८ तीर्थविवेचनकाण्डम्

श्रीलक्ष्मीधरविरचितकृत्यकल्पतरौ

तीर्थविवेचनकाण्डम्

मङ्गलाचरणम्

धर्मनिर्मलहेमकुम्भशिरसो यस्यामराणां गृहाः

	सङ्ख्यातीतमुमुक्षुभिक्षुपरिषन्मित्राणि सत्रालयाः ।

तीर्थेषु प्रथयन्ति धर्मनगरद्वारानुकारांस् तुलाः

	काण्डे तीर्थविवेचनं वितनुते लक्ष्मीधरः सो ऽष्टमे ॥

प्रतिज्ञा

अष्टमे तीर्थकाण्डे ऽस्मिंस् तीर्थयात्राविधिः पुरा ।

वाराणस्याश् च माहात्म्यं प्रयागस्य ततः परम् ॥

गङ्गायाश् चापि माहात्म्यं गयामाहात्म्यम् एव च ।

कुरुक्षेत्रस्य माहात्म्यं तथा पृथूदकस्य च ॥

पुष्करस्य च माहात्म्यं मधुरायास् तथैव च ।

उज्जयिन्या नर्मदायास् तथा कुब्जाम्रकस्य च ॥

शूकरस्य च माहात्म्यं तथा कोकामुखस्य च ।

बदर्याश्रममाहात्म्यं मन्दारस्य तथैव च ॥

[२] शालग्रामस्य माहात्म्यं तथैव स्तुतस्वामिनः ।

द्वारकायाश् च माहात्म्यं तथा लोहार्गलस्य च ॥

केदारस्य नैमिशस्य नानातीर्थान्य् अतः परम् ।

महापथस्य यात्रा च विस्तरेण प्रकीर्तिता ॥

चतुर्विंशतिपर्वाणि तीर्थकाण्डे कृतानि तु ।

[३]

अथ तीर्थयात्राविधिः

तत्र महाभारते

ऋषिभिः क्रतवः प्रोक्ता वेदेष्व् इह यथाक्रमम् ।

फलं चैव तथा तत्त्वं प्रेत्य चेह च सर्वशः ॥

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ।

बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥

प्राप्यन्ते पर्थिवैर् एतैः समृद्धैर् वा नरैः क्वचित् ।

नार्थन्यूनैर् अवगणैर् एकात्मभिर् असंहितैः ॥

यो दरिद्रैर् अपि विधिः शक्यः प्राप्तुं सुरेश्वरः ।

[तुल्यो यज्ञफलैः पुण्यैस् तं निबोध युधिष्ठिर] ॥

ऋषीणां परमं गुह्यम् इदं भरतसत्तम ।

तीर्थाभिगमनं पुण्यं यज्ञैर् अपि विशिष्यते ॥

अनुपोष्य त्रिरात्राणि तीर्थान्य् अनभिगम्य च ।

अदत्वा काञ्चनं गाश् च दरिद्रो नाम जायते ॥

अग्निष्टोमादिभिर् यज्ञैर् इष्ट्वा विपुलदक्षिणैः ।

[४] न तत् फलम् अवाप्नोति तीर्थाभिगमनेन यत् ॥

“अवगणैः” उक्षादिसहायरहितैः । “एकात्मभिः” पत्नीरहितैः “ “असंहतैः” ऋत्विगादिसहायरहितैः ।

तथा

यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् ।

विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते ॥

“हस्तौ संयतौ” अदत्तादानादिनिवृत्त्या, पादाव् अप्य् अगम्यदेशनिवृत्त्या । मनो ऽपि सङ्कल्पनिवृत्त्या । “विद्या” तीर्थगुणादिज्ञानम् । “तपः” तीर्थनिवासोपवासादिलक्षणम् । “कीर्तिः” सच्चरितत्वादिप्रसिद्धिः ।

[तथा]

प्रतिग्रहाद् उपावृत्तः सन्तुष्टो येन केनचित् ।

अहङ्कारविमुक्तश् च स तीर्थफलम् अश्नुते ॥

अकल्पको निरारम्भो लघ्वाहारो जितेन्द्रियः ।

विमुक्तः सर्वसङ्गैर् यः स तीर्थफलम् अश्नुते ॥

[५] “अकल्पको” दम्भरहितः । “निरारम्भो” अत्रार्थार्जनादिव्यापाररहितः ।”सर्वसङ्गैः” सङ्गो ऽत्राविहितासक्तिः ।

तथा

अकोपनश् च राजेन्द्र सत्यवादी दृढव्रतः ।

आत्मोपमश् च भूतेषु स तीर्थफलम् अश्नुते ॥

“आत्मोपमश् च भूतेषु” इति सर्वभूतहित इत्य् अर्थः ।

शङ्खः

यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् ।

विद्या तपश् च कीर्तिश् च तीर्थफलम् अश्नुते ॥

एतच् च हस्तसंयमादि तीर्थयात्राङ्गम्, महाभारते तीर्थयात्राम् उपक्रम्य वचनात् । तीर्थस्नानादिकर्माङ्गं च शङ्खेन यात्राप्रकरणम् अन्तरेणैव “स तीर्थफलम् अश्नुए” इति सामान्याभिधानात् ।

वायुपुराणे

तीर्थान्य् अनुसरन् वीरः श्रद्दधानः समाहितः ।

कृतपापश् च शुद्ध्येत किं पुनः शुद्धकर्मकृत् ॥

तिर्यग्योनिं न गच्छेच् च कुदेशे च न जायते ।

स्वर्गे भवति वै विप्रो मोक्षोपायं च विन्दति ॥

[६] अश्रद्दधानः पापात्मा नास्तिको ऽच्छिन्नसंशयः ।

हेतुनिष्ठश् च पञ्चैते न तीर्थफलभागिनः ॥

महाभारते

कामं क्रोधं च लोभं च यो जित्वा तीर्थम् आवसेत् ।

न तेन किञ्चिन् न प्राप्तं तीर्थाभिगमनाद् भवेत् ॥

तीर्थानि तु यथोक्तेन विधिना सञ्चरन्ति ये ।

सर्वद्वन्द्वसहा धीरास् ते नराः स्वर्गगामिनः ॥

“सर्वद्वन्द्वसहाः” शीतातपादिक्लेशसहिष्णवः ।

	भीष्म उवाच –

शृणु तीर्थानि गदतो मानसानि ममानघ ।

येषु सम्यङ् नरः स्नात्वा प्रयाति परमां गतिम् ॥

सत्यं तीर्थं क्षमा तीर्थं तीर्थम् इन्द्रियनिग्रहः ।

सर्वभूतदया तीर्थं तीर्थम् आर्जवम् एव च ॥

दानं तीर्थं दमस् तीर्थं सन्तोषस् तीर्थम् उच्यते ।

ब्रह्मचर्यं परं तीर्थं तीर्थं च प्रियवादिता ॥

ज्ञानं तीर्थं धृतिस् तीर्थं तपस् तीर्थम् उदाहृतम् ।

तीर्थानाम् अपि यत् तीर्थं विशुद्धिर् मनसः परा ॥

[७] न जलाप्लुतदेहस्य स्नानम् इत्य् अभिधीयते ।

स स्नातो यो दमस्नातः शुचिः शुद्धमनोमलः ॥

यो लुब्धः पिशुनः क्रूरो दाम्भिको विषयात्मकः ।

सर्वतीर्थेष्व् अपि स्नातः पापो मलिन एव सः ॥

न शरीरमलत्यागान् नरो भवति निर्मलः ।

मानसे तु मले त्यक्ते भवत्य् अन्तः सुनिर्मलः ॥

जायन्ते च म्रियन्ते च जलेष्व् एव जलौकसः ।

न च गच्छन्ति ते स्वर्गम् अविशुद्धमनोमलाः ॥

विषयेष्व् अतिसंरागो मानसो मल उच्यते ।

तेष्व् एव हि विरादो ऽस्य नैर्मल्यं समुदाहृतम् ॥

चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानैर् न शुद्ध्यति ।

शतशो ऽथ जले धौतं सुराभाण्डम् इवाशुचि ॥

दानम् इष्टं तपः शौचं तीर्थसेवा श्रुतं तथा ।

सर्वाण्य् एतान्य् अतीर्थानि यदि भावो न निर्मलः ॥

निर्गृहीतेन्द्रियग्रामो यत्रैव वसते नरः ।

तत्र तत्र कुरुक्षेत्रं नैमिशं पुष्कराणि च ॥

ज्ञानपूते ध्यानजले रागद्वेषमलापहे ।

यः स्नाति मानसे तीर्थे स याति परमां गतिम् ॥

एतत् ते कथितं राजन् मानसं तीर्थलक्षणम् ।

भौमानाम् अपि तीर्थानां पुण्यत्वे कारणं शृणु ॥

यथा शरीरस्योद्देशाः केचित् पुण्यतमाः स्मृताः ।

तथा पृथिव्याम् उद्देशाः केचित् पुण्यतमाः स्मृताः ॥

[८] प्रभावाद् अद्भुता भूमेः सलिलस्य च तेजसा ।

परिग्रहान् मुनीनां च तीर्थानां पुण्यता स्मृता ॥

तस्माद् भौमेषु तीर्थेषु मानसेषु च नित्यशः ।

उभयेषु च यः स्नाति स याति परमां गतिम् ॥

“सलिलस्य तेजसा” तोयप्रभावेण ।

ब्रह्मपुराणे

सर्वेण गाङ्गेन जलेन सम्यङ्

	मृत्पर्वतेनाप्य् अथ भावदुष्टः ।

आजन्मनः स्नानपरो ऽपि नित्यं

	न शुद्ध्य्तीत्य् एव वयं वदामः ॥

गङ्गादितीर्थेष् वसन्ति मत्स्या

	देवालये पक्षिसङ्घाश् च नित्यम् ।

भवोज्झितास् ते न फलं लभन्ते

	तीर्ताच् च देवायतनाच् च मुख्यात् ॥

भावं ततो हृत्कमले निधाय

	तीर्थानि सेवेत समाहितात्मा ।

या तीर्थयात्रा कथिता मुनीन्द्रैः

	कृता प्रयुक्ताप्य् अनुमोदिता वा ॥

तां ब्रह्मचारी विधिवत् करोति

	सुसंयतो गुरुणा सन्नियुक्तः ।

सर्वस्वनाश्ē ऽप्य् अथ वा नृपस् तु

	सद्ब्राह्मणान् अग्रत् एव कृत्वा ॥

[९] यज्ञाधिकारे ऽप्य् अथ वा निवृत्ते

	विप्रस् तु तीर्थानि परिभ्रमेत ।

तीर्थेष्व् अलं यज्ञफले हि यस्मात्

	प्रोक्तं मुनीन्द्रैर् अमलस्वभावैः ॥

यस्येष्टियज्ञेष्व् अधिकारितास्य

	वरं गृहं गृहधर्माश् च सर्वे ॥

एवं गृहस्थाश्रमसंस्थितस्य 

	तीर्थे गतिः पूर्वतरैर् निषिद्धा ।

सर्वाणि तीर्थान्य् अपि चाग्निहोत्र-

	तुल्यानि नैवेति वयं वदामः ॥

यो यः कश्चित् तीर्थयात्रां तु गच्छेत्

	सुसंयतः स च पूर्वं गृहे स्वे ।

कृतोपवासः शुचिर् अप्रमत्तः

	सम्पूजयेद् भक्तिनम्रो गणेशम् ॥

देवान् पितॄन् ब्राह्मणांश् चैव साधून्

	भीमान् पितॄन् वित्तशक्त्या प्रयत्नात् ।

प्रत्यागतश् चापि तथा पुनस् तु

	देवान् पितॄन् ब्राह्मणान् पूजयेच् च ।

एवं कुर्वतस् तस्य तीर्थाद्युदकं 

	फलं तस्मान् नात्र सन्देहम् अस्ति ॥

“भावो” विशुद्धा मनोवृत्तिः । “देवान् पितॄन्” इति तीर्थयाञां करिष्यन्तो देवपितृब्राह्मण-पूजनम् आवश्यकम् । “पितॄन् [१०] वित्तशक्त्या” इत्य् अनेन च विशेषतो धनवता पितृपूजनं कर्तव्यम् इति विधीयते ।

देवीपुराणे

तीर्थेषु ब्राह्मणं नैव परीक्षेत कथञ्चन ।

अन्नार्थिनम् अनुप्राप्तं भोज्यं तं **मनुर्** अब्रवीत् ॥

सक्तुभिः पिण्डदानं च संयावैः पायसेन तु ।

कर्तव्यम् ऋषिभिः प्रोक्तम् एषाकेन गुडेन च ॥

तिलपिण्याकं देयं तु भक्तिमद्भिर् नरैः सदा ।

श्राद्धं तत्र तु कर्तव्यम् अन्वावाहनवर्जितम् ॥

श्वध्वाङ्क्षगृध्रकाकानां नैव दृष्टिहतं च यत् ।

श्राद्धं तत् तैर्थिकं प्रोक्तं पितॄणां तुष्टिकारकम् ॥

अकाले ऽप्य् अथ वा काले तीर्थे श्राद्धं तथा नरैः ।

प्राप्तैर् एव सदा कार्यं कर्तव्यं पितृतर्पणम् ॥

पिण्डं दानं तु तच् छस्तं पितॄणां चातिवल्लभम् ।

विलम्बो नैव कर्तव्यो नैव विघ्नं समाचरेत् ॥

[११] शङ्खः

तीर्थं प्राप्यानुषङ्गेण स्नानं तीर्थे समाचरेत् ।

स्नानजं फलम् आप्नोति तीर्थयात्राफलं न तु ॥

तथा

नृणां पापकृतां तीर्थे भवेत् पापस्य सङ्क्षयः ।

[यथोक्तफलदं तीर्थं भवेच् छुद्धात्मनां नृणाम् ॥

पैठीनसिः

षोडशांशं स लभते यः परार्थेन गच्छति ] ।

अर्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति ॥

प्रकृतिं कुशमयीं तीर्थवारिणि मज्जयेत् ।

मज्जयेत् तु यम् उद्दिश्य अष्टभागं लभेत सः ॥

अत्र प्रयागव्यतिरिक्ततीर्थगमने याननिषेधप्रमाणदर्शनान् न तीर्थान्तरे यानगमने निरोधः । तीर्थोपवासश् च फलविशेषार्थः,

    तीर्थम् अभिगम्य व्रतोपवासनियमयुक्तस् त्र्यहम् अवगाहमानस् त्रिरात्रम् उषित्वा सर्वपापैः प्रमुच्यते स्वस्तिमांश् च भवति ।

इति देवलवचनात् । एकस्मिन्न् अपि दिवसे तत्तत्तीर्थविशेषप्राप्तौ बहून्य् अपि श्राद्धानि कर्तव्यानि,

अकाले ऽप्य् अथ वा काले तीर्थश्राद्धं तथा नरैः ।

प्राप्तैर् एव सदा कार्यं कर्तव्यं पितृतर्पणम् ॥

इति देवीपुराणवचनात् ।

[१२]

अथ वाराणसीमाहात्म्यम्

तत्र मत्स्यपुराणे

	ईश्वर उवाच –

वाराणसीह भुवनत्रयसारभूता

	रम्या सदा मम पुरी गिरिराजपुत्रि ।

अत्रागता विविधदुष्कृतकारिणो ऽपि

	पापक्षयाद् विरजसः प्रतिभान्ति मर्त्याः ॥

एवं स्मृतं प्रियतमं मम देवि नित्यं

	क्षेत्रं विचित्रतरुगुल्मलतासुपुष्पम् ।

अस्मिन् मृतास् तनुभृतः पदम् आप्नुवन्ति 

	मोक्षाख्यम् एव मनसापि न संशयो ऽत्र ॥

तथा

इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम ।

सर्वेषाम् एव जन्तूनां हेतुर् मोक्षस्य सर्वदा ॥

अस्मिन् सिद्धाः सदा देवि मदीयव्रतम् आस्थिताः ।

अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः ॥

[१३] “नानालिङ्गधराः” मेखलाजिनादिलिङ्गधारिणश् चत्वार आश्रमिण इत्य् अर्थः ।

तथा

मन्मना मम भक्तश् च मयि सर्वार्पितक्रियः ।

यथा मोक्षम् इहाप्नोति अन्यत्र न तथा क्वचित् ॥

तथा

विमुक्तं न मया यस्मान् मोक्ष्यते वा कदाचन ।

महत् क्षेत्रम् इदं तस्माद् अविमुक्तम् इति स्मृतम् ॥

नैमिशे च कुरुक्षेत्रे गङ्गाद्वारे च पुष्करे ।

स्नानात् संसेवनाद् वापि [न] मोक्षः प्राप्यते यतः ॥

इह सम्प्राप्यते येन तत एतद् विशिष्यते ।

प्रयागे वा भवेन् मोक्षो महाकाले ऽथ वा प्रिये ॥

अमरकण्टके तद्वत् तथा कायावरोहणे ।

कालञ्जरे महाभाग इह वा मत्परिग्रहात् ॥

प्रयागाद् अपि तीर्थाग्र्याद् इदम् एव महत् स्मृतम् ।

“इदम् एव महत् स्मृतम्” इत्य् अल्पायासेनैवात्र मोक्षप्राप्तेः ।

तथा

ध्यायतस् तत्र मां नित्यं योगाग्निर् दीप्यते भृशम् ।

कैवल्यं परमं याति देवानाम् अपि दुर्लभम् ॥

अव्यक्तलिङ्गैर् मुनिभिः सर्वसिद्धान्तवेदिभिः ।

इह सम्प्राप्यते मोक्षो दुर्लभो ऽन्यत्र कर्हिचित् ॥

[१४] तेभ्यश् चाहं प्रयच्छामि योगैश्वर्यम् अनुत्तमम् ।

आत्मनश् चैव सायुज्यम् ईप्सितं स्थानम् एव च ॥

कुबेरस् तु महायक्षस् तथा सर्वार्पितक्रियः ।

क्षेत्रसंसेवनाद् एव गणेशत्वम् अवाप ह ॥

सर्वतो भविता यश् च सो ऽपि भक्त्या ममैव तु ।

इहैवाराध्य मां देवि सिद्धिं यास्यत्य् अनुत्तमाम् ॥

पराशरसुतो योगी ऋषिर् व्यासो महातपाः ।

धर्मयुक्तो भविष्यंश् च वेदसंस्थाप्रवर्तकः ॥

वत्स्यते सो ऽपि पद्माक्षि क्षेत्रे ऽस्मिन् मुनिपुङ्गवः ।

ब्रह्मा देवर्षिभिः सर्धं विष्णुर् वायुर् दिवाकरः ॥

देवराजस् तथा शक्रस् तथान्ये त्रिदिवौकक्सः ।

उपासते महात्मानः सर्वे माम् इह सुव्रताः ॥

अन्ये च योगिनः सिद्धाश् छन्नरूपा महाव्रते ।

अनन्यमनसो भूत्वा माम् इहोपासते सदा ॥

अलर्कश् च पुरीम् एतां मत्प्रसादाद् अवाप्स्यति ।

स चैनां पूर्ववत् कृत्वा चातुर्वर्णाश्रमाकुलाम् ॥

स्फीतां जनपदाकीर्णां भुक्त्वा च सुचिरं नृपः ।

मयि सर्वार्पितप्राणो माम् एवं प्रतिपत्स्यते ॥

ततः प्रभृति चार्वङ्गि ये ऽपि क्षेत्रनिवासिनः ।

गृहिणो लिङ्गिनो वापि मद्भक्ता मत्परायणाः ॥

मत्प्रसादाद् गमिष्यन्ति मोक्षं परमदुर्लभम् ।

विषयासक्तचित्तो ऽपि त्यक्तधर्मरतिर् नरः ॥

[१५] इह क्षेत्रे मृतः सो ऽपि संसारं न पुनर् विशेत् ।

ये पुनर् निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः ॥

व्रतिनश् च निरारम्भाः सर्वे ते मयि भाविताः ।

देहभेदं समासाद्य दीप्यन्ते सङ्गवर्जिताः ॥

गता एव परं मोक्षं प्रसादान् मम सुव्रताः ।

जन्मान्तरसहस्रेषु युञ्जन् योगी यम् आप्नुयात् ॥

तम् इहैव परं मोक्षं मरणाद् अधिगच्छति ।

एतत् सङ्क्षेपतो देवि क्षेत्रस्यास्य महत् फलम् ॥

अविमुक्तस्य कथितं मया ते गुह्यम् उत्तमम् ।

“इहैव” जन्मनीति शेषः ।

तथा

अविमुक्ते परा सिद्धिर् अविमुक्ते परा गतिः ।

जप्तं दत्तं हुतं चेष्टं तपस् तप्तं कृतं च यत् ॥

दानम् अध्ययनं सर्वं यथा भवति चाक्षयम् ।

जन्मान्तरसहस्रेण यत् पापं पूर्वसञ्चितम् ॥

अविमुक्तं प्रविष्टस्य तत् सर्वं व्रजति क्षयम् ।

अविमुक्ताग्निना दग्धम् अग्नौ तूलम् इवाहितम् ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसङ्कराः ।

कृमिम्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः ॥

कीटाः पिपीलिकाश् चैव ये चान्ये मृगपक्षिणः ।

कालेन निधनं प्राप्ता अविमुक्ते शृणु प्रिये ॥

चन्द्रार्धमौलिनः सर्वे ललाटाक्षा वृषध्वजाः ।

शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥

[१६] अकामो वा सकामो वा अपि तिर्यग्गतो ऽपि वा ।

अविमुक्ते त्यजन् प्राणान् मम लोके महीयते ॥

अविमुक्ते यदा गच्छेत् कदाचित् कालपर्ययात् ।

अश्मना चरणौ भित्त्वा तत्रैव निधनं व्रजेत् ॥

तथा

याति तीर्थानि श्रूयन्ते त्रिषु लोकेषु विश्रुते ।

अविमुक्तस्य पादे तु नित्यं सन्निहितानि वै ॥

तथा

आ देहपतनाद् यावत् तत् क्षेत्रं यो न मुञ्चति ।

ब्रह्मचर्यव्रतैः सम्यक् सम्यग् इष्टं मखैर् भवेत् ॥

तथा

यस् तत्र निवसेद् विप्रः संयतात्मा समाहितः ।

त्रैकाल्यम् अपि भुञ्जानो वायुभक्षः सदा भवेत् ॥

निमेषमात्रम् अपि यो ह्य् अविमुक्ते तु भक्तिमान् ।

[ब्रह्मचर्यसमायुक्तः स परं प्राप्नुयात् तपः ॥

तत्र मासं वसेद् वीरो लघ्वाहारो जितेन्द्रियः ।]

सम्यक् तेन व्रतं चीर्णं दिव्यं पाशुपतं महत् ॥

जपन् मृत्युभयं तीर्त्वा स याति परमां गतिम् ।

नैःश्रेयसीं गतिं पुण्यां तथा योगगतिं भजेत् ॥

न हि योगगतिर् लभ्या जन्मान्तरशतैर् अपि ।

प्राप्यते क्षेत्रमाहात्म्यात् प्रभावाच् छङ्करस्य च ॥

[१७] “नैःश्रेयसी गतिः” विशिष्टादेहप्राप्तिर् मोक्षानुकूला ।

ब्रह्महा यो ऽभिगच्छेत् तु अविमुक्तं कदाचन ।

तस्य क्षेत्रस्य माहात्य्माद् ब्रह्महत्या निवर्तते ॥

आ देहपतनाद् यावत् तत् क्षेत्रं यो न मुञ्चति ।

न केवलं ब्रह्महत्या प्राकृतश् च निवर्तते ॥

[प्राप्य विश्वेश्वरं देवं न स भूतो विजायते ।]

“प्राकृतः” संसारबन्धः ।

अनन्यमानसो भूत्वा यो ऽविमुक्तं न मुञ्चति ।

तस्य देवः सदा तुष्टः सर्वान् कामान् प्रयच्छति ॥

द्वारं यत् साङ्ख्ययोगानां स तत्र वसति प्रभुः ।

सगुणो हि भवेद् देवो भक्तानाम् अनुकम्पया ॥

अविमुक्तं परं क्षेत्रम् अविमुक्ते परा गतिः ।

अविमुक्ते परा सिद्धिर् अविमुक्ते परं पदम् ॥

अविमुक्तं निषेवेत देवर्षिगणसेवितम् ।

यदीच्छेन् मानवो धीरो न पुनर्जन्म आत्मनः ॥

मेरोः शक्या गुणा वक्तुं द्वीपानां च तथैव च ।

समुद्राणां च सर्वेषां नाविमुक्ते तु शक्यते ॥

अन्तकाले मनुष्याणां छिद्यमानेषु मर्मसु ।

वायुना प्रेर्यमाणानां स्मृतिर् नैवोपजायते ॥

अविमुक्ते ह्य् अन्तकाले भक्तानाम् ईश्वरः स्वयम् ।

कर्मभिः प्रेयमाणानां कर्णजापं प्रयच्छति ॥

ईश्वरप्रेरितो याति दुष्प्रापम् अकृतात्मभिः ।

अशाश्वतम् इदं ज्ञात्वा मानुष्यं बहुकिल्बिषम् ॥

[१८] अविमुक्तं निषेवेत संसारभयमोचनम् ।

भोगमोक्षप्रदं दिव्यं बहुपापविनाशनम् ॥

विध्नैर् आलोड्यमानो ऽपि यो ऽविमुक्तं न मुञ्चति ।

न मुञ्चति जरामृत्युं जन्म चैतद् अशाश्वतम् ॥

अविमुक्तप्रसादात् तु शिवसायुज्यम् आप्नुयात् ।

तथा

[यदि पापी यदि शवो यदि वा धार्मिको नरः ।

मुच्यते सर्वपापेभ्यः अविमुक्तं व्रजेद् यदि ॥

तथा ।]

सर्वगुह्योत्तमं स्थानं मम प्रियतमं शुभम् ।

धन्याः प्रविष्टाः सुश्रोणि मम भक्ता द्विजातयः ॥

मद्भक्तिपरमा नित्यं नान्यभक्ताश् च ये नराः ।

अस्मिन् प्राणान् परित्यज्य गच्छन्ति परमां गतिम् ॥

सदा यजति सत्त्रेण सदा दानं प्रयच्छति ।

सदा तपस्वी भवति अविमुक्ते स्थितो नरः ॥

यो मां प्रयजते नित्यं तस्य तुष्याम्य् अहं प्रिये ।

सर्वदानानि यो दद्यात् सर्वयज्ञेषु दीक्षितः ॥

सर्वतीर्थाभिषेकी च स प्रपद्येत माम् इह ।

अविमुक्तं सदा देवि ये व्रजन्ति सुनिश्चिताः ॥

ते तिष्थन्तीह सुश्रोणि मम भक्तास् त्रिविष्टपे ।

मत्प्रसादात् तु ते देवि दीप्यन्ते शुभलोचने ॥

[१९] दुर्धर्षा दुर्धराश् चैव भवन्ति विगतज्वराः ।

तथा

अविमुक्ते यजन्ते तु मद्भक्ताः कृतनिश्चयाः ।

न तेषां पुनरावृत्तिः कल्पकोटिशतैर् अपि ॥

[तथा]

अविमुक्तं गता ये वै महापुण्यकृतो नराः ।

अक्षरा ह्य् अजराश् चैव अदेयाश् च भवन्ति ते ॥

मत्प्रसादाद् वरारोहे माम् एव प्रविशन्ति ते ।

शाकपर्णाशिनो दान्ताः सम्प्रक्षाला मरीचिपाः ॥

दन्तोलूखलिनश् चैव अश्मकुट्टास् तथा परे ।

“सम्प्रक्षालाः” सद्यःप्रक्षालकाः श्वस्तनभक्षरहिताः ।

मासि मासि कुशाग्रेण जलम् आस्वादयन्ति ये ।

वृक्षमूलनिकेताश् च शिलाशय्यास् तथापरे ॥

आदित्यवपुषः सर्वे जितक्रोधा जितेन्द्रियाः ।

एवं बहुविधैर् अन्यैर् अन्यत्र चरितव्रताः ॥

त्रैकाल्यम् अपि भुञ्जाना ये ऽविमुक्तनिवासिनः ।

तपश् चरन्ति चान्यत्र कलां नार्हन्ति षोडशीम् ॥

ये ऽविमुक्ते वसन्तीह स्वर्गे च प्रविशन्ति ते ।

[२०] मत्समः पुरुषो नास्ति त्वत्समा नास्ति योषिताम् ॥

अविमुक्तसमं क्षेत्रं न भूतं न भविष्यति ।

अविमुक्ते परो योगो ह्य् अविमुक्ते परा गतिः ॥

अविमुक्ते परो मोक्षः क्षेत्रं नैवास्ति तादृशम् ।

परं गुह्यं प्रवक्ष्यामि तत्त्वेन वरवर्णिनि ॥

अविमुक्ते महाक्षेत्रे यद् भुक्तं हि मया पुरा ।

जन्मान्तरशतैर् देवि योगो ऽयं यदि लभ्यते ॥

मोक्षः शतसहस्रेण जन्मना लभ्यते न वा ।

अविमुक्ते वसेद् देवि मद्भक्तः कृतनिश्चयः ॥

एकेन जन्मना सो ऽपि योगं मोक्षं च विन्दति ।

तथा

क्षेत्रे मूर्तः सदा धर्मस् तस्मिन् सन्निहितः प्रिये ।

चतुर्णाम् अपि वर्णानां गतिस् तु परमा स्मृता ॥

तथा

स्वर्णशृङ्गीं रौप्यखुरां चैलकण्ठां पयस्विनीम् ।

वाराणस्यां तु यो दद्याद् आकर्णायतलोचने ॥

गां दत्वा तु वरारोहे ब्राह्मणे वेदपारगे ।

आसप्तमं कुलं तेन पावितं नात्र संशयः ॥

यो दद्याद् ब्राह्मणे कुञ्चित् तस्मिन् क्षेत्रे वरानने ।

कनकं रजतं वस्त्रम् अन्नाद्यं बहु विस्तरम् ॥

[२१] अक्षयं चाव्ययं चैव स्यात् तत्रस्थं सुलोचने ।

शृणु तत्त्वेन तीर्थस्य विभूतिं व्युष्टिम् एव च ॥

तत्र स्नाता महाभागे भवन्ति विरजा जनाः ।

दशानाम् अश्वमेधानां यज्ञानां यत् फलं भवेत् ॥

तद् अवाप्नोति धर्मात्मा तत्र स्नात्वा वरानने ।

स्वल्पम् अल्पं च यो दद्याद् ब्राह्मणे वेदपारगे ॥

शुभां गतिम् अवाप्नोति अग्निवच् चैव दीप्यते ।

तथा

उपवासं तु यः कृत्वा विप्रान् सन्तर्पयेन् नरः ।

स सौत्रामणियज्ञस्य फलं प्राप्नोति मानवः ॥

एकाहारस् तु यस् तिष्ठेन् मासं तत्र वरानने ।

यावज्जीवकृतं पापं मासेनैकेन नश्यति ॥

अग्निप्रवेशं ये कुर्युर् अविमुक्ते विधानतः ।

प्रविशन्ति सुखं ते मां न पुनर् भाविनो जनाः ॥

कुर्वन्त्य् अनशनं ये तु मद्भक्ताः कृतनिश्चयाः ।

न तेषां पुनरावृत्तिः कल्पकोटिशतैर् अपि ॥

अर्चयेद् यस् तु मां देवि अविमुक्ते वरानने ।

तस्य धर्मं प्रवक्ष्यामि यावद् आप्नोति मानवः ॥

दश सौवर्णिकं पुणं यो ऽविमुक्ते प्रयच्छति ।

अग्निहोत्रफलं धूपे गन्धदानेन तच् छृणु ॥

[२२] भूमिदानेन तत्तुल्यं गोप्रदानफलं स्मृतम् ।

सम्मार्जने पञ्चशतं सहस्रम् अनुलेपने ॥

मालाशतसहस्रं तु अनन्तं गीतवादनम् ।

ब्रह्महत्यापहं तीर्थं क्षेत्रम् एतन् मया कृतम् ॥

श्मशानम् एतद् भद्रं ते वरं च वरवर्णिनि ।

कालो भूत्वा जगद् इदं संहरामि सृजामि च ॥

देवेशि सर्वगुह्यानां स्थानं प्रियत्मं मम ।

मद्भक्तास् तत्र गच्छन्ति विष्णुभक्तास् तथैव च ॥

ये भक्ता भास्करे देवि लोकनाथे दिवाकरे ।

अत्रस्थो यस् त्यजेद् देहं माम् एव प्रविशेत् तु सः ॥

तथा

ज्ञाने विहितनिष्ठानां परमानन्दम् इच्छताम् ।

या गतिर् विहिता सद्भिः साविमुक्ते मृतस्य तु ॥

भवस्य प्रीतिर् अतुला त्व् अविमुक्ते ह्य् अनौपमा ।

असङ्ख्येयं फलं तत्र ह्य् अक्षया च गतिर् भवेत् ॥

परं गुह्यं समाख्यातं श्मशानम् इति सञ्ज्ञितम् ।

अविमुक्तं न सेवन्ते वञ्चितास् ते नरा भुवि ॥

अविमुक्ते स्थितैः पुण्यैः पांसुभिर् वायुनेरितैः ।

स्पृष्ट्वा दुष्कृतकर्माणो यास्यन्ति परमां गतिम् ॥

अविमुक्तगुणान् वक्तुं देवदानवमानवैः ।

न शक्यन्ते ह्य् अमेयत्वात् स्वयं यत्र भवः स्थितः ॥

[२३] नानाहिताग्निर् नायज्वा नाशुचिस् तस्करो ऽपि वा ।

अविमुक्ते वसेद् यस् तु स वसेद् ईश्वरालये ॥

न तत्रापुण्यकृत् कश्चित् प्रभावाद् ईश्वरस्य तु ।

अज्ञानाज् ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ॥

यत् किञ्चिद् अशुभं कर्म कृतं मानुषबुद्धिना ।

अविमुक्ते प्रविष्टस्य तत् सर्वं भस्मसाद् भवेत् ॥

तथा

दृष्ट्वैतान् दीनकृपणान् पापान् दुष्कृतकारिणः ।

देवो ऽनुकम्पया सर्वान् नयत्य् आशु परां गतिम् ॥

भक्तानुकम्पी भगवांस् तिर्यग्योनिगतान् अपि ।

भगवांस् तत्र नयति यत्र यान्ति न याज्ञिकः ॥

तथा

न सा गतिः कुरुक्षेत्रे गङ्गाद्वारे न पुष्करे ।

या गतिर् विहिता पुंसाम् अविमुक्तनिवासिनाम् ॥

तिर्यग्योनिगताः सत्त्वा ये ऽविमुक्तकृतालयाः ।

कालेन निधनं प्राप्तास् ते ऽपि यान्ति परां गतिम् ॥

मेरुमन्दरमात्रो ऽपि राशिः पापस्य कर्मणः ।

अविमुक्तं समासाद्य तत्क्षणाद् व्रजति क्षयम् ॥

श्मशानम् इति विख्यातम् अविमुक्तं शिवालयम् ।

तद् गृहं देवदेवस्य तत् तीर्थं तत् तपोवनम् ॥

तत्र ब्रह्मादयो देवा नारायणपुरोगमाः ।

योगिनश् च तथा साध्या भगवन्तं सनातनम् ॥

[२४] उपासते शिवं भक्त्या मद्भक्ता मत्परायणाः ।

या गतिर् ज्ञानतपसां या गतिर् यज्ञयागिनाम् ॥

अविमुक्ते मृतानां तु सा गतिर् विहिता शुभा ।

तथा

आदित्योपासनं कृत्वा विप्राश् चामरतां गताः ।

अन्ये ऽपि तत्र ये वर्णा भवभक्ताः समाहिताः ॥

अविमुक्ते विमुक्तास् ते यास्यन्ति परमां गतिम् ।

अष्टौ मासान् विहारः स्याद् यतीनां संयतात्मनाम् ॥

एकत्र चतुरो मासान् अर्धं च निवसेत् पुनः ।

अविमुक्ते प्रविष्टानां विहारस् तु न विद्यते ॥

न दोषो ऽभिभवेत् तत्र दृष्टं शास्त्रे पुरातने ।

मोक्षो ऽप्य् असंशयस् तत्र पञ्चत्वं तु गतस्य वै ॥

स्त्रियः पतिव्रता याश् च भवभक्ताः समाहिताः ।

अविमुक्ते विमुक्तास् ता यास्यन्ति परमां गतिम् ॥

अन्या याः कामचारिण्यः स्त्रियो भोगपरायणाः ।

कालेन निधनं प्राप्तास् ताश् च यान्ति परां गतिम् ॥

यत्र योगश् च मोक्षश् च प्राप्यते दुर्लभो नरैः ।

अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् ॥

सर्वात्मना तपः सत्यं प्राणिनां नात्र संशयः ।

अविमुक्ते वसेद् यस् तु मम तुल्यो भवेन् नरः ॥

यतो मया न विमुक्तम् अविमुक्तं ततः स्मृतम् ।

अविमुक्तं न सेवन्ते मूढा ये तामसा नराः ॥

[२५] विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः ।

कामः क्रोधो ऽतिलोभश् च दम्भः स्तम्भो ऽतिमत्सरः ॥

निद्रा तन्द्रा तथालस्यं पैशुन्यम् इति ते दश ।

अविमुक्ते स्थिता विघ्नाः शक्रेण विहिताः स्वयम् ॥

विनायकोपसर्गश् च सततं मूर्ध्नि तिष्ठति ।

पुण्यम् एतद् भवेत् सर्वं भक्तानाम् अनुकम्पया ॥

परं गुह्यम् इति ज्ञात्वा ततः शास्त्रानुदर्शनात् ।

व्याहृतं देवदेवैस् तु मुनिभिस् तत्त्वदर्शिभिः ॥

मेधसा विप्लुता भूमिर् अविमुक्ते तु वर्जिता ।

पूता समभवत् सर्वा महादेवेन रक्षिता ॥

संस्कारस् तेन क्रियते भूमेर् अप्य् अत्र सूरिभिः ॥

“स्तम्भो” गर्वः । “अतिमत्सरः” अत्यन्ताभ्यसूया । “पैशुन्यम्” अन्यदोषावहम् ।

तथा

तं वै प्राप्य महादेवम् ईश्वराध्युषितं शुभम् ।

अविमुक्तं कृतार्थो ऽस्मीत्य् आत्मानम् उपलक्षयेत् ॥

ऋषिदेवासुरगणैर् जपहोमपरायणैः ।

यतिभिर् मोक्षकामैश् च अविमुक्तं निषेव्यते ॥

नाविमुक्ते मृतः कश्चिन् नरकं याति किल्बिषी ।

ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥

[२६] तथा

भूलोके चान्तरिक्षे च दिवि तीर्थाणि यानि च ।

अतीत्य वर्तते सर्वान्य् अविमुक्तं प्रभावतः ॥

ये तु ध्यानं समासाद्य युक्तात्मानः समाहिताः ।

सन्नियम्येन्द्रियग्रामं जपन्ति शतरुद्रियम् ॥

अविमुक्ते स्थिता नित्यं कृतार्थास् ते द्विजातयः ।

तथा

हन्यमानो ऽपि यो विद्वान् वसेद् विघ्नशतैर् अपि ।

स याति परमं स्थानं यत्र गत्वा न शोचति ॥

जन्ममृत्युजरायुक्तः परं याति शिवालयम् ।

अपुनर्मरणानां या सा गतिर् मोक्षकाङ्क्षिणाम् ॥

यां प्राप्य कृतकृत्यः स्याद् इत्थं मन्यन्ति पण्डिताः ॥

तथा

न दानैर् न तपोभिश् च न यज्ञैर् नापि विद्यया ।

प्राप्यते गतिर् इष्टा हि याविमुक्ते तु लभ्यते ॥

नानावर्णा विवर्णाश् च चण्डाला ये जुगुप्सिताः ।

किल्बिषैः पूर्णदेहाश् च प्रकृष्टैः पातकैस् तथा ॥

भेषजं परमं तेषाम् अविमुक्तं विदुर् बुधाः ।

[२७] जात्यन्तरसहस्रेषु अविमुक्ते म्रियेत यः ॥

भक्तो विश्वेश्वरे नित्यं न स भूयो ऽभिजायते ।

अत्र चेष्टं हुतं दत्तं तपस् तप्तं कृतं च यत् ॥

सर्वम् अक्षयम् एतस्मिन्न् अविमुक्ते न संशयः ।

कालेनोपरतिं याति भवसायुज्यम् अक्षयम् ॥

कृत्वा पापसहस्राणि पश्चात् सन्तापम् एत्य वै ।

यो ऽविमुक्तं न विमुञ्चेत् स याति परमां गतिम् ॥

उत्तरं दक्षिणं वापि अयनं न विकल्पयेत् ।

सर्वस् तत्र शुभः कालो ह्य् अविमुक्ते म्रियेत यः ॥

न तत्र कालो मीमांस्यः शुभो वा यदि वाशूभः ।

तस्य देवस्य माहात्म्यात् स्थाणोर् वा ऽद्भुतकर्मणः ॥

सर्वेषाम् एव नाथस्य सर्वेषां च विभोः स्वयम् ।

तथा

न हि योगाद् ऋते मोक्षः प्राप्यते भुवि मानवैः ।

अविमुक्ते तु वसतां योगो मोक्षश् च सिध्यति ॥

अनेन जन्मनैवेह प्राप्यते गतिर् उत्तमा ।

एष एव प्रभावो ऽस्ति क्षेत्रस्य परमेश्वरि ॥

एकेन जन्मना देवि मोक्षं यास्यत्य् अनुत्तमम् ।

अविमुक्तेन वसता व्यासेनामिततेजसा ॥

नैव लब्धा क्वचिद् भिक्षा भ्राम्यमाणेन यत्नतः ।

[२८] क्षुधाविष्टस् ततः क्रुद्धो ऽचिन्तयच् छापम् उत्तमम् ॥

“मा भूत् त्रिपुरुषी विद्या मा भूत् त्रिपुरुषं धनम् ।

मा भूत् त्रिपुरुषं राज्यं व्यासो वाराणसीं शपत् ॥

अविमुतेन वसतां जनानां पुण्यकर्मणाम् ।

विघ्नं सृजामि सर्वेषां येन सिद्धिर् न विद्यते” ॥

व्यासचित्तं तदा ज्ञात्वा देवदेव उमापतिः ।

व्यासस्य दर्शनं दत्वा कृत्वा वेषं तु मानुषम् ॥

[“एह्य् एहि भगवन् साधो भिक्षां ग्राहय सत्तम ।

अस्मद्गृहे कदाचित् त्वं नागतो ऽसि महामुने” ॥

एतच् छ्रुत्वा प्रीतमना भिक्षां ग्रहीतुम् उद्यतः ।]

भिक्षां दत्वा तु व्यासाय षड्रसाम् अमृतोपमाम् ॥

अनास्वादितपूर्वा सा भक्षिता मुनिना ततः ।

भिक्षां व्यासस् ततो भुक्त्वा चिन्तयन् हृष्टमानसः ॥

व्यासः कमलपत्राक्षि इदं वचनम् अब्रवीत् ।

देवो देवी नदी गङ्गा मिष्टम् अन्नं शुभा मतिः ॥

वाराणस्यां विशालाक्ष वासः कस्य न रोचते ।

एवम् उक्त्वा ततो व्यासो नगरीम् अवलोकयन् ॥

चिन्तयंश् चापि तां भिक्षां हृदयानन्दकारिणीम् ।

अपश्यत् पुरतो देवं देवीं च गिरिजां तदा ॥

गृहाङ्गणस्थितं व्यासं देवदेवो ऽब्रवीद् इदम् ।

“इह क्षेत्रे न वस्तव्यं क्रोधनस् त्वं महामुने ॥

एवं समयम् आपन्नो देवं व्यासो ऽब्रवीद् वचः ।

	व्यास उवाच ।

चतुर्दश्यां तथाष्टम्यां प्रवेशं दातुम् अर्हसि ।

[२९] एवम् अस्त्व् इत्य् अनुज्ञाय तत्रैवान्तरधीयत ॥

न तद् गृहं न सा देवी न देवो ज्ञायते क्वचित् ।

एवं त्रैलोक्यविख्यातः पुरा व्यासो महातपाः ॥

ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस् तस्यैव पार्श्वतः ।

एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं शंसन्ति पण्डिताः ॥

तथा

तपांसि यानि पठ्यन्ते व्रतानि नियमाश् च ये ।

सर्वतीर्थाभिषेकं तु सर्वदानफलानि च ॥

सर्वयज्ञेषु यत् पुण्यम् अविमुक्ते तद् आप्नुयात् ।

अतीतं वर्तमानं च ज्ञानाद् अज्ञानतो ऽपि वा ॥

सर्वं तस्य च यत् पापं क्षेत्रं दृष्ट्वा विनश्यति ।

शान्तैर् दान्तैस् तपस् तप्तं यत् किञ्चिद् धर्मसञ्ज्ञितम् ॥

सर्वं चैतद् अवाप्नोति अविमुक्ते जितेन्द्रियः ।

अविमुक्तं समासाद्य लिङ्गम् अर्चयते नरः ॥

[कल्पकोटिशतैश् चापि नास्ति तस्य पुनर्भवः ।

अमरा ह्य् अक्रियाश् चैव क्रीडन्ति भवसन्निधौ ॥

क्षेत्रं तीर्थोपनिषदम् अविमुक्तं न संशयः ।

“तीर्थोपनिषदम्” तीर्थानां रहस्यम् एतद् इत्य् अर्थः ।

अविमुक्ते महादेवम् अर्चयन्ति स्तुवन्ति वै ॥

सर्वपापविमुक्तास् तु ते तिष्ठन्त्य् अजरामराः ।

सर्वकामस्य ये यज्ञाः पुनरावर्तकाः स्मृताः ॥

अविमुक्ते मृता ये च सर्वे ते ह्य् अनिवर्तकाः ।

ग्रहनक्षत्रताराणां कालेन पतनाद् भयम् ॥

अविमुक्ते मृतानां तु पतनं नैव विद्यए । ]

[३०] कल्पकोटिसहस्रैस् तु कल्पकोटिशतैर् अपि ॥

न तेषां पुनरावृत्तिर् ये मृताः क्षेत्र उत्तमे ।

संसारसागरे घोरे भ्रमन्तः कालपर्ययात् ॥

अविमुक्तं समासाद्य गच्छन्ति परमां गतिम् ।

ज्ञात्वा कलियुगे घोरं हाहाभूतम् अचेतनम् ॥

अविमुक्तं न मुञ्चन्ति कृतार्थास् ते नरा भुवि ।

अविमुक्तं प्रविष्टस् तु यदि गच्छेत् ततः पुनः ॥

तदा हसन्ति भूतानि अन्योन्यकरताडनैः ।

कामक्रोधेन लोभेन ग्रस्ता ये भुवि मानवाः ॥

निष्क्रमन्ते नरा देवि दण्डनायकमोहिताः ।

तथा

उद्देशमात्रं कथिता अविमुक्तगुणास् तथा ।

समुद्रस्येव रत्नानाम् अविमुक्तस्य विस्तरः ॥

ब्रह्मपुराणे

	ब्रह्मोवाच ।

अविमुक्तं च भवतः स्थानं यद् वै पुरातनम् ।

कपालमोचनं तीर्थं तत्र तत्र भविष्यति ॥

अहं च त्वं स्थितस् तत्र विष्णुश् चापि गमिष्यति ।

दर्शणाद् भवतस् तत्र महापातकिनश् च ये ॥

ते ऽपि भोगं समश्नन्ति विशुद्धा भवने मम ।

वरणा चाप्य् असिश् चैव द्वे नद्यौ सुरवल्लभे ॥

अन्तराले तयोः क्षेत्रं धरण्यां न विशेत् क्वचित् ।

[३१] तीर्थानां प्रथमं तीर्थं क्षेत्राणां प्रथमं तव ।

आ देहपतनाद् ये तु क्षेत्रं सेवन्ति मानवाः ॥

ते मृता हंसयानेन दिव्यं यान्त्य् अकुतोभयाः ।

पञ्चक्रोशप्रमाणं तु क्षेत्रं दत्तं मया तव ॥

क्षेत्रमध्ये यदा गङ्गा गमिष्यति सरित्पतिम् ।

तेन सा महती पुण्या पुरी रुद्र भविष्यति ॥

पुण्या चोदङ्मुखी गङ्गा प्राची चैव सरस्वती ।

उदङ्मुखी योजने द्वे गच्छते जाह्नवी नदी ॥

तत्र ते विबुधाः सर्वे मया सह सबान्धवाः ।

तत्रैव वस्तुम् एष्यन्ति कपालं तत्र मोचय ॥

तस्मिम्श् तीर्थे तु मे गत्वा पिण्डदानेन वै पितॄन् ।

श्राद्धैस् तु प्रीणयिष्यन्ति तेषां लोको ऽक्षयो दिवि ॥

वाराणस्यां महातीर्थे नरः स्नात्वा विमुच्यते ।

[सप्तजन्मकृतात् पापाद् गमनाद् एव मुच्यते ॥]

तत् तीर्थं सर्वतीर्थानाम् उत्तमं परिकीर्तितम् ।

त्यजन्ति तत्र ये प्राणान् प्राणिनः संयतास् तथा ॥

रुद्रवत् ते समासाद्य मोदन्ते भवता सह ।

तत्र चाण्व् अपि यद् दत्तं दानं रुद्ररतात्मनाम् ॥

महाफलं च तत् तेषां कुरुते भावितात्मनाम् ।

खण्डस्फुटितसंस्कारं तत्र कुर्वन्ति ये नराः ॥

ते रुद्रलोकम् आसाद्य मोदन्ते सुखिनः सदा ।

तत्र पूजा जपो होमः कृतो भवति देहिनाम् ॥

अनन्तफलदाः सर्वे रुद्रभक्तिसमन्वितैः ।

तत्र दीपप्रदानेन ज्ञानचक्षुरतीन्द्रियम् ॥

[प्राप्नोति धूपदानेन स्थानं रुद्रनिषेवितम् ।

सुश्वेतं तरुणं सौम्यं रूपवत् सुरभीयुतम् ॥

[३२] पश्वाङ्किचा (?) मोचयति स याति परमां गतिम् ।]

पितृभिः सहितो मोक्षं गच्छत्य् अत्र न संशयः ॥

अथ किं बहुनोक्तेन यद् दानं क्रियते नरैः ।

धर्मकामार्थम् उद्दिश्य तद् अनन्तफलं भवेत् ॥

स्वर्गापवर्गयोर् हेतुस् तद् धि तीर्थतमं भुवि ।

स्नानं जप्यं तथा होमं ह्य् अनन्तफलसाधनम् ॥

गत्वा वाराणसीतीर्थे यस् तु चान्द्रायणं चरेत् ।

यस् तत्र पञ्चतां याति मोक्षं याति न संशयः ॥

वसवः पितरो ज्ञेया रुद्राश् चैव पितामहाः ।

आदित्यास् तु तथा तेषां विहिताः प्रपितामहाः ॥

त्रिविधपिण्डदानाय विधिर् उक्तो मयानघ ।

मनुष्यैः पिण्डदानादि कार्यम् अत्रागतैः सदा ॥

पिण्डदानं च तत्रैव सुपुत्रैः कार्यम् आदरात् ।

सुपुत्राश् च पितॄणां तु भवन्ति सुखदायकाः ॥

आदितीर्थं भव मया दर्शनात् तव मुक्तिदम् ।

स्नातस् तु सलिले तत्र मुच्यते भवबन्धनात् ॥

विमुक्तो ब्रह्महत्यायास् तिष्ठ रुद्र यथासुखम् ।

अविमुक्ते मया दत्ते तिष्थ त्वं भार्यया सह ॥

लिङ्गपुराणे

	ईश्वर उवाच ।

अन्यच् च ते प्रवक्ष्यामि उपायज्ञानसाधनम् ।

यानि तीर्थानि चोक्तानि **व्योमतन्त्रे** पुरा मया ॥

तेषाम् अध्यधिकं तीर्थम् अविमुक्तं महामुने ।

[३३] सर्वतीर्थानि च मया तस्मिन् स्थाने प्रतिष्ठिताः ॥

न कदाचिन् मया मुक्तं स्थानं च सततं मुने ।

सर्वतीर्थमयं पुण्यं गुह्याद् गुह्यतरं महत् ॥

स्थानानां चैव सर्वेषाम् आदिभूतं महेश्वरम् ।

यत्र सिद्धिं परां प्राप्ता मुनयो मुनिसत्तम ॥

अनेनैव शरीरेण प्राप्ता निर्वाणम् उत्तमम् ।

तत्र चैव तु सम्भूतो ज्ञानं प्राप्नोति मानवः ॥

तथा

गच्छ वाराणसीं शीघ्रं यत्र देवः सनातनः ।

देवताभिः समस्ताभिस् तत्र देवः पिनाकधृक् ॥

स्तूयते वरदो देवैर् ब्रह्मादिभिर् अभीक्ष्णशः ।

तत्रासिर् वरणा चैव निम्नगे सिद्धसेविते ॥

बहुजन्माप्तपापानां दुष्टानां देहिनां भुवि ।

क्षालनं कुरुते देवि सा नदी यत्र जाह्नवी ॥

[या दृशा सर्वथा स्वर्गे सा नदीनां सरिद्वरा ।

या माता सर्वभूतानां सा गङ्गा यत्र निम्नगा ॥ ]

“दृशा” दृष्टिः ।

अविमुक्तं परं क्षेत्रं शङ्करस्य सदैव हि ।

तत्र स्थानं प्रसिद्धं च त्रैलोक्ये शूलपाणिनः ॥

निम्नगाभ्यां पुरी सा च नाम्ना वाराणसी मुने ।

कृतस्नानेन देवेन ओङ्कारे संस्थितेन वा ॥

[३४] तस्मिन् काले वरो दत्तो देवदेवेन शम्भुना ।

	देवदेव उवाच ।

ये स्मरिष्यन्ति तत् स्थानम् अविमुक्तं सदा नराः ।

निर्धूतसर्वपापास् ते भविष्यन्ति गणोपमाः ॥

आगमिष्यन्ति ये द्रष्टुं ये जना यजनेन तु ।

ते ब्रह्महत्यां मोक्ष्यन्ति भविष्यन्ति ममानुगाः ॥

विदित्वा भङ्गुरं लोकं ये ऽस्मिन् वत्स्यन्ति मे पुरे ।

अन्तकाले ऽपि वत्स्यन्ति तेषां भवति मोक्षदम् ॥

मोक्षः सुदुर्लभो यस्मात् संसारश् चातिभीषणः ।

अश्मना चरणौ भित्त्वा वाराणस्यां वसेन् नरः ॥

सर्वावस्थो ऽपि यो मर्त्यो वाराणस्यां वसेत् सदा ।

स यां गतिम् अवाप्नोति पुण्यदानैर् न सा गतिः ॥

दुर्लभा तपसा सा च मर्त्यानां मुनिसत्तम ।

तत्र विप्र व्रज शीघ्रं मनःस्थैर्यं यदीच्छसि ॥

मनसः स्थैर्यहेतुत्वं शृणुष्व गदतो मम ।

दक्षिणं चोत्तरं चैव तस्मिन् स्थाने स्थितं सदा ॥

विषुवं चैव मध्यस्थं देवानां अपि दुर्लभम् ।

कलौ युगे तु मर्त्यानां स्थानं मोक्षावहेतुकम् ॥

भक्तिम् आराधनेनैव स्नानपूजनतर्पणैः ।

चातुर्वर्ण्यविभागस्य शरीरं वैश्वरं पदम् ॥

पिङ्गला नाम या नाडी आग्रेयी सा प्रकीर्तिता ।

शुष्का सरिच् च सा ज्ञेया लोलार्को यत्र तिष्ठति ॥

इडानाम्नी च या नाडी सा सौम्या सम्प्रकीर्तिता ।

वरणा नाम सा ज्ञेया केशवो यत्र संस्थितः ॥

[३५] आभ्यां मध्ये तु या नाडी सुषुम्ना च प्रकीर्तिता ।

मत्स्योदरी च सा ज्ञेया विषुवं तत् प्रकीर्तितम् ॥

तथा

श्रुत्वा कलियुगं घोरम् अल्पायुषम् अधार्मिकम् ।

सिद्धक्षेत्रं न सेवन्ते जायन्ते च म्रियन्ति च ॥

लिङ्गरूपधरास् तीर्थे दृगिचण्डेश्वरादयः ।

अविमुक्ते स्थिताः सर्वे शुध्यन्ते पापकर्मिणः ॥

तथा

अविमुक्तं परं क्षेत्रम् अविमुक्ते परा गतिः ।

अविमुक्ते परा सिद्धिर् अविमुक्ते परं पदम् ॥

अन्तकाले मनुष्याणां भिद्यमानेषु मर्मसु ।

वायुना प्रेर्यमाणानां स्मृतिर् नैवोपजायते ॥

ये ऽविमुक्ते स्थिता रुद्रा भक्तानां प्रीतिदायकाः ।

कर्णजापं प्रयच्छन्ति दृगिचण्डेश्वरादयः ॥

तथा

अविमुक्तं महत् क्षेत्रं पुण्यकृद्भिर् निषेवितम् ।

सर्वपापक्षयकरं साक्षाच् छिवपुरं महत् ॥

श्मशानं परं विद्धि क्षेत्राणां परमं तथा ।

पाप्मानम् उत्सृजत्य् आशु प्रविष्टस् तत्र वै पुमान् ॥

[३६] तथा

वाराणस्यां तु यः कश्चित् प्रविष्टो ब्रह्मघातकः ।

तिष्ठते क्षेत्रबाह्ये तु निर्गते गृह्यते पुनः ॥

“तिष्ठते” ब्रह्महत्येति शेषः ।

तथा

लिङ्गरूपधरा मूर्ता सप्तकोट्यस् तु सर्वतः ।

अविमुक्ते स्थिता रुद्रा भक्तानां सिद्धिदायकाः ॥

स्कन्दपुराणे

ताम् उवाच सुरश्रेष्ठस् तदा देवीं गिरीन्द्रजाम् ।

मदीयं व्रतम् आस्थाय भक्तिमद्भिर् द्विजोत्तमैः ॥

यैर् यैर् योग इहाभ्यस्तस् तेषाम् एकेन जन्मना ।

क्षेत्रस्यास्य प्रभावेण भक्त्या च मम भावतः ॥

अनुग्रहो मया ह्य् एवं क्रियते मुक्तिदः सदा ।

तस्माद् इदं महत् क्षेत्रं ब्रह्माद्यैः सेव्यते मम ॥

श्रुतिमद्भिश् च विप्रेन्द्रैः संसिद्धैश् च तपस्विभिः ।

अष्टम्यां च चतुर्दश्यां पक्षयोर् उभयोर् अपि ॥

शशिभानूपरागेषु कार्तिक्यां च विशेषतः ।

सर्वपर्वसु पुण्येषु विषुवेष्व् अयनेष् च ॥

पृथिव्याः सर्वतीर्थानि वाराणस्यां तु जाह्नवी ।

उत्तरप्रवहां पुण्यां मम मौलिविनिर्गताम् ॥

पितुस् ते गिरिराजस्य शुभां हिमवतः सुताम् ।

भजन्ते सर्वतो ऽभ्येत्य तां शृणुष्व वरानने ॥

सन्निहत्य कुरुक्षेत्रं सार्धं तीर्थशतैस् तथा ।

[३७] नैमिशं पुष्करं चैव प्रयागं सपृथूदकम् ॥

सन्ध्या सप्तऋxअं चैव सर्वा नद्यः सरांसि च ।

समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः ॥

भागीरथीं समेष्यन्ति सर्वपर्वसु काशिगाम् ।

अविमुक्तेश्वरं मां च काशिस्थम् अचलात्मजे ॥

पृथिव्यां याति तीर्थानि पुण्यान्य् आयतनानि च ।

प्रविशन्ति सदाभ्येत्य पुण्ये ऽस्मिन् सर्ववर्वसु ॥

केदारे चैव यल् लिङ्गं यच् च लिङ्गं महालये ।

मध्यमेश्वरसञ्ज्ञं च तथा पशुपतिश्वरम् ॥

शङ्कुकर्णेश्वरं चैव गोकर्णौ च तथा उभौ ।

दृगिचण्डेश्वरं चैव भद्रेश्वरम् अथैव च ॥

स्थानेश्वरम् अथैकाम्रं कामेश्वरम् अजेश्वरम् ।

भैरवेश्वरम् ईशानं तथा कायावरोहणे ॥

यानि चान्यानि पुण्यानि स्थानानि मम भूतले ।

तानि सर्वाण्य् अनेकानि काशीपुर्यां विशन्ति माम् ॥

सर्वपर्वसु पुण्येषु गुह्यं चैतद् उदाहृतम् ।

तेनेह लभ्यते जन्तोर् विपन्नस्यामृतं पदम् ॥

स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे ।

सर्वयज्ञफलैस् तुल्यम् इष्टैः शतसहस्रशः ॥

सद्य एवम् अवाप्नोति किं ततः परम् उत्तमम् ।

सर्वायतनमुख्यानां दिवि भूमौ गिरिष्व् अपि ॥

नातः परतरं देवि बुद्ध्यस्वास्तीति कृत्स्नशः ।

[३८] ब्रह्मार्कवैश्वानरचक्रचन्द्रैर्

	जलेन्द्रवित्ताधिपवायुभिश् च ।

गन्धर्वयक्षोरगसिद्धसङ्घैः

	सार्धं सदा सेवितम् एतद् अग्र्यम् ॥

स्नानं ममेदं हिमशैलपुत्रि

	गुह्यं सदा क्षेत्रम् इदं सुपुण्यम् ।

विमोक्षसिद्धिं च फलं हि तत्त्वं

	सिद्धाः प्रबुद्धा मुनयो वदन्ति ॥

क्षेत्रे ऽस्मिन् निवसन्ति ये सुकृतिनो भक्ताः सदा मानवाः

	पश्यन्तो द्वयम् आदरेण शुचयः सन्तः सदा मत्पराः ।

ते मर्त्या भयदुःखपापरहिताः संशुद्धकर्मक्रिया

	भित्त्वा सम्भवबन्धजालगहनं विन्दन्ति मोक्षं परम् ॥

एवम् एतत् सुविस्तीर्णं नानावनलताकुलम् ।

जाह्नव्यालङ्कृतं पुण्यं क्षेत्रं प्रियतमं मम ॥

भागीरथीम् इहासाद्य वाराणस्यां ममास्पदे ।

अश्वमेधशतं प्राप्य ब्रह्मलोकं च विन्दति ॥

नातः पुण्यतरं देवि जातो गुह्यतमं क्वचित् ।

नातः शुभतरं किञ्चिन् नातः परतरं मम ॥

क्षेत्रं ममेदं सुरसिद्धजुष्टं

	सम्प्राप्य मर्त्यः सुकृतप्रभावात् ।

ख्यातो भवेत् सर्वसुरासुराणां

	मृतश् च यायात् परमं पदं च ॥

[३९] तथा

ब्रह्मघ्नगोघ्नगुरुतल्पगभिन्नवृत्ति-

	न्यासापहारिकुहकादिनिषिद्धवृत्तिः ।

संसारभूतदृढपाशविमुक्तदेहो

	वाराणसीं भवपुरीं समुपैति लोकः ॥

**ब्रह्मपुराणे **।

वरणा वाप्य् असिश् चैव द्वे नद्यौ सुरवल्लभे ।

अन्तराले तयोः क्षेत्रं धरण्यां न विशेत् क्वचित् ॥

मत्स्यपुराणे

द्वियोजनम् अथार्धं च तत् क्षेत्रं पश्चिमे स्मृतम् ।

अर्धयोजनविस्तीर्णं दक्षिणे ऽन्तरतः स्मृतम् ॥

वरणा च नदी यावद् यावच् छुष्कनदी भवेत् ।

एष क्षेत्रस्य विस्तारः प्रोक्तो देवेन धीमता ॥

तथा

द्वियोजनं तु तत् क्षेत्रं पूर्वपश्चिमतः स्मृतम् ।

अर्धयोजनविस्तीर्णं दक्षिणे ऽन्तरतः स्थितम् ॥

वरणा च नदी यावद् यावच् छुष्कनदी तथा ।

भीष्मचण्डीकम् आरभ्य पर्वतेश्वरम् अन्तिके ॥

ब्रह्मपुराणे

पञ्चक्रोशप्रमाणं तु क्षेत्रं दत्तं मया तव ।

[४०] यत्र चोदङ्मुखी गङ्गा प्राची वापि सरस्वती ॥

उदङ्मुखी योजने द्वे गच्छते जाह्नवी नदी ।

स्कन्दपुराणे

चतुःक्रोशं चतुर्दिक्षु क्षेत्रम् एतत् प्रकीर्तितम् ।

योजनं विद्धि चार्वङ्गि मृत्युकाले ऽमृतप्रदम् ॥

लिङ्गपुराणे

कृत्तिवाससम् आरभ्य क्रोशं क्रोशं चतुर्दिशम् ।

योजनं तत्र तत् क्षेत्रं गणै रुद्रैश् च संवृतम् ॥

तस्य मध्ये यदा लिङ्गं भूमिं भित्त्वा समुत्थितम् ।

मध्यमेश्वरनामाख्यं ख्यातं सर्वसुरासुरैः ॥

अस्माद् आरभ्य लिङ्गात् तु क्रोशं क्रोशं चतुर्ष्व् अपि ।

योजनं विद्धि तत् क्षेत्रं मृत्युकाले ऽमृतप्रदम् ॥

एवं क्षेत्रस्य सन्न्यासः पुराणे प्रिकीर्तितः ।

अस्मात् तु परतो देवि विहारो नैव विद्यते ॥

तथा लिङ्गपुराणे

	देवि उवाच ।

वाराणस्यां तु किं गुह्यं स्थानं हि च तव प्रिये ।

किं रहस्यं च लिङ्गानां के क्रादस् तत्र विश्रुताः ॥

के कूपाः कानि कुण्डानि लिङ्गानां स्थापकाश् च के ।

कस्मिन् स्थाने कृतं कर्म ज्ञाननिष्ठं प्रजायते ॥

[४१] एतद् आचक्ष्व मे सर्वं यद्य् अनुग्रहभागहम् ।

	देवदेव उवाच ।

रुचिरं स्थानम् आसाद्य अविमुक्तं तु मे गृहम् ।

न कदाचिन् मया मुक्तम् अविवुक्तं ततः स्मृतम् ॥

अनेनैव प्रकारेण अविमुक्तं तु कथ्यते ।

अविशत्तेन पापं तु कथ्यते वेदवादिभिः ॥

तेन पापेन तत् क्षेत्रं वर्जितं वरवर्णिनि ।

सिद्धाः पाशुपताः श्रेष्ठास् तन्निष्ठास् तत्परायणाः ॥

उपासते च मां नित्यं तस्मिन् स्थाने स्थिताः सदा ।

पूर्वोत्तरे दिग्विभागे तस्मिन् क्षेत्रे तु सुन्दरि ॥

सुरासुरैः स्तुतश् चाहं तत्र स्थाने यशस्विनि ।

दिव्यं वर्षसहस्रं तु स्तुतो ऽहं विविधैः स्तवैः ॥

उत्पन्नं मम लिङ्गं तु भित्त्वा भूमिं यशस्विनि ।

तेषाम् अनुग्रहार्थाय लोकानां भक्तिभावतः ॥

वाराणस्यां महादेवि तत्र स्थाने स्थितो ह्य् अहम् ।

तं दृष्ट्वा मनुजो देवि पशुपाशैर् विमुच्यते ॥

कूपस् तत्रैव संल्लग्नो महादेवस्य चैव हि ।

तत्रोपस्पर्शनाद् देवि लभेद् वागीश्वरीं गतिम् ॥

तत्र वाराणसी देवी स्थिता विग्रहरूपिणी ।

[४२] मानवानां हितार्थाय स्थिता कूपस्य पश्चिमे ॥

वाराणसीं तु यो दृष्ट्वा भक्त्या चैव नमस्यति ।

तस्य तुष्टा च सा देवी वसतिं च प्रयच्छति ॥

महादेवस्य पूर्वेण गोप्रेक्षम् इति विश्रुतम् ।

तेन दृष्टेन सुश्रोणि पूर्वोक्तं फलम् आप्नुयात् ॥

“पशुपाशैः” संसारबन्धैः । “उपस्पर्शनात्” स्नानात् । “वागीश्वरीगतिः” सारस्वतलोकप्राप्तिः । “पूर्वोक्तं फलम्” पशुपाशछेदलक्षणम् ।

स्कन्दपुराणे

गोप्रेक्षेश्वरमाहात्म्यं दृष्ट्वाभ्यर्च्य च मानवः ।

न दुर्गतिम् अवाप्नोति कल्मषैश् च विमुच्यते ॥

लिङ्गपुराणे

	ईश्वर उवाच ।

गोप्रेक्षस्योत्तरेणाथ अनसूयाख्यलिङ्गकम् ।

तं दृष्ट्वा मानवो देवि गतिं च लभते पराम् ॥

पश्चान्मुखं च तल् लिङ्गम् अनसूयाप्रतिष्ठितम् ।

अनसूयेश्वरस्याग्रे गणेश्वरम् इति स्मृतम् ॥

तेन दृष्टेन लभते गणेशस्य सलोकताम् ।

[४३] गणेश्वरात् पश्चिमेन हिरण्यकशिपुः पुरा ॥

स्थापयामास मे लिङ्गं कूपस्यैव समीपतः ।

तस्यैव पश्चिमे देवि लिङ्गं सिद्धेश्वरं स्मृतम् ॥

दर्शनाद् एव मे लिङ्गं सर्वसिद्धिप्रदायकम् ।

अन्यद् आयतनं भद्रे शृणुष्व गदतो मम ॥

वृषभेश्वरनामानं लिङ्गं तत्रैव तिष्ठति ।

पूर्वामुखं महेशानि गोप्रेक्षस्य तु नैरृते ॥

तेन दृष्टेन सुश्रोणि अभीष्टं फलम् आप्नुयात् ।

न दानैर् न तपोभिश् च न यज्ञैर् नापि विद्यया ।

प्राप्यते गतिर् इष्टा हि याविमुक्ते तु लभ्यते ॥

तथा

गोप्रेक्षस्य दक्षिणतः स्थापितं लिङ्गम् उत्तमम् ।

दधीचेश्वरनामानं सर्वकामफलप्रदम् ॥

दधीचेश्वरसामीप्ये दक्षिणे वरवर्णिनि ।

अत्रिणा स्थापितं लिङ्गं दैवम् आर्तिहरं शूभम् ॥

अत्रीश्वराद् दक्षिणतः सूर्यखण्डमुखे ऽपि च ।

मधुकैटभाभ्यां शुश्रोणि लिङ्गसंस्थापनं कृतम् ॥

तत्र पश्चान्मुखो देवि विसमन्थाः (?) प्रपठ्यते ।

पूर्वामुखं कैटभस्य लिङ्गं त्रैलोक्यविश्रुतम् ॥

गोप्रेक्षकस्य पूर्वेण लिङ्गं वै बालकेश्वरम् ।

बालकेश्वरसामीप्ये विज्वरेश्वरसञ्ज्ञितम् ॥

[४४] तेन दृष्टेन सुश्रोणि ज्वरो नश्यति तत्क्षणात् ।

विज्वरेश्वरपूर्वेण देवेश्वरम् इति श्रुतम् ॥

ईशानाभिमुखं लिङ्गं कोणे तस्य मुखानि वै ।

तेन दृष्टेन सुश्रोणि चतुर्वेदो भवेद् द्विजः ॥

वेदेश्वरस्योत्तरतः स्वयं तिष्ठति केशवः ।

क्षेत्रस्य कारणं चास्य क्षेत्रज्ञ इति चोच्यते ॥

तेन दृष्टेन सुश्रोणि सर्वं दृष्टं चराचरम् ।

तत्समीपे तु सुश्रोणि लिङ्गं मे सङ्गमेश्वरम् ॥

तेन दृष्टेन सुश्रोणि शिष्टैः सह समागमः ।

स्कन्दपुराणे

नदी वाराणसी चेयं पुण्या पापप्रमोचनी ।

क्षेत्रम् एतद् अलङ्कृत्य जाह्नव्या सह सङ्गता ॥

स्थापितं सङ्गमे चास्मिन् ब्रह्मणा लिङ्गम् उत्तमम् ।

सङ्गमेश्वरनामानं ख्यातं जयति दृश्यताम् ॥

सङ्गमे देवनद्याश् च यः स्नात्वा मनुजः शुचिः ।

अर्चयेत् सङ्गमेशं तु तस्य जन्मभयं कुतः ॥

लिङ्गपुराणे

[४५] सङ्गमेशस्य पूर्वेण लिङ्गं चैव चतुर्मुखम् ।

ब्रह्मणा स्थापितं भद्रे प्रयागम् इति कीर्त्यते ॥

तेन दृष्टेन लभते ब्रह्मणः पदम् उत्तमम् ।

तत्र सा साङ्करी देवी ब्रह्मवृक्षे ऽवतिष्ठते ॥

शान्तिं करोति सर्वेषां ये च तीर्थनिवासिनः ।

अतः परं तु संवेद्यं गङ्गावरणसङ्गमम् ॥

श्रवणद्वादशीयोगो बुधवारे यदा भवेत् ।

तदा तस्मिन् नरः स्नात्वा सन्निहत्याफलं लभेत् ॥

श्राद्धं कृत्वा तु यस् तत्र तस्मिन् काले यशस्विनि ।

तारयित्वा पितॄन् सर्वान् विष्णुलोकं स गच्छति ॥

मत्स्यपुराणे

वाराणसीजाह्नवीभ्यां सङ्गमे लोकविश्रुते ।

दत्वान्नं च विधानेन स भूयो नाभिजायते ॥

लिङ्गपुराणे

वरणायास् तटे पूर्वे कुम्भीश्वरम् इति स्मृतम् ।

कुम्भीश्वरात् तु पूर्वेण कालेश्वरम् इति स्मृतम् ॥

कालेश्वरस्योत्तरतो महातीर्थं वरानने ।

कपिलाह्रदनामानं ख्यातं सर्वसुरासुरैः ॥

तस्मिन् ह्रदे तु यः स्नानं कुर्याद् भक्तिपरायणः ।

वृषध्वजं च वै दृष्ट्वा राजसूयफलं लभेत् ।

नरकस्थास् ततो देवि पितरः सपितामहाः ।

[४६] पितृलोकं प्राप्नुवन्ति तस्मिन् श्राद्धे कृते तु वै ॥

गयायां चाष्टगुणितं पुण्यं प्रोक्तं महर्षिभिः ।

तस्मिन् श्राद्धे कृते भद्रे पितॄणाम् अनृणो भवेत् ॥

**स्कन्दपुराणे **।

कपिलाह्रदतीर्थे ऽस्मिन् स्नात्वा संयतमानसह् ।

वृषध्वजम् इमं दृष्ट्वा सर्वयज्ञफलं लभेत् ॥

लिङ्गपुराणे

पश्चिमे तु दिशाभागे महादेवस्य भामिनि ।

स्कन्देन स्थापितं लिङ्गं मम भक्त्या सुरेश्वरि ॥

तेन दृष्टेन गच्छन्ति स्कन्दस्यैव सलोकताम् ।

तत्र शाखैर् विशाखैश् च नैगमीयैश् च सुन्दरि ॥

स्थापितानि च लिङ्गानि गणैः सर्वैर् बहूनि च ।

“शाखाविशाखानैगमीयाः” गणविशेषाः ।

स्कन्देश्वरस्योत्तरतो बलभद्रप्रतिष्ठितम् ।

तेन दृष्टेन देवेशि अनन्तफलम् आप्नुयात् ॥

स्कन्देश्वराद् दक्षिणतो महालिङ्गं प्रतिष्ठितम् ।

पश्चिमाभिमुखं लिङ्गं स्थापितं नन्दिना पुरा ॥

तं दृष्ट्वा मनुजो देवि नन्दिलोकम् अवाप्नुयात् ।

नन्दीश्वरात् पश्चिमतो लिङ्गं पश्चान् मुखं स्थितम् ॥

स्वर्लीनसदृशं भद्रे नन्दिपित्रा प्रतिष्ठितम् (?) ।

शिलाक्षेश्वरनामानं सुरसङ्घैः प्रपूजितम् ॥

[४७] अन्यत् तत्र तु विख्यातं हिरण्याक्षेश्वरं विभुम् ।

हिरण्याक्षेण दैत्येन स्थापितं मम भक्तितः ॥

हिरण्याख्यस्य सामीप्ये अन्यैर् देवैः सहस्रशः ।

स्थापितानि च लिङ्गानि भक्त्या चैव फलार्थिभिः ॥

अन्यद् वै देवदेवस्य स्थितं पश्चान्मुखं स्मृतम् ।

तत्र स्थाने वरारोहे हिरण्याक्षस्य दक्षिणे ॥

तेषां पश्चिमदिग्भागे अट्टहासं स्थितं शुभम् ।

मुखं लिङ्गं तु तद् देवि पश्चिमाभिमुखं स्थितम् ॥

प्रसन्नवदने देवि सर्वपातकनाशकम् ।

तं दृष्ट्वा मानवो देवि ऐशानं लोकम् आप्नुयात् ॥

अट्टहाससमीपेन पश्चिमेन यशस्विनि ।

मित्रावरुणनामानौ पूर्वद्वारे व्यवस्थितौ ॥

मित्रावरुणलोकस् तु तयोः सन्दर्शनाद् भवेत् ।

अन्यत् तत्रैव विख्यातं वसिष्ठेशम् इति स्थितम् ॥

स्थापितं तत्र तल्लिङ्गं याज्ञव्ल्क्येन वै पुरा ।

चतुर्मुखं च तल्लिङ्गं सर्वपापक्षयकरम् ।

अन्यत् तत्रैव संलग्नं मैत्रेय्या स्थापितं शुभम् ।

[४८] तेन दृष्टेन लभते परं ज्ञानं सुदुर्लभम् ।

याज्ञवल्क्येश्वरस्यापि पश्चिमे पश्चिमाननम् ॥

प्रह्रादेश्वरनामानम् अद्वैतफलदायकम् ।

प्रह्रादेश्वरात् पुरतः स्वयंलीनं तु तिष्ठति ॥

स्वर्लीनेश्वरनामानं सुमहाफलदायकम् ।

ज्ञानविज्ञाननिष्ठानां परमानन्दम् इच्छताम् ॥

या गतिर् विहिता तेषां स्वर्लीने तु मृतस्य च ।

स्वर्लीनात् पुततो लिङ्गं स्थितं पूर्वमुखं शुभम् ॥

वैरोचनेश्वरं नाम स्थापितं दैत्यसूनुना ।

तस्य चैवोत्तरे देवि लिङ्गं पश्चान्मुखं स्मृतम् ॥

बलिना स्थापितं तत् तु शिवालोकपरायणम् ।

अन्यच् चैतत् स्थिरं लिङ्गं बाणेश्वर इति स्थितम् ॥

राक्षसी तु महाभीमा नाम्ना शालकटङ्कता ।

तया च स्थापितं भद्रे तस्य चोत्तरतः शुभम् ॥

अन्यद् आयतनं पुण्यं तस्मिन् स्थाने यशस्विनि ।

हिरण्यगर्भं विख्यातं पुण्यं तस्यापि दर्शनम् ॥

मोक्षेश्वरं तु तत्रैव स्वर्गेश्वरम् अतः परम् ।

एतौ दृष्ट्वा सुरेशानि स्वर्गं मोक्षं च विन्दति ॥

वासुकीश्वरनामानं तयोश् चोत्तरतः शुभम् ।

चतुर्मुखं तु तल् लिङ्गं सर्वकामफलप्रदम् ॥

तस्यैव पूर्वखण्डे तु वासुकेस् तीर्थम् उत्तमम् ।

तत्र स्नातो वरारोहे रोगैर् नैवाभिभूयते ॥

[४९] तस्यैव च समीपे तु चन्द्रेण स्थापितं शुभम् ।

चन्द्रेश्वरस्य पूर्वेण लिङ्गं विद्येश्वरं शुभम् ॥

लभेद् वैद्याधरं लोकं तस्य लिङ्गस्य दर्शनम् ।

इति लिङ्गपुराणे तृतीयो ऽद्यायः ।

**[तथा] **।

	देव्य् उवाच ।

कथं वीरेश्वरो देव एतद् इच्छामि वेदितुम् ।

कथयस्व प्रसादेन देवदेव महेश्वर ॥

	ईश्वर उवाच ।

इह आसीत् पुरा राजा नियुक्तिर् नाम विश्रुतः ।

तस्य भार्या महादेवि अरजा नाम विश्रुता ॥

एकः पुत्रस् तया जातः कालेन बहुना तदा ।

पादे द्वितीये सम्भूते मूलनक्षत्रसञ्ज्ञके ॥

मन्त्रिभिश् च तदा देवि उक्ता तत्रेशभामिनी ।

जातो ऽयं दारको देवि पापनक्षत्रसम्भवः ॥

तस्मात् त्याज्यस् तु बालो ऽयं राज्ञा चैव हितार्थिना ।

एवम् उक्ता तु सा देवि मन्त्रिभिर् हितकाम्यया ॥

ध्यात्वा चाधोमुखी दीना प्रतिपेदे महेश्वरीम् ।

प्रोवाचेदं तदा धात्रीं बालं गृह्णीष्व मा चिरम् ॥

स्वर्लीनस्योत्तरे पार्श्वे मातृभ्यश् च समर्पितम् ।

“रक्षताम् इति बालो ऽयं मम पुत्र” इति ब्रवीत् ॥

राज्ञ्यास् तु वचनं सर्वं कृतं धातृकया तदा ।

मातॄणां हि तदा बालं निक्षेप्तुम् उपचक्रमे ॥

कदाचित्कालपर्याये मातृभिः परिचिन्तितम् ।

अस्माकं पुत्रतां प्राप्त एष बालो न संशयः ॥

[५०] अस्माभिर् गन्तुम् आरब्धं खेचरीचक्रम् उत्तमम् ।

ब्रह्माणी चाब्रवीद् देवि योगपीठं तु नीयताम् ॥

योगपीठेन दृष्टेन बालो राज्यक्षमो भवेत् ।

सर्वाभिर् मातृभिश् चाथ तद्वाक्यम् अभिनन्दितम् ॥

नीतो विद्याधरं लोकं योगपीठं च दर्शितम् ।

आश्वासितो मातृगणैः स्पृष्टः तत्र स बालकः ॥

कथ्यतां पूर्ववृत्तान्तः पुत्र बालकुमारक ।

कस्य त्वं पूर्णचन्द्राभ कथं प्राप्तो ऽसि नो गृहम् ॥

एवम् उक्तस् तदा बालो न किञ्चिद् प्रत्यभाषत ।

	पञ्चमुद्रोवाच ।

यथा राज्यक्षमो बालस् तथा त्वं कर्तुम् अर्हसि ।

एवं श्रुत्वा तु तत् सर्वा मातरो ऽभिमुखाभवन् ॥

एवं भविष्यतीत्य् उक्त्वा तुष्टो वै खेचरीगणः ।

गच्छ पुत्र स्वयं राज्यं पालयस्व यथासुखम् ॥

बालेन प्रार्थिताः सर्वाः प्रजाकामेन सुन्दरि ।

यदाहं भविता चोर्व्यां सर्वलोकेषु पार्थिवः ॥

अवतारस् तदा कर्यो मद्भक्त्या परया तदा ।

एवं वै प्रार्थिताः सर्वा मातरो लोकमातरः ॥

अवतेरुर् यथायोगं कृष्णपक्षे चतुर्दशीम् ।

पञ्चमुद्रा तु बालं तम् अनयन् नगरं पुनः ॥

आगत्य च यथायोगम् अर्धरात्रे व्यवस्थितम् ।

अवतेरुस् तदा हृष्टाः पञ्चमुद्रा विमातरः ॥

बालेन पूजिताः सर्वाः प्रतिष्ठाप्य यथाविधि ।

पूजां गृहीत्वा बालस्य आकाशं तु पुनर् गताः ॥

[५१] अद्यापि दृश्यते व्योम्नि मातॄणां गणमण्डलम् ।

निरीक्ष्यते पुण्यकर्मा उत्तराभिमुखं स्थितम् ॥

यद् एतद् दृश्यते व्योम्नि मातॄणां तु समीपतः ।

आकाशलिङ्गम् इत्य् उक्तम् अयं स्वर्लीन उच्यते ॥

यथाकाशे तथा भूमौ एवं सर्वत्र दृश्यते ।

एवम् आलोक्य तं सर्वं गमने मातृमण्डलम् ॥

मातॄणां तु प्रभावेण नरो भवति सिद्धिभाक् ।

ततः प्रभृति देवेशि अस्मिन् क्षेत्रे व्यवस्थिता ॥

विपद्भियागता यस्माद् विकटा प्रोच्यते बुधैः ।

बालो वीरत्वम् आपन्नो मत्प्रसादाद् यशस्विनि ॥

बालेन चाप्य् अहं देवि अस्मिन् देशे सुखोषितः ।

इति श्रीलिङ्गपुराणे गुह्यायतनवर्णने चतुर्थो ऽध्यायः ।

	ईश्वर उवाच ।

वायव्ये तु दिशाभागे तस्य पीठस्य सुन्दरि ।

सगरेण पुरा देवि तस्मिन् देशे प्रतिष्ठितम् ॥

चतुर्मुखं तु तल् लिङ्गं सर्वपापप्रणाशनम् ।

तस्यैवोत्तरपूर्वेण नाम्ना बालीश्वरं शुभम् ॥

बालिना स्थापितं लिङ्गं कपिना सुमहात्मना ।

तं डृष्ट्वा मानवो देवि तिर्यग्योनिं न गच्छति ॥

तस्य चोत्तरदिग्भागे सुग्रीवस्य महात्मनः ।

लिङ्गं तस्य शुभं भद्रे सर्वकिल्बिषनाशनम् ॥

तथा हनुमतात्रैव स्थापितं लिङ्गम् उत्तमम् ।

[५२] सगरात् पश्चिमेनैव लिङ्गं तत्र प्रतिष्ठितम् ॥

मम भक्त्या च सुश्रोणि अश्विभ्यां परमेश्वरि ।

तस्यैवोत्तरपार्श्वे तु भद्रदोहम् इति स्मृतम् ॥

गवां क्षीरेण सञ्जातं सर्वपातकनाशनम् ।

कपिलानां सहस्रस्य सम्यग् दत्तस्य यत् फलम् ॥

तत् फलं लभते मर्त्यः स्नातस् तत्र न संशयः ।

पूर्वभाद्रपदायुक्ता पौर्णमासी यदा भवेत् ॥

तदा पुण्यतमः कालो ह्य् अश्वमेधफलप्रदः ।

ह्रदस्य पश्चिमे तीरे भद्रेश्वरम् इति स्थितम् ॥

तं दृष्ट्वा मानवो भद्रे गोलोकं लभते ध्रुवम् ।

भद्रेश्वरस्य दिग्भागे निरृते तु यशस्विनि ॥

उपशान्तशिवं नाम ख्यातं सर्वसुरासुरैः ।

उपशान्तस्य देवस्य उत्तरे वरवर्णिनि ॥

चक्रेश्वरम् इति ख्यातं सर्वदेवनमस्कृतम् ।

पश्चिमाभिमुखं देवि ह्रदस् तस्यैव चाग्रतः ॥

तस्मिन् ह्रदे नरः स्नात्वा [पूजयित्वा] महेश्वरम् ।

शिवलोकम् अवाप्नोति भावितेनान्तरात्मना ॥

तस्य पश्चिमदिग्भागे शूलेश्वरम् इति स्थितम् ।

शूलयन्त्रं पुरा न्यस्तं स्नानार्थं वरवर्णिनि ॥

ह्रदस् तत्र समुत्पन्नो देवदेवस्य चाग्रतः ।

स्नानं कृत्वा ह्रदे तस्मिन् दृष्ट्वा शूलेश्वरं प्रभुम् ॥

रुद्रलोकम् अवाप्नोति त्यक्त्वा संसारसागरम् ।

शूलेश्वरस्य पूर्वेण अन्यद् आयतनं शुभम् ॥

तप्तं तत्र तपस् तीव्रं नारदेन सुरर्षिणा ॥

[५३] स्थापितं मम लिङ्गं तु कुण्डस्य पुरतः शुभम् ।

तस्मिन् कुण्डे नरः स्नात्वा दृष्ट्वा वै नारदेश्वरम् ॥

संसारमाया या घोरा तां तरेन् नात्र संशयः ।

नारदेशस्य पूर्वेण नाम्ना धर्मेश्वरं शुभम् ॥

स्थापितं मम लिङ्गं तु कुण्डस्य पुरतः शुभे ।

वायव्ये तु दिशाभागे तस्य देवस्य सुन्दरि ॥

विनायकम् इति ख्यातं कुण्डं तत्र सुभोदकम् ।

तस्मिन् कुण्डे नरः स्नात्वा दृष्ट्वा चैव विनायकम् ॥

सर्वविघ्नविनिर्मुक्तो ह्य् अस्मिन् क्षेत्रे वसेच् चिरम् ।

विनायकस्य संलग्न उत्तरेण यशस्विनि ॥

ह्रदस् तत्र सुविख्यातो ऽमरको नाम नामतः ।

दक्षिणेन तु कुण्डस्य मुखलिङ्गं तु तिष्ठति ॥

तस्मिन् कुण्डे नरः स्नात्वा दृष्ट्वा चामरकेश्वरम् ।

अज्ञानाच् चैव यत् किञ्चिद् इह क्षेत्रे तु यत् कृतम् ॥

विलयं याति तत् सर्वं दृष्ट्वा तल् लिङ्गम् उत्तमम् ।

तस्य चोत्तरदिग्भागे नातिदूरे यशस्विनि ॥

वरणायास् तटे शुद्धे लिङ्गं तत्रैव संस्थितम् ।

वरणेश्वरं तु विख्यातं पश्चिमाभिमुखं स्थितम् ॥

तस्मिन् पाशुपतः सिद्ध अश्वपादो यशस्विनि ।

अनेनैव शरीरेण शाश्वतीं सिद्धिम् आगतः ॥

[५४] ममापि तत्र सान्निध्यं तस्मिंल् लिङ्ते यशस्विनि ।

तेन दृष्टेन सुश्रोणि गन्धर्वत्वं च विन्दति ॥

तस्य पश्चिमदिग्भागे नाम्ना शैलेश्वरं शुभम् ।

तं दृष्ट्वा मानवो देवि पूर्वोक्तं लभते फलम् ॥

दक्षिणे चापि तस्यैव कोटीश्वरम् इति स्थितम् ।

यत्र सा दृश्यते देवि विश्रुता भीष्मचण्डिका ॥

कोटितीर्थेषु यः स्नात्वा कोटीश्वरम् अथार्चयेत् ।

गवां कोटिप्रदानेन यत् फलं लभते नरः ॥

तत् फलं सकलं तस्य स्नानेनैकेन सुन्दरि ।

कोटीश्वरस्य पूर्वेण ऋषिसङ्घैः प्रतिष्ठितम् ॥

तेन लिङ्गेन दृष्टेन दृष्टं स्यात् सचराचरम् ।

इति श्रीलिङ्गपुराणे गुह्यायतनवर्णने पञ्चमो ऽध्यायः ।

	ईश्वर उवाच ।

कोटीश्वरस्य देवस्य आग्नेय्यां दिशि संस्थितः ।

श्मशानस्तम्भसञ्ज्ञेति विख्यातः सुप्रतिष्ठितः ॥

मानवास् तत्र पात्यन्ते इह यै दुष्कृतं कृतम् ।

यत्र स्तम्भे सदा देवि अहं तिष्ठामि भामिनि ॥

तत्र गत्वा तु यः पूजां मम देवि करिष्यति ।

सर्वपापविनिर्मुक्तो गच्छेच् च परमां गतिम् ॥

[५५] अन्यच् च ते प्रवक्ष्यामि महातीर्थं यशस्विनि ।

कपालमोचनं नाम त्रिषु लोकेषु विश्रुतम् ॥

कपालं पतितं तत्र स्नातस्य मम सुन्दरि ।

तस्मिन् स्नातो वरारोहे ब्रह्महत्यां व्यपोहति ॥

कपालेश्वरनामानं तस्मिंस् तीर्थे व्यवस्थितम् ।

अश्वमेधम् अवाप्नोति दर्शनात् तस्य सुन्दरि ॥

तस्यैव चोत्तरे पार्श्वे तीर्थं त्रैलोक्यविश्रुतम् ।

तत्र स्नात्वा वरारोहे ऋणैर् मुक्तो भवेन् नरः ॥

ऋणमोचनकं नाम्ना विख्यातं भुवि सुन्दरि ।

त्रीणि लिङ्गानि तिष्ठन्ति तत्रैव मम सुन्दरि ॥

तानि दृष्ट्वा तु सुश्रोणि नश्यति त्रिविधम् ऋणम् ।

दक्षिणे तु दिशाभागे तस्य तीर्थस्य सुन्दरि ॥

अङ्गारेश्वरनामानं मुखलिङ्गं व्यवस्थितम् ।

पश्चिमाभिमुखं देवि कुण्डस्य पुरतः स्थितम् ॥

अङ्गारेण यदा योगश् चतुर्थ्याम् अष्टमीषु वा ।

तीर्थे तस्मिन् नरः स्नात्वा दृष्ट्वा वै मङ्गलेश्वरम् ॥

व्याधिभिश् च विनिर्मुक्तो यत्र तत्राभिजायते ।

तस्यैव च समीपस्थम् उत्तरेण यशस्विनि ॥

लिङ्गं तु सुमहत् पुण्यं विश्वकर्मप्रतिष्ठितम् ।

पश्चिमाभिमुखं दृष्ट्वा सर्वज्ञत्वम् अवाप्नुयाम् ॥

बुधेश्वरं तु तत्रैव दृष्ट्वा भक्त्या दृढव्रतः ।

सर्वान् कामान् अवाप्नोति दृष्ट्वा देवं बुधेश्वरम् ॥

[५६] बुधेश्वराद् दक्षिणतो लिङ्गं चैव चतुर्मुखम् ।

महामुण्डेश्वरं नाम सर्वसिद्धिप्रदायकम् ॥

तस्य देवस्य पुरतः कूपस् तिष्ठति वै शुभः ।

तस्य कूपस्य सा देवी उपरिष्टात् स्थिता शुभा ॥

स्नानार्थं तत्र सा क्षिप्ता माला मुण्डमयी मया ।

तेन सम्प्रोच्यते देवि महामुण्डेति मानवैः ॥

खट्वाङ्गं तत्र वै क्षिप्रं स्नानार्थं वरवर्णिनि ।

खट्वाङ्गेश्वरनाम्ना तु स्थितं तत्रैव सुव्रते ॥

भुवनेश्वरनाम्ना तु लिङ्गं देवि फलप्रदम् ।

उत्तराभिमुखं लिङ्गं कुण्डाद् वै दक्षिणे तटे ॥

तस्मिन् कुण्डे नरः स्नात्वा दृष्ट्वा वै भुवनेश्वरम् ।

न दुर्गतिम् अवाप्नोति कल्मषैश् च विमुच्यते ॥

दक्षिणे भुवनेशस्य कुण्डम् अन्यच् च तिष्ठति ।

नाम्ना विमलम् ईशं च लिङ्गं तस्यैव पूर्वतः ॥

वैमल्यं तु नरा यान्ति तस्य लिङ्गस्य दर्शनात् ।

तत्र स्नात्वा वरारोहे मोदते दिवि दैवतैः ॥

तस्मिन् पाशुपतः सिद्धस् त्र्यम्बको नाम वै मुनिः ।

अनेनैव शरीरेण रुद्रलोकम् अवाप्नुयात् ॥

तस्याङ्गारककुण्डस्य पश्चिमेन यशस्विनि ।

महद् आयतनं पुण्यं भृगुणा स्थापितं पुरा ॥

[५७] यस् तद् आयतनं दृष्ट्वा अर्चितं स्तुतिपूर्वकम् ।

शिवलोकाच् च ते पुण्यान् न च्यवन्ति कदाचन ॥

दक्षिणेन तु तस्यैव अन्यद् आयतनं शुभम् ।

नन्दीशेश्वरनामानं देवानाम् अपि दुर्लभम् ॥

तस्य दर्शनमात्रेण व्रतं पाशुपतं लभेत् ।

तत्र सिद्धो महात्मा वै कपिलर्षिर् महातपाः ॥

त्रिकालम् आर्चयद् देवं गुहाशायी यतात्मवान् ।

एवं वर्षसहस्रेण तस्य तुष्टो ऽस्म्य् अहं प्रिये ॥

मम देवि प्रसादेन साङ्ख्यवेत्ता महायशाः ।

कपिलेश्वरस्याधस्ताद् गुहा तत्रैव संस्थिता ॥

तां गुहां वीक्षते यो वै न स पापेन लिप्यते ।

	देव्य् उवाच ।

कपिशेश्वरं कथं देवम् ओङ्कारेश्वरसञ्ज्ञितम् ।

कथयस्व प्रसादेन देवदेवं महेश्वरम् ॥

	ईश्वर उवाच ।

त्रीणि लिङ्गानि गुह्यानि वाराणस्यां मम प्रिये ।

येषां चैव तु सान्निध्यं मम चैव सुरेश्वरि ॥

एवं चान्यप्रकारेण ब्रह्मविष्णुमहेश्वराः ।

क्रमान् मात्रा समुद्दिष्टा नन्दीशस्य तु सुन्दरि ॥

अकारे च स्थितो विष्णुः पञ्चायतनसंस्थितः ।

उकारो ब्रह्मणो रूपं तस्य दक्षिणतः प्रिये ॥

नन्दीश्रेश्वरनामाहम् उत्तरेण व्यवस्थितः ।

तं च देवि तद् ओङ्कारं मम रूपं सुरेश्वरि ॥

[५८] मानवानां हितार्थाय तत्र स्थाने स्थितो ह्य् अहम् ।

मत्स्योदर्यास् तु कूले ऽहम् उत्तरे चोत्तरे प्रिये ॥

नन्दीशेश्वरनामाहम् उत्तरेण व्यवस्थितः ।

नन्दीशं परमं ब्रह्म नदीशं परमा गतिः ॥

नन्दीशं परमं स्थानं दुःखसंसारमोचनम् ।

अप्रकाश्यम् इदं कान्ते तव स्नेहात् प्रकाशितम् ॥

अन्यथा गोपनीयं तु मम भक्तिविवर्जिते ।

युगे सप्तदशे देवि कृत्वा चैकां वसुन्धराम् ॥

संहारं तु तपः कृत्वा अस्मिन् देशे समागतः ।

ओङ्कारमूर्तिम् आस्थाय त्रिभेदेन स्थितो ह्य् अहम् ॥

सर्वेषाम् एव सिद्धानां तत् स्थानं परिकीर्तितम् ।

तस्मिंल् लिङ्गं शिवः साक्षात् स्वयम् एव व्यवस्थितः ॥

पूर्वामुखं तु तं देवं सिद्धसङ्घैः प्रपूजितम् ।

ओङ्कारेश्वरनामानं देवानाम् अपि दुर्लभम् ॥

वामदेवस् तु सावर्णिर् अघोरः कपिलस् तथा ।

तत्र सिद्धिं परां प्राप्ता योगे पाशुपते स्थिताः ॥

अन्ये च ऋषयो देवा यक्षगन्धर्वगुह्यकाः ।

युगे युगे गमिष्यन्ति तस्मिन् स्थाने स्थितः सदा ॥

दिव्या हि सा परा मूर्तिः कपिलेश्वरसञ्ज्ञिता ।

कदाचिद् अस्य देवस्य दर्शने जाह्नवी प्रिये ॥

मत्स्योदरीं समायाति तत्र स्नानं तु मोक्षदम् ।

आराध्य कपिलेशं तु त्रैलोक्यपालनक्षमाः ॥

भवन्ति पुरुषा देवि मम नित्यं च वल्लभाः ।

ओङ्कारं तत् परं ब्रह्म सकलं निष्कलं स्थितम् ॥

रुद्रलोकस्य तद् द्वारं रहस्यं परिकीर्तितम् ।

कपिलेश्वरस्याधस्ताद् दक्षिणे वरवर्णिनि ॥

[५९] मत्स्योदरीं समेष्यन्ति तीर्थानि सह सागरैः ।

षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥

पक्षे पक्षे समेष्यन्ति चतुर्दश्य् अष्टमीषु च ।

मत्स्योदरीं यदा गङ्गा पश्चिमे कपिलेश्वरे ॥

समायाति महादेवि स च योगः सुदुर्लभः ।

तस्मिन् स्नानं महाभागे अश्वमेधसहस्रदम् ॥

तस्य लिङ्गस्य माहात्म्यं कपिलेशस्य कीर्तितम् ।

न कस्यचिद् अदेयं (?) गोपनीयं प्रयत्नतः ॥

तत्रैव अक्षरं ब्रह्म नादेयं परिकीर्तितम् ।

इति श्रीलिङ्गपुराणे कपिलेश्वरमाहात्म्ये ओङ्कारनिर्णयो नाम षष्ठो ऽध्यायः ।

	ईश्वर उवाच ।

तत्र स्थाने तु ये सिद्धास् तान् प्रवक्ष्याम्य् अहं पुनः ।

महापाशुपता श्रेष्ठा मम पुत्रा महौजसः ॥

अनन्यमनसः शुद्धाः सेवितो ऽहं पुरा सदा ।

शीतातपविनिर्मुक्तं प्रासादैर् उपशोभितम् ॥

कैलासपृष्ठे देवस्य यादृग् देवि गृहं शूभम् ।

तद् अभ्यधिकरूपं तु कृत्वा देवस्य मन्दिरम् ॥

सेव्यते सिद्धतुल्यैस् तु सर्वसिद्धानुकम्पिभिः ।

तदा सिद्धिर् अनुप्राप्ता निर्वाणाया गतिः पुरा ॥

कपिलेश्वरस्य चैवाग्रे लिङ्गं पश्चान् मुखं स्मृतम् ।

उद्दालक ऋषिस् तत्र सिद्धिं परमिकां गतः ॥

अन्यत् पश्चान्मुखं लिङ्गं स्थितं तत्र तथोत्तरे ।

तस्मिंल् लिङ्गे तु संसिद्धः पाराशर्यो महामुनिः ॥

[६०] अन्यत् तत्रैव संलग्ने स्थितं पश्चान्मुखं शुभम् ।

तस्मिन्न् आयतने सिद्धो महाज्ञानी हि बाष्कलिः ॥

तस्यैव तु समीपस्थं स्थितं पूर्वामुखं प्रिये ।

तत्र पाशुपतः सिद्धो भाववृत्तस् तु वै मुनिः ॥

तस्यैव पश्चिमे देवि मुखलिङ्गं तु तिष्ठति ।

तत्र सिद्धिं प्रां प्राप्त आरुणिर् नाम नामतः ॥

पश्चिमे अरुणीशस्य अन्यल् लिङ्गं तु तिष्ठति ।

अस्मिन् पाशुपताचार्यो योगसिद्धो महामुनिः ॥

अन्यत् तत्रैव संलग्नं दक्षिणे लिङ्गम् उत्तमम् ।

तत्र सिद्धिं गतो देवि कौस्तुभो नाम वै ऋषिः ॥

तस्य दक्षिणपार्श्वे तु लिङ्गं पूर्वामुखं स्थितम् ।

महापाशुपतः सिद्धः सावर्णिस् तत्र वै मुनिः ॥

तस्याग्रे तु महल् लिङ्गं स्थितं पूर्वामुखं शुभम् ।

अस्मिंल् लिङ्गे शिवः साक्षात् स्वयम् एव व्यवस्थितः ॥

ओङ्कारमूर्तिम् आस्थाय स्थितो ऽहं तत्र सुव्रते ।

चत्वारो मुनयः सिद्धास् तस्मिंल् लिङ्गे यशस्विनि ॥

वामदेवस् तु सावर्णिर् अघोरः कपिलस् तथा ।

तस्मिंल् लिङ्गे तु संसिद्धा नन्दिशस्य प्रभावतः ॥

तस्य् देवस्य चाधस्ताद् गुहा सिद्धैस् तु वन्दिता ।

श्रीमुखी नाम सा ज्ञेया योगसिद्धैस् तु सेविता ॥

तत्र पाशुपताः श्रेष्ठा मम लिङ्गार्चने रताः ।

तेषां चैव निवासार्थं सा गुहा निर्मिता मया ॥

तस्य द्वारे तु सुश्रोणि सिद्ध अघोरो महामुनिः ।

अनेनैव शरीरेण रुद्रत्वं गतवान् मुनिः ॥

[६१] तत्र गत्वा त्रिरात्रं तु क्षपयेद् एकमानसः ।

नरो वा यदि वा नारी संसारं न विशेत् पुनः ॥

अघोरेश्वरदेवस्य चोत्तरे कूपम् उत्तमम् ।

तस्योपस्पर्शनाद् देवि वाजपेयं च विन्दति ॥

इति श्रीलिङ्गपुराणे गुह्यायतनवर्णनं नाम सप्तमो ऽध्यायः ।

	ईश्वर उवाच ।

अन्यद् आयतनं वक्ष्ये वाराणस्यां सुरेश्वरि ।

यत्र साक्षात् स्वयं भद्रे रममाणं तु सर्वदा ॥

मत्स्योदरीतटे रम्ये सुरसिद्धनमस्कृते ।

रोचते मे सदा वासस् तस्मिन्न् आयतने शुभे ॥

स्थानानाम् एव सर्वेषाम् अतिरम्यं मम प्रियम् ।

यत्र पाशुपता देवि मम लिङ्गार्चने रताः ॥

मम पुत्रास् तु ते सर्वे ब्रह्मचर्येण संयुताः ।

शान्ता दान्ता जितक्रोधा सिद्धास् तत्र न संशयः ॥

लोभादिविषयासक्तो नरकाच् च निवर्तते ।

मम लिङ्गानि पुण्यानि पूजयन्ति सदात्र ये ॥

तेषां मध्ये तु तत्रैव लिङ्गं वै पश्चिमामुखम् ।

श्रीकण्ठनामविख्यातं कपिलेश्वरदक्षिणे ॥

तस्मिन् पाशुपतः सिद्धः क्रतुध्वज इति स्मृतः ।

मम चैव प्रसादेन योगैश्वर्यम् अवाप्नुयात् ॥

तस्यैव चाग्रतो भद्रे लिङ्गं पूर्वमुखं स्थितम् ।

तस्मिंल् लिङ्गे तु जाबालः सिद्धिं परमिकां गतः ॥

अपरं चैव लिङ्गं तु तस्य दक्षिणतः स्थितम् ।

ओङ्कारेश्वरनामानं देवानां अपि दुर्लभम् ॥

[६२] तत्र सिद्धिं परां प्राप्तो मुनिः कालिकवृक्षियः ।

सर्वेषाम् एव सिद्धानाम् उत्तमोत्तमसंस्थितः ॥

तस्यैव दक्षिणे भद्रे लिङ्गं पश्चान्मुखं स्थितम् ।

तस्मिंल् लिङ्गे तु संसिद्धो गार्ग्यश् च सुमहातपाः ॥

पश्चायतनम् एतं ते मया च कथितं शुभे ।

न कस्यचिन् मयाख्यातं रहस्यं परमाद्भुतम् ॥

पञ्चब्रह्मेति विख्यातम् एतद् अद्यापि सुन्दरि ।

एतस्मात् कारणाद् देवि पञ्चायतनम् उच्यते ॥

चतुराश्रमिणां पुण्यं यत् फलं प्रतिपठ्यते ।

तत् फलं सफलं प्रोक्तं पञ्चायतनदर्शनात् ॥

इदं पाशुपतं श्रेष्ठं मदीयव्रतचारिणाम् ।

योगिनां मोक्षलिप्सूनां संसारभयनाशनम् ॥

नराणाम् अल्पबुद्धीनां पापोपहतचेतसाम् ।

भेषजं परमं प्रोक्तं पञ्चायतनम् उत्तमम् ॥

तस्माद् यत्नं सदा कुर्यात् पञ्चायतनदर्शने ।

पञ्चायतनसामीप्ये कूपस् तिष्ठति सुन्दरि ॥

तस्मिन् कूप उपस्पृश्य दीक्षाफलम् अवाप्नुयात् ।

तस्मिन् दक्षिणदिग्भागे रुद्रवासः प्रकीर्तितः ॥

रुद्रस्योत्तरपार्श्वे तु पञ्चायतनदक्षिणे ।

तत्र कुण्डं महत् प्रोक्तं महापातकनाशनम् ॥

तस्मिन् कुण्डे नरः स्नात्वा अभीष्टं फलम् आप्नुयात् ।

चतुर्दश्यां यदा योग आर्द्रानक्षत्रसंयुतः ॥

तदा पुण्यतमः कालस् तस्मिन् स्नाने महाफलम् ।

तस्मिंस् तीर्थे नरः स्नात्वा दृष्ट्वा रुद्रं च भामिनि ॥

यत्र तत्र मृतो देवि रुद्रलोकं तु गच्छति ।

पूर्वामुखस्थितस् चाहं तस्मिंल् लिङ्गे महेश्वरि ॥

[६३] रुद्राणां कोटिजप्येन यत् फलं प्रतिपद्यते ।

तत् फलं लभते भद्रे तस्य लिङ्गस्य दर्शनात् ॥

रुद्रस्य च समीपे तु ऋषिभिः स्थापितानि च ।

लिङ्गानि मम सुस्रोणि सर्वकामफलानि च ॥

रुद्रस्य नैरृते भागे महालयम् इति स्मृतम् ।

दर्शाच् च पदं तस्य महाभाग्यस्य सुन्दरि ॥

तत्र स्थाने शुभे रम्ये स्वयं तिष्ठति पार्वती ।

तस्यैव चाग्रतो देवि कूपस् तिष्ठति निर्मलम् ॥

पितरस् तत्र तिष्ठन्ति ये दिव्या ये च मानुषाः ।

तस्मिन् कूप उपस्पृश्य जलं सङ्गृह्य भामिनि ॥

पिण्डस् तत्र प्रदातव्यो मम देवि पदस्पृहः ।

श्राद्धं तत्र प्रकुर्वीत अन्नाद्येनोदकेन च ॥

पिण्डः कूपे तु तत्रैव प्रक्षेप्तव्यः सुभानने ।

एवं कृत्वा तु यस् तस्मिंस् तीर्थ रुद्रमहालये ॥

एकविंशकुलोपेतो रुद्रलोकं स गच्छति ।

तत्र वैतरणी नाम् दीर्घिका पश्चिमामुखी ॥

तस्यां स्नात्वा वरारोहे नरकं न च पश्यति ।

खण्डस्फुटितसंस्कारं यस् तत्र कुरुते शूभे ॥

रुद्र्लोको ऽक्षयस् तस्य सर्वकालं यशस्विनि ।

महालयस्योत्तरेण लिङ्गानि सुमहान्ति च ॥

देवैः सर्वैर् महाभागैः स्थापितानि शुभार्थिभिः ।

पश्चिमे तु दिशाभागे रुद्रकुण्डस्य भामिनि ॥

लिङ्गं तत्र स्थितं शुभ्रं देवार्चाय प्रतिष्ठितम् ।

बृहस्पतीश्वरं नाम सर्वदुःखविनाशनम् ॥

[६४] पितृभिः स्थापितं लिङ्गं तटे कूपस्य दक्षिणे ।

तेन पूजितमात्रेण पितरस् तृप्तिम् आप्नुयुः ॥

इति श्रीलिङ्गपुराणे गुह्यायतनवर्णने ऽष्टमो ऽध्याहः ।

	ईश्वर उवाच ।

अन्यद् आयतनं श्रेष्ठं कालिपुर्यां सुरेश्वरि ।

दक्षिणेन स्थितं देवं रुद्रवासस्य सुन्दरि ॥

कामेश्वरम् इति ख्यातं सर्वकामफलप्रदम् ।

तप्तं तत्र तपस् तीव्रं कामदेवेन वै पुरा ॥

कुण्दं तद् उभयं देवि पद्मोत्पलसमन्वितम् ।

कुण्डस्यैव तटे रम्ये उत्तमे वरवर्णिनि ॥

लिङ्गं तत्र स्थितं दिव्यं पश्चिमाभिमुखं प्रिये ।

गन्धधूपनमस्कारैर् मुखवाद्यैश् च सर्वशः ॥

यो माम् अर्चयते तत्र तस्य तुष्याम्य् अहं [सदा] ।

तुष्टे तु मयि। देवेशि सर्वान् कामांल् लभेत सः ॥

ततः प्रभृति वै तस्मिन्न् अन्ये ऽपि सुरपुङ्गवाः ।

आराधयन्तो मां तस्मिंस् तीर्थं वक्तुं महातपाः ॥

यस्य यस्य यदा कामस् तत्र तं तं ददाम्य् अहम् ।

ददामि सर्वकामांश् च दर्मं मोक्षं तथैव च ॥

तस्माद् अन्ये ऽपि ये केचित् तीर्थे तस्मिन् जनाः स्थिताः ।

आराधयन्तो देवेशं कामेशं चैव सर्वदा ॥

सो यस्य् मनसः कामः तं तम् आप्नोति निश्चितम् ।

कामेश्वरसमीपे तु दक्षिणे वरवर्णिनि ॥

तत्र स्नात्वा वरारोहे रुद्रस्यानुचरो भवेत् ।

चैत्रे मासि सिते पक्षे त्रयोदश्यां तु मानवः ॥

[६५] स्नानं ये च प्रकुर्वन्ति ते कामसदृशा नराः ।

कामेश्वरं सदा लिङ्गं यो ऽर्चयतीह मानवः ॥

लभेद् विद्याधरं लोकम् एवम् एव न संशयः ।

कामेश्वरस्य पूर्वेण नाम्ना पञ्चालकेश्वरम् ॥

धनदस्य तु पुत्रेण पूजितो ऽहं सुरेश्वरि ।

क्षेत्रं मम प्रियं ज्ञात्वा तस्मिन् देशे व्यव्स्थितः ॥

आराधयति मां नित्यं मम पूजारतः सदा ।

पञ्चालेश्वरनामाहं तस्मिन् देशे व्यवस्थितः ॥

नराणां धनदानं तु करिष्यामि यशस्विनि ।

तत्र पूर्वमुखं देवि मुखलिङ्गं तु तिष्ठति ॥

पञ्चकेश्वरनामाहं तत्र देवि प्रतिष्ठितः ।

कूपस् तस्यैव चाग्रे तु पावनः सर्वदेहिनाम् ॥

तस्मिन् स्थाने स्थिता देवि अघोरेशेति नामतः ।

मानवानां हितार्थाय स्वयं तत्र व्यवस्थिता ॥

नव लिङ्गानि गुह्यानि स्थापितानि तु किन्नरैः ।

पञ्चकेश्वरपूर्वेण दिवाकरनिशाकरौ ॥

लिङ्गानि तानि पुण्यानि सर्वपापहराणि च ।

दक्षिणेन तु तस्यैव अन्धकेशेति नामतः ॥

तत्र लिङ्गं महत् पुण्यम् अन्धकेन प्रतिष्ठितम् ।

मम चैव प्रसादेन गतो ऽसौ परमां गतिम् ॥

पश्चिमे तु दिशाभागे तस्य देवस्य सुन्दरि ।

नाम्ना देवेश्वरं लिङ्गं कामकुण्डस्य दक्षिणे ॥

[६६] अहम् एव सदा भद्रे तस्मिन् स्थाने व्यवस्थितः ।

भीष्मेश्वरं तु तत्रैव सिद्धेश्वरम् अतः परम् ॥

गङ्गेश्वरं तु तत्रैव यमुनेश्वरम् एव च ।

मन्डलेश्वरं तु तत्रैव ऊर्वशीलिङ्गम् उत्तरम् ॥

अन्यानि तत्र लिङ्गानि स्थापितानि महात्मभिः ।

तानि द्र्ष्ट्वा तु मनुजः सर्वयज्ञफलं लभेत् ॥

मण्डलेश्वरसामीप्ये मुखलिङ्गं च तिष्ठति ।

शान्तेन स्थापितं लिङ्गं सर्वपापहरं शुभम् ॥

वायव्ये तु दिशाभागे द्रोणेश्वर्समीपतः ।

वालखिल्येश्वरं नाम सुखदं सर्वदेहिनाम् ॥

तच् च पश्चान्मुखं लिङ्गं कामकुण्डस्य पश्चिमे ।

वालखिल्येश्वरं दृष्ट्वा सर्वयज्ञफलं लभेत् ॥

तस्यैव चाग्रतो भद्रे मुखलिङ्गं च तिष्ठति ।

वाल्मीकेश्वरनामानं तं च दृष्ट्वा न शोचति ॥

तस्यैव कामकुण्डस्य पुरा संस्थापितं तटे ।

लिङ्गं तत्र महापुण्यं च्यवनेन प्रतिष्ठितम् ॥

तस्य दर्शनमात्रेण ज्ञानवान् जायते नरः ।

वालखिल्येश्वरस्यैव दक्षिणे वरवर्णिनि ॥

नाम्ना वातेश्वरं देवं सर्वपातकनाशनम् ।

तं दृष्ट्वा मानवो देवि वायुलोकं च गच्छति ॥

अग्नीश्वरं तु तत्रैव भरतेशं तथैव च ।

वरुणेशं तथा चैव सर्वसिद्धिप्रदायकम् ॥

एतान् दृष्ट्वा महादेवि यथेष्टां गतिम् आप्नुयात् ।

अन्यद् आयतनं पुण्यं सनकेन प्रतिष्ठितम् ॥

[६७] सनकेश्वरनामानं सर्वसिद्धामरार्चितम् ।

तेन दृष्टेन देवेशि रजसूयफलं लभेत् ॥

धर्मेश्वरं तु तत्रैव दक्षिणे वरवर्णिनि ।

नाम्ना धर्मेश्वरं देवं सर्वकामफलप्रदम् ॥

अन्यत् तत्रैव लिङ्गं तु ऋषिभिः स्थापितं पुरा ।

सनकेश्वरस्योत्तरतो नाम्ना गुरुडकेश्वरम् ॥

सिद्धिकामेन सुश्रोणि स्थापितं गरुडेन तु ।

गरुदेश्वरस्य पुरतः स्थापितं ब्रह्मसूनुना ॥

भक्त्या सनत्कुमारेण स्थापितो ऽहं वरानने ।

तेन दृष्टेन देवेशि ज्ञानवान् जायते नरः ॥

तस्यैव चोत्तरे पार्श्वे सनन्देन प्रतिष्ठितम् ।

तस्य दर्शनमात्रेण प्राप्यते सिद्धिर् उत्तमा ॥

तस्यैव दक्षिणे पार्श्वे स्थापितं ह्य् आसुरीश्वरम् ।

तथैव पञ्चशिखिना स्थापितं च माहात्मना ॥

तस्य दक्षिणापार्श्वे तु नातिदूरे व्यवस्थितम् ।

शनैश्चरेण तत्रैव मुखलिङ्गं प्रतिष्ठितम् ॥

शनैश्वरेश्वरं नाम सर्वलोकनमस्कृतम् ।

तं दृष्ट्वा मानवो देवि रोगैर् नैवाभिभूयते ॥

अन्यच् चैव महापुण्यं काशीपुर्यां महाशये ।

मार्कण्डेयस् तु विख्यातो मम चैव सदा प्रियः ॥

तस्य लिङ्गस्य चाग्रे तु पश्चिमेन यशस्विनि ।

मार्कण्देयह्रदो नाम त्रिषु लोकेषु विश्रुतः ॥

[६८] मार्कण्डेयह्रदे स्नात्वा किं भूयः परिशोचति ।

स्नानं दानं जपो होमः श्राद्धं च पितृतर्पणम् ॥

तत् सर्वम् अक्षयं तत्र भवतीति न संशयः ।

तस्मिन् कुण्डे नरः स्नात्वा दृष्ट्वा चैव चतुर्मुखम् ॥

रुद्रलोकः सदा तस्य पुनरावृत्तिदुर्लभः ।

मार्कण्डेश्वरसामीप्ये उत्तरेण यशस्विनि ॥

कूपो वाइ तिष्ठते तत्र सर्वतीर्थवरो ऽनघे ।

कूपस्य चोत्तरेणैव कुण्डमध्ये यशस्विनि ॥

कुण्डेश्वरम् इति ख्यातं सर्वसिद्धैस् तु वन्दितम् ।

दीक्षां पाशुपतीं तीर्त्वा द्वादशाक्षरेण यत् फलम् ॥

तत् फलं लभते देवि ब्रह्मणस् तु न संशयः ।

कुण्डस्य पश्चिमे तीरे लिङ्गं पश्चान्मुखं स्थितम् ॥

स्कन्देन स्थापितं देवि ब्रह्मलोकगतिप्रदम् ।

मार्कण्डेयस्य पूर्वेण नातिदूरे व्यवस्थितम् ॥

शाण्डिल्येश्वरनामानं स्थितं तत्रैव सुन्दरि ।

मुखलिङ्गं तु तं भद्रे पश्चिमाभिमुखं स्थितम् ॥

तं दृष्ट्वा मानवो देवि पशुपाशैः प्रमुच्यते ।

अस्यैव दक्षिणे पार्श्वे नाम्ना भद्रेश्वरं स्मृतम् ॥

तत्र पश्चान् मुखं लिङ्गं स्थापितं च ब्रह्मर्षिभिः ।

तेन दृष्टेन सुश्रोणि ब्राह्मण्यं लभते नरः ॥

अन्यच् चैव महादेवि प्रवक्ष्य्म्य् अनुपूर्वशः ।

यो वै पूर्वं मया तुभ्यं कपालीशः प्रवर्तितः ॥

[६९] तस्य दक्षिणदिग्भागे लिङ्गानि कथयाम्य् अहम् ।

तत्र देवी स्वयं देवी श्रीर् वै तिष्ठति सर्वदा ॥

श्रीकुण्डम् इति विख्यातं तत्र कुण्डे वरानने ।

तस्मिन् कुण्डेश्वरी देवी वरदा सर्वदेहिनाम् ॥

तत्र कुण्डे नरः स्नात्वा दृष्ट्वा देवीं महाश्रियम् ।

श्रिया न रहितः सो वै यत्र तत्राभिजायते ॥

श्रियश् चोत्तरपार्श्वे तु कपालीशस्य दक्षिणे ।

तत्र लिङ्गं महाभागे महालक्ष्म्या प्रतिष्ठितम् ॥

पूर्वाभिमुखो ऽहं तस्मिन् कुण्डस्यैव तु दक्षिणे ।

स्नात्वा कुण्डे तु वै देवि तल् लिङ्गं ह्य् अर्चयिष्यति ॥

नरो वा यदि वा नारी तस्य पुण्यफलं शृणु ।

चामरासक्तहस्ताभिः स्त्रीभिः परिवृतः सदा ॥

तिष्ठते सुविमानस्थो यावद् आभूतसम्प्लवम् ।

इह लोके यदा याति लक्ष्मीवान् रूपसंयुतः ॥

धनदान्यसमायुक्तः कुले महति जायते ।

स्वर्गलोकस्य तद् द्वारं रहस्यं देवनिर्मितम् ॥

यदा मत्स्योदरीं यान्ति देवलोकाद् दिवौकसः ।

तदा तेनैव मार्गेण स्त्रीभिः परिवृतः सुखम् ॥

तेन सा प्रोच्यते देवि महाश्रीर् वरवर्णिनि ।

एतत् तुभ्यं मया देवि रहस्यं परिकीर्तितम् ॥

तस्य विष्णुध्रुवस्यैव पश्चिमाया दिशः स्थितम् ।

स्थापितं मम लिङ्गं तु दधीचेन महर्षिणा ॥

[७०] दधीचेश्वरनामानं ख्यातं सर्वसुरासुरैः ।

तं दृष्ट्वा मनुजो देवि ऐश्वरं लोकम् आप्नुयात् ॥

दक्षिणे तु तदा तत्र गायत्र्या स्थापितं पुरा ।

गायत्र्या दक्षिणे चैव सावित्र्या स्थापितं पुनः ॥

एतौ पश्चान्मुखौ लिङ्गौ मम देवि प्रियौ सदा ।

अस्य चैव तु पूर्वेण लिङ्गं पूर्वामुखं स्थितम् ॥

मत्स्योदरीतटे रम्ये स्थितं सत्पतयेश्वरम् ।

तेन दृष्टेन सुश्रोणि उत्तमां सिद्धिं आप्नुयात् ॥

लक्ष्मीलिङ्गस्य देवेन लिङ्गं पश्चान्मुखं स्थितम् ।

उग्रेश्वरे महत् पुण्यं सर्वपापप्रणाशनम् ॥

तेन दृष्टेन सुश्रोणि भवेज् जातिस्मरो नरः ।

तस्यैव दक्षिणे देवि महत् कुण्डं व्यवस्थितम् ॥

स्नात्वा कनखले यद्वत् पुण्यम् उक्तं यशस्विनि ।

तस्मिन् कुण्डे नरः स्नात्वा फलम् आप्नोति तत्समम् ॥

दधीचेशात् पश्चिमतो नाम्ना तु धनदेश्वरम् ।

यत्र देवि तपस् तप्तं धनदेन महात्मना ॥

तत्र कुण्डं महादेवि धनदेशस्य धीमतः ।

तत्र स्नात्वा नरो देवि धनदेशं च पश्यति ॥

तस्य तुष्टः कुबेरस् तु देवत्वं सम्प्रयच्छति ।

अन्यानि तत्र लिङ्गानि स्थापितानि सुरासुरैः ॥

तानि दृष्ट्वातिपुण्यानि स्वर्गलोकं व्रजेन् नरः ।

धनदेशात् पश्चिमतो नाम्ना तु करवीरकम् ॥

[७१] तेन दृष्टेन देवेशि सिद्धिं प्राप्नोति मानवः ।

पुण्यानि तत्र लिङ्गानि स्थितानि परमेश्वरि ॥

तस्य वायव्यकोणे तु लिङ्गं पश्चान्मुखं स्थितम् ।

मारीचेश्वरनामानं सर्वपातकनाशनम् ॥

तस्य चैवाग्रतो देवि स्थापितं कुण्डम् उत्तमम् ।

तत्र स्नात्वा नरो भक्त्या भ्राजते भास्करो यथा ॥

मारीचेशात् पश्चिमतो लिङ्गम् इन्द्रेश्वरं महत् ।

पश्चिमाभिमुखं देवि कुण्डस्य तटसंस्थितम् ॥

इन्द्रेश्वराद् दक्षिणतो वापी कर्कोटकस्य च ।

तत्र वीरजले स्नात्वा दृष्ट्वा कर्कोटकेश्वरम् ॥

नागानां चाधिपत्यं तु जायते नात्र संशयः ।

कर्कोटकाद् दक्षिणतो नातिदूरे व्यवस्थितम् ॥

दृमिचण्डेश्वरं नाम् ब्रह्महतापहारकम् ।

तत्र पाशुपतः सिद्धः कौथुमिर् नाम नामतः ॥

ज्ञानं पाशुपतं प्राप्य रुद्रलोकम् इतो गतः ।

पश्चिमाभिमुखं लिङ्गं कुण्डस्योत्तरतः स्थितम् ॥

तत्र कुण्डे नरः स्थित्वा दृमिचण्डेश्वरस्य तु ।

रुद्रलोकम् अवाप्नोति त्यक्त्वा संसारसागरम् ॥

तस्य पूर्वेण देवेशि दीर्घिकायास् तटे शुभे ।

अग्नीश्वरं तु नामानं सर्वपापक्षयङ्करम् ॥

तं दृष्ट्वा मानवो देवि अग्निलोकं तु गच्छति ।

तस्यैव पूर्वदिग्भागे नाम्ना ह्य् आम्नातकेश्वरम् ॥

[७२] तं दृष्ट्वा मनुजो भद्रे रुद्रस्यानुचरो भवेत् ।

एकलिङ्गं तु तद् विद्यात् सूक्ष्मं च वरवर्णिनि ॥

तस्यैवाम्नातकेशस्य दक्षिणे नातिदूरतः ।

कुण्डं तदुद्भवं दिव्यं सुरलोकप्रदायकम् ॥

उर्वशीश्वरनामानं स्थितं पश्चान्मुखं भुवि ।

तं दृष्ट्वा मनुजो देवि गणत्वं लभते ध्रुवम् ॥

कुण्डस्य नैरृते भागे नातिदूरे कथञ्चन ।

उर्वशीशममीपे तु तालकर्णेश्वरं स्मृतम् ॥

तं दृष्ट्वा मानवो देवि चण्डस्यैति सलोकताम् ।

तस्यैव तु समीपे तु लिङ्गानि स्थापितानि च ॥

गणैस् तु मम धर्मज्ञैः श्रेष्ठानि सुमहान्ति च ।

तस्य पूर्वेण कूपस् तु तिष्ठते सुमहान् प्रिये ॥

तस्मिन् कूपे जलं स्पृश्य पूतो भवति मानवः ।

चण्डेश्वरस्य पूर्वं तु स्थितं चित्रेश्वरं शुभम् ॥

तेन दृष्टेन देवेशि चित्रस्य समतां व्रजेत् ।

चित्रेश्वरसमीपे तु स्थितं कालेश्वरं महत् ॥

तेन दृष्टेन देवेशि चित्रस्य समतां व्रजेत् ।

चित्रेश्वरसमीपे तु स्थितं कालेश्वरं महत् ॥

तेन दृष्टेन देवेशि कालं वञ्चति मानवः ।

	देव्य् उवाच ।

कथं कालेश्वरो देवः केन वा वञ्चितः प्रभुः ।

कस्मिन् स्थाने तु कः सिद्धस् तन् मे ब्रूहि सुरेश्वर ॥

[७३] ईश्वर उवाच ।

तस्मिन् स्थाने पुरा भद्रे पिङ्गाक्षो नाम वै मुनिः ।

ज्ञानस्य वक्ता पञ्चार्थे लोके पाशुपतः स्थितः ॥

तेन चैव पुरा भद्रे लिङ्गे ऽस्मिन् स प्रसादितः ।

ततो लिङ्गप्रभावेण कालं वञ्चितवान् मुनिः ॥

नान्ततो दृश्यते काल ईश्वरासक्तचेतसः ।

तत्र स्थित्वा तु सुमहत्कालं यः कालयेत् प्रजाः ॥

न तस्य क्रमितुं शक्तः कालो वै घोररूपिणः ।

ततः प्रभृति ये ऽन्ये ऽपि तस्मिन्न् आयतने स्थिता ॥

तेषां नाक्रमते कालः वर्षलक्षायुतैर् अपि ।

अन्यच् च ते प्रवक्ष्यामि रहस्यं वरवर्णिनि ॥

तस्य देवस्य चाग्रे तु कूपस् तिष्ठति वै श्रुतः ।

तत्र कालोदकं नाम उदकं देवि तिष्ठति ॥

तस्यैव प्राशनाद् देवि पूतो भवति मानवः ।

यैस् तु तत्रोदकं पीतं नरैः स्त्रीभिश् च कर्मभिः ॥

स्वयं देवेन शर्वेण त्रिशूलाङ्केन चाङ्कितः ।

न तेषां परिवर्तो वै कल्पकोटिशतैर् अपि ॥

यत् पीत्वा भवबन्धोत्थभयं मुञ्चन्ति मानवाः ।

एतद् देवि रहस्यं तु कालोदकम् उदाहृतम् ॥

[७४] दर्शनात् तस्य देवस्य महापातकिनो ऽपि ये ।

ते ऽपि भोगान् समश्नन्ति न तेषां क्रमते भवः ॥

तल् लिङ्गं सर्वलिङ्गानाम् उत्तमं परिकीर्तितम् ।

दर्शनात् तस्य लिङ्गस्य रुद्रत्वं याति मानवः ॥

तत्र वापि हि यद् दत्तं दानं रुद्ररतात्मनाम् ।

तद् वै महाफलं तेषां यच्छते भावितात्मनाम् ॥

खण्डस्फुटितसंस्कारं तत्र कुर्वन्ति ये नराः ।

रुद्रलोकं समासाद्य मोदन्ते सुखिनः सदा ॥

सिद्धिलिङ्गाश्रमं भग्नं दृष्ट्वा राज्ञे निवेदयेत् ।

स्वतो वा परतो वापि ये कुर्वन्ति यथा तथा ॥

ते भोगानां नराः पात्रम् अन्ते मोक्षस्य भाजनाः ।

मोक्षप्रदायिनः लिङ्गं यत्कार्यार्थस्य लिप्सया ॥

राजप्रतिग्रहासक्ताः कृतकान् पूजयन्ति ये ।

ते रुद्रशापनिर्दग्धाः पतन्ति नरके ध्रुवम् ॥

ये पुनः सिद्धिलिङ्गानां प्रासादानां स्वशक्तितः ।

कुर्वन्ति पूजां सत्कारं ते मुक्ता नात्र संशयः ॥

कालेश्वरे तु यो देवि नरः कारयते पुरम् ।

एकविंशकुलोपेतो रुद्रलोके वसेच् चिरम् ॥

तत्र पूजा जपो होमः कालेशे क्रियते हि यत् ।

तत्र दीपप्रदानेन ज्ञानचक्षुर् भवेन् नरः ॥

प्राप्नोति धूपदानेन तत् स्थानं रुद्रसेवितम् ।

[७५] जागरं ये प्रकुर्वन्ति कालेशस्यैव चाग्रतः ॥

ते मृता वृषभारूढाः शूलहस्तास् त्रिलोचनाः ।

भूत्वा रुद्रसमा भद्रे रुद्रलोकं तु ते गताः ॥

बहुनात्र किम् उक्तेन कालेशे देवि यत् कृतम् ।

तत् सर्वम् अक्षयं देवि पुनर् जन्मनि जन्मनि ॥

एतत् ते सर्वम् आख्यातं भूयो विस्तरतो मया ।

न कस्यचिद् इहाख्यातं गोपनीयं प्रयत्नतः ॥

कालेश्वरस्य देवस्य शिवस्यायतनं शुभम् ।

कालेश्वरसमीपे तु दक्षिणे वरवर्णिनि ॥

मृत्युना स्थापितं लिङ्गं सर्वरोगविनाशनम् ।

कूपस्य चोत्तरे भागे महालिङ्गानि सुव्रते ॥

एकं दक्षेश्वरं नाम द्वितीयं कश्यपेश्वरम् ।

पश्चान्मुखं तु यल् लिङ्गं तद् दक्षेश्वरसञ्ज्ञकम् ॥

दक्षेश्वरस्य पूर्वेण महाकालस् तु तिष्ठति ।

कुण्डे स्नानं नरः कृत्वा महाकालं तु यो ऽर्चयेत् ॥

अर्चितं तेन सुश्रोणि जगद् एतच् चराचरम् ।

दक्षिणस्यां दिशि तथा तस्य कुण्डस्य वै तटे ॥

स्थापितं देवलिङ्गं तु अन्तकेन महात्मना ।

महत्फलम् अवाप्नोति तस्य लिङ्गस्य दर्शनात् ॥

अन्तकेश्वरसामीप्ये लिङ्गं वै दक्षिणे स्थितम् ।

शक्रेश्वरेति नामानं स्थापितं शक्रहस्तिना ॥

[७६] तस्यैव दक्षिणे भागे मातलीश्वरम् उत्तमम् ।

संस्थापितं मातलिना सर्वसौख्यप्रदायकम् ॥

देवस्य चाग्रतः कुण्डे तत्र तीर्थं वरानने ।

हस्तिपालेश्वरस्याग्रे कुण्डे तिष्ठति भामिनि ॥

तप्तं यत्र पुरा भद्रे अन्तकेनान्तकारिणा ।

हस्तीश्वरस्य पूर्वेण लिङ्गं पूर्वामुखं स्थितम् ॥

विजयेश्वरनामानं सुरसिद्धैस् तु पूजितम् ।

महाकालस्य कुण्डं तु उत्तरे वरवर्णिनि ॥

वालिनाराधितश् चाहं तस्मिन् स्थाने तु पार्वति ।

बलिकुण्डं तु विख्यातं वाराणस्यां मम प्रियम् ॥

तस्य कुण्डस्य पूर्वेण लिङ्गं स्थापितवान् बलिः ॥

इति श्रीलिङ्गपुराणे गुह्यायतनवर्णनं नाम नवमो ऽध्यायः ।

तथा ।

विद्याविघ्नेश्वरा रुद्राः शिवा ये च प्रकीर्तिताः ।

कृत्तिवासेश्वरो यत्र तत्र सर्वे व्यवस्थिताः ॥

तस्मिन् स्थाने महादैत्यो हस्ती भूत्वा ममान्तिकम् ।

तस्य कृत्तिं विदार्याशु करिणं स्वं जनप्रभम् ॥

वासं तु कृतवान् पूर्वं कृत्तिवासस् ततो ह्य् अहम् ।

अविमुक्ते स्थितश् चाहं तस्मिन् स्थाने महामुने ॥

[७७] लिङ्गं दारुवणे गुह्यम् ऋषिसङ्घैस् तु पूजितम् ।

पश्चिमाभिमुकश् चाहं तस्मिन्न् आयतने स्थितः ॥

अन्तकेश्वरलिङ्गं तु मम चाग्रे स्थितं शुभम् ।

उत्तरे मम लिङ्गं तु स्थापितं शक्रहस्तिना ॥

मातलीश्वरलिङ्गं तु दक्षिणेन स्थितं मम ।

मम पूर्वेण कूपस् तु नानासिद्धिसमन्वितः ॥

अणिमाद्यास् तथाष्टौ च सिद्धयस् तत्र संस्थिताः ।

तथा

ये ते पाशुपतास् तत्र मध्यमेश्वरसंस्थिताः ।

तेषाम् अनुग्रहार्थं च कृत्तिवासाः स्थितः पुरा ॥

रुद्राणां तु शरीरं तु मध्यमेश्वरम् ईश्वरम् ।

कृत्तिवासाः शिवः प्राहुर् एतद् गुह्यतरं मम ॥

अन्ये च बहवः सिद्धा ऋषयस् तत्र संस्थिताः ।

उपासन्ति च मां नित्यं मद्भावगतमानसाः ॥

वाराणस्यां प्रमुच्यन्ते ये जनास् तत्र संस्थिताः ।

कृमिकीटाः प्रमुच्यन्ते महापातकिनश् च ये ॥

स्मरणाद् विप्र लिङ्गस्य पापं वै भस्मसाद् भवेत् ।

तथा

कृत्तिवासेश्वरं लिङ्गं ये यजन्ति शुभान्विताः ।

ते रुद्रस्य शरीरे तु प्रविष्टा अपुनर्भवाः ॥

[७८] अनेनैव शरीरेण प्राप्ता निर्वाणम् उत्तमम् ।

बहूनि तत्र तीर्थानि सङ्ख्या कर्तुं न शक्यते ॥

दशकोटिसहस्राणि तीर्थान्य् अत्रैव वै मुने ।

कृत्तिवासेश्वरो यत्र तत्र सर्वे व्यवस्थिताः ॥

तस्मिंल् लिङ्गे तु सान्निध्यं त्रिकालं नात्र संशयः ।

ब्रह्मविष्णुसुरेन्द्राणाम् अप्रकाश्यं कृतं मया ॥

यत्र तीर्थान्य् अनेकानि कृतानि बहुभिर् द्विजैः ।

पुलस्त्याद्यैर् महाभागैर् लोमशाद्यैर् महात्मभिः ॥

कृत्तिवासेश्वरं लिङ्गं न जानन्ति सुरासुराः ।

	भृगुर् उवाच ।

कृते त्रेताद्वापरे च कलौ च परमेश्वरम् ।

महागुह्यातिगुह्यं च संसारार्णवतारकम् ॥

केन कार्येण देवेश त्वयेदं न प्रकाशितम् ।

कृत्तिवासेश्वरं लिङ्गम् अविमुक्ते तु संस्थितम् ॥

	ईश्वर उवाच ।

दशकोटिसहस्राणि आगच्छन्ति दिने दिने ।

धर्मक्रियाविनिर्मुक्ताः सत्यशौचविवर्जिताः ॥

देवद्विजगुरून् नित्यं निन्दन्तो भक्तिवर्जिताः ।

मायामोहसमायुक्ता दम्भमोहसमन्विताः ॥

[७९] शूद्रान्ननिरता विप्रा विह्वला रतिलालसाः ।

कृत्तिवासेश्वरं प्राप्य ते सर्वे विगतज्वराः ॥

संसारभयनिर्मुक्ताः सर्वपापविवर्जिताः ।

सुखेन मोक्षम् आयान्ति यथा सुकृतिनस् तथा ॥

दिव्यैर् विमानैर् आरूधाः किङ्किणीरवकान्वितैः ।

देवानां भुवनं लभ्यं ते यान्ति परमं पदम् ॥

जन्मान्तरसहस्रेण मोक्षो लभ्येत वा न वा ।

एकेन जन्मना तत्र कृत्तिवासे तु लभ्यते ॥

पूर्वजन्मकृतं पापं तस्य लिङ्गस्य दर्शनात् ।

तत्र सिद्धेश्वरं नाम मुखलिङ्गं तु संस्थितम् ॥

अन्तकेश्वरदेवस्य स्थितं चैवोत्तरेण तु ।

आलयं सर्वसिद्धानां तत् स्थानं परमं महत् ॥

अव्ययं शाश्वतं दिव्यं विरजं ब्रह्मणालयम् ।

शक्तिमूर्तिस्थितं शान्तं शिवं परमकारणम् ॥

अव्यक्तं शाश्वतं सूक्ष्मं सूक्ष्मात् सूक्ष्मतरं महत् ।

**तथा **।

	ईश्वर उवाच ।

एतद् दारुवनस्थानं कलौ देवस्य गीयते ।

परस्परं तु यज् ज्ञानं मोक्षमार्गप्रदायकम् ॥

प्राप्यते द्विजशार्दूल कृत्तिवासे न संशयः ।

कृते तु त्र्यम्बकं प्रोक्तं त्रेतायां कृत्तिवाससम् ॥

[८०] माहेश्वरं तु देवस्य द्वापरे नाम गीयते ।

हस्तिपालेश्वरं नाम कलौ सिद्धैस् तु गीयते ॥

दण्डिरूपधरेणैव देवदेवेन शम्भुना ।

द्विजेष्व् अनुग्रहश् चात्र तत्र स्थाने कृतः पुरा ॥

युगे युगे तु तत्त्वज्ञा ब्राह्मणाः शान्तचेतसः ।

उपासते च मां नित्यं जपन्ति शतरुद्रियम् ॥

आ देहपतनाद् विप्रास् तस्मिन् क्षेत्र उपासकाः ।

जपन्ति रुद्राध्यायं ते स शिवः कृत्तिवाससम् ॥

तेषां देवः सदा तुष्टो दिव्यान् लोकान् प्रयच्छति ।

ये ते जप्ता मया रुद्राः शङ्कुकर्णालये पुरा ॥

ते ऽविमुक्ते तु तिष्ठन्ति कृत्तिवासे न संशयः ।

द्वारं यत् साङ्ख्ययोगानां सा तेषां वसतिः स्मृता ॥

तथा

श्यामास् तु पुरुषा रौद्रा वैद्युता हरिपिङ्गलाः ।

अशरीराः शरीरा ये ते च सृष्टा मया पुरा ॥

नीलकण्ठाः श्वेतमुखा बिम्बोष्ठाश् च कपर्दिनः ।

हरित्केशाः शृङ्गिणश् च लम्बोष्ठास् तिग्महेतयः ॥

असङ्ख्याः परिसङ्ख्यातास् तथान्ये च सहस्रशः ।

ते ऽविमुक्ते तु तिष्ठन्ति कृत्तिवाससमीपतः ॥

रुद्राणां तु शिवो ज्ञेयं कृत्तिवासेश्वरं परम् ।

तेन तैः प्रेरिता यान्ति दुष्प्रापम् अकृतात्मभिः ॥

[८१] अशाश्वतम् इदं ज्ञात्वा मानुष्यं बहुकिल्बिषम् ।

अविमुक्ते तु वस्तव्यं जप्तव्यं शतरुद्रियम् ॥

कृत्तिवासेश्वरो देवो द्रष्टव्यश् च पुनः पुनः ।

यदीच्छेत् तारकं ज्ञानं शाश्वतं चामृतप्रदम् ॥

एतत् सर्वं प्रकर्तव्यं यदीच्छेन् मामकं पदम् ।

तथा

गजवक्त्रः स्वयम्भूतस् तिष्ठत्य् अत्र विनायकः ।

कूष्माण्डराजशम्भुश् च जयन्तश् च मदोत्कटः ॥

सिंहव्याघ्रमुखाः केचिद् विकटाः कुब्जवामनाः ।

यत्र नन्दी महाकालः चित्रघण्टो महेश्वरः ॥

दृमिचण्डेश्वरश् चैव घण्टाकर्णो महाबलः ।

एते चान्ये च बहवो गणा रुद्रेश्वराय वै ॥	

रक्षन्ति सततं सर्वे अविमुक्तं हि मे गृहम् ।

अयनं तूत्तरं ज्ञेयं दृमिचण्डेश्वरं मम ॥

दक्षिणं शङ्कुकर्णं तु ओङ्कारं विषुवं मम ।

दशकोट्यस् तु तीर्थानां संविशन्त्य् अथ पर्वणि ॥

रहस्यं विप्रमन्त्राणां गोपनीयं प्रयत्नतः ।

यच् च पाशुपतं प्रोक्तं पदं सम्यङ् निषेवितम् ॥

पूजनात् तद् अवाप्नोति षण्मासाभ्यन्तरेण तु ।

[८२] ममैव प्रीतिर् अतुला तस्मिन्न् आयतने सदा ॥

अन्ये च बहवस् तत्र सिद्धलिङ्गाश् च सुव्रते ।

सर्वेषाम् एव स्थानानां तत् स्थानं तु ममाधिकम् ॥

ज्ञात्वा कलियुगं घोरम् अप्रकाश्यं कृतं मया ।

न सा गतिः प्राप्यते यज्ञदानैस्

	तीर्थाभिषेकैर् न तपोबिर् उग्रैः ।

अन्यैश् च धर्मैर् विविधैः शुभैर् वा

	या कृत्तिवासे तु जितेन्द्रियैश् च ॥

तथा

दर्शनाद् देवदेवस्य ब्रह्महापि प्रमुच्यते ।

स्पर्शने पूजने चैव सर्वयज्ञफलं लभेत् ॥

श्रद्धया परया देवं ये ऽर्चयन्ति सनातनम् ।

फाल्गुनस्य चतुर्दश्यां कृष्णपक्षे समाहिताः ॥

पुष्पैः फलैस् तथान्यैश् च भक्ष्यैर् उच्चावचैस् तथा ।

क्षीरेण मधुना चैव तोयेन सह सर्पिषा ॥

तर्पयन्ति परं लिङ्गम् अर्चयन्ति देवं शुभम् ।

हुडुङ्कारनमस्कारैः नृत्यगीतैस् तथैव च ॥

मुखवाद्यैर् अनेकैश् च स्तोत्रमन्त्रैस् तथैव च ।

उपोष्य रजनीम् एकां भक्त्या परमया हरम् ॥

ये यान्ति परमं स्थानं सदाशिवम् अनामयम् ।

भूता हि चैत्रमासस्य अर्चयेत् परमेश्वरम् ॥

[८३] स वित्तेशपुरं प्राप्य क्रीडयेद् यक्षराड् इव ।

वैशाखस्य चतुर्दश्यां यो ऽर्चयेत् प्रयतः शिवम् ॥

वैशाखं लोकम् आसाद्य तस्यैवानुचरो भवेत् ।

ज्येष्ठे मासि चतुर्दश्यां यो ऽर्चयेच् छ्रद्धया हरम् ॥

सो ऽग्निलोकम् अवाप्नोति यावद् आचन्द्रतारकम् ।

चतुर्दश्यां शुचौ मासि यो ऽर्चयेत् तु सुरेश्वरम् ॥

सूर्यस्य लोके सुसुखी क्रीदते यावद् ईप्सितम् ।

श्रावणस्य चतुर्दश्यां कामलिङ्गं समर्चितम् ॥

स याति वारुणं लोकं क्रीडते चाप्सरैः सह ।

मासि भाद्रपदे युक्तम् अर्चयित्वा तु शङ्करम् ॥

पुष्पैः फलैश् च विविधै रुद्रस्यैति सलोकताम् ।

पितृपक्षे चतुर्दश्यां पूजयित्वा महेश्वरम् ॥

प्राप्यते पितृलोकं तु क्रीदते पूजितस् तु तैः ।

प्रबोधमासे देवेशम् अर्चयित्वा महेश्वरम् ॥

स चन्द्रलोकम् आप्नोति क्रीडते यावद् ईप्सितम् ।

बहुले मार्गशीर्षस्य अर्चयित्वा पिनाकिनम् ॥

विष्णुलोकम् अवाप्नोति [क्रीडते] कालम् अक्षयम् ।

अर्चयित्वा तथा पुष्ये स्थाणुं तुष्टेन चेतसा ॥

प्राप्नोति नैरृतं स्थानं तेन वै सह मोदते ।

माधे समर्चयित्वा वै पुष्पमूलफलैः शुभैः ॥

[८४] प्राप्नोति शिवलोकं तु त्यक्त्वा संसारसागरम् ।

कृत्तिवासेश्वरं देवम् अर्चयेत् तु प्रयत्नतः ॥

अविमुक्ते च वस्तव्यं यदीच्छेन् मामकं पदम् ।

गायन्ति सिद्धाः किल गीतकानि

	धन्याविमुक्ते तु नरा वसन्ति ।

स्वर्गापवर्गस्य पदस्य लिङ्गं

	ये कृत्तिवासं शरणं प्रपन्नाः ॥

तथा

	ईश्वर उवाच ।

अन्यद् आयतनं पुण्यं काशिपुर्यां वरानने ।

धवन्तरिः पुरा जातः काशिराजगृहे शुभे ॥

तेन भद्रे तथा काले अहम् आराधितः शुभे ।

भृङ्गीशेश्वरनामानं लिङ्गं तत्र स्थितं मम ॥

पश्चान्मुखः स्थितश् चाहं कूपस् तु मम चाग्रतः ।

तिष्ठन्त्य् ओषधयस् तत्र सर्वा ह्य् अमृतसम्भवः ॥

क्षिप्तास् तस्मिन् पुरा काले वैद्यराजेन सुन्दरि ।

तेन तत् प्रोच्यते स्थानं वैद्यनाथं महेश्वरि ॥

तस्मिन् कूपे तु ये देवि पानीयं पिबते नरः ।

व्याधिभिः सम्प्रमुच्यन्ते वैद्यनाथप्रभावतः ॥

कूपस्य चोत्तरे भागे हरिकेश्वरसञ्ज्ञकम् ।

रोगैश् चापि प्रमुच्यन्ते हरिकेश्वरदर्शनात् ॥

[८५] तुङ्गेशस्य समीपे तु दक्षिणे वरवर्णिनि ।

शैवं तडागम् आख्यातं शिवेनाधिष्ठितं शुभम् ॥

पश्चिमे तु तटे रम्ये स्थितो ऽहं तत्र सुव्रते ।

पश्चिमाभिमुखो भद्रे तस्मिन् स्थाने व्यवस्थितः ॥

शिवेश्वर इति ख्यातो भक्तानां वरदायकः ।

शिवेश्वराद् दक्षिणतो नातिदूरे व्यवस्थितम् ॥

पश्चिमाभिमुखं लिङ्गं स्थापितं जमदग्निना ।

जमदग्निलिङ्गात् पश्चिमतो नातिदूरे व्यवस्थितम् ॥

भैरवेश्वरविख्यातं सुरासुरनमस्कृतम् ।

तत्र दुर्गा स्थिता भद्रे ममापि हि भयङ्करा ॥

नृत्यमाना तु सा देवी लिङ्गस्यैव समीपतः ।

भैरवेशं तु तं दृष्ट्वा संसारे न पतेत् पुनः ॥

तस्यैव भैरवेशस्य कूपस् तिष्ठति चोत्तरे ।

तस्योपस्पर्शनं कृत्वा सर्वयज्ञफलं लभेत् ॥

कूपस्य पश्चिमे भागे लिङ्गं तिष्ठति भामिनि ।

शुकेश्वरम् इति ख्यातं स्थापितं व्याससूनुना ॥

तं दृष्ट्वा मानवो देवि वैराग्यम् अपि विन्दति ।

तस्यैव चोत्तरे पार्श्वे तडागं यत्र तिष्ठति ॥

तत्र स्नात्वा वरारोहे कृतकृत्यो भवेन् नरः ।

निरृते तु दिशाभागे शुकेशस्य तु सुन्दरि ॥

स्थापितं मुखलिङ्गं तु व्यासेनापि महर्षिणा ।

व्यासेश्वरं तु विख्यातम् ऋषिसङ्घैस् तु वन्दितम् ॥

[८६] व्यासकुण्डे नरः स्नात्वा अर्चयित्वा सुरान् पितॄन् ।

अक्षयांल् लभते लोकान् यत्र तत्राभिकाङ्क्षितान् ॥

व्यासतीर्थसमीपे तु पश्चिमेन यशस्विनि ।

घण्टाकर्णह्रदं नाम सर्वसौख्यप्रदायकम् ॥

स्नानं कृत्वा ह्रदे तस्मिन् व्यासस्यैव तु दर्शनात् ।

यत्र तत्र मृतो वापि वाराणस्यां मृतो भवेत् ॥

तत्र देवि तनुं त्यक्त्वा लभेद् गाणेश्वरीं गतिम् ।

घण्टाकर्णसमीपे तु उत्तरेण यशस्विनि ॥

पुण्यम् अप्सरसां ख्यातं पञ्चचूडाविनिर्मितम् ।

पञ्चचूडाह्रदे स्नात्वा दृष्ट्वा चैव तम् ईश्वरम् ॥

स्वर्गलोकं नरो याति पञ्चचूडाप्रियः सदा ।

तस्य चोत्तरदेशे तु अशोकवनसंस्थितम् ॥

अशोकवनमध्यस्थं तत्र कुण्डं शुभोदकम् ।

तस्मिन् कुण्डे नरः स्नात्वा विलोकश् चैव जायते ॥

विलोकाच् चोत्तरे भागे नाम्ना मन्दाकिनी शुभा ।

स्वर्गलोके तु सा पुण्या किं पुनर् मानुषे शुभे ॥

यत्र वै देवदेवस्य सान्निध्यं देवि सर्वदा ।

लिङ्गं तत्र स्वयं भूतं क्षेत्रमध्ये तु सुन्दरि ॥

तथा

	ईश्वर उवाच ।

मन्दाकिनीजले स्नात्वा दृष्ट्वा वै मध्यमेश्वरम् ।

एकविंशकुलोपेतो रुद्रलोके वसेच् चिरम् ॥

[८७] एतत् किल सदा प्राहुः पितरः सपितामहाः ।

यो ऽपि चास्मात् कुले जातो मन्दाकिन्या जलोद्गतः ॥

भोजयेच् च यतो विप्रान् यतीन् पाशुपतान् बुधः ।

स्नानं दानं तपो होमः स्वाध्यायं पितृतर्पणम् ॥

पिण्डनिर्वापणं चैव सर्वं भवति चाक्षयम् ।

क्षेत्रस्य चास्य सङ्क्षेपान् मया ते कथितं स्फुटम् ॥

दक्षिणं भूमिभागं तु मध्यमेशस्य यद् भवेत् ।

तत्र पूर्वामुखं लिङ्गं विश्वेदेवैः प्रतिष्ठितम् ॥

पश्चान्मुखं तु देवेशं वीरभद्रप्रतिष्ठितम् ।

पश्चान्मुखेन दृष्टेन वीरभद्रसलोकताम् ॥

तयोस् तु दक्षिणे देवि भद्रकालीह्रदं स्मृतम् ।

कुण्डस्य पश्चिमे तीरे शौनकेन प्रतिष्ठितम् ॥

मतङ्गेश्वरनामानं लिङ्गं तत्रैव तिष्ठति ।

पूर्वामुखं तु तल् लिङ्गं सर्वसिद्धिप्रदायकम् ॥

मतङ्गेश्वरकोणे तु वायव्ये तु यशस्विनि ।

प्रतिष्ठितानि लिङ्गानि नरैस् तत्र महात्मभिः ॥

तस्यैव दक्षिणे भागे जयन्तेन प्रतिष्ठितम् ।

[देवराजस्य पुत्रेण आत्मनो जयम् इच्छता ॥

[८८] ब्रह्मतारेश्वरं चैव तस्मिन् स्थाने सुरेश्वरि ।

पितृभिः याज्ञवल्क्येन तत्र लिङ्गं प्रतिष्ठितम् ॥ ]

तस्य दक्षिणदिग्भागे सिद्धिकूटः प्रकीर्तितः ।

सिद्धाः पाशुपतास् तत्र मम लिङ्गार्चने रताः ॥

तेषां वै तत्र कूटो ऽयं सिद्धकूटः स सिध्यते ।

तत्र ध्यानरताः केचिज् जपं कुर्वन्ति चापरे ॥

स्वाध्यायम् अन्ये कुर्वन्ति तपः कुर्वन्ति चापरे ।

आकाशशयनं केचित् केचिद् भावं समाश्रिताः ॥

अधोमुखास् तथैवान्ये धूमपेयास् तथापरे ।

प्रदक्षिणान्ये कुर्वन्ति काष्ठमौनं तथापरे ॥

कुर्वन्ति पुष्पाहरणं गडूकानां तथापरे ।

तैः सर्वैः स्थापितं लिङ्गम् अर्चापूजनतत्परैः ॥

तेषां तत्र तदा भक्तिं ज्ञात्वा देवे हि सुव्रते ।

सान्निध्यं क्ङृतवान् अस्मिंस् तदनुग्रहकाम्यया ॥

सिद्धेश्वरं तु विख्यातं सर्वपापहरं शुभम् ।

पूर्वामुखं तु तल् लिङ्गं सिद्धकूटे व्यवस्थितम् ॥

मानवानां हितार्थाय तत्र स्थाने स्थितो ह्य् अहम् ।

देवस्य पश्चिमे भागे वापी तिष्ठति सुन्दरि ॥

तत्र वापीजले स्नात्वा दृष्ट्वा सिद्धेश्वरम् नरः ।

अस्मिन् क्षेत्रे तु निर्माल्यं पापं सङ्क्रमते तु यत् ॥

[८९] तत् सर्वं विलयं याति सिद्धेश्वरस्य दर्शनात् ।

इति श्रीलिङ्गपुराणे वाराणसीमाहात्म्ये गुह्यायतनवर्णनं

नाम दशमो ऽध्यायः ।

	ईश्वर उवाच ।

सिद्धकूटस्य पूर्वेण देवं पश्चान्मुखं स्थितम् ।

व्याघ्रेश्वरेति विख्यातं सर्वदेवैः स्तुतं शुभे ॥

तेन दृष्टेन लभते उत्तमं पदम् अव्ययम् ।

व्याघ्रेश्वराद् दक्षिणे च स्वयम्भूस् तत्र तिष्ठति ॥

दिव्यं लिङ्गं तु तत्रस्थं देवानाम् अपि दुर्लभम् ।

रहस्यं सर्वदेवानां भूमिं भित्त्वा तु चोत्थितम् ॥

तेन लिङ्गेन दृष्टेन पूजितेन स्तुतेन च ।

कृतकृत्यो भवेद् देवि संसारे न पुनर् विशेत् ॥

पूर्वामुखं तु तल् लिङ्गं ज्येष्ठस्थानम् इदं शुभम् ।

मानवानां हितार्थाय तत्र स्थाने स्थितो ह्य् अहम् ॥

अस्याग्रे देवेदेवेशि मुखलिङ्गं च तिष्ठति ।

पश्चान्मुखं तु तं देवि पञ्चचूडा शुभेक्षणा ॥

तस्य दक्षिणपार्श्वे तु नाम्ना प्रहसितेश्वरम् ।

तं दृष्ट्वा लभते देवि आनन्दं ब्रह्मणः पदम् ॥

तस्योत्तरे तु देवेशि पुण्यं लिङ्गं त्वया कृतम् ।

निवासेति च विख्यातं सर्वेषाम् एव योगिनाम् ॥

तेन दृष्टेन देवेशि योगं विन्दति शाङ्करम् ।

चतुःसमुद्रविख्यातः कूपस् तिष्ठति सुन्दरि ॥

[९०] चतुःसमुद्रस्नानेन यत् फलं लभते नरः ।

तत् फलं सकलं तस्य उदकस्पर्शनाच् छुभे ॥

तत्रैव त्वं महादेवि रममाणा मया सह ।

ये च त्वां पूजयिष्यन्ति भक्तियुक्ताश् च मानवाः ॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैर् अपि ।

	ईश्वर उवाच ।

कूपस्य उत्तरे देवि व्याघ्रेशस्य तु दक्षिणे ।

तिष्ठते तत्र वै लिङ्गं पूर्वामुखं च सुन्दरि ॥

दण्डीश्वरम् इति ख्यातं वरदं सर्वदेहिनाम् ।

तेन दृष्टेन लभ्येत ऐश्वरं पदम् अव्ययम् ॥

तस्योत्तरे तडागं च देवि सर्वत्र विश्रुतम् ।

सन्ध्याप्रणामकुपिता यदा तस्मिन् सुरेश्वरि ॥

बहुरूपं समाख्याय देवदेवः स्वयं हरः ।

दण्डकश् च तदा क्षिप्तो देवाग्रे स प्रभाकरः ॥

तेन तत्र कृतं दिव्यं तडागं लोकविश्रुतम् ।

क्रोधेन प्रस्थिता देवि तुहिनाचलसम्मुखम् ॥

तावद् अस्य तदग्रे वै तडागं महद् अद्भुतम् ।

तं दृष्ट्वा तु तदा देवि निवृत्ता पुनर् एव वा ॥

वेश्म प्रविश्य देवेशि स्थिता तत्रैव भामिनि ।

दण्डेन देवदेवस्य स्थितेन सुमहत् सरः ॥

दण्डखातम् इति प्राहुर् ये पुराणविदो जनाः ।

[९१] तस्मात् स्नानं तु कर्तव्यं तत्रैव श्रेय इच्छया ॥

तत्र स्नाने कृते देवि कृतकृत्यो भवेन् नरः ।

दण्डखाते नरः स्नात्वा तर्पयित्वा स्वकान् पितॄन् ॥

नरकस्थास् तु ये देवि पितृलोके वसन्ति ते ।

पिशाचत्वं गता ये च नराः पापेन कर्मणा ॥

तेषां पिण्डप्रदानेन देहस्योद्धरणं स्मृतम् ।

दण्डखाते नरः स्नात्वा किं भूयः परिशोचति ॥

यस्य स्मरणमात्रेण पापसङ्घातपञ्जरम् ।

नश्यते शतधा देवि दण्डखातस्य दर्शनात् ॥

तस्य दण्डस्य माहात्म्यं पुण्यं शृणु महायशः ।

सूर्योपरागे देवेशि नरा आयान्ति सुव्रते ॥

कुरुक्षेत्रं महत्पुण्यं सर्वदेवनमस्कृतम् ।

निवृत्ते ग्रहणे देवि कुरुक्षेत्रात् परं पदम् ॥

दण्डखातं समायान्ति आत्मशुद्ध्यर्थकारणम् ।

दर्शनात् तस्य खातस्य कृतकृत्यो ऽभिजायते ॥

अन्यद् आयतनं तत्र मम देवि महेश्वरि ।

जैगीषव्येश्वरं नाम स्थापितं सुमहात्मना ॥

जैगीषव्यगुहा तस्मिन् देवदेवस्य सन्निधौ ।

त्रिकालम् अर्चयंल् लिङ्गं भक्त्या तद् भावितात्मना ॥

एवम् आराधितो देवि जैगीषव्येण धीमता ।

तस्य पृष्टश् चाहं देवि सर्वान् कामान् प्रदत्तवान् ॥

[९२] तस्मात् तु सुकृतं लिङ्गं पूजयिष्यन्ति ये नराः ।

ज्ञानं तेषां ध्रुवं देवि अचिराज् जायते भुवि ॥

त्रिरात्रं तत्र कृत्वा वै यो नरः पूजयिष्यति ।

गुह्यं प्रविश्यते चैव ज्ञानयुक्तो भवेन् नरः ॥

तस्य वै पश्चिमे भागे सिद्धकूपस् तु दक्षिणे ।

पूर्वामुखं तु तल् लिङ्गं देवलेन प्रतिष्ठितम् ॥

तेन दृष्टेन देवेशि ज्ञानवान् जायते नरः ।

तस्यैव च समीपस्थं शतकालप्रतिष्ठितम् ॥

तस्य दक्षिणदिग्भागे नातिदूरे तपस्विनि ।

मुखलिङ्गं तु तद् भद्रे पश्चिमाभिमुखं शुभे ॥

शातातपेश्वरं नाम स्थापितं च महर्षिणा ।

तेन दृष्टेन लभते गतिम् इष्टां च शाश्वतीम् ॥

तस्य पश्चिमदिग्भागे महालिङ्गं च तिष्थति ।

हेतुकेश्वरनामानं सर्वसिद्धिफलप्रदम् ॥

तस्यैव दक्षिणे भागे मुखलिङ्गं च तिष्ठति ।

कणादेश्वरनामानं पश्चिमाभिमुखं स्थितम् ॥

सिद्धस् तत्र समीपस्थः कणादस् तु ऋषिः पुरा ।

कूपस् तत्र समीपस्थः पुण्यदः सर्वदेहिनाम् ॥

कणादेशाद् दक्षिणेन अन्यद् आयतनं शूभम् ।

पश्चान्मुखं तु भूतीशं सर्वपापप्रणाशनम् ॥

तस्यैव पश्चिमे भागे लिङ्गं पश्चान्मुखं स्थितम् ।

[९३] चतुर्मुखं तु तल् लिङ्गम् आषाढं नाम विश्रुतम् ॥

अन्यानि तत्र लिङ्गानि स्थापितानि महान्ति च ।

तेषां पूर्वेण लिङ्गं तु दैत्येन स्थापितं पुरा ॥

तेन दृष्टेन देवेशि पुत्रवान् जायते नरः ।

भारभूतेश्वरं देवं तत्र दक्षिणतः स्थितम् ॥

पश्चान्मुखं तु तल् लिङ्गं भारभूतेश्वरं प्रिये ।

व्यासेश्वरस्य पूर्वेण लिङ्गं पश्चान्मुखं स्थितम् ॥

पराशरेण मुनिना स्थापितं मम भक्तितः ।

पश्चान्मुखं तु तद् देवै मुखलिङ्गं च तिष्ठति ॥

अत्रिणा स्थापितं भद्रे मम भक्तिपरेण च ।

पश्चान्मुखं तु तल् लिङ्गं सर्वशास्त्रप्रदायकम् ॥

व्यासेश्वरस्य पूर्वेण द्वौ लिङ्गौ तत्र सुव्रते ।

स्थापितौ देवदेवेशि शङ्खेन लिखितेन च ॥

द्वौ दृष्ट्वा मानवो भद्रे ऋषिलोकम् अवाप्नुयात् ।

अन्यच् च देवदेवस्य स्थानं गुह्यं यशस्विनि ॥

लिङ्गं विश्वेश्वरं नाम सर्वदेवैस् तु वन्दितम् ।

तेन दृष्टेन लभ्येत व्रतात् पाशुपतात् फलम् ॥

पूर्वोत्तरदिशाभागे तस्य देवस्य सुन्दरि ।

अवधूतं महत् तीर्थं सर्वपापापनुत्तमम् ॥

तस्य पूर्वेण संलग्नं नाम्ना पशुपतीश्वरम् ।

[९४] तस्य दर्शनमात्रेण पशुयोनिं न गच्छति ॥

चतुर्मुखं तु तल् लिङ्गं पश्चिमाभिमुखं स्थितम् ।

तस्य दक्षिणदिग्भागे लिङ्गं पञ्चमुखं स्थितम् ॥

ऋषिणा स्थापितं भद्रे गोभिलेन महात्मना ।

तं दृष्ट्वा मानवो देवि ऋषिलोकं स गच्छति ॥

तस्यैव पश्चिमे देवि लिङ्गं पश्चान्मुखं स्थितम् ।

विद्याधराधिपतिना कृतं जीमूतवाहिना ॥

इति श्रीलिङ्गपुराणे गुह्यायतनवर्णनं नामैकादशो ऽध्यायः ।

	ईश्वर उवाच ।

अन्यद् आयतनं देवि वाराणस्यां मम प्रिये ।

गभस्तीश्वरनामानं लिङ्गं पश्चान्मुखं स्थितम् ॥

सूर्येण स्थापितं भद्रे मम भक्तिपरेण वै ।

तस्मिन् ममापि सान्निध्यं नित्यम् एव यशस्विनि ॥

ऐशानीं मूर्तिम् आस्थाय यत्र स्थाने स्थितो ह्य् अहम् ।

तं दृष्ट्वा मानवो देवि ऐशानं लोकम् आप्नुयात् ॥

तस्य दक्षिणपार्श्वे तु दधिकर्णह्रदं स्थितम् ।

उत्तरे कूपम् एवं तु तस्य नामस्य सुन्दरि ॥

दधिकर्णेश्वरं देवं मुखलिङ्गं च तिष्ठति ।

पूर्वामुखं तु देवेशि गभस्तीशस्य चोत्तरे ॥

दक्षिणेन गभस्तीशाद् वारुणस्यां तु सुव्रते ।

मानवानां हितार्थाय त्वं च तत्र व्यवस्थिता ॥

[९५] आराधयन्ति देवि त्वाम् उत्तराभिमुखीं स्थिताम् ।

ये च त्वा पूजयिष्यन्ति तस्मिन् स्थाने स्थितो ह्य् अहम् ॥

तेषां त्वं विविधांल् लोकान् सम्प्रदास्यसि मोदते ।

जागरं ये प्रकुर्वन्ति तवाग्रे दीपधारिणः ॥

तेषां त्वम् अक्षयांल् लोकान् वितरिष्यसि भामिनि ।

आलयं ये प्रकुर्वन्ति तवार्थे वरवर्णिनि ॥

तेषां त्वम् अक्षयांल् लोकान् प्रयच्छसि न संशयम् ।

आलयं ये प्रकुर्वन्ति भूमिं सम्मार्जयन्ति च ॥

तेषाम् अष्टसहस्रस्य सुवर्णस्य फलं लभेत् ।

त्वाम् उद्दिश्य तु यो देवि ब्राह्मणान् ब्राह्मणीश् च ह ॥

भोजयिष्यति यो देवि तस्य पुण्यफलं शृणु ।

तव लोके वसेत् कल्पम् इहैवागच्छते पुनः ॥

नरो वा यदि वा नारी सर्वभोगसमन्वितौ ।

धनधान्यसमायुक्तौ जायेते च महाकुले ॥

सुभगौ दर्शनीयौ च रूपयौवनदर्पितौ ।

भवेताम् ईदृशौ देवि सर्वसौख्यस्य भाजने ॥

मानुषं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् ।

येन दृष्टासि सुश्रोणि तस्य जन्मभयं कुतः ॥

मायापूर्यां तु ललितां दृष्ट्वा यल् लभते फलम् ।

तत् फलं तस्य देवेशि यस् त्वां तत्र निरीक्षयेत् ॥

पृथ्वीं प्रदक्षिणां कृत्वा यत् फलं लभते नरः ।

तत् फलं ललितायां च वाराणस्यां न संशयः ॥

[९६] तेन ते नाम विख्यातं तथा मुखनिरीक्षिणी ।

मुखप्रेक्षणिकां दृष्ट्वा सौभाग्यं चोत्तमं लभेत् ॥

माघे मासि चतुर्थ्यां तु तस्मिन् काल उपोषितः ।

अर्चयित्वा तु यो देवि जागरं तत्र कारयेत् ॥

तस्यर्द्धिमत् कुलं देवि त्रैलोक्ये याति दुर्लभम् ।

सुखप्रेक्षा चोत्तरतो द्वौ लिङ्गौ तत्र विश्रुतौ ॥

पश्चान्मुखौ तु तौ देवि वृत्रत्वाष्ट्रेश्वराव् उभौ ।

काञ्चनीं पृथिवीं दत्वा यत् पुण्यं लभते नरः ॥

सुवर्णस्य च यत् पुण्यं लिङ्गयोर् दर्शनेन तत् ।

त्रिरात्रं यः प्रकुरुते तत्रैव वरवर्णिनि ॥

गौरीलोको ऽक्षयस् तस्य पुनरावृत्तिदुर्लभः ।

तस्माद् यत्नः सदा कार्यः सर्वदर्शनकाङ्क्षया ॥

ललितायाश् चोत्तरेण चर्चिकाधिष्ठिता शुभा ।

मानवानां हितार्थाय वरदा सर्वदेहिनाम् ॥

चर्चिकायास् तथैवाग्रे त्ष्ठते लिङ्गम् उत्तमम् ।

पूर्वामुखं तु तद् देवि रेवन्तेन प्रतिष्ठितम् ॥

तस्याग्रतो वरारोहे लिङ्गं पञ्चनदीश्वरम् ।

पश्चान्मुखं तु तद् देवि सर्वस्नानफलप्रदम् ॥

ललितायाश् च संलग्नं पूर्वे कूपस् तु तिष्ठति ।

तस्मिन् कूपे जलं स्पृष्ट्वा अतिरात्रफलं लभेत् ॥

ततो दक्षिणतो देवि तीर्थं पञ्चनदं स्मृतम् ।

नरः पञ्चनदे स्नात्वा दृष्ट्वा लिङ्गं गभस्तिनः ॥

[९७] अनन्तं फलम् आप्नोति यत्र तत्राभिजायते ।

उपमन्युश् च सुश्रोणि लिङ्गं स्थापितवांस् तथा ॥

मुखानि तस्य तिष्ठन्ति तस्मिंल् लिङ्गे यशस्विनि ।

तच् च पश्चान्मुखं देवि लिलितादक्षिणेन तु ॥

तेन दृष्टेन देवेशि न पुनर्जन्मभाग् भवेत् ।

तस्यैव तु समीपे तु पश्चिमे वरवर्णिनि ॥

अन्यल् लिङ्गं तु सुश्रोणि व्याघ्रपादप्रतिष्ठितम् ।

तस्य सन्दर्शनाद् देवि सर्वपापैः प्रमुच्यते ॥

गभस्तीशाग्रतो देवि विश्वकर्मप्रतिष्ठितम् ।

अन्यानि तत्र लिङ्गानि स्थापितानि महात्मभिः ॥

गभस्तीशस्य लिङ्गस्य नैरृते वरवर्णिनि ।

शशाङ्केश्वरनामानं लिङ्गं पूर्वामुखम् स्थितम् ॥

गन्धर्वनगरं गत्वा राज्ञा चित्ररथेन हि ।

तेन दृष्टेन देवेशि ईप्सितं फलम् आप्नुयात् ॥

चित्रेश्वरात् पश्चिमतो लिङ्गं पश्चान्मुखं स्थितम् ।

जैमिनिस्थापितं पूर्वं महापातकनाशनम् ॥

अग्रे तु जैमिनीशस्य कृतं लिङ्गं सुमन्तुना ।

अन्यैश् च ऋषिभिस् तत्र लिङ्गानि सुबहूनि च ॥

तेषां तु दक्षिणे भागे लिङ्गं पश्चान् मुखस्थितम् ।

बुधेश्वरं तथा कोणे सर्वसौख्यप्रदायकम् ॥

[९८] बुधेश्वरात् तु कोणेन वायव्ये नातिदूरतः ।

रावणेश्वरनामानं स्थापितं राक्षसेन तु ॥

रावणेश्वरपूर्वे तु लिङ्गं देवि चतुर्मुखम् ।

तेन दृष्टेन देवेशि यातुधानैर् न हन्यते ॥

रावणेशाद् दक्षिणतो लिङ्गं पूर्वामुखं स्थितम् ।

वराहेश्वरनामानं सर्वपातकनाशनम् ॥

वराहेशाद् दक्षिणतो लिङ्गं पूर्वामुखं स्थितम् ।

तस्यैवाराधनाद् देवि षण्मासाद् योगम् आप्नुयात् ॥

तस्य दक्षिणदिग्भागे लिङ्गं वै दक्षिणामुखम् ।

गालवेश्वरनामानं गुरुभक्तिप्रदायकम् ॥

गालवेश्वरदेवस्य लिङ्गं पश्चान्मुखं स्थितम् ।

अयोगसिद्धिनामानं सर्वसिद्धिप्रदायकम् ॥

तस्यैव दक्षिणे देवि नाम्ना वातेश्वरं शुभम् ।

तस्यैव चाग्रतो देवि मुखलिङ्गं च तिष्ठति ॥

सोमेश्वरेति विख्यातं लिङ्गं पश्चान्मुखं स्थितम् ।

तं दृष्ट्वा देवदेवेशं सर्वव्याधिक्षयो भवेत् ॥

तस्यैव नैरृते भागे लिङ्गं पूर्वामुखं स्थितम् ।

अङ्गारेश्वरनामानं सर्वसिद्धैर् नमस्कृतम् ॥

पूर्वेण तस्य देवस्य लिङ्गम् अन्यच् च तिष्ठति ।

कुक्कुटेश्वरनामानं गतिसौख्यप्रदायकम् ॥

तस्यैव चोत्तरे देवि पाण्डवैः सुमहात्मभिः ।

[९९] पञ्च लिङ्गानि पुण्यानि पश्चिमाभिमुखानि तु ॥

तेषाम् एते तु देवेशि लिङ्गं पश्चान्मुखं स्थितम् ।

संवर्तेश्वरनामानं स्थापितं यन् महर्षिणा ॥

ममैवात्यन्तसान्निध्यं तस्मिंल् लिङ्गे सुरेश्वरि ।

तल् लिङ्गम् अर्चयेद् यो वै तस्य सिद्धिः करे स्थिता ॥

संवर्तेशात् पश्चिमतो लिङ्गं पूर्वामुखं स्थितम् ।

श्वेतेश्वरं तु विख्यातं श्वेतेन स्थापितं पुरा ॥

तेन दृष्टेन लिङ्गेन गाणपत्यं लभेद् ध्रुवम् ।

पश्चिमे तस्य दिग्भागे कलशेश्वरसञ्ज्ञितम् ॥

कलशाद् उत्थितं लिङ्गं कालस्य भयदायकम् ।

	सूर्य उवाच ।

कथं कालस्य भयदं कलशाद् उत्थितः कथम् ।

एतद् देव समाचक्ष्व यदानुग्रहवान् मयि ॥

	विष्णुर् उवाच ।

तस्यैव देवदेवस्य प्रभावं शृणु भास्कर ।

श्वेतो नाम महातेजा ऋषिः परमधार्मिकः ॥

पूजयामास सततं लिङ्गं त्रिपुरघातिनः ।

तस्य पूजाप्रसक्तस्य कदाचित् कालपर्यये ॥

आजगाम तम् उद्देशं कालः परमदारुणः ।

रक्तान्तनयनो घोरः सर्पयष्टिकरो महान् ॥

[१००] दंष्ट्राकरालो विकृतो भिन्नाञ्जनसमप्रभः ।

रक्तवासा महाकायः सर्वाभरणभूषितः ॥

पाशहस्तस् तदाभ्येत्य श्वेते पाशम् अवासृजत् ।

कण्ठार्पितेन पाशेन श्वेतः कालम् अथाब्रवीत् ॥

क्षणमात्रं परीक्षस्व मम त्रिभुवनान्तक ।

निवर्तयाम्य् अहं यावत् पूजनं मन्मथद्विषः ॥

तम् अब्रवीत् तदा कालः प्रहसन् वै सुरेश्वर ।

न श्रुतं तत् त्वया मन्ये वृद्धानां ज्ञातजन्मनाम् ॥

श्वःकार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।

न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ॥

गर्भे वाप्य् अथ वा बाल्ये वार्धके यौवने तथा ।

आयुष्ये कर्मणि क्षीणे लोको ऽयं लीयते मया ॥

नैषधानि न मन्त्राश् च न होमा न पुनर्जयः ।

त्रायन्ते मृत्युनोपेतं जरया वापि मानवाः ॥

बहूनीन्द्रसहस्राणि पितामहशतानि च ।

मयातीतानि कर्तव्यो नात्र मन्युस् त्वयानघ ॥

विधत्स्व पूजनं चास्य महादेवस्य शूलिनः ।

देहन्यासो बहुविधो मया वै श्वेत कारितः ॥

स्वयं प्रभुर् न चैवाहं कर्मायत्तगतिर् मम ।

कर्मना हि तथा नाशो नास्ति भूतस्य कस्यचित् ॥

कर्ममार्गानुसारेण धात्राहं सम्प्रयोजितः ।

[१०१] नयामि सर्वम् आक्रम्य नीयमानस् त्रिलोचने ॥

एवम् उक्तस् तु कालेन नीयमानस् त्रिलोचनम् ।

जगाम सर्वभावेन शरणं भक्तवत्सलम् ॥

श्वेते तु शरणं प्राप्ते लिङ्गं सत्रिपुरान्तकम् ।

चिन्तयामास कालस्य वधोपायं सुरेश्वरः ॥

कलशं यत् स्थितं तस्य उदकेन प्रपूरितम् ।

तं भित्त्वा तु समुत्तस्थौ क्रौधविस्फारितेक्षणः ॥

तृतीयलोचनज्वालाप्रकाशितजगत्त्रयः ।

दृष्टमात्रस् तदा तस्य कालो वीक्षणतेजसा ॥

सहसा भस्मभूतः स सर्वभूतनिबर्हणः ।

श्वेतस्य गत्वा सामीप्यं गणेशत्वं तथैव च ॥

कृत्वा विनिग्रहं कालं तत्रैवान्तरधीयत ।

ततः प्रभृति देवेशि कालः सङ्कलयेत् प्रजाः ॥

न कश्चित् पश्यते लोके विदेहत्वाज् जगत्त्रये ।

तस्मात् तत्र स्वयम्भूतो देवदेवः सुरारिहा ॥

श्वेतस्य कलशं भित्त्वा कलशेश्वरम् उच्यते ।

तस्मात् तत्र स्थितं देवं यो निरीक्षति मानवः ॥

जन्ममृत्युजराव्याधिर् नश्यते तस्य भामिनि ।

यत्र श्वेतकृतं लिङ्गं भक्त्या यो ऽर्चयते नरः ॥

जन्ममृत्युभयं भित्त्वा संसारं न विशेत् पुनः ।

इति श्रीलिङ्गपुराणे वाराणसीमाहात्म्ये गुह्यायतनवर्णने

द्वादशो ऽध्यायः ।

[१०२]

	ईश्वर उवाच ।

उत्तरे तस्य देवस्य चित्रगुप्तेश्वरं स्थितम् ।

पश्चिमाभिमुखं देवं वाराणस्यां सुरेश्वरि ॥

चित्रगुप्तं न पश्येत यो ऽत्र द्रक्ष्यति मानवः ।

पश्चिमे चित्रगुप्तस्य अन्यल् लिङ्गं स्थितं शुभे ॥

छायया स्थापितं लिङ्गं तं दृष्ट्वा नातपं भवेत् ।

विनायकश् च तत्रैव पश्चिमेन यशस्विनि ॥

तस्य दर्शनमात्रेण विघ्नैर् नैवाभिभूयते ।

कुण्डं तस्य तु पूर्वेण लिङ्गं पश्चान्मुखं स्थितम् ॥

मुखलिङ्गं तु तद् देवि विरूपाक्षं स्वयं प्रिये ।

दक्षिणेन तु तस्यैव कूपस् तिष्ठति भामिनि ॥

दर्शनात् तस्य कूपस्य यमद्वारं न पश्यति ।

कूपं चापि स्थितं तत्र उपस्पर्शनपुण्यदम् ॥

अन्यानि तत्र लिङ्गानि सुरैः संस्थापितानि च ।

दक्षिणे कलशेशस्य लिङ्गं पश्चान्मुखं स्थितम् ॥

गुहेश्वरेति नामानं सर्वपुण्यफलप्रदम् ।

तस्यैव दक्षिणे पार्श्वे द्वाव् एतौ तत्र संस्थितौ ॥

उत्तमेश्वरनामानं वामदेवम् अतः परम् ।

तस्यैव पश्चिमे देवि लिङ्गं पश्चान्मुखं स्थितम् ॥

कम्बलाश्वतराक्षं तु गन्धर्वपददायकम् ।

अपरं तस्य देवस्य लिङ्गं पश्चान्मुखं स्थितम् ॥

नलकूबरेश्वरं नाम सर्वसिद्धिप्रदायकम् ।

[१०३] तस्यैव दक्षिणे देवि मणिकर्णी च विश्रुता ॥

तस्य चाग्रे महत् तीर्थं सर्वपातकनाशनम् ।

मणिकर्णीश्वरं देवं कुण्डमध्ये च तिष्ठति ॥

अनेनैव तु देहेन सिध्यते तस्य दर्शनात् ।

तस्य चोत्तरदिग्भागे लिङ्गं पश्चान्मुखं स्थितम् ॥

परिमेश्वरनामानं पूजनाद् अजरो भवेत् ।

तस्यैव च समीपस्थं लिङ्गं पश्चान्मुखं स्थितम् ॥

धर्मराजेन सुश्रोणि स्थापितं पापनाशनम् ।

तस्यैव पश्चिमे देवि लिङ्गम् अन्यच् चतुर्मुखम् ॥

निर्जरेश्वरनामानं व्याधीनां नाशनं परम् ।

तस्य नैरृतकोणे तु लिङ्गं पूर्वामुखं स्थितम् ॥

पितामहाश् चातिकायाः स्नाता ये शुभकर्मिणः ।

पिण्डं दत्वा तथोक्तं च दृष्ट्वा देवं नदीश्वरम् ॥

ब्रह्मलोकात् तु ते पुण्या न च्यवन्ति कदाचन ।

दक्षिणे तस्य देवस्य लिङ्गम् अन्यच् च तिष्ठति ॥

वारुण्ēश्वरनामानं स्थापितं वरुणेन हि ।

तस्य दक्षिणपार्श्वे तु लिङ्गं पश्चान्मुखं स्थितम् ॥

बाणेन दैत्यराजेन स्थापितं मम भक्तितः ।

तस्यैव दक्षिणे देवि लिङ्गं पश्चान्मुखं स्थितम् ॥

कूष्माण्डेश्वरनामानं सर्वधर्मफलप्रदम् ।

तस्यैव पूर्वतो देवि राक्षसेन प्रतिष्ठितम् ॥

तस्य दक्षिणपार्श्वे तु गङ्गया स्थापितेन तु ।

**[१०४] **गङ्गेश्वरेति नाम्नं सुरलोकप्रदायकम् ॥

तस्योत्तरेण देवेशि निम्नगाभिस् ततः शुभे ।

लिङ्गानि स्थापितानीह गङ्गातीरे यशस्विनि ॥

वैवस्वतेश्वरं नाम दृष्ट्वा मृत्युभयापहम् ।

वैस्वतात् पश्चिमे तु लिङ्गं पश्चान्मुखं स्थितम् ॥

आदित्यैः स्थापितं भद्रे आत्मनः श्रेयसो ऽर्थिभिः ।

तस्यैव चाग्रतो भद्रे लिङ्गं पश्चान्मुखं स्थितम् ॥

वज्रेश्वरेति नामाख्यं सर्वपातकनाशनम् ।

तस्यैव चाग्रतो भद्रे लिङ्गं पश्चान्मुखं स्थितम् ॥

कनकेश्वरनामानं गुह्यं देवि सनातनम् ।

छायेव दृश्यते लिङ्गे स्थाप्यमाने यशस्विनि ॥

छायां च पश्यते यो वै न स पापेन लिप्यते ।

तस्यैव चाग्रतो देवि लिङ्गं पूर्वामुखं स्थितम् ॥

तारकेश्वरनामानं सर्वपापहरं शुभम् ।

पूजनाच् चास्य लिङ्गस्य ज्ञानावाप्तिर् भवेन् नृणाम् ॥

अपरं तत्र देवेशि कनकेश्वरसञ्ज्ञितम् ।

पूजनात् स्वयम् एवात्र हिरण्यं सम्प्रयच्छति ॥

कनकेश्वरस्योत्त्रेण नाम्ना च मनुजेश्वरम् ।

मुखलिङ्गं पश्चिमतः सर्वपापप्रणाशनम् ॥

तस्यैव चाग्रतो देवि लिङ्गं पूर्वामुखं स्थितम् ।

इन्द्रेण स्थापितं देवि मम भक्त्या प्रतिष्ठितम् ॥

[१०५] तस्य दर्शनमात्रेण देवि ज्ञानं प्रवर्तते ।

तस्यैव दक्षिणे देवि रम्भया सम्प्रतिष्ठितम् ॥

मुखलिङ्गं च तं देवि दक्षिणाभिमुखं स्थितम् ।

इन्द्रेश्वरस्योत्तरेण लिङ्गं पश्चान्मुखं स्थितम् ॥

शच्या च स्थापितं भद्रे देवराजस्य भार्यया ।

तस्योत्तरदिशाभागे लोकपालैः प्रतिष्ठितम् ॥

अन्यानि तत्र लिङ्गानि देवासुरमरुद्गणैः ।

यक्षैर् नागैश् च किन्नराप्सरसां गणैः ॥

लोकपालैः सुरैश् चैव लिङ्गानि स्थापितानि तु ।

तस्यैव दक्षिणे लिङ्गं महापातकनाशनम् ॥

पूर्वामुखं तु तं भद्रे फाल्गुनेन प्रतिष्ठितम् ।

तस्य दक्षिणदिग्भागे महापाशुपतेश्वरम् ॥

तेन दृष्टेन देवेशि सर्वज्ञानस्य भाजनम् ।

तस्यैव पश्चिमे देवि समुद्रेण प्रतिष्ठितम् ॥

तस्यैव दक्षिणे पार्श्वे ईशानं लोकविश्रुतम् ।

आत्मानम् उद्धरेद् देवि लिङ्गं पश्चान्मुखं स्थितम् ॥

तस्यापि देवि पूर्वेण वाराणस्यां तु लाङ्गलिः ।

मोक्षप्रदं तु तल् लिङ्गं सर्वैश्वर्यमयं शुभम् ॥

ज्ञात्वा कलियुगं घोरं हाहाभूतम् अचेतनम् ।

ब्राह्मणानां हितार्थाय तस्मिन् देशे स्थितो ह्य् अहम् ॥

दिव्या हि सा परा मूर्तिर् दिव्यज्ञानं हि तत् स्मृतम् ।

अनुग्रहाय विप्राणां योजयिष्ये व्रतेन तु ॥

[१०६] ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा ।

एतेषां हि विभेदस् तु भिन्नाश् चैव पृथक् पृथक् ॥

ज्ञानेन रहिताः सर्वे पुनरावर्तकाः स्मृताः ।

ब्राह्मणानां हितार्थाय ज्ञानं चैव प्रकाशितम् ॥

वेदाः सर्वे समादाय षडङ्गाः सपदक्रमाः ।

सर्वाणि योगशास्त्राणि दध्ना चैव घृतेन च ॥

तथा वेदे महाभागो व्रतं पाशुपतं प्रिये ।

षण्मासैस् तु महाभागे योगैश्वर्यं प्रवर्तते ॥

यस्य यस्य प्रभावो ऽस्ति योगस्यैव व्रतस्य च ।

योगज्ञेषु हि तिष्ठेत धर्मं सुखं हि तेषु च ॥

ब्राह्मणानां समो धर्मो दमो वाथ यशस्विनि ।

अहिंसा चैव सत्यं च विद्याभिगम एव च ॥

मैत्रो वै ब्राःमणो नित्यं गतिं प्राप्नोति चोत्तमाम् ।

भस्मशायी तु तिष्ठेत अन्तःसवनकृत् तथा ॥

लिङ्गनिर्माल्यधारी च यतिः स्वायतने वसेत् ।

जपगीतहुडिङ्कारस्तुतिकृत्यपरः सदा ॥

भावनाद् देवदेवस्य दक्षिणां मूर्तिम् आस्थितः ।

अकस्मात् तत्र मूत्रं तु पुरीषं वा न सङ्क्षिपेत् ॥

स्त्रीशूद्रौ नाभिभाषेत शूद्रान्नं वर्जयेत् सदा ।

शूद्रान्नरसपुष्टस्य निष्कृतिस् तस्य कीदृशी ॥

[१०७] अमृतं ब्राःमण्स्यान्नं क्षत्रियान्नं पयः स्मृतम् ।

वैश्यान्नम् अन्नम् इत्य् आहुः शूद्रान्नं रुधिरं स्मृतम् ॥

तस्माद् वर्जेत तद् देवि यदीच्छेन् मामकं पदम् ।

श्मशानवासी धर्मात्मा यथालब्धेन वर्तते ॥

लभेत रुद्रसायुज्यं सदा रुद्रम् अनुस्मरन् ।

षण्मासाल् लभते ज्ञानम् अस्मिन् क्षेत्रे विशेषतः ॥

नित्यं पूजयते देवं ध्रुवं मोक्षं न संशयः ।

रागद्वेषविनिर्मुक्ताः सिद्धायतनपूजकाः ॥

तेषां मोक्षो मयाख्यातस् तत्र यैर् मानुषैः कृताः ।

द्वाविंशे परिवर्ते तु वाराणस्यां महाव्रते ॥

नाम्ना तु नकुलीशेति तस्मिन् स्थाने स्थितो ह्य् अहम् ।

द्रक्ष्यन्ति मां कलौ तस्मिन्न् अवकीर्णं दिवौकसः ॥

अत्र स्थाने ऽपि देवेशि मम पुत्रा दिवौकसः ।

वक्रानिर् मधुपिङ्गश् च श्वेतकेतुस् तथापरः ॥

अस्मिन् माहेश्वरं योगं प्राप्य योगगतिं पराम् ।

नकुलीशाख्यदेवस्य लिङ्गं पूर्वामुखं स्थितम् ॥

चतुर्भिः पुरुषैर् युक्तं तल् लिङ्गं तच् च संस्थितम् ।

तद् दृष्ट्वा मानवो देवि रुद्रस्यैव सलोकताम् ॥

नकुलीशेश्वरं देवं कपिलेश्वरम् एव च ।

पञ्चायतनम् एतत् तु यत् तु पूर्वम् उदाहृतम् ॥

[१०८] रहस्यं परमं वेदं मम व्रतनिषेवणम् ।

तेषां न कथनीयो ऽहं ये मद्भक्तिविवर्जिताः ॥

शक्रः पाशुपते चोक्तं पदे सम्यङ् निषेवितम् ।

तत् पदं विन्दते देवि दृष्टैर् एव न संशयः ॥

प्रीतिमान् सततं देवि एभिर् दृष्टैस् च जायते ।

अविमुक्तं महाक्षेत्रं सिद्धसङ्घनिषेवितम् ॥

अत्र पूजयते देवि ध्रुवं मोक्षो न संशयः ।

सिद्धिकामास् तथा सिद्धिं यास्यन्ति द्विजसत्तमाः ॥

इह दत्तं सदाक्षय्यं भविष्यति महात्मनाम् ।

द्विजानां धर्मनित्यानां मम व्रतनिषेविणाम् ॥

एकाहम् उपवासं यः करिष्यति यशस्विनि ।

फलं वर्षशतस्येह लभते मत्परायणः ॥

इति श्रीलिङ्गपुराणे वाराणसीमाहात्म्ये गुह्यायतनवर्णनं

नाम त्रयोदशो ऽध्यायः ।

	ईश्वर उवाच ।

अन्यद् आयतनं वक्ष्ये वाराणस्यां सुरेश्वरि ।

यत्र वै देवदेवस्य रुचिरं स्थानम् ईप्सितम् ॥

नीयमानं पुरा देवि तल् लिङ्गं शशिमौलिनः ।

राक्षसैर् अन्तरिक्षस्थैर् व्रजमानं सुसत्वरम् ॥

अस्मिन् देशे यदायातास् तदा देवेन चिन्तितम् ।

अविमुक्ते न मोक्षस् तु कथं मे सम्भविष्यति ॥

[१०९] इमम् अर्थं तु देवेशो यावच् चिन्तयते प्रभुः ।

तावत् कुक्कुटशब्दस् तु तस्मिन् देशे समुत्थितः ॥

शब्दं श्रुत्वा तु तं देवि राक्षसास् त्रस्तचेतसः ।

लिङ्गम् उत्सृज्य भीतास् ते प्रभातसमये गताः ॥

गतैस् तु राक्षसैर् देवि लिङ्गं तत्रैव संस्थितम् ।

स्थाने तु रुचिरे शुभ्रे देवदेवः स्वयं प्रभुः ॥

अविमुक्तस् तत्र मध्ये अविमुक्तं ततः स्मृतम् ।

तदाविमुक्ते तु सुरैर् हरस्य

	नाम स्मृतं पुण्यतमाक्षराढ्यम् ।

मोक्षप्रदं स्थावरजङ्गम्नां

	ये प्राणिनः पञ्चतां तत्र याताः ॥

कुक्कुटाश् चापि देवेशि तस्मिन् स्थाने स्थिताः सदा ।

अद्यापि तत्र दृश्यन्ते पूज्यमानाः शुभार्थिभिः ॥

अविमुक्तं सदा लिङ्गं यो ऽत्र द्रक्ष्यति मानवः ।

न तस्य पुनरावित्तिः कल्पकोटिशतैर् अपि ॥

देवस्य दक्षिणे भागे वापी तिष्ठति शोभना ।

तस्यास् तथोदकं पीत्वा पुनर्जन्म न विद्यते ॥

पीतमात्रेण तेनैव उदकेन यशस्विनि ।

त्रीणि लिङ्गानि वर्धन्ते हृदये पुरुषस्य तु ॥

एतद् गुह्यं महादेवि न देयं यस्य कस्यचित् ।

दण्डपाणिस् तु तत्रस्थो रक्षते तज् जलं सदा ॥

पश्चिमं तीरम् आसाद्य देवदेवस्य शासनात् ।

पूर्वेण तारको देवो जलं रक्षति सर्वदा ॥

[११०] नदीशश् चोत्तरेणैव महाकालस् तु दर्क्षिणे ।

रक्षते तज् जलं नित्यं मद्भक्तानां तु मोहनम् ॥

	विष्णुर् उवाच ।

ममापि सा परा देवि तनुर् आपोमयी शुभा ।

अप्राप्या दुर्लभा देवि मानवैर् अकृतात्मभिः ॥

यैस् तु तन् न जलं पीतं कृतार्थास् ते तु मानवाः ।

तेषां तु तारकं ज्ञानम् उत्पत्स्यति न संशयः ॥

वापीजले नरः स्नात्वा दृष्ट्वा वै दण्डनामकम् ।

अविमुक्तं ततो दृष्ट्वा कैवल्यं लभते क्षणात् ॥

स्कन्दपुराणे

अविमुक्तेश्वरं नाम तच् छ्मशानं विमुक्तये ।

जैगीषव्येण मुनिना यत्र रुद्रो ऽभिराधितः ॥

यत्र सन्ध्याम् उपासित्वा ब्राह्मणः सकृद् एव तु ।

सन्ध्याम् उपास्तवान् अस्माच् च षड्वर्षसमाः समाः (?) ॥

पुरीं वाराणसीं तां तु श्मशानं चाविमुक्तकम् ।

अविमुक्तेश्वरं तं च दृष्ट्वा गणपतिर् भवेत् ॥

मत्स्यपुराणे दण्डपाणिवरप्रदाने ।

	देवदेव उवाच ।

जरामरणसन्त्यक्तः सर्वशोकविवर्जितः ।

भविष्यति गणाध्यक्षो वरदः सर्वपूजितः ॥

[१११] अजेयश् चापि सर्वेषां योगैश्वर्यसमन्वितः ।

अन्नदश् चापि लोकेभ्यः क्षेत्रपालो भविष्यति ॥

महाबलो महासत्त्वो ब्रह्मणो मम च प्रियः ।

अक्षश् च दण्डपाणिश् च महायोगी तथैव च ॥

उद्भ्रमः सम्भ्रमश् चैव गणौ ते परिचारकौ ।

तवाज्ञया करिष्येते लोकस्योद्भ्रमसम्भ्रमौ ॥

तथा

देवब्राह्मणविद्विष्टा देवभक्तिविदण्डकाः ।

ब्रह्मघ्नाश् च कृतघ्नाश् च तथा नैकृतिकाश् च ये ॥

लोकद्विष्टा गुरुद्विष्टा तीर्थायतनदूषकाः ।

सर्वपापरताश् चैव ये चान्ये कुत्सिता भुवि ॥

तेषां नास्तीति वासो वै स्थितो वै दण्डनायकः ।

रक्षणार्थं नियुक्तं वै दण्डनयकम् उत्तमम् ॥

पूजयित्वा यथाशक्ति गन्धपुष्पादिधूपकैः ।

नमस्कारं तु तं कृत्वा नायकस्य तु मन्त्रवित् ॥

सर्ववर्णावृतक्षेत्रे नानाविधसरीसृपे ।

ईश्वरानुगृहीता हि गतिं गाणेश्वरीं गताः ॥

लिङ्गपुराणे

अविमुक्तस्य चाग्रे तु लिङ्गं पश्चान्मुखं स्थितम् ।

प्रीतिकेश्वरनामानं प्रीतिं यच्छति शाश्वतीम् ॥

[११२] अविमुक्तोत्तरेणैव लिङ्गं पश्चान्मुखं स्थितम् ।

अविमुक्तं च तं देवि नाम्ना वै मोक्षकेश्वरम् ॥

तेन दृष्टेन देवेशि ज्ञानवान् जायते नरः ।

तस्य चोत्तरतो देवि लिङ्गं चैव चतुर्मुखम् ॥

वरुणेश्वरनामानं पापानां भयमोचनम् ।

पूर्वेण तस्य संलग्नं मुखलिङ्गं च तिष्ठति ॥

सुवर्णाक्षेश्वरं नाम यज्ञानां फलदायकम् ।

तस्य चैवोत्तरे गौरी स्वयं तिष्ठति पुण्यदा ॥

तस्यास् तु दर्शनाद् देव्याः सौभाग्यं जायते परम् ।

दक्षिणे तस्य देवस्य निकुम्भो नाव वै गणः ॥

तं दृष्ट्वा मानुषो देवि क्षेत्रवासं तु विन्दति ।

विनायकश् च तत्रैव पश्चिमेन यशस्विनि ॥

तस्य दर्शनमात्रेण विघ्नैर् नैवाभिभूयते ।

निकुम्भस्य तु पूर्वेण लिङ्गं पश्चान्मुखं स्थितम् ॥

मुखलिङ्गं तु तं देवि विजयाख्यं स्वयं प्रिये ।

दक्षिणेन तु तत्रैव शुक्रेश्वरम् इति स्मृतम् ॥

मुखलिङ्गं तु तं भद्रे शुक्रेण स्थापितं पुरा ।

पूर्वामुखं तु तं भद्रे शिवशोकप्रदायकम् ॥

तस्यैव चोत्तरे देवि मुखलिङ्गं च तिष्ठति ।

पश्चान्मुखं तु तं देवि देवयान्या तु स्थापितम् ॥

तस्यैव चाग्रतो भद्रे लिङ्गं पश्चान्मुखं स्थितम् ।

कचेन स्थापितं भद्रे देवाचार्यस्य सूनुना ॥

[११३] तस्यैव च समीपे तु कूपस् तिष्ठति सुव्रते ।

तस्योपस्पर्शनाद् देवि सर्वमेधफलं लभेत् ॥

तस्यैव पश्चिमे भागे देवो देवी व तिष्ठतः ।

भक्तिदौ तौ तु सर्वेषां ये ऽपि दुष्कृतिनो नराः ॥

शुक्रेश्वरस्य पूर्वेण लिङ्गं पश्चान्मुखं स्थितम् ।

अनर्केश्वरनामानं मोक्षदं सर्वदेहिनाम् ॥

तस्यैव पूर्वतो भागे गणैस् तु परिवारितम् ।

गणेश्वरम् इति ख्यातं सर्वहर्षप्रदायकम् ॥

इति श्रीलिङ्गपुराणे वाराणसीमाहत्म्ये गुह्यायतनवर्णनं नाम

चतुर्दशो ऽध्यायः ।

	ईश्वर उवाच ।

अन्यद् आयतनं वक्ष्ये वाराणस्यां सुरेश्वरि ।

रामेण स्थापितं लिङ्गं लङ्कायाश् चागतेन हि ॥

तस्य दक्षिणपार्श्वे तु लिङ्गं पूर्वामुखं स्थितम् ।

त्रिपुरान्तकरं नाम सर्वपापप्रणाशनम् ॥

तस्यैव दक्षिणे लिङ्गं दत्तात्रेयप्रतिष्ठितम् ।

ज्ञानं चोत्पद्यते देवि तस्य लिङ्गस्य दर्शनात् ॥

तस्य पश्चिमदिग्भागे हरिकेशेश्वरं शुभम् ।

तत्रैवाराधितो देवि हरिकेशेन सुव्रते ॥

हरिकेशेश्वरं देवं सर्वकिल्बिषनाशनम् ।

तस्य पश्चिमदिग्भागे गोकर्णं नाम विश्रुतम् ॥

[११४] तत्र स्नातो वरारोहे राजते देवि चन्द्रवत् ।

पश्चिमाभिमुखं लिङ्गं काशिपुर्यां च सुव्रते ॥

उत्तरं सर्वसिद्धानाम् अनन्तफलदायकम् ।

देवदेवस्य चैवाग्रे तडागं देवविश्रुतम् ॥

तत्र स्नातो वरारोहे राजते देवि चन्द्रवत् ।

तस्यैव पश्चिमे तीरे लिङ्गं पूर्वामुखं स्थितम् ॥

देवेन स्थापितं भद्रे मम भक्तिपरेण वै ।

तस्यैव वाग्रतो देवि कुण्डं तिष्ठति भामिनि ॥

तस्मिन् स्नातो वरारोहे देवलोकम् अवाप्नुयात् ।

देवेश्वरस्योत्तरेण पिशाचैः स्थापितं पुरा ॥

पिशाचेश्वरनामानं मोक्षदं सर्वदेहिनाम् ।

ध्रुवेशस्याग्रतो देवि मुखलिङ्गं च तिष्ठति ॥

पश्चान्मुखं तु तल् लिङ्गं तीरे कुण्डस्य भामिनि ।

वैद्यनाथं तु तं विद्यात् सर्वसौख्यप्रदायकम् ॥

तस्यैव नैरृते भागे मनुना स्थापितं पुरा ।

पूर्वामुखं तु तल् लिङ्गं तस्य कुण्डस्य दक्षिणे ॥

तेन दृष्टेन सुश्रोणि सर्वपापक्षयो भवेत् ।

वैद्यनाथस्य पूर्वेण लिङ्गं पूर्वामुखं स्थितम् ॥

मुचुकुन्देश्वरं नाम देवानां तु वरप्रदम् ।

प्रियव्रतस्य तद् देवि सर्वयज्ञफलप्रदम् ॥

[११५] तस्यैव दक्षिणे देवि लिङ्गं पूर्वामुखं स्थितम् ।

सर्वपापप्रशमनं गौतमेशं च नामतः ॥

तेन दृष्टेन देवेशि सामवेदफलं लभेत् ।

तस्यैव दक्षिणे देवि विभाण्डेश्वरसञ्ज्ञितम् ॥

ऋष्यशृङ्गेश्वरं नाम तस्य दक्षिणतः स्थितम् ।

तस्यैव पूर्वतो देवि ब्रह्मेश्वरम् इति स्मृतम् ॥

ब्रह्मेश्वराच् च कोणेन पिशाचेश्वरसञ्ज्ञितम् ।

पश्चिमाभिमुखं देवि पर्जन्येश्वरनामतः ॥

पर्जन्येश्वरनामानं भुक्तिमुक्तिफलप्रदम् ।

पर्जन्येश्वरपूर्वेण नाम्ना तु नहुषेश्वरम् ॥

नहुषेश्वरपूर्वेण देवदेवी च तिष्थति ।

विशालाक्षीति विख्याता भक्तानां तु फलप्रदा ॥

तस्यैव दक्षिणे भागे जरासन्धेश्वरं स्थितम् ।

चतुर्मुखं तु तल् लिङ्गं दृष्ट्वा देवि फलप्रदम् ॥

तस्यैव दक्षिणे देवि भोगदा सर्वदेहिनाम् ।

भोगा ललितका देवि सर्वसिद्धिप्रदायिका ॥

जरासन्धेश्वरस्याग्रे लिङ्गं पूर्वामुखं स्थितम् ।

हिरण्याक्षेश्वरं नाम हिरण्यफलदायकम् ॥

तस्यैव दक्षिणे लिङ्गं ययातीश्वरनामतः ।

पूर्वामुखं तु तल् लिङ्गं सर्वकामफलप्रदम् ॥

तस्यैव पश्चिमे भागे ब्रह्मेशस्य समीपतः ।

[११६] पश्चान्मुखं तु तल् लिङ्गं दृष्ट्वा वेदफलं लभेत् ॥

अगस्त्यस्य समीपे तु मुखलिङ्गं तु तिष्ठति ।

विश्वावसुस् तु गन्धर्वो लिङ्गं स्थापितवान् पुरा ॥

अगस्त्येश्वरपूर्वेण मुण्डेशो नाम नामतः ।

पश्चान्मुखं तु तल् लिङ्गं वीरसिद्धिप्रदं नृणाम् ॥

तस्यैव दक्षिणे देवि विधिस् तिष्ठति पार्वति ।

विधिना स्थापितं लिङ्गं पश्चिमाभिमुखं स्थितम् ॥

विधीश्वराद् दक्षिणेन तीर्थं सर्वत्र विश्रुतम् ।

दशाश्वमेधिकं नाम लिङ्गं तत्र स्वयं स्थितम् ॥

तं दृष्ट्वा मानवो देवि अश्वमेधफलं लभेत् ।

दशाश्वमेधाच् चोत्तरतो मातरस् तत्र संस्थिताः ॥

तासां मुखे तु तत् कुण्डं तिष्ठते वरवर्णिनि ।

तत्र स्थानं नरः कुर्यान् नारी वा पुरुषो ऽपि वा ॥

ईप्सितं फलम् आप्नोति मातॄणां च प्रसादतः ।

अगस्त्येशाद् दक्षिणतो लिङ्गं पूर्वामुखं स्थितम् ॥

पुलस्त्येश्वरनामानं सर्वारोग्यविवर्धनम् ।

तस्य दक्षिणदिग्भागे लिङ्गम् अन्यच् च तिष्ठति ॥

[११७] पुष्पदन्तेश्वरं नाम सर्वसिद्धिप्रदायकम् ।

तस्यैवाग्रे तु कोणे तु लिङ्गानि सुमहान्ति च ॥

देवर्षिगणपुष्टानि सर्वसिद्धिकराणि च ।

तस्यैव पूर्वदिग्भागे महदाश्चर्यदायकम् ॥

पञ्चोपचारपूजायां स्व्प्नसिद्धिं करिष्यति ।

लिङ्गं सिद्धेश्वरं नाम पूर्वाभिमुखसंस्थितम् ॥

इति श्रीलिङ्गपुराणे वाराणसीमाहात्म्ये गुह्यायतनवर्णणं नाम

पञ्चदशो ऽध्यायः ।

	ईश्वर उवाच ।

अन्यच् चैव प्रवक्ष्यामि हरिश्चन्द्रेश्वरं शुभम् ।

यत्र सिद्धो महात्मा वै हरिश्चन्दो महाबलः ॥

तं दृष्ट्वा मानवो देवि रुद्रस्य पदम् आप्नुयात् ।

पूर्वामुखं तु तल् लिङ्गं स्वर्गलोकप्रदायकम् ॥

हरिश्चन्द्रेश्वराद् देवि अन्यल् लिङ्गं तु पश्चिमे ।

पूर्वामुखं तु तं देवि नाम्ना वै नैरृतेश्वरम् ॥

तस्य सन्दर्शनाद् देवि कैवल्यं ज्ञानम् आप्नुयात् ।

तस्यैव दक्षिणे लिङ्गं पूर्वामुखम् अवस्थितम् ॥

नाम्ना ह्य् आङ्गिरसेशं तद् वैराग्यसुखदायकम् ।

तस्यैव दक्षिणे देवि क्षेमेश्वरम् अनुत्तमम् ॥

[११८] [तस्य दक्षिणदिग्भागे केदारं नाम विश्रुतम् ।

तं दृष्ट्वा मनुजो देवि रुद्रस्यानुचरो भवेत् ॥

केदाराद् दक्षिणे चैव लिङ्गं पूर्वामुखं स्थितम् ।

नीलकण्ठेति नामानं सुरलोकप्रदायकम् ॥

तस्यैव वायवे कोणे अम्बरीशेश्वरं शुभम् । ]

तस्य दक्षिणदिग्भागे लिङ्गं वै दक्षिणामुखम् ॥

नाम्ना कालञ्जरं देवं सर्वपातकनाशनम् ।

तस्यैव दक्षिणे भागे लोकार्को नाम वै रविः ॥

तस्य दर्शनमात्रेण सूर्यलोकम् अवाप्नुयात् ।

लोलार्कात् पश्चिमे भागे दुर्गादेवी च तिष्ठति ॥

मानवानां हितार्थाय कूटे क्षेत्रस्य दक्षिणे ।

दुर्गायाः पश्चिमे देवि लिङ्गं पूर्वामुखं स्थितम् ॥

असितेन च तद् देवि भक्त्या वै सम्प्रतिष्ठितम् ।

शुष्कनद्यास् तु नाम्ना वै शुष्केश्वरम् इति स्मृतम् ॥

[११९] शुष्केश्वरात् पश्चिमेन नाम्ना तु जनकेश्वरम् ।

जनकेन महाभागे भक्त्या चापि प्रतिष्ठितम् ॥

पश्चान्मुखं तु तल् लिङ्गं दर्शनाद् अव्यथः शुभे ।

तस्यैव चोत्तरे भागे नातिदूरे यशस्विनि ॥

शङ्कुकर्णेश्वरं नाम लिङ्गं तत्रैव तिष्थति ।

तस्य दर्शनमात्रेण व्रतसिद्धिर् भवेन् नृणाम् ॥

शुष्केश्वराच् चोत्तरेण लिङ्गं पश्चान्मुखं स्थितम् ।

सिद्धेश्वरेति नामानं कुण्डस्यैव तटस्थितम् ॥

तत्र कुण्डे नरः स्नात्वा दृष्ट्वा सिद्धेश्वरं तु वै ।

सर्वासाम् एव सिद्धीनां पारं गच्छति मानवः ॥

वायव्ये तु दिशाभागे शङ्कुकर्णेश्वरस्य तु ।

माण्डव्येशम् इति ख्यातं सुरसिद्धैस् तु वन्दितम् ॥

तस्य चैव समीपे तु स्वयं देवश् च तिष्ठति ।

गणैः परिवृतो देवि देव्या सह महाप्रभुः ॥

द्वारे स्वे तिष्ठते देवि स्वयं क्षेत्रं च रक्षति ।

देवस्य चोत्तरे भागे नातिदूरे व्यवस्थितम् ॥

मुखलिङ्गं तु तत्रैव लिङ्गं पूर्वामुखं शुभे ।

तस्यैव चोत्तरे पार्श्वे छागलेश्वरसञ्ज्ञितम् ॥

पश्चान्मुखं तु तल् लिङ्गं सर्वसिद्धिप्रदायकम् ।

अन्यद् आयतनं देवि पश्चिमेन यशस्विनि ॥

कपर्दीश्वरनामानम् उत्तमं सर्वदायकम् ।

[१२०] तस्य पूर्वेण सुश्रोणि लिङ्गं पूर्वामुखं स्थितम् ॥

हरितेश्वरनामानं सर्वपापक्षयङ्करम् ।

कात्यायनेश्वरं नाम तस्य दक्षिणतः स्थितम् ॥

तेन दृष्टेन मनुजः सर्वयज्जफलं लभेत् ।

अन्यत् तस्यैव पार्श्वे तु अङ्गारेश्वरसञ्ज्ञितम् ॥

तडागं चापि तत्रस्थम् अङ्गारेश्वरसञ्ज्ञितम् ।

तस्य दक्षिणदिग्भागे नातिदूरे व्यवस्थितम् ॥

मुकुरेश्वरनामानं सर्वयात्राफलप्रदम् ।

पाश्चिमाभिमुखं लिङ्गं कुण्डस्य पुरतः स्थितम् ॥

तस्य कुण्डस्य पार्श्वे तु छागलेश्वरसञ्ज्ञितम् ।

तस्य दर्शनमात्रेण योगैश्वर्यं प्रवर्तते ॥

अन्यानि सन्ति लिङ्गानि शतशो ऽथ सहस्रशः ।

न मया तानि चोक्तानि बहुत्वान् नामधेयतः ॥

सप्तकोट्यस् तु लिङ्गानि अस्मिन् स्थाने स्थिता भुवि ॥

तेषां दर्शनमात्रेण ज्ञानं चोत्पद्यते क्षणात् ।

उद्देशमात्रं कथितं मया तुभ्यं वरानने ॥

न शक्यं विस्तराद् वक्तुं वर्षक्ōटिशतैर् अपि ।

एतानि सिद्धलिङ्गानि कूपाः पुण्या ह्रदास् तथा ॥

वाप्यो नद्यो ऽथ कुण्डानि मया ते परिकीर्तिताः ।

एतेषु चैव यः स्नानं करिष्यति समाहितः ॥

लिङ्गानि स्पर्शयित्वा च संसारे न विशेत् पुनः ।

पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि (च?) ॥

[१२१] तेषां मध्ये तु ये श्रेष्ठा मया ते कथिता शुभे ।

तीर्थयात्रा वरारोहे कथिता पापनाशिनी ॥

येन चैषा कृता देवि सो ऽवश्यं मुक्तिभाग् भवेत् ।

इति श्रीलिङ्गपुराणे वाराणसीमाहात्म्ये गुह्यायतनवर्णनं नाम

षोडशो ऽध्यायः ।

	ईश्वर उवाच ।

अन्यच् चैव प्रवक्ष्यामि महाभाग्यं वरानने ।

चतुर्दशायतनं कृत्वा अष्टायतनम् एव च ॥

पञ्चायतनम् एवं तु ललिता च विनायकः ।

नवदुर्गास् तथा प्रोक्ता एतत् कृत्यं वरानने ॥

रहस्यम् एतत् कथितं न देयं यस्य कस्यचित् ।

शैलेशं प्रथमं दृष्ट्वा स्नात्वा वै वरणां नदीम् ॥

स्नानं तु सङ्गमे कृत्वा दृष्ट्वा वै सङ्गमेश्वरम् ।

स्वर्लीने तु कृतस्नानो दृष्ट्वा स्वर्लीनम् ईश्वरम् ॥

मन्दाकिन्यां नरः स्नात्वा दृष्ट्वा वै मध्यमेश्वरम् ।

हिरण्यगर्भे स्नातस् तु दृष्ट्वा चैव तु ईश्वरम् ॥

मणिकर्ण्यां नरः स्नात्वा दृष्ट्वा चैशानम् ईश्वरम् ।

तस्मिन् कूप उपस्पृश्य दृष्ट्वा गोप्रेक्षम् ईश्वरम् ॥

कपिलायां ह्रदे स्नात्वा दृष्ट्वा वै वृषभधवजम् ।

उपशान्तस्य देवस्य दक्षिणे कूपम् उत्तमम् ॥

[१२२] तस्मिन् कूपे उपस्पृश्य दृष्ट्वोपशान्तम् ईश्वरम् ।

पञ्चचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततो ऽर्चयेत् ॥

चतुःसमुद्रकूपे तु स्नात्वा देवं ततो ऽर्चयेत् ।

देवस्याग्रे तु कूपस्य तत्रोपस्पर्शने कृते ॥

ततो ऽर्चयेत देवेशं शुद्धेश्वरम् अतः परम् ।

दण्डखाते नरः स्नात्वा व्यादेशं तु ततो ऽर्चयेत् ॥

शौनकेश्वरकुण्डे तु स्नानं कृत्वा ततो ऽर्चयेत् ।

जम्बुकेश्वरनामानं दृष्ट्वा चैव यशस्विनि ॥

दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे ।

प्रतिपत्प्रभृति देवेशि यावत् कृष्णचतुर्दशीम् ॥

एतत्क्रमेण कर्तव्यं महद् आयतनं शुभे ।

अतः परं प्रवक्ष्यामि अष्टायतनम् उत्तमम् ॥

तं दृष्ट्वा मनुजो देवि लाङ्गलीशं ततो व्रजेत् ।

तं दृष्ट्वा तु ततो देवि आषाढीशं ततो ऽर्चयेत् ॥

दृष्ट्वा चाषाडिनं देवि भारभूतं ततो व्रजेत् ।

तं दृष्ट्वा तु ततो देवं गच्छेद् वै त्रिपुरान्तकम् ॥

तं दृष्ट्वापि ततो देवि नकुलीशं ततो व्रजेत् ।

दक्षिणे नकुलीशस्य त्र्यम्बकं च ततो व्रजेत् ॥

[१२३] अष्टायतनम् एवं हि मया ते परिकीर्तितम् ।

अष्टायतनम् एतद् धि करिष्यन्ति हि ये नराः ॥

ते मृतापि बहिः क्षेत्रे रुद्रलोकस्य भाजनाः ।

	ईश्वर उवाच ।

पूर्वं चैव मया देवि पञ्चायतनम् उत्तमम् ।

रोचते मे सदा वासः पञ्चायतन उत्तमे ॥

एषां दिग् उत्तरा देवि वाराणस्यां सदा प्रिये ।

मम चोत्तरतो नित्यम् अस्मिन् स्थाने विशेषतः ॥

एकान्तवासिनो विप्रा भस्मनिष्ठा दृढव्रताः ।

तेषां तु चोत्तमं स्थानं तद् वदन्ति च केचन ॥

दिव्या हि सा परा मूर्तिर् ओङ्कारे ह स्थितः सदा ।

उत्पत्तिस्थितिकाले ऽहं तस्मिन्न् आयतने स्थितः ॥

एवं च यो विजानाति न स पापेन लिप्यते ।

सत्यं सत्यं पुनः सत्यं त्रिः सत्यं नान्यतश्ः शुभे ॥

शीघ्रं तत्र च संयातु यदीच्छेन् मामकं पदम् ।

एवं ते कथितं देवि पुनर् विस्तरतो मया ॥

	ईश्वर उवाच ।

अविमुक्तं च स्वर्लीनं तथा मध्यमकं शूभम् ।

एतत् त्रिकण्टकं नाम मृत्युकाले ऽमृतप्रदम् ॥

कारणं तस्य क्षेत्रस्य मया ते कथितं शुभे ।

इयं वाराणसी पुण्या श्रेष्ठा पाशुपती स्थली ॥

[१२४] सर्वेषां चैव जन्तूनां हेतुर् मोक्षस्य सुन्दरि ।

तथा

अविमुक्तं च स्वर्लीनम् ओङ्कारं चण्डम् ईश्वरम् ।

मध्यमं कृत्तिवासं च षडङ्गम् ईश्वरं स्मृतम् ॥

अविमुक्ते महाक्षेत्रे गुह्यम् एतत् परं मम ।

सोपदेशेन ज्ञातव्यं यदीच्छेत् परमं पदम् ॥

एतद् रहस्यमाहात्म्यं न देयं यस्य कस्यचित् ।

अतः परं प्रवक्ष्यामि यात्राकालं च सर्वदा ॥

चैत्रमासे तु देवैस् तु यात्रेयं च कृता शुभा ।

तस्यैव कामकुण्डे तु स्नानपूजनतत्परैः ॥

वैशाखे दैत्यराजैस् तु यात्रेयं च कृता पुरा ।

विमलेश्वरकुण्डे तु स्नानपूजनतत्परैः ॥

ज्येष्ठमासे ऽपि सिद्धैस् तु यात्रेयं च कृता पुरा ।

रुद्रवासस्य कुण्डे तु स्नानपूजनतत्परैः ॥

आषाढे चापि गन्दर्वैर् यात्रेयं च कृता मम ।

श्रेया देवास् तु कुण्डस्थैः स्नानपूजनतत्परैः ॥

विध्याधरैस् तु यात्रेयं श्रावणे मासि तत्परैः ।

लक्ष्मीकुण्डस्य संस्थैश् च स्नानपूजनतत्परैः ॥

पितृभिश् चापि यात्रेयम् आश्विने मासि तत्परैः ।

कपिलाह्रदसंस्थैश् च स्नानपूजनतत्परैः ॥

[१२५] ऋषिभिश् चापि यात्रेयं कार्तिके मासि तत्परैः ।

मार्कण्डेयह्रदस्थैश् च स्नानपूजनतत्परैः ॥

विद्याधरैश् च यात्रेयं मासि मार्गशिरे कृता ।

कपालमोचनस्थैश् च स्नानपूजनतत्परैः ॥

गुह्यकैश् चैव यात्रेयं पुष्यमासे तु तत्परैः ।

पिशाचैश् चैव यात्रेयं माघमासे च तत्परैः ॥

धनदेश्वरकुण्डस्थैः स्नानपूजनतत्परैः ।

यक्षेशैश् चापि यात्रेयं माघमासे च तत्परैः ॥

कोटितीर्थे तु संस्थैश् च स्नानपूजनतत्परिः ।

पिशाचैश् चैव यात्रेयं फाल्गुने मासि तत्परैः ॥

गोकर्णकुण्डसंस्थैश् च स्नानपूजनतत्परैः ।

पिशाचैस् तु यदा यस्मिन् फाल्गुनस्य चतुर्दशीम् ॥

तेन सा प्रोच्यते देवि पिशाची नाम विश्रुता ।

अतः परं प्रवक्ष्यामि यात्रायां निष्कृतिः परा ॥

उदकुम्भास् तु दातव्या मिष्टान्नेन समन्विताः ।

तेन देवि तदा प्राप्तं पूर्वोक्तं फलम् एव च ॥

अतः परं प्रवक्ष्यामि यात्रायां च वरानने ।

शुक्लपक्षे तृतीयायां तव यात्रा महाफला ॥

यत्र गौरी तु द्रष्टव्या तां च शृणु वरानने ।

स्नानं कृत्वा तु गन्तव्यं गोप्रेक्षे तु यशस्विनि ॥

अहनि कालिका देवी अर्चितव्या प्रयत्नतः ।

ज्येष्ट्ःअस्थाने ततो गौरी अर्चितव्या प्रयत्नतः ॥

तस्मात् स्थानात् तु गन्तव्यम् अविमुक्तस्य चोत्तरे ।

[१२६] तत्र देवी सदा गौरी पूजितव्या च भकितः ॥

अन्या वापि परा प्रोक्ता सम्वर्तललिता शुभा ।

द्रष्टव्या चापि सा देवी सर्वकामफलप्रदा ॥

सर्वकामान् अवाप्नोति यदि द्यायेत मानवः ।

ततस् तु भोजयेद् विप्रान् शिवभक्तान् शुचिव्रतान् ॥

वासैः सदक्षिणैश् चैव यथार्हम् अतिपुष्कलैः ।

पञ्चगौरीं तु यः कृत्वा भक्त्या देवि समाहितः ॥

सर्वांश् चैव रसान् गन्धान् गौरीम् उद्दिश्य ब्राह्मणे ।

दद्याद् इति शेषः ।

उत्तमं श्रेय आप्नोति सौभाग्येन समन्वितम् ।

विनायकान् प्रवक्ष्यामि तस्य क्षेत्रस्य विघ्नदान् ॥

ढुण्ढिं तु प्रथमं दृष्ट्वा तथा कोणविनायकम् ।

देव्या विनायकं चैव गोप्रेक्षे हस्तिनं स्मृतम् ॥

विनायकं तथैवान्यं सिन्दूरं नाम विश्रुतम् ।

चतुर्थो देवि द्रष्टव्य एवं पञ्च विनायकाः ॥

लड्डुकाश् च प्रदातव्या एतान् उद्दिश्य ब्राह्मणे ।

एतेन चैव धर्मेण सिद्धिमान् जायते नरः ॥

अतः परं प्रवक्ष्यामि चण्डिकाः क्षेत्ररक्षिकाः ।

दक्षिणे रक्षते दुर्गा नैरृते चोत्तरेश्वरी ॥

अङ्गारेशी पश्चिमे च वायव्य भद्रकालिका ।

उत्तरे भीष्मचण्डी च महामुण्डा च सा ततः ॥

[१२७] ऊर्ध्वकेशी समायुक्ता शाङ्करी सर्वतः स्मृता ।

ऊर्ध्वकेशी च आग्नेय्यां चित्रघण्टाथ मध्यतः ॥

एताश् च चण्डिका देवि यो ऽत्र द्रक्ष्यति च मानवः ।

तस्य तुष्टाश् च ताः सर्वाः क्षेत्रं रक्षन्ति तत्पराः ॥

विघ्नं कुर्वन्ति सततं पापानां देवि सर्वदा ।

तस्माच् चैव सदा पूज्याश् चण्डिकाः सविनायकाः ॥

यदीच्छेत् सततं देवि वाराणस्यां शूभां स्थितम् ।

अन्यच् च ते प्रवक्ष्यामि तस्मिन् क्षेत्रे सुरेश्वरि ॥

तिस्रो नद्यस् तु तत्रस्था वहन्ति च शुभोदकाः ।

यासां दर्शनमात्रेण ब्रह्महत्या निवर्तते ॥

एका पितामहस्रोता मन्दाकिनी तथापरा ।

मत्स्योदरी तृतीया च एतास् तिस्रस् तु पुण्यदाः ॥

मन्दाकिनी तथा पुण्या मध्यमेश्वरसंस्थिता ।

पिताम्हस्रोतिका च अविमुक्ते तु पुण्यदा ॥

मत्स्योदरी च ओङ्कारे पुण्यदा सर्वदैवतैः ।

तस्मिन् स्थाने यदि गङ्गा आगमिष्यति भामिनि ॥

तदा पुण्यतमः कालो देवानाम् अपि दुर्लभः ।

वरणासिक्तसलिले जाह्नवी जलमिश्रिते ॥

तत्र नादेश्वरे पुण्ये स्नातः कुम् अनुशोचति ।

तस्मिन् काले च तत्रैव स्नानं देवि कृतं मया ॥

तेन हस्ततलाद् देवि कपालं पतितं क्षणात् ।

कपालमोचनं नाम् तत्रैव सुमहत्सरः ॥

[१२८] पावनं सर्वसत्त्वानां पुण्यदं सर्वदेहिनाम् ।

ओङ्कारेश्वरनामानं तत्र स्नानं कृतं मया ॥

तेन स प्रोच्यते देव ओङ्कारेश्वरनामतः ।

मत्सोदरीजले गङ्गा ओङ्कारेश्वरसन्निधौ ॥

तदा तस्मिन् जले स्नात्वा ब्रह्महत्यां व्यपोहति ।

मत्स्योदरीजले स्नात्वा दृष्ट्वा चोङ्कारम् ईश्वरम् ॥

शोकमोहजरामृत्युर् न च तं स्पृशते पुनः ।

इति श्रीलिङ्गपुराणे वाराणसीमाहात्म्ये गुह्यायतनवर्णनं नाम

सप्तदशो ऽध्यायः ।

	विष्णुर् उवाच ।

एतच् छ्रुत्वा वचो देवी विस्मयोत्फुल्ललोचना ।

ओङ्कारदर्शनार्थं वै कपिलेशम् उपागता ॥

तस्मात् त्वम् अपि देवेशं पूजयस्व सदाशिवम् ।

एतत् परमम् आनन्दं प्राप्स्यते परमं पदम् ॥

एतच् छ्रुत्वा परं गुह्यं सकाशाच् चक्रप्राणिनः ।

ओङ्कारम् अर्चयेद् देवं सदा तद्गतमानसः ॥

	सूर्य उवाच ।

तस्मात् त्वम् अपि दुर्धर्षम् आराधय सुरेश्वरम् ।

तेन तत्पदम् आप्नोषि यद् अन्यैर् अपि दुर्लभम् ॥

सूर्यस्य वचनं श्रुत्वा वाराणस्याम् उपागतः ।

तत्र देवि तद् ओङ्कारं दृष्ट्वा चैव प्रणम्य च ॥

आराधनपरो भूत्वा लिङ्गं स्थाप्य चतुर्मुखम् ।

देवदेवसकाशाद् वै कृतकृत्यो भवेच् छुचिः ॥

[१२९] यः सम्प्राप्य महत्तत्त्वम् ईश्वरे कृतनिश्चयः ।

तस्मात् त्वम् अपि गाङ्गेय यति श्रेयो ऽभिवाञ्छसि ॥

आराधयस्व देवेशं मनसः स्थैर्यम् आत्मनः ।

तथा

तस्मिंस् तु यः शिवः साक्षाद् ओङ्कारेश्वरसञ्ज्ञितः ॥

एतत् गुह्यस्य माहात्म्यं तव स्नेहान् महामुने ।

अकारं च उकारं च मकारं च प्रकीर्तितः ॥

अस्मिंल् लिङ्गे तु संसिद्धो मुनिकालिकवृक्षयः (?) ।

अकारस् तत्र विज्ञेयो विष्णुलोकगतिप्रदः ॥

तस्य दक्षिणपार्श्वे तु ओङ्काराख्येति कीर्तितः ।

तत्र सिद्धिं परां प्राप्तो देवाचार्यो बृहस्पतिः ॥

उकारं तत्र विज्ञेयं ब्रह्मणः पदम् अव्ययम् ।

तस्य चोत्तरदिग्भागे मकारं विष्णुसञ्ज्ञकम् ॥

तस्मिंल् लिङ्गे च संसिद्धः कपिलर्षिर् महामुनिः ।

तस्मात् त्वम् अपि गार्गेय मनःस्थैर्यं यदीच्छसि ॥

लिङ्गस्याराधने यत्नं कुरुष्व नियतव्रतः ।

विद्यां पाशुपतीं प्राप्य तस्मिन् स्तुत्ये व्यपाश्रयः ॥

निर्ममो निरहङ्कारः पदम् आप्नोषि शाश्वतम् ।

एतच् छ्रुत्वा वचः स्तुत्वा याज्ञवल्क्यस्य दर्शिताः ॥

वाराणसीं समभ्येत्य पञ्चायतनम् उत्तमम् ।

आराध्यमानो देवेशस् तस्मिन् स्थाने स्थितः सदा ॥

तस्माद् अन्ये ऽपि ये केचिल् लिङ्गस्याराधने रताः ।

तेषां वै पश्चिमे काले ज्ञानम् उत्पद्यते सदा ॥

[१३०] एवं ज्ञात्वा तु यो मर्त्यः सदा लिङ्गार्चने रतः ।

न तस्य पुनरावृत्तिः कल्पकोटिशतैर् अपि ॥

तस्माद् वै सम्प्रदायाच् च अर्चितव्यं प्रयत्नतः ।

मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् ॥

लिङ्गं यो ऽरचयते विप्र आत्मानं स समुद्धरेत् ।

आत्मानं घातयेन् नित्यं यो न लिङ्गं समर्चयेत् ॥

इति श्रीलिङ्गपुराणे वाराणसीमाहात्मे गुह्यायतनवर्णनं

नामाष्टादशो ऽध्यायः ।

स्कन्दपुराणे

स तम् उद्यानम् आसाद्य देवीम् आह जगत्पतिः ।

अस्मिन् देशे पुरा देवि तिष्ठतो मम शोभने ॥

ऊर्ध्वं गोलोकसंस्थाने गवां वत्सैः स्वयम्भवैः ।

वेगतः पीयमानानां फेनो मूर्ध्नि ममापतत् ॥

ततो न पश्यति ताश् च गा वत्साः सोमपार्श्वगाः ।

ततस् ताः प्रेक्षितास् तत्र मया गावस् तदाभवन् ॥

तेजसा दह्यमानास् तु नैव कर्मास्तु (?) साधिताः ।

गावः पूर्वम् इमा देवि आसन् कपिलवर्णकाः ॥

नैकवर्णास् तदा भूत्वा मया सम्प्रेक्षिताः सदा ।

शरणं तस्य ता जग्मुर् ब्रह्माणं विबुधोत्तमम् ॥

अग्रतः समुपागत्य कृताञ्जलिपुटस् ततः ।

अर्दिताभिस् तदा गोभिर् ब्रह्मा माम् अब्रवीत् ततः ॥

प्रसादं कुरु वेदेश सुरभीणां सुतेजसाम् ।

विनश्येयुर् यथा नेमास् तथा कुरु सुरार्चितः ॥

[१३१] ततो ऽहम् आस्थितो देवि स्थाने ऽस्मिन् स्वयम् एव तु ।

गोप्रेक्षक इति ख्यातः संस्तुतः सर्वदेवतैः ॥

गौप्रेक्षेश्वरम् आगत्य दृष्ट्वाभ्यर्च्य च मानवः ।

न दुर्गतिम् अवाप्नोति कल्मशैश् च विमुच्यते ॥

ततस् ता दह्यमानास् तु प्रसवैः सुरभी मया ।

ह्रदे ऽस्मिन् पेतुर् अभ्येत्य श्रान्तास् तोयं पपुस् तथा ॥

कपिलाह्रद इत्य् एवं ततः प्रभृति कथ्यते ।

अत्रापि स्वयम् एवाहं वृषध्वज इति स्थितः ॥

सान्निध्यं कृतवान् देवि सदायं दृश्यतां स्थितः ।

कपिलाह्रदतीर्थे ऽस्मिन् स्नात्वा संयतमानसः ॥

वृषध्वजम् इदं दृष्ट्वा सर्वयज्ञफलं लभेत् ।

स्वर्लोकतां मृतश् चापि अर्चयित्वा तु माम् इह ॥

लभते देहभेदेन गणत्वं चातिदुर्लभम् ।

अस्मिन्न् अपि प्रदेशे तु ता गावो ब्रह्मणा स्वयम् ॥

शान्त्यर्थं सर्वलोकानां सर्वा दुग्धाः पयो ऽमृतम् ।

तासां क्षीरेण सञ्जातं ह्रदम् एतन् मनोहरम् ॥

भद्रदोहम् इति ख्यातं पुण्यं देवह्रदं शुभम् ।

सर्वैर् देवैर् अहं देवि अस्मिन् देशे प्रसादितः ॥

गच्छोपशमम् ईशेति उपशाण्तः शिवस् ततः ।

शिवो भूत्वा ऽहम् अत्रस्थः पुण्यम् अस्यापि दर्शनम् ॥

दृष्ट्वैनं नियतो मर्त्यः स्वर्गलोकम् अवाप्नुयात् ।

अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना ॥

[१३२] ब्रह्मणश् चापि सङ्गृह्य विष्णुना स्थापितः पुनः ।

ब्रह्मणा स ततो विष्णुः प्रोक्तः सम्भिन्नचेतसा ॥

मयानीतम् इदं लिङ्गं कस्मात् स्थापितवान् असि ।

तम् उवाच पुनर् विष्णुर् ब्रह्माणं कुपिताननम् ॥

रुद्रे देवे ममात्यन्तं परा भक्तिर् महत्तरा ।

मयैव स्थापितो ऽपीह नाम्ना तव भविष्यति ॥

हिरण्यगर्भ इत्य् एवं तत्राहं समवस्थितम् ।

दृष्ट्वैनम् अपि देवेशि मम लोके महीयते ॥

पुनश् चापि ततो ब्रह्मा मम लिङ्गम् इदं शुभे ।

स्ह्तापयामास विधिवद् भक्त्या परमया पुनः ॥

स्वर्लीनेश्वर इत्य् एवं तत्राहं समवस्थितः ।

तस्मिन् परतरे लीने प्रधाने मम कारणे ॥

तस्मात् स्वर्लीन इत्य् एवं गुह्यक्षेत्रम् इति स्थितम् ।

प्राणान् इह नरस् त्यक्त्वा न पुनर् जायते क्वचित् ॥

अनन्ता सा गतिस् तस्य योगिनाम् एव या स्मृता ।

अस्मिन्न् अपि महादेशे दैत्यो देवस्य कण्टकः ॥

व्याघ्ररूपं समास्थाय निहतो दर्पितो बली ।

व्याघ्रेश्वरेति सङ्ख्यातो नित्यम् अत्राहम् आस्थितः ॥

न पुनर् दुर्गतिं याति दृष्टेन स महेश्वरम् ।

उत्पलो विदलश् चैव यौ दैतौ ब्रह्मणः पुरा ॥

स्त्रीवध्यौ दर्पितौ दृष्ट्वा त्वयैव निहतौ शुभे ।

सावज्ञं कन्दुकेनात्र तस्येदं चिह्नम् आस्थितम् ॥

आदाव् अत्राहम् आगत्य आस्थितो गणपैः सह ।

ज्येष्ठस्थानम् इदं तस्माद् एतन् मे पुण्यदर्शनम् ॥

[१३३] दृष्ट्वैवं मम लिङ्गं तु ज्येष्ठस्थानसमाश्रितम् ।

न शोचते पुनर् मर्त्यः सिद्धो जन्मनि जन्मनि ॥

समन्ताच् चापि देवैर् मे लिङ्गानि स्थापितानि ह ।

दृष्ट्वा तु नियतो मर्त्यो देहभेदे गणो भवेत् ॥

इदानीम् अहम् आगत्य स्वयम् अस्मिन् व्यवस्थितः ।

न विमुक्तं मया यस्माद् अविमुक्तमिदं ततः ॥

क्षेत्रं वाराणसीपुण्यं मुक्तिदं सम्भविष्यति ।

अविमुक्तेश्वरं मां वै यो ऽत्र द्रक्ष्यति मानवः ॥

गाणपत्यं गतिस् तस्य यत्र तत्र मृतस्य हि ।

प्राणान् हि च सन्त्यज्य प्राप्यते मुक्तिर् उत्तमा ॥

पित्रा ते गिरिराजेन शैले हिमवता स्वयम् ।

मम प्रियं तु तत् स्थानं ज्ञात्वा लिङ्गं प्रतिष्ठितम् ॥

शैलेश्वरम् इति ख्यातं दृश्यताम् इह संस्थितम् ।

दृष्ट्वैनं मनुजो देवि न दुर्गतिम् अवाप्नुयात् ॥

नदी वाराणसी चेयं पुण्या पापप्रणाशिनी ।

क्षेत्रम् एतद् अलङ्कृत्य जाह्नव्या सह सङ्गता ॥

स्थापितं सङ्गमे चास्मिन् ब्रह्मणा लिङ्गम् उत्तमम् ।

सङ्गमेश्वरम् इत्य् एवं ख्यातं जगति दृश्यते ॥

सङ्गमे देवनद्योश् च यः स्नात्वा मनुजः शुचिः ।

अर्चयेत् सङ्गमेशानं तस्य जन्मभयं कुतः ॥

स्थापितं लिङ्गम् एतच् च शुक्रेण तव सूनुना ।

नाम्ना शुक्रेश्वरं लिङ्गं सर्वसिद्धामरार्चितम् ॥

[१३४] दृष्ट्वैव मानवः सद्यो मुक्तः स्यात् सर्वकिल्बिषैः ।

न मृतश् च पुनर्जन्म संसारे तु लभेन् नरः ॥

पुरा जम्बूक्रूपेण असुरो देवकण्टकः ।

ब्रह्मणः स वरं लब्ध्वा गोमायुर् वधशङ्कितः ॥

हतो हिमवतः पुत्रि जम्बुकेशस् ततो ह्य् अहम् ।

अनवद्यगतिः ख्यातः सुरासुरनमस्कृतः ॥

दृष्ट्वैनम् अपि देवेशं सर्वान् कामान् अवाप्नुयात् ।

देवैः शक्रपुरोगैश् च एतानि स्थापितानि ह ॥

पञ्च लिङ्गानि पुण्यानि सर्वकामप्रदानि तु ।

एवम् एतानि पुण्यानि सन्निवासासि पार्वति ॥

कथितानि तव क्षेत्रे गुह्यं वाक्यमिदं शृणु ।

महालयगिरिस्थं मां केदारे च व्यवस्थितम् ॥

गणत्वं लभते दृष्ट्वा क्षेत्रे ऽस्मिन् मुक्तिर् उच्यते ।

गाणपत्यपदं तस्माद् यतः सा मुक्तिर् उत्तमा ॥

ततो महालयात् तस्मात् केदारान् मध्यमाद् अपि ।

स्मृतं पुण्यतमं क्षेत्रम् अविमुक्तम् इदं शुभे ॥

केदारं मध्यमं स्थानं स्थानं चैव महालयम् ।

मम पुण्यानि भूलोके तेभ्यः श्रेष्ठतमं त्व् इदम् ॥

मम सृष्टास् त्व् इमे लोकास् त्व् अतः क्षेत्रम् इदं शुभे ।

लोके वित्तसमायुक्तम् अविमुक्तम् अतो ऽभवत् ॥

अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः ।

सद्यः पापविनिर्मुक्तः पशुपाशैर् विमुच्यते ॥

[१३५] शैलेशं सङ्गमेशं च स्वर्लीनं मध्यमेश्वरम् ।

हिरण्यगर्भम् ईशानं गोप्रेक्षं वृषभद्वजम् ॥

उपशान्तशिवं चैव ज्येष्ठस्थाननिवासिनम् ।

शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम् ॥

दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे ।

इति भट्टहृदयधरात्मजमहासन्धिग्रहिक-

भट्टश्रीलक्ष्मीधर्विरचिते कृत्यकल्पतरौ

तीर्थकाण्डे वाराणसीमाहात्म्यं समाप्तम् ॥

[१३६]

अथ प्रयागमाहात्म्यम्

तत्र मत्स्यपुराणे ।

भगवन् श्रोतुम् इच्छामि पुराकल्पे यथा श्रुतम् ।

[ब्रह्मणा देवमुख्येन यथावत् कथितं मुने ] ॥

कथं प्रयागगमनं नराणां तत्र कीदृशम् ।

मृतानां का गतिस् तत्र स्नातानां चैव किं फलम् ।

एतत् सर्वं ममाख्याहि परं कौतूहलं हि मे ॥

	मार्कण्डेय उवाच ।

कथयिष्यामि ते वत्स यच् चेष्टं यच् च तत् फलम् ।

पुरा ऋषीणां विप्राणां कथ्यमानं मया श्रुतम् ॥

यत्र स्नात्वा दिवं यान्ति ये मृतास् ते ऽपुनर्भावाः ।

आप्रयागप्रतिष्ठानाद् आपुराद् वासुकेर्हदात् ।

कम्बलाश्वतरौ नागौ नागाच् च बहुमूलकात् ॥

एतत् प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् ।

यत्र स्नात्वा दिवं यान्ति ये मृतास् ते ऽपुनर्भवाः ॥

[१३७] तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति सर्वदा ।

अन्ये च बहवस् तीर्थाः सर्वपापहराः शुभाः ॥

न शक्याः कथितुं राजन् बहुवर्षशतैर् अपि ।

सङ्क्षेपेण प्रवक्ष्यामि प्रयागस्य तु कीर्तनम् ॥

षष्टिर् धनुःसहस्राणि यानि रक्षति जाह्नवी ।

यमुनां रक्षति सदा सविता सप्तवाहनः ॥

प्रयागं तु विशेषेण स्वयं रक्षति वासवः ।

मण्डलं रक्षति हरिर् देवतैः सह सङ्गतः ॥

तं वटं रक्षति शिवः शूलपाणिर् महेश्वरः ।

स्थानं रक्षन्ति वै देवाः सर्वपापहराः शुभाः ॥

अधर्मेणावृतो लोको नैव गच्छति तत् पदम् ।

अल्पम् अल्पतरं पापं यदा तस्य नराधिप ॥

प्रयागं स्मरमाणस्य सर्वम् आयाति सङ्क्षयम् ।

दर्शनात् तस्य तीर्थस्य नामसङ्कीर्थनाद् अपि ॥

मृत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते ।

पञ्च कुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी ॥

प्रयागस्य प्रवेशात् तु पापं नश्यति तत्क्षणात् ।

तथा

सत्यवादी जितक्रोधो अहिंसां परमास्थितः ॥

धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः ।

गङ्गायमुनयोर् मध्ये स्नातो मुच्येत किल्बिषात् ॥

[१३८] मनसा चिन्तितान् कामांस् तांश् च प्राप्नोति पुष्कलान् ।

ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम् ॥

ब्रह्मचारी वसन् मासं पितॄन् देवांश् च तर्पयेत् ।

ईप्सितांल् लोभते कामान् यत्र यत्राभिजायते ॥

तपनस्य सुता देवी तिषु लोकेषु विश्रुता ।

समागता महाभागा यमुना यत्र निम्नगा ॥

यत्र सन्निहितो देवः साक्षाद् देवो महेश्वरः ।

दुष्प्रापं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर ॥

देवदानवगन्धर्वा ऋषयः सिद्धचारणाः ।

तत्रोपस्पृश्य राजेन्द्र स्वर्गलोकम् उपासते ॥

तथा

	मार्कण्डेय उवाच ।

शृणु राजन् प्रयागस्य माहात्म्यं पुनर् एव तु ।

यच् छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥

आर्तानां च दरिद्राणां निश्चितव्यवसायिनाम् ।

स्थानम् उक्तं प्रयागं तु नाख्येयं तु कदाचन ॥

व्याधितो यदि वा दीनः क्रुद्धो वापि भवेन् नरः ।

गङ्गायमुनाम् आसाद्य् यस् तु प्राणान् परित्यजेत् ॥

दीप्तकाञ्चनवर्णाभैर् विमानैः सूर्यवर्चसैः ।

गन्धर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः ॥

[१३९] ईप्सितांल् लभते कामान् वदन्ति ऋषिपुङ्गवाः ।

सर्वरत्नमयैर् द्वियैर् नानाध्वजसमाकुलैः ॥

वराङ्गनासमाकीर्णविमानैः शुभलक्षणैः ।

गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ॥

यावन् न स्मरते जन्म तावत् स्वर्गे महीयते ।

ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश् च्युतः ।

हिरण्यरत्नसम्पूर्णे समृद्धे जायते कुले ॥

तद् एव च समरेत् तीर्थं स्मरणात् तत्र गच्छति ।

देशस्थो यदि वारण्ये विदेशे यति वा गृहे ॥

प्रयागं स्मरम्णो ऽपि यस् तु प्राणान् परित्यजेत् ।

ब्रह्मलोकम् अवाप्नोति वदन्ति ऋषिपुङ्गवाः ॥

सर्वकामफला वृक्षा मही यत्र हिरण्मयी ।

ऋषयो मुनयः सर्वे तत्र लोके स गच्छति ॥

स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास् तटे शुभे ।

मोदते ऋषिभिः सार्धं सुकृतेनेह कर्मणा ॥

सिद्धचारणगन्धर्वैः पूज्यते दिवि देवतैः ।

ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर् भवेत् ॥

ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः ।

गुणवान् वित्तसम्पन्नो भवतीह न संशयः ॥

कर्मणा मनसा वाचा सत्य्धर्मप्रतिष्ठितः ।

गक्गायमुनयोर् मध्ये यस् तु गां सम्प्रयच्छति ॥

स गोरोमसमाब्दानि लभते स्वर्गम् उत्तमम् ।

यस् तु गां प्रतिगृह्णाति गङ्गायमुनसङ्गमे ॥

[१४०] सुवर्णमणिमुक्तां वा यदि वान्यं प्रतिग्रहम् ।

स्वकार्ये पितृकार्ये वा देवताभ्यर्चने ऽपि वा ॥

विफलं तस्य तत् तीर्थं यावत् तद् धनम् अश्नुते ।

तीर्थे कृतप्रतिग्रहस्य पुरुषस्य यावत् तीर्थप्रतिग्रहोपार्जितधने स्वत्वम् अनुवर्तते, तावत् तीर्थदानादिषु कोटिगुनत्वादिलक्षणं फलं न जनयति । तद्धनत्यागात् तु स्वफलं जनयत्य् एव ।

एवं तीर्थे न गृह्णीयात् पुण्येष्व् आयतनेषु च ।

निमित्तेषु च सर्वेषु अप्रमत्तो भवेद् द्विजः ॥

कपिलां पाटलां वर्णां यस् तत्रैव प्रयच्छति ।

स्वर्णशृङ्गीं रौप्यखुरां चैलकं गां पयस्विनीम् ॥

प्रयागे श्रोत्रियं साधुं ग्राहयित्वा यथाविधि ।

“ग्राहयित्वा” स्वीकार्य ।

शुक्लाम्बरधरं शान्तं धर्मज्ञं वेदपारगम् ॥

सा गौस् तस्यैव दातव्या गङ्गायमुनसङ्गमे ।

वासांसि च महार्हाणि रत्नानि विविधानि च ॥

यावद् रोमाणि तस्या गौः सन्ति गात्रेषु सत्तम ।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥

यत्रासौ लभते जन्म सा गौस् तत्राभिजायते ।

न च पश्यति तं घोरं नरकं तेन कर्मणा ॥

उत्तरान् स कुरून् प्राप्य मोदते कालम् अक्षयम् ।

गवां शतसहस्रेभ्यो दद्याद् एकां पयस्विनीम् ॥

[१४१] पुत्रान् दारांस् तथा भृत्यान् गौर् एका प्रतिकारयेत् ।

तस्मात् सर्वेषु दानेषु गोदानं तु विशिष्यते ॥

दुर्गमे विषमे घोरे महापातकसम्भमे ।

गौर् एव रक्षां कुरुते तस्माद् देया द्विजोत्तमे ॥

प्रयागतीर्थयात्राविधिः ।

	मार्कण्डेय उवाच ।

कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् ।

आर्षेणैव विधानेन यथादृष्टं यथाश्रुतम् ॥

प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित् ।

बलीवर्दसमारूढः शृणु तस्यापि यत् फलम् ॥

नरके वसते घोरे गवां क्रोधो हि दारुणः ।

सलिलं न गृह्णन्ति पितरश् चास्य देहिनः ॥

यस् तु पुत्रांस् तथा बालान् पाययेत् स्नापयेत् तथा ।

यथात्मानं तथा सर्वं दानं विप्रेषु दापयेत् ॥

ऐश्वर्यलोभमोहाद् वा गच्छेद् यानेन यो नरः ।

निष्फलं तस्य तत् तीर्थं तस्माद् यानं विवर्जयेत् ॥

गङ्गायमुनयोर् मध्ये यस् तु कन्यां प्रयच्छति ।

आर्षेणैव विधानेन यथा विभवसम्भवम् ॥

न स पश्यति तं घोरं नरकं तेन कर्मणा ।

उत्तरान् स कुरून् गत्वा मोदते कालम् अक्षयम् ॥

[१४२] पुत्रदारांश् च लभते धार्मिकान् रूपसंयुतान् ।

तत्र दानं प्रदातव्यं यथाविभवसम्भवम् ॥

तेन तीर्थफलं चैव वर्धते नात्र संशयः ।

स्वर्गे तिष्ठति राजेन्द्र यावद् आभूतसम्प्लवम् ॥

वटमूलं समासाद्य यस् तु प्राणान् परित्यजेत् ।

सर्वलोकान् अतिक्रम्य रुद्रलोकं स गच्छति ॥

तत्र ते द्वादशादित्यास् तपन्ते रुद्रम् आश्रिताः ।

निर्दहन्ति जगत् सर्वं वटमूलं न दह्यते ॥

नष्टचन्द्रार्कपवनं यदा चैकार्णवं जगत् ।

स्वपते तत्र वै विष्णुर् यतमानः पुनः पुनः ॥

देवदानवगन्धर्वा ऋषयः सिद्धचारणाः ।

सदा सेवन्ति तं तीर्थं गङ्गायमुनसङ्गमम् ॥

तथा

तत्र ब्रह्मादयो देवा दिशश् च सदिगीश्वराः ।

हरिश् च भगवान् आस्ते प्रजापतिपुरस्कृतः ॥

गङ्गायमुनयोर् मध्ये पृथिव्या जघनं स्मृतम् ।

प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ॥

ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ।

श्रवणात् तस्य तीर्थस्य नामसङ्कीर्तनाद् अपि ॥

मृत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते ।

तत्राभिषेकं यः कुर्यात् सङ्गमे संशितव्रतः ॥

[१४३] तुल्यं फलम् अवाप्नोति राजसूयाश्वमेधयोः ।

न वेदवचनात् तात न लोकवचनाद् अपि ॥

मतिर् उत्क्रमणीया ते प्रयागमरणं प्रति ।

दशतीर्थसहस्राणि षष्टिः कोट्यस् तथापराः ॥

येषां सान्निध्यम् अत्रैव कीर्तनात् कुरुनन्दन ।

या गतिर् योगयुक्तस्य सत्त्वस्थस्य च धीमतः ॥

सा गतिस् त्यजतः प्राणान् गङ्गायमुनसङ्गमे ।

न ते जीवन्ति लोके ऽस्मिन् यत्र यत्र युधिष्ठिर ॥

ये प्रयागं न सम्प्राप्तास् त्रिषु लोकेषु वञ्चिताः ।

एवं दृष्ट्वा तु तत् तीर्थं प्रयागं परमं पदम् ॥

मुच्यते सर्वपापेभ्यः शशाङ्ग इव राहुणा ।

कम्बलाश्वतरौ नागौ यमुनादक्षिणे तटे ।

तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ॥

तत्र गत्वा तु संस्थानं महादेवस्य धीमतः ।

नरस् तारयते पूर्वं दशातीतान् दशावरान् ॥

कृत्वाभिषेकं तु नरः सो ऽश्वमेधफलं लभेत् ।

स्वर्गलोकम् अवाप्नोति यावद् आभूतसम्प्लवम् ॥

पूर्वपार्श्वे तु गङ्गायास् त्रिरात्रं यदि तिष्ठति ।

सर्वपापविशुद्धात्मा सो ऽश्वमेधफलं लभेत् ॥

उत्तरेण प्रतिष्ठानाद् भागीरथ्यास् तु पूर्वतः ।

हंसप्रतपनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥

[१४४] अश्वमेधफलं तस्मिन् स्नानमात्रेण भारत ।

यावच् चन्द्रश् च सूर्यश् च तावत् स्वर्गे महीयते ॥

ऊर्वशीपुलिने रम्ये विपुले हंसपाण्डरे ।

परित्यज्यति यः प्राणान् शृणु तस्यापि यत् फलम् ॥

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।

स याति पितृभिः सार्धं स्वर्गलोके नराधिप ॥

ऊर्वशीं च सदा पश्येद् देवलोके नरोत्तम ।

पूज्यते सततं देवैर् ऋषिगन्धर्वकिन्नरैः ॥

ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश् च्युतः ।

ऊर्वशीसदृशीनां तु कन्यानां लभते शतम् ॥

मध्ये नारीसहस्राणां बह्वीनां च पतिर् भवेत् ।

दशग्रामसहस्राणां भोक्ता भवति भूमिपः ॥

काञ्चीनूपुरशब्देन सुप्तो ऽसौ प्रतिबुध्यते ॥

भुक्त्वा तु विपुलान् भोगांस् तत् तीर्थं लभते पुनः ।

शुक्लाम्बरधरो नित्यं नियतः संयतेन्द्रियः ॥

एककालं तु भुञ्जानो मांसं भोगपतिर् भवेत् ।

सुवर्णालङ्कृतानां तु नारीणां लभते शतम् ॥

पृथिव्याम् आसमुद्रायां महाभोगपतिर् भवेत् ।

धनधान्यसमायुक्तो दाता भवति नित्यशः ॥

स भुक्त्वा विपुलान् भोगांस् तत् तीर्थं स्मरते पुनः ।

अथ सन्ध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः ॥

उपासीत शुचिर् भूत्वा ब्रह्मलोकम् अवाप्नुयात् ।

कोटितीर्थं समासाद्य यस् तु प्राणान् परित्यजेत् ॥

[१४५] कोटिवर्षसहस्राणां स्वर्गलोके महीयते ।

ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश् च्युतः ॥

सुवर्णमणिमुक्ताद्यैः कुले जायेत रूपवान् ।

ततो भोगवतीं गत्वा वासुकेर् उत्तरेण तु ॥

दशाश्वमेधिकं नाम तत्र तीर्थे परं भवेत् ।

कृताभिषेकस् तु नरः सो ऽश्वमेधफलं लबेत् ॥

धनाढ्यो रूपवान् साक्षाद् दाता भवति धार्मिकः ।

चतुर्वेदेषु यत् पुण्यं सत्यवादिषु यत् फलम् ॥

अहिंसायां तु यो धर्मो गमनाद् एव तत् फलम् ।

तथा

मानसं नाम तीर्थं तु गङ्गाया उत्तरे तटे ।

त्रिरात्रोपोषितः स्नात्वा सर्वान् कामान् अवाप्नुयात् ॥

गोभूहिरण्यदानेन यत् फलं प्राप्नुयान् नरः ।

तत् फलं समवाप्नोति तत् तीर्थं स्मरते पुनः ॥

अकामो वा सकामो वा गङ्गायां यो विपद्यते ।

मृतस् तु लभते स्वर्गं नरकं न च पश्यति ।

अप्सरोगणसङ्गीतैः सुप्तो ऽसौ प्रतिबुध्यते ॥

हंससारसयुक्तेन विमानेन स गच्छति ।

बहुवर्षसहस्राणि स्वर्गं राजेन्द्र भुञ्जते ॥

ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश् च्युतः ।

सुवर्णमणिमुक्ताढ्ये जायते विपुले कुले ॥

[१४६] षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च ।

माघमासे गमिष्यन्ति गङ्गायमुनसङ्गमे ॥

गवां शतसहस्रस्य सम्यग्दत्तस्य यत् फलम् ।

प्रयागे माघमासे च त्यहं स्नातस्य तत् फलम् ॥

गङ्गायमुनयोर् मध्ये कर्षाग्निं यस् तु साधयेत् ।

अहीनाङ्गो ह्य् अरोगश् च पञ्चेन्द्रियसमन्वितः ॥

यावन्ति रोमकूपानि तस्य गात्रेषु धीमतः ।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥

ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर् भवेत् ।

स भुक्त्वा विपुलान् भोगांस् तत् तीर्थं लभते पुनः ॥

जलप्रवेशं यत् कुर्यात् सङ्गमे लोकविश्रुते ।

राहुग्रते यथा सोमे विमुक्तः सर्वपातकैः ॥

सोमलोकम् अवाप्नोति सोमेन सह मोदते ।

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥

स्वर्गलोकम् अवाप्नोति ऋषिगन्धर्वसेवितः ।

परिभ्रष्टस् तु राजेन्द्र समृद्धे जायते कुले ॥

अधःशिरास् तु यो ज्वालाम् ऊर्ध्वपादः पिबेन् नरः ।

शतं वर्षसहस्राणि स्वर्गलोके महीयते ॥

परिभ्रष्टस् तु राजेन्द्र अग्निहोत्री भवेन् नरः ।

भुक्त्वा तु विपुलान् भोगांस् तत् तीर्थं भजते पुनः ॥

यश् च देहं विकर्तित्वा शकुनिभ्यः प्रयच्छति ।

विहगैर् उपभुक्तस्य शृणु तस्यापि यत् फलम् ॥

[१४७] शतं वर्षसहस्राणां सोमलोके महीयते ।

तस्माद् अपि परिभ्रष्टो राजा भवति धार्मिकः ॥

गुणवान् रूपसम्पन्नो विद्वांश् च प्रियवादकः ।

भुक्त्वा तु विपुनान् भोगांस् तत् तीर्थं लभते पुनः ॥

यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे ।

ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम् ॥

एकरात्रोपिषितः स्नात्वा ऋणैः सर्वैः प्रमुच्यते ।

स्वर्गलोकम् अवाप्नोति अनृणश् च सदा भवेत् ॥

तथा ।

शृणु राजन् प्रयागे तु अनाशकं फलं विभो ।

प्राप्नोति पुरुषो धीमान् श्रद्दधानो जितेन्द्रियः ॥

अहीनाङ्गो ह्य् अरोगश् च पञ्चेन्दिर्यसमन्वितः ।

अश्वमेधफलं तस्य गच्छतस् तु पदे पदे ॥

कुलानि तारयेद् राजन् दश पूर्वान् दशावरान् ।

मुच्यते सर्वपापेभ्यो गच्छेत परमं पदम् ॥

तथा

	मार्कण्डेय उवाच ।

शृणु राजन् महावीर यद् उक्तं पद्मयोनिना ।

ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया शुभम् ॥

पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् ।

प्रवेशात् तस्य तद्भूमौ सो ऽश्वमेधः पदे पदे ॥

[१४८] व्यतीतान् पुरुषान् सप्त भविष्यांश् च चतुर्दश ।

नरस् तारयते सर्वान् यस् तु प्राणान् परित्यजेत् ॥

एवं ज्ञात्वा तु राजेन्द्र सदा श्रद्धापरो भव ।

अश्रद्दधानाः पुरुषाः पापोपहतचेतसः ॥

न प्राप्नुवन्ति तत् स्थानं प्रयागं देवरक्षितम् ।

	युधिष्ठिर उवाच ।

स्नेहाद् वा द्रव्यलोभाद् वा ये तु कामवशं गताः ।

कथं तीर्थफलं तेषां कथं पुण्यम् अवाप्नुयुः ॥

विक्रयी सर्वभाण्डानां कार्याकार्यम् अजानतः ।

प्रयागे का गतिस् तस्य एतद् भ्रूहि महामुने ॥

	मार्कण्डेय उवाच ।

शृणु राजन् महागुह्यं सर्वपापप्रणाशनम् ।

मासम् एकं तु स्नायीत प्रयागे नियतेन्द्रियः ॥

मुच्यते सर्वपापेभ्यो मयोद्दिष्टं स्वयम्भुवा ।

शुचिस् तु प्रयतो भूत्वा ऽहिंसकः श्रद्धयान्वितः ॥

मुच्यते सर्वपापेभ्यो स गच्छेत् परमं पदम् ।

विश्वस्तघातकानां च प्रयागे शृणु यत् फलम् ॥

त्रिकालं एव स्नायीत आहारं भैक्षम् आचरेत् ।

त्रिभिर् मासैः प्रमुच्येत प्रयागे नान्त्र संशयः ॥

अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् ।

[१४९] सर्वकामसमृद्धस् तु स्वर्गलोके महीयते ॥

स्थानं च लभते नित्यं धनधान्यसमाकुलम् ।

एवं ज्ञानेन सम्पूर्णः सदा भवति भोगवान् ॥

तारिताः पितरस् तेन नरकात् सपितामहाः ।

तथा

	मार्कण्डेय उवाच ।

तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।

समागता महाभागा यमुना यत्र निम्नगा ॥

येनैव निःसृता गङ्गा तेनैव यमुना गता ।

योजनानां सहस्रेषु कीर्तनात् पापनाशिनी ॥

तत्र सनात्वा च पीत्वा च यमुनायां युधिष्ठिर ।

कीर्तनाल् लभते पुण्यं दृष्ट्वा भद्राणि पश्यति ॥

अवगाह्याथ पीत्वा च पुनात्य् आसप्तमं कुलम् ।

प्राणांस् त्यजति यस् तत्र स याति परमां गतिम् ॥

अग्नितीर्थम् इति ख्यातं यमुनादक्षिणे तटे ।

पश्चिमे धर्मराजस्य तीर्थं तु नवकं स्मृतम् ॥

तत्र स्नात्वा दिवं याति ये मृतास् ते ऽपुनर्भवाः ।

पञ्च तीर्थसहस्राणि यमुनादक्षिणे तटे ॥

उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः ।

तीर्थं निरूजकं नाम यत्र देवाः सवासवाः ॥

[१५०] उपासते सदा सन्ध्यां नित्यं काले युधिष्ठिर ।

देवाः सेवन्ति तत् तीर्थं ये चान्ये विदुषो जनाः ॥

श्रद्दधानपरो भूत्वा कुरुतीर्थाभिषेचनम् ।

अन्ये च बहवस् तीर्थाः सर्वपापहराः स्मृताः ॥

तेषु स्नात्वा दिवं यान्ति ये मृतास् ते ऽपुनर्भवाः ।

गङ्गा च यमुना चैव उभे तुल्यफले स्मृते ।

केवलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते ॥

एवं कुरुष्व कौन्तेय सर्वतीर्थाभिषेचनम् ।

यावज्जीवकृतं पापं तत्क्षणाद् एव नश्यति ॥

यस् त्व् इदं कल्यम् उत्थाय पठते च शृणोति च ।

मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥

तथा

जन्मान्तरसहस्रेभ्यो योगो लभ्येत वा न वा ।

तथा युगसह्स्रेण योगो लभ्येत मानवैः ॥

यस् तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति ।

तेन दानेन दत्तेन योगो लभेत वा न वा ।

प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा ॥

तथा

शृणु राजन् प्रवक्ष्यामि माहात्म्यं पुनर् एव तु ।

नैमिशं पुष्करं चैव गोतीर्थं सिन्धुसागरम् ॥

गया च धेनुकं चैव गङ्गासागरम् एव च ।

एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः ॥

[१५१] दशतीर्थसहस्राणि तिस्रः कोट्यस् तथापराः ।

प्रयागे संस्थिता नित्यम् एवम् आहुर् मनीषिणः ॥

त्रीणि चाप्य् अग्निकुण्डानि येषां मध्ये तु जाह्नवी ।

प्रयागाद् अभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ॥

तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।

गङ्गया यमुनासार्धं सङ्गता लोकतारिणी ॥

गङ्गायमुनयोर् मध्ये पृथिव्यां जघनं स्मृतम् ।

प्रयागं राजशार्दूल कलां नार्हन्ति षोडशीम् ॥

तिस्रः कोट्य् अर्धकोटी च तीर्थानां वायुर् अब्रवीत् ।

दिवि भुव्य् अन्तरिक्षे च तत् सर्वं जाह्नवी स्मृता ॥

प्रयागं सप्रतिष्ठानं कम्बलाश्वतराव् उभौ ।

भोगवत्य् अथ या चैषा वेदिर् एषा प्रजापतेः ॥

यत्र वेदाश् च यज्ञाश् च मूर्तिमन्तो युधिष्ठिर ।

प्रजापतिम् उपासन्ते ऋषयश् च तपोधनाः ॥

यजन्ते क्रतुभिर् वेदास् तथा चक्रधरा नृपाः ।

ततः पुण्यतमो नास्ति तिषु लोकेषु भारत ॥

प्रयागे सर्वतीर्थेभ्यः प्रभवत्य् अधिकं विभो ।

तथा

पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् ।

तिष्ठते रक्षिणो यत्र पापकर्मनिवारणात् ॥

उत्तरेण प्रतिष्ठानं शाल्मली प्रतितिष्ठति ।

महेश्वरो वटो भूत्वा तिष्ठते परमेश्वरः ॥

[१५२] ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः ।

रक्षन्ति मण्डलं सर्वं पापकर्मनिवारणात् ॥

युञ्जन् युञ्जन् स्वकं पापं नरकं न च पश्यति ।

एवं ब्रह्मा च विष्णुश् च प्रयागे नित्यम् ईश्वरः ॥

तथा

सितासितेषु यत् स्नानं माघसे युधिष्ठिर ।

न तेषां पुनर् आवृत्तिः कल्पकोटिशतैर् अपि ॥

दशतीर्थसहस्राणि षष्टिकोट्यस् तथापराः ।

माघमासे प्रयागे तु गङ्गायमुनसङ्गमे ॥

प्रयागमाहात्म्ये महाभारते

ततः पुण्यतमं नास्ति तिषु लोकेषु भारत ।

प्रयागं सर्वतीर्थेभ्यो प्रभवत्य् अधिकं विभो ॥

श्रवणात् तस्य तीर्थस्य नामसङ्कीर्तनाद् अपि ।

[मृत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते ॥

तत्राभिषेकं यः कुर्यात् सङ्गमे संशितव्रतः ।

तुल्यं फलम् अवाप्नोति राजसूयाश्वमेधयोः ॥

तुल्यं फलम् अवाप्नोति राजसूयाश्वमेधयोः ।

एषा यजनभूमिर् हि देवानाम् अपि सत्कृता ॥

यत्र दत्तं सूक्ष्मम् अपि महद् भवति भारत ।

न वेदवचनाद् वापि न लोकवचनाद् अपि ॥ ]

मतिर् उत्क्रमणीया ते प्रयागमरणं प्रति ।

दशतीर्थसहस्राणि षष्टिकोट्यस् तथापराः ॥

[१५३] येषां सान्निध्यम् अत्रैव कीर्तितं कुरुनन्दन ।

चतुर्वेदेषु यत् पुण्यं सत्यवादिषु चैव यत् ॥

स्नात एव तद् अवाप्नोति गङ्गायमुनसङ्गमे ।

तत्र भोगवती नाम वासुकेस् तीर्थम् उत्तमम् ॥

तत्राभिषेकं यः कुर्यात् सो ऽश्वमेधम् अवाप्नुयात् ।

तत्र हंसप्रतपनं तीर्थं त्रैलोक्यविश्रुतम् ॥

दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ।

यत्र गङ्गा महाराज स देशस् तु तपोवनम् ॥

सिद्धिक्षेत्रं हि तज् ज्ञेयं गङ्गातीरम् आश्रितम् ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे प्रयागमाहात्म्यम् ।

[१५४]

अथ गङ्गामाहात्म्यम्

तत्र महाभारते

	शिलवृत्तिर् उवाच ।

के देशाः के जनपदाः के ग्रामाः के च पर्वताः ।

प्रकृष्टाः पुण्यतमका ज्ञेया नद्यस् तद् उच्यताम् ॥

	सिद्ध उवाच ।

ते देशास् ते जनपदास् ते ग्रामास् ते च पर्वताः ।

येषां भागीरथी गङ्गा मध्ये याति सरिद्वरा ॥

तपसा ब्रह्मचर्येण यज्ञैस् त्यागेन वा पुनः ।

गतिं न लभते गन्तुर् गङ्गां संसेव्य तां लभेत् ॥

स्पृष्टानि येषां गाङ्गेयैस् तोयैर् गात्राणि देहिनाम् ।

व्यस्तानि ये पुनस् तेषां वासः स्वर्गाद् विधीयते ॥

सर्वाणि येषां गाङ्गेयैस् तोयैः कर्माणि देहिनाम् ।

गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते जनाः ॥

पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः ।

पश्चाद् गङ्गां निषेवन्ते ते ऽपि यान्त्य् उत्तमां गतिम् ॥

[१५५] स्नातानां शुचिभिस् तोयैर् गाङ्गेयैः प्रयतात्मनाम् ।

व्युष्टिर् भवति या पुंसां न सा क्रतुशतैर् अपि ॥

यावद् अस्थि मनुष्याणां गङ्गातोयेषु तिष्ठति ।

तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥

अपहत्य तमस् तीव्रं यथा भात्य् उदये रविः ।

तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥

तथा

त्रिषु लोकेषु ये केचित् प्राणिनः सर्व एव ते ।

तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः सुभैः ॥

यस् तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् ।

गवां निर्हारनिर्मुक्ता यावत्काशविशिष्यते ॥

इन्दुव्रतसहस्रं तु यश् चरेत् कायशोधनम् ।

पिबेद् यश् चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥

[तिष्ठेद् युगसहस्रं तु पादेनैकेन यः पुमान् ।

मासम् एकं तु गङ्गायां समौ स्यातां न वा समौ ॥ ]

लम्बेतावक्शिरा यस् तु युगानाम् अयुतं पुमान् ।

तिष्ठेद् यथेष्टं यश् चापि गङ्गायां स विशिष्यते ॥

अग्नौ प्राप्तं प्रधूयन्ते यथा तूलं द्विजोत्तम ।

तथा गङ्गावगाढस्य सर्वपापं प्रधूयते ॥

भूतानाम् अपि सर्वेषां दुःखोपहतचेतसाम् ।

गतिम् अन्वेषमाणानां न गङ्गासदृशी गतिः ॥

[१५६] भवन्ति निर्विषाः सर्पाः यथा तार्क्ष्यस्य दर्शनात् ।

गङ्गाया दर्शनात् तद्वत् सर्वपापैः प्रमुच्यते ॥

अप्रतिष्ठाश् च ये केचिद् अशर्मशरणाश् च ये ।

तेषां प्रतिष्ठा गङ्गेह शरणं शर्म मर्म च ॥

प्रकृष्टैर् अशुभैर् ग्रस्तस्तान् अनेकैः पुरुषाधमान् ।

पततो नरके गङ्गा संश्रितान् प्रेत्य तारयेत् ॥

तेषां विमुक्ता मुनिभिर् नूनं देवैः सवासवैः ।

ये ऽभिगच्छन्ति सततं गङ्गां मतिमतां वर ॥

विनयाचारहीनाश् च अशिवाश् च नराधमाः ।

ते भवन्ति शिवा विप्रा ये वै गङ्गासमाश्रिताः ॥

तथा

जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः ।

बिभर्ति रूपं सो ऽर्कस्य तमोनाशाय केवलम् ॥

तथा

वाङ्मनःकर्मभिर् ग्रस्तः पापैर् अपि पुमान् इह ।

वीक्ष्य गङ्गां भवेत् पूतस् तत्र मे नास्ति संशयः ॥

सप्तावरान् सप्त परान् पितॄन् एभ्यश् च ये परे ।

पुमांस् तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ॥

[गङ्गां दृष्ट्वाथ पापी च स्नात्वा गङ्गेति कीर्तनात् ।

त्रयोदशार्जितं पापं जन्मजं नश्यति ध्रुवम् ॥ ]

[१५७] श्रुताभिलपिता दृष्टा स्पृष्टा पीतावगाहिता ।

गङ्गा तारयते पुंसाम् उभौ वंशौ विशेषतः ॥

दर्शनात् स्पर्शनात् स्नानात् तथा गङ्गेति कीर्तनात् ।

पुनात्य् अपुण्यान् पुरुषान् शतशो ऽथ सहस्रशः ॥

य इच्छेत् सफलं जन्म जीवितं श्रुतम् एव च ।

स पितॄंस् तर्पयेद् गङ्गाम् अभिगम्य सुरांस् तथा ॥

न सुतैर् च वित्तेन कर्मणा न च तत् फलम् ।

प्राप्नुयात् पुरुषो ऽत्यन्तं गङ्गां प्राप्तो यदाप्नुयात् ॥

जात्यन्धैर् इह तुल्यास् ते मूकैः पङ्गुभिर् एव च ।

समर्था येन पश्यन्ति गङ्गां पुण्यजलां शुभाम् ॥

भूतभव्यभविषज्ञैर् महर्षिभिर् उपस्थिताम् ।

देवैः सेन्द्रैश् च को गङ्गां नोपसेवेत मानवः ॥

वानप्रस्थैर् गृहस्थैश् च यतिभिर् ब्रह्मचारिभिः ।

विद्यावद्भिः श्रितां गङ्गां पुमान् को नाम नाश्रयेत् ॥

उत्क्रामद्भिश् च यत् प्राणैः प्रयतः शिष्ठसम्मतः ।

चिन्तयेन् मनसा गङ्गां स गतिं परमां लभेत् ॥

न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः ।

आ देहपताद् गङ्गाम् उपासते यः पुमान् इह ॥

तहा

तद्भावस् तद्गतमानास् तन्निष्ठस् तत्परायणः ।

गङ्गां यो ऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ॥

भूस्थैः स्वस्थैर् दिवस्थैश् च भूतैर् उच्चावचैर् ऽपि ।

गङ्गावगाभ्या सततम् एतत् कार्यसमं सताम् ॥

[१५८] तथा

गङ्गां गत्वा यैः शरीरं विसृष्टं

	गता धीरास् ते विबुधैः समत्वम् ।

अन्धान् जडान् द्रव्यहीनांश् च गङ्गा

	यशस्विनी बृहती विश्वरूपा ॥

देवैः सेन्द्रैर् मुनिभिर् मानुषैश् च 

	निषेविता सर्वकामैर् युनक्ति ॥

उज्जीवन्तीं महापुण्याम् अंशुमन्तीं त्रिवर्त्मगाम् ।

त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास् ते दिवङ्गताः ॥

यो वत्स्यते द्रक्ष्यति वापि मर्त्य

	तस्मै प्रयच्छति सुखानि देवाः ।

अन्धा क्लीबा जडा व्यङ्गा पतिता रोगिणो ऽन्त्यजाः ।

गङ्गां संसेव्य पुरुषा दवैर् गच्छन्ति तुल्यताम् ॥

दूरस्थो ऽपि हि ब्रूयात् त्रिसन्ध्यं नियतः शुचिः ।

गङ्गा गङ्गेति गङ्गेति स गच्छेत् परमां गतिम् ॥

जडान्धप्रभृतयः कर्मान्तरानधिकारिणो ऽपि गङ्गासेवयाभिमतफलभागिनो भवन्तीत्य् अर्थः ।

**ब्रह्मपुराणे **।

वर्णानां ब्राह्मणो यद्वत् तथा तीर्थेषु जाह्नवी ।

स्वर्गस्थैर् गगनस्थैश् च तथा पातालवासिभिः ॥

अवगाह्या सदा गङ्गा पूज्या वन्द्या च सर्वदा ।

षष्ट्यादौ कृष्णपक्षे तु भूमौ सन्निहिता भवेत् ॥

[१५९] यावत् पुण्याम् अमावास्यां दिनानि दश नित्यशः ।

शुक्लप्रतिपद् आरभ्य दिनानि दशसङ्ख्यया ॥

पाताले सन्निधानं तु करोति स्वयम् एव हि ।

शुक्लैकादशिकाद् अह्न आरभ्य दश् यानि तु ॥

पञ्चम्यन्तानि सा स्वर्गे भवेत् सन्निहिता सदा ।

श्रुताभिलपिता दृष्टा स्पृष्टा पीतावगाहिता ॥

गङ्गा तारयते नॄणाम् उभौ वंशौ भवार्णवात् ।

दर्शनात् स्पर्शनात् पानात् तथा गङ्गेति कीर्तनात् ॥

पुनात्य् अपुण्यान् पुरुषान् मातेव जगतो हिता ।

अशुभैः कर्मभिर् ग्रस्तान् मज्जमानान् भवार्णवे ॥

पततो नरके गङ्गां संश्रितान् उद्धरेत् सदा ।

अवगाहनमात्रेण मानवानां सदैव हि ॥

पापौघं निर्दहेद् गङ्गा तूलराशिम् इवानलः ॥

तथा

विनयाचारहीनाश् च ये भवन्त्य् अशुभा नराः ।

गङ्गाम् आश्रित्य सर्वे ते भवन्ति विमलाः शुभाः ॥

[तथा] ।

न पुत्रैर् न महादानैर् न चान्यैश् च सौकर्मभिः ।

भवेत् पुण्यफलं पुंसां यथा लब्ध्वानुजाह्नवीम् ॥

मत्स्यपुराणे

कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता ।

[१६०] कुरुक्षेत्राद् दशगुणा यत्र विन्ध्येन सङ्गता ॥

विन्ध्याच् छतगुणा प्रोक्ता काशिपुर्यां तु जाह्नवी ।

यत्र गङ्गा महाभागा बहुतीर्थतपोधना ॥

सिद्धिक्षेत्रं हि तज् ज्ञेयं नात्र कार्या विचारणा ।

क्षितौ तारयते मर्त्यान् नागांस् तारयते ऽप्य् अधः ॥

दिवि तारयते देवांस् तेन त्रिपथगा स्मृता ।

यावद् अस्थीनि तिष्ठन्ति गङ्गायां यस्य देहिनः ॥

तावद् वर्षसहस्राणि स्वर्गलोके महीयते ।

तीर्थानां परमं तीर्थे नदीनां परमा नदी ॥

मोक्षदा सर्वभूतानां महापातकिनाम् अपि ।

सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ॥

गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ।

ते ऽत्र स्नात्वा दिवं यान्ति ये मृतास् ते ऽपुनर्भवाः ॥

सर्वेषाम् एव भूतानां तापोपहनचेतसाम् ।

गतिम् अन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥

पवित्राणाम् पवित्रं तु मङ्गलानां च मङ्गलम् ।

महेश्वरशिरोदुभूता सर्वपापहरा शुभा ॥

तथा

योजनानां सहस्रेषु गङ्गां यः स्मरते नरः ।

अपि दुष्कृतकर्मासौ लभते परमां गतिम् ॥

कीर्तनान् मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति ।

अवगाह्य च पीत्वा च पुनात्य् आसप्तमं कुलम् ॥

[१६१] विष्णुपुराणे

ततः प्रभवति [प्रभृति?] ब्रह्मन् सर्वपापहरा सरित् ।

गङ्गा देवाङ्गनाङ्गानाम् अनुलेपनपिञ्जरा ॥

वामपादाम्बुजाङ्गुष्ठनखस्रोतोविनिर्गता ।

विष्णोर् बिभर्ति यां भक्त्या शिरसाहर्निशं शिवः ॥

ततः सप्तर्षयो यस्यां प्राणायामपरायणाः ।

तिष्ठन्ति वीचिमालाभिर् उह्यमाना जटा जले ॥

वायोर् वैराहतैर् यस्याः प्लावितं शशिमण्डलम् ।

भूयो ऽधिकरताम् कान्तिं वहत्य् एतद् अहःक्षये ॥

मेरुपृष्ठे पतत्य् उच्चैर् निष्क्रान्ता शशिमण्दलात् ।

जगतः पावनार्थाय प्रयाति च चतुर्दिशम् ॥

शीता चालकनन्दा च चक्षुर् भद्रा च संस्थिता ।

एकैव या चतुर्भेधा दिग्भेदगतिलक्षणा ॥

भेदं चालकनन्दाख्यं यस्याः सर्वोपदक्षिणम् ।

दधार शिरसा प्रीत्या वर्षाणाम् अधिकं शतम् ॥

शम्भोर् जटाकलापाच् च निष्क्रान्ता अस्थिशर्करा ।

प्लवयित्वा दिवं नित्यं या पापान् सगरात्मजान् ॥

स्नातस्य सलिले यस्याः सद्यः पापं प्रणश्यति ।

अपूर्वपुण्यप्राप्तिश् च सद्यो मैत्रेय जायते ॥

दत्ताः पितृभ्यो यत्रापस् तनयैः श्रद्धयान्वितैः ।

समात्रयं प्रयच्छन्ति तृप्तिं मैत्रेय दुर्लभाम् ॥

यस्याम् इष्ट्वा महायज्ञैर् यज्ञेशं पुरुषोत्तमम् ।

द्विज भूपाः परां सिद्धिम् अवापुर् दिवि चेह च ॥

[१६२] स्नाता निर्धूतपापाश् च यज् जले यत् तपस् तथा ।

केशवासक्तमनसः प्राप्ता निर्वाणम् उत्तमम् ॥

स्तुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता ।

या पावयति भूतानि कीर्तितानि दिने दिने ॥

गङ्गा गङ्गेति यैर् नाम योजनानां शतैर् अपि ।

स्थितैर् उच्चरितं हन्ति पापं जन्मत्रयार्जितम् ॥

ततः सा पावनायात्र जगतां तिसृणाम् अपि ।

समुद्भूता परं तत् तु तृतीयं भवत्पदम् ॥

तथा

    भगवद्विष्णुपादाङ्गुष्ठविनिर्गतस्य हि जलस्यैतन्माहात्म्यमयं न केवलम् अभिसन्धिपूर्वकं स्नानाद्युपयोगेषूपकारकम् । अनभिसंहितम् अप्य् अपेतप्राणस्यास्थिचर्मस्नायुकेशाद्युत्सृष्टं शरीरजम् अपि तदुपनिपतितं सद्यः शरीरिणं स्वर्गं नयत् ।

महाभारते

मेरोः समुद्रस्य च सर्वरत्नैः

	सङ्ख्योपलानाम् उदकस्य वापि ।

शक्यं वक्तुं नेह गङ्गाजलानां

	गुणाख्यानं परिमाणं तथैव ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीलक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे गङ्गामाहात्म्यं समाप्तम् ।

अथ गयामाहात्म्यम्

तत्र **मत्स्यपुराणे **।

पितृतीर्थं गया नाम सर्वतीर्थवरं शुभम् ।

यत्रास्ते देवदेवेशः स्वयम् एव पितामहः ॥

यत्रैषा पितृभिर् गीता गाथा भोगम् अभीप्सुभिः ।

“एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् ।

यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत्” ॥

वराहपुराणे

	सनत्कुमार उवाच ।

धन्यस् त्वम् एव द्विजमुख्यवर्य 

	यद् वेदवादाभिरतः पितॄंश् च ।

प्रीणाति मन्त्रव्रतहोमजप्यैर्

	गयां समासाद्य तथानुपिण्डैः ॥

शृणुष्व वाक्यं नृपतिर् बभूव

	विशालनामा स पुरीं विशालाम् ।

उवास धन्यां धृतिमान् अपुत्रः 

	स्वयं विशालाधिपतिर् द्विजाग्र्याम् ॥

[१६४] पप्रच्छ पुत्रार्थम् अमित्रहन्ता

	तं ब्राह्मणाश् चोचुर् अदीनसत्त्वाः ।

राजन् पितॄंस् तर्पय पुत्रहेतोर्

	दत्वा गयायां विधिवत् तु पिण्डान् ॥

ध्रुवं सुतस् ते भविता नृवीर

	सहस्रदाता सकलक्षितीशः ।

इतीरिते ब्राह्मणैः सम्प्रहृष्टो

	राजा विशालाधिपतिः प्रयत्नात् ॥

समागतस् तीर्थवरं द्विजेश

	गयाम् इमां तद्गतमानसः सन् ।

आगत्य सो ऽथ प्रवरं सुतार्थी

	गयाशिरो यागपरः पितॄणाम् ॥

पिण्डप्रदानं विधिना प्रयच्छंस्

	तावद् वियत्य् उत्तममूर्तियुक्तान्।

पश्यन् स पुंसः सितरक्तकृष्णान्

	उवाच राजा किम् इदं भवद्भिः ॥

समीक्ष्यते शंसत सर्वम् एतत्

	कुतूहलं मे मनसि प्रवृत्तम् ।

	सित उवाच ।

अहं सितस् ते जनको ऽस्मि तात

	नाम्ना च वृत्तेन च कर्मणा च ।

अयं च मे जनको रक्तवर्णो

	नृशंसकृद् ब्रह्महा पापकारी ॥

[१६५] अधीश्वरः शृणु परः पितास्य

	कृष्णो नाम्ना कर्मणा वर्णतश् च ।

एतेन कृष्णेन हतः पुरा वै

	जन्मान्य् अनेकान्य् ऋषयः पुराणाः ॥

तथा

एतौ मृतौ द्वाव् अपि पितृपुत्राव्

	अवीचिसञ्ज्ञं नरकं प्रपन्नौ ।

अधीश्वरो ऽयं जनकः परो ऽस्य

	तौ कृष्णरक्ताव् अपि दीर्घकालम् ॥

अहं च शुद्धेन निजेन कर्मणा

	शक्रासनं प्राप्य सुदुर्लभं तत् ।

त्वया पुनर् मन्त्रविदा गयायां

	पिण्डप्रदानेन बलाद् इमौ च ॥

मोक्षापितौ तीर्थवरप्रभावाद्

	अवीचिसञ्ज्ञं नरकं गतौ तौ ।

पितॄन् पितामहांश् चैव तथैव प्रपितामहान् ।

प्रीणयामीति यत् तोयं त्वया दत्तम् अरिन्दम ॥

तेनास्मद्युगपद् योगो जातो वाक्येन सत्तम ।

तीर्थप्रभावाड् गच्छामः पितृलोकं न संशयः ॥

तत्र पिण्डप्रदानेन एतौ तव पितामहौ ।

“पितामहौ” पितामहप्रपितामहौ ।

[१६६] दुर्गताव् अपि संसिद्धौ पापाद् विकृतिलिङ्गिनौ ॥

तीर्थप्रभाव एषो ऽत्र ब्रह्मघ्नस्यापि सत्तम ।

पितुः पिण्डप्रदानेन कुर्याद् उद्धरणं सुतः ॥

एतस्मात् कारणात् पुत्र अहम् एतौ विगृह्य तु ।

आगतो ऽस्मि भवन्तं वै द्रष्टुं यास्यामि साम्प्रतम् ॥

“विगृह्य” गृहीत्वा ।

तथा

एतस्मात् कारणाद् रैभ्य भवान् धन्यो मयोच्यते ।

सकृद् गयाभिगमनं सकृत् पिण्डप्रपातनम् ॥

दुर्लभत्वं पुनर् नित्यम् अस्मिन्न् एव व्यवस्थितिः ।

किम् अत्र प्रोच्यते रैभ्य तव पुण्यम् इति प्रभो ॥

येन शार्ङ्गगदापाणिर् दृष्टो नारायणः स्वयम् ।

यतो गदाधरः साक्षाद् अस्मिंस् तीर्थे व्यवस्थितः ॥

अतो हि विख्याततमं तीर्थम् एतद् द्विजोत्तम ।

ब्रह्मपुराणे

[कियत् ते पतितानां च गते संवत्सरे क्वचित् ।

देशधर्मप्रमाणात्वाद् गयाकूपे स्वयं भुवि ॥

मार्तण्डपादमूले वा श्राद्धं हरिहरं स्मरन् ।

वामनपुराणे ] ।

	प्रेतराजो वणिजं किञ्चित् प्रत्याह ।

गयायां तीर्थजुष्टायां स्नात्वा शौचसमन्वितः ।

[१६७] मम नाम समुद्दिश्य पिण्डनिर्वपणं कुरु ॥

तत्र पिण्डप्रदानेन प्रेतभावाद् अहं सखे ।

मुक्तस् तु सर्वद्रष्टॄणां यास्यामि शुभलोकताम् ॥

इत्य् एवम् उक्त्वा वणिजं प्रेतराजो ऽनुजैः सह ।

स्वनामानि यथान्यायं सम्यग् आख्यातवाञ् छुचिः ॥

तथार्चयित्वा प्रययौ गयाशिरम् अनुत्तमम् ।

पिण्डनिर्वपणं तत्र प्रेतानाम् अनुपूर्वशः ॥

चकार च सदा प्राणान् पितॄंश् चक्रे त्व् अनन्तरम् ।

आत्मनश् च महाबुद्धिर् महाबोधौ तिलैर् विना ॥

पिण्डनिर्वपणं चक्रे तथान्यान् अपि गोत्रजान् ।

एवं प्रदत्तेष्व् अथ च पिण्डेषु प्रेतभावतः ॥

विमुक्तास् ते द्विजाः प्राप्य ब्रह्मलोकं ततो गताः ।

वायुपुराणे

आनन्त्याय भवेद् अन्नं खड्गमांसं पितृक्षये ।

कृष्णछागस् तथा लोह आनन्त्याय प्रकल्पयेत् ॥

गयायाम् अक्षयं श्राद्धं जपहोमतपांसि च ।

पितृक्षयो हि तत्पुत्र तेन तत्राक्षयं भवेत् ॥

बृहस्पतिः

काङ्क्षन्ति पितरः पुत्रान् नरकाद् भयभीरवः ।

गयां यास्यति यः कश्चित् सो ऽस्मान् सन्तारयिष्यति ॥

गयायां धर्मपृष्ठे च सरसि ब्रह्मणस् तथा ।

गयाशीर्षे ऽक्षयवटे पितॄणां दत्तम् अक्षयम् ॥

[१६८] ब्रह्मारण्यं धर्मपृष्ठं धेनुकारण्यम् एव च ।

दृष्ट्वैतानि पितॄंश् चार्य वंशान् विंशतिम् उद्धरेत् ॥

वायुपुराणे

गयायां धर्मपृष्ठे च सरसि ब्रह्मणस् तथा ।

गवां गृध्रवटे चैव श्राद्धं तत् तन् महाफलम् ॥

भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर् वृते ।

मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ॥

ख्यापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनात् ।

यच् चम्पकवनं पुण्यं पुण्यकृद्भिर् निषेवितम् ॥

तस्मिन् पाण्डुविशल्येति तीर्थं सद्यो निदर्शनम् ।

तृतीयायां तथा पादे निश्चीवायाश्वमण्डले ॥

महाह्रदे च कौशिक्यां दत्तं श्राद्धं महाफलम् ।

मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥

बहून् वर्षगणांस् तप्त्वा तपस् तीव्रं सुदुश्चरम् ।

अल्पेनाप्य् अत्र कालेन भवेद् धर्मपरायणः ॥

पाप्नानम् उत्सृजत्य् आशु जीर्णां त्वचम् इवोरगः ।

नाम्ना कनखलं विप्र तीर्थं जगति विश्रुतम् ॥

उदीच्यां मुण्दपृष्ठस्य ब्रह्मर्षिगणसेवितम् ।

तत्र स्नात्वा दिवं यान्ति स्वशरीरेण मानवाः ॥

दत्तं चापि सदा श्राद्धम् अक्षयं समुदाहृतम् ।

स्नात्वा ऋणत्रयं तत्र निष्क्रीणाति नरोत्तम ॥

मानसे सरसि स्नात्वा श्राद्धं निर्वर्तयेत् ततः ।

उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्य् अनुत्तमाम् ॥

[१६९] तस्मिन् निर्वर्तयेच् छ्राद्धं यथाशक्ति यथाबलम् ।

कामान् स लभते दिव्यान् मोकोपायांश् च कृत्स्नशः ॥

महाभारते

	पुलस्त्यतीर्थयायायाम्

ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः ।

अश्वमेधम् अवाप्नोति गमनाद् एव भारत ॥

यत्राक्षयवटो नाम त्रिषु लोकेक्षु विस्रुतः ।

यत्र दत्तं पितृभ्यस् तु भवत्य् अक्षय्यम् इत्य् उत ॥

महानद्याम् उपस्पृश्य तर्पयेत् पितृदेवताः ।

अक्षयान् प्राप्नुयाल् लोकान् कुलं चैव समुद्धएत् ॥

ततो ब्रह्मसरो गच्छेद् ब्रह्मारण्योपशोभितम् ।

ब्रह्मलोकम् अवाप्नोति प्रभातम् इव शर्वरी ॥

ब्रह्मणा तत्र सरसि यूपः पुण्यः प्रकल्पितः ।

यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् ॥

ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम् ।

एकरात्रोषितो यत्र प्रयच्छेत् तिलधेनुकाम् ॥

सर्वपापविशुद्धात्मा सोमलोकं व्रजेद् ध्रुवम् ।

तत्र चिह्नं महाराज अद्यापि महद् अद्भुतम् ॥

कपिला सहवत्सा वै पूर्वम् एव चरत्य् उत ।

सवत्सायाः पदानि स्म दृश्यन्ते ऽद्यापि तत्र वै ॥

तं यूपं स्पृश्य राजेन्द्र पादेशु नृपसत्तम ।

[१७०] यत् किञ्चिद् अशुभं कर्म तत् प्रणश्यति भारत ॥

ततो गृध्रवटं गच्छेत् स्थानं देवस्य धीमतः ।

स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ॥

ब्राह्मणेन भवेच् चीर्णं व्रतं द्वादशवार्षिकम् ।

इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥

उद्यन्तं च ततो गच्छेत् पर्वतं गीतवादिनम् ।

सावित्र्यास् तु पदं तत्र दृश्यते भरतर्षभ ॥

तत्र सम्ध्याम् उपासीत ब्राह्मणः संशितव्रतः ।

उपासिता भवेत् सन्ध्या तेन द्वादशवार्षिकी ॥

योनिद्वारं च तत्रैव दृश्यते भरतर्षभ ।

तत्राभिगम्य मुच्येत पुरुषो योनिसङ्कटात् ॥

शुक्लकृष्णाव् उभौ पक्षौ गयायां यो वसेन् नरः ।

पुनात्य् आसप्तमं चैव कुलं नास्त्य् अत्र संशयः ॥

“एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् ।

यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत्” ॥

ततः फल्गुं व्रजेद् राजंस् तीर्थसेवी नराधिप ।

अश्वमेधवाप्नोति [-धम् अवाप्नोति?] सिद्धिं च परमां लभेत् ॥

ततो गच्छेत् तु राजेन्द्र धर्मपृष्ठं महाफलम् ।

तत्र धर्मो महाराज नित्यम् आस्ते युधिष्ठिर ॥

अभिगम्य ततस् तत्र वाजिमेधफलं लभेत् ।

ततो गच्छेत् तु राजेन्द्र ब्रह्मणस् तीर्थम् उत्तमम् ॥

[१७१] तत्राभिगम्य राजेन्द्र ब्रह्माणं भरतर्षभ ।

राजसूयाश्वमेधाभ्यां फलम् आप्नोति मानवः ॥

तथा

	धौम्यतीर्थयात्रायम् ।

पूर्वं प्राचीं दिशं राजन् राजर्षिगणसेवितम् ।

रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति ॥

यस्यां गिरिवरः पुण्यो गतो राजर्षिसत्कृतः ।

शिवं ब्रह्मसरो यत्र सेवितं तत्र चर्षिभिः ॥

यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः ।

“एष्टव्या बहवः पुत्राः यद्य् एको ऽपि गतां व्रजेत् ॥

सन्तरयति सन्तत्या दश पूर्वान् दशावरान्” ।

महानदी च तत्रैव तथा गयशिरो नृप ॥

यत्रासौ कीर्त्यते विप्रैर् अक्षय्यङ्करणो वटः ।

यत्र दत्तं पितृभ्यो ऽन्नम् अक्षय्यं भवति प्रभो ॥

सा च पुण्यजला यत्र फल्गुनामा महानदी ।

बहुमूलफला चापि कौशिकी भरतर्षभ ॥

तथा

	लोमशतीर्थयात्रायाम् ।

ततो महीधरं जग्मुर् धर्मज्ञेनाभिरक्षितम् ।

राजर्षिणा पुण्यकृता गयेनानुपमद्युते ॥

[१७२] नगो गयशिरो यत्र पुण्या चैव महानदी ।

ऋषिजुष्टं महापुण्यं तीर्थं ब्रह्मसरो ऽतुलम् ॥

अगस्त्यो भगवान् यत्र यतो वैवस्वतं प्रति ।

उवास च स्वयं तत्र धर्मराजः सवाहनः ॥

सर्वासां सरितां यत्र समुद्भेदो विशां पते ।

यत्र सन्निहितो नित्यं महादेवः पिनाकधृक् ॥

तत्र ते पाण्डवा वीराश् चातुर्मास्यैस् तद् एजिरे ।

ऋषियज्ञेन महता यत्राक्षय्यवटो महान् ॥

तथा

	बलभद्रतीर्थयात्रायाम् ।

गयस्य यजमानस्य गयस्येव महाक्रतुः ।

आहूता सुसरिच् छ्रेष्ठा यत्र यज्ञे सरस्वती ॥

विशालां तु गयेष्व् आहुर् ऋषयः संशितव्रताः ।

“गयस्येव” इति यज्ञस्य तेनैवोपमानम् अतिप्रशंसार्थम् ।

तथा

	आङ्गिरसतीर्थयात्रायाम् ।

मुण्डपृष्ठं गयां चैव नैरृतं देवपर्वतम् ।

तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विमुच्यते ॥

**वामनपुराणे **।

	प्रह्लादतीर्थयात्रायाम् ।

गयायां गोपतिं द्रष्टुं स जगाम महासुरः ।

सरसि ब्रह्मणः स्नात्वा कृत्वा चास्य प्रदक्षिणम् ॥

[१७३] पिण्डनिर्वपणं पुण्यं पितॄणां स चकार ह ।

नरसिंहपुराणे

शिवनद्यां शिवकरं गयायां च जनार्दनम् ।

सर्वत्र परमात्मानं यः पश्यति स मुच्यते ॥

मत्स्यपुराणे

	गौरीस्थानप्रतिपादनप्रस्तावे ।

वाराणस्यां विशालाक्षी प्रयागे ललिता तथा ।

गयायां मङ्गला नाम कृतशौचे तु सिंहिका ॥

याज्ञवल्क्यः ।

यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् अश्नुते ।

विष्णुः

अपि जायेत सो ऽस्माकं कुले कश्चिन् नरोत्तमः ।

गयाशीर्षे वटे श्राद्धं यस् तु कुर्यात् समाहितः ॥

यमः

“एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।

तेषां वै समवेतानां यद्य् एको ऽपि गयां व्रजेत् ।

यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत् ॥

[१७४] वसिष्ठः

नन्दन्ति पितरस् तस्य सुवृष्टेर् इव कर्षकाः ।

यद् गयास्थो ऽददात् पुण्यं पितरस् तेन पुत्रिणः ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे गयामाहात्म्यं समाप्तम् ।

[१७५]

अथ कुरुक्षेत्रमाहात्म्यम्

तत्र वामनपुराणे

	कुरुर् उवाच ।

यावद् एतन् मया कृष्टं धर्मक्षेत्रं तद् अस्तु च ।

स्नातानां च मृतानां च महापुण्यफलं त्व् इह ॥

उपवासं च दानं च स्नानं जप्यं च माधव ।

होमो यज्ञादिकं चान्यच् छुभं वाप्य् अशुभं विभो ॥

त्वत्प्रसादाद् धृषीकेश शङ्खचक्रगदाधर ।

अक्षयं प्रवरक्षेत्रे बवत्व् अत्र महत् फलम् ॥

तथा त्वं च सुरैः सार्धं समं देवेन शूलिना ।

वसात्र पुण्डरीकाक्ष मन्नाम्ना चेदम् उच्यते ॥

इत्य् एवम् उक्तस् तेनाहं राज्ञा वै दत्तवान् वरम् ।

तथा च त्वं दिव्यवपुर् भव भूयो महीपते ॥

तथान्तकाले माम् एव लयम् एष्यसि सुव्रत ।

कीर्तिश् च शाश्वती तुभ्यं भविष्यति न संशयः ॥

कलिद्वापरयोर् मध्ये व्यासेन च महात्मना ।

सरःप्रमाणं यत् प्रोक्तं तच् छृणुध्वं द्विजोत्तमाः ॥

[१७६] विश्वेश्वराद् अस्ति पुरा तथारण्या जरद्गवी ।

यावद् गौर् जरती प्रोक्ता तावत् सन्निहितं सरः ॥

मया श्रुतं प्रमाणं तु पच्यमानं च वामने ।

तच् छृणुध्वं द्विजश्रेष्ठाः पुण्यवृद्धिकरं महत् ॥

विश्वेश्वराद् एकरात्रिर् यावच् चाथ सरस्वती ।

सरः सन्निहितं ज्ञेयं समन्ताद् अर्धयोजनम् ॥

एतद् आश्रित्य देवाश् च ऋषयश् समागताः ।

सेवन्ति मुक्तिकामाश् च गन्धर्वाप्सरसः स्थिताः ॥

यदा सूर्यस्य ग्रहणं कालेन भविता क्वचित् ।

सन्निहत्य तदा स्नात्वा पूताः स्वर्गं गमिष्यथ ॥

ये तु सिद्धा महात्मानस् ते लिङ्गस्पर्शनेन च ।

व्रजन्ति परमां सिद्धिं पुनरावृत्तिर् दुर्लभाम् ॥

एवं ज्ञात्वा ततो गङ्गा देवानां हितकाम्यया ।

उपर्य् उपरि लिङ्गानि सप्त तत्र चकार ह ॥

ततो ये मुक्तिकामाश् च सिद्धा यज्ञपरायणाः ।

संसेव्य ते प्रयत्नेन प्रयाताः परमं पदम् ॥

पांसवो ऽपि कुरुक्षेत्रे वायुना समुदीरिताः ।

अतिदुष्कृतकर्माणं नयन्ति परमां गतिम् ॥

ततो ऽहं ताः प्रजा दृष्ट्वा पिहितास् तेन तेजसा ।

क्रोधेन महता युक्तो लिङ्गम् उत्पाट्य चाकिषीपन् ॥

[१७७] सङ्क्षिप्तः सरसोर् मध्ये ऊर्ध्वम् एव पुनः स्थितः ।

तदा प्रभृति लोकेषु स्थाणुर् इत्य् एव विश्रुतः ॥

सकृद्दर्शणमात्रेण विमुक्तः सर्वकिल्बिषैः ।

प्रयाति मोक्षं परमं यस्मान् नावर्तते पुनः ॥

यश् चेह तीर्थे निवसेत् कृष्णाष्टम्यां समाहितः ।

स मुक्तः पातकैः सर्वैर् अगम्यागमनोद्भवैः ॥

महाभारते

ततो गच्छेत राजेन्द्र कुरुक्षेत्रम् अभिष्टुतम् ।

पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः ॥

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् ।

य एवं सततं ब्रूयात् सो ऽपि पापात् प्रमुच्यते ॥

तत्र वै संवसेद् धीरः सरस्वत्यां युधिष्ठिर ।

यत्र ब्रह्मादयो देवा ऋषयो सिद्धचारणाः ॥

गन्धर्वाप्सरसो यक्षाः पन्नगाश् च महीपते ।

ब्रह्मक्षेत्रं महापुण्यम् अभिगच्छन्ति भारत ॥

मनसाप्य् अभिकामस्य कुरुक्षेत्रं युधिष्ठिर ।

पापानि च विनश्यन्ति स्वर्गलोकं स गच्छति ॥

गत्वापि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह ।

फलं प्राप्नोति च तदा राजसूयाश्वमेधयोः ॥

[१७८] तथा

ततो गच्छेच् च धर्मज्ञ तीर्थं सन्निहतीम् अपि ।

यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः ॥

मासि मासि समेष्यन्ति पुण्येन महतान्विताः ।

सन्निहत्याम् उपस्पृश्य राहुग्रस्ते दिवाकरे ॥

अश्वमेधशतं तत्र तेनेष्टं शाश्वतं भवेत् ।

पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च ॥

नद्यो नदास् तडागाश् च सर्वप्रस्रवणानि च ।

उदपानाश् च विप्राश् च पुण्यप्रयतनानि च ॥

स्नातमात्रस्य तत् सर्वं नश्यते नात्र संशयः ।

पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥

अभिपद्य ततो मोक्षं द्वारपालम् अनन्तकम् ।

कोटीकूपम् उपस्पृश्य लभेद् बहुसुवर्णकम् ॥

गङ्गाह्रदश् च तत्रैव तीर्थं भरतसत्तम ।

तत्र स्नायीत दर्मज्ञो ब्रह्मचारी समाहितः ॥

राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ।

पृथिव्यां नैमिशं पुण्यम् अन्तरिक्षे च पुष्करम् ॥

त्रयाणाम् अपि लोकानां कुरुक्षेत्रं विशिष्यते ।

पांसवो ऽपि कुरुक्षेत्राद् वायुना समुदीरिताः ॥

अतिदुष्कृतकर्माणं नयन्ति परमां गतिम् ।

उत्तरेण दृषद्वत्यां दक्षिणेन सरस्वतीम् ॥

[१७९] ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ।

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् ॥

अथैकां वाचम् उत्सृज्य स्वर्गलोके महीयते ।

ब्रह्मवेदिः कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ॥

तत्रावसन्ति ये राजन् न ते शोच्याः कथञ्चन ।

तद्रन्तुकारन्तुकयोर् यद् अन्तरं 

	रामह्रदानां च मचक्रुकस्य ।

एतत् कुरुक्षेत्रसमन्तपञ्चकं

	पितामहस्योत्तरवेदिर् उच्यते ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे कुरुक्षेत्रमाहात्म्यं समाप्तम् ।

[१८०]

अथ पृथूदकमाहात्म्यम्

तत्र महाभारते

ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।

पृथूदकम् इति ख्यातं कार्त्तिकेयस्य धीमतः ॥

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।

अज्ञानाज् ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ॥

यत् किञ्चिद् अशुभं कर्म कृतं मानुषबुद्धिना ।

तत् सर्वं नश्यते राजन् स्नातमात्रस्य कौरव ॥

अश्वमेधफलं चास्य स्वर्गलोकं च गच्छति ।

पुण्यम् आहुः कुरुक्षेत्रं कुरुक्षेत्रात् सरस्वती ॥

सरस्वत्याश् च तीर्थानि तीर्थेभ्यश् च पृथूदकम् ।

श्रुतं मे सर्वतीर्थानां यस् त्यजेद् आत्मनस् तनुम् ॥

पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ।

श्वोभाव्य् अपि मरणं नैनं सन्तापयेद् इत्य् अर्थः ।

गीतं सनत्कुमारेण व्यासेन च महात्मना ।

वेदे च नियतं राजन्न् अभिगच्छेत् पृथूदकम् ॥

[१८१] पृथूदकात् पुण्यतमं नान्यतीर्थं नराधिप ।

एतन् मेध्यं पवित्रं च पावनं च न संशयः ॥

तत्र स्नात्वा दिवं यान्ति ये ऽपि पापकृतो जनाः ।

पृथूदके नरश्रेष्ठ प्राहुर् एवं मनीषिणः ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे पृथूदकमाहात्म्यं समाप्तम् ।

[१८२]

अथ पुष्करमाहात्म्यम्

तत्र **महाभारते **।

त्रिलोके देवलोकस्य तीर्थं त्रैलोक्यविश्रुतम् ।

पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥

दशकोटिसहस्राणां तीर्थानां वै महीपते ।

सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ॥

आदित्या वसवो रुद्राः शाध्याश् च समरुद्गणाः ।

गन्धर्वाप्सरसश् चैव नित्यं सन्निहिता विभो ॥

यत्र देवास् तपस् तप्त्वा दैत्या ब्रह्मर्षयस् तथा ।

दिव्यभोगा महाराज पुण्येन मनतान्विताः ॥

मनसाप्य् अभिकामस्य पुष्कराणि मनस्विनः ।

पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥

तस्मिंस् तीर्थे महाराज नित्यम् एव पितामहः ।

उवास परमप्रीतो देवदानवसम्मतः ॥

पुष्करेषु महाभाग देवाः सर्षिगणाः पुरा ।

सिद्धिं समभिसम्प्राप्ताः पुण्येन महतान्विताः ॥

[१८३] तत्राभिषेकं यः कुर्यात् पितृदेवार्चने रतः ।

अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥

अप्य् एकं भोजयेद् विप्रं पुष्करारण्यम् आश्रितः ।

तेनासौ कर्मणाभीक्ष्णं प्रेत्य चेह च मोदते ॥

शाकैर् मूलफलैर् वापि येन वर्तयते स्वयम् ।

तद् वै दद्याद् ब्राह्मणाय श्रद्धावान् अनसूयकः ॥

तेनैव प्राप्नुयत् प्राज्ञो हयमेधफलं नरः ।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम ॥

न वियोनिं व्रजेत् प्रेत्य स्नात्वा तीर्थे महात्मनः ।

कार्त्तिक्यां तु विशेषेण यो ऽभिगच्छेत पुष्करम् ॥

प्राप्नुयात् स नरो लोकान् ब्रह्मणः सदने ऽक्षयान् ।

सायं प्रातः स्मरेद् यस् तु पुष्कराणि कृताञ्जलिः ॥

उपस्पृष्टं भवेत् तेन सर्वतीर्थेषु भारत ।

जन्मप्रभृति यत् पापं स्त्रियो वा पुरुषस्य वा ॥

पुष्करे स्नातमात्रस्य सर्वम् एव प्रणश्यति ।

यथा सुराणां सर्वेषाम् आदिस् तु मधुसूदनः ॥

तथैव पुष्करं राजंस् तीर्थानाम् आदिर् उच्यते ।

उषित्वा दश वर्षाणि पुष्करे नियतः शुचिः ॥

क्रतून् सर्वान् अवाप्नोति ब्रह्मलोकं च गच्छति ।

यस् तु वर्षशतं पूर्णम् अग्निहोत्रम् उपाचरेत् ॥

[१८४] कार्त्तिकीं वा वसेद् एकां पुष्करे समम् एव तत् ।

दुष्करं पुष्करे स्नानं दुष्करं पुष्करे तपः ॥

दुष्करं पुष्करे यानं वस्तुं चैव च दुष्करम् ।

पद्मपुराणे

ऋषिकोटिः समायाता दक्षिणापथवासिनाम् ।

स्नानार्थं पुष्करे राजन् पुष्करं भुवि यद् गतम् ॥

अथ ते मुनयः सर्वे प्राणायामपरायणाः ।

ध्यायन्तश् च परं ब्रह्म स्थिता द्वादश वत्सरान् ॥

ब्रह्मा महर्षयस् तत्र देवाश् चेन्द्रपुरोगमाः ।

ऋषींस् तान् वारयामासुर् नियमात् ते सुदुष्करात् ॥

कारणेन वियद्यानं मन्त्रेणाह्वयत द्विजाः ।

आपो हि ष्ठेति तिसृभिः ऋग्भिः सान्निध्यम् एष्यति ॥

अघमर्षणजप्येन जायते फलदायकम् ।

विप्रैर् वाक्यावसाने तु सर्वैस् तैस् तु तथाकृतम् ॥

कृतेन पुण्यतां प्राप्ता जातिदोषाद् ऋते द्विजाः ।

गर्हिता धर्मशास्त्रेषु ये विप्रा दक्षिणोत्तराः ॥

ये चान्ये पार्वतीयाश् च श्राद्धे नार्हन्ति केतनम् ।

एतस्मात् कारणाद् यानं वियत्य् एव चिरं स्थितम् ॥

[१८५] कार्त्तिक्यां पुष्करे स्नातुं स्वयम् एवाभिगच्छति ।

ब्रह्मणा सहितं राजन् सर्वेषां पुण्यदायकम् ॥

तत्रागच्छन्ति ये वर्णाः सर्वे ते पुण्यभाजनाः ।

द्विजैस् तुल्या न सन्देहो विना मन्त्रेण ते नृप ॥

अन्तरीक्षाद् अवातीर्णं तीर्थं पैतामहे शुभम् ।

स्नानं ये ऽत्र करिष्यन्ति तेषां लोका महोदयाः ॥

निस्पृहं ते अन्यपुण्यस्य कृतस्याप्य् अकृतस्य च ।

करिष्यन्ति महाराज सत्यम् एतद् उदाहृतम् ॥

तीर्थानां परमं तीर्थं पृथिव्याम् इह पठ्यते ।

नास्मात् परतरं तीर्थं लोके ऽस्मिन् परिपठ्यते ॥

यमः

कार्त्तिकी पुष्करे स्नातः सर्वपापैः प्रमुच्यते ।

**विष्णुः **।

पुष्करे ह्य् अक्षयं श्राद्धं जपहोमतपांसि च ।

पुष्करे स्नातमात्रस् तु सर्वपापैः प्रमुच्यते ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे पुष्करमाहात्म्यं समाप्तम् ।

[१८६]

अथ मथुरामाहात्म्यम्

तत्र वराहपुराणे

	वराह उवाच ।

मथुरेति च विख्यातं मुक्तिक्षेत्रं परं मम ।

भविष्यति वरारोहे द्वापरे युगसंस्थिते ॥

सुरम्या च प्रशस्ता च जन्मभूमिर् मम प्रिया ।

मूर्तीश् चतस्र आदाय उत्पत्स्यामि वरानने ॥

“मूर्तीः” कृष्णबलभद्रानिरुद्धप्रद्युम्नस्वरूपाः ।

तत्र गुह्यानि मे भद्रे भविष्यन्ति प्रियाणि वै ।

पुण्यानि च प्रशस्तानि नृणां संसारमोक्षिणाम् ॥

“गुह्यानि” स्थानानि वक्ष्यमाणानि ।

तत्राहं घातयिष्यामि दानवांश् च वरानने ।

नदी तत्र वरारोहे शुभा पुण्यतरोदका ॥

विवस्वतः सुता रम्या यमुना वै भविष्यति ।

सा प्रयागे तु सुश्रोणि ब्रह्मक्षेत्रे तथा शूभा ॥

भविष्यति न सन्देहो गङ्गायास् तदनन्तरम् ।

[१८७] “सा प्रयागे तु” इति । “तदनन्तरं” मथुराया अनन्तरम् “प्रयागे” ब्रह्मक्षेत्रे गङ्गायाः सम्बन्धाद् यथा यमुना शुभा भविष्यति, तथात्र प्रथमम् एव मथुरायां शुभा भविष्यतीत्य् अर्थः ।

लभन्ते मनुजाः सिद्धिम् आत्मकर्मसु भाविताः ।

मम क्षेत्रप्रभावेण भूमि संसारमोक्षणम् ॥

असिकुण्डं परं नाम सुरभ्यं यमुनाम्भसि ।

कूले च दक्षिणे तत्र मथुरायां सुमध्यमे ॥

तत्र स्नानं प्रकुर्वीत षष्ठकालोषितो नरः ।

नन्दनं वनम् आश्रित्य कृतकृत्यः स मोदते ॥

अथात्र मुञ्चति प्राणांस् तस्मिन् कूले तटे शुभे ।

नन्दनं वनम् उत्सृज्य मम लोकं प्रपद्यते ॥

अस्ति वृन्दावनं नाम तस्मिन् क्षेत्रे परं मम ।

तत्राहं क्रीडयिष्यामि गोभिर् गोपालकैः सह ॥

तत्र कुण्डं महाभागे लतागुल्मशतावृतम् ।

तत्र स्नानं प्रकुर्वीत चतुःकालोषितो नरः ॥

मोदते विपुले दिव्ये गन्धर्वाणां कुलेषु च ।

तत्र यो मुञ्चति प्राणान् सततं कृतनिश्चयः ॥

गन्धर्वपुरम् उत्सृज्य मम लोकं स गच्छति ।

तत्र भाण्डीरकं नाम गुह्यं क्षेत्रं परं मम ॥

देवा अपि न जानन्ति नागा यक्षा महासुराः ।

तत्र स्नानं प्रकुर्वीत एकभक्तोषीतो नरः ॥

[१८८] मोदते नागलोकेषु एवम् एतन् न संशयः ।

अथात्र मुञ्चति प्राणान् कृत्वा कर्म सुदुष्करम् ॥

नागलोकं समुत्सृज्य मम लोकं प्रपद्यते ।

तत्र कुण्डं महाभागे द्रुमगुल्मलतावृतम् ॥

तत्र पूर्वेण पार्श्वेण तस्मिंस् तीर्थं सुधार्मिकम् ।

“धार्मिकं” धर्मप्रयोजनं धर्मोत्पादकम् इत्य् अर्थः ।

चम्पकैः पाटलैश् चैव नानापुष्पैश् च शोभितम् ।

तत्र स्नानं तु कुर्वीत अहोरात्रोषितो नरः ॥

लोकं वैद्याधरं गत्वा मोदते कृतनिश्चयः ।

अथात्र मुञ्चति प्राणान् मल्लोकं प्रैपद्यते ॥

यमलार्जुनकुण्डेति क्षेत्रं कुण्डं परं मम ।

तच् च कुण्डं महाभागे वृक्षगुल्मलतावृतम् ॥

तत्र स्नानं तु कुर्वीत अहोरातोषितो नरः ।

अप्सरोभवनं गत्वा मोदते गतकिल्बिषः ॥

अथात्र मुञ्चति प्राणान् कृत्वा कर्म सुनिश्चयः ।

अप्सरोभवनं गत्वा मल्लोकं प्रतिपद्यते ॥

तथैवार्कस्थल्ं नाम तस्मिन् क्षेत्रे परं मम ।

दृश्यते तत्र चादित्यो द्वादशात्मा व्यवस्थितः ॥

कूपस् तत्र महाभागे प्रसन्नसलिलोदकः ।

दुर्लभः पापकार्याणां सुलभः पुण्यकारिणाम् ॥

[१८९] अथात्र स्नानं कुर्वीत एकरात्रोषितो नरः ।

मोदते सूर्यलोकेषु एवम् एतन् न संशयः ॥

अथात्र मुञ्चति प्राणान् कृत्वा चेन्द्रियनिग्रहम् ।

सूर्यलोके परित्यज्य मम लोकं स गच्छति ॥

तत्र वीरस्थलं नाम ज्येष्ठं गुह्यं परं मम ।

गुल्मवल्लीलताकीर्णं बहुपुष्पफलोदकम् ॥

स्नानं तत्रैव कुर्वीत पञ्चरात्रोषितो नरः ।

ममैव स प्रसादेन वीरलोकेषु मोदते ॥

अथात्र मुञ्चति प्राणान् एकचित्तो दृढव्रतः ।

वीरलोकं समुत्सृज्य मम लोकं प्रपद्यते ॥

अपरं कनकं नाम गुह्यक्षेत्रं परं मम ।

विन्ध्यपृष्ठे महाभागे कूपस् तत्र विधीयते ॥

तत्र स्नानं प्रकुर्वीत एकभक्तोषितो नरः ।

मोदते नाकपृष्ठे स कृतकृत्यो न संशयः ॥

अथात्र मुञ्चति प्राणान् याति दिव्यां परां गतिम् ।

नाम्ना प्रकीर्तनं नाम गुह्यक्षेत्रं परं मम ॥

तत्र चैकं शिलापट्टं रक्तचन्दनसन्निभम् ।

मनोज्ञं रमणीयं च मम भक्तसुखावहम् ॥

यस् तत्र तिष्ठते भूमिम् एकरात्रोषितो नरः ।

स वायुभवनं गत्वा मोदते कृतनिश्चयः ॥

[१९०] अथात्र मुञ्चति प्राणान् याति लोकं ममाक्षयम् ।

सोमकुण्डेति विख्यातं तस्मिन् क्षेत्रे परं मम ॥

तत्र स्नानं तु कुर्वीत सोमलोके स मोदते ।

अथात्र मुञ्चति प्राणान् लोभमोहविवर्जितः ॥

सोमलोकं समुत्सृज्य मोदते मां च पश्यति ।

राधाकुण्डेति विख्यातं तस्मिन् क्षेत्रे परं मम ॥

तत्र स्नानं तु कुर्वीत एकरात्रोषितो नरः ।

ततः पिण्डारकं नाम क्षेत्रं गुह्यं परं मम ॥

स्नाने दक्षिणकूले तु शुद्धे तु यमुनाम्भसि ।

तत्राभिषेकं कुर्वीत एकरात्रोषितो नरः ॥

याति पुण्यकृतां लोकं मेरुशृङ्गसमाश्रितम् ।

जम्बीरं चम्पकं नाम तस्मिन् क्षेत्रे परं मम ॥

तत्र कुण्डं विशालाक्षि प्रसन्नं विमलोदकम् ।

तत्र स्नानं प्रकुर्वीत एकरात्रोषितो नरः ॥

अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ।

कर्मावरोहणं नाम तस्मिन् क्षेत्रे परं मम ॥

तत्राभिषेकं कुर्वीत विन्ध्यप्रमुखतः शुभे ।

नाम्ना वितानकं क्षेत्रं तत्र गुह्यं परं मम ॥

मथुरापश्चिमे भोगे अदूराद् अर्धयोजनात् ।

ततो बल्लभकं नाम क्षेत्रं गुह्यं परं मम ॥

[१९१] अथात्र मुञ्चति प्राणांस् तीर्थे बल्लभके मम ।

स्वर्गलोकं परित्यज्य मम लोके महीयते ॥

ऊषभञ्जनकं नाम तस्मिन् गुह्यं परं मम ।

यत्र धारा पतत्य् एका विन्ध्यकूटाद् विनिःसृता ॥

तत्राभिषेकं कुर्वीत एकरात्रोषितो नरः ।

अथात्र मुञ्चति प्राणान् शीघ्रं याति परां गतिम् ॥

अस्ति बिन्दुप्रभं नाम तस्मिन् गुह्यं परं मम ।

बिन्दुर् एकः पतत्य् अत्र पर्वताद् दुरतिक्रमात् ॥

तत्राभिषेकं कुर्वीत एकरात्रोषितो नरः ।

अथात्र मुञ्चति प्राणान् शीघ्रं याति परां गतिम् ॥

अस्ति अस्तमनं नाम तस्मिन् गुह्यं परं मम ।

धारात्र पतते चैका विन्ध्यपर्वतनिःसृता ॥

तत्राभिषेकं कुर्वीत उपस्पृश्य यथाविधि ।

अस्ति ताम्रप्रभं नाम तस्य क्षेत्रस्य दक्षिणे ॥

अथ दूरात् पञ्चक्रोशात् तत्र कुण्डं परं महत् ।

तत्राभिषेकं कुर्वीत चतुःकालसमन्वितः ॥

वत्सप्रक्रीडनं नाम तस्मिन् गुह्यं परं मम ।

[१९२] मथुरापश्चिमे पार्श्वे अदूराद् अर्धयोजनात् ॥

तत्र कुण्डं महाभागे प्रसन्नविमलोदकम् ।

तत्राभिषेकं कुर्वीत अहोरात्रोषितो नरः ॥

अग्नेः स भवनं गत्वा मोदते विगतज्वरः ।

अथात्र मुञ्चति प्राणान् सिद्धिं याति परां गतिम् ॥

अस्ति गोवर्धनं नाम क्षेत्रं गुह्यं परं मम ।

अदूराद् अष्टकोशानि मथुरायाश् च पश्चिमे ॥

ह्रदं तत्र महाभागे द्रुमगुल्मलतावृतम् ।

ऐन्द्रं पूर्वेण पार्श्वेन याम्यां वै दक्षिणे नवम् ॥

वारुणे पश्चिमे तीर्थं कौबेरं चोत्तरेण तु ।

तत्र मध्ये स्थितो भद्रे क्रीडितो ऽयं यदृच्छया ॥

संस्तुतो ऽहं लोकपालैः स्तुतिभिर् मन्त्रवादिभिः ।

तत्रापि महद् आश्चर्यं पश्यन्ति मम चतसः ॥

तस्मिन् गोवर्धने भूमिः सर्वभागवतप्रिये ।

चतुर्विंशति द्वादश्यां तस्मिन् शिखरमूर्धनि ॥

दृश्यते स्थूलदीपा वै द्योतयन्ती दिशो दश ।

यश् च ते पश्यते दीपं मम कर्मपरायणः ॥

लभते परमां सिद्धिम् एवम् एतन् न संशयः ।

कालियस्य ह्रदं पुण्यम् अस्ति गुह्यं परं मम ॥

तत्र कंसं हनिष्यामि संस्थिते द्वापरे युगे ।

तत्र स्नानं तु कुर्वीत पञ्चरात्रोषितो नरः ॥

गन्धर्वभवनं गत्वा मोदते विगतज्वरः ।

तत्र तिष्ठाम्य् अहं भद्रे दिशं पूर्वां समाश्रितः ॥

[१९३] हिरण्यप्रतिमां कृत्वा बृहद्रूपश् चतुर्भुजः ।

दक्षिणे गच्छतः पार्श्वे कूपो ऽत्र विमलोदकः ॥

सप्तसामुद्रकं नाम यत्र सन्तिष्ठते जलम् ।

तत्राभिषेकं कुर्वीत चतुःकालोषितो नरः ॥

मोदते सप्तद्वीपेषु स्वच्छन्दगमनालयः ।

अथात्र मुञ्चति प्राणान् मम लोके स मोदते ॥

विंशद्योजनविस्तारे माथुरे मम मण्डले ।

तत्र प्राणान् प्रमुञ्चन्ति सिद्धा यान्ति परां गतिम् ॥

अस्ति नन्दिगुहा नाम तस्मिन् गुह्यं परं मम ।

मुचुकुन्दः स्वपित्य् अत्र दानवासुरशातनः ॥

तत्र कुण्डं महाभागे प्रसन्नविमलोदकम् ।

तत्राभिषेकं कुर्वीत षष्ठकालोषितो नरः ॥

दशवर्षसहस्रेषु मोदते कृतनिश्चयः ।

य चरन्ति महाभागे माथुराद्वने (?) जनाः ॥

ते ऽपि यान्ति परां सिद्धिं मत्प्रसादान् न संशयः ।

एतत् ते कथितं भद्रे माहात्म्यं मथुरागतम् ॥

एतन् मरणकाले ऽपि स्मर्तव्यं मनसापि च ।

यदीच्छेत् परमां सिद्धिं सर्वसंसारमोक्षणीम् ॥

**विष्णुपुराणे **।

यमुनासलिले स्नात्वा पुरुषो मुनिसत्तम ।

ज्येष्ठे मास्य् अमले पक्षे द्वादश्याम् उपवासकृत् ॥

[१९४] समभ्यर्च्याच्युतं सम्यङ् मथुरायां समाहितः ।

अश्वमेधस्य यज्ञस्य प्राप्नोत्य् अविकलं फलम् ॥

आलोक्यर्द्धिम् अथान्येषाम् उदितानां स्ववंशजैः ।

एतत् किलोचुर् अन्येषां पितरः सपितामहाः ॥

कश्चिद् अस्मत्कुले जातः कालिन्दीसलिले प्लुतः ।

अर्चयिष्यति गोविन्दं मथुरायाम् उपोषितः ॥

ज्येष्ठमूला सिते पक्षे समभ्यर्च्य जनार्दनम् ।

परां सिद्धिम् अवाप्स्यामस् तारिताः स्वकुलोद्भवैः ॥

धन्यानां कुलजः पिण्डं यमुनायां प्रदास्यति ।

तस्मिन् काले समभ्यर्च्य तत्र कृष्णं समाहितः ॥

इति कल्पतरौ तीर्थकाण्दे मथुरामाहात्म्यम् ।

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे मथुरामाहात्म्यं समाप्तम् ।

[१९५]

१०

अथ उज्जयिनीमाहात्म्यम्

तत्र ब्रह्मपुराणे

दक्षिणस्यां दिशि महत् क्षेत्रम् उज्जयिनीति च ।

तत्र लिङ्गं महाकालं दर्शनात् सर्वपापजित् ॥

तपस्वी परम्ं सिद्धिं यत्र प्राप्नोति कामिकीम् ।

तथा

	रुद्र उवाच ।

अवन्त्यां तु यदा स्कन्दो मया पूर्वं तु भद्रितः ।

चूडाकर्मनिवृत्ते तु कुमारस्य तदा शुभे ॥

आगत्य मातरो भोज्यम् अपूर्वं तूपयाचिरे ।

देवलोकाद् देवगणो मातॄणां भोक्तुम् आगतः ॥

एवम् उक्तस् तदा ताभिर् देवदेवो महेश्वरः ।

धर्मार्थं तास् तदा प्रोक्ताः पार्वत्या देवसन्निधौ ॥

मया वै साधितं चान्नं प्रकारैर् बहुभिः कृतम् ।

तत् सर्वं च व्ययीभूतं न चान्यद् इह दृश्यते ॥

आगतासु भवन्तीषु किं देयं वै मया भवेत् ।

[१९६] अपूर्वं भवतीनां च मया देयं विशेषतः ॥

आस्वादितं न चान्यैस् तु भक्ष्यं ते च ददाम्य् अहम् ।

अधोभागे च यौ नाभेर् वर्तुलौ फलसन्निधौ ॥

भक्षयध्वं हि सहिता लम्बौ मे वृषणाव् उभौ ।

अनेन चाप्य् अभोजेन परा तृप्तिर् भविष्यति ॥

महाप्रसादं ताः कृत्वा देव्यः सर्वाश् च वै शुभे ।

प्रणिपत्य गताः सर्वा इदं वचनम् अब्रुवन् ॥

करिष्यन्ति शुभाचारा विना हास्येन ये च तत् ।

तेषां नूनं पशुः पुत्रा दाराश् चैव गृहादिकम् ॥

भविष्यन्ति मया दत्तं यच् चान्यन् मनसेप्सितम् ।

हास्येन दीर्घरोगित्वं दारिद्र्यं चापि निन्दितम् ॥

तस्मान् न निन्दा हास्ये च कर्तव्यं च विजानता ।

येनाख्या मातरः ख्यातास् ततो लोके भविष्यति ॥

उपयाचितं नरा ये तु कारयिष्यन्ति कौमुदे ।

चणकाः पूरिकाश् चैव वृषणैः सह पूरिकाः ॥

बन्धुभिः स्वजनैश् चैव तेषां वंशो न भिद्यते ।

अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥

रूपवान् सुभगो भोगी सर्वशास्त्रविशारदः ।

हंसयुक्तेन यानेन ब्रह्मलोके महीयते ॥

[१९७] मत्स्यपुराणे

प्रयागे वा भवेन् मोक्षो महाकाले ऽथ वा प्रिये ।

अमरकण्टके तद्वत् तथा कायावरोहणे ॥

कालञ्जरे महाकाले इह वा मत्परिग्रहे ।

यद्वन् मुखे स्थिते नेत्रे तद्वत् तीर्थे इमे भुवः ॥

महाकालो ऽविमुक्तश् च गङ्गया सिप्रयान्वितौ ।

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे उज्जयिनीमाहात्म्यं समाप्तम् ।

[१९८]

११

अथ नर्मदामाहात्म्यम्

तत्र मत्स्यपुराणे

	युधिष्ठिरं प्रति मार्कण्डेय उवाच ।

नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।

तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥

तथा

पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती ।

ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥

त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।

सद्यः पुनाति गाङ्गेयं दर्शनाद् एव नार्मदम् ॥

कालिङ्गदेशपश्चार्धे पर्वते ऽमरकण्टके ।

पुण्या च त्रिषु लोकेषु माननीया मनोरमा ॥

[१९९] तत्र स्नात्वा नरो राजन् नियमस्थो जितेन्द्रियः ।

उपोष्य रजनीम् एकां कुलानां तारयेच् छतम् ॥

जलेश्वरे नरः स्नात्वा पिण्डान् दत्वा यथाविधि ।

पितरस् तस्य तृप्यन्ति यावद् आभूतसम्प्लवम् ॥

पर्वतस्य समन्तात् तु रुद्रकोटिः प्रतिष्ठिता ।

स्नानं यः कुरुते तत्र गन्धमाल्यानुलेपनैः ॥

प्रीता चास्य भवेत् सर्वा रुद्रकोटिर् न संशयः ।

पर्वतस्यापरे भागे स्वयं देवो महेश्वरः ॥

तत्र स्नात्वा शुचिर् भूत्वा ब्रह्मचारी जितेन्द्रियः ।

पितृकार्यं च कुर्वीत विधिदृष्टेन कर्मणा ॥

तिलोदकेन तत्रैव सन्तर्प्य पितृदेवताः ।

आसप्तमं कुलं तस्य स्वर्गे मोदति पाण्डव ॥

षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ।

ततः स्वर्गात् परिभ्रष्टो जायते विपुले कुले ॥

धनवान् दानशीलश् च धार्मिकश् चैव जायते ।

पुनः स्मरति तत् तीर्थं गमनं तत्र वाञ्छति ॥

तारयित्वा कुलान् सप्त रुद्रलोकं स गच्छति ।

योजनानां शतं साग्रं श्रूयते सरिद् उत्तमा ॥

विस्तरेण तु राजेन्द्र योजनद्वयम् आयता ।

षष्टितीर्थसहस्राणि षष्टिकोट्यस् तथैव च ॥

[२००] पर्वते तत्र सुशुभे तिष्ठत्य् अमरकण्टके ।

ब्रह्मचारी शुचिर् भूत्वा जितक्रोधो जितेन्द्रियः ॥

सर्वहिंसानिवृत्तस् तु सर्वभूतहिते रतः ।

एवं शुद्धसमाचारो यस् तु प्राणान् परित्यजेत् ॥

तस्य पुण्यफलं राजन् शृणुष्वावहितो मम ।

शतं वर्षसहस्राणां स्वर्गे मोदति पाण्डव ॥

ततः स्वर्गात् परिभ्रष्टो राजा भवति धार्मिकः ।

गृहं तु लभते शौरेर् नानारत्नविभूषितम् ॥

तस्मिन् गृहे वसित्वा तु क्रीडाभोगसमन्विते ।

जीवेद् वर्षशतं साग्रं सर्वरोगविवर्जितः ॥

एवं भोगान् भजन्ते वै मृता ये ऽमरकण्टके ।

अग्निप्रवेशे ऽथ जले तथा चैव अनाशके ॥

अनिवृत्ता गतिस् तस्य पवनस्याम्बरे यथा ।

पतनं पतते यस् तु अमरेशे नराधिप ॥

कन्यास् त्रीणि सहस्राणि एकैकस्यापि चापरा ।

तिष्ठन्ति भवने तस्य प्रेषणं प्रार्थयन्ति च ॥

दिव्यभोगसुसम्पन्नः कृईडते कालम् अक्षयम् ।

पृथिव्याम् आ समुद्रायाम् ईदृशो नैव जायते ॥

[२०१] यादृशो ऽयं मृतः श्रेष्ठः पर्वते ऽमरकण्टके ।

तावत् तीर्थं तु विज्ञेयं पर्वतस्य तु पश्चिमे ॥

ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ।

तत्र पिण्डप्रदानेन सन्ध्योपासनकर्मणा ॥

पितरो दश वर्षाणि तर्पितास् तु भवन्ति ते ।

दक्षिणे नर्मदाकूले कपिलाख्या महानदी ॥

सरलार्जुनसम्पन्ना नातिदूरे व्यवस्थिता ।

सा तु पुण्या महाभागा त्रिषु लोकेषु विश्रुता ॥

तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ।

पुराणे श्रूयते राजन् शतकोटिगुणं फलम् ॥

तस्मिंस् तीर्थेषु ये वृक्षः पतिताः कालपर्ययात् ।

नर्मदातोयसंस्पृष्टास् ते ऽपि यान्ति परां गतिम् ॥

द्वितीया तु महाभागा विशल्यकरणी शुभा ॥

तत्र तीरे नरः स्नात्वा विशल्यो भवति क्षणात् ।

तत्र देवगणाः सर्वे सकिन्नरमहोरगाः ॥

यक्षराक्षसगन्धर्वा ऋषयश् च तपोधनाः ।

सर्वे समागतास् तत्र पर्वते ऽमरकण्टके ॥

तैश् च सर्वैः समागत्य मुनिभिश् च तपोधनैः ।

नर्मदा संश्रिता पुण्या विशल्या नाम नामतः ॥

उत्पादिता महाभागा सर्वपापप्रणाशिनी ।

तत्र स्नात्वा नरो राजन् ब्रह्मचारी जितेन्द्रियः ॥

[२०२] उपोष्य रजनीम् एकां कुलानां तारयेच् छतम् ।

कपिला च विशल्या च श्रूयते राजत्तम [राजसत्तम?] ॥

ईश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ।

[सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर] ।

तत्र स्नात्वा नरो राजन्न् अश्वमेधफलं लभेत् ॥

अनाशकं तु यः कुर्यात् तस्मिंस् तीर्थे नराधिप ।

सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥

नर्मदायां च राजेन्द्र पुराणे यच् छ्रुतं मया ।

यत्र तत्र नरः स्नात्वा अश्वमेधफलं लभेत् ॥

ये वसन्त्य् उत्तरे कूले रुद्रलोके वसन्ति ते ।

सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर ॥

समं स्नानं च दानं च यथा मे शङ्करो ऽब्रवीत् ।

परित्यजति यः प्राणान् पर्वते ऽमरकण्टके ॥

वर्षकोटिशतं साग्रं रुद्रलोके महीयते ।

नर्मदाया जलं पुण्यं फेनोर्मिसमलङ्कृतम् ॥

पवित्रं शिरसा वन्द्यं सर्वपापैः प्रमुच्यते ।

तथा

नर्मदा तु नदी श्रेष्ठा पुण्या पुण्यतमा हि सा ।

मुनिभिस् तु महाभागैर् विभक्ता धर्मकाङ्क्षिभिः ॥

यज्ञाः पवित्रमन्त्राणि प्रविभक्तानि पाण्डव ।

तेषां स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते ॥

[२०३] तथा

नर्मदा सर्वतः पुण्या ब्रह्महत्यापहारिणी ।

अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥

एवं पुण्या च रम्या च नर्मदा पाण्डुनन्दन ।

त्रयाणाम् अपि लोकानां पुण्या एव महानदी ॥

वटेश्वरे महापुण्ये गङ्गाद्वारे तपोधने ।

एतेषु सर्वस्थानेषु ये द्विजाः संशितव्रताः ॥

श्रुतं दशगुणं पुण्यं नर्मदोदधिसङ्गमे ।

चन्द्रसूर्योपरागेषु गच्छेद् अमरकण्टकम् ॥

अश्वमेधाद् दशगुणं प्रवदन्ति मनीषिणः ।

स्वर्गलोकम् अवाप्नोति दृष्ट्वा तत्र महेश्वरम् ॥

सन्निहत्यां गमिष्यामि राहुग्रस्ते दिवाकरे ।

तद् एव निखिलं पुण्यं पर्वते ऽमरकण्टके ॥

मनसा संस्मरेद् यस् तु गिरिं त्व् अमरकण्टकम् ।

चान्द्रायणं शतं साग्रं लभते नात्र संशयः ॥

त्रयाणाम् अपि लोकानां विख्यातो ऽमरकण्टकः ।

तथा

प्रदक्षिणं तु यः कुर्यात् पर्वते ऽमरकण्टके ।

पुण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ॥

[तत्र ज्वालेश्वरो नाम पर्वते ऽमरकण्टके ।

[२०४] तत्र स्नात्वा दिवं यान्ति ये ऽमृतास् ते ऽपुनर्भवाः] ॥

ज्वालेश्वरे महाराज यस् तु प्राणान् परित्यजेत् ।

चन्द्रसूर्योपरागे तु तस्यापि शृणु यत् फलम् ॥

अमराणां पतिर् एवः पर्वते ऽमरकण्टके ।

रुद्रलोकम् अवाप्नोति यावद् आभूतसम्प्लवम् ॥

अमरेशस्य देवस्य पर्वतस्य उभे तटे ।

तत्र ता ऋषीकोट्यस् तु तपस्यन्ति हि सुव्रताः ॥

समन्ताद् योजनं क्षेत्रं गिरिश् चामरकण्टकः ।

अकामो वा सकामो वा नर्मदायाः शुभे जले ॥

स्नात्वा मुच्येत पापेभ्यो रुद्रलोकं तु गच्छति ।

तथा

कावेरीसङ्गमं तत्र सर्वपापप्रणाशनम् ।

ये नरा नाभिजानन्ति वञ्चितास् ते न संशयः ॥

तस्मात् सर्वप्रयत्नेन तत्र स्नायीत मानवः ।

कावेरी च महापुण्या नर्मदा च महानदी ॥

तत्र स्नात्वा तु राजेन्द्र अर्चयेद् वृषभध्वजम् ।

अश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥

अग्निप्रवेशं यः कुर्याद् यश् च कुर्याद् अनाशनम् ।

अनिवृत्ता गतिस् तस्य यथा मे शङ्करो ऽब्रवीत् ॥

सेव्यमानो नरः स्त्रीभिः क्रीडते दिवि रुद्रवत् ।

[२०५] षष्टिवर्षसहस्राणि षष्टिकोटीस् तथापराः ॥

मोदते रुद्रलोकस्थो यत्र यत्रैव गच्छति ।

पुण्यक्षयात् परिभ्रष्टो राजा भवति धार्मिकः ॥

धनवान् दानशीलश् च महत्य् एव कुले भवेत् ।

तत्र पीत्वा जलं सम्यक् चान्द्रायणफलं लभेत् ॥

स्वर्गं गच्छन्ति ते मर्त्या ये पिबन्ति जलं शुभम् ।

गङ्गायमुनयोः सङ्गे यत् फलं प्राप्नुयान् नरः ॥

कावेरीसङ्गमे स्नातस् तत् फलं तस्य जायते ।

इति [श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते] कृत्यकल्पतरौ

तीर्थकाण्डे नर्मदामाहात्म्यं समाप्तम् ।

[२०६]

१२

**अथ कुब्जाम्रकमाहात्म्यम् **

तत्र **वराहपुराने **।

	वराह उचाच ।

एवं कुब्जाम्रकं ख्यातं तीर्थम् एतद् यशस्विनि ।

ये मृतास् तत्र गच्छन्ति ते मल्लोकाय निष्कलाः ॥

तीर्थं कुब्जाम्रकं पुण्यं मम लोकसुखावहम् ।

तीर्थं कुमुदारकं चैव तस्मिन् कुब्जाम्रके स्थितम् ॥

स्नानमात्रेण सुश्रोणि स्वर्गमार्गप्रदं तु तत् ।

कौमुदस्य तु मासस्य तथा मार्गशिरस्य च ॥

वैशाखस्य च मासस्य कृत्वा वै कर्म दुष्करम् ।

यो वै परित्यजेत् प्राणान् पुमान् स्त्री वा नपुंसकः ॥

निष्कलां लभते सिद्धिं मम लोकाय गच्छति ।

तीर्थं मानस इत्य् एवं यस् तु तत्राभिधीयते ॥

तस्मिन् स्नात्वा विशालाक्षी गच्छते नन्दनं वनम् ।

तत्र यो मुञ्चति प्राणान् कौमुदस्य तु द्वादशीम् ॥

पुष्कलां लभते सिद्धिं मम लोकाय गच्छति ।

[२०७] मायातीर्थम् इति ख्यातं येन मायां विजानते ॥

तस्मिन् कृत्वोदकं ब्रह्मन् मायातीर्थे महायशाः ।

दशवर्षसहस्राणि मद्भक्तो जायते नरः ॥

अथ वा म्रियते तत्र मायातीरे यशस्विनि ।

मायायोगी ततो भूत्वा मम लोकाय गच्छति ॥

तीर्थं सर्वपिकं नाम सर्वकर्मगुणान्वितम् ।

यस् तत्र स्नाति वै कश्चिद् वैशाखस्य तु द्वादशीम् ॥

निष्कलं लभते स्वर्गं सहस्रान् दश पञ्च च ।

तीर्थं पूर्वामुखं नाम तत्र केचिन् न जायते ॥

सर्वदा तत्र गङ्गायाः शीतलं जायते जलम् ।

यत्र चोष्णं भवत्य् अम्बु ज्ञेयं पूर्णमुखं च तत् ॥

स्नात्वा गच्छति सुश्रोणि मम लोकं महायशाः ।

पुनर् अन्यत् प्रवक्ष्यामि शृणु तत्त्वेन माधवि ॥

अश्ōकं नाम तत्रैव स्नात्वा शोकं न पश्यति ।

सर्वसङ्गैश् च निर्मुक्तो मम लोकाय गच्छति ॥

तीर्थं च करवीराख्यं मम लोकसुखावहम् ।

तस्य चिह्नं प्रवक्ष्यामि येन विज्ञायते भुवि ॥

पुरुषैर् ज्ञानवद्भिश् च मम भक्तिविनिश्चितैः ।

माघमासस्य सुश्रोणि शुक्लपक्षस्य द्वादशीम् ॥

पुष्यते करवीरं तु मध्याह्ने तु न संशयः ।

तत्राथ म्रियते भूमि माघमासे तु द्वादशीम् ॥

[२०८] ब्रह्माणं मां च पश्येत तथैव वृषभध्वजम् ।

पुण्डरीकम् इति ख्यातं तीर्थं तत्र महद् यशः ॥

स्नात्वा प्राप्नोति सुश्रोणि फलं तत्र महागुणम् ।

पुण्दरीकस्य यज्ञस्य यजमानस्य यत् फलम् ॥

अथ वा म्रियते तत्र नष्टत्रासो महातपाः ।

दशानां पुण्डरीकाणां फलं प्राप्नोति मानवः ॥

सिद्धिं च लभते धन्यां मम लोकाय गच्छति ।

अग्नितीर्थे तु वै स्नातस् तस्मिन् कुब्जाम्रके स्थितः ॥

सप्तधाग्निप्रवेशेन यत् फलं लभते नरः ।

प्राप्नोति तन् महाभागे स्नातमात्रो न संशयः ॥

अथ वा म्रियते तत्र शुक्लाम् एकां च द्वादशीम् ।

विंशद्रात्रोषितस् तत्र मम लोकाय गच्छति ॥

एषा ते कथिता भूमि व्युष्टिः कुब्जाम्रकस्य च ।

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे कुब्जाम्रकमाहात्म्यं समाप्तम् ।

[२०९]

१३

अथ सूकरमाहात्म्यम्

तत्र वराहपुराणे

	वराह उवाच ।

परं कोकामुखं स्थानं स्थानं कुब्जाम्रकं परम् ।

परं च सौकरं स्थानं सर्वसंसारमोक्षणम् ॥

यत्र संस्था मया देवि उद्धृतासि रसातलात् ।

तत्र भागीरथी गङ्गा मम शौचर्थम् आगता ॥

शृणु पुण्यं महाभागे मम क्षेत्रे तु सुन्दरि ।

यद् आप्नोति महाभागे गत्वा च सौकरं प्रति ॥

दश पूर्वान् स्वकान् संश्यान् परान् सप्त च पञ्च च ।

स्वर्गं नयति तांस् तत्र मातृतः पितृतश् च ह ॥

गमनाद् एव सुश्रोणि तथैव मुखदर्शनात् ।

सप्तजन्मान्तरं भद्रे जायते विपुले कुले ॥

एवं वै मानुषो भूत्वा अपराधविवर्जितः ।

गमनं तस्य क्षेत्रस्य मरणं तत्र कारयेत् ॥

ये मृतास् तत्र सुश्रोणि क्षेत्रे सूकरके मम ।

तारिताः सर्वसंसाराच् छ्वेतद्वीपाय यान्ति ते ॥

[२१०] चक्रतीर्थं महाभागे चक्रं यत्र प्रतिष्ठितम् ।

तत्र गत्वा महाभागे तदन्वायशुभः शुचिः ॥

स्नानं कुर्याद् यथान्यायं माधवे मासि द्वादशीम् ।

दशवर्षसहस्राणि दशवर्षशतानि च ॥

धनधान्यसमृद्धस् तु जायते विपुले कुले ।

तारितः सर्वसंसाराच् छ्वेतद्वीपाय गच्छति ॥

धन्वी तूणी शरी खड्गी जायते च चतुर्भुजः ।

नरो भूत्वा महाभागे स मुक्तः सर्वकिल्बिषात् ॥

अन्तकाले महाभागे यो गच्छेच् छौकरं प्रति ।

तस्य पुण्यं प्रवक्ष्यामि स्नातस्यापि यशस्विनि ॥

पातकान्य् अपि यः कृत्वा मूर्खो भूत्वा दृढव्रतः ।

कौमुदस्य तु मासस्य शुक्लपक्षे तु द्वादशीम् ॥

तारिताः पितरस् तेन तथैव च पितामहाः ।

यावन्ति जलबिन्दूनि तस्य गात्रेषु सुन्दरि ॥

तावद् वर्षसहस्राणि मद्भक्तश् चैव जायते ।

मृतास् तत्र विशालाक्षि रूपतीर्थे महौजसि ॥

दीप्तिमन्तश् च जायेरन् द्युतिमन्तश् चतुर्भुजाः ।

पुनर् अन्यत् प्रवक्ष्यामि तत्र सौकरके मम ॥

योगितीर्थम् इति ख्यातं दुर्विज्ञेयम् ऋषेर् अपि ।

योगितीर्थे च ये स्नात्वा मम कर्मपरायणाः ॥

क्रोधरागविनिर्मुक्तास् ते यान्ति कृतनिश्चयाः ।

अहोरात्रोषितस् तत्र यः करोति यशस्विनि ॥

[२११] तीर्थे स्नानं विनिर्मुक्तो मम कर्मपरायणः ।

[स तं मृगयते तीर्थं योगायतनसंस्थितः ॥

स च तं लभते तीर्थं मत्प्रसादान् न संशयः ।

तत्र प्राणान् परित्यज्य मम कर्मपरायणः] ॥

सर्वायुधसमायुक्तो दीप्तिमांश् च चतुर्भुजः ।

योगिश्रेष्ठतमो भूत्वा श्वेतद्वीपं स गच्छति ॥

एतत् ते कथितं भद्रे योगितीर्थं महाफलम् ।

अस्य चिह्नं प्रवक्ष्यामि योगितीर्थस्य सुन्दरि ॥

मार्गशीर्षस्य मासस्य शुक्लपक्षे तु द्वादशीम् ।

अकस्माद् अन्धकारो ऽत्र तस्मिंस् तीर्थे तु जायते ॥

त्रीणि हस्तसहस्राणि त्रीणि हस्तशतानि च ।

त्रयो हस्ता विशालाक्षि परिमाणं विधीयते ॥

एतच् छ्नं ततो दृष्ट्वा मरणं यो ऽत्र कारयेत् ।

स्नानं चैव विशालाक्षि पूर्वोक्तां गच्छते गतिम् ॥

एतच् चिह्नं महाभागे योगितीर्थे मयि स्थिते ।

आश्रयेत् सिद्धिकामस् तु यदीच्छेत् परमां गतिम् ॥

पुनर् अन्त्यत् प्रवक्ष्यामि तीर्थे सौकरके मम ।

यत्र तप्तं तपश् चैव सोमेन तदनन्तरम् ॥

सोमेन रचिता भूमिर् दृश्यते चन्द्रमःप्रभा ।

आत्मनः पश्यति छायां यथा न्यायपथे स्थितः ॥

[२१२] सोमश् चैव न दृश्येत एष वै विस्मयः परः ।

एतत् ते कथितं भद्रे सोमतीर्थविनिश्चितम् ॥

भवन्ति मनुजा येन त्यक्त्वा संसारसागरम् ।

तस्य पूर्वेण पार्श्वेन तीर्थं गृध्रवटं स्मृतम् ॥

यत्र कामो मृतो गृध्रो मानुषत्वम् उपागतः ।

स्नानं साकोटके तीर्थे यः प्राप्नोति च माधवि ।

दशवर्षसहस्राणि दशवर्षशतानि च ॥

नन्दनं वनम् आश्रित्य मोदते तत्र वै सदा ।

पुनर् अन्यत् प्रवक्ष्यामि तच् छृणुष्व वसुन्दरे ॥

तीर्थं वैवस्वतं नाम आदित्यो यत्र तप्यते ।

तेन तप्तं महाभागे पुत्रार्थेन यशस्विनि ॥

अष्टमेन तु भक्तेन यस् तु स्नायीत सुन्दरि ।

दशवर्षसहस्राणि आदित्येन स मोदते ॥

अथ वा म्रियते तत्र तीर्थे वैवस्वते शुभे ।

न स गच्छति सुश्रोणि यमस्य भवनं क्वचित् ॥

मरणं च प्रवक्ष्यामि तत्र सौकरके भुवि ।

कृत्वा ह्य् अनशनं चैव दिनानि दश पञ च ॥

सर्वसङ्गान् परित्यज्य मम लोकाय गच्छति ।

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे सूकरमाहात्म्यं समाप्तम् ।

[२१३]

१४

अथ कोकामिखमाहात्म्यम्

तत्र **वराहपुराणे **।

	वराह उवाच ।

नास्ति कोकामुखात् क्षेत्रं नास्ति कोकामुखाच् छुभम् ।

नास्ति कोकामुखात् स्नानं नाश्ति कोकामुखात् प्रियम् ॥

शुचिः कोकामुखं गत्वा परं योगम् अवाप्नुयात् ।

कर्माणि रक्तः कुर्याच् च दिष्टं भवति चात्मनः ॥

यानि यानि च क्षेत्राणि त्वया पृष्ठे वसुन्दरे ।

कोकामुखसमं तीर्थं न भूतं न भविष्यति ॥

मम सा परमा मूर्तिर् न तां जानन्ति मोहिताः ।

स्थितां कोकामुखे भूमि एतत् ते कथितं मया ॥

तथा

पञ्चयोजनविस्तारे क्षेत्रे कोकामुखे मम ।

यस् तीर्थानि विजानाति न स पापेन् लिप्यते ॥

तत्र कोकामुखे तीर्थे स्थितो ऽहं दक्षिणामुखः ।

वराहरूपी भगवांस् तिष्ठाम् इपुरुषाकृतिः ॥

[२१४] वमोन्नतमुखं कृत्वा पञ्चदंष्ट्रासमन्वितम् ।

पश्यामि च जगत् सर्वं ये च भक्ता मम प्रियाः ॥

यदि कोकामुखं गच्छेत् कदाचित् कालपर्ययात् ।

न ततः स निवर्तेत यदीच्छेद् गतिम् उत्तमाम् ॥

न साङ्ख्येन न योगेन सिद्धो याति महत् पदम् ।

यदि कोकामुखं यस् तु तवैतत् कथितं मया ॥

तत्र महाभारते

कोकामुखम् उपस्पृश्य ब्रह्मचारी यतव्रतः ।

जातिस्मरत्वं प्राप्नोति दिष्टम् एतत् पुरातने ॥

“दिष्टं” कथितम्, “पुरातने” पुराणे ।

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीलक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे कोकामुखमाहात्म्यं समाप्तम् ।

[२१५]

१५

अथ बदिरकाश्रममाहात्म्यम्

तत्र वराहपुराणे

	वराह उवाच ।

तस्मिन् हिमवतः पृष्ठे स्थानं गुह्यं परं मम ।

तत्राहम् अग्निना भूमि तपसा परितोषितः ॥

अग्निना सदृशो भूत्वा कर्म कृत्वा सुदुष्करम् ।

प्राप्नुवन्ति च मद्भक्ता बदर्याश्रमम् उत्तमम् ॥

सुदुर्लभं च तत् क्षेत्रं हिमकूटशिलातलम् ।

यस् तु तत् प्राप्नुते क्षेत्रं कृतकृत्यो भवेन् नरः ॥

ब्रह्मकुण्डेति विख्यातम् अस्ति तत्र शिलोच्चये ।

स्नानं करोति यस् तत्र त्रिरात्रोपोषितो नरः ॥

अग्निष्टोमशतात् तुल्यं फलं प्राप्नोति मानवः ।

उषित्वा तत्र कृच्छ्राणि यदि प्राणान् परित्यजेत् ॥

ब्रह्मलोकम् अतिक्रम्य मम लोकं स गच्छति ।

अग्निकुण्डेति विख्यातं तत्र कुण्डे परं मम ॥

[२१६] यदि तत्र कृतप्राणः कृतचान्द्रायणव्रतः ।

अग्निलोकम् अतिक्रम्य मम लोकं स गच्छति ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे बदरिकाश्रममाहात्म्यं समाप्तम् ।

१६

अथ मन्दारमाहात्म्यम्

तत्र वराहपुराणे

	वराह उवाच ।

पुनर् अन्यत् प्रवक्ष्यामि एकान्ते शृणु सुन्दरि ।

स्थानं मे परमं गुह्यं कर्मिणां तु सुखावहम् ॥

जाह्नव्या दक्षिणे कूले विन्ध्यापृष्ठसमाश्रिते ।

मन्दारेति च विख्यातं सर्वभागवतप्रियम् ॥

तत्र त्रेतायुगे भूमि कामो नाम महाद्युतिः ।

भविष्यति न सन्देहः स मे ऽर्चां स्थापयिष्यति ॥

क्रीडमानो ऽस्म्य् अहं तत्र दृष्ट्वा मन्दारपुष्पितम् ।

कुण्डान्य् एकादशान्यत्र विद्धि मे सन्ति सुन्दरि ॥

मम चैव प्रभावेन मन्दारश् च महाद्रुमः ।

द्वादश्यां च चतुर्दश्यां स पुष्यति द्रुमोत्तमः ॥

तीर्थे मन्दारकुण्डे तु एकभक्तोषितो नरः ।

स्नानं करोति शुद्धात्मा स गच्छेत् परमां गतिम् ॥

अत्र प्राणान् प्रमुञ्चेत कुण्डे मन्दारसञ्ज्ञिते ।

तपः कृत्वा महाभागो मम लोकं स गच्छति ॥

**[२१८] तथा **।

मन्दारं परमं गुह्यं तस्मिन् गुह्ये शिलोच्चये ।

दक्षिणार्धे स्थितं चक्रं वामभागे च वै गदा ॥

लाङ्गलं मुसलं चैव शङ्खं तिष्ठति चाग्रतः ।

एतन् न जानते केचिन् मम मायाप्रमोहिताः ॥

मुक्ता भागवताः सर्वान् श्वेतवाराहसाञ्ज्ञितान् ।

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे मन्दारमाहात्म्यं समाप्तम् ।

[२१९]

१७

अथ शालग्राममाहात्म्यम्

तत्र वराहपुराणे

	वराह उवाच ।

अस्ति स्थानं परं गुह्यं तस्मिन् गुह्ये शिलोच्चये ।

गण्डक्याश् चोत्तरे पार्श्वे गिरिताजस्य दक्षिणे ॥

शालग्राम इति ख्यातं मम भक्तसुखावहम् ।

ममैतद् रोचते स्थानं गिरिकूटे शिलोच्चये ॥

शालग्राम इति ख्यातं भक्तसंसारमोक्षणम् ।

पञ्चादशात्र गुह्यानि शालग्रामे यशस्विनि ॥

अद्यापि तन् न जानन्ति मुक्ता वाराहसाञ्ज्ञितान् ।

तथा

तत्र देवह्रदं नाम मम क्षेत्रं यशस्विनि ।

तत्र क्रान्ता मया भूमि बलियज्ञविनाशने ॥

स ह्रदो वरदश् श्रेष्ठो मनोज्ञः शुभशीतलः ।

अगाधश् च सदा भूमि देवानाम् अपि दुर्लभः ॥

तस्मिन् ह्रदे महाभागे सदा मम कृतोदके ।

[२२०] चक्राङ्काः परितो मत्स्याः पर्यटन्ति इतस् ततः ॥

तस्मिन् देवह्रदे भूमि चतुर्विंशतिद्वादशीम् ।

सौवर्णानि च पद्मानि दृश्यन्ते उदिते रवौ ॥

दृश्यन्ते तावद् एतानि यावन् मध्यन्दिने स्थितः ।

तत्र स्नानं प्रकुर्वीत दशभक्तोषितो नरः ॥

दशानाम् अश्वमेधानां फलं प्राप्नोति मानवः ।

अथात्र मुञ्चति प्राणान् मम चित्तव्यवस्थितः ॥

अश्वमेधफलं भुक्त्वा मम लोकाय गच्छति ।

पूर्वामुखस् त्व् अहं तत्र शालग्रामे यशस्विनि ॥

भविष्यामि न सन्देहो भूमि भागवतप्रियः ।

अन्यच् च ते प्रवक्ष्यामितच् छृणुष्व वसुन्दरे ॥

यत्र गुह्यं परं क्षेत्रं न जानन्ति विमोहिताः ।

शिवो मे दक्षिणे स्थाने तिष्ठते विगतज्वरः ॥

लोकानां प्रवरः श्रेष्ठः सर्वलोकधरो हरः ।

तद् अवन्द्य तु गोविन्दं वन्दमानस्य सुन्दरि ॥

वृथा गमनम् इत्य् आहुर् एवम् एतन् न संशयः ।

शिवं देवं तु वन्दित्वा भूमि मां यश् च वन्दते ॥

लभते पुष्कलां सिद्धिं या मया च प्रकीर्तिता ।

समस् तं च मम क्षेत्रं दशयोजनविस्तरम् ॥

मृता अत्र नरा यान्ति मां सत्कर्मानुसारिणः ।

[२२१] महाभारते

सदा सन्निहितो यत्र हरिर् वसति भारत ।

शालग्राम इति ख्यातो विष्णोर् अद्भुतकर्मणः ॥

अभिगम्य त्रिलोकेशं वरदं विष्णुम् अव्ययम् ।

अश्वमेधम् अवाप्नोति विष्णुलोकं स गच्छति ॥

तिलोपदानं धर्मज्ञ सर्वपापप्रमोचनम् ।

समुद्रास् तत्र चत्वारः कूपे सन्निहिताः सदा ॥

तत्रोपस्पृश्य राजेन्द्र न दुर्गतिम् अवाप्नुयात् ।

अभिगम्य त्रिलोकेशं वरदं विष्णुम् अव्ययम् ॥

विराजति यथा सोमो मेघैर् मुक्तो युधिष्ठिर ।

जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः ॥

जातिस्मरत्वम् आप्नोति स्नात्वा तत्र न संशयः ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे शालग्राममाहात्म्यं समाप्तम् ।

[२२२]

१८

अथ स्तुतस्वामिमाहात्म्यम्

तत्र वराहपुराणे ।

	वराह उवाच ।

स्तुतस्वामीति विख्यातं मम क्षेत्रं भविष्यति ।

द्वापरं युगम् आसाद्य तत्र स्थास्यामि सुन्दरि ॥

पुत्रो ऽहं वसुदेवस्य देवक्या गर्भनिःसृतः ।

वासुदेव इति ख्यातः सर्वदानवसूदनः ॥

कौमुदस्य तु मासस्य शुक्लपक्षे तु द्वादशीम् ।

त्रयाणां वाजपेयानां यज्ञानां स्नानमात्रतः ॥

फलं प्राप्नोति सुश्रोणि धृतम् आत्मनि मां नरः ।

अथात्र मुञ्चति प्राणान् मम कर्मानुसारतः ॥

वाजपेयफलं भुक्त्वा मम लोकं प्रपद्यते ।

आयसी प्रतिमा तत्र ममाभेद्या न संशयः ॥

ब्रुवन्ति केचिइत् काष्ठेति आयसीत्य् अपरे ऽब्रुवन् ।

पाषाणीति परे ब्रूयुः परे वज्रमयीति च ॥

ऊर्ध्वा वा यदि वाधस्ताद् भवन्ति मम पार्श्वतः ।

तेषां तथेति स्पृशन्ति शिरोमध्ये तु न क्वचित् ॥

ये च पश्यन्ति मां भूमि मणिपूरगिरौ स्थितम् ।

[२२३] त्रिसन्ध्यम् आवसन्तस् तु मत्प्रसादाच् च सुन्दरि ॥

ते सर्वे किल्बिषान् मुक्ता यान्ति ते परमां गतिम् ।

तथा

सुगुह्यं पूर्वपार्श्वे तु मम क्षेत्रस्य सुन्दरि ।

अदूरात् त्रीणि क्रोशानि परिमाणं विधीयते ॥

धूतपापेति विख्यातं तत्र गुह्यं परं मम ।

अदूरात् पञ्च क्रोशानि मम क्षेत्रस्य पश्चिमे ॥

तत्र कुण्डे महाभागे मम यद् रोचते जलम् ।

तत्र स्नानं प्रकुर्वीत पञ्चरात्रोषितो नरः ॥

यद् वंशे दुष्कृतं किञ्चिद् यच् च आत्मनि संस्थितम् ।

तत्र कृत्वोदकं भद्रे धूतपापे यशस्विनि ॥

महेन्द्रेणैव मोदेत इन्द्रलोके न संशयः ।

अथात्र मुञ्चति प्राणान् धूपपापे यशस्विनि ॥

इन्द्रलोकं समुत्सृज्य मम लोकं स गच्छति ।

तत्राश्चर्यं महाभागे धूतपापे शृणुष्व मे ॥

वर्तते च विशालाक्षि मनिपूरगिरौ स्थितम् ।

तावन् न पतते धारा यावत् पायं न धूयते ॥

धूतपापे च सुश्रोणि धारात्र पतते महीम् ।

तत् तु क्षेत्रं वरारोहे समन्तात् पञ्चयोजनम् ॥

तत्र तिष्ठाम्य् अहं देवि पश्चिमां दिशम् आस्थितः ।

[२२४] तत्र चामलका भद्रे अदूराद् अर्धयोननात् ॥

तान् न कश्चिद् विजानाति पापकर्मा नराधमः ।

उपोष्य च त्रिरात्राणि श्रद्दधानो जितेन्द्रियः ॥

तत्र गत्वा वरारोहे उदिते तु दिवाकरे ।

अथ मध्याह्नवेलायां यदि वास्तं गते रवौ ॥

एकचित्तेन गन्तव्यं धृतिं कृत्वा सुनिश्चलाम् ॥

यस् तत्र लभते भद्रे फलम् आमलं शुभम् ।

पञ्चरात्रेण पश्येत् तु तस्मिन् भूतगिरौ स माम् ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे स्तुतस्वामिमाहात्म्यं समाप्तम् ।

[२२५]

१९

अथ द्वारकामाहात्म्यम्

तत्र वराहपुराणे

	वराह उवाच ।

अस्ति द्वारवती नाम निर्मिता विश्वकर्मणा ।

सुधर्मा नाम च सभा वायुर् आनीतवाम् मम ॥

पञ्चयोजनविस्तीर्णं दशयोजनम् आयता ।

वसाम्य् अत्र वरारोहे पञ्चपञ्चाशतं समाः ॥

भारावतरणं कृत्वा देवानां च महत् प्रियम् ।

पुनर् एष्यामि सुश्रोणि घातयित्वा महासुरान् ॥

मूर्तिम् आत्मनि मे भूमि तस्मिन् कथ्यमानानि मे शृणु ।

अस्ति पञ्चशरो नाम तस्मिन् गुह्यं परं मम ॥

समुद्रतीरम् उत्सृज्य यत्र भक्तमुखावहम् ।

तत्र स्नानं तु कुर्वीत षष्ठनक्तोषितो नरः ॥

मोदते नाकपृष्ठे तु अप्सरोगणसङ्कुले ।

अथ वा मुञ्चति प्राणान् माम् एव प्रतिपद्यते ॥

प्लक्षा वै तत्र सुश्रोणि शतशाखो महाद्रुमः ।

[२२६] चतुर्विंशतिद्वादश्यां स भवेत् फलभाग् असौ ॥

फलं न लभते कश्चिन् मुक्ता भागवतं शुचिम् ।

लभन्ते ये फलं तत्र गुह्ये पञ्चशरस्य च ॥

ते लभन्ते परां सिद्धिम् एवम् एतन् न संशयः ।

प्रभासम् इति विख्यातं तस्मिन् गुह्यं परं मम ॥

तत्राभिषेकं कुर्वीत पञ्चरात्रोषितो नरः ।

मोदते सप्तद्वीपेषु गुह्यानि च स गच्छति ॥

अथ वा मुञ्चति प्राणान् प्रभासे गतकिल्बिषः ।

सर्वलोकान् परित्यज्य मल्लोकं प्राप्नुते नरः ॥

पञ्चकुण्डम् इति ख्यातं तस्मिन् गुह्यं परं मम ।

तत्राभिषेकं कुर्वीत पञ्चरात्रोषितो नरः ॥

चतुर्विंशतिद्वादश्यां मध्याह्ने च दिवाकरे ।

रौप्यसौवर्णकं पद्मं दृश्यते नात्र संशयः ॥

तथा

कादेवकम् इति ख्यातं कुण्डं क्षेत्रे परं मम ।

अत्र पीत्वा महाभागे वृष्णयोपर्यम् अक्षयम् ॥

तत्राभिषेकं कुर्वीत चतुःकालसमन्वितः ।

तथा

सङ्गमं नगरं नाम तस्मिन् क्षेत्रे परं मम ।

मम चोत्तरपार्श्वे तु अदूरात् सप्तयोजनम् ॥

[२२७] तत् सरो मम पार्श्वे तु देवानाम् अपि दुर्लभम् ।

अस्ति रैवतकं नाम तस्मिन् क्षेत्रे परं मम ॥

सर्वलोकेषु विख्यातं चन्द्रमाः क्रीडते यतः ।

बहूदकशिलापङ्का गुहाश् चात्र दिशो दश ॥

वापी च शोभना चैव देवानाम् अपि दुर्लभा ।

तत्राभिषेकं कुर्वीत षष्ठकालोषितो नरः ॥

गच्छते सोमलोकाय कृतकृत्यो भवेन् नरः ।

अथात्र मुञ्चति प्राणान् मम लोकं प्रपद्यते ॥

विष्णुचङ्क्रमणं नाम तस्मिन् क्षेत्रे परं मम ।

विद्धो ऽस्मि तत्र व्याधेन प्राप्तो मूर्तिं स्वकां पुनः ॥

तत्र कुण्डं महाभागे मणिपूरगिरौ स्थितम् ।

तत्राभिषेकं कुर्वीत नित्यकालम् अतन्द्रितः ॥

तथा

तस्मिन् क्षेत्रे महाभागे स्थितो ऽहम् उत्तरामुखः ।

सर्वभागवतप्रीत्यै समुद्रतटम् आश्रितः ॥

अहं रामेण सहितः सा च राका स्वसा शुभा ।

त्रयस् तत्रैव तिष्ठामो द्वारकायां यशस्विनि ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे द्वारकामाहात्म्यं समाप्तम् ।

[२२८]

२०

अथ लोहार्गलमाहात्म्यम्

तत्र वराहपुराणे

	वराह उवाच ।

गुह्यम् अन्यत् प्रवक्ष्यामि कारणं सततं शुभे ।

अहं सिन्धोस् तटे भद्रे गत्वा वै त्रिंशयोजनम् ॥

म्लेच्छमध्ये वरारोहे हिमवन्तं समाश्रितः ।

तत्र लोहार्गलं नाम निवासो मे विधीयते ॥

गुह्यं च परमं स्थानं समन्तात् पञ्चयोजनम् ।

दुर्गमं दुःसहं चैव धावनैः परिवेष्टितम् ॥

तत्र तिष्ठाम्य् अहं भद्रे उदीचीं दिशम् आस्थितः ।

केचिन् न जानते तत्र स्वमूर्तिं मम संस्थिताम् ॥

ये तु यान्ति वरारोहे स्वकर्मपरिनिष्ठिताः ।

ते मां वैवात्र पश्यन्ति गुह्यानि च यथा तथा ॥

तत्र कुण्डे तु सुश्रोणि स्नानं कुर्वीत निश्चितम् ।

उपोष्य तु त्रिरात्राणि विधिदृष्टेन कर्मणा ॥

तत्र स्वर्गसहस्रेषु मोदते नात्र संशयः ।

अन्यच् च ते प्रवक्ष्यामि तत्र यत् परमाद्भुतम् ॥

[२२९] चतुर्विंशतिद्वादश्यां न मांसेन विना मम ।

बलिर् हि दीयते तत्र सर्वकामविशोधनः ॥

अश्वो मे कल्पितस् तत्र सर्वरत्नविभूषितः ।

श्वेतः कुउदचकाभः शङ्खचक्रसमन्वितः ॥

शार्ङ्गम् एतद् धनुस् तत्र अक्षसूत्रं कमण्डलुः ।

आसनं भूषणं दिव्यं दीयते चान्नम् उत्तमम् ॥

अस्मिन् गुह्ये महाभागे क्षेत्रे लोहार्गले मम ।

सिद्धिकामेन मर्त्येन गन्तव्यं नात्र संशयः ॥

समन्तात् पञ्चविशं तु योजनानि वरानने ।

न तस्य कर्म विद्येत एष मे निश्चयः परः ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे लोहार्गलमाहात्म्यं समाप्तम् ।

[२३०]

२१

अथ केदारमाहात्म्यम्

तत्र देवीपुराणे

ईशानशिखरं नाम हिमकुन्देन्दुसन्निभम् ।

तत्र देवः स्वयं साक्षात् तिष्ठते परमेश्वरः ॥

ईशानो लोकविख्यातस् त्रैलोक्यविदितः स वै ।

तत्र रेतोदकं शक्र पूर्वं देवेन निर्मितम् ॥

गोपितं पिहितं तच् च न विज्ञानं सुरासुरैः ।

तथा

संसारतारणं चान्यपापजालनिकृन्तनम् ।

केदारम् उदकं पीत्वा पुनर्जन्म न विद्यते ।

न योनिषु नियुञ्ज्येत स गच्छेच् छाश्वतं पदम् ॥

तथा

कृतं प्रकाश्यं तत् कुण्डे यद् आसीद् गोपितं मम ।

मनुष्याणां हितार्थाय मज्जतां च भवार्णवे ॥

दर्शितं ज्ञानम् उदकं पीत्वा न जन्मसम्भवः ।

[२३१] न पातुं लभते ब्रह्मा न विष्णुर् न पुरन्दरः ॥

पिबन्ति मानुषाः सर्वे यस्य वै तुष्यते शिवः ।

न केदारात् परो मोक्ष एवं साक्षाच् छिवो ऽब्रवीत् ॥

पृथिव्यां याति तीर्थानि आ समुद्रात् सरांसि च ।

ज्ञानरेतोदकस्यैते कलां नार्हन्ति षोडशीम् ॥

अश्वमेधसहस्रं च योजयेत् पृथिवीपतिः ।

ज्ञानरेतोदकस्यैतत् सहस्रांशेन पूर्यते ॥

अग्निष्टोमसहस्रं तु पौण्डरीकशतं तथा ।

यो जयेद् धव्यसम्पन्नो ब्राह्मणः क्षत्रियस् तथा ॥

केदारस्य तु तत् सर्वं सहस्रांशं न पूरयेत् ।

कामपस् स्त्रीसहस्राणि पिब खाद च मोद च ॥

केदारम् उदकं पीत्वा सर्वं तरति दुष्कृतम् ॥

तथा

ज्ञानं दीक्षाथ वा शक्र धारणं भस्मनस् तथा ।

रेतोदकस्य तत् सर्वं कलां नार्हति षोडशीम् ॥

तथा

यथा पिबन्ति तत् तोयं विधिं तस्य वदाम्य् अहम् ।

गत्वा मन्दाकिनीं पुण्यां तत्र स्नात्वा स मानवः ॥

देवानाम् उदकं दत्वा पिण्डं पितृषु दापयेत् ।

नमस्कृत्वा तथेशानं भावयुक्तेन चेतसा ॥

गत्वा कुण्डसमीपे तु विधिवद् धिमवत् स्थितः ।

नत्वा देवं सिवं तत्र उमां चापि महेश्वरीम् ॥

नन्दीं गणपतिं चैव सर्वांस् तांश् च गणेश्वरान् ।

[२३२] शिवो ऽहम् इति सञ्चिन्त्य पिबेद् वामेन पाणिना ॥

त्रिः पीत्वा वामहस्तेन दक्षिणेन पुनः पिबेत् ।

त्रीन् वारांस् तेन पीत्वा च भूयश् चाञ्जलिना पिबेत् ॥

तेन पीत्वा तु वारांस् त्रीन् पिबेत् तु बलिवर्दवत् ।

भूमिम् आक्रम्य जानुभ्यां तथा हस्तद्वयेन तु ॥

शिरः प्रसार्य वक्रेण त्रिः पिबेत् पुनर् एव तु ।

उत्थाय नर्देत् त्रीन् वारान् स्फोटेत् त्रींस् तथापरान् ॥

नमस्कृत्य तथेशानं कृताञ्जलिपुटः स्थितः ।

कृतार्थः कृतपुण्यो ऽसौ शिवसायुज्यम् आगतः ॥

विधिना पीतम् उदकं कुलानां तारयेच् छतम् ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे केदारमाहात्म्यं समाप्तम् ।

[२३३]

२२

अथ नैमिशमाहात्म्यम्

तत्र माहाभारते

ततस् तु नैमिशं गच्छेत् पुण्यं सिद्धनिषेवितम् ।

तत्र नित्यं निवसति ब्रह्मा देवगणैर् वृतः ॥

नैमिशं प्रार्थयानस्य पापस्यार्धं प्रणश्यति ।

प्रविष्टमात्रस् तु नरः सर्वपापैः प्रमुच्यते ॥

तत्र मासं वसेद् धीरो नैमिशे तीर्थतत्परः ।

पृथिव्यां यानि तीर्थानि नैमिशे तानि भारत ॥

अभिषेकान् नरस् तत्र नियतो नियताशनः ।

गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥

पुनात्य् आसप्तमं चैव कुलं भरतसत्तम ।

यस् त्यजेन् नैमिशे प्राणान् उपवासपरायणः ॥

स मोदते स्वर्गलोके एवम् आहुर् मनीषिणः ।

नित्यं मेध्यं च पुण्यं च नैमिशं नृपसत्तम ॥

गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः ।

वाजपेयम् अवाप्नोति ब्रह्मभूतश् च जायते ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे नैमिषमाहात्म्यं समाप्तम् ।

[२३४]

२३

अथ नानातीर्थमाहात्म्यम्

वामनपुराणे

तस्मिंस् तीर्थवरे स्नात्वा दृष्ट्वा देवं त्रिलोचनम् ।

पूजयित्वा सुवर्णाख्यं नैमिशं प्रयतौ ततः ॥

तत्र तीर्थसहस्राणि त्रिंशत् पापहराणि च ।

गोमत्यां काञ्चनस्थांश् च सुनन्दामध्यवासिनः ॥

तेषु स्नात्वार्च्य देवेशं पीतवाससमच्युतम् ।

देवदेवं तथेशानं सम्पूज्य विधिना ततः ॥

गयायां गोपतिं द्रष्टुं जगाम स महासुरः ।

सरसि ब्रह्मणः स्नात्वा कृत्वा चास्य प्रदक्षिणम् ॥

पिण्डं निर्वपणं पुण्यं पितॄणां स चकार ह ।

उदपाने तथा स्नात्वा सरयूं च जगाम सः ॥

तस्यां स्नात्वा समभ्यर्च्य गोप्रतारे जलेशयम् ।

महाभारते

गोप्रतारं ततो गच्छेत् सरय्वास् तीर्थम् उत्तमम् ।

[२३५] यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः ॥

देहं त्यक्त्वा दिवं यातस् तस्य तीर्थस्य तेजसा ।

रामस्य च प्रसादेन व्यवसायाच् च भारत ॥

तस्मिंस् तीर्थे नरः स्नात्वा गोप्रतारे नराधिप ।

सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥

वामनपुराणे

	गोप्रतारम् अभिधाय ।

उपोष्य रजनीम् एकां विरजां स नदीं ययौ ।

स्नात्वा विरजसे तीर्थे दत्वा पिण्डं पितुस् तथा ॥

दर्शनार्थं ययौ श्रीमान् अजितं पुरुषोत्तमम् ।

तं दृष्ट्वा पुण्डरीकाक्षम् अक्षरं परमं शुचिः ॥

उपोष्य षड्दिनान्य् एष महेन्द्रं दक्षिणां ययौ ।

तत्र देववरं शम्भुम् अर्धनारीश्वरं हरम् ॥

दृष्ट्वा सम्पूज्य च पितॄन् महेन्द्रस्योत्तरं गतः ।

तत्र देववरं शम्भुं गोपालं सोमशीतलम् ॥

दृष्ट्वा स्नात्वा सोमतीर्थे सह्याचलम् उपागतः ।

तत्र स्नात्वा मधोदधौ वैकुण्ठं चार्च्य भक्तितः ॥

पितॄन् पिण्डैः समभ्यर्च्य पारियात्रं गिरं गतः ।

तत्र स्नात्वा लाङ्गुलिन्यां पूजयित्वापराजितम् ॥

करपादे समाहृत्य विश्वरूपं ददर्श सः ।

 यत्र देववरः शम्भुर् देवानां तु सुपूजितः ॥

[२३६] विश्वरूपम् अथात्मानं दर्शयामास योगवित् ।

तत्र सङ्कुणिकातोये स्नात्वाभ्यर्च्य महेश्वरम् ॥

जगामाद्रिं च सौगन्धं प्रह्लादो मलयाअचलम् ।

महाह्रदे ततः स्नात्वा पूजयित्वा च शङ्करम् ॥

ततो जगाम योगात्मा द्रष्टुं विन्ध्ये सदाशिवम् ।

त्रिरात्रं समुपोष्येशम् अवन्तीगरीं ययौ ॥

तत्र शिप्राजले स्नात्वा विष्णुं सम्पूज्य भक्तितः ।

श्मशानं तु जगामाथ महाकालवपुर् हरम् ॥

तस्मिन् स सर्वसत्त्वानां तेन रूपेण शङ्करः ।

तामसं रूपम् आस्थाय संहारं कुरुते वशी ॥

तत्रस्थेन सुवेषेण श्वेतकिर् नाम भूपतिः ।

रक्षितस् त्व् अन्तकं हत्वा सर्वभूतापहारिणम् ॥

स तत्र हृष्टो वसति नित्यं चैव सहोमया ।

वृतः प्रथमकोटीभिर् वन्दद्भिस् त्रिदशार्चितः ॥

दृष्ट्वाथ च महाकालं कालकालान्तकारकम् ।

दैत्यानां यमसंयमनं मृत्युमृत्युं विचित्रकम् (?) ॥

श्मशाननिलयं शम्भुं भूतनाथं जगत्पतिम् ।

पूजयित्वा शूलधरं जगाम निषधं प्रति ॥

तत्रामरेश्वरं देवं दृष्ट्वा सम्पूज्य भक्तितः ।

[२३७] महोदयं समभ्येत्य हयग्रीवं ददर्श सः ॥

अश्वतीर्थे नरः स्नात्वा दृष्ट्वा च तुरगाननम् ।

श्रीधरं तु विभुं पूज्य पाञ्चालविषयं ययौ ॥

भद्रेश्वरं गणैर् गुप्तं पुत्रम् अर्थपतेर् अथ ।

पञ्चात्मकं रथी दृष्ट्वा प्रयागं प्रयतो ययौ ॥

स्नात्वा सन्निहिते तीर्थे यामुने लोकविश्रुते ।

दृष्ट्वा वटेश्वरं रुद्रं माधवं योगशायिनम् ॥

द्वाव् एव भक्तितः पूज्य पूजयित्वा महेश्वरम् ।

माधमासम् अथोपोष्य ततो वाराणसीं गतः ॥

दशाश्वमेधे गङ्गायां तीर्थे सुरगृहादिषु ।

सर्वपापहरास्व् एषु सम्पूज्य पितृदेवताः ॥

प्रदक्षिणीकृत्य पुरीं पूज्याविमुक्तकेशवौ ।

लोलं दिवाकरं दृष्ट्वा ततो मधुवनं ययौ ॥

तत्र स्वयम्भुवं देवं दृष्ट्वा चासुरसत्तमः ।

तम् अभ्यर्च्य महातेजाः पुष्करारण्यम् आगतम् ॥

तेषु त्रिष्व् अपि तीर्थेषु स्नात्वार्च्य पितृदेवताः ।

पुष्कराक्षम् अयोगन्धिं ब्रह्माणं चाप्य् अपूजयत् ॥

ततो भूयः सरस्वत्यास् तीर्थे त्रैलोक्यविश्रुते ।

कोटितीर्थे रुद्रकोटिं ददर्श वृषभध्वजम् ॥

नैमिशे ये द्विजवरा मागधेयाः ससैन्धवाः ।

धर्मारण्याः पौष्करेया दण्डकारण्यकास् तथा ॥

[२३८] चाम्पेया भृगुकच्छीया देविका तीरगाश् च ये ।

ते तत्र शङ्करं द्रष्टुं समायाता द्विजातयः ॥

कोटिसङ्ख्यास्त्रियः सिद्धा हरदर्शनलालसाः ।

अहम्पूर्वम् अहम्पूर्वम् इत्य् एवं वदतो मुने ॥

तान् सङ्क्षुद्यान् हरो दृष्ट्वा महर्षीन् दग्धकिल्बिषान् ।

तेषाम् एवानुकम्पार्थं कोटिमूर्तिर् अभूद् धरः ॥

ततस् ते मुनयः प्रीताः सर्व एव महेश्वरम् ।

सम्पूजयन्ति ते भक्त्या तीर्थं कृत्वा पृथक् पृथक् ॥

इत्य् एवं रुद्रकोटीति नाम शोभम् अजायत ।

तान् ददर्श महातेजाः प्रह्लादो भक्तिमान् वाशी ॥

कोटितीर्थे नरः स्नात्वा तर्पयित्वा वसून् पितॄन् ।

रुद्रकोटीं समभ्यर्च्य जगाम कुरुजाङ्गलम् ॥

तत्र देववरं स्थाणुं शङ्करं पार्वतीप्रियम् ।

सरस्वतीजले मग्नं ददर्श सुरपूजितम् ॥

सारस्वते ऽम्भसि स्नात्वा स्थाणुं सम्पूज्य भक्तितः ।

क्षीरिकां च समभ्येत्य नीलकण्ठं ददर्श ह ॥

नीलतीर्थजले स्नात्वा पूजयित्वा ततः शिवम् ।

जगाम सागरान्ते स प्रभासे द्रष्टुम् ईश्वरम् ॥

स्नात्वा च स सङ्गमे नद्याः सरस्वत्यार्णवस्य च ।

सोमेश्वरं लोकपतिं ददर्श च कपर्दिनम् ॥

यो दक्षशापनिर्दग्धः क्षयी ताराधिपः शशी ।

[२३९] आप्यायितः शङ्करेण विष्णुना च कपर्दिना ॥

तान् अभ्यर्च्य वरान् देवान् आजगाम महालयम् ।

तत्र रुद्रं समभ्यर्च्य स जगामोत्तरान् कुरून् ॥

पद्मनाभं समभ्यर्च्य सप्तगोदावरं ययौ ।

तत्र स्नात्वार्च्य देवेशं भीमं त्रैलोक्यवेदिनम् ॥

गत्वा दारुवने श्रीमान् श्रीलिङ्गं प्रददर्श ह ।

तम् अभ्यर्च्याथ ब्रह्माणीं गत्वार्च्य त्रिदशेश्वरीम् ॥

प्लक्षां च तरणं गत्वा श्रीनिवासम् अपूजयत् ।

ततश् च कुण्डिनं गत्वा सम्पूज्य प्राणितृप्तिदम् ॥

सूर्यारके चतुर्बाहुं पूजयित्वा विधानतः ।

मागधारण्यम् आसाद्य ददर्श वसुधाधिप ॥

तम् अर्चयित्वा विश्वेशं स जगाम प्रजामुखम् ।

महातीर्थे ततः स्नात्वा वासुदेवं प्रणम्य च ॥

शोणं सम्प्राप्य सम्पूज्य रुक्मधर्माणम् ईश्वरम् ।

महाकाश्यां महादेवं हंसाख्यं भक्तिमान् अथ ॥

पूजयित्वा जगामाथ सैन्धवारण्यम् उत्तमम् ।

तं दृष्ट्वार्च्य हरिं चासौ तीर्थं कनखलं ययौ ॥

तत्रार्च्य रुद्रं कामेशं वीरभद्रं च दानवः ॥

गणाधिपं च मेघाभं ययाव् अथ गिरिव्रजम् ।

तत्र देवं पशुपतिं लोकनाथं महेश्वरम् ॥

सम्पूजयित्वा विधिवत् कामरूपं जगाम ह ।

[२४०] शशिप्रभं देववरं त्रिनेत्रं

	सम्पूजयित्वा सहितं मृडान्या ।

जगाम तीर्थप्रवरं महाख्यं

	तस्मिन् महादेवम् अपूजयच् च ॥

तत्र त्रिकूटं गिरिराजपुत्रं

	द्रष्टुं जगामाथ स चक्रपाणिम् ।

तम् ईड्य भक्त्या च गजेन्द्रमोक्षणम् 

	जजाप जप्यं परमं पवित्रम् ॥

तत्रोष्य दैत्येश्वरसूनुर् आददान् 

	मासत्रयं मूलफलं बुभक्षी ।

निवेद्य विप्रप्रवरेषु काञ्चनं

	जगाम घोरं स हि दण्डकं वनम् ॥

तत्र दिव्यं महाशङ्खं वनस्पतिवपुर्धरम् ।

ददर्श पुण्डरीकाक्षं महान्तं चापधारिणम् ॥

तस्याधस्तात् त्रिरात्रं तु महाभागवतो ऽसुरः ।

स्थितः स्थण्डिलशायी च पठन् सारस्वतं स्तवम् ॥

तस्मात् तीर्थवरं विन्ध्यं सर्वपापप्रणाशनम् ।

जगाम दानवो द्रष्टुं सर्वपापहरं हरिम् ॥

महाभारते

ततो वाराणसीं गत्वा देवम् अर्च्य वृषध्वजम् ।

कपिलाह्रदम् उपस्पृश्य राजसूयफलं लभेत् ॥

[२४१] मार्कण्डेयस्य राजेन्द्र तीर्थम् आसाद्य दुर्लभम् ।

गोमतीगङ्गयोश् चैव सङ्गमे लोकविश्रुते ॥

अग्निष्टोमम् अवाप्नोति कुलं चैव समुद्धरेत् ।

मत्स्यपुराणे

कृतशौचं महातीर्थं सर्वपापनिषूदनम् ।

यत्रास्ते नरसिंहस् तु स्वयम् एव जनार्दनः ॥

तथा

वश्वापदं रुद्रकोटिं सिद्धेश्वरमहालयम् ।

गोकर्णं भद्रकर्णं च सुवर्णाख्यं तथैव च ॥

एतानि हि पवित्राणि सान्निध्यात् सन्ध्ययोर् द्वयोः ।

कालञ्जरवनं चैव शङ्कुकर्णं स्थलेश्वरम् ॥

एतानि हि पवित्राणि सान्निध्यैतं मम प्रिये ।

देवीपुराणे

गङ्गाद्वारं कुरुक्षेत्रं नर्मदामरकण्टकम् ।

यमुनासङ्गमं पुण्यं विदिशा वेत्रवत्य् अपि ॥

सरयूः कौशिकी विन्ध्या गण्डकी च सरस्वती ।

चन्द्रभागा नदी पुण्या नदी गोदावरी तथा ॥

कावेरी गोमती देवी देविका वरणा तथा ।

एताः पुण्यतमा नद्यो ग्रहणादिषु कीर्तिताः ॥

अन्याश् च बहवः पुण्याः सर्वकालेषु पुण्यदाः ।

[२४२] अयने विषुवे ख्याता व्यतीपाते तथैव च ॥

दीनच्छिद्रे तथा दर्शे ब्राह्मणानां च सङ्गमे ।

सम्मोदेषु समाजेषु एकार्थे सप्त पञ्च च ॥

“सम्मोदेषु” उत्सवेषु; “समाजेषु” सभासु; “एकार्थे” एकस्मिन् प्रयोजने; “सप्त पञ्च च” मिलिता भवन्ति तदा पूर्वोक्ता नद्यः पुण्यतमास् तर्पणं च तत्र सर्वकामप्रदम् ।

तथा

एवं पर्वसु सर्वेषु चन्द्रे सर्वकलासु च ।

तृतीयायां तु वैशाख्याम् अष्तम्यां कुजवासरे ॥

चतुर्दश्यां च कृष्णायां भौमहे पितृतर्पणे ।

कर्तव्यं सर्वकामानां पूरणाय द्विजोत्तमैः ॥

अमावास्यायां सङ्क्रान्तौ शिवादित्यौ च यो नरः ।

यजते भगवान् प्रीतः स पूतो भवते मुने ॥

तथा

कार्त्तिके ग्रहणं श्रेष्ठं गङ्गायमुनसङ्गमे ।

मार्गे तु ग्रहं पुण्यं देविकायां महामुने ॥

पौषे तु नर्मदा पुण्या माघे सन्निहिता शुभा ।

फाल्गुने वरणा ख्याता चैत्रे पुण्या सरस्वती ॥

वैशाखे तु महापुण्या चन्द्रभागा सरिद् वरा ।

ज्येष्ठे तु कौशीकी पुण्या आषाढे तापिका नदी ॥

[२४३] श्रावणे सिन्धुनामा च भाद्रमासे च गण्डकी ।

आश्विने सरयूश् चैव भूयः पुण्या तु नर्मदा ॥

गोदावरी महापुण्या चन्द्रे राहुसमन्वित ।

सूर्ये चैव शशिग्रस्ते ततो भूते महामुने ॥

नर्मदा तोयसंस्पर्शात् कृतकृत्या भवन्ति ते ।

ये सूर्ये सैंहिके येन ग्रस्ते रेवाजलं नराः ॥

स्पृशन्ति चावगाहन्ते न ते प्रकृतिमानवाः ।

स्पृष्ट्वा शतक्रतुफलं दृष्ट्वा गोदानजं फलम् ॥

स्नात्वाश्वमेधतुल्यं च स्पृष्ट्वा सौत्रामणीं लभेत् ।

रविचन्द्रोपरागे तु अयने चोत्तरे तथा ॥

एवं गङ्गापि द्रष्तव्या तद्वद् एव सरस्वती ।

तथा

शिवादित्यफलं यच् च मण्डले समुदाहृतम् ।

सङ्ग्रहे मण्डले यागे तद् अत्र प्राप्नुयान् नरः ॥

शिवादित्ययोर् मण्डले क्षेत्रे तयोर् यत् फलं तद् राहुग्रस्ते शशिसूर्यमण्डले यागे पूजायां प्राप्नोतीत्य् अर्थः ।

अरण्येषूषरे क्षेत्रे यत् पुण्यं समुदाहृतम् ।

तद् अत्र कालमाहात्म्याद् उपरागे ऽधिकं भवेत् ॥

येन आहृत्य तोयेन स्नानं कुर्युर् गृहे ऽपि वा ।

समन्त्रेणैव पूतेन तेषां पुण्यं ततो ऽधिकम् ।

आत्मचिन्तानुसारेण पात्रे तैजसपार्थिवे ॥

इष्टकाशैलकाष्ठैर् वा फलं प्राप्नोत्य् अनिन्दितम् ।

येनैव मृत्तिकां तस्मात् तीर्थाद् आहृत्य भोजने ॥

[२४४] प्रातः प्रातः समुत्थाय वादयन्ति नरोत्तमाः ।

ते सर्वे पापनिर्मुक्ता भवन्ति विगतामयाः ॥

फलपुष्पोपहारेण यो वा तस्मिन् रवीश्वरौ ।

स्नात्वा सम्पूजयेद् विप्रः स भवेद् विगतामयः ॥

मन्त्रपूतेन तोयेन कुम्भैः पुण्यजलान्वितैः ।

सफलैर् विधिना स्नात्वा सर्वकामांल् लभेत सः ॥

तद् एतत् कथितं पुण्यं मया ब्रह्ममुखाच् छ्रुतम् ।

तत् समग्रं भवेत् तस्य अरण्येषूषरेषु च ॥

अरण्यानि प्रवक्ष्यामि तथा चैवोषराणि च ।

सैन्धवं दण्डकारण्यं नैमिशं कुरुजाङ्गलम् ॥

उत्पलावर्तकारण्यं जम्बूमार्गं च पुष्करम् ।

हिमवान् सह्यतो ऽरण्यम् इत्य् एतत् परिकीर्तितम् ॥

नरश् चैतेष्व् अरण्येषु यस् तु प्राणान् परित्यजेत् ।

ब्रह्मलोके ऽतिथिर् भूत्वा स याति परमां गतिम् ॥

कालिका शिखराख्ये च कालकालालये ऽपि या ।

कालञ्जरे महाकाले तुल्यं वै तेषु यत् फलम् ॥

वायुपुराणे

कालञ्जरे दशार्णायां नैमिशे कुरुजाङ्गले ।

वाराणस्यां नगर्यां च देयं श्राद्धम् प्रयत्नतः ॥

गत्वा चैतानि पूतः स्याच् छ्राद्धम् अक्षय्यम् एव च ।

जपहोमतपोध्यानं यत् किञ्चित् सुकृतं भवेत् ॥

[२४५] महभारते

शतद्रुं चन्द्रभागां च वितस्तां चोर्मिमालिनीम् ।

विगाह्य वै निराहारो निर्ममो मुनिवद् भवेत् ॥

काश्मीरमण्डले नद्यो याः पतन्ति महानदीः ।

ता नदीः सिन्धुम् आसाद्य शीलवान् स्वर्गम् आप्नुयात् ॥

पुष्करं च प्रयागं च नैमिशं सागरोदकम् ।

देविका सिन्धुमार्गं च स्वर्गबिन्दुं विगाह्य च ॥

विबोधते विमानस्थः सो ऽप्सरोभिर् अभिष्टुतः ।

हिरण्यबिन्दुं विक्षोभ्य प्रयतश् चाभिवन्दनम् ॥

कुशेशयं च देवेशं पूयते तस्य किल्बिषम् ।

गङ्गाद्वारे कुशावर्ते विन्ध्यके नीलपर्वते ॥

तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ।

अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत् ॥

ब्रह्मचारी जितक्रोधः सत्यसन्धस् त्व् अहिंसकः ।

यत्र भागीरथी गङ्गा उत्तरां भजते दिशम् ॥

महेश्वरस्याधिष्ठाने यो नर्स् त्व् अभिषिञ्चति ।

एकमासं निराहारः स्वयं पश्यति देवताम् ॥

सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तत् पयः ।

शुभं विगाहते यो वै न नरो जायते पुनः ॥

महाह्रद उपस्पृश्य यो ऽग्निहोत्रपरः शुचिः ।

एककालं निराहारः सिद्धिं कालेन स व्रजेत् ॥

[२४६] महाह्रद उपस्पृश्य भृगुतुङ्गे त्व् अलोलुपः ।

त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया ॥

कन्याकूप उपस्पृश्य पर्णशायी कृतोदकः ।

देवेषु कीर्तिं लभते यशसा च विराजते ॥

महागङ्गाम् उपस्पृश्य कृत्तिकाङ्गारगे तथा ।

पक्षं एकं निराहारः स्वर्गम् आप्नोति निर्मलम् ॥

विमानकम् उपस्पृश्य पर्णशय्यां कृतोदकः ।

देवेषु कीर्तिं लभते यशसा च विराजते ॥

[वैमानिक उपस्पृश्य] किङ्किणीकाश्रमे तथा ।

निवासे ऽप्सरसां पुण्ये कामचारो महीयते ॥

कालिकाश्रमम् आसाद्य विपाशायां कृतोदकः ।

ब्रह्मचारी जितक्रोधस् त्रिरात्रान् मुच्यते पुमान् ॥

आश्रमे कृत्तिकायां तु स्नात्वा यस् तर्पयेत् पितॄन् ।

तोषयित्वा महादेवं निर्मलं स्वर्गम् आप्नुयात् ॥

महासर उपस्पृश्य त्रिरात्रोपोषितो नरः ।

त्रयाणां स्थावराणां च द्विपदात्वाद् भयम् त्यजेत् ॥

देवदारुवने स्नात्वा पूतपाप्मा कृतोदकः ।

देववंशम् अवाप्नोति सप्तरात्रोषितः शुचिः ॥

कौशाम्बे च कुशस्तम्बे द्रोणधर्मपदे तथा ।

अथ प्रपतने मध्ये सेव्यते ऽप्सरसां गणैः ॥

चित्रकूटे जनस्थाने तथा मन्दाकिनीजले ।

[२४७] विगाह्य वै निराहारो राजलक्ष्मीं नियच्छति ॥

श्यामायास् त्व् आश्रमं गत्वा उषित्वा चाभिषिच्य च ।

त्रींस् त्रिरात्रान् समाधाय गन्धर्वनगरं व्रजेत् ॥

कौशिकीद्वारम् आसाद्य वायुभक्षस् त्व् अलोलुपः ।

एकविंशतिरात्रेण स्वर्गम् आरोहते नरः ॥

मतङ्गवाप्यां यः स्नायाद् एकरात्रेण सिध्यति ।

जम्बूमार्गे त्रिभिर् मासैः संयतः सुसमाहितः ॥

अहोरात्रेण चैत्रेण सिद्धिं समधिगच्छति ।

प्रभासे त्व् एकरात्रेण अमावास्यां समाहितः ॥

सिध्यते तु महाबाहो न नरो जायते पुनः ।

उज्जानकम् उपस्पृश्य आर्ष्णीषेणस्य चाश्रमे ॥

पिङ्गायाश् चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ।

कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् ॥

अश्वमेधम् अवाप्नोति त्रिरात्रोपोषितः शुचिः ।

पिण्डारकम् उपस्पृश्य एकरात्रोषितो नरः ॥

अग्निष्टोमम् अवाप्नोति प्रभातां शर्वरीं शुचिः ।

मैनाकपर्वते स्नात्वा तथा सन्ध्याम् उपास्य च ॥

नदं ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् ।

पौण्डरीकम् अवाप्नोति प्रभातां शर्वरीं शुचिः ॥

मैनाकपर्वते स्नात्वा तथा सन्ध्याम् उपास्य च ।

कामं जित्वाथ वै मासं सर्वमेधफलं लभेत् ॥

[२४८] कालोदकं नन्दिकूटं तथैवोत्तरमानसम् ।

अभ्येत्य योजनशताद् भ्रूणहापि प्रमुच्यते ॥

नन्दीश्वरस्य मूर्तिं तु दृष्ट्वा मुच्येत किल्बिषैः ।

स्वर्गमार्गह्रदे स्नात्वा स्वर्गलोकं स गच्छति ॥

विख्यातो हिमवान् पुण्यः शङ्करश् च सुरो गिरिः ।

आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥

शरीरम् उत्सृजेत् तत्र विधिपूर्वम् अनाशके ।

अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः ॥

अभ्यर्च्य देवतास् तत्र नमस्कृत्य मुनींस् तथा ।

ततः सिद्धो दिवं। गच्छेद् ब्रह्मलोकं सनातनम् ॥

कामं क्रोधं च लोभं च यो जित्वा तीर्थम् आवसेत् ।

न तेन किञ्चिद् अप्राप्यं तीर्थाभिगमनाद् भवेत् ॥

यान्य् अगम्यानि तीर्थानि दुर्गाणि विषमाणि च ।

मनसा तानि गम्यानि सर्वाण्य् एव समासतः ॥

यमः

कार्तिकीं पुष्करे स्नात्वा सर्वपापैः प्रमुच्यते ।

माघे प्रातः प्रयागे तु मुच्यते सर्वकिल्बिषैः ॥

गयाशीर्षे वटे स्नात्वा माघकृष्णाष्टमीं शुचिः ।

नर्मदाम्भसि च स्नातः पौषकृष्णाष्टमीं शुभाम् ॥

शालग्रामे तथा चैत्रीं सनके च चतुर्दशी ।

शुक्ले स्नात्वा दशम्यां तु पुण्डरीके तथैव च ॥

[२४९] सन्निहत्यम् अमावास्यां प्रभाते वा तथा पुनः ।

ओजसे तु नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥

यमुनायां तथा माघे कृष्णपक्षे चतुर्दशीम् ।

वैशाखे शुक्लपक्षे तु तृतीयायां तथैव च ॥

गङ्गातोये नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ।

प्रोष्ठपदस्य मासस्य शुक्ला या स्याच् चतुर्दशी ॥

तस्यां स्नातो वितस्तायां मुच्यते सर्वकिल्बिषैः ।

चन्द्रभागाम्भसि स्नात्वा माघपुष्यत्रयोदशीम् ॥

अष्टमीरेवतीतोये तथा रेवावताम्भसि ।

आषाढ्यां सरयूतोये श्रावण्यां सततं तथा ॥

श्रवणर्क्षम् अनुप्राप्य यत्र क्वचन सङ्गमे ।

सर्वां चतुर्दशीं पूते देविकायां तथाम्भसि ॥

महागङ्गाम् उपस्पृश्य कृत्तिकाङ्गारके तथा ।

त्रयोदश्याम् आश्वयुजे विशालायां तथैव च ॥

देवलः

कृत्वा पापम् अविज्ञातं भ्रूणहत्यापि तत् पुनः ।

विनश्यति महायज्ञैर् अथ वा तीर्थचर्यया ॥

अथ सरस्वती-गङ्गा-यमुना-नर्मदा-विपाशा-वितस्ता-कौशिकी-नन्दावरी-चन्द्रभागा-रूत्यलावती-सिन्धुर्-अर्जुनीयापर्णाशा-शोणस्नायी-ऐरावती-पाषाणातीर्थ-गोमति-गण्डकी-बाहुदा-रम्या-देविका-गोदावरी-कावेरी-ताम्रपर्णी**[२५०]**-पर्णी-चर्मण्वती-रेवती-भीमा-रक्षुवीरणा चेति महानद्यः पुण्यतमाः ।

गङ्गाद्वारं कनखलं शुकरं प्रयागो गङ्गासागर इति गङ्गायास् तीर्थानि ।

प्लक्षप्रस्रवणं वृद्धकन्याकं सारस्वतम् आदित्यतीर्थं कौबेरं वैजयन्तं पृथूदकम् नैमिशं विनशनं वंशोद्भेदं प्रभासम् इति सारस्वतानि ।

पुष्करम् उर्वशं गङ्गयायां गयाशिरः कुरुक्षेत्रं प्रयाग इति [तीर्थानि] । क्षेत्राणि वाराणसी महाभैरवं देवदारुवनं केदारम् उद्यमं रुद्रमहालयम् । त्रस्तावतारं छगलण्डविष्णुशिरं महाकालं कालञ्जरं जम्बुमार्गं चेति आयतनानि ।

हिमवान् सह्यो विद्वारो महेन्द्रो हरिश्चन्द्रः शतशृङ्गो देवपर्वतो विन्ध्यपर्वतश् चेति पर्वतानां नामानि ।

एवम् एतान्य् अन्यान्य् अपि क्षेत्राण्य् आयतनपर्वताश्रमतीर्थानि पुण्यतमानि । तदर्थम् अभिगम्य व्रतोपवासनियमयुक्तस् त्र्यहम् अगाहमानस् त्रिरात्रम् उषित्वा सर्वपापैः प्रमुच्यते स्वस्तिमांश् च भवतीति । तत्र श्लोकौ ।

अभिसङ्गम्य तीर्थानि पुण्यान्य् आयतनानि च ।

नरः प्रमुच्यते पापाद् ब्राह्मणाश् च तपस्विनः ॥

सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाः ।

सर्वम् आयतनं पुण्यं सर्वे पुण्या वनाश्रमाः ॥

[२५१] ब्रह्मपुराणे

नद्यां प्रत्येकशः स्नाते भवेद् गोदानजं फलम् ।

गोप्रदानैश् च दशभिस् तासां पुण्यं तु सङ्गमे ॥

नरसिंहपुराणे

मन्दरस्थं हरिं देवं ब्रह्मा पृच्छति केशवम् ।

भगवान् देवदेवेश शङ्खचक्रगदाधर ॥

केषु केषु च क्षेत्रेषु द्रष्टव्यो ऽसि मया प्रभो ।

भक्तैश् चान्यैः सुरश्रेष्ठ मुक्तिकामैर् विशेषतः ॥

यानि ते गुह्यनामानि क्षेत्राणि च जगत्पते ।

तान्य् अहं श्रोतुम् इच्छामि त्वत्तः पद्मायतेक्षण ॥

किं जपन् सुगतिं याति नरो नित्यम् अतन्द्रितः ।

त्वद्भक्तानां हितार्थाय तन् मे वद सुरेश्वर ॥

	भगवान् उवाच ।

शृणुष्वावहितो ब्रह्मण् गुह्यनामानि मे ऽधुना ।

क्षेत्राणि चैव गुल्मानि तव वक्ष्यामि तत्त्वतः ॥

कोकामुखे वराहं च मन्दारे मधुसूदनम् ।

अनन्तं कपिलं द्वीपे प्रभासे रविनन्दनम् ॥

मत्स्योदपाने वैकुण्ठे महेन्द्रे तु नृपान्तकम् ।

ऋषभे तु महाविष्णुं द्वारकायां तु भूपतिम् ॥

पाण्डिसह्ये तु देवेशं वसुतुङ्गे जगत्पतिम् ।

भल्लिवने महायोगिं चित्रकूटे नराधिपम् ॥

[२५२] नैमिशे पीतवासं च गयां निष्क्रमणे हरिम् ।

शालग्रामे तपोवसम् अचिन्त्यं गन्धमादने ॥

कुब्जाम्रके हृषीकेशं गङ्गाद्वारे पयोधरम् ।

गरुडध्वजं तोषलके गोविन्दं नागसाह्वये ॥

वृन्दावने तु गोपालं मथुरायां स्वयम्भुवम् ।

केदारे माधवं विद्याद् वाराणस्यां तु केशवम् ॥

पुष्करे पुष्कराख्यं तु धृषद्वत्यां धृषध्वजे ।

तृणबिन्दुवने वीरमणोकं सिन्धुसागरे ॥

कुशीवटे महाबाहुम् अमृतं तैजसे वने ।

विशाखयूपे विश्वेशं नारसिंहं महावने ॥

लोहार्गले रिपुहरं देवशाले त्रिविक्रमम् ।

पुरुषोत्तमं कुशवने कुब्जके वामनं विदुः ॥

विद्याधरं वितस्ताय्ं वाराहे धरणीधरम् ।

देवदारुवने गुह्यं कावेर्यां नागशायिनम् ॥

प्रयागे योगमूर्तिं च पयोष्ट्यां सुन्दरं विदुः ।

कुमारतीर्थे कौमारं लौहित्ये हयशीरिषम् ॥

उज्जयिन्यां विक्रमं विद्याल् लिङ्गस्फोटे चतुर्भुजम् ।

हरिहरं तुङ्गभद्रायां दृष्ट्वा पापात् प्रमुच्यते ॥

विश्वरूपं कुरुक्षेत्रे मणिकुण्डे हलायुधम् ।

लोकनाथम् अयोध्यायां कुण्डिने रुक्मिणीपतिम् ॥

भाण्डिरे वासुदेवं च चक्रतीर्थे सुदर्शनम् ।

आद्यं पिष्णुपदे [विष्णु-?] विद्याच् छूकरे शूकरं विदुः ॥

[२५३] ब्रह्मेशं मानसे तीर्थे दण्डके श्यामलं विदुः ।

त्रिकूटे नागमोक्षं च मेरुकूटे च भास्करम् ॥

विरजं पुष्पभद्रायां बालं चामीकरे विदुः ।

यशस्करं विपाशायां माहिष्मत्यां हुताशनम् ॥

क्षीराब्धौ पद्मनाभं च विमले च सनातनम् ।

शिवनद्यां शिवकरं गयायां च गदाधरम् ॥

सर्वत्र परमात्मानं यः पश्यति स मुच्यते ।

अष्टषष्टि तु नामानि कीर्तितानि मया तव ॥

क्षेत्राणि चैव पुण्यानि कथितानि विशेषतः ।

एतानि मम नामानि रहस्यानि प्रजापते ॥

यः पठेत् प्रातर् उत्थाय शृणुयाद् वापि नित्यशः ।

गवां शतसहस्रस्य दत्तस्य फलम् अश्नुते ॥

दिने दिने शुचिर् भूत्वा क्षेत्राण्य् एतानि यः स्मरेत् ।

दुःस्वप्नं न भवेत् तस्य मत्प्रसादान् न संशयः ॥

अष्टषष्टि तु नामानि त्रिकालं यः पठेन् नरः ।

विमुक्तः सर्वपापेभ्यो मम लोके स मोदते ॥

द्रष्टव्यानि यथाशक्ति क्षेत्राण्य् एतानि मानवैः ।

वैष्णवैस् तु विशेषेण तेषां मुक्तिं वदाम्य् अहम् ॥

हरिं समभ्यर्च्य तदग्रतः स्थितो

	हरिं स्मरन् विष्णुदिने विशेषतः ।

इमं स्तवं यः पठते सदा नरः 

	प्राप्नोति विष्णोर् अमृतात्मकं पदम् ॥

[२५४] तथा

उददिश्य स्तववरं ब्रह्माणं भगवान् हरिः ।

पुनर् अप्य् आह तीर्थानि यानि तानि निबोध मे ॥

गङ्गा तु प्रथमा पुण्या यमुना गोमती पुनः ।

सरयूः सरस्वती चैव चन्द्रभागाथ चर्मिणा ॥

कुरुक्षेत्रे गयां चैव पुष्कराणि तथार्बुदम् ।

नर्मदा च महापुण्या तीर्थान्य् एतानि चोत्तरे ॥

तापी पयोष्णी पुण्ये द्वे उत्सङ्गे तीर्थम् उत्तमम् ।

गोदावरी महापुण्या सर्वत्र द्विजसत्तम ॥

तुङ्गभद्रा महापुण्या यत्राहं कमलोद्भव ।

हरेण सार्धं प्रीत्यानुवसामि मुनिपूजितः ॥

तुङ्गा च दक्षिणे गङ्गा कावेरी च विशेषतः ।

सह्ये चामलकग्रामे स्थितो ऽहं कमलोद्भव ॥

देवदेवेश नाम्ना तु त्वया ब्रह्मन् सदार्चितः ।

तत्र तीर्थान्य् अनेकानि सर्वपापहराणि वै ॥

तेषु स्नात्वा च पीत्वा च पापं मुञ्चति मानवः ।

इत्य् एवं कथयित्वा तु तीर्थानि मधुसूदनः ॥

ब्रह्मणे गतवान् ब्रह्मण् ब्रह्मापि स्वपुरं गतः ।

तथा

	सूत उवाच ।

श्रीसह्यामलकग्रामे देवदेवेशम् अव्ययम् ।

[२५५] आराध्य सिद्धिं सम्प्राप्ताः सप्ततिं च चतुर्मुखैः ॥

तस्य पादतलात् तीर्थं निश्चितं पश्चिमामुखम् ।

तच् चक्रतीर्थम् अभवत् पुण्यं पापहरं नृणाम् ॥

चक्रतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते ।

बहुवर्षसहस्राणि स्वर्गलोके महीयते ॥

शङ्खतीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ।

पुष्यमासे तु पुष्यार्के तद्यात्रादि वसन् मुने ॥

ब्रह्मणः कुण्डिकापूर्वं गङ्गातोयेन पूरिता ।

सह्याद्रौ पतिता ब्रह्मंस् तत्र तीर्थम् अभून् महान् ॥

नाम्ना तु कुण्डिका तीर्थं शिलावृक्षसमीपतः ।

तत्र ये मुनयः स्नातास् ते ऽपि सिद्धिम् अवाप्नुयुः ॥

त्रिरात्रोपोषितो भूत्वा यस् तिष्थेत् तत्र मानवः ।

सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥

कुण्डिकातीर्थोत्तरतः पिण्डस्थानाच् च दक्षिणम् ।

ऋणमोचनकं नाम तीर्थम् तद् गुह्यम् उत्तमम् ॥

त्रिरात्रोपोषितो यस् तु तत्र स्नानं समाचरेत् ।

ऋणैस् त्रिभिर् असौ ब्रह्मन् मुच्यते नात्र संशयः ॥

श्राद्धं कृत्वा पितॄणां तु पिण्डस्थाने च यो नरः ।

पितॄन् उद्दिश्य विधिवत् पिण्डं निर्वापयिष्यति ॥

सुतृप्ताः पितरो यान्ति पितृलोकं न संशयः ।

पञ्चरारोषितः स्नात्वा यस् तीर्थे पापनाशने ॥

[२५६] सर्वपापक्षयं प्राप्य विष्नुलोके महीयते ।

तत्रैव महतीं धारां शिरसा यस् तु धारयेत् ॥

सर्वत्र तु फलं प्राप्य नाकपृष्ठे महीयते ।

धनुःपाते महातीर्थे भक्तो यः स्नानम् आचरेत् ॥

आयुर्योगफलं प्राप्य स्वर्गलोके महीयते ।

शतविन्दौ नरः स्नात्वा शतक्रतुपुरं व्रजेत् ॥

सहस्रविन्दौ महातीर्थे स्नात्वा विष्णुपुरं व्रजेत् ।

वराहतीर्थे विप्रेन्द्र सह्ये यः स्नानम् आचरेत् ॥

अहोरात्रोषितो भूत्वा विष्णुलोके महीयते ।

आकाशगङ्गा नाम्ना च सह्याद्रेस् तीर्थम् उत्तमम् ॥

शिलातलोन्नतो ब्रह्मन् निर्याता श्वेतमृत्तिका ।

ताम् आलभ्य तु यः स्नाति नरो द्विजवरोत्तम ॥

सर्वक्रतुफलं प्राप्य विष्णुलोके महीयते ।

वाग्मतीसङ्गमं नाम तीर्थं देवस्य दक्षिणे ॥

एकरात्रोषितो यस् तु तत्र स्नातो विचक्षणः ।

अश्वमेधफलं प्राप्य विष्णुलोके महीयते ॥

ब्रह्मन्न् अमलसह्याद्रेर् यत् तत् तोयं विनिर्गतम् ।

तं तु तीर्थं विजानीहि स्नात्वा पापात् प्रमुच्यते ॥

एतेषु तीर्थेषु नरो ऽवगाह्य

	पुण्येषु सह्याद्रिसमुद्भवेषु ।

दत्वा तु पुष्पाणि हरिं च दृष्ट्वा

	विहाय पापं प्रविशेच् च विष्णुम् ॥

[२५७] सकृत् तीर्थानि सेवेत गङ्ँ चैव पुनः पुनः ।

सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ॥

अहो मुञ्चंस् तुरगमेधसहस्रतुल्यं

	यच् चक्रतीर्थम् इति वेदविदो वदन्ति ।

तत्र स्नाता विरजसो न पुनर् भवन्ति

	पादौ प्रणम्य शिरसा मधुसूदनस्य ॥

गङ्गाप्रयागगयनैमिशपुष्कराणि

	पुण्यानि यानि कुरुजाङ्गलयामुनानि ।

कालेन तीर्थसलिलानि पुनन्ति पापात्

	पादोदकं भगवतस् तु पुनाति सद्यः ॥

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे नानातीर्थमाहात्म्यं समाप्तम् ।

[२५८]

२४

अथ महापथयात्रादि

तत्र ब्रह्मपुराणे

महापथस्य यात्रा च कर्तव्या तुहिनोपरि ।

आश्रित्य सत्यं धैर्यं च सद्यः स्वर्गप्रदा हि सा ॥

यावत् पौरन्दरौ लोकौ न यातः कार्यगौरवात् ।

तावत् तुषारमध्ये तु कस् तनुं त्यक्तुम् उत्सहेत् ॥

यतस् तुषारदाह्यांस् तु मुञ्चन् प्राणान् विचेतनः ।

प्रदक्षिणावर्तशिखं पश्येद् दीप्तं हुताशनम् ॥

साङ्कर्षणं वपुर् विष्णोश् चण्डाग्निं भवदाहकम् ।

वायुपुराणे

यो वाहिताग्निप्रवरो वीराध्यानं गतो ऽपि वा ।

समाधाय मनः पूर्वं मन्त्रम् उच्चारेयेच् छनैः ॥

त्वम् अग्ने रुद्रत्वं सुधामहोदधिस् त्वं

	सर्वे मारुताः क्षिप्रम् ईयिरे ।

त्वं वातैयासिसगरी यस् त्वं

	प्रस्थिमायीरूपः पातयन् माम् ॥

इत्य् एवं मनसा मात्रं सम्यग् उच्चारणं द्विजः ।

अग्निं प्रविशते यस् तु रुद्रलोकं स गच्छति ॥

[२५९] अग्निस् तु भावान् कालः कालो रुद्र इति स्मृतः ।

तस्माद् यः प्रविशेद् अग्निं स रुद्रम् अभिवर्तते ॥

देवीपुराणे

	परमेश्वर उवाच ।

यद् इदं भैरवं रूपं कृतं भूतक्षयं प्रति ।

अनुग्रहाय भूतानां भूधरेन्द्र भविष्यति ॥

तस्मिन् ये भावम् आपन्ना मत्पुत्रा मयि भाविताः ।

भवन्ति ते च भर्तारो मम तुल्या भवन्तु ते ॥

भुक्त्वा भोगांस् तथा ते तु राजराजे पुरे चिरम् ।

क्रमाद् अनुभवं यान्ति तत्र मोक्षं परं ध्रुवम् ॥

एवं तासां वरो दत्तो देवदेवेन शूलिना ।

नराणां भर्तृकाणां तु नित्यम् आनन्दको रवः ॥

	ब्रह्मोवाच ।

ये वै सम्भावम् आपन्नाः कृत्वा मनसि वै शिवम् ।

भैरवं यान्ति ते रुद्रभक्त्या यान्ति परं पदम् ॥

ये वा स्नेहाद् भयाल् लोभात् कौतुकाद् यान्ति भैरवम् ।

ते ऽपि चैतत् प्रभावेण भुवनानां महीपतिम् ॥

सेवन्ते क्रमयोगेन रुद्रत्वं यान्ति ते द्विजाः ।

अथ वा भैरवं रूपं पटगं सुरपूजितम् ॥

कृत्वा प्रायान् महाबाहो भैरवं सर्वकामदम् ।

पञ्चविंशभुजं देवं पीनाङ्गं सुरपूजितम् ॥

खड्गखेटधरं कार्यं शूलोद्यतकरं परम् ।

गजचर्मधरं चान्यौ चक्रोद्यतभुजं तथा ॥

[२६०] खट्वाङ्गं च कपालं च वज्रं डमरुकं तथा ।

एवंविधेन रूपेण सन्दष्टाधरम् आननम् ॥

अज्जकं मिन्दभावं तु दन्तुरं तु त्रिलोचनम् ॥

कुर्वीत भैरवं देवं सुसुरासुरवन्दितम् ।

नाना शिवा शिवैर् युक्तं नानाभरणभूषितम् ॥

नवयौवनशोभाढ्यं सर्वशोभाप्रकाशकम् ।

छुरिका नागराजेन वासुकिश् चोपवीतकम् ॥

कुलिकस् तु जटाबन्धे शङ्खपालेन कङ्कणम् ।

तक्षकः पद्मरागश् च कार्यौ केयूरमण्डले ॥

पद्वकर्कोटकौ नागौ नूपुरौ पादगौ शुभौ ।

एवं देवं प्रकुर्वीत भैरवं सर्वकामदम् ॥

तस्य द्वाःस्थौ प्रकर्तव्यौ पीनाङ्गौ सर्वलक्षणौ ।

शूलहस्तौ शुभौ देवौ गजवाजिमुखौ परौ ॥

द्वारकोणे तु गङ्गाया द्वारे कुर्यात् तु भैरवे ।

उद्वेगं तनुपीडादीन् प्रकुर्याद् अशिवं बहु ॥

मठकूपादिभेदेन भयं कर्तुर् यथा भवेत् ।

एवं चात्र प्रसङ्गेन कथितं तव सुव्रते ॥

कपालशूलहस्तौ तु उत्पलाङ्कुशधारिणौ ।

द्वाःस्थौ देवस्य कर्तव्यौ सर्वाभरणभूषितौ ॥

भैरवं चार्धवदनं ब्रह्मविष्ण्वादिभिर् युतम् ।

शूलभिन्नान्धकं रूपं धार्यमाणं तु कल्पयेत् ॥

एवं पटगतं कृत्वा पूजयित्वापरं विभुम् ।

[२६१] परागं सर्वमन्त्रेशं रक्तमाल्याम्बरादिभिः ॥

आत्मानं भूषयित्वा तु मुद्रालङ्कृतपाणिना ।

सर्वदेवोत्थितं देवं व्रजेद् वीरसुरेश्वरम्॥

वीतशोकभयोन्मोहः परमानन्दम् आस्थितम् ।

प्राप्य तद् वै गृहं रम्यं भोगमोक्षप्रदायकम् ॥

पूजां कृत्वा तु देवेशं गजान्धकमहापहम् ।

आरोहेत् परमं स्थानं भुक्तिमुक्तिप्रदायकम् ॥

अघोरं चिन्तयित्वा तु रूपं स्वच्छन्ददायकम् ।

तस्य वक्त्रानले होमम् आत्माहुत्यानुकारयेत् ॥

देवचक्रं हुताशं च वयं घृततिलादिकम् ।

होतव्यं तेन भावेन परां सिद्धिसमीहकैः ॥

पाताष्टकेन वीरेण यथावत् तन् निबोधत ।

पतङ्ग इव चात्मानं दीप्ते ऽग्नौ निक्षिपेद् यथा ॥

पातं पतङ्गनामानं हंससञ्ज्ञम् अतः परम् ।

संयम्य पक्षसङ्घातं कृत्वा वेगवतीं तनुम् ॥

तं पातं हंसनामानं साधकेच्छाफलप्रदम् ।

मृगो ऽन्धरूपगर्तादिलङ्घने वै यथा भवेत् ॥

समपादद्वयस् तद्वन् मृगपातः स उच्यते ।

मुसलं मुसली भूत्वा पातं यत् त्वदुलूखले ॥

विमानध्वजमालादि शाखालोलादिकं लभेत् ।

वृषवन् नर्दयित्वा तु धन्वानं ककुदं द्विज ॥

वृषपातं विजानीयाच् छक्रलोकफलप्रदम् ।

[२६२] सिंहो गजेन्द्रनिधने यथा विक्रमते तनुम् ॥

एवं तत्कृतभावस् तु यातः सिंहं ह्रदौ मतः ।

कृत्वा च भैरवं रूपं सायुधं विगतज्वरः ॥

शिवानले क्षिपेत् कायं तं पातं भैरवप्रदम् ।

पतङ्गादेर् यथा पाता वात्मभावगता द्विज ॥

तथा ते फलदाः सर्वे क्रमतो भैरवं पदम् ।

भवनानि विचित्राणि असङ्ख्येयानि सङ्ख्यया ॥

अन्नपानानि यानीह क्रमशः संश्रितानि तु ।

दीक्षादिनापि सम्पन्ना ये ऽपि भोगवसङ्गताः ॥

ते ऽपि भुक्त्वा चिरं भोगांस् ते यान्ति परमं पदम् ।

पापो ऽपि हि पुमांस् तत्र वर्णाश्रमविव्र्जितः ॥

प्रभावाद् देवदेवस्य भुङ्क्ते च परमं सुखम् ।

नन्दी केदारदेवश् च तथा रुद्रमहालयः ॥

भैरवेण तु तुल्यानि भोगान् ते मोक्षदानि तु ।

चत्वारि देवशार्दूल सर्वानुग्रहकाणि तु ॥

दुरात्मनो ऽपि मुच्यन्ते गत्वैतान्य् अपि ये नराः ।

विचित्ररूपसम्पन्नाः सर्वकामसुखप्रदाः ॥

कन्याद्विरष्टवर्षाश् च पीनोन्नतपयोधराः ।

भुवनेषु विचित्रास् ताः पाताद् भुञ्जन्ति मानवाः ॥

नार्यो वा पतनं कुर्युस् तदा भुञ्जन्ति भैरवान् ।

पुरुषान् दिव्यभोगाद्यान् मम रूपान् महाबलान् ॥

[२६३] गान्धर्वं च तथा ब्राह्मं वायवं चापि वारुणम् ।

तथा वैद्याधरं सौरं सैन्द्रं चान्द्रं समं स्थितम् ॥

स्वकामभोगसम्पन्नं पतनाद् भुवनं भवेत् ।

स्वकामतो भुञ्जयित्वा चान्ते यान्ति परं पदम् ॥

वैष्णवास्थिमयीमालां कम्बुकं शाम्भवं सदा ।

धारयेद् देवदेवेशो लोकानुग्रहकारणात् ॥

ये चित्रधातुकाष्ठोत्तं रत्नशैलमयं नराः ।

पूजयन्ति कृतं पुण्यं ते प्रयान्ति शिवं पदम् ॥

एवं गृहे ऽथ शैले वा नदीविन्द्याटवीषु च ।

भैरवं पूरयेद् यस् तु स लभेद् ईप्सितं फलम् ॥

पत्रं पुष्पं मठं कूपम् आरामाणि च भैरवे ।

कृत्वा च तानि चत्वारि देयानि सुखसिद्धये ॥

यद् दत्वा सर्वदेवानां फलं प्राप्नोति मानवः ।

विप्रो वा वेदविदुषो तत् फलं भैरवाल् लभेत् ॥

कोटिधा नात्र सन्देहः सर्वात्मा सर्वयोगतः ।

कालिकापुराणे

हरिश्चन्द्र इति ख्यातो भविष्यति न संशयः ॥

यस्माद् अस्मिन् कृतो ह्य् एष प्रयातो ऽत्र कृतं पुनः ।

तस्माद् भृगुर् अयं लोके पुण्यो भवति सर्वशः ॥

अत्र यो ऽभ्येत्य देवेशं भृगुप्रपतनं नरः ।

साधयेत स गच्छेद् वै हरलोकम् अतिप्रभम् ॥

महापातकसंयुक्तो व्याधिना समुपद्रुतः ।

यो ऽत्र साधयते प्राणान् सो ऽपि मुच्येन् महाभयात् ॥

[२६४] यद् वा प्रार्थयते ऽन्यच् च प्राधान्ये नात्र किञ्चन ।

तत् प्राप्नुयान् नरः सर्वम् अचिरात् तत्र वै स्मृतम् ॥

आदित्यपुराणे

	दुर्वासा उवाच ।

कीदृशैस् तत् तपोदानैः पुरीं पश्यन्ति मानवाः ।

भानोर् वा ब्रह्मणः शम्भोर् विष्णोर् इन्द्रस्य सर्वशः ॥

	भानुर् उवाच ।

राज्यार्थे निहता ये च राजानो धर्मतत्पराः ।

अग्निविद्युद्धता ये च सिंहव्याघ्रहताश् च ये ॥

प्राप्नुवन्ति च ते सर्वे पुरीम् ऐरावतीं शुभाम् ।

साक्षाद् धि भगवान् अग्निर् नागस्य वसते मुखे ॥

सिंहव्याघ्रगजेन्द्राणां विष्णुर् एव व्यवस्थितः ।

विद्युदग्निहता ये च सिंहव्याघ्रहताश् च ये ॥

नागैश् चैव हता ये च ते नराः पुण्यकर्मिणः ।

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीलक्ष्मीधरविरचिते कृत्यकल्पतरौ

तीर्थकाण्डे महापथयात्रादिमाहात्म्यं समाप्तम् ।

**इति लक्ष्मीधरविरचिते कृत्यकल्पतरौ **

तीर्थकाण्डं समाप्तम्