना मन्त्रान् पूर्वोक्तान् वा यथा पुरा ॥
प्रभूतम् अन्नं नैवेद्यैर् भूरिदक्षिनसंयुतैः ।
कुर्यान् महाप्रयत्नेन नान्यथा तु कदाचन ॥
छेदे भयं विजानीयात् तदर्धं तत्र कारयेत् ।
महाव्याहृतिहोमेन यत्र तत्र निवेशयेत् ॥
मूलमन्त्रेण देवास् तु शृङ्खलं हृदयेन तु ।
घृतं शिरसो मन्त्रेण शिखया वानुतापयेत् ॥
कवचेन तथा वह्निं रक्षयित्वा प्रदापयेत् ।
अस्त्रेण नेत्रमन्त्रेण सर्वं सर्वत्र निक्षिपेत् ॥
[२०६] लोकपालान् ग्रहान् नागान् द्वादशार्धेन पूजयेत् ।
शिवाद्यान् सनकाद्यांश् च देवाद्यान् अपि पूजयेत् ॥
नित्येषु च महाप्राज्ञ नैमित्तिकविशेषतः ।
पञ्चकानि च सप्तानि नवकानि क्रियादिकैः ॥
अग्नेर् वर्णश् च गन्धश् च शब्दश् चाकृतयस् तथा ।
विकाराश् च तदा वत्स बोद्धव्याः सिद्ध्यसिद्धिदाः ॥
तदन्ते वत्स सत्कार्या सर्वकामप्रदायिका ।
येन सान्निध्यम् आयाति सर्वहोमेषु मङ्गला ॥
सहस्रार्चिर् महातेजो नमस् ते बहुरूपिणे ।
नमस् ते नीलकण्ठाय पीतवासाय पावक ॥
स्रुवमेखलहस्ताय ब्रह्माण्डदहने नमः ।
सर्वाशिने सर्वगते पावकाय नमो नमः ॥
दुर्गाय उग्ररूपाय स्त्रीलिङ्गाय स्वतेजसे ।
वसु अश्विनिरूपाय सर्वहाराय वै नमः ॥
त्वं रुद्र घोरकर्मासि घोरहा परमेश्वर ।
विष्णुस् त्वं जगतां पालो ब्रह्मा सृष्टिकरः स्मृतः ॥
त्वं च सर्वात्मको देव लोकपालतनुस्थितः ।
इन्द्राय वह्नये देव यमाय पिशिताशिने ॥
वरुणानिलसोमाय ईशदेवाय वै नमः ।
सूर्याय चन्द्ररूपाय भूसुताय बुधाय च ॥
बृहस्पतये शुक्राय सौरराह्वोश् च केतवे ।
[२०७] सर्वगग्रहरूपाय व्यालमातररूपिणे ॥
वृष्टिः सृष्टिः स्थितिः [भूतिः] कर्त्रे च वरदाय च ।
नमस् ते स्कन्दमातस् ते स्कन्दपित्रे नमो नमः ॥
कुण्डे वा मण्डले वापि स्थण्डिले वाथ वा विभो ।
महानसे वा त्वां देव हुत्वा चेष्टं लभेन् नरः ॥
घृतं क्षीरं रसं धान्यं तिलान् व्रीहीन् कुशान् यवान् ।
भावाद् अभावतो वापि सततं होमयेत् तु यः ॥
एवं वित्त्तविहीनो ऽपि नरो विगतकिल्बिषः ।
किं पुनर् नित्यहोमे तु वसोर् धारा हुताशने ॥
सर्वमङ्गलमन्त्रेण आहुतिं सम्प्रदापयेत् ।
लोकपालगृहाणां तु ओङ्कारेण नमोऽन्तकैः ॥
स्वैः स्वैर् मन्त्रैर् अशेषाणां होमः कार्यो नृपोत्तम ।
अन्नं चित्रं विशुद्धं च संस्क्र्तं घृतपायसैः ॥
होमयेद् विधिवद् विप्रो बलिं वापि प्रदापयेत् ।
सितवस्त्रधरो भूपः सबलः सहवाहनः ॥
पूजयेच् छत्ररत्नादीन् मातरं पितरं द्विजान् ।
आचार्यान् बान्धवांल् लोकान् सर्वाश्रमरताश् च ये ॥
नटनर्तकवेश्याश् च कन्यकाविधवास्त्रियः ।
दीनान्धकृपणांश् चैव अन्नदानेन पूजयेत् ॥
एवं निवेशनं कृत्वा नित्यं जप्यं शतं शतम् ।
[२०८] प्रातर्मध्याहसन्ध्यायां तत्र शान्तिः प्रकीर्तिता ॥
भवते नृपराष्ट्रस्य पूर्वोक्तफलदायकम् ॥
(इति वसोर् धारानिवेशनविधिः}
[तत्रैवोक्तम्]
ब्रह्मोवाच ।
तप्तहाटकवर्णाभः सूर्यसिन्दूरकान्तिभृत् ।
शङ्खकुन्देन्दुपद्माभो घृतक्षीरनिभः शुभः ॥
जयाभो ऽशोकपुष्पाभो लाक्षाजलजसन्निभः ।
शुभदः सर्वकार्याणां विपरीतो ह्य् असिद्धिदः ॥
मेघदुन्दुभिशङ्खानां [वेणुवीणास्वनः शुभः ।
वृषेभशिखिकाकानां] कोकिलस्वनपूजितः ॥
कुङ्कुमागुरुकर्पूरमदरोचनगन्धवान् ।
मांस्येलाकुष्टतगरसितगन्धी च पूजितः ॥
हंसच्छेत्रे[भगो]कुम्भपदाकृतिकरः शुभः ।
सिंहबर्हिणशैलानां चामराकृतिरिष्टदः ॥
सधूमो ऽमृतगन्धी च शुकषट्चरणोपमः ।
छिन्नज्वालो ऽथ वा रोदी नेष्टः सर्वेषु पावकः ॥
[२०९] सुसंहतशिखः शस्त ऊर्ध्वं प्रज्वलितो ऽपि वा ।
लेलिहानः शुभः कुण्डे दीप्तिमान् वरदो ऽनलः ॥
एवंविधः सदैवाथ यज्ञे वैश्वानरो हितः ।
यात्रायां शक्रकेतौ च सर्वकार्येषु सिद्धिदः ॥
न्यूना या वहते धारा मानात् सर्पिर् न सा शुभा ।
नाधिका शस्यते विप्र दुर्भिक्षकलिकारिका ॥
त्रुट्यते वहमाना या शाम्यते वा हुताशनः ।
सापि चान्यं नृपं त्व् इच्छेद् या च धारा पतेद् बहिः ॥
वज्रा नदी महारूपा मनोज्ञा क्रियकारिका ।
सुवर्णा हेमवर्णा च धारा राज्यविवृद्धये ॥
सन्तता पतते या च तनोतीव च पावकम् ।
तनोति स नृपं राष्ट्रं वसोर् धारा न संशयः ॥
सुगन्धिस्वस्थविमलकृमिकीटविवर्जितम् ।
शस्यते वसुधारायां सर्पिर् गव्यं च पूजितम् ॥
अभावाद् गन्धम् आज्यं वा होतव्यं च सुशोभनम् ।
घृतक्षौद्रपयोधारा सर्वपीडानिवारिणी ॥
गुडूचिशकलैर् होमः सहकारदलैः शुभः ।
अश्वत्थमालतीदूर्वा आयुर् आरोग्यपुत्रदा ॥
सौभाग्यं च श्रियं देवी प्रयच्छत्य् अविचारणा ।
आच्छाद्य वा शुभा वत्स सफलाः सर्वकामिकाः ॥
होतव्याः सर्वकालं तु सातत्यात् समिधो नृप ।
[२१०] सर्वकालं घृतं प्रोक्तं निमित्ते च निमित्ततः ॥
विशुद्धसर्पिषो यानि तानि चात्र विचारयेत् ।
ज्वालावशं शुभं गन्धं सर्वहोमेषु लक्षयेत् ॥
सम्यतैः संयतहारैः सर्वशास्त्रार्थपारगैः ।
जपहोमरतैर् भूप धारा देया तु तद्विधैः ॥
पाषण्डविकलांल् लुब्धान् धर्मापेतान् बहिष्कृतान् ।
सर्वकालप्रवादांश् च न वदेन् नावलोकयेत् ॥
मृत्युञ्जयं तथा मन्त्रं चतुर्थ्यन्तं जपेत् तदा ।
भाग्यवान् नित्यहोमे तु अन्यथा विफलं भवेत् ॥
सामान्या या भवेद् धारा तत्र जप्यं शतं शतम् ।
प्रातर्मध्याह्नसन्ध्यासु सर्वकामसमृद्धये ॥
वसुर् द्रव्यं घृतं वाज्यम् अमृतं हविष्कामिकम् ।
तत्र धारा सदा देया वसोर् धारा हि सा मता ॥
वसुनापत्यकामेन दक्षेण च महात्मना ।
मया च विष्णुना शक्र रुद्रेण च सहोमया ॥
आत्मानं च स्वरूपेण धारायान्तु प्रपातितम् ।
देवी सान्निध्यम् आयाता सर्वकामप्रदायिका ॥
तस्मात् त्वम् अपि राजेन्द्र वसोर् दारां प्रदापय ।
नातः परतरं पुण्यं विद्यते नृपसत्तम ॥
वसोर् धाराप्रदानस्य एकाहम् अपि यद् भवेत् ।
नृपेण पुष्टिकामेन परराज्यजिगीषुणा ॥
[२११] देया धारा सदा वत्स रिपुनाशाय विद्धि ताम् ।
विच्छेदो नित्यहोमस्य न कार्यस् तु कदाचन ॥
महादोषम् अवाप्नोति यः कुर्याद् विमुखान् सुरान् ।
द्रव्याभावे घृताभावे नृपतस्करजे भये ॥
यदि नो वहते धारा तदा छिद्रं न विद्यते ।
होमं कृत्वा क्षमापेत देवदेवीं नृपोत्तम ॥
पुनः प्राप्ते भवेद् वत्स प्रतिष्ठा विधिचोदिता ।
महत्य् आश्विनमासे तु अष्टमीनवमीषु च ॥
कार्तिक्यां माघचैत्रे तु चित्रायां रोहिणीषु च ।
वैशाख्यां तु प्रदातव्या ज्येष्ठा ज्येष्ठस्य सत्तम ॥
आषाढे द्वादशी चोक्ता अष्टमी पूर्णिमा नभे ।
नभस्ये रोहिणी वत्स चतुर्थ्यां भौमवासरे ॥
सङ्क्रान्तिषु च सर्वासु गुरुसौरभवासु च ।
चन्द्रसूर्योपरागेषु प्रतिष्ठायज्ञकर्मणि ॥
पुत्रोत्सवे प्रदातव्या जन्मपुष्पाभिषेचने ।
मार्गे व्रतनिबन्धे तु सुघोरे केतुदर्शने ॥
ग्रहकृत्योपशमने धारा देया शुभावहा ।
एवं यो वाहयेद् धारां शास्त्रदृष्टेन कर्मणा ॥
तस्य भूः सिध्यते सर्वा सनगा सहसागरा ।
अश्वमेधसमं पुण्यं दिनहोमात् प्रजायते ॥
[२१२] वाजपेयशतं रात्राव् अग्निष्टोमशतं तथा ।
आधयो व्याधयस् तस्य न भवन्ति कदाचन ॥
आयुर् आरोग्यम् ऐश्वर्यं तदन्ते च सुखी भवेत् ॥
इति वसोर् धाराविधिः ॥
इति श्रीमद्गोविन्दचन्द्रमहाराजसन्धिविग्रहिक-
श्रीलक्ष्मीधरभट्टविरचिते कृत्यकल्पतरौ
राजधर्मकाण्डं सम्पूर्णम् ॥
॥ शुभम् अस्तु ॥