10 shuddhi k AN Dam

श्रीलक्ष्मीधरविरचितः

कृत्यकल्पतरुः

शुद्धिकाण्डम्

श्रीगण्ēशाय नम

[ॐ नमो भगवते वासुदेवाय]

मङ्गलाचरणम्

[१]

वर्णाद् अप्य् उचितार्जनाद् अपि भृशं शुद्दैर् यदीयैर् अमी

	दौर्गत्याद् अपि दुष्कृताद् अपि गताः शुद्धिं द्विजाः काञ्चनैः ।

धर्मेन्दोर् उदयाचलः स दशमे काण्डे ऽत्र लक्ष्मीधरः

	शुद्धिं शुद्धिमतां वरो विरचयत्य् आचारवारां निधिः ॥

अथ प्रतिज्ञा

आशौचं मरणे पूर्वं जननाशौचम् एव च ।

नियमाश् च तयोः सर्व आशौचं वर्णसङ्करे ॥

[२] आशौचं सन्निपाते ऽथ तथाशौचं विदेशगे ।

बालाद्यशौचं स्त्र्याशौचं गर्भस्रावे ततः परम् ॥

मृयोर् विशेषेणाशौचम् असपिण्डे मृते तथा ।

निहारकाद्याशौचं चाप्य् आशौचरहितांस् ततः ॥

सपिण्डलक्षणं प्रेतनिर्हारं प्रेतसंस्कृतिम् ।

प्रेतस्योदकदानं चाप्य् उदकार्हनिरूपणम् ॥

शोकापनोदनं तद्वत् प्रवेशः स्वीयवेश्मनि ।

अस्थिसञ्चयनं देहस्नानशुद्धी तथैव च ॥

द्रव्यशुद्धिं तथैवात्र शुद्धिम् अत्यन्तदूषिते ।

भूशुद्धिं जलशुद्धिं चाप्य् अशुद्धेश् च निराक्रियाम् ॥

दशमे शुद्धिकाण्डे तु व्रते **लक्ष्मीधरः** क्रमात् ।

अष्टाविंशतिपर्वाणि तत्त्वज्ञानविशुद्धधीः ॥

[३]

अथ मरणाशौचम्

प्रेतशुद्धिः

तत्र मनुः [५.५८]

प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च ।

चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः ॥

प्रेतग्रहणं जातस्याप्य् उपलक्षणम् ।

हारीतः

    द्विविधम् एव शौचं भवति बाह्यम् आभ्यन्तरं च । तत्र बाह्यं त्रिविधम् — कुलशौचम् अन्नशौचं शरीरशौचं च । सूतकमृतकयोर् दशरात्रम् उभयतः कुलस्याशौचम् ।

“उभयतः” इति, उभयोः सूतकमृतकयोर् इत्य् अर्थः ।

देवलः

जनने मरणे नित्यम् आशौचम् अनुधावति ।

सपिण्डान् मातृबन्धूंश् च यत्र क्वचन गच्छतः ॥

[४] योनिज्ञातिद्विजेष्व् इष्टम् आशौचं सहवासिषु ।

भर्तृगुर्वोर्। अशौचं स्यान् मृत्युप्रसवकारणम् ॥

कारणाद् गच्छन् प्रेष्यत्वं तदाशौच्यं न तान् व्रजेत् ।

“योनिज्ञातिद्विजेषु” इत्य् अत्र योनिशब्देन पितृबन्धवो ऽभिधीयन्ते । “ज्ञातयः” सपिण्डेभ्यो ऽन्ये सकुल्याः । “सहवासिषु” इति पदम् अर्थाद् द्विजविशेषणम्, अन्येषां पितृबन्धुप्रभृतीनाम् असहवासिनाम् अप्य् अशौचयोगित्वात् ।

मनुः [५.५९] ।

दशाहं शावम् आशौचं सपिण्डेषु विधीयते ।

अर्वाक् सञ्चयनाद् अस्थ्नां त्र्यहम् एकाहम् एव वा ॥

शङ्खः

जनने मरणे चैव सपिण्डानां द्विजोत्तमः ।

त्र्यहाच् छुद्दिम् अवाप्नोति यो ऽग्निवेदसमन्वितः ॥

बृहस्पतिः [आशौच्। २३.२१] ।

त्रिरात्रेण विशुद्ध्येत् तु विप्रो वेदाग्निसंयुतः ।

पञ्चाहेनाग्निहीनस् तु दशाहाद् ब्राह्मणब्रुवः ॥

[५] स्वाध्यायः क्रियते यत्र होमश् चोभयकालिकः ।

सततं वैश्वदेवश् च तत्राशौचं न विद्यते ॥

दक्षः

सद्यःशौचं तथैकाहस् त्र्यहश् चतुरहस् तथा ।

षड्दशद्वादशाहश् च पक्षो मासस् तथैव च ॥

मरणान्तं तथा चान्यद् दशपक्षास् तु सूतके ।

उपन्यासक्रमेणैव वक्ष्याम्य् अहम् अशेषतः ॥

ग्रन्थार्थतो विजानाति वेदम् अङ्गैः समन्वितम् ।

सकल्पं सरहस्यं च क्रियावांश् चेन् न सूतकम् ॥

अत्र अङ्गशब्देनैव कल्पे लब्धे पुनः कल्पग्रहणं परशाखिकल्पस्यापि स्वानुष्ठानोपयुक्तस्य सङ्ग्रहणार्थम् । “रहस्यं” उपनिषद्द्वारेणात्मप्रकाशनम् । “क्रियावान्” श्रौताग्निमान् । “न सूतकं” सद्यःशौचम् ।

दक्षः

एकाहाच् छुद्ध्यते विप्रो यो ऽग्निवेदसमन्वितः ।

हीने हीनतरश् चैव त्र्यहश् चतुरहस् तथा ॥

“हीनः” स्मार्ताग्निमान्, वेदैकदेशाध्यायी । “हीनतरः” श्रौतस्मार्ताग्निरहितः सम्पूर्णवेदाध्यायी ।

[६] पराशरः [३.१८; ५.१९] ।

अग्नयो यत्र हूयन्ते वेदो वा यत्र पठ्यते ।

सततं वैश्वदेवस् तु नाशौचं मृतसूतके ॥

“नाशौचम्” सद्यःशौचे तात्पर्यम् ।

ब्रह्मचारी गृहे यत्र हूयते च हुताशनः ।

सम्पर्कविनिवृत्तानां न प्रेतं नैव सूतकम् ॥

एकाहाद् ब्राह्मणः शुद्ध्येद् यो ऽग्निवेदसमन्वितः ।

त्र्यहात् केवलवेदस् तु निर्गुणो दशभिर् दिनैः ॥

सम्पर्काद् दुष्यते विप्रो जनने मरणेषु च ।

सम्पर्केषु निवृत्तानां न प्रेतं नैव सूतकम् ॥

“अग्नयः” इति बहुवचनाद् अग्नित्रयम् अवगम्यते । “वेदो वा” इति अत्र वाशब्दः समुच्चये । “सम्पर्कः” अत्र सपिण्डान्तरेण शौचिना सहैकासनशयनभोजनादिः । “केवलवेदः” अत्र श्रौताग्निरहितः स्मार्ताग्निमान् वेदाध्यायी, न पुनर् अग्निमात्ररहितः, पञ्चाहाच् छौचविधानात्, यथाह विशुध्येद् इत्य् अनुवृत्तह् [७] बृहस्पतिः [आशौच्। २३] ।

पञ्चाहेनाग्निहीनस् तु दशाहाद् ब्राह्मणब्रुवः । इति ।

जाबालिः

एकद्वित्रिगुणैर् युक्ताः चतुस्त्र्येकदिनैः क्रमात् ।

सर्वे ऽपि सर्वयोगेन सद्यःशौचाः प्रकीर्तिताः ॥

“एकगुणः” केवलवेदाध्यायी । “द्विगुणः” वेदस्मार्ताग्निमान् । “त्रिगुणः” वेदस्मार्थश्रौताग्निमान् । “सर्वे” ब्राह्मणाः । “सर्वयोग” “ग्रन्थार्थतो विजानाति” इति वाक्योक्तगुणयोगः । अत्र चैषां वाक्यानाम् अयं तात्पर्यार्थः । वेदाङ्गादिसहितं सम्यग् ग्रन्थार्थतो विजानतो ऽग्निहोत्रादिक्रियावतश् च पुरुषस्य यद् अत्राशुचित्वम् उक्तं तद् अशौचिपुत्रादिसम्पर्करहितस्यावगन्तव्यम्,

सम्पर्काद् दुष्यते विप्रो जनने मरणे ऽपि च ।

सम्पर्कविनिवृत्तानां न प्रेतं नैव सूततम् ॥

[८] इति पराशरेणाभिधानात् । एवंविधस्यापि पुंसः पुत्राद्यशौचसम्पर्के सत्य् अशौचिनाम् इवाशौचं भवति । उपपद्यते चैवं वेदाग्निहोत्रवताम् अपि सम्पर्किणां दशाहात् शौचसमाचारः । यः पुनर् एवंविधो वेदमात्राध्याय्य् अमीमांसिततदर्थो ऽग्निहोत्रवान् वेदाध्ययनस्मार्ताग्निमान् वा पुरुषस् तस्य सम्पर्काद् एवैकाहत्र्यहाशौचं भवति । तथाविधाशौचविषयत्वेन च “अग्निहोत्रिणाम् अग्निहोत्रम्” इत्यादि विष्णु-गौतमाद्युक्तस्याग्नि-होत्रवहनादिक्रियाविषयस्याशौचाभावस्योपपत्तिः । न विशेषप्रवृत्तस्य शास्त्रस्याश्वस्तनिकादि-विषयत्वेन सङ्कोच इत्य् उचितम्, अनेनाकारेण सङ्कोचे प्रमाणाभात् । न चाश्वस्तनिकादि-वृत्तिविधानेनाप्य् अशुचसङ्कोचाक्षेपः, वेदार्थज्ञानादिगुणयोग्य्शौचिसम्पर्कवर्जक-पुरुषविषयत्वेनाप्य् अश्वस्तनादिवृत्तिविधानोपपत्तेः । वेदार्थज्ञानादिगुणयुक्ताशौच-सम्पर्करहितपुरुषविषयत्वेन वाशौचसङ्कोचे,

ग्रन्थार्थतो विजानाति वेदम् अङ्गैः समन्वितम् ।

इति, तथा “अगनयो यत्र हूयन्ते”, तथा

सम्पर्केषु निवृत्तानां न प्रेतं नैव सूतकम् ।

इत्यादि वचनान्य् एव [९] प्रमाणम् । यच् चाग्निवेदसमन्वित एव दक्ष-पराशराभ्याम् एकाहाशौचम् उक्तम्, शङ्ख-बृहस्पतिभ्यां त्र्यहाशौचम्, तत्रैकाहत्र्यहाशौचवचनयोर् एकविषयसमावेशाभावाच् छ्रौतस्मार्ताग्निमद्विषयत्वेन यथासङ्ख्यं व्यवस्था युज्यते हि । श्रौताग्निमति पुरुष एकाहाशौचवचनं तस्य स्मार्ताग्निमदपेक्षयाभ्यर्हितत्वात् ।

जाबालिः

एवं द्वित्रिगुणैर् युक्ताश् चतुस्त्र्येकगुणैः क्रमात् ।

सर्वे ऽपि सर्वयोगेन सद्यःशौचाः प्रकीर्तिताः ॥

बौधायनः [१.११.१] “सपिण्डेष्व् आदशाहम् आशौचम्” इति जननमरणयोर् अधिकृत्य वदन् त्र्यृत्विग्दीक्षितब्रह्मचारिवर्जम् । सपिण्डत्वाद् ऋत्विगादीनां सपिण्डजननमरणे यद् आशौचं प्राप्तं तद् इह निषिध्यते ।

उशनाः

    तत्र जन्ममरणयोः कालदेशान्तरयोर् दशरात्रम् ।

“कालदेशान्तरयोः” देशकालाव्यवहितयोः ।

[१०] मनुः [५.६४] ।

अह्ना चैकेन रात्र्या च त्रिरात्रैर् एव त्रिभिः ।

शवस्पृशो विशुध्यन्ति त्र्यहाद् उदकदायिनः ॥

“त्रिभिः त्रिरात्रैः” नवाहोरात्राणि भवन्ति । तथैकेनाह्ना रजन्या चैकम् अहोरात्रम् । एवं दशाहः सम्पद्यते । “शवस्पृशो” मृतनिर्हारकाः । “उदकदायिनः” समानोदकाः । अयम् अत्र तात्पर्यार्थः — ये वृत्तस्वाध्यायादिगुणयुक्तत्वेन सपिण्डाः समानोदकाश् च ते यदि स्नेहादिना शवस्पृशो भवन्ति तदा यथासङ्ख्यं दशाहत्र्यहाशौचभाजो भवन्तीति ।

बृहस्पतिः [आशौच्। २९] ।

[११] दशाहेन सपिण्डास् तु शुद्ध्यन्ति मृतसूतके ।

त्रिरात्रेण सकुल्यास् तु स्नात्वा शुद्ध्यन्ति गोत्रजाः ॥

“सकुल्याः” समानोदकाः । “गोत्रजाः” सपिण्डाः सकुल्येभ्यो ऽन्ये ।

गौतमः [१४.२२–२७] ।

    प्रेतोपस्पर्शने दशरात्रम् आशौचम् अभिसन्धाय चेत् । उक्तं वैश्यशूद्रयोः । आर्तवीर् वा । पूर्वयोश् च । त्र्यहं वा ।

“उपस्पर्शनम्” अत्र निर्हरणम् । “अभिसन्धाय चेत्” यदि दृष्टम् अङ्गीकृत्य शवं स्पृशति तदैतद् अशौचम्, न तु धर्मार्थकामव्तो वा । ब्राह्मणस्य च ब्राह्मणस्पर्शन एव, वैश्यशूद्रयोः पृथगभिधानात् । क्षत्रियोपस्पर्शने आत्मीयम् एवाशौचं भवति । आद्यन्ताभिधानेन मध्यप्रसिद्धेः शुद्ध्यातिसिद्धिप्रतिसन्धानात् तत् । “उक्तं वैश्यशूद्रयोः” पृथग्वैश्यशूद्रयोस् तु समानजातीयप्रेतोपस्पर्शने यद् एवोक्तं द्वादशरात्रादि तद् एव भवति । “आर्तवीः” ऋतुसमानसङ्ख्या वा रात्रीः षड् पञ्च वा वैश्यशूद्रयोर् अशौचम् । “पूर्वयोः” पूर्वोक्तयोश् च ब्राह्मणक्षत्रिययोर् आर्तवीर् अशौचं पूर्वोक्तं वा त्र्यहं वा । एते वृत्तोत्कर्षापकर्षापेक्षया विकल्पा व्यवस्थिताः ।

अथ पराशरः [३.९, ३.६] ।

दिनत्रयेण शुद्ध्येत् तु ब्राह्मणः प्रेतसूतके ।

क्षत्रियो द्वादशाहेन शुद्ध्यति प्रेतसूतके ॥

[१२] वैश्यः पञ्चदशाहेन शुद्धो मासेन शुद्ध्यति ।

जन्मकर्मपरिभ्रष्टः सन्ध्योपासनवर्जितः ॥

नामधारकविप्रस् तु दशाहेन विशुद्ध्यति ।

देवलः

शूद्रस्य त्रिंशता शुद्धिः विंशत्या दिवसैर् विशः ।

राज्ञः पञ्चदशाहेन दशभिर् ब्राःमणस्य च ॥

अशुच्यां दशरात्रं च सर्वत्राप्य् अपरे विदुः ।

निधने प्रसवे चैव पश्यन्तः कर्मणः क्षयम् ॥

गौतमः [१४.१–५] ।

    शावम् अशौचं दशरात्रम् नृत्विग्दीक्षितब्रह्मचारिणां सपिण्डानाम् । एकादशरात्रं क्षत्रियस्य । द्वादशरात्रं वैश्यस्य । अर्धमासम् एके । मासं शूद्रस्य ।

शातातपः

    शावम् आशौचं ब्राह्मणस्य दशरात्रेण शुद्ध्यति । राजन्यस्य द्वादशरात्रेण । वैश्यस्यार्धमासेन । मन्त्रावश्यकवर्जनाच् छूद्रस्य नाधिकारो न प्रतिषेधः । तमास्थितस् तद्वत् स्यात् । 

“तम्” ब्राह्मणादिवर्णम्, “आस्थितः” “तद्वत्” एतावत्कालम् अशुचिर् भवतीत्य् अर्थः ।

[१३] याज्ञवल्क्यः

क्षत्रस्य द्वादशाहानि विशां पञ्चदशैव तु ।

त्रिंशद् दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥

“न्यायवर्तिनः” पाकयज्ञद्विजशुश्रूषादिरतस्य “तदर्हम्” स्यात् ।

मनुः [५.१४०] ।

शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।

वैश्यवच् छौचकल्पश् च द्विजोच्छिष्टं च भोजनम् ॥

जाबालिः

नृपतेर् द्वादशाहानि विंशतिर् वा विशस्य च ।

मासं शूद्रस्य शेषाणां सदाशौचम् इति स्थितिः ॥

यमः

मृतके सूतके विप्रो दशरात्रेण शुद्ध्यति ।

वैश्यो विंशतिरात्रेण त्रिपञ्चाहेन भूमिपः ॥

तथा शूद्रः समग्रेण नित्यं मासेन शुद्ध्यति ।

शुद्धिर् एषा मया दृष्टा चात्रुर्वर्ण्ये समासतः ॥

ब्रह्मपुराणे

शौचाशौचं प्रकुर्वीरन् शूद्रवद् वर्णम् अङ्गनाः ।

[१४] पैठीनसिः

    जनने मरणे ब्राह्मणस्य दशाहम् अशौचम् । षोडशाहं क्षत्रियस्य । विंशतिरात्रं वैश्यस्य । मासं शूद्रस्य ।


    	अतः परं तु वर्णानां प्रतिपत्तिर् यथाक्रमम् ।


    	वक्ष्यामः शावम् आशौचं यथादृष्टं मनीषिभिः ॥


    	चतुर्थे ऽहनि कर्तव्यं संस्पर्शो ब्राह्मणस्य हि ।


    	एकादशे त्व् अत्र शुद्धिर् दानम् अध्ययनक्रिया ॥


    	पञ्चमे ऽहनि विज्ञेयः संस्पर्शः क्षत्रियस्य तु ।


    	सप्तमे ऽहनि वैश्यस्य ज्ञेयं संस्पर्शनं बुधैः ॥


    	क्षत्रियस्यात्र शुद्धिः स्याद् द्वादशाहेन नित्यशः ।


    	अर्धमासेन वैश्यस्य त्व् अन्नशुद्धिर् विधीयते ॥


    	दशमे ऽहनि शूद्रस्य कार्यं संस्पर्शनं बुधैः ।


    	मासेनैव तु शुद्धिः स्यात् सूतके मृतके तथा ॥

संवर्तः

चतुर्थे ऽहनि कर्तव्यम् अस्थिसञ्चयनं द्विजैः ।

ततः सञ्चयनाद् ऊर्ध्वम् अङ्गस्पर्शो विधीयते ॥

[१५] चतुर्थे ऽहनि विप्रस्य षष्ठे वै क्षत्रियस्य तु ।

अष्टमे दशमे चैव स्पर्शः स्याद् वैश्यशूद्रयोः ॥

अङ्गिराः

सूतके सूतिकावर्जं संस्पर्शो नैव दुष्यति ।

संस्पर्शे सूतिकायां तु स्नानम् एव विधीयते ॥

दक्षः

अस्नात्वा चाप्य् अहुत्वा च भुङ्क्ते ऽदत्वा च यस् तु वै ।

एवंविधस्य विप्रस्य सूतकं समुदाहृतम् ॥

व्याधितस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा ।

क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ॥

व्यसनासक्तवित्तस्य पराधीनस्य नित्यशः ।

श्रद्धात्यागविहीनस्य तस्यान्तं सूतकं भवेत् ॥

नासूतकं कदाचित् स्याद् यावज्जीवं तु सूतकम् ।

एवं गुणविशेषेण सूतकं समुदाहृतम् ॥

[१६] ब्रह्मपुराणे

अन्यपूर्वा यस्य गृहे भार्या स्यात् तस्य नित्यशः ।

अशौचं सर्वकार्येषु देहे भवति सर्वदा ॥

दानं प्रतिग्रहः स्नानं सर्वं तस्य भवेद् वृथा ॥

अत्रातिदेशवाक्येषु प्रेतशौचानुवृत्तिर् द्रष्टव्या ।

[१७]

अथ जननाशौचम्

तत्र मनुः {५.६१–६३] ।

जनने ऽप्य् एवम् एव स्याद् विप्राणां शुद्धिम् इच्छताम् ।

सर्वेषां शावम् आशौचं मातापित्रोस् तु सूतकम् ॥

सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥

निरस्य तु पुमान् शुक्रम् उपस्पृश्यैव शुद्ध्यति ।

बैजिकाद् अभिसम्बन्धाद् अनुरुध्याद् अघं त्र्यहम् ॥

“एवम् एव” इति, मरणे यादृशम् आशौचम् अस्पृश्यतालक्षणं भवति, [एवम् एव] “जनने” मातापितोर् एव “सूतकं” प्रसवनिमित्तं स्पर्शनानर्हत्वम् इत्य् ऽर्थः । “उपस्पृश्य” स्नात्वा । “शुचिः” स्पर्शार्हः ।

**[१८] वसिष्ठो ऽङ्गिराश् **च ।

    जनने तु मातापित्रोर् एव सूतकम् । अप्य् एवम् एव स्याद् विप्राणां शुद्धिम् इच्छताम् । मातापित्रोर् वा । तन्निमित्तत्वान् मातुर् इत्य् एके । अथाप्य् उदाहरन्ति ।


    	नाशौचं सूतके पुंसः संसर्गं चेन् न गच्छति ।


    	रजस् तत्राशुचि ज्ञेयं तच् च पुंसि न विद्यते ॥

शङ्खलिखितौ ।

    जनने ऽप्य् एवं तेषाम् । तत्र मातापितराव् अशुची । मातेत्य् एके । अग्निहोत्रार्थं स्नानोपस्पर्शनादेर् अपि शुचिः ।

“जनने सपिण्डाः शुचयः” इत्य् अत्र “शुचित्वम्” स्पर्शनार्हत्वम्, न कर्मार्हत्वादिकम् अपि, हारीत-देवल-बोधायन-विष्ण्व्आदिवाक्यैर् विरोधात् । तद् आह हारीतः

सूतकमृतकयोर् दशरात्रम् उभयतः कुलस्याशौचम् । इति ।

देवलः

जनने मरणे नित्यम् आशौचम् अनुधावति ।

सपिण्डान् मातृबन्धूंश् च,

इत्यादि ।

बौधायनः [१.११.१] ।

सपिण्डेष्व् आदशाहम् आशौचम् इति जननमरणयोर् अधिकृत्य वदन्ति । इति ।

विष्णुश् च [२२.१] ।

ब्राह्मणस्य सपिण्डानां जननमरणयोर् दशाहम् आशौचम् । इत्यादि ।

शङ्खः

जनने मरणे चैव सपिण्डानां द्विजोत्त्मः ।

दशाहाच् छुद्धिम् आप्नोति । इत्यादि ।

बृहस्पतिः [आशौच्। ४३] ।

शावाशौचं तु सर्वेषां सूतकं मातुर् एव च ।

स्नानं कुर्यात् पिता तत्र ज्ञातयो न सचैलिनः ॥

संवर्तः

जातस्यापि विधिर् दृष्टः एष एव मनीषिभिः ।

दशरात्रेण शुद्ध्येत् तु वैश्वदेवविवर्जितः ॥

जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।

माता शुद्ध्येद् दशाहेन स्नात्वा तु स्पर्शनं पितुः ॥

पराशरः [३.२७, २५] ।

यदि पत्न्यां प्रसूतायां द्विजः सम्पर्कम् इच्छति ।

सूतकं तु भवेत् तस्य यदि विप्रः षडङ्गवित् ॥

[२०] प्रसवे गृहमेधी तु न कुर्यात् सङ्करअं द्विजः ।

शुद्ध्येन् माता दशाहेन त्व् अवगाह्य पिता शुचिः ॥

“सम्पर्कः” संस्पर्शः । “मातुस् तु सूतकं तां स्पृशतश् च नेतरेषाम्” इति संवर्तवचनानुसारात् ।

ब्रह्मपुराणे

सूतके तु मुखं दृष्ट्वा जातस्य जनकस् ततः ।

कृत्वा सचैलं स्नानं तु शुद्धो भवति तत्क्षणात् ॥

अन्याश् च मातरस् तद्वत् तद् गेहं न व्रजन्ति चेत् ।

सपिण्डाश् चापि सम्प्रेष्याः सन्निकर्षे ऽपि नित्यशः ॥

ब्राह्मणी क्षत्रिया वैश्या प्रसूता दशभिर् दिनैः ।

गतैः शूद्रा तु संस्पृश्या त्रयोदशभिर् एव च ॥

बृहत्प्रेचेताः

सूतिका सर्ववर्णानां दशाहेन विशुद्ध्यति ॥

पैठीनसिः

    सूतिकां पुत्रवतीं विंशतिरात्रेण स्नातां सर्वकर्माणि कारयेत् । मासेन स्त्रीजननीम् ।

इति जननाशुद्धिः ।

[२१]

अथ जननमरणनियमाः

तत्र शङ्खलिखितौ ।

पिता पितामहश् चैव तथैव प्रपितामहः ।

भूयस् तत्रैव जायन्ते तदहर् वेदयन्ति च ॥

तस्मात् स दिवसः पुण्यः पितॄणाम् अभिवर्धनः ।

स्मरणाच् चैव पूर्वेषां तदह्र् न प्रदुष्यति ॥

हारीतः

    जाते चैव कुमारे पितॄणाम् आमोदात् पुण्यं तदहः । तस्मात् तिलपूर्णपात्राणि सहिरण्यानि ब्राह्मणान् आहूय पितृभ्यः स्वधां कुर्यात् । प्रजापतये च प्राङ्नाड्याश् छेदात् संस्कारान् पुण्यार्थान् पुरुषस्य कुर्वन्ति । नाड्यां तु छिन्नायाम् आशौचम् ।

मनुः

जाते कुमारे तदहः कामं कुर्यात् प्रतिग्रहम् ।

हिरण्यधान्यगोवासस्तिलान्नगुडसर्पिषाम् ॥

[२२] शङ्खलिखितौ

    कुमारप्रसवे नाड्याम् अच्छिन्नायां गुडतिलतैलहिरण्यवस्त्रप्रावरण-गोधान्यप्रतिग्रहो ऽपि । अथ शौचं द्विचतुष्पदधान्यदक्षिणासु ।

**पैठीनसिः **।

दानप्रतिग्रहेषु विकल्पो हिरण्यम् अथो गाव इत्य् अदोषः ।

अथ शौचाधिकारे काश्यपः

    तैः सह ब्राह्मणो करेणोपयाचेत । नादद्यात् । द्विचतुष्पदधान्यहिरण्यवर्जम् ।

ब्रह्मपुराणे

लवणं मधु मांसं च पुष्पमूलफलानि च ।

काष्टं लोष्टं तृणं पर्णं दधि क्षीरं घृतं तथा ॥

औषधीस् तैलम् अजिनं शुक्तम् अन्नं च नित्यशः ।

अशौचिनां गृहाद् ग्राह्यं स्वयं पण्यं च मूलजम् ॥

अत्र जाबालिः

सन्ध्यां पञ्चमहायज्ञान् नैत्यकं स्मृतिकर्म च ।

तन्मन्धे हापयेत् तेषां दशाहान्ते पुनः क्रिया ॥

शङ्खः

दानं प्रतिग्रहो होमः स्वाध्यायः पितृकर्म च ।

प्रेतपिण्डक्रियावर्जम् अशौचे विनिवर्तयेत् ॥

[२३] मनुश् च ।

उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।

दानं प्रतिग्रहो होमः स्वाध्यायश् च निवर्तते ॥

“उभयत्र” सूतकमृतकयोः । दशाहग्रहणम् अशौचकालोपलक्षणम् ।

छन्दोगपरिशिष्टे **कात्यायनः **[गोभिल ३.६०–६३] ।

सूतके कर्मणां त्यागः सन्ध्यादीनां विधीयते ।

होमः श्रौते तु कर्तव्यः शुष्कान्नेनापि वा फलैः ॥

अकृतं हावयेत् स्मार्ते तदभावे कृताकृतम् ।

हावयेद् इति किं तत् स्याद् अनारभ्य विधानतः ॥

कृतमोदनसक्त्वादि तण्डुलादि कृताकृतम् ।

व्रीह्यादि चाकृतं प्रोक्तम् इतिहव्यं त्रिधा बुधैः ॥

सूतके च प्रवासे च शक्तौ वा श्राद्धभोजने ।

एवमादिनिमित्तेषु हावयेद् वेति योजयेत् ॥

“हावयेद् इति किं” इत्यादि — हावयेद् इति यद् गृहान् आरभ्य विहितं किं तस्य विषय इति प्रश्नपूर्व्कविषयविशेषम् आह “सूतके च प्रव्”से” इत्यादिना ।

[२४] पारस्करः [३.१०.३१–३४] ।

    न स्वाध्ययम् अधीयीरन् । नित्यानि निवर्तेरन् वैतानवर्जम् । शालाग्नौ चेत्य् एके । अन्य एतानि कुर्युः ।

“वैतानम्” श्रौआग्निकर्म् । “शालाग्नौ” स्मार्ताग्नौ, तद्वर्जयित्वा “एके” आचार्याः शालाग्नौ च निवृत्तिम् इच्छन्ति । “एके” इति वचनाद् एकेन यदा निवृत्तिस् तदा “अन्य एतानि कुर्युः” न स्वयम् इति कर्कः

यमः

सूतके तु कुलस्यान्नम् अदोषं मनुर् अब्रवीत् ।

एकादशे ऽह्नि कुर्वीत दानम् अध्ययनं तपः ॥

त्रेधा धर्मोपरोधानुसारिणास्मै तद् उच्यते ।

अरणीसम्भवो वह्निर् दहेत् पापं सदा कृतः ॥

“सूतके तु कुलस्यान्नम् अदोषम्” इति — सूतकिनो दानं विना त्रेधा धर्मोपरोधे सति तन्निवृत्त्यर्थम् उच्यते । अत एव हेतोः “अरणीसम्भवो वह्निः” इत्यादिनोक्तः ।

[२५] मनुः [५.८४] ।

न वर्धयेद् अघाहानि प्रत्यूहेन् नाग्निप्रक्रियाम् ।

न च तत्कर्म कुर्वाणः सनाभ्यो ऽप्य् अशुचिर् भवेत् ॥

“न वर्धयेद् अघाहानि” इति — यस्य वृत्ताद्यपेक्षयाशौचसङ्कोचः स निष्कर्मा सुखम् आसिष्यत इति बुद्ध्याशौचदिनानि न वर्धयेद् इत्य् अर्थः । “पर्त्यूहो” निरासः । “न च” इत्यादि — यथाग्निकर्म कुर्वाणो यजमानो ऽशुचिर् न भवति, एवं स्नाभ्यो ऽपि तत्कर्मकरणे नाशुचिर् इत्य् अर्थः ।

जाबालिः

जन्महानौ वितानस्य कर्मत्यागो न विद्यते ।

शालाग्नौ केवलो होमः कार्य एवान्यगोत्रजैः ॥

उभयत्र दशाहानि सपिण्डानाम् अशौचकम् ।

स्नानोपस्पर्शनाभ्यासाद् अग्निहोत्रार्थम् अर्हति ॥

[२६]

**अथ वर्णसन्निपाताशौचम् **

तत्र दक्षः

वर्णानाम् आनुलोम्येन स्त्रीणाम् एको यदा पतिः ।

दशाहषट्त्र्यहैकाहाः प्रसवे सूतकं भवेत् ॥

हारीतः

शुद्ध्येद् विप्रो दशाहेन जन्महान्योः स्वयोनिषु ।

सप्तपञ्चत्रिरात्रैस् तु क्षत्रविट्शूद्रयोनिषु ॥

विष्णुः [२२.२२–२४] ।

    ब्राह्मणस्य क्षत्रियवैश्यशूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्रैकरात्रैः । क्षत्रियस्य विट्शूद्रयोः षड्रात्रत्रिरात्राभ्याम् । वैश्यस्य शूद्रेषु षड्रात्रेण ।

ब्र्हमपुराणम्

बान्धवेषु च विप्रस्य क्षत्रविट्शूद्रजातिषु ।

मृतेषु चाथ जातेषु दशाहाच् छुद्धिर् इष्यते ॥

देशधर्मप्रमाणत्वात् षड्रात्रं क्षत्रियेष्व् अथ ।

त्रिरात्रम् अपि वैश्येषु शूद्रेष्व् एकाहम् एव च ॥

[२७] क्षत्रियस्याथ वैश्यअस् तु वैश्यस्य वृषलस् तथा ।

म्रियते जायते बन्धुस् तत्राशौचं स्वकं चरेत् ॥

शूद्रा वैश्याः क्षत्रियास् तु क्रमाद् उत्तमजातिषु ।

बान्धवेषु चरन्त्य् अत्र यत्सङ्ख्यं तेषु विद्यते ॥

शङ्खः [१८.१७–२०] ।

एकरात्रं त्रिरात्रं वा षड्रात्रं मासम् एव च ।

शूद्रे सपिण्डे वर्णानाम् आशौचं क्रमतः स्मृतम् ॥

त्रिरात्रम् अथ षड्रात्रं पक्षं मासं तथैव च ।

वैश्ये सपिण्डे वर्णानाम् आशौचं क्रमतः स्मृतम् ॥

सपिण्डे क्षत्रिये शुद्धिः षड्रात्रं ब्राह्मणस्य तु ।

वर्णानां परिशेषाणां द्वादशाहेन निर्दिशेत् ॥

सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ।

दशरात्रेण शुद्ध्येयुर् इत्य् आह भवान् यमः ॥

अङ्गिराः

असवर्णस्त्रियः पुत्रा द्विजानां परिकीर्तिताः ।

पृथग्धर्मसमाचाराः पृथक्शौचाः प्रकीर्तिताः ॥

शूद्रापुत्रः पारशवः ब्राह्मणोत्पादितस् तु यः ।

शूद्राचारेण तस्यापि शौचाशौचं विधीयते ॥

[२८] शङ्खलिखितौ

यद्य् एकजाता बहवः पृथक्क्षेत्राः पृथग्गृहाः ।

एकपिण्डाः पृथक्शौचाः पिण्डस् त्व् आवर्तते त्रिषु ॥

जाबालिः

नानाजातिषु पारक्ये पैतृकं जीवतः पितुः ।

अतीते मातृकं विद्यात् पारक्यम् उभयोर् अपि ॥

विष्णुः [२२.१९–२१] ।

    पत्नीनां दासानाम् आनुलोम्येन स्वामितुल्यम् आशौचम् । मृते स्वामिन्य् आत्मीयम् । हीनवर्णानाम् अधिकवर्णेषु सपिण्डेषु तदाशौचव्यपगमे शुद्धिः ।

बृहस्पतिः [आशौच्। ३५] ।

दासान्तेवासिभृतकाः शिष्याश् चैकत्र वासिनः ।

स्वामितुल्येन शौचेन शुद्ध्यन्ति मृतसूतके ॥

**शङ्खः **।

हीनवर्णा तु या साध्वी प्रमादात् प्रसवं व्रजेत् ।

प्रसवे मरणे तज्जन्मशौचं नोपशाम्यति ॥

इति वर्णसन्निपाताशौचम् ।

[२९]

अथाशौचसन्निपाताशौचम्

तत्र मनुः [५.८९] ।

अन्तर्दशाहे स्यातां चेत् पुनर् मरणजन्मनी ।

तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिर्दशम् ॥

याज्ञवल्क्यः [३.२०] ।

अन्तरा जन्ममरणे शेषाहोभिर् विशुद्ध्यति ।

बौधायनः [१.११.१५–१६] ।

    जननमरणयोः सन्निपाते समाने तु दशरात्रम् । [अथ] यदि दशरात्राः सन्निपतेयुर् आद्यं दशरात्रम् आशौचम् आ नवमाद् दिवसात् ।

[३०] शङ्खलिखितौ

    अथ चेद् अन्तरा प्रमीयेत जायेत वावशिष्टैर् एव दिवसैः शुद्ध्येत् । अहःशेषे द्वाभ्याम् । प्रभाते तिसृभिः ।

गौतमः [१४.६–८] ।

    तच् चेद् अन्तः पुनर् आपतच् शेषेण शुद्ध्येरन् । रात्रिशेषे द्वाभ्याम् । प्रभाते दिनत्रयेण । मरणाशौचमध्ये ज्ञातिमरणे ऽप्य् एवम् ।

अङ्गिराः

सूतके सूतकं भूयो यदि तत् स्याद् अनिर्दशे ।

तच्छेषेणैव शुद्धिः स्यान् मृतके सूतकं तथा ॥

अनिर्दशाहे जनने पश्चात् स्यान् मरणं यदि ।

प्रेतम् उद्दिश्य कर्तव्यं तत्राशौचं स्वबन्धुभिः ॥

[३१] देवलः

परतः परतः शुद्धिर् अघवृद्धौ विधीयते ।

स्याच् चेत् पञ्चतमाद् अह्नः पूर्वेणाप्य् अनुशिष्यते ॥

अघानां यौगपद्ये तु ज्ञेया शुद्धिर् गरीयसा ।

मरणोत्पत्तियोगे तु गरीयो मरणं भवेत् ॥

शङ्खः

समानं खलु शौचं तु प्रथमेन समापयेत् ।

असमानं द्वितीयेन धर्मराजवचो यथा ॥

यमः

अघवृद्धाव् अशौचं च पश्चिमेन समापयेत् ।

ब्रह्मपुराणे

आद्यभागद्वयं यावत् सूतकस्य तु सूतके ।

द्वितीये पतिते चाद्यात् सूतकाच् छुद्धिर् इष्यते ॥

अत ऊर्ध्वं द्वितीयात् तु सूतकाच् छुचिर् इष्यते ।

एवम् एव विचार्यं स्यान् मृतके मृतकान्तरे ॥

मृतकस्यान्तरे यद् यत् सूतकं प्रतिपद्यते ।

सूतकस्यान्तरे वाथ मृतकं यत्र विद्यते ॥

मृतकान्ते भवेत् तत्रे चातुर्वर्ण्येषु नित्यशः ॥

[३२]

अथ विदेशस्थाशौचम्

तत्र बृहस्पतिः {आशौच्। ३६.६२] ।

सन्निधाने ऽशौचम् इदं सारांशं परिकीर्तितम् ।

दूरदेशे मृते जाते सद्यः शौचम् उदाहृतम् ॥

अन्यदेशे मृते ज्ञातिं श्रुत्वा वा पुत्रजन्म च ।

अनिर्गते दशाहे तु शेषाहोभिर् विशुद्ध्यति ॥

पारस्करः [३.१०.४४–४५] ।

    प्रोषितश् चेत् प्रेयाच् छ्रवणप्रभृति कृतोदकाः कालशेषम् आसीरन् । अतीतश् चेद् एकरात्रं त्रिरात्रं वा ।

[३३] मनुः [५.७५–७८] ।

विगतं तु विदेशस्थं शृणुयाद् यो ह्य् अनिर्दशम् ।

यच् छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥

अतिक्रान्ते दशाहे तु त्रिरात्रम् अशुचिर् भवेत् ।

संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥

निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।

सवासा जलम् आप्लुत्य शुद्धो भवति मानवः ॥

“विगतम्” विनष्टम् । “अनिर्दशम्” अनिर्गतदशाहे ।

**याज्ञवल्क्यः **[३.२१] ।

प्रोषिते कालशेषः स्यात् पूर्णे दत्वोदकं शुचिः ।

वसिष्ठः [३.३६] ।

देशान्तरस्थे प्रेत् ऊर्ध्वं दशाहाच् छ्रुत्वैकरात्रम् आशौचम् ।

गौतमः [१४.१८] ।

श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् ।

सूतकसम्बन्धदशमी तत्र रात्रिः । “पक्षिणी” आगामिवर्तमानाहर्युक्ता रात्रिः ।

[३४] विष्णुः [२२.३७–४१] ।

    श्रुत्वा देशान्तरस्थो जन्ममरणे आशौचशेषेण शुद्ध्येत् । व्यतीते त्व् अशौचे संवत्सरस्यान्तं त्व् एकरात्रेण । अतः परं स्नानेन ।

जाबालः

अतीते सूतके स्वे स्वे त्रिरात्रं स्यात् तु सूतकम् ।

संवत्सरे व्यतीते तु सद्यः शौचं विधीयते ॥

देवलः

आशौचाहःस्व् अतीतेषु बन्धुश् चेच् छ्रूयते मृतः ।

तत्र त्रिरात्रम् आशौचं भवेत् संवत्सरान्तरे ॥

ऊर्ध्वं संवत्सरार्धात् तु श्रूयते चेन् मृतो जनः ।

भवेद् एकाहम् एवात्र तच् च सन्न्यासिनां न तु ॥

नाशौचं प्रसवस्यास्ति व्यतीतेषु दिनेष्व् अपि ।

“संवत्सरान्तरे” वर्षाब्यन्तरे । अत्रेयं व्यव्स्था — षण्मासाभ्यन्तरे ज्ञातिमरणश्रवणे त्रिरात्रम् आशौचम् । तदूर्ध्वं मासत्रयं वा यावत् पक्षिणी । तदूर्ध्वं मासत्रयं यावद् एकरात्रम् । अतः परं स्नानोदकदानमात्रम् ।

[३५]

अथ बालाद्याशौचम्

तत्र शङ्खलिखितौ

    देशान्त्रिते बाले चातीते सद्यःशौचम् । यद्य् ऊनद्विवर्षं स्याद् अनुत्पन्नदशन इत्य् एके ।

पैठीनसिः

देशान्तरमृतस्य सद्यःशौचम् ।

वैवस्वत आह ।

बाले चादन्तजाते त्रिरात्रं शावम् आशौचम् । 

“सद्यःशौचम्” इति गौतमः

मनुः [५.७८, ६८] ।

बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।

सवासा जलम् आप्लुत्य सद्य एव विशुद्ध्यति ॥

[३६] नृणाम् अकृतचूडानाम् अशुद्धिर् नैशिकी स्मृता ।

निर्वृत्तचूडकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥

“बालः” अत्र अजातदन्तः । “पृथक्पिण्डः” अत्र समानोदकः ।

यमः

ऊनत्रिवार्षिके बाले प्रेतत्वम् अनुगच्छति ।

अदन्तजाते तनये शिशौ गर्भच्युते तथा ॥

निर्वृत्तचूडके बाले देशान्तरम् अथो गते ।

सपिण्डानां तु सर्वेषाम् अहोरात्रम् अशऔचकम् ॥

याज्ञवल्क्यः [३.२३] ।

आ दन्तजन्मनः सद्य आचूडान् नैशिकी स्मृता ।

त्रिरात्रम् आ व्रतादेशाद् दशरात्रम् अतः परम् ॥

जाबालः

व्रतचूडा द्विजानां तु प्रमीतेषु यथाक्रमम् ।

दशाहत्र्यहऐकाहोभिः शुध्यन्त्य् अपि हि निर्गुणाः ॥

“व्रतम्” उपनयनम् ।

विष्णुः [२२.२७–३१] ।

    अदन्तजाते बाले प्रेते सद्य एव । नास्याग्निसंस्कारो नोदकक्रिया । दन्तजाते त्व् अकृतचूडे त्व् अहोरात्रेण । कृतचूडे [तु] असंस्कृते त्रिरात्रेण । अतः परं यथोक्तकालेन ।

[३७] शङ्खः

अजातदन्ते बाले तु सद्यअःशौचं विधीयते ।

अहोरात्रात् तथा शुद्धिर् बाले त्व् अकृतचूडके ॥

तथैवानुपनीते तु त्र्यहाच् छुध्यन्ति बान्धवाः ।

अत्र अजातदन्तादयः स्वकीयकालोपलक्षकाः ।

पैठीनसिः

अकृतचूडानां त्रिरात्रम् ।

वसिष्ठः [४.३४–३५] ।

    ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम् अशौचम् । सद्यःशौचम् इति गौतमः ।

अत्र दाहादाहकृतो विषयविभागो यथा अङ्गिराः

अजातस्य तु तावत् स्याद् अशऔचं संस्थितस्य तु ।

यावत् स्नानं न कुर्वन्ति सचैलं बान्धवा बहिः ॥

यद्य् अप्य् अकृतचूडश् चाजातदन्तश् च संस्थितः ।

तथापि दाहयेद् एतम् अशौचं त्र्यहम् आचरेत् ॥

“अजातः” अजातदन्तः ।

[३८] पारस्करः [३.१०.२–६] ।

    अद्विवर्षे प्रेते मातापित्रोर् आशौचम् । [शौचम् एवेतरेषाम्] । एकरात्रं त्रिरात्रं वा । शरीरम् अदग्ध्वा निखनन्ति । अन्तःसूतके चेदोत्थानाद् आशौचं सूतकवत् ।

ब्रह्मपुराणे

अनतीतद्विवर्षं तु मृतं भूमौ निधापयेत् ।

द्विरात्रं बान्धवानां च तस्याशौचं च सर्वशः ॥

अनतीतद्विवर्षस् तु प्रेतो यत्रापि दह्यते ।

अतिमोहादिभूतैश् च देशसावर्ण्यमार्दवात् ॥

अशौचं ब्राह्मणानां तु त्रिरात्रं न तु विद्यते ।

राज्ञाम् एकादशाहं तु वैश्यानां द्वादशाहिकम् ॥

[३९] अपि विंशतिरात्रं तु शूद्राणां च भवेत् क्रमात् ।

अनुपनीतो विप्रस् तु राजा चैव धनुर्ग्रहात् ॥

अगृहीतप्रतोदश् च वैश्यः शूद्रश् च वस्त्रयुक् ।

म्रियते यत्र तत्र स्याद् आशौचं त्र्यहम् एव हि ॥

द्विजन्मनाम् अयं कालस् त्रयाणां तु षडब्दिकः ।

पञ्चाब्दिकं तु शूद्राणां स्वजात्युक्तम् अतः परम् ॥

[४०]

अथ स्त्र्याशौचम्

तत्र “त्र्यहाच् छुध्यन्ति बान्धवाः” इत्य् अनुवृत्तौ, शङ्खः

अनूढानां तु कन्यानां वैश्यशूद्रद्विजन्मनाम् ।

अनूढभार्यः शूद्रस् तु षोडशाद् वत्सरात् परम् ॥

मृत्युं समधिगच्छेत् तु मासं तस्यापि बान्धवाः ।

शुद्धिं समधिगच्छन्ति नात्र कार्या विचारणा ॥

तथा

गृहे मृतासु दत्तासु कन्यकासु त्र्यहं तथा ।

मनुः [५.७२] ।

स्त्रीणाम् असंस्कृतानां तु त्र्यहाच् छुध्यन्ति बान्धवाः ।

यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥

“असंस्कृतानाम्” वाग्दत्तानाम् अकृतविवाहानाम् । “बान्धवाः” भर्तृसपिण्डाः । “सनाभयः” पितृसपिण्डाः ।

[४१] याज्ञवल्क्यः [३.२४] ।

अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम् ।

विष्णुः [२२.३२–३४] ।

    स्त्रीणां विवाहः संस्कारः । संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे तत्प्रसवमरणे चेत् पितृगृहे भवेतां तदैकरात्रं त्रिरात्रं वा ॥

शङ्खलिखितौ

एकाहं कन्यायाम् ऊढायां गोत्रतः पिण्डाशौचयोर् निवृत्तिः ।

वसिष्ठः [४.१९] ।

दत्ता कन्या परैव भवति ।

शङ्खः

पितृवेश्मनि या नारी रजः पश्यत्य् असंस्कृता ।

तस्यां मृतायां नाशौचं कदाचिद् अपि शाम्यति ॥

[४२] ब्रह्मपुराणे

दत्ता नारी पितुर् गृह [ऽप्रधाने] सूयते [सदा] म्रियते ऽथ वा ।

स्वम् अशौचं चरेत् सम्यक् पृथक् स्थाने व्यवस्थिता ॥

आजन्मनस् तु चूडान्तं यत्र कन्या विपद्यते ।

सद्यःशौचं भवेत् तत्र सर्ववर्णेषु नित्यशः ॥

ततो वाग्दानपर्यन्तं यावदकाहम् (?) एव हि ।

अतः परं प्रवृद्धानां त्रिरात्रम् इति निश्चयः ॥

वाक्प्रदाने कृते तत्र ज्ञेयं चोभयतस् त्र्यहम् ।

पितुर् वरस्य च ततो दत्तानां भर्तुर् एव हि ॥

[४३] स्वजात्युक्तम् अशौचं स्यात् सूतके मृतके ऽपि वा ।

पित्रा दत्ता तु या कन्या स्वातन्त्र्याद् अन्यम् आश्रिता ॥

यं यं श्रितवती भूयस् तस्याशौचं भवेत् त्र्यहम् ।

मृतायां वा प्रसूतायां नान्येषाम् इति निश्चयः ॥

दत्ते तु सप्तमे यत्र बाला काचित् कृता भवेत् ।

स्वामिगोत्रं भवेत् तस्यास् तच् च भूयो विशिष्यते ॥

पैतृकं त्व् अप्रसूतायां ततः पौर्विकभर्तृकम् ।

कामाद् अक्षतयोनिश् चेद् अन्यं गत्वा व्यवस्थिता ॥

तस्यान्यस्य सगोत्रा स्याद् यं संश्रितवती स्वयम् ॥

[४४]

**अथ गर्भस्रावाशौचम् **

अत्र मनुः [७.६६] ।

रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति ।

रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥

हारीतः [आचार्। १९] ।

    गर्भपतने [स्त्रीणाम्] त्रिरात्रम् । साधीयो रजोविशेषत्वात् । जातमृते मृतजाते वा दशाहादि कुलस्य ।

शङ्खलिखितौ

गर्भमाससमा रात्री स्रंसने गर्भस्य । त्र्यहं वा । सर्वेषां सकुलानाम् ।

[४५] शातातपः

गर्भसंस्रवणे त्रिरात्रम् । यावन्तो मासास् तावन्त्य् अहानीति ।

“शुद्धिः” इत्य् अनुवृत्तौ विष्णुः [२२.२७] ।

मासतुल्यैर् अहोरात्रैर् गर्भस्रावे ।

जाबालः

रात्रयो मासतुल्याः स्युर् जनन्या गर्भविस्रवे ।

सुमन्तुः

गर्भमासतुल्या दिवसा गर्भस्रंसने । सद्यः शौचं वा भवति ।

[कूर्मपुराणे] ।

षण्मासाभ्यन्तरं यावद् गर्भस्रावो भवेद् यदि ।

तदा माससमैस् तासां दिवसैः शुद्धिर् इष्यते ॥

अत ऊर्ध्वं स्वजात्युक्तं तासाम् आशौचम् इष्यते ।

सद्यःशौचं सपिण्डानां गर्भस्य पतने सति ॥

[आदिपुराणे] ।

स्त्रीणां तु पतितो गर्भः सद्यो जातो मृतो ऽथ वा ।

अजातदन्तो मासैर् वा मृतः षड्भिर् गतैर् बहिः ॥

वस्त्राद्यैर् भूषितं कृत्वा निक्षिपेत् तं तु काष्ठवत् ।

खनित्वा शनकैर् भूमौ सद्यःशौचः विधीयते ॥

[४६]

१०

**अथ मृत्युविशेषाशौचम् **

तत्र “सद्यःशौचं विधीयते” इत्य् अनुवृत्तौ, मनुः [५.९५] ।

डिम्बाहवे हतानां च विद्युता पार्थिवेन च ।

गोब्राःमणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥

यमः

डिम्बाशनिहतानां च तथैव प्राणसत्रिणाम् ।

नदीश्वरापददंष्ट्रिभ्यः सद्यःशौचं विधीयते ॥

[४७] शास्त्रेणाभिमुखो यस् तु युध्यते शस्त्रधर्मणा ।

यज्ञः संसिध्यते तस्य सद्यःशौचं विधीयते ॥

अग्निमेरुप्रपतने वीराध्वन्य् अप्य् अनाशके ।

दीक्षितानां च सर्वेषां सद्यःशौचं विधीयते ॥

बृहस्पतिः [आशौच्। ४५] ।

डिम्बाहते विद्युता च राज्ञा गोविप्रपालने ।

सद्यःशौचं हतस्याहुः त्र्यहं चान्ये महर्षयः ॥

**पराशरः **।

ब्राह्मणार्थं विषन्नानां दण्डिनां गोग्रहेषु च ।

आहवेषु विपन्नानाम् एकरात्रम् अशौचकम् ॥

[४८] गौतमः [१४.९–११] ।

    गोब्राःमणहतानाम् अन्वक्षम् ।राजक्रोधाच् च युद्धे । प्रायोनाशकशस्त्राग्नि-विषोदकोद्बन्धनप्रपतनैश् चेच्छताम् ।

“शौचं” सद्यःशौचम् इत्य् अर्थः । “प्रायो” महापथगमनम् ।

शङ्खः

भृग्वग्न्यनाशकाम्भोभिः मृतानाम् आत्मघातिनाम् ।

पतितानां च नाशौचं शस्त्रविद्युद्धताश् च ये ॥

व्यापादयेद् अथात्मानं स्वयं वागग्न्युदकादिषु ।

विहितं तस्य नाशौचं नाग्निर् नाप्य् उदकक्रिया ॥

अथ कश्चित् प्रमादेन म्रियेताग्न्युदकादिषु ।

तस्याशौचं विधातव्यं कार्या चास्योदकक्रिया ॥

सुमन्तुः

    भृग्वग्निजलसङ्ग्रामे देशान्तरे संस्थाप्याशनिमहाध्वनिकानाम् उदकक्रिया कार्या । सद्यःशौचं भवति ।

“सद्यःशौचम्” इत्य् अनुवृत्तौ शङ्खलिखितौ

अथ शास्त्रानाशकाग्निवज्रभृगुजलविषुषप्रमापणे प्य् एवम् एव ।

[४९] जाबालः

दुर्भिक्षे राष्ट्रसम्पाते शस्त्रगोब्रह्मघातिते ।

पतिते ऽनशनप्रेते विदेशस्थे शुशौ न च ॥

एतेषाम् अशौचं न भवतीत्य् अर्थः ।

हारीतः

प्रायो ऽग्निमेरुसिंहव्याघ्रडिम्भाहवहतानां सद्यःशौचम् ।

काश्यपः

    अनशनमृतानाम् अशनिहतानाम् अग्निजलप्रविष्टानां भृतुसङ्ग्रामदेशान्तर-मृतानां गर्भाणां जातदन्तमृतानां त्रिरात्रेण शुद्धिः ।

ब्रह्मपुराणे

दुश्चिकित्स्यैर् महारोगैः पीडितस् तु पुमान् अपि ।

प्रविशेज् ज्वलनं दीप्तम् करोत्य् अनशनं तथा ॥

अगाधतोयराशिं च भृगोः पतनम् एव च ।

गच्छेन् महापथं वापि तुषारगिरिम् आदरात् ॥

प्रयागवटशाखाग्राद् देहत्यागं करोति वा ।

स्वयं देहविनाशे तु काले प्राप्ते महामतिः ॥

[५०] उत्तमान् आप्नुयाल् लोकान् आत्मघाती क्वचिद् भवेत् ।

महापापक्रियः स्वर्गे दिव्यान् भोगान् समश्नुते ॥

एतेषाम् अधिकारस् तु तपसां सर्वजन्तुषु ।

नराणाम् अथ नारीणां सर्ववर्णेषु सर्वदा ॥

ईदृशं मृतकं येषां जीवतां कुत्रचिद् भवेत् ।

अशौचं तु त्र्यहं तेषां वज्रानलहते तथा ॥

[५१]

११

अथासपिण्डाद्याशौचम्

तत्र मनु-विष्णू [मनु ५.५६; विष्णु २२.५६] ।

गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समाचरेत् ।

प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ॥

“पितृमेधः” अन्त्येष्टिः ।

आश्वलायनः [४.५.४–९] ।

    दानाध्ययने वर्जयेरन् दशाहं सपिण्डेषु । गुरौ चासपिण्डे । अप्रत्तासु स्त्रीषु त्रिरात्रम् । इतरेष्व् आचार्येषु । ज्ञातौ चासपिण्डे । प्रत्तासु च स्त्रीष्व् अदन्तजाते परिजाते चैकाहं सब्रह्मचारिणि समानग्रामीये च श्रोत्रिये ।

[५२] गौतमः [१४.१८–२७] ।

    [श्रुत्वा चओर्ध्वं दशम्याः] पक्षिणीम् । असपिण्डे योनिसम्बन्धे सहाध्यायिनि च । सब्रह्मचारिण्य् एकाहम् । श्रोत्रिये चोपसम्पन्ने । प्रेतोपस्पर्शने दशरात्रम् आशौचम् अभिसन्धाय चेत् । उक्तं वैश्यशूद्रयोः । पूर्वयोश् च । त्र्यहं वा । आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् ।

मनुः [५.८०–८२, ७१] ।

त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति ।

तस्य पुत्रे च पत्न्यां च दिवारात्रम् इति स्थितिः ॥

श्रोत्रिये तूपसम्पन्ने त्रिरात्रम् अशुचिर् भवेत् ।

मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥

प्रेते राजनि सज्योतिर् यस्य स्याद् विषये स्थितः ।

अश्रोत्रिये त्व् अहः कृत्स्नम् अनूचाने तथा गुरौ ॥

[५३] सब्रह्मचारिण्य् एकाहम् अतीते क्षपणं स्मृतम् ।

जन्मन्य् एकोदकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥

“सज्योतिः” नक्षत्रदर्शनं यावत् ।

शङ्खः

मातामहे तथातीते आचार्ये तु तथा मृते ।

गृहे मृतासु कन्यासु दत्तासु च तथा त्र्यहम् ॥

निवासराजनि प्रेते जाते दौहित्रके तथा ।

आचार्यपत्नीपुत्रेषु मृतेषु दिवसेन तु ॥

मातुले पक्षिणी रात्रिः शिष्यर्त्विग्बान्धवेषु च ।

सब्रह्मचारिण्य् एकाहम् अनूचारे मृते तथा ॥

याज्ञवल्क्यः [३.२४] ।

अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम् ।

गुर्वन्तेवास्यनूचाने मातुले श्रोत्रियस्य च ॥

बृहस्पतिः [आशौच्। २७.३३] ।

त्र्यहं मातामहाचार्यश्रोत्रियेषु शुचिर् नरः ।

मातुले पक्षिणी रात्रिः शिष्यर्त्विग्बान्धवेषु च ॥

अश्रोत्रिये त्व् अहः कृत्स्नम् अनूचाने तथा गुरौ ।

प्रेते राजनि सज्योतिर् यस्य स्याद् विषये स्थितिः ॥

[५४] बौधायनः [१.११.२५] ।

त्रिरात्रम् अहोरात्रम् एकाहम् इति कुर्वीत ।

जाबालः

समानोदकानां त्र्यहं गोत्रजानाम् अहः स्मृतम् ।

मातृबन्धौ गुरौ मित्रे मण्डलाधिपतौ तथा ॥

“शुध्येद्” इत्य् अनुवृत्तौ विष्णुः [२२.४२–४५] ।

आचार्ये मातामहे च व्यतीते त्रिरात्रेण ।

	अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।

	परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥


    आचार्यपत्नीपुत्रोपाध्यायमातुलश्वशुरश्वशुर्यसहाध्यायिशिष्येष्व् अतीतेष्व् एकरात्रेण । स्वदेशराजनि च ।

“श्वशुर्यः” श्यालः ।

हारीतः

परपूर्वासु भार्यासु पुत्रेषु च मृतेषु च ।

मातामहे त्रिरात्रं स्याद् एकाहं तु सपिण्डतः ॥

याज्ञवल्क्यः [३.२५] ।

अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च ।

निवासराजनि प्रेते तद् अहः शुद्धिकारणम् ॥

[५५] ब्रह्मपुराणे

औरसं वर्जयित्वा तु समवर्णेषु सर्वदा ।

क्षेत्रजादिषु पुत्रेषु जातेष्व् अथ मृतेषु च ॥

अशौचं च त्रिरात्रं स्यात् समानाम् इति निश्चयः ।

तथा

आदाव् अन्यस्य दत्तायां कुत्रचित् पुत्रयोर् द्वयोः ।

पितुर् यत्र त्रिरात्रं स्याद् एकं तत्र सपिण्डिनाम् ॥

एका माता द्वयोर् यत्र पितरौ द्वौ च कुत्रचित् ।

तयोः स्यात् सूतकाद् ऐक्यं मृताहाद् वा परस्परम् ॥

शङ्खः

अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च ।

परपूर्वासु च स्त्रीषु त्रिरात्राच् छुद्धिर् इष्यते ॥

बृहस्पतिः [आशौच्। २४] ।

अन्यपूर्वेषु दारेषु परपत्नीषु तेषु च ।

मृतेष्व् आप्लुत्य शुध्येत् तु त्रिरात्रेण द्विजोत्तमः ॥

“अशौचम्” इत्य् अनुवृत्तौ शङ्खलिखितौ

अन्यपूर्वासु भार्यासु कृतेषु च सुतेषु च ।

मृतेषु च त्र्यहं तत्र नाध्यायो नोदकक्रिया ॥

[५६]

१२

अथ निर्हाराद्यशौचम्

तत्र मनुः [५.१००–१०३] ।

एतद् वो ऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः ।

असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।

विशुध्यति त्रित्रात्रेण मातुर् आप्तांश् च बान्धवान् ॥

यद्य् अन्नम् अत्ति तेषां तु दशाहेनैव शुध्यति ।

अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ॥

अनुपगमेच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव वा ।

स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥

“बन्धुवत्” बान्धवभावेन स्नेहादिना दृष्टार्थम् । तत्र निर्हृत्याश्नतो निवसतश् च दशरात्रम् । अनश्नतः सहवसतश् च त्रिरात्रम् । अवसतो ऽनश्नतः एकरात्रम् ।

अङ्गिराः

अन्तर्दशाहे भुक्त्वा तु सूतके मृतके ऽपि वा ।

असंस्पृश्यो भवेत् तावद् यावत् तद्व्रतम् आचरेत् ॥

[५७] सूतके मृतके शावम् आशौचं ह्य् अस्थिसञ्चयात् ।

अन्नसत्रप्रवृत्तानाम् आमम् अन्नं विगर्हितम् ॥

भुक्त्वा पक्वान्नम् एतेषां त्रिरात्रं तु पयः पिबेत् ॥

आदाव् आरभ्य तु परः सायं भुञ्जीत नान्तरा ।

सपिण्डैः सह शुध्येत् तु अधःशायी सुसंयतः ॥

यस् तु भुङ्क्ते पराशौचे वर्णः सो ऽप्य् अशुचिर् भवेत् ।

अन्ते शुद्धिश् च तस्यैव तस्याप्य् उक्ता मनीषिभिः ॥

असपिण्डस्यान्तर्दशाहभोजने “संस्पृश्यत्वम्” इदं ज्ञेयम् । “तद्व्रतम्” तदाशौचाचरणनियमम्, न प्रायश्चित्तम् । “शावम्” शावनिमित्तकं कटधारणादिकर्म ।

**बृहस्पतिः **wइथ् थे अफ़ोरेमेन्तिओनेद् क़ुअलितिएस्[आशौच्। ४४] ।

यस् तैः सहासपिण्डो ऽपि प्रकुर्याच् छयनासनम् ।

बान्धवो ऽबान्धवो वापि दशाहेन विशुध्यति ॥

विष्णुः [२२.८–९] ।

गृहे यस्य मृते कश्चिद् असपिण्डः कथञ्चन ।

तस्याप्य् अशौचं विज्ञेयं त्रिरात्रं नात्र संशयः ॥

[५८] प्रेतान्नम् असपिण्डस्य यावद् अश्नात्य् अकामतः ।

तावत् त्र्यहाण्य् अशौचं स्याद् अपिण्डानां कथञ्चन ॥

“एकरात्रेण शुध्येद्” इत्य् अनुवृत्तौ, विष्णुः [२२.४६] ।

असपिण्डे च स्ववेश्मनि मृते च ।

[पैठीनसिः]

असम्बन्धिनं द्विजं हित्वा सद्यःशौचम् । सम्बन्धे त्रिरात्रम् ।

बौधायनः [१.११.३०–३२] ।

    परशवोपस्पर्शने ऽनभिसन्धिपूर्वं सचेलो ऽपः स्पृष्ट्वा सद्यः शुद्धो भवति । अभिसन्धिपूर्वं त्रिरात्रम् । ऋतुमत्यां च ।

याज्ञवल्क्यः [३.१४] ।

प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनाम् अपि ।

इच्छतां तत्क्षणाच् छुद्धिः परेषां स्नानसंयमात् ॥

**अङ्गिराः **।

यः कश्चिन् निर्हरेत् प्रेतम् अस्पिण्डः कथञ्चन ।

स्नात्वा सचैलः स्पृष्ट्वाग्निं तस्मिन्न् एवाह्नि शूध्यति ॥

[५९] पराशरः [३.४१] ।

अनाथं ब्राह्मणं पूर्वं ये हरन्ति द्विजातयः ।

पदे पदे यज्ञफलं सानुपूर्व्याश्नुवन्ति ते ॥

प्रेतस्पर्शनसंस्कारैः ब्राह्मणो नैव दुष्यति ।

वोढा वाप्य् अग्निदाता वा सद्यः स्नात्वा शुचिर् भवेत् ॥

[कूर्मपुराणे]

अवरश् चेद् वरं वर्णं वरो वाप्य् अवरं यदि ।

अशौचे संस्पृशेत् स्नेहात् तदशौचेन शुध्यति ॥

पराशरः [३.४७] ।

प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।

अनुगच्छेन् नीयमानं त्रिरात्रम् अशुचिर् भवेत् ॥

वसिष्ठः

    मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रम् अशौचम् । अस्निग्धे त्व् अहोरात्रम् । शवानुगमने चैव ।

ब्रह्मपुराणे [आदिपुराणे]

यो ऽसवर्णं तु मूल्येन नीत्वा चैव दहेन् नरः ।

अशौचं तु भवेत् तस्य प्रेतजातिसमं सदा ॥

[६०] सर्वे वर्णाः सजातीयं दग्ध्वा त्र्यहम् अशौचिनः ।

भवन्ति परजातीयं निर्हृत्य परजातिवत् ॥

सजातिम् असपिण्डं तु दग्ध्वा तद्गृहभोजिनः ।

स्वजात्युक्तम् अशौचं तु चरन्ति जडभुद्धयः ॥

अन्यजातिं मृतं दग्ध्वा दत्तान्नं भुञ्जते तु ये ।

कुत्सितास् ते नराः प्रोक्तास् तस्याशौचस्य भागिनः ॥

दाहयित्वा तु मूल्येन गुरुं प्रेतं भवेत् ततः ।

अशौचं दशरात्रं तु शिष्यस्येति विनिश्चयः ॥

आचार्यं वाप्य् उपाध्यायं गुरुं वा पितरं च वा ।

मातरं वा स्वयं दग्ध्वा व्रतस्थस् तत्र भोजनम् ॥

कृत्वा पतति नो तस्मात् प्रेतान्नं तस्य भक्षयेत् ।

अन्यत्र भोजनं कुर्यान् न च तैः सह संवसेत् ॥

एकाहम् अशुचिर् भूत्वा द्वितीये ऽहनि शुध्यति ।

तथा

ब्राह्मणो न दहेच् छूद्रं मित्रं वाप्य् अन्यम् एव वा ।

मोहाद् दग्ध्वा ततः स्नातः स्पृष्ट्वाग्निं प्राशयेद् घृतम् ॥

[६१] उपवासरतः पश्चात् त्रिरात्रेण च शुध्यति ।

सर्वेषां स्याद् अहोरात्रं शवानुगमनाद् अपि ॥

शब्दस्पर्शविधानोक्तं विहितं सार्ववर्णिकम् ।

मृतस्य यावद् अस्थीनि ब्राह्मणस्याहृतान्य् अपि ॥

तावद् यो बान्धवस् तत्र रौति तद्बान्धवैः सह ।

स्नानात् तस्य भवेच् छुद्धिस् ततस् त्व् आचमनं स्मृतम् ॥

अनस्थिसञ्चयाद् विप्रो रौति चेत् क्षत्रवैश्ययोः ।

तदा स्नातः सचैलस् तु द्वितीये ऽहनि शुध्यति ॥

अस्थिसञ्चयनाद् ऊर्ध्वम् अहोरात्रेण शुध्यति ।

सचैलस्नानम् अन्येषाम् अकृते ऽप्य् अस्थिसञ्चये ॥

कृते तु केवलं स्नानं क्षत्रविट्शूद्रजन्मनः ॥

[६२]

१३

अथानाशौचिनः

तत्र शङ्खलिखितौ

    राजा धर्मायतनाम् सर्वेषाम् । तस्माद् अनवरुद्धः प्रेतप्रसवदोषैः । एवम् आह ।


    	राज्ञः पुरोहितो मान्यः शुद्धिस् तस्य तदाश्रयात् ।


    	शिष्यस् तु पैतृकं शौचं गुरवे न प्रपद्यते ॥


    	पिण्डोदकं तु जनकं गोरम् एव प्रपद्यते ।


    	उपासीने तत्समीपवासिनि ब्रह्मचारिणि ॥

यमः

नाघदोषो ऽस्ति वै राज्ञां व्रतिनां सत्रिणां तथा ।

ऐद्रस्थानं समासीना ब्रह्मरूपा हि ते सदा ॥

राज्ञाम् आत्ययिके कार्ये सद्यः शौचं विधीयते ।

प्रजानां रक्षणार्थाय नाशनं तत्र कारणम् ॥

गौतमः [१४.४२–४४] ।

    सद्यःशैचं राज्ञां च कार्यनिरोधात् । ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थम् ।

[६३] विष्णुः [२२.४७–५२] ।

    आशौचं न राज्ञां राजकर्मणि । न व्रतिनां व्रते । न सत्रिणां सत्रे । न कारुकाणां कारुकर्मणि । न राजाज्ञाकारिणां तदिच्छया ।

[वृद्ध]पराशरः

राज्ञां च सूतकं नास्ति व्रतिनां न च सत्रिणाम् ।

दीक्षितानां च सर्वेषां यस्य चेच्छति पार्थिवः ॥

दीक्षितेष्व् अभिषिक्तेषु व्रततीर्थपरेषु च ।

तपोदानप्रसक्तेषु नाशौचं मृतसूतके ॥

शातातपः

यस्य स्वच्छन्दं नेच्छन्ति नरेन्द्राः सद्यः स्पर्शनमात्र एवम् आशौचम् ।

हारीतः

सङ्ग्रामस्थश् च राजन्यो वैश्यो मध्यगतो गवाम् ।

सत्री च ब्राह्मणो नित्यं ब्रह्मचारी च वै शुचिः ॥

जाबालः

ब्रह्मचारिणि भूपे च यतौ व्रअतिनि दीक्षिते ।

यज्ञे विवाहे शस्त्रे च सूतकं न कदाचन ॥

[६४] छन्दोगपरिशिष्टे कात्यायनः

न त्यजेत् सूतके कर्म ब्रह्मचारी स्वयं क्वचित् ।

न दीक्षणात् परं यज्ञे न कृच्छ्रादि तपश् चरन् ॥

पितर्य् अपि मृते नैषां दोषो भवति कर्हिचित् ।

अशौचं कर्मणो ऽन्ते स्यात् त्र्यहं तु ब्रह्मचारिणाम् ॥

“क्वचित्” क्वचित्कर्म ।

[प्रचेताः}

कारवः शिल्पिनो वैद्या दासीदासास् तथैव च ।

राजानो राजभृत्याश् च सद्यःशौचाः प्रकीर्तिताः ॥

याज्ञवल्क्यः [३.२८–२९] ।

 ऋत्विजां दीक्षितानां च यज्ञे कर्मणि तिष्ठताम् ।

सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥

दाने विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे ।

आपद्य् अपि च कष्टायां सद्यःशौचं विधीयते ॥

अङ्गिराः

जनने मरणे चैव त्रिष्व् आशौचं न विद्यते ।

यज्ञे विवाहकाले च वेदयागे तथैव च ॥

[६५] “अशौचम्” इत्य् अनुवृत्तौ ।

विष्णुः [२२.५३–५५] ।

    न देवप्रतिष्ठाविवाहयोः पूर्वसम्भृतयोः । न देशविभ्रमे । आपद्य् अपि च कष्टायाम् ।

ब्रह्मपुराणे

विवाहयज्ञयोर् मध्ये सूतके सति चान्तरा ।

शेषम् अन्नं परैर् दद्याद् गृहभोक्तॄंश् च न स्पृशेत् ॥

पराशरः

दुर्भिक्षे राष्ट्रसम्पात आपदां च समुद्भवे ।

उपसर्गमृते चैव सद्यःशौचं विधीयते ॥

यमः

स्वस्थकाले त्व् अयं धर्म आपदि त्व् अन्यथा स्मृतः ।

दैवे भये समुत्पन्ने प्रधानाङ्गे विनाशिते ॥

पूर्वं सङ्कल्पिते ऽर्थे वा तस्मिन्न् आशौचम् उच्यते ।

दक्षः

स्वस्थकाले त्व् इदं सर्वम् अशौचं परिकीर्तितम् ।

आपद्गतस्य सर्वस्य सूतके ऽपि न सूतकम् ॥

[६६]

१४

अथ सपिण्डादिलक्षणम्

तत्र** मनुः** [५.६०] ।

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।

समानोदकभावश् च जन्मनाम्नोर् अवेदने ॥

शङ्खलिखितौ

सपिण्डता तु सर्वेषां गोत्रतः साप्तपौरुषी ।

पिण्डश् चोदकदानं च शौचाशौचं तदानुगम् ॥

गौतमः [१४.१२] ।

पिण्डनिवृत्तिः सप्तमे पञ्चमे वा ।

वसिष्ठः [४.१७–१८]

सपिण्डत्वं साप्तपुरुषं विज्ञायते । अप्रत्तानां च स्त्रीणां त्रिपुरुषम् ।

मत्स्यपुराणे

लेपभाजश् चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।

पिण्डदः सप्तमस् तेषां सापिण्ड्यं सप्तपौरुषम् ॥

[६७] सुमन्तुः

    तत्र ब्राह्मणानाम् एकपिण्डस्वधानाम् आ दशमाद् धर्मविच्छित्तिर् भवति । सप्तमाद् गोत्रविच्छित्तिर् भवति । आ तृतीयात् स्वधाविच्छित्तिर् भवति । अन्यथा पिण्डशौचक्रियाद्युच्छेदाद् ब्रह्मघ्नतुल्यो भवति ।

ब्रह्मपुराणे

सर्वेषाम् एव वर्णानां विज्ञेया साप्तपौरुषी ।

सापिण्ड्यं तु ततः पश्चात् समानोदकधर्मता ॥

ततः कालवशात् तत्र विस्मृतैर् जन्मनामभिः ।

समानोदकसञ्ज्ञा तु तावन्मात्रे ऽपि नश्यति ॥

आत्मा पिता तत्पिता तु आत्मनः प्रपितामहः ।

तस्यापि यः पिता कश्चित् तथैव च पितामहः ॥

प्रपितामहसञ्ज्ञस्य यः कश्चित् प्रपितामहः ।

ऊर्ध्वं गणनया चाद्यः सर्वेषां प्रपितामहः ॥

पितामहो द्वितीयस् तु तृतीयस् तु पिता भवेत् ।

सोदर्येण स्ह भ्रात्रा स्याद् आत्मापि चतुर्थकः ॥

सवर्णायास् तथा पुत्रः पञ्चमः परिकीर्तितः ।

षष्ठः पौत्रः प्रपौत्रश् च सप्तमः परिकीर्तितः ॥

एवं मृतानाम् एतेषां सजीवं तु प्रपौत्रकः ।

अविभक्तधनास् त्व् एते सपिण्डाः परिकीर्तिताः ॥

[६८] भ्रातृभिर् वा यतस् त्व् अन्यैर् विभक्तार्थाः सधोदराः ।

विभक्तार्थाः सकुल्यास् तु श्राद्धादौ लेपभागिनः ॥

क्षत्रविट्शूद्रजातीनां सापिण्ड्यं तु त्रिपौरुषम् ।

ब्राह्मणैर् अपि जातानाम् अविभ्क्तार्थभागिनाम् ॥

विभक्तानां तु किं तेषां मातृज्ञातीव संशयः ।

सपिण्डता तु कन्यायाः सवर्णानां त्रिपौरुषी ॥

[६९]

१५

अथ प्रेतनिर्हरणम्

तत्र मनुः [५.९२] ।

दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।

पश्चिमोत्तरपूर्वैस् तु यथायोगं द्विजन्मनः ॥

हारीतः

न ग्रामाभिमुखं प्रेतं हरेत् ।

मनुः [५.१०८] ।

न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ।

अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंस्पर्शदूषिता ॥

यमः

न शूद्रो यजमानं वै प्रेतीभूतम् अनूद्धरेत् ।

शूद्रसंस्पर्शनाद् आशु न स्वर्ग्यास् ते द्विजातयः ॥

यस् त्व् आनयति शूद्रो ऽग्निं तृणकाष्ठहवींषि च ।

मन्यते ह्य् एष धर्मो ऽस्ति स चाधर्मेण लिप्यते ॥

[७०] विष्णुः [१९.१–५] ।

    मृतं द्विजं न शूद्रेण हारयेत् । न शूद्रं द्विजेन । पितरं मातरं च पुत्रा निर्हरेयुः । न द्विजं पितरं मातरं वा शूद्राः । ब्राःमणम् अनाथं ये ब्राह्मणा निर्हरन्ति ते स्वर्गलोकभाजः ।

पराशरः [३.४१] ।

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।

पदे पदे यज्ञफलम् आनुपूर्व्या लभन्ति ते ॥

याज्ञवल्क्यः [३.२६] ।

ब्राह्मणेनानुगन्तव्यो न तु शूद्रः कथञ्चन ।

अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् शुचिः ॥

[७१]

१६

अथ प्रेतसंस्कारः

तत्र पराशरः [३.१५] ।

अजातदन्ता ये बाला ये च गर्भाद् विनिःसृताः ।

न तेषाम् अग्निसंस्कारो नाशौचं नोदकक्रिया ॥

यमः

श्वभ्रे निखानयेद् बालान् एवं धर्मो न हीयते ।

यमगाथां गायमानो यमसूक्तम् अनुस्मरन् ॥

नैव तस्याग्निसंस्कारो न विधिर् नोदकक्रिया ।

सुमन्तुः

आ द्विवर्षान् निखातअस्य नोदकक्रिया कार्या, सद्यःशौचं भवति ।

हारीतः

    सांवत्सरिको ऽग्निसंस्कारो ऽग्न्यधिकाराद् वोदयान् नोदकक्रियां कुर्वन्ति । द्विवर्षाद् इत्य् एके ।

मनुः [५.६८–८०] ।

ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः ।

अलङ्कृत्य शुचौ भूमाव् अस्थिसञ्चयनाद् ऋते ॥

[७२] नास्य कार्यो ऽग्निसंस्कारो न च कार्योदकक्रिया ।

अरण्ये काष्ठवत् त्यक्त्वा क्षिपेयुस् त्र्यहम् एव तु ॥

नात्रिवर्षस्य कर्तव्या बान्धवऐर् उदकक्रिया ।

जातदन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ॥

याज्ञवल्क्यः [३.१–२] ।

ऊनद्विवर्षं निखनेन् न कुर्याद् उदकं ततः ।

आ श्मशानाद् अनुव्रज्य इतरो ज्ञातिभिर् वृतः ॥

यमसूक्तं तथा गाथां जपद्भिर् लौकिकाग्निना ।

स दग्धव्य उपेतश् चेद् आहिताग्न्यावृतार्थवत् ॥

“उपेतः” उपनीतः । “आहिताग्न्यावृता” आहिताग्नेर् इतिकर्तव्यतया ।

“अद्दिवर्षे प्रेत” इत्य् अनुवृत्तौ पारस्करः [३.१०.५–१२] ।

    शरीरम् अदग्ध्वा निखनन्ति । अन्तःसूतके चेद् उत्थानाद् आशौचं सूतकवत् । नात्रोदककर्म । द्विवर्षप्रभृति प्रेतम् आ श्मशानात् सर्वे ऽनुगच्छेयुः । यमगाथां गायन्तो तमसूक्तं च जपन्त इत्य् एके । यद्य् उपेतो भूमिजोषणादिसमानम् आहिताग्नेर् ओदकान्तस्य गमनात् । शालाग्निना दहन्त्य् एनम् आहितश् चेत् । तूष्णीं ग्रामाग्निनेतरम् । 

[७३] “अन्तःसूतकेत्याइ” सूतकमध्ये यदि म्रियते बालकस् तदा “सूतकवद् अशौचम्” सूतकोत्थानपर्यन्तम् एवं भवतीत्य् अर्थः । “द्विवर्ष” इति, प्रेते इति शेषः । “सर्वे” सपिण्डाः । “इतरम्” अकृतावसथ्यम् ।

वसिष्ठः [४.९–१०] ।

उदकक्रियाशौचं चेद् द्विवर्षात् प्रभृति । आ दन्तजननाद् इत्य् एके ।

गौतमः [१४.३२–३४] ।

उदकदानं सपिण्डैः कृतजटस्य । तत्स्त्रीणां च । एके प्रत्तानाम् ।

यमः

आहिताग्निस् तु यो विप्रो दह्यते चेद् वृथाग्निना ।

ब्राह्मण्यात् स परिभ्रष्टः शूद्रयोन्यां प्रसूयते ॥

वसिष्ठः [४.३७] ।

    आहिताग्निश् चेत् प्रवसन् म्रियेत पुनः संस्कारं कृत्वा शववच् छौचम् इति गौतमः ।

कात्यायनः [श्रौतसूत्रम् २५.८.८–१४] ।

    प्रोषितश् चेत् प्रेयात् प्राचीनावीती निवान्यां दुग्ध्वा दक्षिणतो ऽधिश्रयनोद्वासने । अत एव हरणात् । अधस्तात् समिधं धारयन् । उदगग्रान् कुशान् दक्षिणाग्रान् कृत्वा । सकृद् वा पितृवत् पर्यस्य । **[७४]** शरीराण्य् आहृत्य कृष्णाजिने पुरुषविधिं विहायोर्णाभिः प्रच्छाद्याज्येनाभिधार्य पूर्ववद् दाहः ।

“पितृवत्” पैतृककर्मवत् । “पर्यस्य” उद्वास्य ।

ब्रह्मपुराणे

आहिताग्नौ विदेशस्थे मृते सति कलेवरम् ।

निधेयं नाग्निभिर् यावत् तदीयैर् अपि दह्यते ॥

तावच् च दक्षिणाग्नैश् च कुशैर् आस्तीर्य वेदिकाम् ।

अधोमुखीं तु समिधं धारयित्वा विधानवित् ॥

परकीयेन वत्सेन दुग्धां तां गां च तद्गृहे ।

गोक्षीरेण तथेनैव [?] जुहुयाद् अग्निहोत्र्कम् ॥

पश्चाद् अग्नीन् समारोप्य यज्ञभाण्डानि तान्य् अपि ॥

उपयच्छेद् अभिप्राय तथो (?) दृषदम् एव हि ।

मथित्वाग्निप्रणयनं कृत्वा तत्कुणपं दहेत् ॥

यज्ञपार्श्वः

यजमाने मृते क्वापि चितां चैव प्रचोदिते ।

वर्षाभिर् अर्हिते ऽप्य् अअग्नौ कथं प्रेतविकल्पनम् ॥

शेषं दग्ध्वा न दग्धेषु निर्मन्थं तत्र कारयेत् ।

आहृत्य चान्यकाष्ठानि संस्कारं तत्र कारयेत् ॥

[७५] प्रोषिते तु मृते स्वामिन्य् अस्थिनाश उपस्थिते ।

पलाशस्य तु वृन्तानां विभागं ब्रूहि याज्ञिक ॥

दद्यात् शिरस्य् अशीत्यर्धं ग्रीवायां (च) दशैव तु ।

वाह्नोश् चैव शतं दद्याद् अङ्गुलीषु तथा दश ॥

उरसि विंशातिं दद्यात् त्रिंशतं जठरोदरे ।

अष्टार्धे शिश्ने च दद्याद् द्वादशार्धं वृषणयोः ॥

ऊर्वोश् चैव शतं दद्याद् एतत् प्रेतविकल्पनम् ।

पुनश् चेद् उपलभ्येरन्न् अस्थीनि तु कदाचन ॥

तदभावे पलाशस्य सम्भवे हि पुनःक्रियाम् ।

द्वितीयं यज्ञवार्श्वस्य श्रुतिर् वाजसनेयिनाम् ॥

अन्येष्व् अपि च वेदेषु विधानं प्राह कौशिकः ।

“दग्ध्वा न दग्धेषु” एतेष्व् एतेष्व् एवोल्मुकेष्व् इत्य् अर्थः ।

आश्वलायनगृह्यपरिशिष्ट[कारिका]

[७६] अस्थिनाशे पालाशवृन्तैः प्रतिनिधिं कृत्वा —

अशीत्यर्धं शिरसि (तु) ग्रीवायां दश योजयेत् ।

उरसि त्रिंशतं दद्याद् विंसतिं जठरे तथा ॥

बाहुभ्यां तु शतं दद्याद् अङ्गुलीषु तथा दश ।

द्वादशार्धं वृषणयोर् अष्टार्धं शिश्न एव तु ॥

ऊरुभ्यां च शतं दद्यात् त्रिंशतं जानुजङ्घयोः ।

पादाङ्गुलीषु दश वा एतत् प्रेतेषु कल्पनम् ॥

ऊर्णासूत्रेण परिवेष्ट्य यवपिष्टेन लेपयेत् ।

संस्कृत्य विधिनाग्निभिर् उददानं ततो हरेत् ॥

ब्रह्मपुराणे

आहिताग्न्योश् च दम्पत्योर् यस् त्व् आदौ म्रियते भुवि ।

तस्य देहः सपिण्डैश् च दग्धव्यस् त्रिभिर् अग्निभिः ॥

पश्चाल् लेप्यास्य देहस् तु दग्धव्यो लौकिकाग्निना ।

अनाहिताग्नेर् देहस् तु दाह्यो गृह्याग्निना द्विजैः ॥

तदभावे पलाशोत्थैः पत्रैः कार्यः पुमान् अपि ।

शतैस् त्रिभिस् तथा षड्भ्यां शरव्रातैर् विधानतः ॥

वेष्टितव्यस् तथा यत्नात् कृष्णसारस्य चर्मणा ।

ऊर्णासूत्रेण बद्ध्वा तु प्रलेप्तव्यस् तथा यवैः ॥

स्वपिष्टैर् जलमिश्रैश् तु दग्धव्याश् च तथाग्निना ।

असौ स्वर्गाय लोकाय स्वाहेत्य् उक्त्वा सबान्धवैः ॥

एवं पर्णनरं दग्ध्वा त्रिरात्रम् अशुचिर् भवेत् ।

[७७] तथा

एवं कृते मृतभ्रान्त्या यद्य् आगच्छेत् पुमान् क्वचित् ।

कुर्याद् अथायुषीम् इष्टिं पुनर् आवाह्य पावकम् ॥

अथ पर्णनरे दग्धे पात्रन्यासे कृते सति ।

गात्रेष्व् अग्निषु तद्देहाद् यद्यर्धं लभ्यते क्वचित् ।

तदर्धं दग्धकाष्ठानि तानि निर्मथ्य तद् दहेत् ।

यद्य् अर्थं दग्धकाष्ठं तु तदीयं च न लभ्यते ॥

तथा

न दरिद्रो ऽपि दग्धव्यो लग्नः कस्याञ्चिद् आपदि ।

केनापि वस्त्रखण्डेनाच्छादितव्यस् तु यत्नतः ॥

यत्र यत्र भवेद् धृस्वी (?) यअदि नग्नस् तु दह्यते ।

निःशेषस् तु न दग्धव्यः शेषं किञ्चित् त्यजेत् ततः ॥

गच्छेत् प्रदक्षिणं सप्त समिद्भिः सह दाहकः ।

देयाः प्रहाराः सप्तैव कुठारेणोल्मुकोपरि ॥

क्रव्यादय नमस् तुभ्यम् इति जल्पेन समाहितः ।

न प्रेक्षितव्याः क्रव्यादा गन्तव्याथ तदा नदी ॥

छन्दोगपरिशिष्टे कात्यायनः [गोभिलस्मृतिः ३.२१–३५] ।

हुतायां सायम् हुत्यां दुर्बलश् चेद् गृही भवेत् ।

प्रातर्होमस् तथैव स्याज् जीवेच् चेद् वा पुनर् भवेत् ॥

[७८] दुर्बलं स्नापयित्वा तु शुद्धचैलादिसंवृतम् ।

दक्षिणाशिरसं भूमौ बार्हेष्मत्यां निवेशयेत् ॥

घृतेनाभ्यक्तम् आप्लाव्य सुवस्त्रम् उपवीतिनम् ।

चन्दनोक्षितसर्वाङ्गं सुमनोभिर् विशुद्धये ॥

हिरण्यशकलान्य् अस्य क्षिप्त्वा छिद्रेषु सप्तसु ।

मुखे वस्त्रं निधायैनं निर्हरेयुः सुतादयह् ॥

आमपात्रे ऽन्नम् आदाय प्रेतम् अग्निपुरःसरम् ।

एको ऽनुगच्छेत् तस्यार्धम् अर्धं पथ्य् उत्सृजेद् भुवि ॥

अर्धम् आदहनं प्राप्त आसीनो दक्षिणामुखः ।

सव्यं जान्व् आच्य शनकैः सतिलं पिण्डदानवत् ॥

अथ पुत्रादिनाप्लुत्य कुर्याद् दारुचयं महत् ।

भूप्रदेशे शुचौ युक्ते पश्चाच् च्त्यादिलक्षणे ॥

तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे ।

आज्यपूर्णां स्रुचं दद्याद् दक्षिणाग्रां न्यसेत् स्रुवम् ॥

पादयोर् अधरां प्राचीम् अरणीम् उरसीतराम् ।

पार्श्वयोः शूर्पचमसे सव्यदक्षिणयोः क्रमात् ॥

मुसलेन सह न्युब्जम् अन्तर् ऊर्वोर् उलूखलम् ।

तत्रोवीलीकचत्रे च अनश्रुनयनो विभीह् ॥

[७९] अपसव्येन कृत्वैतद् वाग्यतः पितृदिङ्मुखः ।

अथाग्निं सव्यजान्वको दद्याद् दक्षिणतः शनैः ॥

अस्मात् त्वम् अधिजातो ऽसि त्वदयं जायतां पुनः ।

असौ स्वर्गाय लोकाय स्वाहेति यजुर् ईरयन् ॥

एवं गृहपतिर् दग्धः सर्वं तरति दुष्कृतम् ।

यश् चैनं दाहयेत् सो ऽपि प्रजां प्राप्नोत्य् अनिन्दिताम् ॥

यथा सायुधधृक्पान्थो ह्य् अरण्यान्य् अपि निर्भयः ।

अतिक्रम्यात्मनो ऽभव्यं स्थानम् इष्टं च विन्दति ॥

एवम् एषो ऽग्निमान् यज्ञपात्रायुधविभूषितः ।

लोकान् अन्यान् अतिक्रम्य परं ब्रह्मैव विन्दति ॥

तथा [३.४६–५३] ।

एवम् एवाहिताग्नेश् च पात्रन्यासादिकं भवेत् ।

कृष्णाजिनादिकाश् चात्र विशेषो ऽध्वर्युनोदितः ॥

विदेशमरणे ऽस्थीनि आहृत्याभ्युक्ष्य मानुषात् ।

दाहयेद् ऊर्णयाच्छाद्य पात्रन्यासादि पूर्ववत् ॥

अस्थ्नाम् अलाभे पार्णानि शलकान्य् उक्तयावृता ।

दाहयेद् अस्थिसङ्ख्यानि ततः प्रभृति सूतकम् ॥

महापातकसंयुक्तो दैवात् स्याद् अग्निमान् यदि ।

पुत्रादिः पालयेद् अग्नीन् युक्तं वादोषसङ्क्षयात् ॥

[८०] प्रायश्चित्तं ततः कुर्यात् कुर्वन् वा म्रियते यदि ।

गृह्यं निर्वापयेच् छ्रौतम् अन्यश् चेत् सपरिग्रहम् ॥

सादयेद् उभयं वाप्सु अद्भ्यो ऽग्निर् अभवद् यतः ॥

पात्राणि दद्याद् विप्राय दहेद् अप्स्व् एव वा क्षिपेत् ॥

अनयैवावृता नारी दग्धव्या या व्यवस्थिता ।

अग्निप्रदानमन्त्रो ऽस्या न प्रोयोज्य इति स्थितिः ॥

अग्निनैव दहेद् भार्यां स्वतन्त्रां पतिताम् न चेत् ।

तदुत्तरेण पात्राणि दाहयेत् पृथगन्तिके ॥

“दुर्बलः” प्रातर्होमदानपर्यन्तम् असम्भावितजीवितः । “दुर्बलं स्नपयित्वा” इत्य् अत्र “दुबलः” गतप्राणः । “रातौ विलीनऔ” मण्डलार्थं खादिरक्ष्ठनिर्मितौ ।

[८१]

१७

अथोदकदानम्

तत्र बैजवापः

    अथ प्रेतकर्म । प्रेतमरण्यां कृत्वा यथोक्तम् अग्निं जनयित्वानवेक्षमाणा आयान्त्य एकवाससो व्रतीभूताः कनिष्ठपूर्वा यमगाथां गायन्तो यमसूक्तं जपन्तो ऽहर् अहर् नयमाना गाम् अश्वं पुरुषं पशून् यैश् च न तृप्यति सुराया वा इव दुर्मतिर् इति । उदकान्तं गत्वा सकृद् उन्मज्याप्सु सव्यपाणेः कनिष्ठकयावलिखति कनिष्ठं पापम् इति । तस्मिन् त्व् एकाम् उदकाञ्जअलिं प्रेताय दद्युर् अमुष्मै स्वधेति ।

“सव्यपाणेः” मुष्टिन कङ्कतिरूपेण । “अवलिखति” “अवलिखितं पापम्” इति ।

विष्णुः [१९.६–८] ।

    निर्हृत्य च बान्धवं प्रेतं सत्कृत्याप्रदक्षिणेन चिताम् अभिगम्याप्सु सवाससो निमज्जनं कुर्युः । प्रेतस्योदकनिर्वपणं कृत्वैकं पिण्डं कुशेषु दद्युः ।

वसिष्ठः [४.११–१३] ।

    शरीरम् अग्निना संयोज्यानवेक्षमाणा अपो ऽभ्यवयन्ति । सव्येतराभ्यां पाणिभ्याम् उदकक्रियां कुर्वीरन् । अयुग्मासु दक्षिणामुखाः ।

[८२] हारीतः

    निर्हृत्य [निष्क्रम्य] संस्कअर्तापो [संस्कृत्यापो] गत्वाप्लाव्यासौ तृप्यताम् इत्य् उदकाञ्जलिं निनयति [निर्णयन्ति] ।

शङ्खलिखितौ

    अथोदकक्रिया । प्रेतस्य बान्धवा यथावृद्धम् उदकम् अवतीर्य [उत्तीर्य] नोद्घर्षयेरंस् ते प्रसिञ्चेरन् सकृत् प्राग्दक्षिणामुखा [ब्राह्मणस्य] उदङ्मुखा प्राङ्मुखा राजन्यवैश्याव् अप्य् एवम् एवापसव्यं वासोयज्ञोपवीते [वीतिनः] कृत्वा [अञ्जलिना वसने मत्त उदकम् इत्य् उक्त्वा तस्माद् उत्तीर्य प्रेतसंस्पृष्टानि वासांसु परित्यज्य परिदध्युर् अन्यानि] ।

ब्रह्मपुराणे

आदौ वस्त्रं च प्रच्छाद्य तेनैवाच्छादितैस् ततः ।

कर्तव्यं तैः सुचैलं तु स्नानं सर्वमलापहम् ॥

ततः पाषाणपृष्ठे तु सर्वं देयं तिलोदकम् ।

एकैकेन च देयास् तु विप्रायाञ्जलयो दश ॥

[८३] राज्ञे द्वादश देयास् तु वैश्याय दश पञ्च च ।

त्रिंशच् छूद्राय देयास् तु प्रेतभूमिगताय तु ॥

अपसव्यं क्वचित् कृत्वा वस्त्रयज्ञोपवीतकैः ।

दक्षिणादिङ्मुखैर् विप्रैर् देयं तस्याञ्जलित्रयम् ॥

वामाङ्गुष्ठप्रवाहेण भूमाव् एव पतेत् क्वचित् ।

अमुको ऽमुकगोत्रस् तु प्रेतस् तृप्यत्व् इदं पठन् ॥

आश्वलायनः [४.४.९–११] ।

    सव्यावृता व्रजन्त्य् अनवेक्षमाणाः । यत्रोदकम् अवहं भवति तत् प्राप्य सकृद् उन्मज्यैकाञ्जलिम् उत्सृज्य तस्य गोत्रनाम गृहीत्वोत्तीर्यान्यानि वासांसि परिधाय सकृद् एतान्य् आपीड्योदग् दशानि विसृज्यासते आ नक्षत्रदर्शनाद् इत्य् अस्य वा मण्डले दृश्यमाने प्रविशेयुः ।

“सव्याह्वृताः” सव्या आवृतयः येषां ते तथोक्ताः ।

स्नानविधिः

पैठीनसिः

    मृतं मनसा ध्यायन् दक्षिणाभिमुखस् त्रीन् उदकाञ्जलीन् निर्वपेत् । शावप्रभृत्य् एकादशे ऽह्नि विरमेत् ।

बौधायनः [१.११.२२] ।

    मरणे तु यथाबालं पुरस्कृत्य यज्ञोपवीतान्य् अपसव्यानि कृत्वा तीर्थम् अवतीर्य सकृत् [सकृत् त्रिः] निमज्ज्य [उत्तीर्याचम्य] तत्**[८४]**प्रत्य् अयम् उदकं प्रसिच्यात एवोत्तीर्य आसते [आसीरन्] ।

पारस्करः [३.१०.१३–२१] ।

    सम्प्रयुक्तं मैथुनं वोदकं याचेरन्न् उदकं करिष्यामह इति । कुरुध्वं मा चैवं पुनर् इत्य् अशतवर्षे प्रेते । कुरुध्वमित्य् एवेतरस्मिन् । [सर्वे] ज्ञातयो ऽपो ऽभ्यवयन्त्य् आ सप्तमात् पुरुषाद् दशमाद् वा । [समानग्राम] वासे यावत् सम्बन्धम् अनुस्मरेयुः । एकवस्त्राः प्राचीनावीतिनः । सव्यस्यानामिकयापनोद्यापनः शोशुचद् अघम् इति । दक्षिणामुखा निमज्जन्ति । प्रेतायोदकं सकृत् प्रसिञ्चन्त्य् अञ्जलिनासाव् एतत् त उदकम् इति ।

“सम्प्रयुक्तम्” सम्बन्धिनम् । “मैथुनम्” श्यालकम् ।

आपस्तम्बः [२.१५.२–१०]

    मातुश् च योनिसम्बन्धेभ्यः पितुश् चा सप्तमात् पुरुषाद् यावता वा सम्बन्धो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान् परिहाप्यापरिसंवत्सरात् । मातापितराव् एव तेषु । हर्तारश् च । भार्यायां परमगुरुसंस्थायां चाकालभोजनम् । आतुरव्यञ्जनानि कुर्वीरन् । केशान् प्रकीर्य पांसुनो ऽप्य् एकवाससो दक्षिणामुखाः सकृद् उपमज्ज्योत्तीर्योपविशन्ति । एवं त्रिः । तत्प्रत्ययम् उदकम् उत्सिच्याप्रतीक्षा ग्रामम् एत्य यत् स्त्रिय आहुस् तत् कुर्वन्ति । इतरेषु चैतद् एवैक उपदिशन्ति ।

[८५] याज्ञवल्क्यः [३.३–५] ।

सप्तमाद् दशमाद् वापि ज्ञातयो ऽभ्युपयन्त्य् अपः ।

अपनः शोशुचद् अघम् अनेन पितृदिङ्मुखाः ॥

एवं मातामहाचार्यप्रेतानाम् उदकक्रिया ।

कामोदकं सखिप्रत्तास्वस्रीय्श्वशुरर्त्विजाम् ॥

सकृत्प्रसिञ्चन्त्य् उदकं नामअगोत्रेण वाग्यतः ।

न ब्रह्मचारिणः कुर्युर् उदकं पतितास् तथा ॥

शङ्खलिखितौ

उदकक्रिया कामं श्वशुरमातुलयोः शिष्ये सहाध्यायिनि राजनि च ।

बौधायनः [१.११.१–७] ।

    सपिण्डेष्व् आदशाहम् आशौचम् इति जननमरणयोर् अधिकृत्य वदन्त्य् ऋत्विग्दीक्षितब्रह्मचारिवर्जम् । सपिण्डता त्व् आ सप्तमात् सपिण्डेषु । आ सप्तमासाद् आ दन्तजननाद् वोदकोपस्पर्शनम् ।


    	पिण्डोदकक्रिया प्रेते नात्रिवर्षे विधीयते ।


    	आ दन्तजननाद् वापि दहनं च न कारयेत् ॥


    	अप्रत्तासु च कन्यासु प्रत्तास्व् एके ह कुर्वते ।


    	लोक्सङ्ग्रहणार्थं हि यद् अमन्त्राः स्त्रियो मताः ॥

[८६] पारस्करः [३.१०.३९–४३] ।

    आचार्ये चैवम् । मातामहयोश् च । स्त्रीणां चाप्रत्तानाम् । प्रत्तानाम् इतरे कुर्वीरन् । ताश् च तेषाम् ।

एवम् इति । प्राचीनावीतित्वादिकर्तव्यताप्रेतस्नानोदकक्रियातिदेशः । “मातामहयोः” मातामहानां चैतत् पत्नीनां चेत्य् अतिदेशः ।

[८७]

१८

अथोदकानर्हाः

तत्र मनुः [५.८९–९०] ।

वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् ।

आत्म्नस् त्यागिनां चैव निवर्तेतोदकक्रिया ॥

पाषण्डम् आश्रितानां च चरन्तीनां च कामतः ।

गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥

“आत्मनस् त्यागिनो” विधिव्यतिरेकेण स्वेच्छया देहत्यागिनः । वैधे तु देहत्यागे,

वृद्धः शौचक्रियालुप्तः प्रत्याख्यातभिषक्क्रियः ।

आत्मानं घातयेद् यस् तु भृग्वग्न्यनशनाम्बुभिः ॥

तत्र त्रिरात्रम् आशौचं कर्तव्या चोदकक्रिया ।

इति वचनाद्, भवत्य् एवोदकादिक्रिया ।

[८८] यमः

वृथासङ्करजाताश् च आश्रमान्तरिताश् च ये ।

दत्तानां चैव कन्यानां निवर्तेतोदकक्रिया ॥

“आश्रमान्तरिताः” प्रव्रजिताः ।

याज्ञवल्क्यः [३.६] ।

पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः ।

सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥

विष्णुः [२२.५६–५८] ।

    आत्मत्यागिनः पतिताश् च नाशौचभागिनः । पतितस्य दासो मृताहे पदापां घटम् अपवर्जयेत् ।

“घटम् अपवर्जयेत्” प्रेतधिया घटं पादेनापनुदेत् । एतेनासौ परिवर्जितो भवतीत्य् अर्थः ।

हारीतः

यतिनाम् [यतीनाम्?] अपविद्धानां चरन्तीनां च कामतः । 

दत्तानां चैव कन्यानां निवर्त्या सलिलक्रिया ॥

“अपविद्धाः” ज्ञातिबहिष्कृताः ।

गौतमः [२०.१५–१६] ।

    यस्य [तु] प्राणान्तिकं प्रायश्चित्तं स मृतः शुध्येत् । सर्वाण्य् उदकादीनि प्रेतकर्माणि कुर्युः ।

[८९] बृहस्पतिः [प्रायश् ८४] ।

विषोद्बन्धनशस्त्रेण आत्मानं यो हि घातयेत् ।

प्रेतो ऽमेध्येन लेप्तव्यो नान्यं संस्कारम् अर्हति ॥

पराशरः [४.४–५] ।

गोभिर् हतं तथोद्बद्धं ब्राह्मणेन च घातितम् ।

तं स्पृशन्ति च ये विप्रा वोढारश् चाग्निदाश् च ये ॥

अनुगच्छन्ति ये चान्ये ये चान्ये पाशभेदकाः ।

सर्वे ते पापसंयुक्तास् तेषां वक्ष्यामि निष्कृतिम् ॥

याज्ञवल्क्यः [३.५–६] ।

न ब्रह्मचारिणः कुर्युर् उदकं पतितास् तथा ।

पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः ॥

[वृद्धमनुः]

क्लीबाद्या नोदकं कुर्युः स्तेना व्रात्या विधर्मिणः ।

गर्भभर्तृद्रुहश् चैव सुराप्यस् चैव योषितः ॥

मनुः [५.८८, ९१] ।

आदिष्टी नोदकं कुर्याद् आ व्रतस्य समापनात् ।

समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥

[९०] आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम् ।

निर्हृत्य तु व्रती प्रेतान् न व्रतेन वियुज्यते ॥

“आदिष्टी” आदिष्टं व्रतं यस्यास्ति ।

याज्ञवल्क्यः [३.१५] ।

आचार्यपित्रुपाध्यायान् निर्हृत्यापि व्रती व्रती ।

सकटान्नं च नाश्नीयान् न तैः सह संवसेत् ॥

“सकटान्नम्” अशौचान्नम् ।

वसिष्ठः [२३.५] ।

ब्रह्मचारिणः शवकर्मणि व्रातान्तनिवृत्तिर् अन्यत्र मातापित्रोः ।

बौधायनः [२.१.२४] ।

ब्रह्मचारिणः शमकर्मणा व्रतावृत्तिर् अन्यत्र मातापित्रोर् आचार्याच् च ।

[९१]

१९

अथ शोकापनोदनम्

तत्र याज्ञवल्क्यः [३.७–११] ।

कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् ।

स्नातान् अपवदेयुस् तान् इतिह्सैः पुरातनैः ॥

मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् ।

करोति यः स सम्मूढो जलबुद्बुदसन्निभे ॥

पञ्चधा सम्भृतः कायो यदि पञ्चत्वम् आगतः ।

कर्मभिः स्वशरीरोत्थैस् तत्र का परिदेवना ॥

गन्त्री वसुमती नाशम् उदधिर् दैवतानि च ।

फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥

श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः ।

अतो न रोदितव्यं हि क्रिया कार्याः स्वशक्तितः ॥

बृहस्पतिः [आशौच्। १४–१८] ।

उपविष्टाः शुचौ देशे बान्धवास् तदहश् च तान् ।

आश्वसेयुः पुराख्यानैर् इतिहासैः पुरातनैः ॥

[९२] नहुषाद्या नृपतयः ऋषयश् च तपोधनाः ।

याताः कालवशं मर्त्ये का कथा बुद्बुदोपमे ॥

आक्रन्दाश्रुप्रपाताश् च मृतस्यानुपकारकाः ।

एवं विदित्वा मतिमान् कश्मलं परिवर्जयेत् ॥

नाक्रन्दितं भवेच् छ्लाघ्यं सदा शोके कदाचन ।

क्रियापि कुरुते साह्यं नास्ति शोके सहायता ॥

तस्मात् कुल्यैः सपिण्डैश् च सुहृत्सम्बन्धिबान्धवैः ।

मृतस्य सलिलं देयम् उपकाराय तस्य तत् ॥

**रामायणे **।

शोचमानास् तु संस्नेहाद् बान्धवाः सुहृदस् तथा ।

पातयन्ति गतं स्वर्गाद् अश्रुपातेन राघव ॥

श्रूयते हि नरव्याघ्र पुरा परमधार्मिकः ।

भूरिद्युम्नो गतः स्वर्गं राजा पुण्येन कर्मणा ॥

स पुनर् बन्धुवर्गस्य शोकबाष्पेण राघव ।

कृत्स्ने वै व्युषिते धर्मे पुनः स्वर्गान् निपातितः ॥

अतिशोकानले दग्धः पिता ते स्वर्गतः प्रभुः ।

शपेत् त्वां मन्युनाविष्टः तस्माद् उत्तिष्ठ राघव ॥

[९३] तथा

संयोगे ऽभिमते तेषां वियोगः कथम् अप्रियः ।

संयोगो हि वियोगेन ग्रस्त एवोपजायते ॥

महाभारते

किं नु शोचसि मूढस् त्वं शोच्यः किम् अनुशोचसि ।

यदा त्वाम् अनुशोचन्तः शोच्या यास्यन्ति तां गतिम् ॥

अदर्शनाद् आपतितः पुनश् च दर्शनं गतः ।

न त्व् असौ वा न वा त्वं तु ततः किम् अनुशोचसि ॥

नायम् अत्यन्तसंवासः कस्यचित् केनचित् सह ।

अपि स्वेन शरीरेण कुम् उतान्यैः पृथग्जनैः ॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।

अव्यक्तनिधनान्य् एव तत्र का परिदेवना ॥

देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर् धीरस् तत्र न मुह्यति ॥

तथा

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।

संयोगा विप्रयोगान्ता मरणान्तं जीवितम् ॥

यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।

समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥

[९४] विष्णुः [२०.२८–५१] ।

आक्रम्य सर्वः कालेन परलोकं च नीयते ।

कर्मपाशवशो जन्तुस् तत्र का परिदेवना ॥

जातस्य हि ध्रुवो भृत्युर् ध्रुवं जन्म मृतस्य च ।

अर्थे दुष्परिहार्ये ऽस्मिन् नास्ति लोके सहायता ॥

शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः ।

अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥

सुकृतं दुष्कृतं चैव सहाये यस्य गच्छतः ।

बान्धवैस् तस्य किं कार्यं शोचद्भिर् अथ वा न वा ॥

बान्धवानाम् अशौचे तु स्थितिं प्रेतो न विन्दति ।

अस्तस् त्व् अभ्येति तान् एव पिण्डतोयप्रदायिनः ॥

अर्वाक् सपिण्डीकरणात् प्रेतो भवति यो मृतः ।

पितृलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ॥

पितृलोकगतश् चान्नं श्राद्धे भुङ्क्ते सुधासमम् ।

[९५] पितृलोकगतस्यास्य तस्माच् छ्राद्धं प्रयच्छत ॥

देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च ।

मानुषे च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः ॥

प्रेतस्य श्राद्धकर्तुश् च पुष्टिः श्राद्धे कृते ध्रुवम् ।

तस्माच् छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥

एतावद् एव कर्तव्यं सदा प्रेतस्य बन्धुभिः ।

नोपकुर्यान् नरः सोकं प्रेतस्यात्मन एव च ॥

दृष्ट्वा लोकम् अनाक्रन्दं म्रियमाणांश् च बान्धवान् ।

धर्मम् एव सहायार्थे वर्धयध्वं सदा नराः ॥

मृतो ऽपि बान्धवः शक्तो नानुगन्तुं मृतं नरम् ।

जायावर्जं हि सर्वस्य याम्यः पन्थाः प्रभिद्यते ॥

धर्म एको ऽनुयात्य् एनं यत्र क्वचन गामिनम् ।

नन्व् असारे मृलोके ऽस्मिन् धर्मं कुरुत मा चिरम् ॥

श्वः कार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।

न हि प्रतीक्षते मृत्युः कृतम् अस्य न वाकृतम् ॥

क्षेत्रापणगृहासक्तम् अन्यत्र गतमानसम् ।

वृकीवोरणम् आसाद्य मृत्युर् आदाय गच्छति ॥

[९६] न कालस्य प्रियः कश्चिद् द्वेष्यश् चापि न विद्यते ।

मानुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥

नाप्राप्तकालो म्रियते विद्धः शरशतैर् अपि ।

कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥

नौषधानि न मन्त्राणि न होमो न पुनर् जपाः ।

त्रायन्ते मृत्युनोपेतं जरया चापि मानवम् ॥

आगामिनम् अलङ्घ्यं हि प्रतिघातशतैर् अपि ।

न निवारयितुं शक्तस् तत्र का परिदेवना ॥

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।

तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।

अव्यक्तनिधनान्य् एव तत्र का परिदेवना ॥

देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर् धीरस् तत्र न मुह्यति ॥

नवं गृह्णातीह वस्त्रं त्यक्त्वा पूर्वधृतम् नरः ।

गृह्णात्य् एवं तथा देहं देही कअर्मनिबन्धनम् ॥

[९७] वासांसि जीर्णानि यथा विहाय

	नवानि गृह्णाति नरो ऽपराणि ।

तथा शरीराणि विहाय जीर्णान्य्

	अन्यानि संयाति नवानि देही ॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।

न चैनं क्लेशयन्त्य् आपो न शोषयति मारुतः ॥

[९८]

२०

अथ वेश्मप्रवेशनम्

तत्र याज्ञवल्क्यः [३.१२–१४] ।

इति संश्रुत्य गच्छेयुर् गृहं बालपुरःसरः ।

विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥

आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् ।

प्रविशेयुः समालअभ्य कृत्वाश्मनि पदं शनैः ॥

हारीतः

    अनुकनीयांसं ज्येष्ठप्रथमाः प्रत्यायान्ति । न प्रेतस्पर्शिनो ग्रामं प्रविशेयुर् आ नक्षत्रदर्शनात् । रात्रौ चेद् आदित्यस्य । ब्राःमणानुमताद् वा । कार्ष्णायसपाणयो ऽधःशायिनो ऽध उपविशिन एकं पिण्डम् उदकाञ्जलिं च निरस्य पाणिषु मृन्मयेषु पर्णपुटेषु वाश्नीरन् ।

आश्वलायनः [४.४.१-।१७] ।

    आसत आ नक्षत्रदर्शनात् । आदित्यस्य वा मण्डले दृश्यमाने प्रविशेयुः । कनिष्ठप्रथमा ज्येष्ठजघन्याः प्राप्यागारम् अश्मानम् अग्निं **[९९]** गोमयम् अक्षतं तैलं माषम् अप उपस्पृशन्ति । नैतस्यां रात्र्याम् अन्नं पचेरन् । [क्रीतोत्पन्नेन वा वर्तेरन्] । त्रिरात्रम् अक्षारलवणाशिनः स्युः । द्वादशरात्रं वा महागुरुषु ।

पारस्करः [३.१०.२३–२८] ।

    अनवेक्षमाणा ग्रामम् आयान्ति रीतीभूताः कनिष्ठपूर्वाः निवेशनद्वारे पिषुमन्दपत्राणि विदश्याचमोदकम् अग्निं गोमयं गौरसर्शपांस् तैलम् आलभ्याश्मानम् आक्रम्य प्रविशन्ति । [त्रिरात्रं] ब्रह्मचारिणो ऽधःशायिनो न किञ्चन कर्म कुर्युर् न प्रकुर्वीरन् । क्रीत्वा लब्ध्वा वा दिवा [एव] अन्नम् अश्नीयुर् अमांसम् । प्रेताय पिण्डं दत्वावनेजनदानप्रत्यवनेजनेषु नाम-ग्राहम् । मृन्मये तां रात्रिं क्षीरोदके विहायसि निदध्युः प्रेतात्र स्नायीत ।

“न प्रकुर्वीरन्” नारभेरन् ।

शङ्खलिखितौ

    उत्तीर्य प्रेतस्पृष्टानि वासांस्य् उत्सृज्येतराणि परिधाय गृहद्वारे तस्मै प्रेताय पिण्डं दत्वा पश्चाद् दूर्वाप्रवालान् गोमयम् अग्निं जलं वृषभम् आलभ्य प्रविशन्तो घृतगौरसर्षपैर् मूर्धानम् अङ्गानि वालभेरन् । शस्त्रपाणयो यथोक्तकालनियमाः प्रेतायावश्यकान्य् उभयकालं कुर्युः ।

[१००] भूमौ माल्यं पिण्डं पानीयम् उपलेपनानि वा दद्युः । तत्कालम्

अनध्यायो गोत्रतः पर्युपासनं च ।

बैजवापः

    शमिम् आलभन्ते शमी पापं शमयत्व् इत्य् अश्मानम् आलभन्ते ऽश्मवत् स्थिरो भूयासम् अग्निर् नः शर्म यच्छत्व् इति । ह्योगित्यन्तरा गाम् अजं चोपस्पृशन्तः क्रीत्वा लब्ध्वा वा गृहं प्राप्यैकान्नम् अलवणम् एकां रात्रिं भुञ्जीरन् । त्रिरात्रं च कर्मोपरमणम् ।

बौधायनः [१.११.२२–२४] ।

    गृहद्वार्य् अङ्गारम् उदकम् इति संस्पृश्याक्षारलवणाशिनो दशाहं दटम् उपासीरन् । एकादश्यां द्वादश्यां च श्राद्धकर्म । शेषक्रियायां लोको ऽनुरोद्धव्यः ।

“कटः” तृणप्रस्तरः । “द्वादश्यां वा” इत्य् असम्भवापेक्षो विकल्पः । “शेषक्रियायां” मङ्गलाचरणादौ ।

वसिष्ठः [४.१४–१५] ।

    गृहं व्रजित्वा प्रस्तरे त्र्यहम् अनश्नन्त आसीरन् । [अशक्तौ] क्रीतोत्पन्नेन वा वर्तेरन् ।

याज्ञवल्क्यः [३.१६–१८] ।

क्रीतलब्धाशना भूमौ स्वपेयुस् ते पृथक् क्षितौ ।

[१०१] पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥

जलम् एकाहम् आकाशे स्थाप्यं क्षीरं च मृन्मये ।

अङ्गिराः

श्मशान्वासिनो देवाः शवानां प्रिकीर्तिताः ।

येषां यागनिमित्ताय प्रेतशुद्धिर् उदाहृता ॥

यदि तेषां न संसिद्धिः प्रेतम् उद्दिश्य कर्हिचित् ।

क्रियते यजनं वापि ततस् ते ऽत्र शपन्ति तान् ॥

तस्मान् न बन्धुभिः शोकः कार्यः कार्योदकक्रिया ।

ब्रह्मपुराणे

ब्रह्मचर्या क्षितौ वासो वर्ज्यं मांसं न सञ्चितैः ।

भूमौ पिण्डप्रदानं च कर्पूं कृत्वा विधानतः ॥

गन्धमाल्यैस् ततो ऽर्चा च ततो भोजनम् इष्यअते ।

मनुः [५.७३] ।

अक्षारलवणान्नाः स्युर् निमज्जेयुश् च ते त्र्यहम् ।

मांसाशने च नाश्नीयुः शरीरांश् च पृथक् क्षीतौ ॥

बृहस्पतिः [आशौच्। १९] ।

अधःशय्यासना दीना मलिना भोगवर्जिताः ।

अक्षारलवणान्नाः स्युर् लब्धक्रीताशनास् तथा ॥

गौतमः [१४.३५–४०] ।

    अधःशय्यासनिनो ब्रह्मचारिणः सर्वे । न मार्जयीरन् । मांसं न भक्षयेयुर् आ प्रदानात् । प्रथमतृतीर[पञ्चम]सप्तमनवमेषूदकक्रिया । वाससां च त्यागः । अन्ते त्व् अन्त्यानाम् ।

[१०२] “न मार्जयीरन्” उज्वलवेषधारिणो न भवेयुर् इत्य् अर्थः । “आ प्रदानात्” आ श्राद्धकरणात् । “अन्ते त्व् अन्त्यानाम्” नवमशौचान्त इति भर्तृयज्ञः ।

सुमन्तुः

प्रेताय तज् जलं देयं दग्ध्वा तद्गोत्रजैर् बहिः ।

प्रथमे ऽह्नि तृतीये च सप्तमे नवमे तथा ॥

बृहस्पतिः [आशौच्। २०] ।

प्रथमे ऽह्नि तृतीये च पञ्चमे सप्तअमे दिने ।

नवमे वा समं त्यागो नखलोम्नां वृथान्तिके ॥

**माऋकण्डेयपुराणे **।

तैलाभ्यङ्गो बान्धवानाम् अङ्गसंवाहनं ततः ।

तेन चाप्य् आयते जन्तुर् यच् चाश्नन्ति स्वबान्धवाः ॥

महाभारते

सतिलं घृतपानीयं दीपं ददत जागृत ।

ज्ञातिभिः सह मोदध्वम् एतत् प्रेतेषु दुर्लभम् ॥

**आश्वलायनगृह्यपरिशिष्ठे **।

नवशाद्धं दशाहानि यवमिश्रं तु षड् ऋतून् ।

अतः परं पुराणं च त्रिविधं श्राद्धम् उच्यते ॥

[१०३] यस्मिन् नवे पुराणे वा विश्वेदेवा न लेभिरे ।

तदासुरं भवेच् छ्राद्धं वृषलं मन्त्रवर्जितम् ॥

अनूदकम् अधूपं च गन्धमाल्यविवर्जितम् ।

निनयेद् अश्मनि पूर्वं ततः श्राद्धं प्रकल्पयेत् ॥

पश्चाच् च निनयेत् पिण्डं तस्मिन्न् एव यथाविधि ।

असगोत्रः सगोत्रो वा स्त्री दद्याद् यदि वा पुमान् ॥

प्रथमे ऽहनि यो दद्यात् स दशाहं समापयेत् ।

यथा हारीतः

अन्यगोत्रो ऽथ गम्बन्धी प्रेतायाग्निं ददाति यः ।

उदकं पिण्डदानं च स दशाहं समापयेत् ॥

“वैरमणे” इत्य् अनुवृत्तौ, अनध्यायेषु आपस्तम्बः [१.१०.४–९] ।

    मातरि पित्र्य् आचार्य इति द्वादशाहाः । तेषु चोदकोपसप्र्शनं तावन्तं कालम् । अनुभाविनां च पअरिवापनम् । न समावृत्ता वपेरन्न् अन्यत्र विवाराद् <span style="text-decoration:underline;">इत्य् एके</span> । अथापि ब्राह्मणम् — रिक्तो वा एषो ऽनपिहितो यन् मुण्डस् तस्यैतद् अपिधानं यच्छित्वेति । सत्रेषु वचनाद् वपनं शिखायाः ।

[१०४] हारीतः

    त्रिपञ्चसप्तरात्रेषु स्नायीरन् । नवमे ऽहनि वासांसि शौचाय दद्युः । दशमे ऽहन्य् अरण्यं गत्वा कृतश्मश्रुकर्माणः स्पृष्टान्य् उत्सृज्य तिलकल्कावघृष्टा गौरसर्षपैः शिरःस्नाता अहतवाससः शुक्लवाससो वा अश्माविष्टा गोहिरण्यादीन्य् आलभ्य प्रविशेरन् । शान्तिं कृत्वा श्वोभूत एकोद्दिष्टं प्रदाय स्वस्त्ययनादिधर्मार्थान् प्रवर्तयन्ति । त्रिविधा कुलशुद्धिर् आचाराद् आम्नायात् कृत्याच् च । आचारो नाम लोकसिद्धो वेदसिद्ध आम्नायो व्यवहारादिना लोके व्याख्यातं कृत्यशौचम् इति ।

विष्णुः [१९.१८–२३] ।

    ग्रामान् निष्क्रम्याशौचान्ते कृतश्वश्रुकर्माणस् तिलकल्कैः सर्षपकल्कैर् वा स्नाताः परिवर्तित्वससो गृहं प्रविशेयुः । तत्र शान्तिं कृत्वा ब्राह्मणानां च पूजनं कुर्युः । देवाः परोक्षदेवाः प्रत्यक्षदेवा ब्राह्मणाः । ब्राह्मणैर् लोका धार्यन्ते ।


    	ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः ।


    	ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते क्वचित् ॥

[१०५] यद् ब्राह्मणास् तुष्टतमा वदन्ति

		तद् देवताः प्रत्यभिनन्दयन्ति ।

	तुष्टेषु तुष्टाः सततं भवन्ति 

		प्रत्यक्षदेवेषु परोक्षदेवाः ॥

पैठीनसिः

    श्वोभूते ऽग्निम् उपसमाधाय शान्त्युदकं कुर्यात् । शन् नो देवीर् इति सूक्तेन प्रथमम् । द्वाभ्यां द्वितीयं शन् नो देवीर् अग्नये न इति । शन् न इन्द्राग्नीति तद् अस्तु मित्रा वरुणा इति तृतीयम् । शन् नो धाता इन्द्र जीव यस्मात् कोशात् पृथिवी शान्तिर् इति चतुर्भिश् चतुर्थकम् । उभयत्र सर्वत्र सावित्रीं कुर्यात् । तृतीये शर्करां कुलुत्थं च सव्येनाचम्य् निष्ठीवेत् । विवस्वान् इन्द्रम् इत्य् उक्तम् । दशरात्रे केशश्मश्रुलोमनखानि वापयित्वात्मनः शान्तिनिमित्तं शान्त्युदकं कुर्यात् । अयुग्मान् ब्राह्मणान् भोजयेत् ।

“प्रथमम्” इत्यादौ “शान्त्युदकं कुर्याद्” इत्य् सम्बन्धः । “द्वाभ्याम्” वक्ष्यमाणमन्त्राभ्याम् । “सव्येनाचम्य” वामहअस्तेनास्वाद्य ।

तत्र श्लोकौ ।

कर्ता न विद्यते प्रेते यदा सूतककर्मणि ।

दशरात्रोषितः स्नात्वा कुर्याच् छान्त्युदकं स्वयम् ॥

[१०६] यस्येह कर्ता शक्तश् चेत् त्रिरात्रं मारुताशनः ।

स्नात्वा चतुर्थे दिवसे ततः शाण्तिं समाप्नुयात् ॥

मनुः [५.९९] ।

विप्रः शुध्येद् अपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।

वैश्यः प्रतोदं रश्मींश् च यष्टिं शूद्रः कृतक्रियः ॥

देवलः

अघाहःसु निवृत्तेषु सुस्नाताः कृतमङ्गलाः ।

आशुच्याद् छि प्रमुच्यन्ते ब्राह्मणान् स्वस्ति वाच्य च ॥

[१०७]

२१

अथास्थिसञ्चयनम्

तत्र विष्णुः [१९.१०–१२] ।

    चतुर्थे दिवसे ऽस्थिसञ्चयनं कुर्युः । तेषां च गङ्गाम्भसि प्रक्षेपः । 


    	यावद् अस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति ।


    	तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥

कात्यायनः [श्रौतसूत्र २५.८.१–८]

    सञ्चयनं चतुर्थ्याम् अगुग्मान् ब्राह्मणान् भोजयित्वा पलाशवृन्तेनास्थीनि परिवर्त्याङ्गुष्ठकनिष्ठिकाभ्याम् आदाय पलाशपुटे प्रास्यति । [शम्य्वकाः कर्दमं च श्मशाने] । अक्त्वास्थीनि सुरभिचन्दनादिना सिक्त्वा दक्षिणपूरायतां कर्षूं खात्वा कुशान् आस्तीर्य वस्त्रावकृतं च हरिद्रं वाग् इति निवपअत्य् अस्मिन् । एतद् वाजसनेयकम् । अनेन वा । त्वा मनसार्तेन वाचा ब्रह्मणा त्रय्या विद्यया पृथिव्याम् अक्षिकायाम् अपां रसेन निवपाम्य् असाव् इति । श्मशनं चिकीर्षतः कुम्भे सञ्चयनम् । निधानं च तूष्णीम् ।

छन्दोगपरिशिष्टे कत्यायनः {गोभिलस्मृतिः ३.५४–५८] ।

    अपरेद्युस् तृतीय वा अस्थिसञ्चयनं भवेत् ।


    यस् तत्र विधिर् आदिष्ट ऋषिभिः सो ऽधुनोच्यते ॥


    स्नानान्तं पूर्ववत् कृत्वा गव्येन पयसा ततः ।


    सिञ्चेद् अस्थीनि सर्वाणि प्राचीनावीत्य् अभाषयन् ॥


    शमीपलाशशाखाभ्याम् उद्धृत्योद्धृत्या भस्मनः ।


    आज्येनाभ्युक्ष्य गव्येन सेचयेद् गन्धवारिणा ॥


    मृत्पात्रसम्पुटे कृत्वा सूत्रेण परिवेष्टयेत् ।


    श्वभ्रं स्नात्वा शुचौ भूमौ निखनेद् दक्षिणामुखः ॥


    पूरयित्वावटं पङ्कं पिण्डं शैवालसंयुतम् ।


    दत्वोपरि समं शेषं कुर्यात् पूर्वाह्णकर्मणा ॥


    एष एवागृहीताग्नेः प्रेतस्य विधिर् उच्यते ।


    स्त्रीणाम् इवागिगानं स्याद् अथातो ऽनुक्तम् उच्यते ॥

**आश्वलायनगृहम् **[४.६.१–८] ।

    सञ्चयनम् ऊर्ध्वं दशम्याः कृष्णपक्षस्यायुजास्व् एकनक्षत्रे । अलक्षणे कुम्भे पुमांसम् । अलक्षणायां स्त्रियम् । अयुजो ऽमिथुनाः प्रवयसः । क्षीरोदकेन शमीशाखया त्रिः प्रसव्यम् आयतनं प्रिव्रजन् प्रोक्षति शीतिके शीतिकावतीति । अङ्गुष्ठोपकनिष्ठिकाभ्याम् एकैकम् अस्थ्य्संह्लादयन्तो ऽवदध्युः । पादौ पूर्वं शिर उत्तरम् । सुसञ्चितं सञ्चित्य पवनेन सम्पूज्य ।

**ब्रह्मपुराणे **।

स्नात्वा त्रिरात्रं कुर्वन्ति प्रेतायोदकतर्पणम् ।

श्मशानदेवतायागं चतुर्थदिवसे ततः ॥

भवन्ति पूजिता यस्मात् तत्रस्थाः शङ्करादयः ।

स्नातैः सुधौतवस्त्रैश् च श्मशानस्य समीपगैः ॥

स्वजातिविहितैर् द्रव्यैर् यथाशक्त्या समाहितैः ।

मृन्मयेषु च भाण्डेषु कृत्येषु चरुकेषु च ॥

सुपक्वैर् भक्ष्यभोज्यैश् च पायसैः पानकैस् तथा ।

फलैर् मूलैर् वनोत्थैश् च पूज्याः क्रव्याददेवताः ॥

कैश्चिद् अर्घ्यं प्रदातव्यं कैश्चिद् पुष्पं च शोभनम् ।

धूपो दीपस् तथा माल्यं कैश्चिद् देयं त्वरान्वितैः ॥

पात्राणि परिपूर्णानि श्मशानाग्नेः समन्ततः ।

कैश्चिद् देयानि सर्वाणि यानीहाभ्युक्षितानि च ॥

निवेदयति वक्तव्यं तैः सर्वैः समलङ्कृतैः ।

नमः क्रव्यादमुख्येभ्यो देवेभ्य इति सर्वदा ॥

[११०] ये ऽस्मिन् श्मशाने देवाः स्युर् भगवन्तः सनातनाः ।

ते ऽस्मत्सकाशाद् गृह्णन्तु बलिम् अष्टाङ्गम् अक्षयम् ॥

प्रेतस्यास्य शुभांल् लोकान् सम्प्रयच्छन्तु शाश्वतान् ।

अस्माकम् आयुर् आरोग्यं सुखं च ददतां वरम् ॥

एवं दत्वा बलीन् सर्वान् क्षीरेणाभ्युक्ष्य वाग्यतैः ।

विसर्जनं तु देवानां कर्तव्यं च समाहितैः ॥

ततो यज्ञियवृक्षोत्थां शाखाम् आदाय वाग्यतः ।

अपसव्यं क्रमाद् वस्त्रं धृत्वा कश्चित् सगोत्रजः ॥

प्रेतस्यास्थीनि कृत्स्नानि प्रधानाङ्गोद्भवानि च ।

पञ्चगव्येन संस्नाप्य क्षौमवस्त्रेण वेष्ट्य च ॥

प्रक्षिप्य मृन्मये भाण्डे नवे साच्छादने शुभे ।

अरण्ये वृक्षमूले वा शुद्धे संस्थापयेद् इति ॥

ततः स्थानाच् च शनकैर् नीत्वा तज् जाह्नवीजले ।

कश्चित् क्षीपति तच् छीघ्रं दौहित्रो वा सहोदरः ॥

गृहीत्वास्थीनि तद् भस्म नीत्वा तोये विनिक्षिपेत् ।

ततः सम्मार्जनं भूमेः कर्तव्यं गोमयाम्बुभिः ॥

पूजा च पुष्पधूपाद्यैर् बलिभिः पूर्ववत् क्रमात् ।

भूमेर् आच्छादनार्थं तु वृक्षः पुष्करको ऽथ वा ॥

[१११] पट्टको वा प्रहर्तव्यस् तत्र सर्वैः सबन्धुभिः ।

ततः सचैलं स्नानं तु कर्तव्यं तैर् विधानतः ॥

तथा

क्वचित् तृतीये विप्रस्य चतुर्थे क्षत्रियस्य तु ।

पञ्चमे वैश्यजातेस् तु शूद्रस्य दशमे ऽहनि ॥

अस्थ्नां तु सञ्चयः प्रेते क्रियते देशगौरवात् ।

जीवताम् अपि वर्णानां संस्पर्शे चाप्य् अयं क्रमः ॥

चतुर्थे ब्राह्मणानां च पञ्चमे भूभृताम् अपि ।

नवमे वैश्यजातीनां शूद्राणां दशमात् परे ॥

कर्तव्यं तु नरैः श्राद्धं देशकालाविरोधतः ।

सपिण्डाश् च सजातीयास् तथाप्य् अन्ये बुभुक्षिताः ॥

दीना अनाथाः कृपणास् तत्रान्नम् अपि भुञ्जते ।

तथा

त्र्यहाशौचे द्वितीये ऽह्नि कर्तव्यस् त्व् अस्थिसञ्चयः ।

सद्यःशौचे तत्क्षणं तु कर्तव्यम् इति निश्चयः ॥

तथा

अस्थीनि मातापितृपूर्वजानां

	नयन्ति गङ्गाम्भसि ये कदाचित् ।

[११२] सद्भावयुक्ता हि दयाभिभूतास्

	तेषां तु तीर्थानि फलप्रदानि ॥

कुलद्वयं वाप्य् अथ वर्जयित्वा

	मातापित्रोर् जन्मभूम्याश्रितं च ।

अस्थीनि चान्यस्य वहंश् च विप्रो

	भाग्यक्षयं लभते दुष्कृतं च ॥

भागीरथीतीरम् अवाप्य तत्र

	त्व् अस्थीनि चादाय कुलद्वयस्य ।

प्रक्षेप्तुकामः पुरुषो ऽथ भक्त्या

	भागीरथीं वीक्ष्य विशुद्धिम् आप ॥

स्नात्वा ततः पञ्चगव्येन सित्क्त्वा

	पुष्पैस् तिलैर् गन्धधूपादिभिश् च ।

संयोज्य मृत्पिण्डपुटे निधाय

	पश्यन् दिशं प्रेतगणोपगूढम् ॥

नमो ऽस्तु धर्माय वदन् प्रविश्य

	जलं स मे प्रीत इति क्षिपेच् च ।

उत्थाय भास्वन्तम् अवेक्ष्य सूर्यं

	सदक्षिणं विप्रमुखाय दद्यात् ॥

[११३] एवं कृते प्रेतपुरि स्थितस्य

	स्वर्गे गतिः स्याच् च महेन्द्रतुल्या ॥

तथा ।

मातुः कुलं पितृकुलं वर्जयित्वा नराधमः ।

अस्थीन्य् अन्यकुलोत्थानि नीत्वा चान्द्रायणं चरेत् ॥

इति महाराजाधिराजश्रीमद्गोविन्द्चन्द्रदेवमहासान्धिविग्रहिकेण

भट्टहृदयधरात्मजेन भट्टश्रीमल्लक्ष्मीधरेण विरचिते

कृत्यकल्पतरौ कुलशुद्धिः ।

[११४]

२२

अथ शरीरशुद्धिः

तत्र मनु-विष्णू

ज्ञानं तपो ऽग्निर् आहरो मृन्मनो वार्युपाञ्जनम् ।

वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ॥

सर्वेषाम् अपि शौचानाम् अर्थशौचं परं स्मृतम् ।

यो ऽर्थे शुचिर् हि स शुचिर् न मृद्वारिशुचिः शुचिः ॥

क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।

प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥

शोध्यं शुध्यति मृत्तोयैर् नदी वेगेन शुध्यति ।

रजसा स्त्री मनोदुष्टा सन्न्यासेन द्विजोत्तमः ॥

अद्भिर् गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।

विद्यातपोभ्यां भूतात्मा बुद्धिर् ज्ञानेन शुध्यति ॥

[११५] “ज्ञानम्” आध्यात्मिकं साङ्ख्ययोगोपदिष्टम् । “तपः” कृच्छ्रचान्द्रायणादि । “आहारः” पवित्रतमानाम् उत्पन्नपयोयावकादीनाम् । “मनः” सङ्कल्पद्वारेण शुद्धिकारणम् । “उपाञ्जनम्” गोमयलेपादि । “कर्म” सन्ध्योपासनादि । “अर्थशौचम्” दत्तादानादिवर्जनम् । ये विद्वांसः ते “क्षान्त्या” ज्ञानेनैव शूध्यन्ति । ते हि द्वेषेर्ष्यामत्सरैर् अशुद्धिकारणैर् नोपहन्यन्ते । “तपसा” वेदाभ्यासेन, तज्ज्ञानेन च । यथोक्तं “ब्राह्मणस्य तपो ज्ञानम्” इति । कृच्छ्रादि तु सर्वेषाम् एव शुद्धिहेतुः, न वेदविदाम् एव । “नदी वेगेन शुध्यति” इत्य् अनेन शरावाद्यसंसर्गे ऽपि तद्रसगन्धविरहेण प्रदेशान्तरे वेगवशान् नदी शुद्धा भवति । न तु कूपादिवत् सर्वत्राशुद्धिः । “मनोदुष्टा” परपुरुषाभिलाषमात्रवती । “रजसा” आर्तवेन । “सन्न्यासेन” चतुर्थाश्रमपरिग्रहणेन । “भूतात्मा” जीवः । “बुद्धिः” अविद्यमानार्थाभिनिवेशेन वस्त्वात्मार्थाकारयोर् असद्भेदाध्यवसायेन दुष्यति । सा तु “ज्ञानेन” स्वप्रकाशाश्रयया प्रमाणव्युत्पत्त्या शुध्यतीति मेधातिथिः

याज्ञवल्क्यः [३.३१–३४] ।

कालो ऽग्निः कर्म मृद् वायुर् मनो ज्ञानं तपो जलम् ।

पश्चात्तापो निराहारः सर्वे ऽमी शुद्धिहेतवः ॥

[११६] अकार्यकारिणां दानं वेगो नद्याश् च शुद्धिकृत् ।

शोध्यस्य मृच् च तोयं च सन्न्यासो वै द्विजन्मनाम् ॥

तपो वेदविदां क्षान्तिर् विदुषां वर्ष्मणो जलम् ।

तपः प्रच्छन्नपापानां मनसः सत्यम् उच्यते ॥

भूतात्मनस् तपोविद्ये बुद्धेर् ज्ञानं विशोधनम् ।

क्षेत्रज्ञस्येश्वरज्ञानाद् विशुद्धिः परमा मता ॥

यमः

सत्यं शौचं तपः शऔचं शौचम् इन्द्रियनिग्रहः ।

सर्वभूतदया शौचं शौचम् अद्भिश् च पञ्चमम् ॥

तथा

पात्राण्य् अद्भिर् विशुध्यन्ति मनः सत्येन वा धिया ।

भूतात्मा तपसा बुद्धिर् ज्ञानेन क्षमया बुधः ॥

बृहस्पतिः [आशौच्। ५२, ५२] ।

गात्रं मृदम्भसा शुध्येद् भूतं भूताभिशंसनात् ।

विद्यया तपसा देही मतिर् ज्ञानेन शुध्यति ॥

स्वाध्यायेनानुतापेन होमेन तपसैनसः ।

ध्यानेन क्षेत्रवासेन दाअनेनांहःपरिक्षयः ॥

[११७] तथा [आशौच्। ५४–५६] ।

परापवादाश्रवणं परस्त्रीणाम् अदर्शनम् ।

एतच् छौचं श्रोत्रादृशोः जिह्वाशुद्धिर् पैशुनम् ॥

अप्राणिवधम् अस्तेयं शुद्धित्वं पादहस्तयोः ।

असंश्लेषः प्रत्स्त्रीणां शारीरं शौचम् इष्यते ॥

सबाह्याभ्यन्तरं शौचम् एतद् उक्तम् अशेषतः ।

सर्वस्याप्य् अधिकं प्रोक्तम् अर्थशौचं स्वयम्भुवा ॥

वसिष्ठः

कालो ऽग्निर् मनसस् तुष्टिर् उदकान्य् अवलेपनम् ।

अविज्ञातं च भूतानां षड्विधा शुद्धिर् इष्यते ॥

“अविज्ञातम्” यस्य दुष्टस्योपघातो न ज्ञातः ।

बौधायनः [१.८.२–४] ।

अद्भिर् शुध्यन्ति गात्राणि बुद्धिर् ज्ञानेन शुध्यति ।

अहिंसया च भूतात्मा मनस् सत्येन शुध्यति ॥

मनःशुद्धिर् अन्तःशौचम् । [बहिः]शौचं व्याख्यास्यामः ।

तथा [३.१.२३] ।

श्रूयते द्विविधं शौचं यच् छिष्टैः पर्युपासितम् ।

अहिंसया च भूतात्मा मनः सत्येन शुध्यति ॥

[११८] पुनर् बौधायनः [१.८.४७–४८] ।

कालो ऽग्निर् मनसः शुद्धिर् उदकाद्युपलेपनम् ।

अविज्ञातं च भूतानां षड्विधं शौचम् उच्यते ॥

देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् ।

उपपत्तिम् अवस्थां च विज्ञायाशौचम् इष्यते ॥

शौचम् इत्य् अनुवृत्तौ हारीतः [अ। १९] ।

    पञ्चविधम् आभ्यन्तरं भवति । मानसं चाक्षुषं घ्राण्यं वाच्यं श्रौत्रं चेति ।

एषां मानसादीनां स्वरूपं शोधनेन सहोक्तं हारीतेन

    अपुण्याभिधानं मनसो ऽशुद्धिहेतुः । अभिपुण्याभिधानं पावयति । अपुण्यं पराभिद्रोहादि । पुण्यं विष्ण्वादीनां चिन्तनम् । चाक्षुषं त्व् अमेध्यादिदर्शने । आदित्यदर्शनाच् छुद्धिः । नग्नां परस्त्रीं कामतो बुद्धिपूर्वं दृष्ट्वाप्य् आदित्येन नास्ति शुद्धिः । तादर्थ्येनाप्य् अनुष्ठीयमानस्य शोधकत्वम् इतराभिधानवैपर्ययात् । घ्राण्यं पलाण्ड्वादिगन्धघ्राणात् । उपघ्राते प्राणायामैस् त्रिभिः शुचिः । वाच्यम् असत्यवचने । पुनर् उपस्पअर्शनम् ।

[११९] शङ्खलिहितौ

    आत्मयाजिनां शरीरस्याद्भिर् मृद्भिश् च । ज्ञानेन बुद्धेस् तपसा पावात्मनाम् ।

आत्मयाजिनां ज्ञानेन बुद्धिः शुचिः इत्य् अर्थः ।

तथा

    सन्तानजातानां मातृपैतृकाणां दोषाणां यमनियममन्त्रव्रतोपवासादिना शुद्धिः ।

उशना

    अत ऊर्ध्वं शौचाध्यायं व्याख्यास्यामः । तत्र द्विविधं शौचं बाह्यम् आभ्यन्तरं च । शौचं नाम बुद्ध्यहङ्कारनिन्दितेभ्यो निवर्तनम् । बाह्यम् अपि गन्धलेपस्नेहोपघाते । अद्भिर् गन्धरूपस्पर्शस्नेहानां प्रोक्षणाच् छुद्धिर् इति ।

“बुद्ध्यहङ्कारानिन्दितेभ्यः”— बुद्धिर् अत्र विचिकित्सात्मिका, अहङ्कारः अहम् एवोत्कृष्टः इत्य् अभिमानः, निन्दितं सुरापानादि । “अद्भिः प्रोक्षणात्” गन्धादिराहित्यं बाह्यं शौचम् इत्य् अर्थः ।

पुनर् उशना

    तत्र हृदयशौचम् अनसूयता मनसः साधुता । कर्मशौचं गर्हितकर्मान्यता । शारीरशौचं मृद्भिर् अद्भिश् च । वाचाम् अप्रियानृतनैष्ठुर्यवर्जनम् । मनसापि मिथ्यासङ्कल्पप्रतिषेधः ।

[१२०] पैठीनसिः

    उच्छिष्टं रेतोमूत्रं संस्पृश्य उपमृज्याचम्य प्रयतो भवति । त्रिः प्रक्षाल्य च तं देशम् ।

विष्णुः [२३.४२] ।

प्राणिनाम् अथ सर्वेषां मृद्भिर् अद्भिश् च कारयेत् ।

अत्यन्तोपहतानां च नान्यच् छौचम् अतन्द्रितः ॥

मनुः [५.१३४–१३५] ।

विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्य् आदेयम् अर्थवत् ।

दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ॥

वसा शुक्रम् असृङ् मज्जा मूत्रविट्कर्णवीण्नखाः ।

श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥

“दूषिका” नेत्रमलम् ।

देवलः

अन्नादीनां प्रवेशाच् च स्याद् अशुद्धिर् विशेषतः ।

पतिताशुच्यमेध्यानां स्पर्शनाच् चाशुचिर् भवेत् ॥

स्वप्नाद् वस्त्रविपर्यासात् क्षताद् अध्वपरिश्रमात् ।

उक्त्वा च वचनं शुक्तम् अनृतं क्रूरम् एव वा ॥

[१२१] त्रप्साविद्धां तनुं लक्ष्य दृष्ट्वाचम्य शुचिर् भवेत् ।

प्रलेपस्नेहगन्धानाम् अशुद्धौ व्यपकर्षणम् ॥

शौचलक्षणम् इत्य् आहुर् मृदम्भोगोमयादिभिः ।

लेपे स्नेहे च गन्धे च व्यपकृष्टे सुदूरतः ॥

पश्चाद् आचमनं वापि शौचार्थं वक्ष्यते विधिः ।

“त्रप्साविद्धाम्” इति श्लेष्मादिविद्धत्वम् उक्तम् । “वक्ष्यते विधिः” आचमनस्येति शेषः ।

हारीतः

    अथ शारीरम् । दुष्टाभिशस्तपतिततिर्यगधोवर्णोपहतानां संस्पर्शे स्वेदपूयशोणित्छर्दितनिष्ठीवितरेणुकर्दमोच्छिष्टजलविण्मूत्रपुरीषादिभिर् बाह्यशरीरोपघाते निरुपहताभिर् मृद्भिर् अद्भिर् भस्मगोमयौषधिमन्त्र-मङ्गलाचारविधिप्रयुक्तैर् बाह्यशरीरोपघातात् पूतोभवति ।

“दुष्टाः” चण्डालादयः । “अधोवर्णः” शूद्रः । “उपहतः” कुष्ठादियुक्तः । “मन्त्राः” अघमर्षणादयः । “मङ्गलाचारश् च” मङ्गलेष्टाचरणं येषां सितसर्षपादीनाम् । तत्र भस्मादिविकल्पितसमुच्चयप्रयुक्तौ शिष्टप्रयुक्तेन विधिना शुचि सम्भवतीति ।

विष्णुः [२२.७७–८०] ।

    नाभेर् अधस्तात् प्रबाहुषु च कायिकैर् मलैः सुराभिर् मद्यैश् चोपहतो मृत्तोयैस् तद् अङ्गं प्रक्षाल्य शुध्येत् । अन्यत्रोपहतो मृत्तोयैस् तद् अङ्गं प्रक्षाल्य **[१२२]** स्नानेन । वक्त्रोपहतस् तूपोष्य स्नात्वा पञ्चगव्येन । दशनच्छदोपहतश् च ।

“दशनच्छदः” दण्ष्ट्रः ।

अङ्गिराः

ऊर्ध्वं नाभेः करौ मुक्त्वा यद् अङ्गम् उपहन्यते ।

तत्र स्नानम् अधस्तात् तु क्षालनेनैव शुध्यति ॥

इन्द्रिये च प्रविष्टं स्याद् अमेध्यं यअदि कर्हिचित् ।

मुखे स्पृश्य गतं तत्र किं तु स्नानं विशोधनम् ॥

शङ्खः

रथ्याकर्दमतोयेन ष्ठीवनाद्येन वा पुनः ।

नाभेर् ऊर्ध्वं नरः स्पृष्ट्वा सद्यः स्नानेन शुध्यति ॥

[यमः]

कर्दमेन तु वर्षासु प्रविश्य ग्रामसङ्करम् ।

जङ्घाभ्यां मृत्तिकास् तिस्रः पद्भ्यां च द्विगुणाः स्मृताः ॥

“ग्रामसङ्करः” ग्रामस्यावकरः ।

[१२३]

२३

अथ स्नानशुद्धिः

तत्र मनुः [५.८५–८७] ।

दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा ।

शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥

आचम्य प्रयतो नित्यं जपेद् अशुचिदर्शने ।

सौरान् मन्त्रान् यथोत्साहं पावमानीश् च शक्तितः ॥

नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।

आचम्यैव तु निःस्नेहं गां स्पृष्ट्वा वीक्ष्य वा रविम् ॥

“दिवाकीर्तिः” चाण्डालः । “तत्स्पृष्टिनो” अत्र दिवाकीर्त्यदयो बोद्धव्याः । एतच् च स्नानं जलावगाहनासम्भव उष्णजलेनापि कर्तव्यम् । “वह्नितप्तेन शरीरशुद्धिर् विज्ञेय” इति शङ्खाभिधानात्** [१२४]** । “अशुचिदर्शने” दिवाकीर्त्यादीनाम् अशुचीनां दर्शने ।

ब्रह्मपुराणे

मानुषास्थि ह्य् उपस्पृश्य दग्धं निःस्नेहम् एव वा ।

स्नायाद् गां च स्पृशेत् सूर्यं पश्येद् विष्णुम् अनुस्मरेत् ॥

इदं च निःस्नेहास्थिस्पर्शनस्नानं बुद्धिपूर्वस्पर्शनविषयम् । गवादिस्पर्शनं त्व् अबुद्धिपूर्वस्पर्शनविषयम् ।

मनुः [५.१४४] ।

वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् ।

आचामेद् एव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥

[शातातपः]

ऋतौ तु गर्भाशङ्कितत्वात् स्नानं मैथुनिनः स्मृतम् ।

[अनृतौ तु सदा कार्यं शौचं मूत्रपुरीषवत्] ॥

यमः

अजीर्णे ऽभ्युदिते वान्ते श्मश्रुकर्मणि मैथुने ।

दुःस्वप्ने दुर्जनस्पर्शे स्नानमात्रं विधीयते ॥

“अभ्युदिते” इति पर्युषितकालोपलक्षणार्थः ।

[१२५] गौतमः [१४.२९–३१] ।

    पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेलोदकोपस्पर्शनाच् छुध्येत् । शुनश् च । यदुपहन्याद् इत्य् एके ।

उपस्पर्शनशब्दः प्रत्येकम् अभिसम्बध्यते । तेन पतितचण्डालसूतिकोदक्याशवोपस्पर्शने पतितादिस्पृष्ट्य्पस्पर्शने तत्स्पृष्ट्युपस्पर्शने च सवस्त्रस्नानाच् छुध्यतीत्य् अर्थः । अत्र स्पृष्टितत्स्पर्शनतृतीयस्य सचेलस्नानम् उक्तं तद् बुद्धिपूर्वकस्नानविषयम् । अबुद्धिपूर्वकस्नानविषये तु —

उपस्पृश्याशुचिस्पृष्टं तृतीयं वापि मानवः ।

हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुध्यति ॥

इति देवलोक्तं बोद्धव्यम् ।

बृहस्पतिः [आशौच्। ४९] ।

पतितं सूतिकाम् अन्त्यं शवं स्पृष्ट्वा च कामतः ।

स्नानं सचेलं कृत्वाग्निं घृतं प्राश्य विशुध्यति ॥

देवलः

श्वपाकं पतितं व्यङ्गम् उन्मत्तं शवहारकम् ।

सूतिकां साविकां नारीं रजसा च परिप्लुताम् ॥

श्वकुक्कुटवराहांश् च ग्राम्यान् संस्पृश्य मानवः ।

सचैलं सशिरः स्नात्वा तदानीम् एव शुध्यति ॥

[१२६] अशुद्धान् स्वयम् अप्य् एतान् अशुद्धश् च यदि स्पृशेत् ।

विशुध्यत्य् उपवासेन पुनः कृच्छ्रेण वा पुनः ॥

उपस्पृष्ट्वाशुचिस्पृष्टे तृतीयं वापि मानवः ।

हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुध्यति ॥

“कृच्छ्रेण वा पुनः” इत्य् अभ्यासविषयम् ।

तथा

मानुषास्थि वसां विष्टाम् आर्तवं मूत्ररेतसी ।

मज्जानं शोणितं वापि परस्य यदि संस्पृशेत् ॥

स्नात्वा प्रमृज्य लेपादीन् आचम्य स शुचिर् भवेत् ।

तान्य् एव स्वानि संस्पृश्य पूतः स्यात् परिमार्जनात् ॥

बौधायनः

चाण्डालेन सहाध्वगमने सचेलस्नानम् ।

याज्ञवल्क्यः [३.३०] ।

उदक्याशुचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत् ।

अब्लिङ्गानि जपेच् चैव गायत्रीं मनसा सकृत् ॥

“तैः संस्पृष्टः” तैह् चाण्डालोदक्यादिभिः स्पृष्टैः दण्डादिना “संस्पृष्टः” उपस्पृष्टः । “उपस्पृशेत्” आचामेत् । “अब्लिङ्गानि” आपोहिष्ठेत्यादीनि त्रीणि । एवं च “शवं तत्स्पृष्टिनं चैव” इति मानववचनं [५.८५] साक्षात्स्पर्शनविषयम् ।

[१२७] पराशरः [१२.२५] ।

चैत्यवृक्षश् चितिर् यूपश् चाण्डालः सोमविक्रयी ।

एतांस् तु ब्राह्मणः स्पृष्ट्वा सचेलो जलम् आविशेत् ॥

तथा [५.६] ।

श्वकाकैर् अवलीढस्य नखैर् विदलितस्य च ।

अद्भिः प्रक्षालनं शौचम् अग्निना चोपचूडनम् ॥

“उपचूडनम्” अग्निशिखाया उपस्पर्शनम् ।

आपस्तम्ब-बौधायनौ [आप् १.१५.१६–१८; ब्ध् १.११.३७–३८] ।

    शुनोपहतः सचेलो ऽवगाहेत । प्रक्षाल्य वा तं देशम् अग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाचम्य प्रयतो भवति ।

“शुनोपहतः” शुना स्पृष्टः । “सचेलः” सोत्तरीयाच्छादनः । सचेलावगाहनं नाभेर् ऊर्ध्वस्पर्शविषयम् ।

हारीतः

    श्वपचमुष्टिकप्रेतहारकशवानि संस्पृश्य “देवीर् आप” इत्य् एताभिर् अन्तर्जले स्नातः पूतो भवति । अजीर्णवान्तश्मश्रुकर्मयोनिपशुदिवामौथुनगमने च ।

“मुष्टिको” म्लेच्छ इति ।

[१२८] विष्णुः [२२.६६]

    चिताधूमसेवने सर्वे वर्णाः स्नानम् आचरेयुः । मैथुने दुःस्वप्ने रुधिरोपगतकण्ठे वमनविरेकयोश् च । श्मश्रुकर्मणि कृते च । शवस्पृशं च स्पृष्ट्वा रजस्वलाचाण्डालयूपांश् च । भक्ष्यवर्जं पञ्चनखशवं तद् अस्थि सस्नेहं च । सर्वेष्व् एतेषु वस्त्रं नाप्राक्षालितं बिभृयात् ।

पैठीनसिः

    स्कन्दने छर्दने सचेलस्नानं घृतप्राशनं च । काककेशमलने सचेलस्नानम् । अनुदकमूत्रपुरीषकरणे सचेलस्नानं महाव्याहृतिहोमश् च । खरोष्ट्रचण्डालस्पर्शने सचेलस्नानम् ।

“स्कन्दने” रेतस इति शेषः । “काककेशमलने” काककेशमर्दने । “अनुदकमूत्रपुरीषकरणे” शौचविलम्ब इत्य् अर्थः । “सस्नेहम्” इत्य् अत्र व्याहृतिहोमो बुद्धिपूर्वकः । अत्रैव मानवं सचेलस्नानम् अबुद्धिपूर्वकविषयम् ।

काश्यपः

    चाण्डालश्वपचश्मशानसूनामृतहारकरजस्वलासूतिकास्पर्श उदिते ऽस्तमिते स्कन्दित्वाक्रन्दने कर्णक्रोशने चित्यारोहणे यूपस्पर्शने चैव प्रायश्चित्तम् । ब्राह्मणेभ्यो निवेद्य सचेलः स्नात्वा “पुनर्मनो” जपेत् । महाव्याहृतिभिः सप्ताहुतीर् जुहुयात् । ततः शुद्धिर् भवति ।

बुद्धिपूर्वम् एतत् । “पुनर्मनः पुनरायुः” इत्यादि [माध्यन्दिन १.२.३] ।

[१२९] वायुपुराणे

उदक्यां सूतिकां चैव श्वानम् अन्त्यावसायिनीम् ।

नग्नादीन् मृतहारांश् च स्पृष्ट्वा शौचं विधीयते ॥

स्नात्वा सचेलो मृद्भिश् च शुध्येद् द्वादशभिर् नरः ।

एतद् एव भवेच् छौचं मैथुने वमने तथा ॥

व्यवनः

    श्वानं श्वपाकं प्रेतधूमं देवद्रव्योपजीविनं ग्रामयाजकं यूपं चितिकाष्ठं मद्यं मद्यभाण्डं सस्नेहं मानुषास्थि शवस्पृष्टं रजस्वलां महापातकिनं शवं स्पृष्ट्वा सचेलो ऽपो ऽवगाह्योत्तीर्याग्निम् उपस्पृशेत् । गायत्र्यष्टशतं जपेत् । घृतं प्राश्य पुनः स्नात्वा त्रिर् आचामेत् ।

एतद् अपि बुद्धिपूर्वाभ्यासविषयम् ।

शातातपः

रजकश् चर्मकृच् चैव व्याधजालोपजीविनौ ।

चेलनिर्णेजकश् चैव नटः शौलूषकस् तथा ॥

मुखेभगस् तथा श्वा च वनिता सर्ववर्णगा ।

चक्री ध्वजी वध्यघाती ग्रामकुक्कुटसूकरौ ॥

एभिर् यद् अङ्गं स्पृष्टं स्यात् शिरोवर्जं द्विजातिषु ।

तोयेन क्षालनं कृत्वा चाचान्ते शुचिताम् इयात् ॥

मार्कण्डेयपुराणे [३५.३६–८] ।

अभोज्यसूतिकाषण्डमार्जाराखुश्वकुक्कुटान् ।

पतितापविद्धचाण्डालमृतहारांश् च धर्मवित् ॥

**[१३०] संस्पृश्य शुध्यति **स्नानाद् उदक्याग्रामसूकरौ ।

कालिकापुराणे

स्पृष्ट्वा रुद्रस्य निर्माल्यं सवासा आप्लुतः शुचिः ।

व्यासः

भासवानरमार्जारखरोष्ट्राणां तथा शुनाम् ।

सूकराणाम् अमेध्यं च स्पृष्ट्वा स्नायात् सचेलवत् ॥

आपस्तम्बः [स्मृति ९.१०] ।

यद् विष्ठितं काकबलाकयोर् वा

	अमेध्यलिप्तं च भवेच् छरीरम् ।

श्रोत्रे मुखे च प्रविशेच् च सम्यक्

	स्नानेन लेपोपहस्त्स्य शुद्धिः ॥

“विष्ठितं” विष्ठाकृतम् ।

शातातपः

अशुचिं स्पर्शयेद् यस् तु एकम् एव हि दुष्यति ।

तं स्पृष्ट्वान्यः स चान्येन सर्वद्रव्येष्व् अयं विधिः ॥

पराशरः [७.११–१२] ।

अस्तङ्गते यदा सूर्ये चाण्डालं पतितं स्त्रियम् ।

सूतिकां स्पृशतश् चैव कथं शुद्धिर् विधीयते ॥

[१३१] जातवेदः सुवर्णं च सोममार्गं तथैव च ।

ब्राःमणानुमते चैव स्नात्वा दृष्ट्वा च शुध्यति ॥

आचान्तम् अनुगर्ते वा निशि स्नानं न विद्यते ।

स्नानम् आचमनं प्रोक्तं दिवोद्धृतजलेन तु ॥

“आचान्तम्” आचमनम् । “अनुगर्तं” जलाशयम् । अत्र “स्नानम् आचमनं प्रोक्तम्” इत्य् एतद् द्वयम् अपि कर्तव्यत्वेनाभिहितम् इत्य् अर्थः ।

**वृद्धशातातपर्ः **।

आदित्ये ऽस्तमिते रात्राव् अस्पृश्यम् च स्पृशेद् यदि ।

भवन् केन शुद्धिः स्यात् तन् मे ब्रूहि सुनिश्चयम् ॥

अनस्तम् इत आदित्ये सङ्गृहीतं च यज् जलम् ।

तेन सर्वात्मना शुद्धिः शवस्पृष्टं न शुध्यति ॥

देवलः

दिवाहृतैर् जलैः स्नानं निशि कुर्यान् निमित्तितः ।

प्रक्षिप्य च सुवर्णं तु सन्निदीप्य च पावकम् ॥

आपस्तम्बः

अस्पृश्यस्पर्शने वान्ते श्वश्रुपाते भगे क्षुरे ।

स्नानं नैमित्तिकं कार्यं दैवपित्र्यविवर्जितम्॥

[१३२] “स्नानं” तर्पणरहितम् इत्य् अर्थः । “दैवपित्र्यविवर्जितम्” स्नानाङ्गदेवपितृतर्पन-रहितम् इत्य् अर्थः ।

यमः

आतुरं स्नानसम्प्राप्तौ दशकृत्वस् त्व् अनातुरः।

स्नात्वा स्नात्वा स्पृशेत् क्षीप्रं ततः शुद्धः स आतुरः ॥

[१३३]

२४

अथ द्रव्यशुद्धिः

तत्र** मनुः** [५.१११–१२२] ।

तैजसानां मणीनां च सर्वस्याशमयस्य च ।

भस्मनाद्भिर् मृता चैव शुद्धिर् उक्ता मनीषिभिः ॥

निर्लेपं काञ्च्नं भाण्डम् अद्भिर् एव विशुध्यति ।

अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥

अपाम् अग्नेश् च संयोगाद् धेम रूप्यं च निर्बभौ ।

तस्मात् तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥

ताम्रायःकांस्यरैत्यानां रपुणः सीसकस्य च ।

शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥

द्रवाणां चैव सर्वेषां शुद्धिर् उत्पवनं स्मृतम् ।

प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥

मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।

चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥

चरूणां स्रुक्स्रुवाणां च शुद्धिर् उष्णेन वारिणा ।

स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥

अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।

प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥

[१३४] चैलवच् चर्मणां शुद्धिर् वैदलानां तथैव च ।

शाकमूलफलानां च धान्यवच् छुद्धिर् इष्यते ॥

कौशेयाविकयोर् ऊषैः कुतपानाम् अरिष्टकैः ।

श्रीफलैर् अंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥

क्षौमवच् छङ्खशृङ्गाणाम् अस्थिदन्तमयस्य च ।

शुद्धिर् विजानता कार्या गोमूत्रेणोदकेन वा ॥

प्रोक्षणात् तृणकाष्ठं च पलालं चैव शुध्यति ।

मार्जनोपाञ्जनैर् वेश्म पुनः पाकेन मृन्मयम् ॥

“तैजसानाम्” सुवर्णादीनाम् । “मणीनाम्” स्फटिकादीनाम् । “अश्ममयम्” पाषाणमयम् । “भस्मनाद्भिर् मृदा” इत् मृद्भस्मनोर् लेपगन्धापनयनैककार्यत्वाद् विकल्पः । आपस् तु समुच्चीयन्ते । “अब्जम्” शङ्खशुक्त्यादि । “अनुपस्कृतम्” रेखाद्युपस्काररहितम्, रेखादिसम्भवे मलसम्भवात् । “निर्णेकः” शुद्धिः । अमेध्याद्युपहतविषयम् एतत् । ताम्रायःकांस्यादीनां भस्माम्लोदकवारिभिः यथार्हं शौचं निर्लेपविषयम् । “वैदलानाम्” वंशादिदलनिर्मितानाम् । “ऊषैः” ऊषरमृत्तिकया । “कुतपः” कम्बलविशेषः ।

ब्रह्मपुराणे

सुवर्णरूप्यशङ्खाश्मशुक्तिरत्नमयानि च ।

कांस्यायस्ताम्ररैत्यानि त्रपुसीसमयानि च ॥

[१३५] निर्लेपान्य् एव शुध्यन्ति केवलेन जलेन च ।

शूद्रोच्छिष्टानि शोध्यानि त्रिधा क्षाराम्लवारिभिः ॥

सूतिकाशवविण्मूत्ररजस्वलहतानि च ।

प्रक्षेप्तव्यानि तान्य् अग्नौ यच् च यावत् सहेद् अपि ॥

“रैत्यानि” रीतिः पित्तलम् इति लोके प्रसिद्धम्, तन्मयानि ।

यमः

फलपात्रस्य सर्वत्र वालरज्वाभिर् घर्षणम् ।

अभ्युक्षणं च काष्ठानां वैणवं गोमयेन च ॥

मृन्मयानां च सर्वेषां पुनर् दाहेन शोधनम् ।

द्रव्याणां संहतानां च मृद्भिर् अद्भिस् तथा मृदा ॥

यज्ञपात्राणां तु सर्वेषाम् अद्भिः शुद्धिर् विधीयते ।

धान्यानां प्रोक्षणाच् छुद्धिर् अद्भिः प्रक्षालनेन च ॥

चैलवच् चर्मणां शुद्धिर् वैदलानां तथैव च ।

शाकमूलफलानां च पुष्पाणाम् आसनस्य च ॥

ऊर्णाकार्पासिकानां च शुद्धिर् अद्भिर् मृदा सह ।

दुकूलपट्टकौशेयाः शुद्ध्यन्त्य् अद्भिः सदैव तु ॥

“वालरज्वा” गोवालरज्वा ।

[१३६] तथा

कुतपानाम् अरिष्टैस् तु श्रीफलैर् अंशुपत्तयोः ।

कृष्णाजिनानां वालैश् च वालानां मृद्भिर् अम्भसा ॥

गोमूत्रेणास्थिदन्तानां क्षौमाणां गौरसर्षपैः ।

पांसुकः परिवर्तेन मृत्तिकाभिश् च शोधनम् ॥

“पांसुकः” पांसुमयो वेद्यादिः ।

याज्ञवल्क्यः [१.७६] ।

सोषैर् उदकगोमूत्रैः शुध्यन्त्य् आविककौशिकम् ।

सश्रीफलैर् अंशुपट्टं सारिष्टैः कुतपं तथा ॥

शङ्खः

सिद्धार्थकानां कल्केन शृङ्गदन्तमयस्य च ।

गोवालैः फलपात्राणाम् अस्थ्नां स्याच् छृङ्गवत् तथा ॥

निर्यासानां गुडानां च लवणानां तथैव [च] ।

कुसुम्भकुङ्कुमानां च ऊर्णाकार्पासयोस् तथा ॥

प्रोक्षणात् कथिता शुद्धिर् इत्य् आह भगवान् **यमः** ।

देवलः

हेमस्फटिकरौप्याणां यज्ञेषु च मखेषु च ।

यतीनां चैव पात्राणाम् अद्भिः शौचं विधीयते ॥

तथा

तावन्तं मलिनं पूर्वम् अद्भिः क्षारैश् च शुध्यति ।

अंशुभिः शोषयित्वा च वायुना वा समाहरेत् ॥

[१३७] ऊर्णापट्टांशुकक्षौमदुकूलाविकचर्मणाम् ।

अल्पशौचे भवेच् छुद्धिः प्रोक्षणादिभिर् एव च ॥

तान्य् एवामेध्यलिप्तानि निर्णिज्याद् गौरसर्षपैः ।

धान्यकल्कैः पर्णकल्कै रसैश् च फलकल्ककैः ॥

तूलिकाद्युपधानानि पुष्परक्ताम्यराणि च ।

शोषयित्वातपे किञ्चित् करैर् उन्मार्जयेन् मुहुः ॥

पश्चाच् च वारिणा प्रोक्ष्य शुचीत्य् एवम् उदाहरेत् ।

तान्य् अप्य् अतिविलिप्तानि यथावत् परिशोधयेत् ॥

लोहानां दहनाच् छुद्धिर् भस्मना गोमयेन वा ।

दहनात् खननाद् वापि शौलानाम् अम्भसापि वा ॥

काष्ठानां तक्षणाच् छुद्धिर् मृदम्भोभिर् विशोधनम् ।

मृन्मयानां च पात्राणां दहनाच् छुद्धिर् इष्यते ॥

सर्वद्रवाणां पक्वानां लवणस्य गुडस्य च ।

अशुद्धानां च सर्वेषां परित्यागो विधीयते ॥

तोयाभावे परस्पर्शे भूमिसंस्पर्शने ऽपि च ।

कुण्डिकायाः परित्यागो दहनं चापदि स्मृतम् ॥

द्रव्याणाम् अवशिष्टानां जलाग्निभ्यां विशोधनम् ।

शोधनार्थं हि सर्वेषाम् उभयं ब्राह्मणैः स्मृतम् ॥

श्वपाको यत् स्पृशेद् द्रव्यं मृन्मयं द्रवम् एव वा ।

पक्वं वा भोज्यकल्कं वा तत् सर्वं पअरिवर्जयेत् ॥

[१३८] उच्छिष्टाशुचिभिः स्पृष्टम् अद्रवं शोध्यते ऽम्भसा ।

द्रवं वापि प्रभूतं च शोधयेत् प्रोक्षणादिभिः ॥

विष्णुः [२३.२४] ।

पद्माक्षैर् मृगलोमिकानाम् ।

तथा [२३.३१–३५] ।

    गुडादीनाम् इक्षुविकाराणां प्रभूतानां गृहनिहितानां वर्यग्निदानेन । सर्वलवणानां च । पुनःपाकेन मृन्मयानाम् । द्रव्यवत् कृतशौचानां देवतार्चनां भूयःप्रतिष्ठापनेन । असिद्धस्यान्नस्य यन्मात्रम् उपहतं तन्मात्रं परित्यज्य शेषस्य कण्डनप्रक्षालने कुर्यात् ।

हारीतः

    अद्भिः काञ्चनराजतानाम् । तद्गुणवर्णयोगात् स्नेहवैवर्ण्योपहतानां यवगोधूमकलायमाषगोमयचूर्णैर् मार्जनम् । अद्भिः प्रक्षालनं च । आम्ललवणाभ्यां ताम्राणाम् । भस्मना कांस्यानाम् । शाणघर्षणैः कार्ष्णायसानाम् । सिकतावघातघर्षणैः सैलानाम् । शैलावघर्षणमार्जनैर् मणिमयानाम् । निर्लेखनैर् दारुमयाणाम् । पुनःपाकात् पार्थिवानाम् । गोमूत्रगोमयबिल्वैर् वैदलानाम् । गोवालरज्ज्वा सोदकया फलपात्राणाम् । मार्जनं कमण्डलूनां यतिपात्राणाम् । क्षारोषाभ्यां कार्पासशणमयानाम् । पुत्रजीवकारिष्टैः क्षौमदुकूलानाम् । पुत्रजीवकोदस्विद्भिश् चीराणाम् । श्रीफलश्वेतसर्षपैः कौशेयानाम् । उदस्विद्वल्मीकमृदा सर्षपैर् ऊर्णानाम् । स्नेहसक्तुकुल्माषोद्वर्तनैर् गुऋऊणाम् ।

[१३९] “कुल्माषाः” अर्धस्विन्नमाषाः । “गुरवः” ऊर्णामया एवोपहताश् च कम्बलाः ।

ब्रह्मपुराणे

गोरसाक्तानि भाण्डानि विशोध्योष्णेन वारिणा ।

“गोरसाक्तानि” सर्शादिदुष्टगोरसलिप्तानि ।

शङ्खलिखितौ

    अत ऊर्ध्वं शौचविधिः । कारुहस्तः शुचिः । तथाकरस्थद्रव्याणि प्रोक्षितानि शुचीनि । आकरजानाम् अभ्यवहरणीयानां घृतेनाभिघारितानां शुद्धिः । प्लवनेन स्नेहानाम् । स्नेहवद् द्रव्याणां संहतानां मृद्भिर् अद्भिः । द्रवाणाम् उत्पवनम् । शुष्काणाम् उद्धृतदोषाणां संस्कारः । परिप्लावितानां दोषाणाम् अत्यन्तत्यागः । चैलानां मृद्भस्मगोमूत्रक्षारोदकैः । चेलवद् धान्यानां पक्षचामरचर्मतृणवालवेत्रवल्कलजानां च ।

“अभ्यवहरणीयाः आकरजाः” लवणादयः । “स्नेहानाम्” घृतादीनाम् । “संहतानां मृद्भिर् अद्भिः” संहतानां खट्वादिद्रव्याणां मृद्भिः प्रक्षालनेन शुद्धिः । “द्रवाणाम्” गुडादीनाम् । “उद्धृतदोषाणां संस्कारः” दोषोद्धरणम् एव संस्कार् इत्य् अर्थः । “परिप्लावितानां दोषाणाम्” अत्यन्तसम्पृक्तानाम् ।

बौधायनः [१.८.२८–४३] ।

    तैजसानां पात्राणाम् असकृन् मृद्भस्मभिः परिमार्जनम् अन्यतमेन वा । ताम्ररजतसुवर्णानाम् अम्लैः । [अमत्राणां दहनम्] । दारवाणां **[१४०] **तक्षणम् । वैणवानां गोमयेन । फलमयानां गोवालरज्ज्वा । कृष्णाजिनानां बिल्वतण्डुलैः । कुतपानाम् अरिष्टैः । और्णानाम् आदित्येन । क्षौमाणां गौरसर्षपकल्केन । मृदा चेलानाम् । चेलवच् चर्मणाम् । तैजसवद् उपलमणीनाम् । दारुवद् अस्थ्नाम् । क्षौमवच् छङ्खशृङ्गशुक्तिदन्तानाम् । पयसा वा । चक्षुर्घ्राणानुकूल्याद् वा ।

“अमत्राणाम्” पात्राणाम् ।

पैठीनसिः

    चमसानां चोच्छिष्टगन्धहिरण्यरजतताम्राणाम् अलेपानाम् अद्भिः । सलेपानां गोमयेन गोमयमृत्सलिलेन वा । भिन्नम् अभिन्नम् अत्र न दोषः । कार्ष्णायसानां सिकतादिभिः । पुनर्दाहेन मृन्मयानाम् । अद्भिः शैलानाम् । त्रपुसीसकानां गोमयतुषैः । कांस्यं भस्मना । काष्ठमयं तक्षणेन । क्षीरोदकाभ्यां शङ्खशुक्तिकादीनाम् । वस्त्राणां निर्णेजनेन । चेलवद् उपलमणीनाम् । कृणाजिनानां गौरसर्षपैः । रौरवबस्ताजिनानां बिल्वतण्डुलैः । कुतपानाम् अरिष्टैः ।

उशना

    काष्ठानां परिलेपनेन । मूलकफलपुष्पभूमितृणदारुपलालधान्यानाम् अभ्युक्षणम् । रज्जुवैणवयज्ञचर्मकार्पासिकक्षौमदुकूलचीनांशुकपट्ट-कौशेयोर्णकानाम् अद्भिर् एव प्रक्षालनम् ।

सुमन्तुः

    मणिकनकरजतशङ्खशुक्त्युपलप्रवालानां परिमार्जनं शुद्धिः । वस्त्रविदलरज्जुचर्मणाम् अद्भिः प्रक्षालनम् । भूम्यस्थिकाष्ठानां तक्षणम् । मृत्पात्रलोहजानाम् अग्निनोत्तापनम् । सीसत्रपुताम्रायसानाम् उदकभस्मभ्यां त्रिः परिमार्जनाच् छुद्धिः । गोवालरज्ज्वा पुष्पफलपत्रमूलानां च । अन्यत्र शकुनोच्छिष्टेभ्यः । तेषाम् अदोषः । श्वदष्टानां चमसादीनां स्रुक्स्रुवाणां चरूणाम् अन्येषां यज्ञभाण्डानाम् उष्णेन वारिणा शौचम् । तैजसानां तु भूर्जचर्मचीरवेणुवैदलवल्कलानाम् अद्भिः प्रक्षालनम् ।

काश्यपः

    अथ पात्राणाम् शौचविधिं व्याख्यास्यामः । परिलेखनं दारुपात्राणाम् । औपलानां जलेनावघर्षणम् । मृन्मयानां पुनर् दहनम् । रैत्यानां ताम्राणाम् अम्लवारिणा मार्जनम् । भस्मना कांस्यत्रपुसीसकताम्रायसानाम् । सिकताभिर् दन्तशृङ्गशङ्खशुक्तिमणीनाम् । वस्त्ररजतसुवर्णानाम् अद्भिः शौचम् । तृणकाष्ठमूर्जशणक्षौमचीरचर्मवेणुवैदलपत्रवल्कलानां चेलवच् छौचम् । अत्यन्तोपहतानां परित्यगः ।

वायुपुराणे

अरिष्टैश् च तथ बिल्वैर् इङ्गुदैश् चर्मणाम् अपि ।

वैदलानां च सर्वेषां चर्मवच् छौचम् इष्यते ॥

[१४२] वल्कलानां च सर्वेषां भस्मना शौचम् इष्यते ।

तथास्थिचर्मदारूणां शृङ्गाणां च विलेखनम् ॥

मणिवज्रप्रवालानां मुक्ताशङ्खफलस्य च ।

सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ॥

स्याच् छौचं सर्ववालानाम् आविकानां च सर्वशः ।

तथा कार्पासिकानां च भस्मना समुदाहृतम् ॥

हारीतः

    पयसा दन्तानाम् । क्रीतानाम् अवहनननिष्पवनैः । व्रीहियवगोधूमानां घर्षणदलनपेषणैः । शमीधान्यानां कण्डननिमर्शनक्षालनैः । फलीकृतानां घर्षणप्रक्षालनपर्यग्निकरणैः । शाकमूलफलानां प्रशस्तभूस्थानां ग्रहणे प्रक्षालनैः । इक्षुकाण्डानां शमीधान्यवत् । यज्ञद्रव्यहविषां श्रपणम् एव । उत्पवनं स्नेहानाम् । पुनःपाकः कृतलवणानाम् । पुष्करादिभिः स्पृष्टानां भूस्थानां तृणकाष्ठानाम् आसित्यदर्शनाच् छौचम् ।

“दन्तानाम्” दन्तनिर्मितानाम् । “शमीधान्यानि” मुद्गादीनि ।

आपस्तम्बः [१.१७.९–१३] ।

    अनाम्नाते मृन्मये भोक्तव्यम् । आम्नातं चेद् अभिदग्धे । परिमृष्टं लोहं प्रयतम् । निर्लिखितं दारुमयम् । यथागमं यज्ञे ।

[१४३] “आम्नातम्” अन्यस्मै लौकिकप्रयोजनाय प्रक्षालितम् इति कपर्दिभाष्यअम्

शातातपः

गवाघ्रातेषु कांस्येषु शूद्रोच्छिष्टेषु वा पुनः ।

दशभिर् भस्मभिः शुद्धिः श्वपाकोपहतेषु च ॥

शङ्खलिखितौ

    चमसानाम् अद्भिर् यज्ञसामवायिकशौचम् । अध्वरेषु चमसवद् यतिपात्राणाम् । यतिसमयम् आम्नायतः सोदकानां परिघर्षणम् इति ।

ब्रह्मपुराणे

द्रव्याद्रव्याणि भूरीणि परिप्लाव्यानि चाम्भसा ।

सस्यानि व्रीहयश् चैव शाकमूलफलानि च ॥

बौधायनः [१.८.४५–४६] ।

    प्रवचनाद् यज्ञे चमसपात्राणाम् । न सोमेनोच्छिष्टा भवन्तीति श्रुतिः । शाकमूलफलानां तु प्रक्षालनम् ।

शुद्धिः इत्य् अनुवृत्तौ शङ्खलिखितौ

    पर्णानां प्रक्षालनम् एव । सकृद् उपयुक्तकानाम् उत्सर्गः । तथा पुष्पमूलफलानां च विष्किरावधूतानां प्रोक्षणम् । अभ्युक्षणम् इत्य् एके । यानशय्यासनानां संहतवच् छौचम् ।

[१४४] “विष्किराः” कुक्कुटादयः ।

बौधायनः

आसनं शयनं यानं नावः पन्थास् तृणानि च ।

आत्मशय्यासनां वस्त्रं जायापत्यं कमण्डलुः ॥

शुचीन्य् आत्मन एतानि परेषाम् अशुचीनि तु ॥

“दुष्टाभिशस्तपतिततिर्यग्गन्धवर्णोपहतानाम्” इत्य् अनुवृत्तौ हारीतः

    यानशय्यासनानि परिहार्याणीत्येके मन्यन्ते । तत्र वर्णविशेषात् शुक्लमलिनसंसर्गदर्शनात् पादोपसंसर्गाद् व्याधिसङ्क्रमयोगाच् च । तस्मात् पृथक् शौचाः श्रेयांस इति । स्वानुपपत्तौ शुच्यन्तर्वास इति समामनन्ति । स्पर्शे सचैलस्नानम् एव । एवं ह्य् आह ।


    	आसनं शयनं यानम् अन्तर्धाय समाचरेत् ।

बौधायनः [१.१३.२१–३२; १४.१–१३] ।

    असंस्कृतायां भूमौ न्यस्तानां तृणानां प्रक्षाल्नम् । परोक्षोपहतानाम् अभ्युक्षणम् । एवं क्षुद्रसमिधाम् । महतां काष्ठानाम् उपघाते **[१४५]** प्रक्षाल्यावशोषणम् । बहूनां तु प्रोक्षणम् । दारुमयानां पात्राणाम् उच्छिष्टसमन्वारब्धानाम् अवलेखनम् । उच्छिष्ट[लेपो]पहतानाम् अवतक्षणम् । मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानाम् उत्सर्गः । तद् एतद् अन्यत्र निर्देशात् । यथैतद् अग्निहोत्रे घर्मोच्छिष्टे च दधिघर्मे च कुण्डपायिनामयने चोत्सर्गिणाम् अयने च दाक्षायणयज्ञे चैडादधे च चतुश्चक्रे च ब्रह्मौदनेषु च तेषु सर्वेषु दर्भैर् अद्भिः प्रक्षालनम् । सर्वेष्व् एव सोमभक्षेष्व् अद्भिर् एव मार्जालीये प्रक्षालनम् । मूत्रपुरीषलोहितरेतः-प्रभृत्युपहतानाम् उत्सर्गः । तैजसानां पात्राणां पूर्ववत् परिमृष्टानां प्रक्षालनम् । परिमार्जनद्रव्याणि गोशकृन्मृद्भस्मेति । मूत्रपुरीषलोहितरेतः-प्रभृत्युपहतानां पुनः करणम् । गोमूत्रे वा सप्तरात्रं परिशायनम् । महानद्यां वैवम् । नलवेणुशरकुशव्यूतानां गोमयेनाद्भिर् इति प्रक्षालनम् । व्रीहीणाम् उपघाते प्रक्षाल्यावशोषणम् । तण्डुलानाम् उत्सर्गः ।

अग्निहोत्रघअर्मैडादधादयः कर्मनाम् अविशेषाः । “मार्जलीयः” सौमिकवेदेर् दक्षिणतो मध्यप्रदेशः ।

[१४६] पैठीनसिः

काष्ठं तृणं चाण्डालादिस्पर्शनाद् आदित्यं दर्शयेत् पूतं भवति ।

आपस्तम्बः [१.१५.१३–१५] ।

    मूढस्वस्तरे चासंस्पृशन्न् अन्यान् अप्रयतान् प्रयतो मन्येत । तथा तृणकाष्ठेषु निखातेषु । प्रोक्ष्ये वास उपयोजयेत् । 

बौधायनः [१.१३.१४–१५] ।

    न परिहितम् अधिरूढम् अप्रक्षालितं प्रावरणम् । नापल्पूलितं मनुष्यसम्भुक्तं देवत्रा युञ्ज्यात् ।

ब्रह्मपुराणे

प्रत्यहं क्षालयेद् वस्त्रं दैवे पित्र्ये च कर्मणि ।

सर्वं विण्मूत्रशुक्रैश् च दूषितं तु मृदम्बुभिः ॥

शोध्यादौ शोधनीयं च गोमूत्रक्षारवारिभिः ।

रज्जुवल्कलपात्राणां चमसानां तु चर्मणाम् ॥

[१४७] कृत्वा शौचं ततः शुद्धिर् गोवालैर् घर्षणं पुनः ।

कौशेयाविकयोर् देयं रजताक्तं जलं बहु ॥

सुवर्णाक्तं तथा दद्यात् क्षौमाणां चार्द्रवाससाम् ।

अङ्गिराः

शौचं सहस्ररोमाणां वाय्वग्न्यर्केन्दुरश्मिभिः ।

रेतःस्पृष्टं शवस्पृष्टम् आविकं नैव दुष्यति ॥

शयनासनयानानि रोमबद्धानि यानि तु ।

वस्त्राण्य् एतानि सर्वाणि संहतानि प्रचक्षते ॥

“चैलानाम्” इत्य् अनुवृत्तौ शङ्खलिखितौ

    सर्वेषाम् आपो मृदिष्टकेङ्गुदबिल्वपत्रतण्डुलसर्षपकल्कक्षारगोमूत्र-गोमयादीनि शौचद्रव्याणि । अहतानां प्रोक्षणम् इत्य् एके ।

मनुः [५.१२६] ।

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः ।

तावन् मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥

विष्णुः [२३.२९] ।

प्रोक्षणेन संहतानाम् ।

[१४८] वसिष्ठः [३.४८] ।

लेपगन्धापकर्षणे शौचम् अमेध्यस्यालिप्तस्याद्भिर् मृदा च ।

मनुः [५.१२८] ।

त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् ।

अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ॥

वृद्धशातातपः

अशुचिं च स्पृशेद् यस् तु एक एव स दुष्यते ।

तं स्पृष्ट्वान्यो न दुष्येत् तु सर्वद्रव्येष्व् अयं विधिः ॥

संहतानां तु पात्राणां यद्य् एकम् अशुचिर् भवेत् ।

तस्यैकस्य भवेच् छौचं नेतरेषां विधीयते ॥

शङ्खः

मलसंयोगजं तज्जं यस्य येनोपहन्यते ।

तस्य तच् छोधनं प्रोक्तं सामान्यं तत्र शुद्धिकृत् ॥

[१४९]

२५

अथात्यन्तोपहतानां शुद्धिः

तत्र विष्णुः [२३.१–६] ।

    शारीरैर् मलैः सुराभिर् मद्यैर् वा यद् उपहतं तद् अत्यन्तोपहतम् । अत्यन्तोपहतं सर्वं लोहभाण्डम् अग्नौ प्रक्षिप्तं शुध्येत् । मणिमयम् अश्ममअयम् अब्जं च सप्तरात्रं महीनिखनेन । शृङ्गदन्तास्थिमयं तक्षणेन । दारवं मृन्मयं च जह्यात् । अत्यन्तोपहतस्य वस्त्रस्य यत् प्रक्षालितं तद् विरज्यते तच् छिन्द्यात् ।

“लोहभाण्डम्” अत्र तैजसपात्रम् ।

हारीतः

    अत्यन्तोपहतानां सर्वतैजसानाम् अग्निना शौचम् । मृद्दारुचर्मणां त्यागः । तन्मात्रच्छेदनं वाससाम् इत्य् एके । नववाससो धारणं हि शौचम् इत्य् आचार्याः । तस्मात् सर्ववाससां प्लावनाद् एव शुद्धिः ।

शङ्खलिखितौ

    तैजसानां रेतोमूत्रपुरीषोपहतानाम् आवर्तनम् उल्लेखनं भस्मना वा सप्तकृत्वः परिमार्जनम् । चेलानाम् उत्सेधनं तस्माद् उच्छेदनम् वा ।

[१५०] “आवर्तनम्” अग्नौ द्रावणम् । तत्र चावर्तनादीनां शुद्धिप्रकाराणां बाहुल्याच् छुद्दिद्रव्यव्यचिराचिरसंसर्गः व्यवस्था ।

बौधायनः [१.८.४३–४४] ।

    मूत्रपुरीषासृक्शुक्रकुणपस्पृष्टानां पूर्वोक्तानाम् अन्यतमेन त्रिःसप्तकृत्वः परिमार्जनम् । अतैजसानाम् एवम्भूतानाम् उत्सर्गः ।

“पूर्वोक्तानां” गोशकृद्भस्मनाम् । एवंविधानाम् अत्यन्तोपहतानामद्भिर् मृद्भिश् च प्रक्षालनम् । वासोवद् ऊर्णानाम् । तन्तुबद्धवल्कलानां वल्कलवत् ।

शङ्खः

मद्यैर् मूत्रपुरीषैश् च श्लेष्मपूयाश्रुशोणितैः ।

संस्पृष्टं नैव शुध्येत् तु पुनः पाकेन शुध्यति ॥

एतैर् एव च संस्पृष्टं ताम्रसौवर्णराजतम् ।

अत्यन्तोपहतानां च परित्यागो विधीयते ॥

तथा

अथ मूत्रपुरीषाभ्यां रेतसा रुधिरेण च ।

चेलं यद् उपहन्येत पुनः प्रक्षालयेत् ततः ॥

[१५१] यद्य् अम्भसा न शुध्येत् तु चोपहतं ध्रुवम् ।

छेदनन्तस्य दाहो वा यन्मात्रं तु प्रदुष्यते ॥

मृत्तिकाङ्गारपातेन अशुद्धं तत् परित्यजेत् ॥

बृहसतिः [आशौच्। ७५] ।

वस्त्रवैदलचर्माणां शुद्धिः प्रक्षालनं स्मृतम् ।

अतिदुष्टस्य तन्मात्रं त्यजेच् छित्वात्मशुद्धये ॥

देवलः

दूषितं वर्जितं दुष्टं कश्मलं चेति लिङ्गिनाम् ।

चतुर्विधम् अमेध्यं च सर्वं व्याख्यास्यते पुनः ॥

शुच्य् अप्य् अशुचिसंस्पृष्टं द्रव्यं दूषितम् उच्यते ।

अभक्ष्यभोज्यपेयानि वर्जितानीह वक्ष्यते ॥

त्यक्तः पतितचाण्डालौ ग्रामसूकरकुक्कुटौ ।

श्वा च नित्यं विवर्ज्याः स्युः षड् एते धर्मतः स्मृताः ॥

सवर्णः सूतिका सूती मत्तोन्मत्तरजस्वलाः ।

मृतबन्धुर् अशुद्धश् च वर्ज्यास् त्व् अष्टौ स्वकालतः ॥

स्वेदाश्रुबिन्दवः फेनो निरस्तं नखरोम च ।

आर्द्रचर्मासृग् इत्य् एतद् दुष्टम् आहुर् द्विजातयः ॥

मानुषास्थि शवं विष्ठा रेतो मूत्रार्तवानि च ।

कुणपं पूयम् इत्य् एतत् कश्मलं समुदाहृतम् ॥

दूषितैः प्रोक्षणेनापि शुद्धिस् तूक्ता विधानतः ।

दुष्टैर् मार्जनसंस्कारैः कश्मलैः सर्वथा भवेत् ॥

[१५२]

२६

अथ भूमिशुद्धिः

तत्र मनुः [५.१२४] ।

सम्मार्जनेनाङ्जनेन सेकेनोल्लेखनेन च ।

गवां च परिवासेन भूमिः शुध्यति पञ्चधा ॥

यमः

खननात् पूरणाद् दाहाल् लेखनाद् अभिघर्षणात् ।

गोभिर् आक्रमणात् कालाद् भूमिः शुध्यति सप्तभिः ॥

देवलः

पञ्चधा वा चतुर्धा वा भूर् अमेध्या विशुध्यति ।

दुष्टा द्विधा त्रिधा वापि शोध्यते मलिनैकधा ॥

दहनं खननं भूमेर् उपलेपनवापनम् ।

पर्जन्यमार्जनं वेति शौचं पञ्चविधं स्मृतम् ॥

[१५३] प्रसूता गर्भिणी यत्र म्रियते वाथ मानुषः ।

चाण्डालैर् उषितं यत्र यत्र विन्यस्यते शवः ॥

विण्मूत्रोपहतं यच् च कुणपो यत्र दृश्यते ।

एवं कश्मलभूयिष्ठा भूर् अमेध्येति लक्ष्यते ॥

कृमिकीटपदक्षेपैर् दूषिता यत्र मेदिनी ।

द्रप्सापकर्षैः क्षिप्तैश् च दुर्गन्धैर् दुष्टतां व्रजेत् ॥

नखदन्ततनूजन्मरक्तशुक्ररजोमलैः ।

भस्मपङ्कतृणैर् वापि प्रच्छन्ना मलिना भवेत् ॥

बौधायनः [१.१३.१६–२०] ।

    घनाया भूमेर् उपघात उपलेपनम् । सुशिरायाः कर्षणम् । क्लिन्नाया अमेध्यम् आहृत्य प्रच्छादनम् । चतुर्भिः शुध्यते भूमिर् गोभिर् आक्रमणात् खननाद् दहनाद् अभिमर्षनाच् च । पञ्चमाच् चोपलेपनात् षष्ठात् कालात् ।

याज्ञवल्क्यः [१.१८८] ।

भूशुद्धिर् मार्जनाद् दाहात् कालाद् गोभ्रमणाद् अपि ।

खननोल्लेखनाल् लेपाद् गृहं मार्जनलेपनात् ॥

ब्रह्मपुराणे

देवानां प्रतिमाश् चापि वेश्मान्य् आयतनानि च ।

बाह्यम् अभ्यन्तरं शस्तं भूमेर् उद्धृत्य शास्त्रवत् ॥

ततस् तोयेन गोभिश् च दाहोल्लेखनमार्जनैः ।

शोधनीयाश् च मन्त्रैश् च सरलैः पञ्चभिश् च भूः ॥

उद्धृत्य मृत्तिकाप्लाव्या पवित्रेण जलेन च ।

ग्रामाद् दण्डशतं त्यक्त्वा नगराच् च चतुर्गुणम् ॥

भूमिः सर्वत्रे शुद्धा स्याद् यत्र लेपो न दृश्यते ।

बौधायनः [१.९.११–१२; १०.१] ।

    भूमेस् तु सम्मार्जनप्रोक्षणोपलेपनावस्तरणोल्लेखनैर् यथास्थानं दोषविशेषात् प्रायत्यम् । अथाप्य् उदाहरन्ति ।


    	गोचर्ममात्रम् अब्बिन्दुर् भूमेः शुध्यति पातितः ।


    	समूढम् असमूढं वा यत्रामेध्यं न लक्ष्यते ॥ इति ।

[१५५] यमः

ब्राह्मणावसथे भूमिर् देवागारे तथैव च ।

मेध्यां चैव सदा मन्येद् गवां गोष्ठे तथैव च ॥

**बौधायनः **।

अनेकोद्वाह्ये दारुशिले भूमिसमे इष्टकाश् च सङ्कीर्णीभूताः ।

**पराशरः **[७.३४] ।

** **रथ्याकर्दमतोयानि नावः पन्थास् तृणानि च ।

स्पर्शनान् न प्रदुष्यन्ति पक्वेष्टिकचितानि च ॥

वापीकूपतडागेषु उद्यानोपवनेषु च ।

त्रिःसप्तमार्जनं कृत्वा एवं शौचं विधीयते ॥

याज्ञवल्क्य-विष्णू [याज्ण् १.१९७; वि। २३.४१] ।

रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः ।

मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥

याज्ञवल्क्यः [१.१९४] ।

पन्थानश् च विशुध्यन्ति सोमसूर्यांशुमारुतैः ।

[१५६] शातातपः

वल्मीकाच् च कराल् लेपात् जलाच् च पथिवृक्षयोः ।

कृतशौचावशिष्टाच् च न ग्राह्याः सप्तमृत्तिकाः ॥

अपां नोच्छिष्टदोषो ऽस्ति मधुनो न च सर्पिषः ।

न फलानां न वालानां न चमसां न च योषिताम् ॥

शौचार्थं नैव सङ्ग्राह्याः शर्कराश्मादिवर्जिताः ।

रक्ता गौरी तथा श्वेता मृत्तिकास् त्रिविधाः स्मृताः ॥

[१५७]

२७

अथोदकशुधिः

तत्र मनुः [५.१२८] ।

आपः शुद्धा भूमिगता वितृष्णा यत्र गौर् भवेत् ।

अव्याप्तास् चेद् अमेध्येन गन्धवर्णरसान्विताः ॥

ब्रह्मपुराणे

भूमिष्ठम् उदकं शुद्धं गन्धवर्णरसान्वितम् ।

केशास्थिशवविण्मूत्रसंयोगैर् उज्झितं यदि ॥

शङ्खलिखितौ

भूमिष्ठम् उदकं शुध्येच् छुचि तोयं शिलागतम् ।

गन्धवर्णरसैर् दुष्टैर् वर्जितं यदि तद् भवेत् ॥

विष्णुः [२३.४३] ।

भूमिष्ठम् उदकं पुण्यं वैतृष्ण्यं यत्र गौर् भवेत् ।

अव्याप्तं चेद् अमेध्येन तद्वद् एव शिलागतम् ॥

[१५८] यमः

न स्त्री दुष्यति जारेण नाग्निर् दहनकर्मणा ।

नापो मूत्रपुरीषाभ्यां न द्विजा वेदकर्मणा ॥

गावो न दुष्यन्त्य् अमृतं वहन्त्यः 

	स्त्रियो न दुष्यन्ति पुरोपभुक्ताः ।

आपो न दुष्यन्ति महीतलस्था

	विद्वान् न दुष्येत् तु प्रतिग्रहेण ॥

विष्नुः [२३.४४¯४६] ।

मृतपञ्चनखात् कूपाद् अत्यन्तोपहतात् तथा ।

अपः समुद्धरेत् सर्वाः शेषं वस्त्रेण शोधयेत् ॥

वह्निप्रज्वालनं कुर्यात् कूपपक्वेष्टकाचिते ।

पञ्चगव्यं न्यसेत् पश्चान् नवतोयसमुद्भवे ॥

जलाशयेष्व् अथाल्पेषु स्थावरेषु वसुन्धरे ।

कूपवत् कथिता शुद्धिर् महत्सु च न दूषणम् ॥

पराशरः

अल्पेनापि कृताद् दोषात् कूपसेतुपथेषु च ।

तेषु देशेषु यत् तोयं सस्यक्षेत्रपथेषु च ॥

प्रतिग्राह्यं च पेयं च न दुष्येत् **मनुर्** अव्रवीत् ।

वापीकूपतडागेभ्य आपो ग्राह्यास् तु सर्वशः ॥

[१५९] पश्चात् पश्येद् अमेध्यं तु पञ्चगव्येन शुध्यति ॥

अस्थिचर्मावसिक्तं च श्वमार्जारैश् च मूषिकैः ।

दूषितं तु ततस् तोयं तत्राधस्तात् तु शोधनम् ॥

अस्थिचर्मादिपतितं खरवानरसूकरैः ।

उद्धरेत् (?) तूदकं सर्वं शोधनं परिमार्जनम् ॥

वापीकूपतडागेषु दूषितेषु कथञ्चन ।

उद्धत्य (उद्धृत्य?) वै कुम्भशतं पञ्चगव्येन शुध्यति ॥

अमेध्यं तु यदा किञ्चित् कूपेषु विनिमज्जति ।

षष्टि कुम्भान् समुद्धृत्य पञ्चगव्येन शुध्यति ॥

शङ्खलिखितौ

    आपो रूपरसगन्धवत्यः परिशुद्धाः । जीर्णचर्मकरण्डैर् अभ्युद्धृता भूमिगता मेध्या यत्र गौर् वितृष्णा भवेत् ।

पैठीनसिः

    गन्धवर्णरसयुक्ताः शुद्धा आपो भूमिगता यत्र गौर् वितृष्णा भवति । विपर्यस्तं महोदकम् अपि ।

प्रकृताद् रसाद् अन्यरसगन्धादियुक्तत्वेन भूतं “विपर्यअस्तम्” ।

देवलः

अविगन्धा रसोपेता निर्मलाः पृथिवीगताः ।

अक्षीणाश् चैव गोः पानाद् आपः शुद्धतराः स्मृताः ॥

उद्धृता वा प्रशस्यन्ते शुद्धैः पात्रैर् यथाविधि ।

एकरात्रोषितास् तास् तु त्यजेद् आपः समुद्धृताः ॥

अक्षुब्धानाम् अपां नास्ति प्रसृतानां च दूषणम् ।

स्तोकानाम् उद्धृतानां च कश्मलैर् दूषणं भवेत् ॥

अक्षोभ्यानि तडागानि नदी वाप्यः सरांसि च ।

कश्मलाशुचियुक्तानि तीर्थतः परिवर्जयेत् ॥

याज्ञवल्क्यः [१.१९२] ।

शुचि गोतृप्तिकृत् तोयं प्रकृतिस्थं महीगतम् ।

यमः

प्रापस्वरण्ये घटके च कूपे 

	द्रोण्यां जलं कोशगतास् तथापः ।

ऋते ऽपि शूद्रात् तद् अपेयम् आहुर्

	आपद्गतो भूमिगताः पिबेत् तु ॥

[१६१] “घटकः” अत्र सर्वानुगतकूपोदकोद्धरणार्थं प्रकल्पितः करकादिः । “कोशः” चर्मपुटः । ऋते ऽपि “शूद्राद्” इति, ब्राह्मणादिस्वामिकम् अपि तद् अपेयम् ।

हारीतः

    भूस्थाः पुण्याश् चापो ऽशुचिभागवर्जम् । रात्राव् इता आपो वरुणं प्राविशस् तस्मान् न रात्रौ गृह्णीयात् । धाम्नो धाम्न इत्य् अग्निम् उपरिष्टाद् धारयन् गृह्णीयात् ।

बौधायनः [१.६.११–१३] ।

    अथास्तम् इत् आदित्य उदकं गृह्णीयान् न गृह्णीयाद् इति मीमांसन्ते ब्रह्मवादिनः । गृह्णीयाद् इत्य् एतद् अपरम् । यावद् उदकं गृह्णीयात् तावत् प्राणान् आयच्छत् । अग्निर् ह वै ह्य् उदकं गृह्णाति ।

उशना

अन्द्यः कूपास् तडागानि सरांसि सरितस् तथा ।

असंवृत्तान्य् अदोषाणि **मनुः** स्वायम्भुवो ऽब्रवीत् ॥

“असंवृत्तानि” चाण्डालादिस्पृष्टानि ।

[१६२] बृहस्पतिः [आशौच्। ७७–७८] ।

उच्छिष्टं मलिनं क्लिन्नं यच् च विष्ठाविलेपितम् ।

अद्भिः शुभ्यति तत् सर्वम् अपां शुद्धिः कथं भवेत् ॥

सूर्येन्दुरश्मिपातेन मारुतस्पर्शनेन च ।

गवां मूत्रपुरीषेण शुध्यन्त्य् आप इत्य् स्थितिः ॥

[१६२]

२७–अ

अथ पक्वान्नशुद्धिः

तत्र मनुः

शुक्तानि हि द्विजो ऽन्नानि न भुञ्जीत कदाचन ।

प्रक्षालयित्वा निर्दोषान्य् आपद्धर्मो यदा भवत् ॥

मसूरमाषसंयुक्तं तथा पर्युषितं च यत् ।

तत् तु प्रक्षालितं कृत्वा भुञ्जीताज्याभिघारितम् ॥

तथा [यमः]

मक्षिकाकेशम् अन्नेषु पतितं यदि दृश्यते ।

मूषकस्य पुरीषं वा क्षुतं यच् चावधूनितम् ॥

भस्मनास्पृश्य चाश्नीयाद् अभ्युक्ष्य सलिलेन वा ॥

अवक्षुतं केशपतङ्गकीटैर्

	उदक्यया वा पतितैश् च दृष्टम् ।

अलातभस्माम्बुहिरण्यतोयैः

	संस्पृष्टम् अन्नं **मनुर्** आह भोज्यम् ॥

[१६४] तथा

वाक्प्रशस्तानि भुञ्जीत वाग्दुष्टानि विवर्जयेत् ।

शुचीनि ह्य् अन्नपानानि वाक्पूतानि न संशयः ॥

मक्षिकां दंशमशका घुणाः सूक्ष्माः पिपीलिकाः ।

एतैः स्पृष्टं न दुष्टं स्यान् नैतै (?) कीटा विपत्तये ॥

याज्ञवल्क्यः [१.१८९] ।

गोघ्राते ऽन्ने तथा केशमक्षिकाकीटदूषिते ।

मृद्भस्मसलिलं वापि प्रक्षेप्तव्यं विशुद्धये ॥

बौधायनः [२.१२.६] ।

    त्वक्केशनखकीटाखुपुरीषाणि दृष्ट्वा तं देशं पिण्डम् उद्धृत्याद्भिर् अभ्युक्ष्य भस्मावकीर्य पुनर् अद्भिः प्रोक्ष्य वाचा च प्रशस्तम् उपयुञ्जीत ।

“अभक्ष्यम्” इत्य् अनुवृत्तौ वसिष्ठः [२.१४, २२–२४] ।

    पक्वम् अन्नं केशकीटोपहतं च । कामं तु केशकीटान् उद्धृत्याद्भिः प्रोक्ष्य भस्मान् अवकीर्य वाचा प्रशस्तम् उपभुञ्जीत ।

पैठीनसिः

    केशकीटगवाघ्रातम् अन्नं हिरण्येन च भस्मना वा स्पृष्टं प्रोकीतं भोज्यम् ।

[१६५] शातातपः

केशकीटगवाघ्रातं वायसोपहतं तथा ।

क्लीबाभिशतपतितैः सूतिकोद्क्यनास्तिकैः ॥

दृष्टं वा स्याद् यद् अन्नं तु तस्य निष्कृतिर् उच्यते ।

अभ्युक्ष्य किञ्चिद् उद्धृत्य तद् भुञ्जीत विसेषतः ॥

भस्मना वापि संस्पृश्य संस्पृशेद् उदकेन वा ।

सुवर्णरजताभ्यां वा भोज्यं घ्रातम् अजेन वा ॥

घृतं च पायसं क्षीरं तथैवेक्षुरसो गुडः ।

शूद्रभाण्डगतं तक्रं तथा मधु न दुष्यति ॥

“पायसं” दध्यादि । “तक्रं” तु तद्विकारः ।

**उशना **।

    अजाघ्राणेनान्नाद्यानाम् (?) । स्नेहघृतलवणमधुगुडानां पुनः पाकेन ।

शङ्खलिखितौ

    आकरजानाम् (?) अभ्यवहरणीयानां घृतेनाभिघारितानां शुद्धिः । पुनःपचनम् एव स्नेहानाम् । स्नेहवद् रसानाम् । मृदद्भिः संहतानाम् । **[१६६]** द्रव्याणाम् उत्पवनम् । शुष्काणाम् उद्धृतदोषाणां संस्कारः । परिप्लावितानां दोषाणां त्यागः ।

बौधायनः [१.१०.२–३] ।

    परोक्षम् अधिश्रितस्यान्नस्यावद्योत्याभ्युक्षणम् । तथापण्ēयानां च भक्ष्याणाम् ।

“अवद्योत्य” ज्वलता तृणादिना प्रकाशः ।

आपस्तम्बः [२.३.९] ।

    परोक्षम् अन्नं संस्कृतम् अग्नाव् अधिश्रित्यद्भिः प्रोक्षेत । तद् देवपवित्रम् इत्य् आचक्षते ।

सुमन्तुः

    केशकीटक्षुतनिष्ठीवनोपहतं श्वभिर् वा घ्रातं प्रोक्षितमात्रम् । दधिपर्युपासितं पुनः सिद्धम् । चाण्डालावेक्षितम् अभोज्यम् । अन्यत्र हिरण्ह्योदकस्पृष्टाच् छुद्धिः ।

**देवलः **।

चाण्डलेन शुना वापि दृष्टं हरिभिर् आविकैः ।

बिडालादिभिर् उत्सृष्टं दुष्टम् अन्नं च वर्जयेत् ॥

[१६७] हारीतः

    [श्वकाकघृध्रोपघाते] केशकीटपिपीलिकादिभिर् अन्नाद्युपघाते काञ्चनरजतवैडूर्यप्रवालादिभिर् एकतमेन वाद्भिः संस्पृष्टेन मन्त्रप्रोक्षणपर्यग्निकरणादित्यदर्शनात् पूतो भवति । बह्वन्नोपघात उपहतप्रदेशात् किञ्चिद् उद्धृत्य स्वर्णरजताम्बुना प्रोक्ष्य पूतं भवति । त्यागो हि रसानाम् अत्यन्तोपहतानाम् ।

बौधायनः [१.१४.१४–१८] ।

    [एवं] सिद्धहविषाम् । महतां श्ववायसप्रभृत्युपहतानां तद्देशे पिण्डम् उद्धृत्य “पवमानः सुवर्जन” इत्य् अनेनानुवाकेनाभ्युक्षणम् । मधूदके पयोविहारे च पात्रात् पात्रान्तरनयनाच् छौचम् । एवं तैलसर्पिषी उच्छिष्टसमन्वारब्धे तूदके प्रक्षिप्योद्धृत्योपयोजयेत् ।

एवम् इत्यादि — अनेन पात्रात् पात्रान्तरनयनम् अतिदिश्यते । ततो ऽधिकविधानम् अनियतम् ।

विष्णुः [२३.३६–३७] ।

    द्रोणाभ्यधिकं सिद्धम् अन्नम् अनुपहतं न दुष्यति । तस्योपहतम् अपास्य गायत्र्यभिमन्त्रितं सुवर्णाम्भः क्षिपेत् ।

पराशरः

स्मृतद्रोणाधिकं त्व् अन्नं शुकाद्यैर् उपघातितम् ।

अत्याज्यं तस्य शुद्ध्यर्थं ब्राह्मणेभ्यो निवेदयेत् ॥

वेदवेदाङ्गविद्विप्रा धर्मशास्त्रबहुश्रुताः ।

उच्चार्य धर्मशास्त्रं तु ऋषिवक्त्रविनिःसृअम् ॥

मुनिवक्त्रानुगान् धर्मान् गायन्ते धर्मपाठकाः ।

एभिर् य उक्तो धर्मो वै सत्यं स्यान् नेतरस् तथा ॥

द्रोणाधिकविशुध्यर्थं धर्मशास्त्रेषु पठ्यते ।

श्वकाकैर् अवलीढं तु द्रोणान्नं न विवर्जयेत् ॥

प्रावृत्योद्धृत्य तन्मात्रं यच् च लालाहतं भवेत् ।

सुवर्णोदकेनाभ्युक्ष्य ज्वलनेन तु तापयेत् ॥

हुतज्वलनसंस्पृष्टं तद् अन्नं न च वर्जयेत् ।

तन्मात्रं समनुद्धृत्य शेषं संस्कारम् अर्हति ॥

घनानां प्रोक्षणाच् छुद्धिर् द्रवाणाम् अपि तापनात् ।

स्पर्शनाच् च भवेच् छुद्धिर् अपो ऽग्नेश् च घृतस्य च ।

छागलेयम् असंस्पृष्टं शुचित्वेनैव निर्दिशेत् ॥

तद् एव द्रोणीश्रवणं पक्वान्नपर्दर्शनार्थम् । तथा च “द्रोणाधिकम्” इत्य् उक्तं प्रकृतेषूत्सवेषु ।

[१६९] बृहस्पतिः [संस्। २८] ।

तीर्थे विवाहे यात्राणां सङ्ग्रामे देशविप्लवे ।

नगरे ग्रामदाहे च स्पृष्टास्पृष्टिर् न दुष्यति ॥

शातातपः

गोकुले कन्दुशालायां तैलयन्त्रेषु मन्त्रयोः ।

अमीमांस्यानि शौचानि स्त्रीषु बालातुरेषु च ॥

हारीतः

कन्दुपक्वं स्नेहपक्वं पायसं दधि सक्तवः ।

एतान्य् अशूद्रान्नभुजां भोज्यानि **मनुर्** अब्रवीत् ॥

[१७०]

२८

अथाशुद्ध्यपवादाः

तत्र मनु-विष्णू [मनु ५.१३०; वि २३.४९] ।

नित्यम् आस्यं शुचि स्त्रीणां शकुनिः फलपातने ।

प्रस्रवे च शुचिर् वत्सः श्वा मृगग्रहणे शुचिः ॥

मनु-वसिष्ठ-शातातप-बौधायनाः

वत्सः प्रस्रवणे मेध्यः शकुनिः फलपातने ।

स्त्रियश् च रतिसंसर्गे श्वा मृगग्रहणे शुचिः ॥

शङ्खलिखितौ

नारीणां चैव वत्सानां शकुनीनां शुनां मुखम् ।

रतौ प्रस्रवणे वृक्षे मृगयायां तथा शुचि ॥

वसिष्ठः

श्वहताश् च मृगा धन्याः पातितं च मृगैः फलम् ।

बालैर् अअनुपरिक्रान्तं स्त्रीभिर् आचरितं च यत् ॥

[१७१] मनुः [५.१३१] ।

श्वभिर् हतस्य यअन् मांसं शुचि तन् मनुर् अब्रवीत् ।

क्रव्याद्भिश् च हतस्यान्यैश् चाण्डालाद्यैश् च दस्युभिः ॥

यमः

बालकैर् यत् परिक्रान्तं स्त्रीभिर् आचरितं च यत् ।

मशकैर् मक्षिकाभिश् च विलीनं नोपहन्यते ॥

निर्दोषं तु मुखं स्त्रीणां गवां पृष्ठम् अजामुखम् ।

एतानि नित्यशुद्धानि यच् च वाचा प्रशस्यते ॥

तथा

आत्मशय्यासनं वस्त्रं नित्यं शुद्धं च बालकम् ।

ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः ।

आसनं शयनं यानं स्त्रीमुखं कुतपं क्षुरम् ।

न दूषयन्ति विद्वांसो यज्ञेषु चमसं तथा ॥

गौर् अश्वो विप्रुषश् छाया मक्षिङाः शलभाः शुकाः ।

अजो हस्ती रणे छत्रं रश्मयश् चन्द्रसूर्ययोः ॥

[१७२] भूमिर् अग्निर् अजो वायुर् आपो दधि घृतं पयः ।

सर्वाण्य् एतानि शुद्धानि दश मेध्यानि नित्यशः ॥

तथा

शुचिर् अग्निअः शुचिर् वायुः पवित्रा ये बहिश्चराः ।

आपश् च शुचयो नित्यं पन्थाः सञ्चरणात् शुचिः ॥

तथा

आपः शुद्धा भूमिगताः शुचिर् नारी पतिव्रता ।

शुचिर् धर्मपरो राजा सन्तुष्टो ब्राह्मणः शुचिः ॥

विष्णुः [२३.४८] ।

नित्यं शुद्धः कारुहस्तअः पण्यं यच् च प्रसारितम् ।

ब्राह्मणान्तरितं भैक्ष्यम् आकराः सर्व एव च ॥

सुमन्तुः

    स्त्रीबालमशकमक्षिकाछायासनशय्याविप्रुषो नित्यं मेध्याः । घृतघटफलागाराणाम् अभोज्यान्नानाम् अदोषः ।

अभोज्यान्नानाम् अपि घृतघटादयो न दुष्टा इत्य् अर्थः ।

[१७३] शङ्खलिखितौ

शुद्धं नदीगतं तोयं सर्व एव तथाकराः ।

शुद्धं प्रसारितं पण्यं शुद्धम् अश्वो जयोन्मुखः ॥

मुखवर्जं च गौः शुद्धा मार्जारश् च क्रमे शुचिः ।

बृहस्पतिः [आचार ७६] ।

स्त्रियो बालाश् च वृद्धाश् च न दुष्यन्ति कदाचन ।

मक्षिका विप्रुषो नारी भूमिर् आपो हुताशनः ॥

मार्जारश् चैव दर्वी च मार्तुअश् च सदा शुचिः ।

उशना

कारुहस्तः शुचिर् नित्यं पण्यं यच् च प्रसारितम् ।

आकराः सोमपानं च वाचा यच् च प्रशस्यते ॥

बौधायनः [१.९.३] ।

अदूष्या सन्तता धारा वातोद्धूताश् च रेणवः ।

आकराः शुचयः सर्वे वर्जयित्वा सुराकरम् ॥

[१७४] शातातपः

रेणवः शुचयः सर्वे वायुना समुदीरिताः ।

अन्यत्र रासभाजाविश्वसमूहनिवाससाम् ॥

“समूहनी” मार्जनी ।

बौधायनः [२.६.३३–३४] ।

    पुररेणुकुण्ठितशरीरस् तत्परिपूर्णनेत्रवदनश् च । नगरे वसन् सुनियतात्मा सिद्धिम् अवाप्स्यतीति न तद् अस्ति ।

शातातपः

अपां नोच्छिष्टदोषो ऽस्ति मधुनो न च सर्पिषः ।

न फलानां कृषीमानां नाकराणां न योषिताम् ॥

देवलः

शुचि पूतं स्वयं शुद्धं पवित्रं चेति केवलम् ।

मेध्यं चतुर्विधं लोके प्रजानां **मनुर्** अब्रवीत् ॥

तथा

नवं वा निर्मलं वापि शुचीति द्रव्यम् उच्यते ।

शुद्धं पवित्रं पूतं च शुद्धम् इत्य् अभिधीयते ॥

स्वयम् एव हि यद् द्रव्यं केवलं मेध्यतां गतम् ।

स्थावरं जङ्गमं वापि स्वयं शुद्धम् इति स्मृतम् ॥

[१७५] अन्यद्रव्यैर् अदूष्यैर् यत् स्वयम् अन्यानि शोधयेत् ।

हव्यकव्येषु पूज्यं यत् तत् पवित्रम् इति स्मृतम् ॥

अथ सर्वाणि धान्यानि द्रव्याण्य् आभरणानि च ।

अवर्ज्यभक्ष्यजातानि शुचीन्य् एतानि केवलम् ॥

वर्जिते निर्मले द्रव्ये शुचिसञ्ज्ञा प्रवर्तते ।

तस्मिन्न् एवेह कर्मण्ये पूतसञ्ज्ञा प्रवर्तते ॥

तस्माच् छुद्धं तु कर्मण्यं शुचीत्य् आहुर् द्विजातयः ।

निर्मलः संस्कृतं द्रव्यं क्रियार्हं पूतम् उच्यते ॥

वस्तिश् चमसो यानं वाहनं साधनानि च ।

क्षुरो नैर् आसनं चेति स्वयंशुद्धम् इति स्मृतम् ॥

शिशवश् च स्वयंशुद्धा योषितश् चानृतौ तथा ।

ब्राह्मणो ऋतुकालेषु नारीभिर् नैव स्पृश्यते ॥

आक्राश् च स्वयंशुद्धा द्रव्याणाम् इति निश्चयः ।

क्रीतअं च व्यवहारिभ्यअः पण्यं शुद्धम् इति स्मृतम् ॥

अदुष्टं वाक्प्रशस्तं च स्वयंशुद्धं च केवलम् ।

त्रीण्य् एतानि विशुद्धानि भगवान् **मनुर्** अब्रवीत् ॥

[१७६] अजाश्वं मुखतो मेध्यं गावो मेध्याश् च पृष्ठतः ।

तरवः पुष्पिता मेध्या ब्राह्मणश् चैव सर्वतः ॥

तस्मात् क्षौद्रं सुवर्णं च सदर्भाः कुतपास् तिलाः ।

अपामार्गः शिरीषं च पद्यम् आमलकं मणिः ॥

माल्यानि सर्वगा दूर्वाः सभद्राश् च प्रियङ्गवः ।

अस्रुता सिकता लाजा हरिद्रा चन्दनं यवाः ॥

पलाशखदिराश्वत्थतुलसीधात्रिकीटजाः ।

एतान्य् आहुः पवित्राणि यज्ञार्थे हव्यकव्ययोः ॥

पौष्टिकानि मलघ्नानि शोधनानि च देहिनाम् ।

तेषाम् अग्निः सकृन् मृच् च पवित्राणि विशेषतः ॥

सर्वाशौचविशुद्ध्यर्थं सर्वेषां सर्वतः सदा ।

अकश्मलैः समिद्धो ऽग्निर् दुर्मनुष्यैर् (?) अदूषिताः ॥

सर्वेषाम् अप्य् अशौचानां समर्थः शोधनाय सः ।

द्रव्याणाम् अग्निदग्धानां मेध्यत्वम् उपदिश्यते ॥

ज्वालाभिः स्पृष्टमात्राणां शुचित्वं नियतं भवेत् ।

अग्नेर् वृषलभुक्तस्य ग्रहणं नास्त्य् अनापदि ॥

श्वपाकवृषअलौ भोक्तुं ब्राह्मणाग्निं च नार्हतः ।

चाण्डालाग्नेर् अमेध्याग्नेर् मृतकाग्नेश् च कर्हिचित् ॥

[१७७] पअतिताग्नेश् चिताग्नेश् च न शिष्टैर् ग्रहणं स्मृतम् ।

गोशकृच् शुद्धदेशस्थं श्मशानाद् उद्धृतं शिवम् ॥

अग्राम्या मृद् भवेच् छुद्धा शुक्रविण्मूत्रवर्जिता ।

एतानि तपनाशुद्धापवादाः ।

अथ मनु-विष्णू [मनु ५.१३२; वि। २३.५१] ।

ऊर्ध्वं नाभेर् यानि खानि तानि मेध्याअनि सर्वशः ।

यान्य् अधस्तान्य् अमेध्यानि देहाच् चैव मलाश् च्युताः ॥

बौधायनः [१.१०.१८–१९] ।

    नाभेर् अधः स्पर्शनं कर्मयुक्तो वर्जयेत् । “ऊर्ध्वं वै पुरुषस्य नाभ्यै मेध्यम् अवाचीनम् अमेध्यम्” इति **श्रुतिः** ।

उशना

    ऊर्ध्वं नाभेः पुरुषः । गौर् मेध्या च पृष्ठतः । मुखाद् अजः । स्त्रियः सर्वतः । हृदयम् आसाम् अशुचि ।

[१७८] यमः

मेध्यारजोगता नारी स्त्रीमुखेषु च वारुणी ।

स्पर्शनेन न दुष्यन्ति वातो गन्धरसाः स्तिर्यः ॥

स्त्रीणां मुखरसैश् चैव गन्धो निःश्वास एव च ।

मुखतो गौर् अमेध्या स्यान् मेध्यो ऽगो मुखतः स्मृतः ।

पृष्ठतो गौर् गजः स्कन्धे सर्वतो ऽश्वः शुचिस् तथा ॥

नृणां मूत्रपुरीषे तु अमेध्ये मल एव च ।

गोमूत्रं च पुरीषं च नित्यम् मेध्यम् इति स्थितिः ॥

बृहस्पतिः [संस्क्। २७९; आशौच्।६२–६५]

पादौ शुची ब्राह्मणानाम् अजाश्वानां मुखं शुचि ।

गवां पृष्ठाति मेध्यानि सर्वगात्राणि योषिताम् ॥

रोमोद्भेदे शशी भुङ्क्ते गन्धर्वः कुचदर्शने ।

सूर्यश् चैव रजोयोगे कन्यां भुङ्क्ते च पावकः ॥

बलात्कारोपभुक्ता वा चोरहस्तगतापि वा ।

स्वयं विप्रतिपन्ना वा अथ वा विप्रमादिता ॥

[१७९] अत्यन्तदूषितापि स्त्री न परित्यागम् अर्हति ।

सर्वेषां निष्कृतिः प्रोक्ता नारीणां तु विशेषतः ॥

स्त्रियः पवित्रम् अतुलं नैता दुष्यन्ति कर्हिचित् ।

मासि मासि रजस् तासां दुष्कृतान्य् अपकर्षति ॥

सोमः शौचं ददात्य् आसां गन्धर्वश् शुभां गिरम् ।

पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्य् अतः ॥

यमः

न स्त्री दुष्यति जारेण नाग्निर् दहनकर्मणा ।

नापो मूत्रपुरीषाभ्यां न द्विजा वेदकर्मणा ॥

गावो न दुष्यन्त्य् अमृतं वहन्त्यः

	स्त्रियो न दुष्यन्ति परोपभुक्ताः ॥

आपो न दुष्यन्ति महीतलस्था

	विद्वान् न दुष्येत् तु प्रतिग्रहेण ॥

[१८०] याज्ञवल्क्यः [१.७१–७२] ।

सोमः शौचं ददाव् आसां गन्धवश् च शुभां गिरम् ।

पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्य् अतः ॥

व्यभिचाराद् ऋतौ शुद्धिर् गर्भे त्यागो विधीयते ।

गर्भभर्तृवधादौ च तथा महति पातके ॥

यमः

बलात्कारोपभुक्ता या चोरहस्तगतापि च ।

कन्दर्पअमदमूढा वा यदि वा मद्यमोहिता ॥

स्वयं विप्रतिपन्ना वा यदि वा विप्रमादिता ।

ऋतुकाले तु शुध्येत् तु धर्मापेता च या भवेत् ॥

शुध्येत् तु रजसा नारी नदी वेगेन शुध्यति ।

पुष्पकालम् उपासीना पुंसा सह विशुध्यति ॥

शङ्खलिखितौ

    न वै स्त्रीणां व्रतं न मन्त्रक्रिया न कार्यम् इति **प्रजापतिः** । पाणिगृहीती सन्तानार्थिना परैर् अवकीर्णा न दुष्यतीति **ऋषिवादः** । ता ह्य् आर्तवेन शूध्यन्ति । न ह्य् अन्तर्वत्नी शुध्यतीति **वैवस्वतः** । **[१८१]** तअस्या आर्तवेन च शुद्ध्या अअसम्भवात् । कामानुपगमप्रवृत्तिर् अकार्यम् इति **हारीतः** । तद्व्रतत्वाद् आत्मसम्भवाच् च दोष इति **गौतमः** । चान्द्रायणम् आसां पावनम् इत्य् **आचार्याः** । प्राजापत्यो वा ।

हारीतः

    गअर्भघ्नीम् अधोवर्णगां शिष्यसुतगामिनीं पानव्यसनासक्तां धनधान्यक्षयकरीं वर्जयेच् च व्यभिचारिणीम् । व्यभिचारिणी रजसा शुध्यतीति <span style="text-decoration:underline;">एके</span> । त्यक्तभोगात्र परैर् असृज्य न दुष्यईत्य् <span style="text-decoration:underline;">अन्ये</span> ।


    	सोमो ददौ शौचम् आसां गन्धर्वाः शिक्षितां गिरम् ।


    	अग्निश् च सर्वभक्ष्यत्वं तस्माच् छुद्धतमाः स्त्रियः ॥


    इत्य् <span style="text-decoration:underline;">अपरे</span> ।

शङ्खलिखितौ

    एकव्रतस्कन्नभावत्वात् परेन्द्रियोपहतत्वाच् च दुष्टाः कुलसङ्कअरकारिण्यो भवन्ति ।

यमः

स्वच्छन्दापि हि या नारी तस्यास् त्यागो विधीयते ।

न चैव स्त्रीवधं कुर्यान् न चैवाङ्गविकर्तनम् ॥

[१८२] स्वच्छन्दव्यभिचारिण्या विवस्वान् त्यागम् अब्रवीत् ।

न बन्धनं न वैरूप्यं वधं स्त्रीणां विवर्जयेत् ॥

वसिष्ठः

चतस्रस् तु परित्याज्याः शिष्यगा गुरुगा च या ।

पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥

“जुङ्गितो” निन्दितः ।

इति महाराजाधिराजश्रीमद्गोविन्दचन्द्रदेव-

**महासान्धिविग्रहिकेण भट्टहृदयधरात्मजेन **

श्रीमल्लक्ष्मीधरेण विरचिते कृत्यकल्पतरौ

शुद्धिकाण्डः समाप्तः ।