०७ श्राद्धकाण्डम्

॥ कृत्यकल्पतरुः ॥

॥ श्रीलक्ष्मीधरविरचितः ॥

॥ श्राद्धकाण्डम् ॥

॥ मङ्गलाचरणम् ॥

॥ श्रीगणेशाय नमः ॥

यः पुण्यात्मा धिनोति प्रतिदिनम् अमितैर् हन्तकारैर् मनुष्यान्

	कव्यैर् अव्याजभव्यैः पितृगणम् अमरस्तोमम् अस्तोकहव्यैः । 

श्रीनाथध्यानसिन्धुस्रवणसुखरसोपेतचेतोमरालः 

	सः **श्रीलक्ष्मीधरो** ऽयं विरचयति सुधीः श्राद्धकाण्डं चतुर्थम् । 

॥ प्रतिज्ञा ॥

श्राद्धस्वरूपं तद्भेदाः काला देशास् ततः परम् । 

हविष्याणि विवर्ज्यानि ब्राह्मणानां परीक्षणम् ॥ 

पङ्क्तीनां पावना वर्ज्या अपाङ्क्तेया निमन्त्रणम् । 

निमन्त्रितस्य नियमाः श्राद्धम् आवाहनाग्रतः ॥ 

श्राद्धसम्पद आतिथ्यम् अपास्यश् च यथाक्रमम् । 

विधीनां परिभाषा च जपासनमुखो विधिः ॥ 

परिवेषणमन्त्रस्य सङ्कल्पो भोजने विधिः । 

जपादिविधिर् अत्रापि कर्म श्राद्धोत्तरं क्रमात् ॥ 

**[२] **पित्रादीनां स्वरूपं च श्राद्धस्तुतिर् अनुक्रमात् ।

आमश्राद्धं तथा जीवत्पितृकश्राद्धम् एव च ॥ 

अथ द्विपितृकश्राद्धम् एकोद्दिष्टम् अनन्तरम् । 

सपिण्डीकरणश्राद्धं श्राद्धं तत्करणोत्तरम् ॥ 

श्राद्धाधिकारिणो ऽप्य् अत्र श्राद्धम् अभ्युदयाश्रितम् । 

श्राद्धं जीवत एवात्र कथ्यते तदनन्तरम् ॥ 

**लक्ष्मीधरेण** कृतिना नानामुनिवरोक्तिभिः । 

द्वात्रिंशत्पर्वणाम् एवं श्राद्धकाण्डे निरुच्यते ॥ 

[३]

॥१॥

॥ अथ श्राद्धस्वरूपम् ॥

अथ श्राद्धकल्पः

तत्र हारीतः [अ। १२]

    अथातः श्राद्धकल्पं व्याख्यास्यामः । संवत्सरः प्रजापतिः । तस्योदगयनं शुक्लो ऽहः पूर्वाहश् च । तद् देवानाम् । दक्षिणायनं तामिस्रो रात्रिः अपराह्नश् च । तत् पितॄणाम् । नान्यभावः कृत्स्नभावाद् उभयथा इज्यन्ते । व्यामिश्रत्वाद् अहर् अहः । अथाप्य् अत्रोदाहरन्ति-


        यस्येमे वर्त्मनी हव्यकव्ये वहतो देवा यस्यार्धम्, पितरोऽर्धं तथैव निमेषा यस्य मूलं, तं ऋतवो वै यजन्तम् अमृतत्वम् इयात् ॥ 

शुक्लश् च तामिस्रश् च पक्षौ । यस्माद् देवानां पितॄणां चैवं विभक्तः कालः, तस्मात् कृस्त्नस्य कालस्यानेनैव प्रकारद्वयेन सङ्गृहीतत्वात्, “नान्यभावः” नान्यथात्वं, तद्व्यामिश्रत्वात् पूर्वाह्नापराह्णादिभेदेन । ‘अहर् अहर् उभयथापि इज्यन्ते" प्रकारद्वयेन पूर्वाह्नापराहादिभेदेन । ‘इमे वर्त्मनी" देवयानपितृयानाख्ये । एतस्माद् अर्थवादवाक्यात् सामान्यतः श्राद्धकर्तव्यताविधिः कल्प्यते ॥ (१)

**[४] **श्राद्धस्वरूपं च आपस्तम्बेन व्यक्तम् उक्तम् । यद् आह आपस्तम्बः [२, १६, १-४]

    अथैतन् मनुः श्राद्धशब्दं कर्म प्रोवाच । प्रजानिःश्रेयसार्थं [च] । तत्र पितरो देवता ब्राह्मणस् त्व् आहवनीयार्थे । मासि मासि कार्यम् । अपरपक्षस्यापराह्नः श्रेयान् ॥ इति 

“श्राद्धशब्दम्” श्राद्धम् इति शब्दो वाचको यस्य तत् तथा । ‘ब्राह्मणस् त्व् आहवनीयार्थे" आहवनीयवद् वयक्तद्रव्यप्रतिपत्तिस्थानत्वेन । एतेन पितॄन् उद्दिश्य द्रव्यत्यागो ब्राह्मणस्वीकरणपर्यन्तं श्राद्धस्वरूपं प्रधानम् इत्य् अर्थाद् उक्तं भवति । अन्यत्र तु दैवश्राद्धादौ श्राद्धशब्दप्रयोगो गौणः तद्धर्मप्राप्त्यर्थः, कौण्डपायिनाम् अयनहोम इवाग्निहोत्रशब्दः । अत्र च पित्रादीनां प्रत्येकं देवतात्वम्, न समुदितानाम्,

    नमो विश्वेभ्यो देवेभ्य इत्य् अन्नम् आदौ प्राङ्मुखयोर् निवेदयेत् । पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्याम् उदङ्मुखेषु” 

इति विष्णुना [ ७३, १३-१४] प्रत्येकम् एवोद्देश्यत्वेनाभिधानात्,

ततो मधुघृताक्तं तु सोष्णम् अन्नं तिलान्वितम् । 

गृहीत्वा देवतीर्थेन प्रणवेनैव तत्पुनः ॥ 

एतद् वो ऽन्नम् इतीत्य् उक्त्वा विश्वान् देवांश् च संयजेत् । 

अमुकामुकगोत्रैतत् तुभ्यम् अनं स्वधा नमः ॥ 

इति ब्रह्मपुराणवचनाच्च । यत् तु “अमावास्यायां पितृभ्यो दद्यात्” इत्यादिवाक्येषु बहुवचनम्, तन् न प्रमाणान्तरसिद्धप्रत्येकदेवतात्वानुरोधाद् अभिधानक्रियापेक्षम्" “गर्गा भोज्यन्ताम्” इतिवत् । नापि पित्रादेः सपत्नीकस्य देवतात्वम्, तथात्वे प्रमाणाभावात् । प्रत्युत,

[५] न योषिद्वयः प्रथग् दद्याद् अवसानदिनाद् ऋते ।

स्वभर्तृपिण्डमात्राभ्यस् तृप्तिर् आसां यतः स्मृता ॥ 

इति शातातपवचने भर्तृसम्बन्धिपिण्डभागस्यैव पत्नीतृप्तिहेतुत्वेनाभिधानाद् विपरीतम् एव प्रमाणम् अस्ति ॥

॥ इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिकभट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ श्राद्धकाण्डे श्राद्धस्वरूपम् ॥

[६]

॥ २ ॥

॥ अथ श्राद्धभेदाः ॥

विश्वामित्रः

नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् । 

पार्वणं चेति विज्ञेयं गोष्ठ्यां शुद्धयर्थम् अष्टमम् ॥ 

कर्माङ्गं नवमं प्रोक्तं दैविकं दशमं स्मृतम् । 

यात्रास्व् एकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम् ॥ 

विवृतं चैतद् भविष्यपुराणे

अहन्य् अहनि यच् छ्राद्धं तन् नित्यम् इति कीर्तितम् । 

वैश्वदेवविहीनं तद् अशक्ताव् उदकेन तु ॥ 

एकोद्दिष्टं तु यच् छ्राद्धं तन् नैमित्तिकम् उच्यते । 

तद् अप्य् अदैवकं कार्यम् अयुग्मान् भोजयेद् द्विजान् ॥ 

कामाय विहितं कामी अभिप्रेतार्थसिद्धये । 

पार्वणेन विधानेन तद् अप्य् उक्तं खगाधिप । 

वृद्धौ यत् क्रियते श्राद्धं वृद्धिश्राद्धं तद् उच्यते । 

सर्व प्रदक्षिणं कार्यं पूर्वाह्णे तूपवीतिना । 

गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम् । 

अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ 

ये समाना इति द्वाभ्याम् एतज् ज्ञेयं सपिण्डनम् । 

नित्येन तुल्यं शेषं स्याद् एकोद्दिष्टं स्त्रिया अपि ॥ 

[७] अमावास्यां यत् क्रियते तत् पार्वणम् उदाहृतम् ।

क्रियते वा पर्वणि यत् तत् पार्वणम् उदाहृतम् ॥ 

गोष्ठयां यत् क्रियते श्राद्धं गोष्ठीश्राद्धं तद् उच्यते । 

बहूनां विदुषां सम्पत् सुखार्थं पितृतृप्तये ॥ 

क्रियते शुद्धये यत् तद् ब्राह्मणानां तु भोजनम् । 

शुद्धयर्थम् इति तत् प्रोक्तं वैनतेय मनीषिभिः ॥ 

निषेककाले सोमे च सीमन्तोन्नयने तथा । 

ज्ञेयं पुसंवने चैव श्राद्धं कर्माङ्गम् एव च ॥ 

देवान् उद्दिश्य यच् छ्राद्धं तद् दैविकम् इहोच्यते । 

हविष्येण विशिष्टेन सप्तम्यादिषु यत्नतः ॥ 

गच्छन् देशान्तरं यस् तु श्राद्धं कुर्यात् तु सर्पिषा । 

यात्रार्थम् इति तत् प्रोक्तं प्रवेशे च न संशयः ॥ 

शरीरोपचये श्राद्धम् अर्थोपचय एव च । 

पुष्ट्यर्थम् एतद् विज्ञेयम् औपचारिकम् एव वा ॥ 

“वृद्धिः” पुत्रजन्मादिः । ऽनित्येन तुल्यं शेषं स्यात्" इति तु समन्त्रावश्यकार्यं पार्वणम् एकोद्दिष्टं चाभिमतम् । तेनायम् अर्थः — सपिण्डीकरणस्य चोभयात्मकत्वात् (?) पार्वणांशे पार्वणेन् एकोद्दिष्टांश एकोद्दिष्टेन तुल्यं विशिष्टं अङ्गजातं स्याद् इति । ऽएकोद्दिष्टं स्त्रिया अपि" इति च, अत्रैकोद्दिष्टपदेनैकोद्दिष्टयोगात् सपिण्डीकरणम् एवाभिहितं प्रसङ्गात् स्त्रीसम्बन्धेनापि । ऽक्रियते वा पर्वणि" इत्य् अत्र पर्वशब्दः सङ्क्रान्त्यादिपरः । “गोष्ठी” चात्र श्राद्धकर्तृसमुदायः । ऽसम्पत्सुखार्थऽं श्राद्धसामग्रीसम्पदा यत् सुखं तदर्थं बहूनां विदुषां केनचिन् निमित्तेन युगपच्छ्राद्धे [८] कर्तव्य उपस्थिते पृथक्पाकाद्यसम्पत्तौ सम्भूय श्राद्धसामग्रीसम्पादनेन यच् छ्राद्धं क्रियते तद् गोष्ठीश्राद्धम् इति शङ्खधरः । ऽनिषेककाले सोमे च" इत्यादि श्रौतस्मार्तकर्मोपलक्षणम् । देशान्तरगमने गृहप्रवेशे च यच् छ्राद्धं तत् तीर्थयात्रार्थं देशान्तरगमने तीर्थयात्रां कृत्वा गृहप्रवेशे च बोद्धव्यम्, ऽयो यः कश्चित्" इत्यादिब्रह्मपुराणवचनात् । “शरीरोपचये” शरीरोपचयहेतौ रसायनादौ कर्तव्ये ।

॥ इति श्रीभहृदयधरात्मजमहासान्धिविग्रहिकभट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ श्राद्धकाण्डे श्राद्धभेदाः ॥

[९]

॥ ३ ॥

॥ अथ श्राद्धकालाः ॥

तत्र याज्ञवल्क्यः [१, २१७- २१८]

अमावास्याष्टका वृद्धिः कृष्णपक्षो ऽयनद्वयम् । 

द्रव्यं ब्राह्मणसम्पत्तिर् विषुवत्सूर्यसङ्क्रमः ॥ 

व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।

श्राद्धं प्रति रुचिश् चैव श्राद्धकालाः प्रकीर्तिताः ॥ 

“व्यतीपातः” [योगविशेषः] सूर्याचन्द्रमसोः क्रान्तिसाम्यसमयः । “गजच्छाया” ब्रह्मपुराणोक्ता ।

योगो मघात्रयोदश्योः कुञ्जरच्छायसञ्ज्ञकः । 

भवेन् मघायां संस्थे च शशिन्य् अर्के करस्थिते ॥ इति ।

[१०] विष्णुः [७६, १-२; ७७, १-६]

    अमावायास् तिस्रो ‘ष्टकास् तिस्रो ऽन्वष्टकाः माघी प्रौष्ठपद्यूर्ध्वं कृष्णत्रयोदशी व्रीहियवपाकौ च । इति

	एतांस् तु श्राद्धकालान् वै नित्यान् आह प्रजापतिः । 

	श्राद्धम् एतेष्व् अकुर्वाणो नरकं प्रतिपद्यते ॥ 


    आदित्यसङ्क्रमणम् । विषुवद्द्वयम् । विशेषेणायनद्वयम् । व्यतीपातः । जन्मर्क्षम् । अभ्युदयश् च । 

	एतांस् तु श्राद्धकालान् वै नित्यान् आह" प्रजापतिः । 

	श्राद्धम् एतेषु यद् दत्तं तद् आनन्त्याय कल्पते ॥ 

“माघी” पौर्णमासी, तथैव समुदायप्रसिद्धेः ।

मनुः [३, ११२-११३]

पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये ऽग्निमान् । 

पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥ 

पितॄणां मासिकं श्राद्धम् अन्वाहार्यं विदुर् बुधाः ।

तच् चामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः ॥ 

“पितृयज्ञो” अत्र पिण्डपितृयज्ञः । ऽपिण्डान्वाहार्यकं " पिण्डानाम् अनु पश्चाद् आह्रियते क्रियते यद् दर्शश्राद्धं तत् तथा । ऽमासानुमासिकं " प्रतिमासभवम् । ऽपितॄणां मसिकं " इति । मासिकं दर्शश्राद्धं यत् पिण्डानाम् अनु पश्चाद् आहार्य कर्तव्यं विदुः बुधा इत्य् अर्थः । एतेन पिण्डान्वाहार्यकम् इति सञ्ज्ञाकरणम् । निर्वचनं गुणविधानार्थम् उक्तं भवति । “आमिषेण” प्रशस्तेन खड्गमांसादिना ।

[११] छन्दोगपरिशिष्टे कात्यायनः । [२,८१ - ९२]

पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते । 

वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः ॥ 

यदा चतुर्दशीयामं तुरीयम् अनुपूरयेत् । 

अमावास्या क्षीयमाणा तदैव श्राद्धम् इष्यते ॥ 

यद् उक्तं यद् अहस् त्व् एव दर्शनं नैति चन्द्रमाः । 

तत् क्षयापेक्षया ज्ञेयं क्षीणे राजनि चेत्य् अपि ॥ 

यच् चोक्तं दृश्यमाने ऽपि तच् चतुर्दश्यपेक्षया । 

अमावास्यां प्रतीक्षेत तदन्ते वापि निर्वपेत् ॥ 

अष्टमे ऽंशे चतुर्दश्याः क्षीणो भवति चन्द्रमाः । 

अमावास्याष्टमांशे च पुनः किल भवेद् अणुः ॥

आग्रहायण्य् अमावास्या तथा ज्येष्ठस्य या भवेत् । 

विशेषम् आभ्यां ब्रुवते चन्द्रचारविदो जनाः ॥ 

अत्रेन्दुर् आयप्रहरे ऽवतिष्ठते चतुर्थभागोनकलावशिष्टः । तदन्त एव क्षयम् एति कृत्स्नम् एवं ज्योतिश्चक्रविदो वदन्ति ॥

यस्मिन्न् अब्दे द्वादशैकश् च यव्यस्

	तस्मिंस् तृतीया परिदृश्या न जायते ।

एवं चारं चन्द्रमसो विदित्वा 

	क्षीणे तस्मिन्न् अपराह्णे च दद्यात् ॥ 

सम्मिश्रा या चतुर्दश्या अमावास्या भवेत् क्वचित् । 

खर्वितां तां विदुः केचिद् उपेध्वम् इति चापरे ॥ 

वर्धमानाम् अमावास्यां लक्षयेद् अपरे ऽहनि । 

यामांस् त्रीन् अधिकान् वापि पितृयज्ञस् ततो भवेत् ॥ 

पक्षादाव् एव कुर्वीत सदा पक्षादिकं चरुम् । 

पूर्वाह्न एव कुर्वन्ति विद्धे ऽप्य् अन्ये मनीषिणः ॥ 

**[१२] **“क्षीणे राजनि” क्षीणे सोमे । “तृतीयांशे” त्रिधा विभक्तदिवसतृतीयभागे, अपराह्न इति यावत् । ऽचतुर्दशीयामऽं चतुर्दश्या यामम् । ऽतुरीयऽं चतुर्थम् । “पूरयेत्” अमावास्या क्षीयमाणेति सम्बन्धः । ‘यद् उक्तं यदहस् त्व् एव" इत्यादिना चन्द्रदर्शनश्रुतिविरोधम् आशङ्क्य परीहारः कृतः, अदर्शनस्य क्षयोपलक्षणत्वात् । ‘दृश्यमाने ‘प्य् एकदा" इति गोभिलवचनम् [१,७,९], तद् अपीत्थम्भूतचतुर्दशीविषयम् । “तदन्ते” चतुर्दशीशेषे । यदामावास्या श्राद्धयोग्यकालव्यापिनी न भवति तदायं पक्षो बोद्धव्यः । इतरथा तु प्रथम एव पक्ष- । “अमावास्याष्टमांश” इति, यदामावास्याद्यष्टमो ‘ंशो ऽपराह्नव्यापनयोग्यो भवत्य् अपरदिने तदाप्य् अणुरूपस्य चन्द्रमसो विद्यमानत्वात् क्षयाभावान् न तत्र श्राद्धं कर्तव्यम् । अत एव हेतोर् यत्रामावास्याया न वृद्धिक्षयौ, किं तु विष्टम्भेनोभयदिनयोर् अपराह्णसम्बन्धामावास्यासम्भवस् तदा पूर्वदिन एव श्राद्धं कर्तव्यम् । ‘क्षीणे राजनि शस्यत" इति मनुवचनात् । आग्रहायणज्येष्ठामावास्ययोः तज्ज्योतिःशास्त्रानुसारेण चन्द्रगतिबैलक्षण्यात्, ऽअष्टमे ‘ंशे चतुर्दश्याः क्षीणो भवति" इत्यादिप्रकारस्यासम्भवाद् उत्तरदिन एवास्याष्टमांशे ऽपि श्राद्धं कर्तव्यम् इत्य् अर्थः । ‘तदन्त **[१३] **एव" इति अमावास्यान्त एवेत्य् अर्थः । ऽखर्विताऽं इति निन्दयानुष्ठानाङ्गत्वम् उक्तम् । अपरे तु ताम् एव ऽउपेध्वऽं इति, अर्थानुष्ठानार्थम् उपगच्छतेति मन्यन्ते । एवं हि विकल्पे व्यवस्थाम् आह ऽवर्धमानाऽं इत्यादि । एतेनामावास्यावृद्धिपक्षे चतुर्दशीसम्मिश्रा हेयैव । इतरथा तु क्षीयमाणत्वे स्तम्भे चतुर्दशीमिश्रैव ग्राह्यानुष्टनार्थम् इत्य् उक्तम् ॥ नन्व् एवं वर्धमानामावास्यापक्षे तस्याम् एवामायाम् अनुष्ठेयानुष्ठाने प्रतिपदनुष्ठेयं पक्षादिचरुप्रभृति द्वितीयाविद्धे ऽपि प्रसज्येत । तच् चात्यन्तनिषिद्धम् ।

पर्वणो यश् चतुर्थो ऽंश आद्याः प्रतिपदस् त्रयः । 

यागकालः स विज्ञेयः प्रातर्युक्तो मनीषिभिः ॥ 

इति बोधायनेन्ऐतावत एव कालस्य यज्ञाङ्गत्वेनोक्तत्वात् । द्वितीयाविद्धे ‘एष वै सुमना नामेष्टिः" इत्यादितैत्तिरीयश्रुतौ निन्दावचनाच् च । तत्राह ।

पूर्वा एव कुर्वन्ति विद्धे ऽप्य् अन्ये मनीषिणः । इति । 

अनेनेदम् उक्तं भवति — द्वितीयारहितस्येष्टिकालस्य प्रातर्युक्तस्य प्राप्तौ सत्यां द्वितीयासहितो निन्दितः । अप्राप्तौ स एव यागाङ्गम् इति ॥ अमावास्याप्रसङ्गाद् इदम् उक्तम् ॥ ब्राह्मपुराणे

अमावास्यायां श्रवणं रक्षोघ्नं वैष्णवं यदा । 

तदा पितृभ्यः श्राद्धं तु दत्तम् अक्षय्यम् उच्यते ॥ 

विष्णुपुराणे [३, १४, ७-९; १५-१६] ।

अमावास्या यदा मैत्रविशाखास्वातियोगिनी । 

श्राद्धे पितृगणस् तृप्तिं प्राप्नुयाद् अष्टवार्षिकीम् ॥ 

अमावास्या यदा पुष्ये रौद्रे चर्क्षे पुनर्वसौ । 

द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरो ऽर्चिताः ॥ 

[१४] वासवाजैवापाद् ऋक्षे पितॄणां तृप्तिम् इच्छताम् ।

वारुणेन त्व् अमावास्या देवानाम् अपि दुर्लभा ॥ 

माघासिते पञ्चदशी कदाचिद् 

	उपैति योगं यदि वारुणेन । 

ऋक्षेण कालः स परः पितॄणां 

	न ह्य् अल्पपुण्यैर् नृप लभ्यते ऽसौ ॥

काले धनिष्ठा यदि नाम तस्मिन् 

	भवेत् तु भूपाल तदा पितृभ्यः । 

दत्तं जलान्नं प्रददाति तृप्तिं 

	वर्षायुतं तत्कुलजैर् मनुष्यैः ॥ 

तत्रैव चेद् भाद्रपदास् तु पूर्वाः 

	काले यदा तत् क्रियते पितृभ्यः । 

श्राद्धं परां तृप्तिम् उपेत्य तेन 

	युगं सहस्रं पितरः स्वपन्ति ॥ 

ऽमैत्रं " अनूराधा । ऽरौद्रऽं आर्द्रा । ऽवासवऽं धनिष्ठा । “अजैकपात्” पूर्वभाद्रपदा । ऽवारुणऽं शतभिषक् । कात्यायनः

    श्रद्धायुतं श्राद्धं कुर्वीत शाकेनापि । नापरपक्षम् अतिक्रमेत् । मासि मासि चोशनम् इति श्रुतिः ॥ 

बैजवापः

कृष्णपक्षे श्राद्धं कुर्वीतानं संस्कृत्य । 

“संस्कृत्य” पक्त्वा ।

मनुः [३, २७६, २७८]

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । 

श्राद्धे प्रशस्तास् तिथयो यथैता न तथेतराः ॥ 

यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते । 

तथा श्राद्धस्य पूर्वाह्णाद् अपराह्नो विशिष्यते ॥ 

[१५] ब्रह्मपुराणे

पयोमूलफलैः शाकैः कृष्णपक्षे च सर्वदा । 

पराधीनः प्रवासी वा निर्धनो वापि मानवः ॥ 

मनसा भावशुद्धेन श्राद्धे दद्यात् तिलोदकम् । 

नाश्नन्ति पितरश् चेति कृत्वा हव्यमले तु यः ॥ 

न तर्पयति तान् भक्त्या देहात् तद्रुधिरं बत । 

पिबन्ति सर्वनाशं च कुर्वन्त्य् अनु पदे पदे ॥ 

तस्माद् भयेन च पितॄंस् तर्पयेत् सततं बुधः ॥ 

यमः

पक्षान्ते निर्वपेत् तेभ्यो अपराह्णे च वेदवित् । 

अपां समीपे दूर्वासु दर्भेषु सिकतासु च ॥ 

“तेभ्यः” पितृभ्यः, ऽपितरो ऽस्य न गृह्णन्ति " इत्य् अत्रैव प्रकरणे यमेनोक्तत्वात् । “दर्भेषु” दर्भमयदेशेषु । एवं दूर्वादिष्व् अपि ।

तथा

आषाढ्याम् अथ कार्त्तिक्यां माघ्यां त्रीन् पञ्च वा द्विजान् । 

तर्पयेत् पितृपूर्वं तु तद् अस्याक्षय्यम् उच्यते ॥ 

अस्यार्थः — श्राद्धं कृत्वा पुनस् त्रीन् पञ्च वा विप्रान् पृथग् एव भोजयेत्, तद् अक्षय्यफलं भवति ॥ गौतमः [१५, १–४]

    अथ श्राद्धम् अमावास्यायां पितृभ्यो दद्यात् । पञ्चमीप्रभृति वापरपक्षस्य यथा श्राद्धम् । सर्वस्मिन् वा द्रव्यदेशब्राह्मणसन्निधौ । कालनियमः शक्तितः ॥ 

[१६] यो ऽयम् अमावास्यादिकालनियम उक्तः शक्तस्य द्रव्यादियोगिनो अरोगिणो

बोद्धव्यम् । असामर्थ्ये तु तदकरणे ऽपि न प्रत्यवैति ॥ 

वसिष्ठः [११, ४३] ।

श्रावण्याग्रहायिण्योश् चान्वष्टक्यां च पितृभ्यो दद्यात् । 

निगमः

    आहिताग्नेः पित्रर्चनं पिण्डैर् एव ब्राह्मणान् अपि वा भोजयेत् पूर्वश्रुतेः । अपरपक्षे यदहः सम्पद्येत । अमावास्यायां तु विशेषेणाष्टकातीर्थतिथिद्रव्यब्राह्मणसम्पत्सु चिकीर्षेत ॥

ब्रह्माण्डपुराणे

कन्यां गते सवितरि यान्य् अहानि तु षोडश । 

क्रतुभिस् तानि तुल्यानि तेषु दत्तम् अथाक्षयम् ॥ 

तथा

अश्वयुक् कृष्णपक्षे तु श्राद्धं कार्यं दिने दिने । 

त्रिभागहीनं पक्षं वा त्रिभागं त्व् अर्धम् एव वा ॥ 

श्यामाकैस् तु विशेषेण प्रसिद्धैस् तत्पितृप्रियैः । 

‘दिने दिने" प्रतिदिनम्, सकल एव पक्ष इत्यर्थः । ऽत्रिभागहीनऽं पञ्चमीम् आरम्येत्य् अर्थः ॥ ऽत्रिभागऽं दशमीम् आरभ्य । ऽअर्धऽं पक्षस्याष्टमीम् आरभ्येत्य् अर्थः ।

तथा

यावच् च कन्यातुलयोः क्रमाद् आस्ते दिवाकरः । 

तावच् छ्राद्धस्य कालः स्याच् छून्यं प्रेतपुरं तदा ॥ 

**[१७] **‘तावच्च् ह्राद्धस्य कालः" इति, यस्य कुतश्चिन् निमित्तात् कन्यागतापरपक्षे श्राद्धं न निष्पन्नम्, तं प्रति यावत् तुलास्थः सविता तावान् श्राद्धकालो विहित इत्य् अर्थः ।

भविष्यपुराणे

येयं दीपान्विता राजन् ख्याता पञ्चदशी भुवि । 

तस्यां दद्यान् न चेद् दत्तं पितॄणां तु महालये ॥ 

“महालये” कन्यागतापरपक्षे । ब्रह्मपुराणे

श्राद्धं विषुवतोः कुर्यात् तथा चायनयोर् द्वयोः । 

दिनलोपे व्यतीपाते ग्रस्तयोश् चन्द्रसूर्ययोः ॥ 

“दिनलोपः” यस्मिन्न् अहोरात्रे दिनत्रयस्पर्शः ।

तथा

युगाद्येषु युगान्तेषु श्राद्धम् अक्षयम् उच्यते ॥ 

वायुपुराणे

पित्र्यदानाय मूले स्यूर् अष्टकास् तिस्र एव च । 

कृष्णपक्षे वरिष्ठा हि पूर्वा चैन्द्रीति भाष्यते ॥ 

प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेविकी । 

आद्या यूपैः सदा कार्या मांसैर् अन्या भवेत् तथा ॥ 

शाकैः कार्या तृतीया स्याद् एष द्रव्यगतो विधिः । 

अन्वष्टका पितॄणां वै नित्यम् एव विधीयते ॥ 

या चाप्य् अन्या चतुर्थी स्यात् तां च कुर्याद् विशेषतः । 

आसु श्राद्धं च यः कुर्यात् सर्वस्वेनापि नित्यशः ॥ 

क्षिप्रं प्राप्नोति श्रेयांसि परत्रेह च मोदते । 

पितरः पर्वकालेषु तिथिकालेषु देवताः ॥ 

सर्वे गृहस्थम् आयान्ति निपानम् इव धेनवः । 

यस्य ते प्रतिगच्छेयुर् अष्टकासु ह्य् अपूजिताः ॥ 

मोघास् तस्य भवन्त्य् आशाः परत्रेह च नित्यशः ॥ 

**[१८] **“मूले” आदौ, प्रधानस्थान इति यावत् । अष्टकायास् तिथिपर्वोभयरूपत्वात् देवपितृपूजावश्यं कर्तव्या ।

ब्रह्मपुराणे

ऐन्द्रयां तु प्रथमायां तु शाकैः सन्तर्पयेत् पितॄन् । 

प्राजापत्यां द्वितीयायां मासैः शुद्धैश् च तर्पयेत् ॥ 

वैश्वदेव्यां तृतीयायाम् अपूपैश् च यथाक्रमम् । 

वर्षासु मेध्यशाकैस् तु चतुर्थ्याम् एव सर्वदा ॥ 

“शुद्धैः” प्रशस्तैः । अत्र च शाकादिविकल्पः शाखाभेदव्यवस्थितः ॥

देवलः

अयुग्मास् तिथयः सर्वा युग्माभ्यः प्रतिपूजिताः । 

कालतः पूजितौ मासौ माघप्रोष्ठपदाव् उभौ ॥ 

पक्षयोः शुक्लपक्षाद् धि बहुलः श्राद्धपूजितः । 

उक्ता तिथिपरीक्षेयं नक्षत्रेषु प्रचक्षते ॥ 

उत्तराः श्रवणस् तिष्यो मृगशीर्षं प्रजापतिः । 

हस्तः शतभिषक् स्वातिश् चित्रा पित्र्यम् अथाश्विनम् ॥ 

नक्षत्राणि प्रशस्तानि सदैतानि तु पैतृके । 

अपराणि च नक्षत्राण्य् उच्यन्ते कारणैः क्वचित् ॥ 

यस्मिन् गुणोदितं विप्रं पात्रभूतम् अवाप्नुयात् । 

श्राद्धस्य पूजितः कालः भवेत् स एव वा पुनः ॥ 

ऽउत्तराः " तिस्रः । “प्रजापतिः” प्रजापतिदैवत्या रोहिणी । ऽपित्र्यऽं मघा । ऽआश्विनऽं अश्विनी । “अपराणि” धनिष्ठादीनि । “कारणैः” माघपञ्चदशीयोगादिभिः ॥

हारीतः

तीर्थे द्रव्योपपत्तौ तु न कालम् अवधारयेत् । 

पितॄणाम् अतिरेको ऽयं मासि कार्यो ध्रुवः स्मृतः ॥ 

[१९] पात्रं वा ब्राह्मणं प्राप्य सद्यः श्राद्धं विधीयते ।

अष्टका ये चाभ्युदयास् तीर्थयात्रोपपत्तयः ॥ 

‘न कालम वधारयेत्" अमावास्यापराह्णादिकं न प्रतीक्षेतेत्य् अर्थः । “अतिरेकः” अधिकः अष्टकादिर् अपि, ऽध्रुवः " आवश्यक इत्य् अर्थः । “अष्टका” इत्यादि, मासि कार्या अमावास्याश्राद्धादयः ।

पैठीनसिः

कः श्राद्धकालो देशो द्रव्यं द्विजातय इति ॥ 

“देशो” वाराणसी । द्रव्यऽं खड्गमांसादि । “द्विजातिः” पङ्क्तिपावनादिः ।

शातातपः

नवोदके नवान्ने च गृहप्रच्छादने तथा । 

पितरस् त्व् ईहयन्त्य् अन्नम् अष्टकासु मघासु च । 

तस्माद् दद्यात् सदा युक्तो विद्वत्सु ब्राह्मणेषु च ॥ 

“नवोदके” वर्षादौ । “ब्राह्मणेषु” प्राप्तेष्व् इति शेषः ।

मनुः । [३, २७३ - २७४]

यत्किचिन् मधुना मिश्रं प्रदद्यात् तु त्रयोदशीम् । 

तद् अप्य् अक्षयम् एव स्याद् वर्षासु च मघासु च ॥ 

अपि नः स कुले भूयाद् यो नो दद्यात् त्रयोदशीम् । 

पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य तु ॥ 

ऽप्राक्छाये कुञ्जरस्य" प्राच्यां दिशि गतायां हस्तिच्छायायाम् ॥

वसिष्ठः [११, ३९ - ४० ] ।

पिता पितामहश् चैव तथैव प्रपितामहः । 

उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥ 

[२०] मधुमांसैश् च शालैश् च पयसा पायसेन च ।

एष नो दास्यति श्राद्धं वर्षासु च मघासु च ॥ 

शङ्खलिखित-यमाः

पिता पितामहश् चैव तथैव प्रपितामहः । 

जातं पुत्रं प्रशंसन्ति पिप्पलं शकुना इव ॥ 

मधुमांसेन खड्गेन पयसा पायसेन वा । 

एष दास्यति नस् तृप्तिं वर्षासु च मघासु च ॥ 

विष्णुः [ ७८, ५२ - ७३] ।

[अपि] पितृगीते गाथे भवतः । 

अपि जायेत सो" स्माकं कुले कश्चिन् नरोत्तमः । 

प्रावृट्काले ऽसिते पक्षे त्रयोदश्यां समाहितः ॥ 

मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् । 

कार्तिकं सकलं वापि प्राक्छाये कुञ्जरस्य वा ॥ 

पैठीनसिः

छागेन सर्वलोहेन वर्षासु च मघासु च । 

पुत्रो वा यदि वा पौत्रो यो नो दद्यात् त्रयोदशीम् ॥ 

इति पितरः समुदीक्षन्ते ॥ “सर्वलोहेन” सर्वतो लोहितवर्णेन छागेनेत्य् अर्थः ॥

तथा हविष्यप्रस्तावे देवलः

छागो वा सर्वलोहितः । इति ॥ 

याज्ञ्वल्क्यः [१, २६१] ।

यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् उच्यते । 

तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ 

शङ्खः

पौष्ठपद्यां अतीतायां मघायुक्तां त्रयोदशीम् । 

प्राप्य श्राद्धं हि कर्तव्यं मधुना पायसेन च ॥ 

[२१] ब्रह्मपुराणे

आश्वयुज्यां च कृष्णायां त्रयोदश्यां मघासु च । 

प्रावृडृअतौ यमः प्रेतान् पितॄंश् चाथ यमालयात् ॥ 

विसर्जयति मानुष्ये कृत्वा शून्यं स्वकं पुरम् । 

क्षुधार्ताः कीर्तयन्तश् च दुष्कृतं च स्वयं कृतम् ॥ 

काङ्क्षन्तः पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् । 

तस्मात् तां तत्र विधिना तर्पयेत् पायसेन तु ॥ 

मध्वाज्यतिलमिश्रेण तथा शीतेन चाम्भसा । 

ग्रासमात्रं परगृहाद् व्यक्तं यः प्राप्नुयान् नरः ॥ 

भिक्षामात्रेण यः प्राणान् सन्धारयति वा स्वयम् । 

यो वा संवर्धयेद् देहं प्रत्यहं स्वात्मविक्रयात् ॥ 

श्राद्धं तेनापि कर्तव्यं तैस् तैर् द्रव्यैः सुसञ्चितैः । 

त्रयोदश्यां प्रयत्नेन वर्षासु च मघासु च ॥ 

नास्मात् परतरः कालः श्राद्धेष्व् अन्यत्र विद्यते । 

यत्र साक्षात् तु पितरो गृह्णन्त्य् अमृतम् अक्षयम् ॥ 

अत्र च त्रयोदशीविषयान् एकवाक्यपर्यालोचनया प्रोष्ठपद्यूर्ध्वं कृष्णत्रयोदश्यां पुत्रिणापुत्रिणा वा पिण्डसहितश्राद्धम् एवावश्यं कर्तव्यम् इति गम्यते । मघायुक्तायां तु तस्याम् एव ज्येष्ठपुत्रवता पिण्डरहितं श्राद्धं कर्तव्यम् । कन्यागतापरपक्षाधिकारे—

तत्रापि महती पूजा कर्तव्या पितृदैवते । 

ऋक्षे पिण्डप्रदानं तु ज्येष्ठपुत्रो विवर्जयेत् ॥ 

इति देवीपुराणवचनात् । यत् तु ऽयुवमारिणश् च भवन्ति" इत्यादिनिन्दाश्रवणं तद् वक्ष्यमाणत्रयोदश्युपविद्धकाम्यश्राद्धप्रयोगविषयम् ॥

[२२] पार्वणश्राद्धविध्यनन्तरं मनुः [६, २८९ - २८२] ।

अनेन विधिना श्राद्धं त्रिरब्दस्येह निर्वपेत् । 

हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकम् अन्वहम् ॥ 

न पैतृकयज्ञिको होमो लौकिके ऽग्नौ विधीयते । 

न दर्शेन विना श्राद्धम् आहिताग्नेर् द्विजन्मनः ॥ 

“त्रिरब्दस्य” संवत्सरे वारत्रयम् । अयं च साग्निनिरग्निसाधारणः । संवत्सरमध्ये यद् अवश्यकर्तव्यत्वेनोक्तं पार्वणश्राद्धं कुतश्चिद् द्रव्याद्यसम्भवादेर् निमित्ताद् असम्पत्ताव् अनुकल्पः । पाञ्चयज्ञिकं तु पञ्चयज्ञान्तर्गतश्राद्धं यत् तत् प्रतिदिनम् उदकादिनापि कर्तव्यम् । अत एव पार्वणश्राद्धम् अभिधाय देवलेनापि —

एतेन विधिना श्राद्धं कुर्यात् संवत्सरं क्वचित् । 

द्विश् चतुर् वा यथाश्राद्धं मासे मासे दिने दिने ॥ 

इति शक्तिसम्भवासम्भवतारतम्येन बहवः कल्पाः प्रदर्शिताः । हेमन्तग्रीष्मवर्षासु त्रिर् अनुष्ठीयमानं श्राद्धं कन्याकुम्भवृषस्थे ऽर्के यस्यां कस्यां च तिथौ कर्तव्यम् । आहिताग्निनापि तु तत्रापि दर्श एव । यस्मात् श्राद्धाङ्गपैतृयज्ञिकशब्दोपात्ताग्नौ करणहोमाङ्गभूतो दक्षिणाग्निर् न दर्शव्यतिरेकेणान्यद् अस्ति । निमित्तान्तरात् त [तु] यद् अष्टकादिश्राद्धं तद् यतः कुतश्चिद् विपाण्यादि निष्पाद्याग्नौ करणाङ्गम् एव कार्यम् ॥

देवलः

मानवः श्राद्धकल्पोऽयं मनुना समुदाहृतः ।

बहुपिण्डाष्टकासु स्याद् एकपिण्डा तु नाष्टका ॥ 

एतेन विधिना श्राद्धं कुर्यात् संवत्सरं सकृत् । 

द्विश् चतुर् वा यथाश्राद्धं मासे मासे दिने दिने ॥ 

यमः

राहुदर्शनदत्तं हि श्राद्धम् आनन्त्यम् उच्यते ॥ 

[२३] विष्णुः [७७, ८- ९] ।

सन्ध्यारात्र्योर् न कर्तव्यं श्राद्धं खलु विचक्षणैः । 

तयोर् अपि च कर्तव्यं यदि स्याद् राहुदर्शनम् ॥ 

राहुदर्शनदत्तं हि श्राद्धम् आचन्द्रतारकम् । 

गुणवत्सर्वकामो ऽयं पितॄणाम् उपतिष्ठते ॥ 

शातातपः

रात्रौ श्राद्धं न कुर्वीत राहोर् अन्यत्र दर्शनात् ।

सन्ध्ययोर् उभयोश् चैव न कुर्वीत कदाचन ॥ 

आपस्तम्बः [१,१६,२३-२४] ।

न च नक्तं श्राद्धं कुर्वीतान्यत्र राहुदर्शनात् ॥ 

मनुः [३,२८० ] ।

रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा । 

सन्ध्ययोर् उभयोश् चैव सूर्ये चैवाचिरोदिते ॥ 

[२४]

॥ ४ ॥

॥ अथ काम्यश्राद्धकालाः ॥

तत्र कात्यायनः

    अथ काम्यानि भवन्ति । स्त्रियः प्रतिपदि । द्वितीयायां स्त्रीजन्म । अश्वास् तृतीयायाम् । चतुर्थ्यां क्षुद्रपशवः । पुत्राः पञ्चम्याम् । षष्ठ्यां द्यूतऋद्धिः । कृषिः सप्तम्याम् । अष्टम्यां वाणिज्यम् । एकशफं नवम्याम् । परिचारिका एकादश्याम् । द्वादश्यां धनधान्यम् । कुप्यं ज्ञातिश्रैष्ठयं त्रयोदश्याम् । युवानस् तस्मिन् म्रियन्ते शस्त्रहतस्य चतुर्दश्याम् । अमावास्यायां सर्वम् ॥ 

मनुः

कुर्वन् प्रतिपदि श्राद्धं सुरूपांल् लभते सुतान् । 

कन्यकास् तु द्वितीयायां तृतीयायां तु वन्दिनः ॥ 

पशून् क्षुद्रांश् चतुर्थ्यां तु पञ्चम्यां शोभनान् सुतान् । 

षष्टयां द्यूतं कृषिं चापि सप्तम्यां लभते नरः ॥ 

अष्टम्याम् अपि वाणिज्यं लभते श्राद्धदः सदा । 

स्यान् नवम्याम् एकखुरं दशम्यां द्विखुरं बहु ॥ 

एकादश्यां तथा ऋद्धिं ब्रह्मवर्चस्विनः सुतान् । 

द्वादश्यां जातरूपं च रजतं कुप्यम् एव च ॥ 

[२५] ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु सुप्रजाः ।

प्रीयन्ते पितरश् चास्य ये शस्त्रेण हता रणे ॥ 

पक्षत्यादिषु निर्दिष्टान् विपुलान् मनसः प्रियान् । 

श्राद्धदः पञ्चदश्यां तु सर्वान् कामान् समश्नुते ॥ 

“वन्दिनः” स्तावकान् । सद्यो भवतीति यावत् । ऽद्यूतऽं द्यूतजयम् । ऽकुप्यऽं सुवर्णरजतातिरिक्तं ताम्रादिधनम् । “पक्षत्यादि” इति, पक्षतिः प्रतिपत्, प्रतिपदादितिथिफलं शोभनम् अमावास्यायाम् इत्य् अर्थः ।

आपस्तम्बः [२,१६, ६-२१]

    सर्वेश्व् एवापरपक्षस्याहःसु क्रियमाणे पितॄन् प्रीणाति । कर्तुस् तु कालाभिनियमात् फलविशेषः । प्रथमे ऽहनि क्रियमाणे स्त्रीप्रायम् अपत्ये जायते । द्वितीये स्तेनाः । तृतीये ब्रह्मवर्चस्विनः । चतुर्थे क्षुद्रपशुमान् । पञ्चमे पुमांसो बह्वपत्यो न चानपत्यः प्रमीयते । षष्ठे ऽध्वशीलो ऽक्षशीलः । सप्तमे कर्षे राद्धिः । अष्टमे पुष्टिः । नवम एकखुराः । दशमे व्यवहारे राद्धिः । एकादशे कृष्णायसत्रपुसीसम् । द्वादशे पशुमान् । त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यो युवमारिणः [भवन्ति] । चतुर्दश आयुधे राद्धिः । पञ्चदशे पुष्टिः ॥ 

ऽसततं श्राद्धं कुर्वन्न् आप्नोति” इत्यधिकारे — [२६]

विष्णुः [७८,३६–५०] ।

    गृहेष्व् अभिरूपाः स्त्रियः प्रतिपदि । कन्यां वरदां द्वितीयायाम् । सर्वान् कामांस् तृतीयायाम् । यशश् चतुर्थ्याम् । [सुरूपान् सुतान् ] पञ्चम्याम् । द्यूतविजयं षष्ठ्याम् । कृषिं सप्तम्याम् । वाणिज्यम् अष्टम्याम् । पशून् नवम्याम् । वाजिनो दशम्याम् । पुत्रान् ब्रह्मवर्चस्विन एकादश्याम् । कनकरजते द्वादश्याम् । सौभाग्यं त्रयोदश्याम् । सर्वान् कामान् पञ्चदश्याम् । शस्त्रहतानां श्राद्धकर्मणि चतुर्दशी शस्ता ॥ 

‘श्राद्धं कुर्याद्" इत्यधिकारे —

हारीतः

    पञ्चमीं पुत्रकामः । षष्ठीं धनकामः । सप्तमीं पशुकामः । अष्टमीं शस्त्रहतानाम् आरोग्यकामः । नवमीं सेनाम् अभिजेतुकामः । दशमीम् अन्नकामः । एकादशीं वृद्धिकामः । द्वादशीं श्रीकामः । त्रयोदशीं यशस्कामः । चतुर्दशीं भूतिकामः स्वस्तिकामो वा । अमावास्यां सर्वकामः ॥ 

पैठीनसिः

    पञ्चम्यां पुत्रकामो यजेत । षष्ठ्यां पशुकामः । सप्तम्यां वृद्धिकामः । अष्टम्याम् अन्नाद्यकामः । नवम्यां ब्रह्मवर्चसकामः । दशम्यां सर्वकामः । एकादश्यां धनकामः । द्वादश्यां क्षेत्रकामः । त्रयोदश्यां स्त्रीवशित्वम् । चतुर्दश्यां शस्त्रेण हतानाम् । सर्वकामो ऽमावास्यायाम् ॥ 

[२७] ब्रह्मपुणे

श्राद्धं तु पौर्णमास्यां च कृत्वा पूर्णफलं लभेत् । 

प्रतिपद्य् अर्थलाभाय द्वितीयार्थाय चापरा ॥

तृतीयायां वरार्थाय शत्रुनाशय [-शाय?] चापरे । 

पञ्चम्यां धनलाभाय श्राद्धं कुर्यात् प्रयत्नतः ॥ 

षष्ठ्यां तु बालरक्षार्थं सप्तम्यां बन्धुवृद्धयोः । 

वृद्धिकामस् तथाष्टम्यां स्त्रीकामो नवमे ऽहनि ॥ 

दशम्यां ब्रह्मतेजोऽर्थी सन्तत्यर्थी तथापरे । 

द्वादश्यां जयलाभाय त्रयोदश्यां विभूतये ॥ 

प्रायानशनशस्त्राग्निविषोद्बन्धकिनां तथा । 

चतुर्दश्यां तु कर्तव्यं तृप्त्यर्थम् इति निश्चयः ॥ 

अमावास्यां तु स्वर्गाय भक्त्या सन्तर्पयेत् पितॄन् ॥ 

अत्र च यत् तिथिफलनानात्वं तद् अधिकारिभेदेन बोद्धव्यम् । यत्र च स्तैन्ययुवमारित्वादिर् अपत्यदोषः श्रूयते, तत्राप्य् अनपत्यतया तद्द्वेषसहितापत्यमात्रार्थिनो ऽधिकारः ॥

मनुः [३, २७७] ।

युक्षु कुर्वन् दिनक्षेषु सर्वान् कामान् समश्नुते । 

अयुक्षु तु पितृन् अर्चन् प्रजां प्राप्नोति पुष्कलाम् ॥ 

यमः

युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् अवाप्नुयात् । 

गजच्छायां पितॄन् अर्चन् प्रजां प्राप्नोति पुष्कलाम् ॥ 

[२८] याज्ञवल्यः [९, २६५-२६८] ।

स्वर्गं ह्य् अपत्यम् ओजश् च शौर्य क्षेत्रं बलं तथा । 

पुत्रं श्रैष्ठ्यं ससौभाग्यं समृद्धिं मुख्यतां शुभान् ॥

प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतींस् तथा । 

अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥ 

धनं विद्यां भिषक्सिद्धिं कुप्यं गा अप्य् अजाविक्म् । 

अश्वान् आयुश् च विधिवद् यः श्राद्धं सम्प्रदास्यति ॥ 

कृत्तिकादिभरण्यन्तं स कामान् आप्नुयाद् इमान् । 

आस्तिकः श्रद्दधानश् च व्यपेतमदमत्सरः ॥

“प्रवृत्तचक्रता” सर्वदाप्रतिहताज्ञाशालिता ।

विष्णुः [ ७८, १-३७] ।

    सततम् आदित्यदिने श्राद्धं कुर्वन्न् आरोग्यम् आप्नोति । सौभाग्यं चान्द्रे । समरविजयं कौजे । सर्वान् कामान् बौधे । विद्याम् अभीष्टां जैवे । धनं शौक्रे । जीवितं शनैश्वरे । स्वर्गं कृत्तिकासु । अपत्यं रोहिणीषु । ब्रह्मवर्चसं सौम्ये । १ कर्मणां सिद्धिं रौद्रे । भुवं पुनर्वसौ । पुष्टिं पुष्ये । श्रियं सार्पे । सर्वान् कामान् पैत्र्ये । सौभाग्यं भाग्ये । धनम् आर्यम्णे । ज्ञातिश्रैष्ठ्यं हस्ते । सुरूपवतः स्रुतांस् त्वाष्ट्रे । वाणिज्यसिद्धिं स्वातौ । कनकं विशाखासु । मित्राणि मैत्रे । राज्यं शाक्रे । कृषिं मूले । समुद्रयानशिद्धिम् आप्ये । सर्वान् कामान् वैश्वदेवे । श्रैष्ठयम् अभिजिति । सर्वान् श्रवणे । लवणं वासवे । आरोग्यं वारुणे । कुप्यद्रव्यम् आजे । गृहम् आहिर्बुध्न्ये । गाः पौष्णे । तुरगान् आश्विने । जीवितं याम्ये । 

[२९] ब्रह्मपुराणे

अश्विन्यां प्राप्नुयाद् अश्वान् भरण्याम् आयुर् उत्तमम् । 

कृत्तिकायां विज्वरत्वं श्राद्धकृत् समवाप्नुयात् ॥ 

प्राजापत्ये प्रजां पुष्टिं सौमे चौजः सुशोभनम् । 

आर्द्रायां क्रूरसिद्धिं तु पुत्रान् चेष्टान् पुनर्वसौ ॥ 

तिष्ये सुतान् वीरधर्मान् सार्पे च लभते धनम् । 

ज्ञातिश्रैष्ठ्यं मघास्व् एव भाग्ये सौभाग्यम् उत्तमम् ॥ 

दानशक्तिम् अथार्यम्णे हस्ते श्रैष्ठ्यं महर्द्धिमत् । 

त्वाष्ट्रे दुहितरं पुण्यं स्वातौ वाणिज्यम् उत्तमम् ॥ 

विशाखायां शुभान् पुत्रान् मैत्रे चात्याहतां गतिम् । 

आधिपत्यं तु ज्येष्ठायां मूले चारोग्यम् उत्तमम् ॥ 

आषाढासु यशोलाभम् उत्तरासु विशोकताम् । 

श्रवणेन गतिं पुण्यां धनिष्ठासु धनं बहु ॥

वारुणेन कृषेर् वृद्धिं विशाखे चाविकं बहु । 

बह्वीर् गाश् चोत्तरायां च पौष्णे कुप्यं महानिधिम् ॥ 

इति सञ्चिन्त्य योगेन विधिना साधयेच् च यत् । 

स तस्मिन् दिवसे श्राद्धे भक्त्या सन्तर्पयेत् पितॄन् ॥ 

[३०]

॥ ५ ॥

॥ अथ श्राद्धदेशाः ॥

तत्र विष्णुः [८५, १-६७] ।

    अथ पुष्करेष्व् अक्षयं श्राद्धम् । जपहोमतपांसि च । पुष्करे स्नातमात्रः सर्वपापेभ्यः पूतो भवति । एवम् एव गयाशीर्षे । वटे । अमरकण्टके । वराहपर्वते । यत्र क्वचन नर्मदातीरे । यमुनातीरे । गङ्गायां विशेषतः । कुशावर्ते । [बिन्दुके] बिल्वके । नीलपर्वते । कनखले । कुब्जाम्रे । भृगुतुङ्गे । केदारे । महालये । नडन्तिकायाम् । सुगन्धायाम् । शाकम्भर्याम् । फल्गुतीर्थे । महागङ्गायाम् । तण्डुलिकाश्रमे [ त्रिहलिकाश्रमे ] । कुमारधारायाम् । प्रभासे । यत्र क्वचन सरस्वत्यां विशेषतः । 

[३१] गङ्गातीरे प्रयागे च सरस्वत्यां विशेषतः ।

	सततं नैमिषारण्ये वाराणस्यां विशेषतः ॥ 


    अगस्त्याश्रमे । कण्वाश्रमे । कौशिक्याम् । सरयूतीरे । शोणस्य ज्योतिषायाश् च सङ्गमे । श्रीपर्वते । कालोदके । उत्तरमानसे । [ वडवायाम्। ] मतङ्गवाप्याम् । सप्तार्षे । विष्णुपदे । स्वर्गमार्गपदे । गोदावर्याम् । [ गोमत्याम् ॥] वेत्रवत्याम् । [विपाशायाम् । वितस्तायाम् ॥] शतद्रुतीरे । चन्द्रभागायाम् । ईरावत्याम् । सिन्धोस् तीरे । दक्षिणे पञ्चनदे । औसजे । एवमादिष्व् अन्येषु तीर्थेषु । सरिद्वरासु । सर्वेष्व् अपि सङ्गमेषु । प्रभवेषु । पुलिनेषु । प्रस्रवणेषु । पर्वतेषु । निकुञ्जेषु । वनेषु । उपवनेषु । गोमयेनोपलिप्तगृहेषु । मनोज्ञेषु । अत्र च पितृगीता गाथा भवन्ति । 


    	कुले ऽस्माकं स जन्तुः स्याद् यो नो दद्याज् जलाञ्जलीन् । 


    	नदीषु बहुतोयासु शीतलासु विशेषतः ॥ 


    	अपि जायेत सो ऽस्माकं कुले कश्चिन् नरोत्तमः । 


    	गयाशीर्षे वटे श्राद्धं यो नः कुर्यात् समाहितः ॥ 


    	एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् । 


    	यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत् ॥ 

“प्रभवेषु” नदीनाम् उत्पत्तिदेशेषु, ऽसरिद्वरासु, सङ्गमेषु" इति प्रस्तुत्य “प्रभवेषु” इत्यभिधानात् । ऽपुलिनऽं नदीतोयोत्थितः प्रदेशः । ऽप्रस्रवणऽं निर्झरः । “निकुञ्जो” लतादिवेष्टितप्रदेशः । ऽउपवनऽं गृहवाटिका । ऽमनोज्ञऽं रमणीयम् ।

शङ्खः

यद् ददाति गयास्थश् च प्रभासे पुष्करेषु च । 

प्रयागे नैमिषारण्ये सर्वम् आनन्त्यम् उच्यते ॥ 

[३२] गङ्गायमुनयोस् तीरे पयोष्ण्यमरकण्टके ।

नर्मदाबाहुदातीरे सर्वम् आनन्त्यम् उच्यते ॥ 

कुरूणां च कुरुक्षेत्रे भृगुतुङ्गे हिमालये । 

सप्तर्षे वृष्णिकूपे च दत्तम् अक्षयम् उच्यते ॥ 

देवलः

श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती । 

कुरुक्षेत्रं प्रयागश् च नैमिषं पुष्कराणि च ॥ 

नदीतटेषु तीर्थेषु शैलेषु पुलिनेषु च ।

विविक्तेषु च तुष्यन्ति दत्तेनेह पितामहाः ॥

ऽविविक्तं " विजनम् ॥

बृहस्पतिः [ श्राद्ध, ६६-६७, ५१] ।

काङ्क्षन्ति पितरः पुत्रान् नरकापातभीरवः । 

गयां यास्यति यः कश्चित् सो ऽस्मान् सन्तारयिष्यति ॥ 

करिष्यति वृषोत्सर्गम् इष्टापूर्तं तथैव च । 

पालयिष्यति वार्धक्ये श्राद्धं दास्यति चान्वहम् ॥ 

गयायां धर्मपृष्ठे च सरसि ब्रह्मणस् तथा । 

गयाशीर्षे ऽक्षयवटे पितॄणां दत्तम् अक्षयम् ॥ 

ब्रह्मारण्यं धर्मपृष्ठं धेनुकारण्यम् एव च । 

दृष्ट्वैतानि पितॄंश् चार्च्य वंशान् विंशतिम् उद्धरेत् ॥ 

[३३] वायुपुराणे [ ७७, ९६ ९९, १०१-१०६, १०८-१०९] ।

गयायां धर्मपृष्ठे च सरसि ब्रह्मणस् तथा । 

गयागृध्रवटे चैव श्राद्धं दत्तं महाफलम् ॥ 

भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर् वृते । 

मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ॥ 

ख्यापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनम् । 

एवं पञ्चवनं पुण्यं पुण्यकृद्भिर् निषेवितम् ॥ 

यस्मिन् पाण्डुविशालेति तीर्थं सद्यो निदर्शनम् । 

तृतीयायां तथा पादे निश्चीवायाश् च मण्डले ॥ 

महाह्रदे च कौशिक्यां दत्तं श्राद्धं महाफलम् । 

मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥ 

बहून् वर्षगणांस् तप्त्वा तपस् तीर्थेषु दुश्चरम् । 

अल्पेनाप्य् अत्र कालेन नरो धर्मपरायणः ॥

पाप्मानम् उत्सृजत्याशु जीर्णां त्वचम् इवोरगः । 

नाम्ना कनकनन्देति तीर्थं जगति विश्रुतम् । 

उदीच्यां मुण्डपृष्ठस्य ब्रह्मर्षिगणसेवितम् ॥ 

तत्र स्नात्वा दिवं याति स्वशरीरेण मानवः । 

दत्तं चापि सदा श्राद्धम् अक्षयं समुदाहृतम् ॥ 

स्नात्वा ऋणत्रयं तत्र निक्षिणोति नरोत्तमः । 

मानसे सरसि स्नात्वा श्राद्धं निर्वर्तयेत् ततः ॥ 

उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्य् अनुत्तमाम् । 

[३४] तस्मिन् निर्वर्तयेच् छ्राद्धं यथाशक्ति यथाबलम् ॥

कामान् स लभते दिव्यान् मोक्षोपायांश् च कृत्स्नशः ॥ 

मत्स्यपुराणे [२२, १०-१२] ।

नन्दाथ ललिता तद्वत् तीर्थं मायापुरीषु च । 

तथा चित्रपदं नाम ततः केदारम् उत्तमम् ॥ 

गङ्गासागरम् इत्य् आहुः सर्वतीर्थम् अयं शुभम् । 

तीर्थं ब्रह्मसरस् तद्वच् छतद्रुसलिलोद्गमः ॥ 

तथा [२२, १६-१८] ।

कृतशौचं महापुण्यं सर्वपापनिषूदनम् । 

यत्रास्ते नारसिंहस् तु स्वयम् एव जनार्दनः ॥ 

तीर्थम् इक्षुमती नाम पितॄणां दुर्लभं सदा । 

सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा ॥ 

तथा [२२, २०] ।

यमुना देविका काली चन्द्रभागा दृषद्वती । 

नदी धेनुमती पुण्या परा वेत्रवती तथा ॥ 

तथा [२२, २२-२६] ।

नीलकुण्डम् इति ख्यातं पितृतीर्थ द्विजोत्तमाः । 

तथा भद्रसरः पुण्यं सरो मानसम् एव च ॥ 

मन्दाकिनी तथाच्छोदा विपाशा च सरस्वती । 

तीर्थं मित्रपदं तद्वद् वैद्यनाथं महाफलम् ॥ 

[३५] प्रियानन्दी महाकालस् तथा कालञ्जरं शुभम् ।

वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महालयम् ॥ 

भद्रेश्वरं विष्णुपदं नर्मदाद्वारम् एव च ॥ 

गयापिण्डप्रदानेन समान्य् आहुर् महर्षयः ॥ 

[तथा] [२२, २७–२९] ।

ओङ्कारं पितृतीर्थं च कावेरी कपिलोदकम् । 

सम्भेदश् चण्डवेगायास् तथैवामरकण्टकम् ॥ 

कुरुक्षेत्राच् छतगुणं तस्मिन् स्नानादिकं भवेत् । 

शुक्रतीर्थं च विख्यातं तीर्थं सोमेश्वरं परम् ॥ 

सर्वव्याधिहरं पुण्यं फलं कोटिशताधिकम् । 

तथा [२२, ३०- ७६] ।

कायावरोहणं नाम तथा चर्मण्वती नदी । 

गोमती वरणा तद्वत् तीर्थम् औशनसं भवम् ॥ 

भैरवं भृगुतुङ्गं च गौरीतीर्थम् अनुत्तमम् । 

तीर्थं वैनायकं नाम वत्सेश्वरम् अतः परम् ॥ 

परं तथा पापहरं पुण्या च तपती नदी । 

मूलतापी पयोष्णी च पयोष्णीसङ्गमस् तथा ॥ 

महाबोधिः पाटला च नागतीर्थम् अवन्तिका । 

तथा वेणानदी पुण्या महाशालस् तथैव च ॥ 

महारुद्रं महालिङ्गं दशार्णा च नदी शुभा । 

शतरुद्रा शताह्वा च तथा विष्णुपदं परम् ॥ 

[३६] अङ्गारवाहिका तद्वन् नदौ द्वौ शोणघर्घरौ ।

कालिका च नदी पुण्या वितस्ता च नदी शुभा ॥ 

एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः । 

श्राद्धम् एतेषु यद् दत्तं तद् अनन्तफलं स्मृतम् ॥ 

द्रोणी वाटनदी धारासरः क्षीरनदी तथा । 

द्वारका कृष्णतीर्थं च तथार्बुदसरस्वती ॥ 

नदी मणिमती नाम तथा च गिरिकन्यका । 

धूतपापं तथा तीर्थं समुद्रो दक्षिणस् तथा ॥ 

गोकर्णो गजकर्णश् च तथा च पुरुषोत्तमः । 

एतेषु पितृतीर्थेषु श्राद्धम् आनन्त्यम् उच्यते ॥ 

तीर्थं मेघकरं नाम स्वयम् एव जनार्दनः । 

यत्र शार्ङ्गधरो विष्णुर् मेखलायां व्यवस्थितः ॥ 

तथा मन्दोदरीतीर्थे यत्र चम्पा नदी शुभा । 

तथा सामलनाथश् च महाशालवती तथा ॥ 

पयोष्णीदक्षिणे तीरे देवदेवेश्वरं तथा । 

कोटीश्वरं तथा देव रेणुकायाः समीपतः ॥ 

तत्र कोटं च साकोटं तथा जल्पेश्वरं महत् । 

अर्जुनं त्रिपुरेशं च सिद्धेश्वरम् अतः परम् ॥ 

शैलेशं श्रीकरं तीर्थं नारसिंहम् अतः परम् । 

महेन्द्रं च महापुण्यं तथा श्रीरङ्गसञ्ज्ञितम् ॥ 

[३७] एतेष्व् अपि सदा श्राद्धम् अनन्तफलम् अश्नुते ।

दर्शनाद् अपि चैतानि सर्वपापहराणि वै ॥ 

तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित् । 

भीमेश्वरं कृष्णवेणा कावेरी वञ्जुला नदी ॥ 

नदी गोदावरी नाम त्रिसन्ध्या तीर्थम् उत्तमम् । 

त्र्यम्बकं नाम तीर्थं तु सर्वतीर्थनमस्कृतम् ॥ 

यत्रास्ते भगवान् भीमः स्वयम् एव जनार्दनः ॥ 

श्राद्धम् एतेषु सर्वेषु दत्तं कोटिगुणं भवेत् । 

स्मरणाद् अपि पापानि व्रजन्ति शतधा द्विजाः ॥ 

श्रीपर्णी च नदी पुण्या व्यासतीर्थम् अनुत्तमम् । 

तथा मत्स्यनदी नाम शिवधारा तथैव च । 

भवतीर्थं च विख्यातं पम्पातीर्थं तथैव च ॥ 

पुण्यं रामेश्वरं तद्वद् एलापुरम् अलं तथा । 

अङ्गारभूतं विख्यातम् आनर्तकम् अलम्बुसम् । 

आम्रातकेश्वरं चैव तद्वद् एकाम्रकं परम् । 

गोवर्धनं हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकम् ॥ 

सहस्राक्षं हिरण्याक्षं तथा च कदली नदी । 

रामाधिवासस् तत्रापि तथा सौमित्रिसञ्ज्ञकम् ॥ 

इन्द्रनीलं महानादं तथा च प्रियमेलकम् । 

एतान्य् अपि सदा श्राद्धे प्रशस्तान्य् अधिकान्य् अपि ॥ 

[३८] एतेषु सर्वदेवानां सान्निध्यं पद्यते यतः ।

दानम् एतेषु सर्वेषु भवेत् कोटिशताधिकम् ॥

बाहुदा च नदी पुण्या तथा सिद्धवनं शुभम् । 

तीर्थं पाशुपतं नाम वटी पर्पटिका तथा ॥ 

श्राद्धम् एतेषु दत्तं च कोटिकोटिशतोत्तरम् ।

तथैव पितृतीर्थं च यत्र गोदावरी नदी ॥

युता लिङ्गसहस्रेण सव्येतरजलावहा । 

जामदग्न्यस्य तत् तीर्थं रामायतनम् उत्तमम् ॥

प्रतीकस्य भयाद् भिन्ना यत्र गोदावरी नदी ।

तीर्थं तद्धव्यकव्यानाम् अप्सरोऽयुतसंयुतम् ॥

श्रद्धाग्निकार्यं दानं च तत्र कोटिशताधिकम् ।

तथा सहस्रलिङ्गं च राघवेश्वरम् उत्तमम् ॥

सेन्द्रफेना नदी पुण्या यत्रेन्द्रः खेदितः पुरा ।

निहत्य नमुचिं शक्रस् तपसा स्वर्गम् आप्तवान् ॥

तत्र दत्तं नरैः श्राद्धम् अनन्तफलदं भवेत् ।

तीर्थं तु पुष्करं नाम सालग्रामं तथैव च ॥

शोणपातश् च विख्यातो यत्र वैश्वानरालयम् ।

तीर्थ सारस्वतं नाम स्वामितीर्थं तथैव च ॥

मल्लन्दरा नदी पुण्या कौशिकी चन्द्रिका तथा । 

वैदर्भा चाथ वेगा च पयोष्णी प्राङ्मुखा परा ॥ 

कावेरी चोत्तरा पुण्या तथा जालन्धरो गिरिः । 

एतेषु श्राद्धतीर्थेषु श्राद्धम् आनन्त्यम् अश्नुते ॥ 

लोहदण्डं तथा तीर्थं चित्रकूटस् तथैव च । 

विन्ध्ययोगश् च गङ्गायास् तथा नन्दातटं शुभम् ॥ 

कुब्जाम्रं च तथा तीर्थम् ऊर्वशीपुलिनं तथा । 

संसारमोचनं तीर्थं तत्रैव ऋणमोचनम् ॥ 

एतेषु पितृतीर्थेषु श्राद्धम् आनन्त्यम् अश्नुते । 

अट्टहासं महातीर्थं गौतमेश्वरम् एव च ॥ 

तथा वसिष्ठतीर्थं च हारीतं तु ततः परम् । 

ब्रह्मावर्तं कुशावर्तं हयतीर्थं तथैव च ॥ 

पिण्डारकं च विख्यातं शङ्कोद्धारं तथैव च । 

घण्टेश्वरं च बिल्वं च नीलपर्वतम् एव च ॥

तथा च बदरीतीर्थं रामतीर्थं तथैव च । 

जयन्तं विजयं चैव शुक्रतीर्थं तथैव च ॥ 

श्रीपतेश् च तथा तीर्थं तीर्थं रैवतकं तथा । 

वैकुण्ठतीर्थं च परं भीमेश्वरम् अथापि वा । 

अश्वतीर्थं च विख्यातम् अनन्तं श्राद्धदानयोः ॥ 

तीर्थं वेदशिरो नाम तथैवौघवती नदी । 

तीर्थं वसुप्रदं नाम छागलिङ्गं तथैव च ॥ 

एतेषु श्राद्धदातारः प्रयान्ति परमं पदम् । 

तीर्थं मातृगृहं नाम करवीरपुरं तथा ॥

सप्तगोदावरीतीर्थं सर्वतीर्थेष्व् अनुत्तमः । 

तत्र श्राद्धं प्रदातव्यम् अनन्तफलम् ईप्सुभिः ॥ 

[४०] तथा [२२, ८१] ।

एषु तीर्थेषु यच् छ्राद्धं तत् कोटिगुणम् इष्यते ।

तस्मात् तत्र प्रयत्नेन तीर्थे श्राद्धं समाचरेत् ॥ 

तथा

कुर्याच् छ्राद्धम् अथैतेषु नित्यम् एव यथाविधि । 

प्राग्दक्षिणदिशे गत्वा सर्वकामचिकीर्षया ॥

अत्र श्राद्धदेशत्वेन कथितनानादेशीयतीर्थस्वरूपविशेषास् तत्तद्देशनिवासिभ्यो ऽधिगन्तव्याः ॥

वायुपुराणे [ ७८, २१-२३] ।

त्रिशङ्कोर् वर्जयेद् देशं सर्वे द्वादशयोजनम् । 

उत्तरेण महानद्या दक्षिणेन तु कीकटात् ॥ 

देशस् त्रैशङ्कवो नाम श्राद्धकर्मणि वर्जितः । 

कारस्कराः कलिङ्गाश् च सिन्धोर् उत्तरम् एव च ॥ 

प्रणष्टाश्रमधर्माश् च देशा वर्ज्याः प्रयत्नतः । 

शङ्खः

म्लेच्छदेशे तथा रात्रौ सन्ध्यायां च विशेषतः । 

न श्राद्धम् आचरेत् प्राज्ञो म्लेच्छदेशं न च व्रजेत् ॥ 

[४१]

॥ ६ ॥

॥ अथ हवींषि ॥

अत्र हविर्विशेषात् प्रीतिविशेषः । तत्र मनुः [३, २६६-२७२] ।

यद् धविश् चिरकालाय यच् चानन्त्याय कल्पते । 

पितृभ्यो विधिवद् दत्तं तत् प्रवक्ष्याम्य् अशेषतः ॥ 

तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।

दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥

द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।

औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च वै ॥

षण्मासांश् छागमांसेन पार्षतेनाथ सप्त तु । 

अष्टाव् एणस्य मांसेन रौरवेण नवैव तु ॥

दशमासांस् तु तृप्यन्ति वराहमहिषामिषैः । 

शशकूर्मयोस् तु मांसेन मासान् एकादशैव तु ॥ 

संवत्सरं तु गव्येन पयसा पायसेन वा । 

वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी ॥ 

कालशाकं महाशल्काः खड्गलोहामिषं मधु । 

आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ 

‘औरभ्रऽं मेषमांसम् । ऽशाकुनऽं पक्षिमांसम् । “पृषतः” चित्रमृगः । “एणः” कृष्णसारः । “रुरुः” शम्बरः । **[४२] **“गव्यम्” इति पयोविशेषणम्, ‘पयसा गव्येन संवत्सरः" इति उशनोवचनात् । वार्ध्रीणसस्य स्वरूपं निगमे दर्शितम् ।

त्रिपिबं त्व् इन्द्रियक्षीणं श्वेतं वृद्धम् अजापतिम् । 

वार्ध्रीणसं तु तं प्राहुर् याज्ञिकाः पितृकर्मणि ॥ 

कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः । 

सर्वे वार्ध्रीणसं प्रोक्तम् इत्य् एषा नैगमी श्रुतिः ॥ 

“महाशल्काः” मत्स्यविशेषाः, ऽमहाशल्किनो मत्स्याः" इति यमवचनात् । “मुन्यन्नानि” नीवारादीनि ॥ यमः

शल्यकश् चतुरो मासान् रुरुः प्रीणाति पश्च वै । 

शशः प्रीणाति षण्मासान् कूर्मः प्रीणाति सप्त तु ॥ 

अष्टौ मासान् वराहस् तु मेषः प्रीणाति वै नव । 

माहिषं दश मासांस् तु गावयं रुद्रसम्मितान् ॥ 

तथा

आनन्त्याय भवेद् दत्तं खड्गमांसं पितृक्षये । 

पितृक्षयो गया ज्ञेया तत्र दत्तं महाफलम् ॥ 

तथा

यत् किञ्चिन् मधुना युक्तं तद् आनन्त्याय कल्पते । 

उपाकृतं तु विधिना मन्त्रेणान्नं तथाकृतम् ॥ 

‘गावयं " गवयमांसम् । “रुद्रसम्मितान्” एकादशसङ्ख्यान् । ऽउपाकृतऽं मन्त्रवद्दर्भसंस्कृतम् । ऽअन्नं तथाकृतं " उपाकृतम् एव ॥

[४३] देवलः

तुष्यन्ति मत्स्यैर् द्वौ मासौ त्रीन् मासान् रुरुभिर् मृगैः ।

शाकुनैश् चतुरो मासान् पञ्च तृप्यन्ति पार्षतैः ॥

शशैः षाण्मासिकी तृप्तिः कौर्मैः स्यात् साप्तमासिकी । 

अष्टौ मासान् वराहेण नव तृप्यन्त्य् अजे रुरौ । 

दश माहिषमांसेन तृप्यन्त्य् एकादशाविकैः ॥ 

कात्यायनः

    अथ तृप्तिः । ग्राम्याभिरोषधीभिर् मासं तृप्तिः [आरण्याभिर् वा] तदलाभे मूलफलैर् अद्भिर् वा सहान्नेनोत्तरास् तर्पयन्ति । छागोस्रमेषा आलब्धाः शेषाणि क्रीत्वा लब्ध्वा वा स्वयं मृतानां वाहृत्य पचेत् । [मासद्वयं मात्स्यैः । त्रीन् मासान् हारिणमृगमांसेन ॥] चतुरः शाकुनेन । पश्च रौरवेण । षट् छागेन । सप्त कौर्मेण । अष्टौ वराहेण । नव मेषमांसेन । दश माहिषेण । एकादश पार्षतेन । [संवत्सरं गव्येन पायसेन पयसा वा । वार्ध्रीणसस्य मांसेन च द्वादश वर्षाणि ॥] अक्षया तृप्तिः खड्गः कालशाकं लोहितच्छागो मधु महाशल्का वर्षासु मघासु च श्राद्धं हस्तिच्छायायां च ॥ 

" उत्तराः " मूलफलादयः । “उस्रः” अनड्वान् । “आलब्धाः” कृतालम्भाः ॥

[४४] विष्णुः [७०, १-१४] ।

    [तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलैः] शाकैः श्यामाकैः प्रियङ्गुनीवारैः मुद्गैर् गोधूमैश् च मासं प्रीयन्ते । [द्वौ मासौ मत्स्यमांसेन । त्रीन् मासान् हारिणेन तु । चतुरश् चौरभ्रेण । पञ्च शाकुनेन । षट् छागेन ।] सप्त रौरवेण । अष्टौ पार्षतेन । नव गवयेन । दश माहिषेण । एकादश तूपरेणाजेन । संवत्सरं गव्येन पयसा तद्विकारैर् वा [अत्रापि पितृगीता गाथा भवन्ति ।] 

	कालशाकं महाशल्कं मांसं वार्ध्रीणसस्य च । 

	विषाणवर्ज्या ये खड्गा आसूर्यं तान् लमेमहि ॥ 

“तूपरः” शृङ्गोत्थानकाले ऽपि शृङ्गरहितः ।

पैठीनसिः

    घृतेन मासं प्रीणाति । कालशाकेन द्विमासम् । यवा- ग्वपूप यसरेण त्रिमासम् । मत्स्यैश्चतुरो मासान् । आजेन मांसेन पञ्च । पायसेन षण्मासा- । शाकुनेन सप्त मासान् । अष्टौ मासानैणेयेन । नव मासान् गव्येन । एकादशमासान् माहिषेण । द्वादशमासांश्छागेन । खड्गेन त्रयोदशमासान् । सवलोहेन छागेनानन्त्यमिति ॥ 

‘तृप्ता भवन्ति" इत्यनुवृत्तौ, उशना

    चतुरो मासान् कृष्णसारङ्गेण । अष्टौ मासान् वराहेण । नव रुरुणा । दश मेषेण ॥ 

[४५] आपस्तम्बः [२, १६, २२-२६, २, १७, १-३] ।

    तत्र द्रव्याणि तिलमाषा व्रीहियवा आपो मूलफलानि च । स्नेहवति त्व् एवान्ने तीव्रतरा [पितॄणां] प्रीतिर् द्रघीयांसं च कालम् । तथा धर्माहृतेन द्रव्येण तीर्थे प्रतिपन्नेन । संवत्सरं गव्येन प्रीतिः । भूयांसम् अतो माहिषेण । एतेन ग्राम्यारण्यानां पशूनां मांसं मेध्यं व्याख्यातम् । खड्गोपस्तरणे खड्गमांसेनानन्त्यं कालम् । तथा शतबलैर् मत्स्यस्य मांसेन । वार्ध्राणसस्य च ॥ 

“स्नेहवति” घृताद्यैः, तदलाभे तैलाद्य् अपि । “तीव्रतरा” अतिशयवती । “धर्माहृतेन” न्यायोपात्तेन । ऽतीर्थे प्रतिपन्नेन" तीर्थयात्रा, तद्गतेन द्रव्येणेत्य् अर्थः । " खड्गोपस्तरणेन" [खड्गचर्मनिर्मितासनेन] इति ॥

शङ्खलिखितौ

धर्मेण वित्तम् आदाय पितृभ्यो दद्यात् । 

शङ्खः

आम्रान् पालेवतान् इक्षून् मृद्वीकाभव्यदाडिमान् । 

विदार्यांश् च भरुण्डांश् च श्राद्धकाले प्रदापयेत् ॥ 

लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह । 

दद्याच् छ्राद्धे प्रयत्नेन शृङ्गाटबिसकेबुकान् ॥ 

ऽपालेवतऽं जम्बीराकारं फलं “वोठ” इति काश्मीरेषु प्रसिद्धम् । “मृद्वीका” द्राक्षा । ऽभव्यऽं कर्मरङ्गम् । [४६] विदार्यान् कन्दान् । “भरुण्डाः” जलप्रभवाः कन्दविशेषाः इति मञ्जरीकारः । ऽकेबुकऽं आर्द्रकसदृशः कन्दविशेषः । केबुकस्य निषेधस् तु आरण्यशाकविषयः ॥

हारीतः

क्षत्रियैस् तु मृगयायां विधिना यद् उपाहृतम् । 

श्राद्धकाले प्रशंसन्ति सिंहव्याघ्रहतं च यत् ॥ 

मनुः [३, २५८] ।

मुन्यन्नानि पयः सोमो मांसं यच् चानुपस्कृतम् । 

अक्षारलवणं चैव प्रकृत्या हविर् उच्यते ॥ 

‘अनुपस्कृतऽं अविकृतम् इति यावत् । ‘अक्षारलवणऽं ऊषरमृत्तिकाकृतलवणम् । यदि तु तल् लवणं चेति द्वन्द्वानन्तरं नञ् सम्बध्यते तदोभयवृत्तित्वात् समासार्थगौरवं स्यात् ॥

महाभारते [अनु, १३५,८]

वर्धमानतिलं श्राद्धम् अक्षय्यं **मनुर्** अब्रवीत् ॥ 

तथा

सर्वकामैः स यजते यस् तिलैर् यजते पितॄन् । 

न चाकामेन दातव्यं तिलश्राद्धं कथञ्चन ॥ 

ऽवर्धमानतिलऽं तिलबहुलम् ।

वायुपुराणे

श्यामाकैर् इक्षुभिश् चैव पितॄणां सर्वकामिकम् । 

कुर्याद् आग्रयणं यस् तु स शीघ्रं सिद्धिम् आप्नुयात् ॥ 

[४७] श्यामाका हस्तिनामानो विद्धि तान् यज्ञनिःसृतान् ।

प्रसातिका प्रियङ्गुश् च ग्राह्याः स्युः श्राद्धकर्मणि ॥ 

एतान्य् अपि समानि स्युः श्यामाकानां सदा गुणैः । 

कृष्णमाषास् तिलाश् चैव श्रेष्ठाः स्युर् यवशालयः ॥ 

महायवा व्रीहियवास् तथैव च मधूलिका । 

कृष्णा श्वेता लोहिता च ग्राह्याः स्युः श्राद्धकर्मणि ॥ 

बिल्वामलकमृद्वीकाः पनसाम्रातदाडिमम् । 

भव्यपारावताक्षोटखर्जूराम्रफलानि च ॥ 

कसेरुः कोविदारश् च तालकन्दं तथा बिसम् । 

तमालं शतकन्दं च गन्धालू शीतकन्दकम् ॥ 

कालेयं कालशाकं च सुनिषण्णं सुवर्चला । 

मांसं शाकं दधि क्षीरं चञ्चुर् वेत्राङ्करस् तथा ॥ 

कट्फलं कङ्कणी द्राक्षा लकुचं मोचम् एव च । 

कर्कन्धुर् भीरकं वारं तिण्डुकं मधुसाह्वयम् ॥ 

वैकङ्कतं नालिकेरं शृङ्गाटकपरूषकम् । 

पिप्पली मरिचं चैव पटोलं बृहतीफलम् ॥ 

सुगन्धि मत्स्यमांसं च कलायाः सर्व एव च । 

एवमादीनि चान्यानि स्वादूनि मधुराणि च ॥ 

नागरं चात्र वै देयं दीर्घमूलकम् एव च ॥ 

“प्रसातिका” प्रसाटीति मध्यदेशप्रसिद्धं धान्यम् । “महायवाः” वण्डयवाः ॥ “मधूलिका” यावनालविशेषः । अस्या एव विशेषणं ऽकृष्णा श्वेता लोहिता च" इति । ऽअक्षोटऽं गिरिसम्भवपीलुफलम् । “कोविदारः” श्वेतकाञ्चनारविशेषः । ऽतालकन्दऽं तालमूलीति प्रसिद्धम् । ऽशतकन्दं " शतावरी । ऽशीतकन्दकऽं शालूकम् । ऽकालेयऽं करालाख्यं शाकम् इति गोविन्दराजः । ऽसुनिषण्णऽं चाङ्गेरीसदृशं शाकं **[४८] **जलप्रभवम् । ऽसुवर्चला " सूर्यभक्ता । " चञ्चुः " चेञ्चु इति प्रसिद्धं शाकम् । " कट्फलऽं कट्फलवृक्षम् एव । " कङ्कणी" अम्लरसा द्राक्षा । ऽमोचऽं कदलीफलम् । “कर्कन्धुः” बदरीविशेषः ।

आदित्यपुराणे

मधूकं रामठं चैव कर्पूरं मरिचं गुडम् । 

श्राद्धकर्मणि शस्तानि सैन्धवं त्रपुसं तथा ॥ 

" रामठं " हिङ्गु ।

मार्कण्डेयपुराणे [३२, १०] ।

यवव्रीहिसगोधूमतिला मुद्राः ससर्षपाः । 

प्रियङ्गवः कोविदारा निष्पावाश् चातिशोभनाः ॥ 

“निष्पावा” वल्लाः शिम्बिसदृशा दक्षिणापथे प्रसिद्धाः ।

वायुपुराणे [८०, ४२-४८ ] ।

भक्षाण्य् एम्यः करम्भं च इष्टका घृतपूरकाः । 

कृसरं मधु सर्पिश् च पयः पायसम् एव च ॥ 

स्निग्धम् उष्णं च यो दद्याद् अग्निष्टोमफलं लभेत् । 

दधि गव्यं च संसृष्टं भक्षान् नानाविधान् अपि ॥ 

दत्त्वा न शोचति श्राद्धे वर्षासु च मघासु च । 

घृतेन भोजयेद् विप्रान् घृतं भूमौ समुत्सृजेत् ॥ 

शर्कराः क्षीरसंयुक्ताः पृथुका नित्यम् अक्षयाः । 

[४९] स्युश् च संवत्सरं प्रीता ऽझषकैर् मेषकैणकैः ॥

सक्तून् लाजांस् तथापूपान् कुल्माषान् व्यञ्जनैः सह । 

सर्पिस्सिद्धानि सर्वाणि दध्ना संस्कृत्य भोजयेत् ॥ 

श्राद्धेषु तानि यो दद्यात् पितरः प्रीणयन्ति तम् ॥ 

“करम्भो” दधिमिश्राः सक्तवः । ऽघृतं भूमौ समुत्सृजेत्" तथा घृतेन पात्रं पूरणीयं यथा भूमौ घृतं क्षरतीत्य् अर्थः । “पृथुकाः” चिपिटाः ॥

मत्स्यपुराणे

यत्किचिन् मधुना मिश्रं गोक्षीरघृतपायसैः । 

दत्तम् अक्षयम् इत्य् आहुः पितरः पूर्वदेवताः । 

हारीतः

    तिलैः श्राद्धं पुष्टिकामः कुर्यात् । अपूपै ऋद्धिकामः । घृतगुडतिलैस् तेजस्कामः । सौभाग्यकाम आरोग्यकामो वा परमान्नेन । कृसरमांसदधियवागूभिः सर्वकामः ॥ 

अत्र श्राद्धद्रव्येषु यत्र फलविशेषसंयोगस् तत्र गुणफलार्थिनः प्रवृत्तिः । यत्र गुणसंयोगो नास्ति तेषां नित्यवद् अङ्गत्वात् तैर् विना श्राद्धाङ्गानिष्पत्तिर् एव । सामान्यतो विहितस्याभ्यवहरणीयद्रव्यस्य यथालाभम् उपकल्पितस्य श्राद्धस्वरूपसम्पादकत्वम् । तदलाभे त्व् अविहिताप्रतिषिद्धं विहितसदृशम् उपादातव्यम् । यत् तु श्राद्धप्रकरणनिषिद्धं तत्प्रतिनिधित्वेनापि नोपादेयम् । यत्र तु फलविशेषसंयोगस् तस्य श्राद्धस्वरूपसम्पादकत्वे सति तत्तद्विशेषनिष्पादकत्वम् अपि । यत् तु निषिद्धं गोमहिषमांसादि फलविशेषार्थं च विहितं तत्फलाथिनैवोपादेयम् । नातदर्थिना श्राद्धस्वरूपमात्रसम्पादकत्वेन । **[५०] **यत् त्व् अत्रैव विहितं निषिद्धं च माहिषमांसादि कार्यकारिविहितद्रव्याभावे तद् उपादेयम् । यत् तु तस्मिन्न् एव द्रव्ये पितृतृप्तिकालाल्पीयस्त्वं भूयस्त्वं तत् तस्यैव द्रव्यावस्थाविशेषापेक्षया व्यवस्थितं बोद्धव्यम् ।

[५१]

॥ ६ आ ॥

॥ अथ विवर्ज्यानि ॥

तत्र हारीतः

    अथ वर्ज्यानि । पालङ्क्यानालिकापातीकशिग्रुसृमुकवार्ताकभूस्तृणकपेलुमाष-मसूरकृतलवणानि च श्राद्धे न दद्यात् ॥ 

ऽसृमुकऽं जलप्रभवखादिरशाकम् । ऽभूस्तृणकपेलू ग्राम्यारण्यौ शाकविशेषौ काश्मीरेषु प्रसिद्धौ" इति हारीतभाष्यकारः । माषनिषेधो ऽत्र गौरमाषविषयः, ऽमाषास् तिलाश् च" इति वारुपुराणे माषाणां विधानात् ।

विष्णुः [७९, १७-१८] ।

    पिप्पलीसृमुकभूस्तृणशिग्रुसर्षपसुरसा[सर्जकसुवचल] कूष्माण्डालाबुवार्ताक-पालङ्कयो[पोदकी]तण्डुलीयककुसम्भपिण्डालुकमहिषीक्षीराणि वर्जयेत् । राजभाषासुरीपर्युषितकृतलवणानि ॥

“आसुरी” राजसर्षपः ॥

[५२] शङ्खः

भूस्तृणं सुरसं शिग्रुं पालङ्क्यां सृमुकं तथा । 

कूष्माण्डालाबुवार्ताककोविदारांश् च वर्जयेत् ॥ 

पिप्पलीं मरिचं चैव तथा वै पिण्डमूलकम् । 

कृतं च लवणं सर्वं वंशाग्रं च विवर्जयेत् ॥ 

राजमाषान् मसूरांश् च कोद्रवान् कोरदूषकान् । 

लोहितान् वृक्षनिर्यासान् श्राद्धकर्मणि वर्जयेत् ॥ 

ऽसुरसऽं तुलसी । ऽवंशाग्रऽं वंशकीरम्" । “कोरदूषकः” वनकोद्रवः ।

महाभारते

अश्राद्धेयानि धान्यानि कोद्रवाश् चणकास् तथा ।

हिङ्गु द्रव्येषु सर्वेषु अलाबू लशुनस् तथा ॥ 

पलाण्डुसौभाञ्जनकौ तथा गृञ्जनकादयः । 

कुक्कुण्डकान्य् अलाबूनि कृष्णं लवणम् एव च ॥ 

ग्राम्यवाराहमांसं च यच् चैवाप्रोक्षितं भवेत् । 

कृष्णाजं जीरकं चैव शीतपाकी तथैव च ॥ 

अङ्कुराद्यास् तथा वर्ज्या इह शृङ्गाटकानि च ॥ 

वर्जयेल् लवणं सर्वं तथा जम्बूफलानि च । 

अवक्रुष्टावरुदितं तथा श्राद्धेषु वर्जयेत् ॥

**[५३] **“कुक्कुण्डकानि” कवकानि छत्राकसमानप्रकृतिद्रव्याणि पिण्डोपमानि । ऽकृष्णं लवणऽं सौवर्चलम् । ऽकृष्णाजऽं कृष्णजीरकम् । “शीतपाकी” काकजङ्घा । ऽहिङ्ग द्रव्येषु" द्रव्येषु मध्ये हिङ्गु अश्राद्धेयम् इत्य् अर्थः । अयं तु निषेधः स्वरूपेण दीयमानस्य । यत् तु ऽमधूकं रामठं च" इत्य् आदित्यपुराणे विधानं तद् दृव्यान्तरसंस्कारकत्वेन । एवं मरीचादाव् अपि ॥

वाराहपुराणे

अकृताग्रयणं चैव धान्यजातं द्विजोत्तम । 

राजमाषान् अणूंश् चैव मसूरांश् चैव वर्जयेत् ॥ 

हारीतः

विषछद्महतं मांसं व्याधतिर्यग्घतं च यत् । 

न प्रशंसन्ति वै श्राद्धे यच् च मन्त्रविवर्जितम् ॥ 

वायुपुराणे

वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः । 

करम्भं यानि चान्यानि रसगन्धहतानि च ॥ 

अवेदोक्ताश् च निर्यासा लवणान्य् औषराणि च । 

दुर्गन्धि फेनिलं चैव तथा वै पल्वलोदकम् ॥ 

लभते यत्र गौस्तृप्तिं नक्तं यच् चैव गृह्यते । 

आविकं मार्गम् औष्ट्रं च सर्वम् एकशफं च यत् । 

माहिषं चामरं चैव पयो वर्ज्यं विजानता ॥ 

**[५४] **“पल्वलऽं अल्पसरः ॥

मार्कण्डेयपुराणे [३२, १८, १६, १७] ।

पित्र्यर्थं मे प्रयच्छस्वेत्य् उक्त्वा यच् चाप्य् उपाहृतम् । 

वर्जनीयं सदा सद्भिस् तत् पयः श्राद्धकर्मणि ॥ 

दुर्गन्धि फेनिलं चैव तथाल्पप्रदरोदकम् । 

यच् च सर्वार्थम् उत्सृष्टं यच् चाभोज्यनिपानजम् ॥ 

तद्वर्ज्यं सलिलं तात सदैव पितृकर्मणि ॥ 

ऽअभोज्यनिपानजऽं पतितादिकारितपुष्करिण्याडिजलम् ॥

मत्स्यपुराणे

मसूरशणनिष्पावराजमाषकुलत्थकाः ॥ 

पद्मबिल्वकधत्तूरपारिभद्राढरूषकाः । 

अदेयाः पितृकार्येषु पयश् चाजाविकं तथा । 

कोद्रवो हारवरटकपित्थमधुकाकसी । 

एतान्य् अपि न देयानि पितृभ्यः प्रियम् इच्छता ॥ 

‘पारिभद्रऽं फरहद्द इति प्रसिद्धम् ।

ब्रह्मपुराणे

द्विः सिन्नं परिदग्धं च तथैवाग्रावलेहितम् । 

शर्कराकीटपाषाणैः केशैर् यच् चाप्य् उपद्रुतम् ॥ 

पिण्याकं मथितं चैव तथातिलवणं च यत् । 

सिद्धाः कृताश् च भक्ष्याश् च प्रत्यक्षलवणीकृताः ॥ 

वाग्भावदुष्टाश् च तथा दुष्टैश् चोपहतास् तथा । 

वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि ॥ 

दधि शाकं तथा भक्ष्यं शुक्तं चौषधिवर्जितम् । 

वर्जयेच् च तथा चान्यान् सर्वान् अभिषवान् अपि ॥ 

ऽअग्रावलेहितऽं उपभुक्ताग्रभागम् । ऽसिद्धाः कृताश् च " इत्यादेर् अयम् अर्थः — येषु सिद्धेषूत्तरकालं प्रत्यक्षं लवणप्रक्षेपः कृतः ।

[५५]

॥ ७ ॥

॥ अथ ब्राह्मणपरीक्षा ॥

तत्र मनुः, शातातपश् च द्वितीये ।

तत्र ये भोजनीयाः स्युर् ये च वर्ज्या द्विजोत्तमाः । 

यावन्तश् चैव यैश् चान्नैस् तान् प्रवक्ष्याम्य् अशेषतः ॥ 

दूराद् एव परीक्षेत ब्राह्मणं वेदपारगम् । 

तीर्थं तद् धव्यकव्यानां प्रदाने सो ऽतिथिः स्मृतः ॥ 

सहस्रं हि सहस्राणाम् अनृचां यत्र भुञ्जते । 

एकस् तान् मन्त्रवित् प्रीतः सर्वान् अर्हति धर्मतः ॥ 

ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च । 

न हि हस्ताव् असृग्दिग्धौ रुधिरेणैव शुध्यतः ॥ 

“दूरात्परीक्षा” पितृपितामहाद्यभिजनपरीक्षा । तीर्थम् इव ऽतीर्थऽं फलप्राप्तिहेतुर् इत्य् अर्थः । ऽप्रदाने सो “तिथिः” अस्मिन् प्रदाने सो ऽतिथिवत् पूज्यः ।

यमः

पूर्वम् एव परीक्षेत ब्राह्मणान् वेदपारगान् । 

शरीरप्रभवैर् दोषैर् विशुद्धांश् चरितव्रतान् ॥ 

दूराद् एव परीक्षेत ब्राह्मणान् वेदपारगान् । 

इष्टान् वा यदि वानिष्टांस् तांस् तु तत् कालम् आनयेत् ॥ 

ऽपूर्वऽं निमन्त्रणाद् इति शेषः । इष्टानिष्टाव् अत्रापाततः प्रीत्यप्रीतिविषयौ । अरिमित्रयोः ऽनारिं न मित्रम्” इति निषेधात् ।

मनुः [३, १४९] ।

न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । 

पित्र्ये कर्मणि सम्प्राप्ते परीक्षेत प्रयत्नतः ॥ 

‘श्रोत्रियादीन् भोजयेत् । दुर्वालादींश् च न भोजयेत् " इति प्रक्रम्यऽ, गौतमः [१५, २९-३०]

हविःषु चैवम् । दुर्वालादीन् श्राद्ध एकैके ॥ 

“हविःषु” हव्येषु, दैवेष्व् इत्य् अर्थः ।

**[५७] **मनुः [३, ११८] ।

श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । 

अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ 

वसिष्ठः [ ३, ८] ।

अश्रोत्रियाय यद् दत्तं पितॄन्नैति न देवताः ॥ 

मनुः, शातातपश् च द्वितीये [मनु, ३, १३३, १३५, १३६] ।

दातॄन प्रतिगृहीतॄंश् च कुरुते फलभागिनः । 

विद्वद्भयो दक्षिणा दत्ता विधिवत् प्रेत्य चेह च ॥ 

यत्नेन भोजयेच् छ्राद्धे बह्वृचं वेदपारगम् । 

शाखान्तगं वाप्य् अध्वर्युं छन्दोगं वा समाप्तिगम् ॥

एषाम् अन्यतमो यस्य भुञ्जीत श्राद्धम् अर्चितः । 

पितॄणां तस्य तृप्तिः स्याच् छाश्वती साप्तपौरुषी ॥ 

‘समाप्तिगऽं समस्तशाखाध्यायिनम् ।

यमः

बह्वृचो वा त्रिसौपर्णश् छन्दोगो ज्येष्ठसामगः । 

पञ्चाग्निर् वा चतुर्वेदी त्व् अथवा ब्रह्मशीर्षकः ॥ 

[५८] आत्मविच् चाङ्गविच् चैव ब्रह्मदेयासुतस् तथा ।

सर्वे च ते यथावत् स्युर् एकदेशो ऽपि वा भवेत् ॥ 

त्रयः परे ‘वराश् चैव आत्मा तत्रैव सप्तमः । 

ते सप्तपुरुषाः सर्वे तदन्नम् उपभुञ्जते ॥ 

“त्रिसौपर्णः” ऽचतुर्वर्गा युवतिः सुपेषा" इत्यादि ऋक्त्रये सुपर्णपदोपलक्षितः । " ज्येष्ठसामगः" ज्येष्ठसामाध्येता । पञ्चाग्निः पञ्चाग्निप्रकाशकमन्त्राध्येता । “ब्रह्मशीर्षकः” अथर्वशिरसो ऽध्येता । “ब्रह्मदेया” ब्राह्मविवाहेनोढा ॥

बृहस्पतिः

यद्य् एकं भोजयेच् छ्राद्धे छन्दोगं तत्र भोजयेत् । 

ऋचो यजूंषि सामानि त्रितयं तत्र विद्यते ॥ 

अटेत पृथिवीं सर्वां सशैलवनकाननाम् । 

यदि लभ्येत पित्रर्थे साम्नाम् अक्षरचिन्तकः ॥ 

ऋचा तु तृप्यति पिता यजुषापि पितामहः । 

पितुः पितामहः साम्ना छन्दोगो ऽभ्यधिकस् ततः ॥ 

[५९] यम-शातातपौ

छन्दोगं भोजयेच् छ्राद्धे वैश्वदेवे च बह्वृचम् । 

पुष्टिकर्मणि चाध्वर्युं शान्तिकर्मण्य् अथर्वणम् ॥

शातातपः

भोजयेद् यस् त्व् अथर्वाणं दैवे पित्र्ये च कर्मणि । 

अनन्तम् अक्षयं चैव फलं तस्येति वै श्रुतिः ॥ 

यस् त्व् अन्यं भोजयेच् छ्राद्धे विद्यमानेष्व् अथर्वसु । 

निराशास् तस्य गच्छन्ति देवताः पितृभिः सह ॥ 

तस्मात् सर्वप्रयत्नेन श्राद्धकाले त्व् अथर्वणम् । 

भोजयेद् धव्यकव्येषु पितॄणां च तद् अक्षयम् ॥ 

मनुः [३, १२४-१२५] ।

ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास् तथा परे । 

स्वाध्यायज्ञाननिष्ठाश् च कर्मनिष्ठास् तथ परे ॥ 

ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः । 

हव्यानि तु यथाश्राद्धम् एतेष्व् एव चतुर्ष्व् अपि ॥ 

अश्रोत्रियः पिता तस्य पुत्रः स्याद् वेदपारगः । 

[अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ॥ ] 

ज्यायांसम् अनयोर् विद्याद् यस्य स्याच् छ्रोत्रियः पिता । 

मन्त्रसम्पूजनार्थं तु सत्कारम् इतरो ऽर्हति ॥ 

[६०] याज्ञवल्क्यः [१, २१९,२२१] ।

अग्र्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद् युवा । 

वेदार्थविज् ज्येष्ठसामा त्रिमधुस् त्रिसुपर्णकः ॥ 

कर्मनिष्ठास् तपोनिष्ठाः पञ्चाग्निर् ब्रह्मचारिणः । 

पितृमातृपराश् चैव ब्राह्मणाः श्राद्धसम्पदः ॥ 

“अग्र्याः” प्रकृष्टाः । “त्रिमधुः” ऋग्वेदैकदेशस् तद्व्रतं च । तद्योगात् पुरुषो ऽप्य् अभिधीयते ।

भोजयेद् इत्य् अनुवृत्तौ गौतमः [१५, ९-११] ।

    श्रोत्रियान् वाग्रूपवयःशीलसम्पन्नान् । युवभ्यो दानं प्रथमम् । 


    एके पितृवत् ॥ 

“श्रोत्रियान्” छन्दोऽध्यायिनः । “वाक्सम्पन्नान्” संस्कृतभाषिणः । “रूपसम्पन्नान्” मनोज्ञवपुषः । “वयःसम्पन्नान्” अबालान् । “शीलसम्पन्नान्” सम्यक्प्रणिहितमनोवाक्कायान् । वयः पन्नेष्व् अपि ऽयुवभ्यो दानऽं ऽप्रथमऽं प्रधानम् । अयं हि प्रथमः कल्पो यद् युवभ्यो दानम् इत्य् अर्थः । ऽएके पितृवत्" यद्वयस्काः पित्रादयः प्रमीतास् तद्वयस्कान् भोजयेद् इत्य् एके मन्यन्ते ॥

वसिष्ठः [११, १६-१७] ।

    [अपरपक्ष ऊर्ध्वं चतुर्थ्याः] पितृभ्यो दद्यात् । पूर्वेद्युर् ब्राह्मणान् सन्निपात्य यतीन् गृहस्थान् साधून् वापरिणतवयसो ‘विकर्मस्थान् श्रोत्रियान् अशिष्यान् अन्तेवासिनः ॥ 

“सन्निपात्य” सन्निधाय । “साधून्” क्षीणदोषान् । आश्रमस्थान् अन्यान् अपि “अविकर्मस्थान्” अकुत्सितकर्मणः । [६१] ऽअशिष्यान् अन्तेवासिनः" अध्ययनं परिमाप्य गुरुलनिवृत्तान् ॥

कात्यायनः

    तदहर् ब्राह्मणान् आमन्त्रयेत् । पूर्वेद्युर् वा । स्नातकान् एके । यतीन् गृहस्थान् साधून् वा । श्रोत्रियान् अनवद्यान् स्वकर्मस्थान् । अभावे ऽपि शिष्यान् साचारान् ॥

आपस्तम्बः [२,१७,१०] ।

    तुल्यगुणेषु वयोवृद्धः श्रेयान् द्रव्यकृशश् चेप्सन् । 

तुल्यगुणेष्व् एव दरिद्रः श्राद्धीयद्रव्यार्थी श्रेयान् इत्य् अर्थः ॥

मनुः [४,३१] ।

वेदविद्याव्रतस्नातान् श्रोत्रियान् गृहम् आगतान् । 

पूजयेद् धव्यकव्याभ्यां विपरीतांस् तु वर्जयेत् ॥ 

यमः

वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः । 

स्वधर्मनिरताः क्षान्ताः क्रियावन्तस् तपस्विनः ॥ 

तेभ्यो हव्यं च कव्यं च प्रशान्तेभ्यः प्रदीयते । 

न वेदविक्रयकृतः स्वधर्मच्छिद्रदर्शिनः । 

[६२] आपस्तम्बः [२, १५, ११] ।

शुचीन् मन्त्रवतः सर्वा सर्वकृत्येषु भोजयेत् ॥

पैठीनसिः

    प्रयताय शुचये सर्वत्र [ देयं ] हव्यं कव्यं च । तस्माच् छुचिर् इति विजायते ॥ 

मत्स्यपुराणे

सर्वज्ञो वदवित् सत्री ज्ञानविद्याकुलान्वितः । 

पुराणवेत्ता धर्मज्ञः प्राज्ञः स्वाध्यायकृत्परः ॥ 

शिवभक्तः पितृपरः सूर्यभक्तो ऽथ वैष्णवः । 

ब्राह्मणो योगविच् छान्तो विजितात्मा ऽथ शीलवान् ॥ 

भोजयेच् चापि दौहित्रं यत्नतः श्वशुरं गुरुम् । 

विट्पतिं मातुलं बन्धुम् ऋत्विगाचार्यसोमपान् ॥ 

“विट्पतिः” जामाता ॥

स्कन्दपुराणे

कुलश्रुताभ्यां संयुक्ताद् अलुब्धस् तु विशिष्यते । 

[ताभ्याम् अपि च विप्राभ्यां चिरवासी विशिष्यते ॥] 

यमः

नक्षत्रतिथिपुण्याहमुहूर्तान् मङ्गलानि च । 

न निर्दिशन्ति ये विप्रास् तैर् भुक्तं ह्य् अक्षयं भवेत् ॥ 

[६३]

॥ ८ ॥

॥ पङ्क्तिपावनाः ॥

देवलः

ब्राह्मणेष्व् अप्य् अपाङ्क्तेयान् हव्यकव्येषु वर्जयेत् । 

परीक्ष्य बहुधा विप्रान् आहरेत् पङ्क्तिपावनान् ॥ 

तत्र मनुः [३, १७३-१७६] ।

अपङ्क्त्योपहता पङ्क्तिः पाव्यते यैर् द्विजोत्तमैः । 

तान् निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥ 

अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । 

श्रोत्रियान्वयजाश् चैव विज्ञेयाः पङ्क्तिपावनाः ॥ 

त्रिणाचिकेतः पञ्चाग्निस् त्रिसौपर्णः षडङ्गवित् । 

ब्रह्मदेयानुसन्तानो ऽधर्मविज् जेष्ठसामगः ॥ 

वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः । 

शतायुश् चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ 

“त्रिणाचिकेतः” अध्वर्युवेदभागस् तद्व्रतं च । तद्योगात् पुरुषोऽपि तथा ॥

[६४] यमः

ये सोमपा विरजसो धर्मज्ञाः शान्तबुद्धयः । 

व्रतिनो नियमस्थाश् च ऋतुकालाभिगामिनः ॥ 

पञ्चाग्निर् अप्य् अधीयानो यजुर्वेदविद् एव तु । 

बह्वृचश् च त्रिसौपर्णस् त्रिमधुर् वाथ यो भवेत् ॥ 

त्रिणाचिकेतो विरजाश् छन्दोगो ज्येष्ठसामगः । 

अथर्वशिरसो ऽध्येता सर्वे ते पङ्क्तिपावनाः ॥ 

शिशुर् अप्य् अग्निहोत्री च न्यायविच् च षडङ्गवित् । 

मन्त्रब्राह्मणविच् चैव यश् चान्यो धर्मपाठकः ॥ 

ऋषिव्रती ऋषीकश् च तथा द्वादशवार्षिकः । 

ब्रह्मदेयासुतश् चैव गर्भशुद्धः सहस्रदः ॥ 

चान्द्रायणव्रतचरः सत्यवादी पुराणवित् । 

निष्णातः सर्वविद्यासु शान्तो विगतकल्मषः ॥ 

गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः । 

विमुक्तः सर्वतो धीरो ब्रह्मभूतो द्विजोत्तमः ॥ 

अनमित्रो न चामित्रो मैत्रश् चात्मविद् एव च । 

स्नातको जप्यनिरतः सदा पुष्पफलप्रदः ॥ 

ऋजुर् घृणी क्षमी दान्तः शान्तः सत्यव्रतः शुचिः । 

वेदज्ञः सर्वशास्त्रज्ञ उपवासपरायणः ॥ 

**[६५] **गृहस्थो ब्रह्मचारी च चतुर्वेदविद् एव च ।

वेदविद्याव्रतस्नाता ब्राह्मणाः पङ्क्तिपावनाः ॥ 

ब्रह्मचर्यासु निरता ये कृशाः कृशवृत्तयः । 

अत्युत्क्रान्तास् त्व् अधर्मेभ्यस् ते द्विजाः पङ्क्तिपावनाः ॥ 

सत्रिणो नियमस्थाश् च ये विप्राः श्रुतिसङ्गताः ॥ 

प्राणिहिंसानिवृत्ताश् च ते द्विजाः पङ्क्तिपावनाः । 

अग्निहोत्ररताः शान्ताः कृपावन्तो ऽनसूयकाः ॥ 

ये प्रतिग्रहनिःस्नेहास् ते द्विजाः पङ्क्तिपावनाः । 

सत्यवन्तश् च धीराश् च नित्यं दानपराश् च ये ॥

मङ्गलाचारयुक्ताश् च ते द्विजाः पङ्क्तिपावनाः । 

एते वै भूतले देवाः पूर्वं देवैर् विनिर्मिताः ॥ 

यत् किञ्चित् पितृदैवत्यम् एभ्यो दत्तं तद् अक्षयम् । 

दूराद् एव परीक्षेत ब्राह्मणांश् चरितव्रतान् ॥ 

स्थविरांस् तपस्विनो दान्तान् निष्णातान् यदि वेतरान् । 

तान् सर्वान् भोजयेच् छ्राद्धे साधुभिः सन्निमन्त्रयेत् ॥ 

**तथा **।

विद्वांसः सुव्रताः शान्ता ब्राह्मणाः पङ्क्तिपावनाः । 

तैर् भुक्तं व्रजते देवांस् तैर् भुक्तं व्रजते पितॄन् ॥ 

“ऋषीकः” ऋषेः किञ्चिद् ऊनः । “द्वादशवार्षिकः” द्वादश वर्षाणि वेदव्रतचारी । “सहस्रदः” गोसहस्रद इति मेधातिथिः । ऽविमुक्तः सर्वतः" ऋणाद् इति शेषः । “अनमित्रः” शत्रुरहितः । ऽन चामित्रः" न कस्यापि शत्रुः । “मैत्रः” मैत्रीवतः । “घृणी” कृपालुः ।

शङ्खः

ब्रह्मदेयानुसन्तानो ब्रह्मदेयाप्रदायकः । 

ब्रह्मदेयापतिर् यश् च ब्राह्मणाः पङ्क्तिपावनाः ॥ 

यजुषां पारगो यश् च साम्नां यश् चापि पारगः । 

अथर्वशिरसो ऽध्येता ब्राह्मणाः पङ्क्तिपावनाः ॥ 

नित्यं यागपरो विद्वान् समलोष्टाश्मकाञ्चनः । 

ध्यानशीलो यतिर् विद्वान् ब्राह्मणाः पङ्क्तिपावनाः ॥ 

हारीतः

    स्थितिर् अविच्छिन्नवेदवेदितायोनिसङ्करत्वम् आर्षेयत्वं चेति कुलगुणाः । [वेदो] वेदाङ्गानि धर्मो ऽध्यात्मं विज्ञानं **[६७]** स्थितिश् चेति षड्विधं श्रुतम् । ब्रह्मण्यता देवपितृभक्तता समता सौम्यतापरोपतापितानसूयता मृदुतापारुष्यं मैत्रता प्रियवादित्वं कृतज्ञता शरण्यता प्रशान्तिश्च् एति त्रयोदशविधं शीलम् । क्षमा दमो दया दानम् अहिंसा गुरुपूजनं शौचं स्नानं जपो होमस् तपः स्वाध्यायः सत्यवचनं सन्तोषो दृढव्रतत्वं चेति षोडशगुणं वृत्तम् । कुलीनाः श्रुतवन्तः शीलवन्तो व्रतस्थाः सत्यवादिनो ऽव्यङ्गाः पाङ्क्तेयाः । द्वादशोभयतः श्रोत्रियाः त्रिणाचिकेतस् त्रिमधुस् त्रिसौपर्णस् त्रिशीर्षा ज्येष्ठसामगः पश्चाग्निः षडङ्गविद् रुद्रजापी तूर्ध्वरेता ऋतुकालाभिगामी तत्त्वविच् एति पङ्क्तिपावना भवन्ति । अथात्रोदहरन्ति —


    	पचनः पाचनस् त्रेता यस्य पञ्चाग्नयो गृहे । 


    	सायम्प्रातः प्रदीप्यन्ते स विप्रः पङ्क्तिपावनः ॥ 


    **[६८]** सहस्रसम्मितं प्राहुः स्नातकं पूर्ववद्गुणैः । 


    	पञ्चाग्न्यादिगुणैर् युक्तः शतसाहस्र उच्यते ॥ 


    	अनृचां यदि वा कृत्स्नां पङ्क्तिं योजनम् आयताम् । 


    	पुनाति वेदविद् विप्रो नियुक्तः पङ्क्तिमूर्धनि ॥ 

द्वादश वक्ष्यमाणा उभयतः श्रोत्रियादयः । “पचनः” आवसथ्याग्निः । “पाचनः” सभ्यो ऽग्निः । “पूर्ववद्गुणैः” पूर्ववद्गुणैर् युक्तः ।

शङ्खलिखितौ

    अथ पाङ्क्तेया वेदवेदाङ्गवित् पञ्चाग्निर् अनूचानो व्यवहारी श्रोत्रियस् त्रिणाचिकेतस् त्रिमधुस् त्रिसौपर्णो ज्येष्ठसामगः सन्ध्यास्नायी वेदपरः सदाग्निको मातृपितृशुश्रूषुर् धर्मशास्त्रविद् इति ॥ 

“अनूचानः” प्रासङ्गप्रवचनस्याध्येता । “व्यवहारी” शास्त्रानुष्ठानशीलः । “सदाग्निकः” अविच्छिन्ननित्यकृत्यः ।

वसिष्ठः [३,१९] ।

    [त्रिणाचिकेतः] पञ्चाग्निस् त्रिसुपर्णश् चतुर्मेधी वाजसनेयी षडङ्गविद् ब्रह्मदेयानुसन्तानश् छन्दोगो ज्येष्ठसामगो मन्त्रब्राह्मणविद् यश् च स्वधर्मान् अधीयते । यस्य [च] **[६९] **दशपुरुषं मातृपितृवंशः श्रोत्रियो [वि]ज्ञायते विद्वांसः स्नातकाश् च ते पङ्क्तिपावना भवन्ति ॥ 

“चतुर्मेधी” चातुर्मास्ययाजी । तत्र हि चत्वारो मेधा वैश्वदेवादयः क्रियन्ते ॥

उशना

    तत्र ब्राह्मणो वेदविद्याव्रतस्नातकः पञ्चपुरुषपारम्पर्याद् अविखण्डितचारित्रमर्यादस् त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णश् छन्दोविज् ज्येष्ठसामगः शतवर्षो ऽलुप्तधर्माध्ययनः मन्त्रप्रभृतिजाप्यप्रवचनाध्यायपरः ऋतुकालाभिगामी छन्दसा शुद्धदशपुरुषः स्नातक इति पङ्क्तिपावनाः ॥ 

विष्णुः [७३, १-२१] ।

    अथ पङ्क्तिपावनाः । त्रिणाचिकेतः । पञ्चाग्निः । ज्येष्ठसामगः । वेदपारगः । वेदाङ्गस्याप्य् एकस्य पारगः । पुराणेतिहासव्याकरणपारगः । [धर्मशास्त्रस्याप्य् एकस्य पारगः] । तीर्थपूतः । यज्ञपूतः । [तपःपूतः] । सत्यपूतः । दानपूतः । मन्त्रपूतः । गायत्रीजपनिरतः । ब्रह्मदेयानुसन्तानः । त्रिसौपर्णी । जामाता । दौहित्रश् चेति पात्रम् । विशेषेण च योगिनः । अत्र पितृगीता गाथा भवति —


    	अपि स्यात् स कुले ऽस्माकं भोजयेद् यस् तु योगिनम् । 


    	विप्रं श्राद्धे प्रयत्नेन येन तृप्यामहे वयम् ॥ 

[७०] मत्स्यपुराणे

यस् तु व्याकुरुते वाचं यश् च मीमांसते ऽध्वरम् । 

सामस्वरविधिज्ञश् च पङ्क्तिपावनपावनाः ॥ 

अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते । 

सा गौरी तत्सुतो गौरः पङ्क्तिपावनपावनः ॥ 

वायुपुराणे

यतिस् तु सर्वविप्राणां सर्वेषाम् अग्रभुग् भवेत् । 

इतिहासपञ्चमान् वेदान् यः पठेद् द्विजसत्तमः ॥ 

अनन्तरं यते सो ऽयं नियोक्तव्यो विजानता । 

त्रिवेदो ऽनन्तरं तस्य द्विवेदस् तदनन्तरम् । 

एकवेदस् ततः पश्चान् नित्याध्यायी ततः परम् ॥ 

ब्रह्मपुराणे

षडङ्गविज् ज्ञानयोगी यज्ञतत्त्वज्ञ एव च । 

अयाचितार्थी विप्रो वा श्राद्धकल्पविद् एव च ॥ 

अष्टादशानां विद्यानाम् एकस्यापि तु पारगः । 

त्रिविशुद्धस् त्रिसौपर्णी पञ्चाग्निर् ज्येष्ठसामगः ॥ 

[७१] चान्द्रायणैः पराकैर् वा नियमैर् यस् तु संस्कृतः ।

बार्हस्पत्यं नीतिशास्त्रं शब्दविद्यां च वेत्ति यः ॥ 

इतिहासपुराणैश् च यः पवित्रीकृतः सदा ॥ 

अकृत्यम् अपि कुर्वाणः स पवित्रशताद् वरः । 

बहुनात्र किम् उक्तेन इतिहासपुराणवित् ॥ 

अथर्वशिरसो ऽध्येता ताव् उभौ पितृभिः पुरा । 

तपः कृत्वा तु योगात् तु प्रथितौ पितृकर्मणि ॥ 

वायुपुराणे

गृहस्थानां सहस्रेण वानप्रस्थशतेन च ।

ब्रह्मचारिसहस्रेण योगी त्व् एको विशिष्यते ॥ 

नास्तिको वा विकर्मा वा सङ्कीर्णस् तस्करो ऽपि वा । 

नान्यत् तु कारणं दाने योगिष्व् आह प्रजापतिः ॥

पितरस् तस्य तुष्यन्ति सुवृष्टेनेव कर्षकाः ।

पुत्रो वाप्य् अथ वा पौत्रो ध्यायिनं यस् तु भोजयेत् ॥ 

अथ मनुः [३, १४७ – १४८] ।

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । 

अनुकल्पस् त्व् अयं ज्ञेयः सदा सद्भिर् अनुष्ठितः ॥ 

मातामहं मातुलं च स्वकीयं श्वशुरं गुरुम् । 

दौहित्रं विट्पतिं बन्धुम् ऋत्विग्याज्यौ च भोजयेत् ॥ 

**[७२] **पङ्क्तिपावनानन्तरं — बौधायनः [२,१४,३-४] ।

    तदभावे रहस्यवित् । ऋचो यजूंषि सामानीति श्राद्धस्य महिमा । तस्माद् एवंविधं सपिण्डम् अप्य् आशयेत् ॥ 

आपस्तम्बः [२,१७,४-६] ।

    भोजयेद् ब्राह्मणान् ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसम्बन्धान् । गुणहान्यां तु परेषां समुदितः सोदर्यो ऽपि भोजयितव्यः । एतेनान्तेवासिनो ऽपि व्याख्याताः ॥ 

‘न भोजयेद्" इत्यनुवृत्तौ — गौतमः [१५, १९-२१] ।

शिष्यांश् चैके सगोत्रांश् च । भोजयेद् ऊर्ध्वं त्रिभ्यः । गुणवन्तम् ॥ 

वसिष्ठः [११,१८] ।

शिष्यानपि गुणवतो भोजयेत् ॥

[७३] महाभारते [अनु, ६१, २४-२५, ३०-३१] ।

चीर्णव्रता गुणैर् युक्ता भवेयुर् ये ऽपि कर्षकाः । 

सावित्रीज्ञाः क्रियावन्तस् ते राजन् केतनक्षमाः ॥ 

क्षात्रधर्मिणम् अप्य् आजौ केतयेत् कुलजं द्विजम् । 

न त्व् एवं वणिजं तात श्राद्धेषु परिकल्पयेत् ॥ 

अव्रती कितवः स्तेनः प्राणिविक्रयिको ऽपि वा । 

पश्चाच् चेत् पीतवान् सोमं सो ऽपि केतनम् अर्हति ॥ 

अर्जयित्वा धनं पूर्णं दारुणैः कृषिकर्मभिः । 

भवेत् सर्वातिथिः पश्चात् स राजन् केतनक्षमः ॥ 

[७४]

**॥ ९॥ ॥ **

॥ अथ वर्ज्याः ॥

तत्र मनुः [३, १३८ - १४१] ।

न श्राद्वे भोजयेन् मित्रं धनैः कार्यो ऽस्य सङ्ग्रहः । 

नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद् द्विजम् ॥ 

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ॥ 

तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ 

यः सङ्गतानि कुरुते मोहाच् छ्राद्धेन मानवः । 

स स्वर्गाच् च्यवते लोकाच् छ्राद्धमित्रो द्विजाधमः ॥ 

सम्भोजनी सा ऽभिहिता पैशाची दक्षिणा द्विजैः । 

इहैवास्ते तु सा लोके गौर् अन्धेवैकवेश्मनि ॥ 

“सम्भोजनी” सहभुज्यते यया ।

तथा [३, १४४] ।

कामं श्राद्धे ऽर्चयेन् मित्रं नाभिरूपम् अपि त्व् अरिम् । 

द्विषता हि हविर् भुक्तं भवति प्रेत्य निष्फलम् ॥ 

मनुर् यमश् च प्रथमे [मनु, ३,१६८, १४२] ।

ब्राह्मणो ह्य् अनधीयानस् तृणाग्निर् इव शाम्यति । 

तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ 

यथेरिणे बीजम् उप्तं न वप्ता लभते फलम् । 

तथा ‘नृचे हविर् दत्वा न दाता लभते फलम् ॥ 

[७५] वसिष्ठः [३,१२] ।

विद्वद्भोज्यान्य् अविद्वांसो येषु श्राद्धानि भुञ्जते । 

तान्य् अनावृष्टिम् ऋच्छन्ति महद् वा जायते भयम् ॥ 

मनु-यम-शातातपाः

यावतो ग्रसते पिण्डान् हव्यकव्येष्व् अमन्त्रवित् । 

तावतो ग्रसते प्रेत्य दीप्तान् शूलर्ष्ट्ययोगुडान् ॥ 

हारीतः

अपि विद्याकुलैर् युक्ता हीनवृत्ता नराधमाः । 

दुष्प्रापणात् तु देहस्य दुरात्मानो हि ते स्मृताः ॥ 

क्षौद्रेषु निरता नित्यं यातुधानाः प्रकीर्तिताः । 

यद् एवं बहुभिः पापैः सदा यन्ति नराधमाः ॥ 

पक्षिमीनमृगघ्ना ये सर्पकच्छपघातिनः । 

नानाजन्तुवधे सक्ताः प्रोक्ता दुर्ब्राह्मणा हि ते ॥ 

तथा

शूद्रप्रेष्यो भृतो राज्ञा वृषलो ग्रामयाजकः । 

वधबन्धोपजीवी च षड् एते ब्रह्मबान्धवाः ॥ 

ऽक्षौद्रऽं, क्षुद्रकर्म, प्राणिवधादि । “देहस्य” मनुष्यशरीरस्य । “ब्रह्मबान्धवाः” द्विजाधमाः ॥

यमः

यस्य वेदश् च वेदी च विच्छिद्येते त्रिपौरुषम् । 

स वै दुर्ब्राह्मणो नाम यश् चैव वृषलीपतिः ॥ 

[७६] उशना

यथार्थहेतोः पतितान् आदिष्टान् मनुर् अब्रवीत् ।

वेदविक्रयिणो ह्य् एते नैव श्राद्धेषु भोजयेत् ॥ 

यथार्थम् आदिष्टान्" अध्यापनम् इत्य् अर्थः ॥

तथा

असमानयाजकाश् च श्रुतिविक्रयकाश् च ये । 

अन्यपूर्वप्रजाताश् च पतितान् मनुर् अब्रवीत् ॥ 

असंस्कृताध्यापकाश् च भृतकाध्यापकाश् च ये । 

तमो विशन्ति ते घोरम् इति वैवस्वतो ऽब्रवीत् ॥ 

“असंस्कृतो” ‘त्रानुपनीतः । “आमन्त्रयेद्” इत्य् अनुवृत्तौ — कात्यायनः

    द्विर्नग्नशुक्लविक्लिधश्यावदन्तविद्धप्रजननव्याधितव्यङ्गश्वित्रिकुष्ठि-कुनखिवर्जम् ॥ 

“द्विर्नग्नो” विधर्मा । “शुक्लः” अतिगौरः । ऽविक्लिधः " विचर्चिकादियुतः । “विद्धप्रजननः” कृतशिश्नविकाराविशेषो दाक्षिणात्ये प्रसिद्धः ॥

गौतमः [१५, १५ - १९] ।

    न भोजयेत् स्तेनक्लीबपतितनास्तिकतद्वृत्तिवीरहाग्रेदिधिषूदिधिषूपतिस् त्रीग्रामयाजकाजपालोत्सृष्टाग्निमद्यपकुचर**[७७]**कूटसाक्षिप्रातिहारितान् । उपपतिर् यस्य च सः । कुण्डाशिसोमविकय्यगारदाहिगरदावकीर्णिगणप्रेष्यागम्यागामि- हिंस्रपरिवित्तिपरिवेत्तृपर्याहितपर्याधातृत्यक्तात्मदुर्बलकुनखिश्यावदन्त-पौनर्भवकितवाजपराजप्रेष्यप्रातिरूपिकशूद्रापतिनिराकृतिकिलासिकुसीदवणिक्-शिल्पोपजीविज्यावादित्रतालनृत्यगीतशीलान् । पित्रा चाकामेन विभक्तान् । शिष्यांश् चैके सगोत्रांश् च ॥ 

“तद्वृत्तिः” पतितार्थोपजीवी । “स्त्रीग्रामयाजकः” स्त्रीणां बहूनां चाविशेषेण याजकः । “मद्यपः” सुराव्यतिरिक्तमद्यपाता, सुरापस्य पतितपदेनोक्तत्वात् । “कुचरः” कुत्सिताचारः । “प्रातिहारिकः” प्रतिहार इन्द्रजालम्, तेन जीवति प्रातिहारिकः । ऽयस्य च स" इति, ऽउपपतिर् यस्य विद्यते" यस्य व्यभिचारिणी भार्येत्य् अर्थः । “आत्मत्यागी” साहसिकः । “दुर्बलो” ऽत्र नपुंसकः । " अजपः" जपरहितः । " प्रातिरूपिकः" कूटपण्यस्य विक्रेता । ऽकिलासी" सिध्मलः । ऽज्याशीलः " आयुधाभ्यासरतः ॥

याज्ञवल्क्यः [१, २२२-२२४] ।

रोगी हीनातिरिक्ताङ्गाः काणः पौनर्भवस् तथा । 

अवकीर्णी कुण्डगोलौ कुनखः श्यावदन्तकः ॥ 

भृतकाध्यापकः क्लीबः कन्यादूष्य् अभिशस्तकः । 

मित्रध्रुक् पिशुनः सोमविक्रयी परनिन्दकः ॥ 

मातापित्रोर् गुरोस् त्यागी कुण्डाशी वृषलात्मजः । 

परपूर्वापतिस्तेनकर्मदुष्टाश् च निन्दिताः ॥ 

यमः

नाश्नन्ति पिशुने देवा नाश्नन्त्य् अनृतवादिनि । 

भार्याजितस्य नाश्नन्ति यस्य चोपपतिर् गृहे ॥ 

न खरैर् उपजातस्य न रक्तो ऽन्तरवाससः । 

द्व्यङ्गुलातीतकर्णस्य भुञ्जते पितरो हविः ॥ 

य एतैर् लक्षणैर् युक्तास् तांस् त्व् अपङ्क्त्यान् विनिर्दिशेत् ।

ये त्व् एतैर् अशुभैर् दोषैर् निवृत्तास् तान् नियोजयेत् ॥ 

देवलः

    गोभर्तृविश्वस्तान्नदप्रव्रजितमित्रघातकाः । मातृपितृपुत्रदाराग्निहोत्रत्यागिनो यज्ञोपनिहन्ता वृषलीपतिः सोमविक्रयी व्रात्यो निष्क्रियश् चेति पतिताः । जारोपपति-कुण्डाशिकुण्डगोलकभर्तृदिधिषूपतिमूढभृतकाध्यापकायाज्ययाजकब्रह्म- धर्मदुष्टद्रव्यविक्रयिकदर्यवर्णसम्भेदकानार्यभ्रष्टशौचाधन्य-देवलकवार्धुषिकगोत्रभित्परिवित्तिपरिवेत्तृकृष्णपृष्ठकाण्डपृष्ठाधिकृत-निराकृत्यवकीर्णिम्लेच्छावरेटकरणारण्यागारदाहिनः षड्विधाः क्लीबाश् चेत्य् उपपातकिनः १ । अनपत्यकूटसाक्षिपुंस्त्वोपघातिस्त्रीजितसेतुभेदक- **[७९]** तालावचरणरङ्गोपजीविविधर्मपाठकप्रायश्चित्तनिमित्तधूर्तसाहसिक-मृगयुकितवनास्तिकपिशुनशठवणिग्वन्दिपौनर्भवात्मम्भरिशुक्ति-समुद्रयायिकृत्याभिचारशीलमेलकश्वयुग्वैद्यभृतककन्यादूषककृतघ्न-क्रूरकुहकमित्रध्रुग्दत्तापव्ययिसमयभेदकवाग्दण्डपरुषकारुक-शिल्पकहस्त्यारोहाश्वबन्धकाश् चेति वर्ज्याः पातनीयकाः । अष्टाभिः पापरोगैर् अभिभूता विकलेन्द्रिया हीनाङ्गाधिकाङ्गाश्च् एति पङ्क्तिदूषकाः । उन्मादस् त्वग्दोषो राजयक्ष्मा श्वासो मधु प्रमेहो भगन्दरो महोदरमरमरीत्य् अष्टौ पापरोगाः । जडान्धकाणबधिरकुणि इति विकलेन्द्रियाः । उभयभेदसङ्क्लेदा दुष्टव्रणाः । पापिष्ठतमाश् चेति । 


        एते पञ्चविधाः प्रोक्ता वर्जनीया नराधमाः । 


        स्वसञ्ज्ञालक्षणास् ते स्युः विशेषश् चात्र वक्ष्यते ॥ 


        एते दुर्ब्राह्मणाः सर्वे क्रमशः समुदाहृताः । 


        कर्मणा योनितश् चैव देहदोषैश् च कुत्सिताः ॥ 


        एतेषां कर्मदोषेण पतिता ये नराधमाः । 


        यान्ति ते निरयान् घोरान् त्यक्ताः सद्भिर् इहैव च ॥ 


        योनिदोषेण ये दुष्टा ये च दोषैः शरीरजैः । 


        इहैव वर्जनं तेषां भवेद् अनपराधिनाम् ॥ 


        कृतघ्नः पिशुनः क्रूरो नास्तिकः कुहकः शठः । 


        मित्रध्रुक् चेति सर्वेषां विशेषान् निरयालयाः ॥ 

[८०] सर्वे पुनर् अभोज्याः स्युर् अदानार्हाश् च कर्मसु ।

	ब्रह्मभावान् निरस्ताश् च पापदोषवशानुगाः ॥ 

“तालावचरणः” तालवादनजीवी । ऽविधर्मपाठकः " [श्रुतिस्मृत्यविहितानां धर्माणाम् अध्येता ] पुष्कसः । ऽमेलकः " मृगवधजीवी । “श्वयुक्” श्वक्रीडी । “दत्तापव्ययी” दत्तस्यासद्व्ययकर्ता । “वाग्दण्डपरुषः” वाग्दण्डाभ्याम् उग्रः । “अश्वबन्धः” विक्रयार्थं यो ऽश्वान् बध्नाति । “कुणिः” पाणिविकलः । अन्ये च " राज्ञः पुरोहितप्रभृतयः" स्मृतिकारैर् एव निरुक्ता अग्रे प्रमृश्यन्त इति वक्ष्यामः ॥

इति वर्ज्याः ॥

[८१]

॥ १० ॥

॥ अथापाङ्क्तेयाः ॥

तत्र यमः

अपाङ्क्तेया द्विजाश् चान्ये तान् मे निगदतः शृणु । 

येभ्यो दत्तं न देवानां न पितॄणां च कर्मकृत् ॥ 

काणाः कुण्डाश् च पण्डाश् च कृतघ्ना गुरुतल्पगाः । 

ब्रह्मघ्नाश् च सुरापाश् च स्तेना गोघ्नाश् चिकित्सकाः ॥ 

राष्ट्रकामास् तथोन्मत्ताः पशुविक्रयिणश् च ये । 

मानकूटास् तुलाकूटाः शिल्पिनो ग्रामयाजकाः ॥ 

वृषलीभिः प्रपीताश् च श्रेणीराजन्ययाजकाः । 

राजभृत्यान्धबधिरमूकखल्वाटपङ्गवः ॥ 

कलोपजीविनश् चैव ब्रह्मविक्रयिणस् तथा । 

[८२] दण्डध्वजाश् च ये विप्रा ग्रामकृत्यकराश् च ये ॥

अगारदाहिनश् चैव गरदा वनदाहकाः । 

कुण्डाशिनो देवलकाः परदाराभिमर्षकाः ॥ 

श्यावदन्ताः कुनखिनः कुष्ठिनः शिल्पिनश् च ये । 

वणिजो मधुहन्तारो हस्त्यश्वदमका द्विजाः ॥ 

कन्यानां दूषकाश् चैव ब्राह्मणानां च दूषकाः । 

सूचकाः पोषकाश् चैव कितवाश् च कुशीलवाः ॥ 

समयानां च भेत्तारः प्रदाने ये च बाधकाः । 

अजाविका माहिषिकाः सर्वविक्रयिणश् च ये । 

वैष्णवीषु च ये सक्ता अलाजादाहिनस् तथा । 

धनुष्कर्ता द्यूतवृत्तिर् मित्रध्रुक् शठ एव च ॥ 

इषुकर्ता तथा वर्ज्यो यश् चाग्रेदिधिषूपतिः । 

पाण्डुरोगी गण्डमाली यक्ष्मी च भ्रामरी तथा ॥ 

पिशुनः कूटसाक्षी च दीर्घरोगी वृथाश्रमी । 

प्रव्रज्योपनिवृत्तश् च वृथाप्रव्रजितश् च यः ॥ 

[८३] यश् च प्रत्रजिताज् जातः ऽप्रव्रज्यावसितश् च यः ।

ताव् उभौ ब्रह्मचाण्डालाव् आह वैवस्वतो यमः ॥ 

राज्ञः प्रेष्यकरो यश् च ग्रामस्य नगरस्य च । 

समुद्रयायी वान्ताशी केशविक्रयिणश् च ये ॥ 

अवकीर्णी शरीरघ्नो गुरुघ्नः पितृदूषकः । 

गोविक्रयी च दुर्वालः पूगानां चैव याजकः ॥ 

मद्यपश् च कदर्यश्च् अ सह पित्रा विवादकः । 

दाण्डिको बन्धकीभर्ता त्यक्तात्मा दारदूषकः ॥ 

सद्भिश् च निन्दिताचारः स्वकर्मपरिवर्जितः । 

परिवित्तिः परिवेत्ता भृत्याचार्यो निराकृतिः ॥ 

शूद्राचार्यः सुताचार्यः शूद्रशिष्यश् च नास्तिकः । 

दुष्टश् च दारकाचार्यो मानकृत् तैलिकस् तथा ॥ 

चौरा वार्धुषिका दुष्टाः परस्वानां च नाशकाः । 

चतुराश्रमबाह्याश् च सर्वे ते पङ्क्तिदूषकाः ॥ 

इत्य् एतैर् लक्षणैर् युक्तांस् तान् द्विजान् न नियोजयेत् । 

“पण्डो” ‘त्र षण्डः । “चिकित्सकः” चिकित्साजीवी । “राष्ट्रकामाः” राष्ट्राधिपत्यकामाः । “मानकूटाः” कूटमानव्यवहारिणः [८४] । “श्रेणी” सजातीयसमूहः । “खल्वाटः” खलतिः । “दण्डध्वजः” साहसदण्डादिषु राज्ञा कृतदण्डचिह्नः । “पोषकाः” पक्षिणाम् इति शेषः । “वैष्णवी” शूद्रा । “अलाजादाहिनः” लाजानां दाहो विवाहस् तद्रहिताः, ते च कृतसमावर्तना बोद्धव्याः । “शठो” मायावी । “भ्रामरी” अपस्मारी । “दुर्वालो” ‘त्र लोहितकेशः, खल्वाटगण्डयोः पृथगुपादानात् । ऽपूगः " सङ्घः । “दारकाः” अनुपनीताः । “तैलिकः” तैलविक्रयोपजीवी ।

मनुः [३, १५० १६७] ।

ये स्तेनाः पतिताः क्लीबा ये च नास्तिकवृत्तयः । 

तान् हव्यकव्ययोर् विप्रान् अनर्हान् मनुर् अब्रवीत् ॥ 

जटिलं चानधीयानं दुर्वालं कितवं तथा । 

याजयन्ति च ये पूगांस् तांश्च श्राद्धे न भोजयेत् ॥ 

चिकित्सकान् देवलकान् मांसविक्रयिणस् तथा । 

विपणेन च जीवन्तो वर्ज्याः स्युर् हव्यकव्ययोः ॥ 

प्रेष्यो ग्रामस्य राज्ञश् च कुनखी श्यावदन्तकः । 

प्रतिरोद्धा गुरोश् चैव त्यक्ताग्निर् वार्धुषिस् तथा ॥ 

यक्ष्मी च पशुपालश् च परिवेत्ता निराकृतिः । 

ब्रह्मद्विट् परिवित्तिश् च गणाभ्यन्तर एव च ॥ 

[८५] कुशीलवो ‘वकीर्णी च वृषलीपतिर् एव च ।

पौनर्भवश् च काणश् च यस्य चोपपतिर् गृहे ॥ 

भृतकाध्यापको यश् च भृतकाध्यापितश् च यः । 

शूद्रशिष्यो गुरुश् चैव वाग्दुष्टः कुण्डगोलकौ ॥ 

अकारणात् परित्यक्ता मातापित्रोर् गुरोस् तथा । 

ब्राह्मैर् यौनैश् च सम्बन्धैः संयोगं पतितैर् गतः ॥ 

अगारदाही गरदः कुण्डाशी सोमविक्रयी । 

समुद्रयायी वन्दी च तैलिकः कूटकारकः ॥ 

पित्रा विवदमानश् च केकरो मद्यपस् तथा । 

पापरोग्य् अभिशस्तश् च दाम्भिको रसविक्रयी ॥ 

धनुःशराणां कर्ता च यश् चाग्रेदिधिषूपतिः ॥ 

[८६] मित्रध्रुग् द्यूतवृत्तिश् च पुत्राचार्यस् तथैव च ।

भ्रामरी गण्डमाली च श्वित्र्य् अथो पिशुनस् तथा ॥

उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् वेदनिन्दक एव च ।

हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर् यश् च जीवति ॥

पक्षिणां पोषको यश् च युद्धाचार्यस् तथैव च ।

स्रोतसां भेदकश् चैव तेषां चावरणे रतः ॥

गृहसंवेशको दूतो वृक्षारोपक एव च ।

श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ॥ 

हिंस्रो वृषलपुत्रश् च गणानां चैव याजकः ।

आचारहीनः क्लीबश् च नित्यं याचनकस् तथा ॥

कृषिजीवी श्लीपदी च सद्भिर् निन्दित एव च ।

औरभ्रिको माहिषिकः परपूर्वापतिस् तथा ॥

प्रेतनिर्यातकश् चैव वर्जनीयाः प्रयत्नतः ।

एते विगर्हिताचारा अपाङ्क्तेया नराधमाः ॥

द्विजातिप्रवरो विद्वान् उभयत्र विवर्जयेत् ॥ 

“जटिलो” ब्रह्मचारी । अत्र “अनधीयानः” उपनीतमात्रो ऽनादिष्टवेदव्रतः । यत्र “ब्रह्मचारी” “सहस्रद” इत्यत्र **[८७] **पङ्क्तिपावनत्वम् उक्तं, तद् अध्ययनयुक्तस्य बोद्धव्यम् । “दुर्वालः” खलतिः, न तु दुश्चर्मा, तस्य पदेनैव पृथगुपादानात् । “प्रतिरोद्धा” गुरोर् आसेधकर्ता । “गणाभ्यन्तरः” गणस्य सामान्यपुरुषः । “वृक्षारोपकगृहसंवेशकदूता” अत्र भृतिजीविनो बोद्धव्याः ॥

शङ्खः

ब्राह्मणा ये विकर्मस्था बैडालवृतिकास् तथा । 

हीनाङ्गा चाधिकाङ्गाश् च विज्ञेया पङ्क्तिदूषकाः ॥ 

कुनखी श्यावदन्तश् च दुश्चर्मा वृषलीपतिः । 

कुष्ठी च राजयक्ष्मी च ब्राह्मणाः पक्तिदूषकाः ॥

गुरूणां प्रतिकूलाश् च वेदाग्न्युत्सादिनश् च ये । 

गुरूणां त्यागिनश् चैव ब्राह्मणाः पङ्क्तिदूषकाः ॥ 

अनध्यायेष्व् अधीयानाः शौचाचारविवर्जिताः । 

शूद्रान्नरसपुष्टाङ्गा ब्राह्मणाः पङ्क्तिदूषकाः ॥ 

शङ्खलिखितौ

    अमृतवादी तस्करो राजभृत्यो वृक्षारोपकवृत्तिर् गरदो ‘ग्निदः शूद्रोपाध्यायो वन्दी घाण्टिको देवलको पुरोहितो **[८८] **नक्षत्रादेशवृत्तिर् ब्रह्मपुरुषो मद्यपो ब्रह्मविक्रयी कितवः कूटकारको मानुषपशुविक्रयिणश् चेत्य् अपाङ्क्तेयाः ॥ 

हारीतः

    चिकित्सक्षवृषलप्रेष्यकारुककितवश्वक्रीडकशकुनिजीवनमीनघातकचेष्टित-पुंश्चलवार्धुषिकाहितुण्डिकप्रत्यवसितभृतकाध्यापकतैलिकसूचक-नियामककुशीलवादीन् दैवे पित्र्ये च वर्जयेत् । नास्तिकक्लीबकदर्य-पौरन्ध्रिकाक्रीडिनो ऽनृतवादिनो जपहोमसन्ध्याशौचवर्जिताः यौनस्रौव-मौखसङ्करसङ्कीर्णाश् चापुण्या ब्राह्मणवृत्तिप्लववधबन्धोपजीवि-वृषलीपतिशूद्रग्रामयाजकतस्करागारदाहिगरदसोमविक्रयिगायननर्तक-धनुःशरयोजकाः कुण्डगोलकौ नराशंसकापिलकदेवलघाण्टिक-नक्षत्रजीविमहोदधिगामिदीर्घरोगिमहापथिकाः पतिताः पतितपुरोहिताश् चानिवर्तमानाः पङ्क्तिदूषका भवन्ति ॥ 

“वृषलप्रेष्यः” शूद्राज्ञाकारी । “शकुनिजीवनः” श्येनजीवी । “मीनघातकचेष्टितः” — “मीनघातको” बकः, तस्येव चेष्टितं वृत्तिर् यस्य स तथा, बकवृत्तिर् इत्य् अर्थः । ऽआहितुण्डिकः " सर्पक्रीडाजीवी । “नियामकः” पोतवाहकः, भृतिम् आदाय यः परान् नियच्छति वा । “कुशीलवः” चारणः । “आक्रीडी” सततं [८९] क्रीडनशीलः । “अनृतवादी” अनृतभाषणशीलः । “नराशंसः” मनुष्यस्तुतिशीलः । “धनुःशरयोजकः” धनुःकर्ता शरकर्ता च । “कपिलः” कुत्सितकपिलः, अतिकपिलमूर्तिर् इति यावत् । “दीर्घमहापथिकः” दीर्घाध्वना मरणे कृतोद्यमः । “अनिवर्तमानाः” तत्रैवाभिरताः ॥

विष्णुः [ ८२, ३ - ३०]

    हीनाधिकाङ्गान् विवर्जयेत् । विकर्मस्थांश् च । बैडालव्रतिकान् । वृथालिङ्गिनः । नक्षत्रजीविनः । देवलकान् । चिकित्सकान् । अनूढापुत्रान् । तत्पुत्रांश् च । बहुयाजिनः । ग्रामयाजिनः । शूद्रयाजिनः । [अयाज्ययाजिनः ॥] व्रात्यान् । अनृतयाजनः । पर्वकारान् । सूचकान् । [भृतकाध्यापकान् ।] भृतकाध्यापितान् । शूद्रान्नपुष्टान् । पतितसंसर्गान् । अनधीयानान् । सन्ध्योपासनभ्रष्टान् । राजसेवकान् । नग्नान् । पित्रा विवदमानान् । पितृमातृगुर्वग्निस्वाध्यायत्यागिनश् चेति ॥ 

	ब्राह्मणापसदा ह्य् एते कथिताः पक्तिदूषकाः । 

	एतान् विवर्जयेद् यत्नाच् छ्राद्धकर्मणि पण्डितः ॥ 

“पर्वकारः” इषुकारः । “उग्रो” ऽत्र दृष्टान्तःकरणकोपः ।

आपस्तम्बः [२,१७,२१] ।

    श्वित्रिः शिपिविष्टः परतल्पगाम्य् आयुधीयपुत्रश् शूद्रोत्पनो ब्राह्मण्याम् इत्य् एते भुञ्जानाः पङ्क्तिदूषणाः [ भवन्ति ॥] 

“श्वित्री” दुश्चर्मा । ऽआयुधीयपुत्रः " आयुधजीविनः पुत्रः । ऽशुद्रोत्पन्नो ब्राह्मण्याम्" असमवर्णदारपरिग्रहे ब्राह्मण्यां पुत्रम् अनुत्पाद्य शूद्रायाम् उत्पादितपुत्र इति कपर्दी

सुमन्तुः

    तस्करकितवाजपालगणिकाशुद्रप्रेष्या[गम्यागामि]परिवेत्तृपरिवित्तिपर्याहित-[पर्याधातृ]पौनर्भवान्धबधिरचारणक्लीबावकीर्णिवार्धुषिकगरदायिक-कूटसाक्षिनास्तिकवृषलीपत्यहुतादोत्सृष्टाग्निसोमविक्रयि[विक्रेतृपौस्तिककथक]- कुण्डाशि[कुण्डगोलक]यन्त्रकारकाण्डपृष्ठदुश्चर्मषण्ड[चण्ड]-**[९१]**-विद्धशिश्नदेवलकण्ठारूढ[षण्डारूड]पतितप्रायोत्थितकुनखिकिलाशि- श्यावदन्तवणिक्शिल्पिवादित्रनृत्यतालो[नृत्यगीतवाद्यो]पजीविमूल्यसांवत्सरिक- महापथिकाश्मकुट्टकहीनाङ्गातिरिक्ताङ्गविरागवाससश् चापाङ्क्तेयाः ॥ 

प्रेष्यपदस्य गणादिपदैः प्रत्येकम् अभिसम्बन्धः । “यन्त्रकारकः” इक्षुतिलयन्त्रकारी । ऽप्रायोत्थितः " अनशनव्रतभ्रष्टः । “मूल्यसांवत्सरिकः” मूल्येन यो नक्षत्रादि कथयति, ज्यौतिषक इत्य् अर्थः ॥

पैठीनसिः

    [कुनखिकिलाशिश्यावदन्ताः पित्रा विवदमानश् च यश् च स्त्रीजितः] कुष्ठी क्लीबः कितवो दुर्वालो दुवर्मा सुरागर्भो विद्धप्रजननः पतितः पिशुनः सोमविक्रयी यज्ञवेदविक्रयी वाणिजको ग्रामयाजी मिथ्याभिशस्तो वृषल्याम् अभिजातः परिवित्तिः परिवेत्ता दिधिषूपतिः पुनर्भूपुत्रः गोलकुण्डाजाविकाश् चौरः काण्डपृष्ठः सेवकश् चेत्य् अपाङ्क्तेयाः । श्राद्धे नैतान् भोजयेत् । न यज्ञकर्मणि ॥ 

“सुरागर्भः” सुरा गर्भे यस्मिन्, यस्मिन् गर्भस्थे मात्रा सुरा पीता ।

[९२] उशना

    अपाङ्क्तेया भवन्ति । तद् यथा जडबधिरजातान्धश्वित्रिकुष्ठिकुणिश्यावदन्त-वार्धुषिकदेवलकवणिक्शठगणाभ्यन्तरचिकित्सकपौनर्भवकाण-शिल्पोपजीविपतितसम्प्रयोक्तृकितवानृतदाम्भिकपरपरिभावितप्रभृतयः ॥ 

“कुणिः” विकलपाणिः । “परपरिभावितः” परत्वेन शत्रुत्वेन परिभावितः परीक्षित इत्य् अर्थः ॥

वायुपुराणे

यस् तिष्ठेद् वायुभक्षस् तु चातुराश्रम्यबाह्यतः । 

अयतिर् मोक्षवादी च उभौ तौ पङ्क्तिदूषकौ ॥ 

उग्रेण तपसा युक्तश् चित्रवादी बहुश्रुतः । 

अनाश्रमी तपःस्तेये तं विप्रं न निमन्त्रयेत् ॥ 

औपपत्तिस् तथा शाक्यो नास्तिको वेदनिन्दकः । 

ध्यानिनं ये च निन्दति सर्वे ते पक्तिदूषकाः ॥ 

वृथामुण्डाश् च जटिलाः सर्वे कार्पटिकास् तथा । 

निर्घृणान् भिन्नवृत्तांश् च सर्वभक्ष्यांश् च वर्जयेत् ॥ 

[९३] प्राह वेदान् वेदभूतो वेदान् यश् चोपजीवति ।

उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिर् एव च ॥ 

वृथा दारांश् च यो गच्छेद् याजयेच् च वृथाध्वरैः । 

नार्हतस् ताव् अपि श्राद्धं द्विजो यश् चैव नास्तिकः ॥ 

आत्मार्थं यः पचेद् अन्नं न देवातिथिकारणात् । 

नार्हत्य् असाव् अपि श्राद्धं पतितो ब्रह्मराक्षसः ॥ 

स्त्रियो रक्ताम्बरा येषां परिवादरताश् च ये । 

अर्थकामरता ये च न ताञ् श्राद्धेषु भोजयेत् ॥ 

सन्ति वेदविरोधेन केचिद् विज्ञानमानिनः । 

अयज्ञपतयो नाम ते भुञ्जन्ति यथा रजः ॥ 

मुण्डान् जटिलकाषायाञ् श्राद्धे यत्नेन वर्जयेत् । 

शिखिभ्यो धातुरक्तेभ्यस् त्रिदण्डिभ्यः प्रदापयेत् ॥ 

“अयतिः” असंयतः । “औपपत्तिः” उपपत्तिमात्रव्यवहारी, हैतुक इत्य् अर्थः । “शाक्यः” अत्र शाक्यधर्माभिरतः । “वृथामुण्डाः” निषिद्धमुण्डनकर्तारः । “वृथाजविलाः” शास्त्राननुमत-जटाधारिणः । “कापटिकाः” कर्पटव्यवहारिणः । “निर्घृणाः” निर्दयाः । “भिन्नवृत्ताः” त्यक्ताचाराः । ऽप्राह वेदान् वेदभृत" इति, यो वेदाध्ययनार्थं भृतः सन् वेदान् प्राह इत्य् अर्थः । “पुत्रिकापतिः” पुत्रिकात्वेन कल्पितायाः पतिः । ऽवृथा दारांश् च यो गच्छेत्" स्त्रीरतिः पुत्रार्थिता- व्यतिरेकेण । पुनः नास्तिकग्रहणं निन्दातिशयार्थम् । ऽस्त्रियो रक्ताम्बराः" रजस्वलाः । “अर्थकामरताः” धर्ममोक्षव्यतिरेकेणार्थकामरताः । “अयज्ञपतयः” इत्य् अत्र यज्ञशब्दो वर्णाश्रमप्रयुक्तकर्मोपलक्षणार्थः । “मुण्डाः” अत्र लूनशिखाः । “जटिलस्य” पुनर्वचनं निन्दातिशयार्थम् ।

महाभारते [ अनु। प।, ६१,१८,२०,२१] ।

अग्रणीर् यः कृतः पूर्वं वर्णावरपरिग्रहः । 

ब्राह्मणः सर्वविद्यो ऽपि राजन् नार्हति केतनम् ॥ 

अपरिज्ञातपूर्वाश् च गणपूर्वाश् च भारत । 

पुत्रिकापुत्रपूर्वाश् च श्राद्धे नार्हन्ति केतनम् ॥ 

ऋणकर्ता च यो राजन् यश् च वार्धुषिको द्विजः । 

प्राणविक्रयवृत्तिश् च राजन् नार्हति केतनम् ॥ 

“अग्रणीः” इति, यः पूर्वं प्रधानीकृतः शिष्टैः पञ्चान् निकृष्टवर्णपरिग्रहसंसर्गं करोति, सः श्राद्धे वर्जनीय इत्य् अर्थः । “केतनम्” आमन्त्रणम् । “अपरिज्ञातपूर्वाः” अज्ञाताः पूर्वे पित्रादयो येषां ते तथा । “गणपूर्वाः” सङ्घे प्रधानीभूताः । “पुत्रिकापुत्रपूर्वाः” पुत्रिकापुत्रजाः । " ऋणकर्ता" अत्र ऋणं गृहीत्वा यो न धनिकाय दातुम् इच्छति । “प्राणविक्रयवृत्तिः” प्राणसंशयापादककर्मजीवी ॥

मत्स्यपुराणे

कृतघ्नान् नास्तिकांस् तद्वन् म्लेच्छदेशनिवासिनः । 

त्रिशकून् बर्बरान् आन्ध्रान् टङ्कद्रविडकोङ्कणान् ॥ 

कर्णाटकांस् तथा कीरान् कलिङ्गांश् च विवर्जयेत् ॥ 

[९५] ब्रह्मपुराणे

भोक्तं श्राद्धेषु नार्हन्ति दैन्योपहतचेतसः । 

षण्डो मूकश् च कुनखी खल्वाटो दन्तरोगवान् ॥ 

श्यावदन्तः पूतिनासश् छिन्नाङ्गश् चाधिकाङ्गुलिः । 

गलरोगी गण्डमाली स्फुटिताङ्गश् च सज्वरः ॥ 

खञ्जतूवरमुण्डाश् च तथान्ये दीर्घरोगिणः । 

वृथाजाता विरक्ताश् च व्याधिभारप्रपीडिताः ॥ 

“तूवरः” श्मश्रुकाले ऽपि श्मश्रुरहितः । ऽवृथाजाताः " धर्मपराङ्मुखाः । “विरक्ताः” अत्र यतिव्यतिरिक्ताः ।

अथ मनुः [३,१७०,१८०–१८२] ।

अवतैर् यद् द्विजैर्ब् हुक्तं परिवेत्त्रादिभिस् तथा । 

अपाङ्क्तेयैर् यद् अन्यैश् च तद् वै रक्षांसि भोजयेत् ॥ 

सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् । 

अप्रतिष्ठं वार्धुषिके नष्टं देवलके भवेत् ॥ 

यत् तु वाणिजके दत्तं नेह नामुत्र तद् भवेत् । 

भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥ 

इतरेषु त्व् अपाङ्क्त्येषु यथोद्दिष्टेष्व् असाधुषु । 

मेदोऽसृङ्मांसमज्जास्थि वदन्त्य् अन्नं मनीषिणः ॥ 

यमः

ये व्यपेता स्वकर्मभ्यः स्तेनास् ते परिकीर्तिताः । 

कव्यं ददाति यस् तेभ्यस् तस्य तत् प्रेत्य नश्यति ॥ 

[९६] ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्य् अल्पमेधसः ।

पुरीषं भुञ्जते सर्वं शतं वर्षाणि सुव्रत ॥ 

तथा

मद्यपाय न दातव्यं दैवे पित्र्ये तथा हविः । 

तस्मै नश्यति तद् दत्तं यथा भस्मनि वै हुतम् ॥ 

दातुश् च छिद्यते हस्तो भोक्तुर् जिह्नाथ भिद्यते । 

ज्वलितान् ग्रसते ग्रासान् श्राद्धं तद् अनृतं भवेत् ॥ 

मनुः [३,१७६] ।

अपाङ्क्त्यो यावतः पाङ्क्त्यान् भुञ्जानान् अनुपश्यति । 

तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥ 

तथा [३,१७८, १७७] ।

यावतः संस्पृशेद् अङ्गैर् ब्राह्मणान् शूद्रयाजकः । 

तावतां न भवेद् दातुः फलं दानस्य पौर्तिकम् ॥ 

वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु । 

पापरोगी सहस्रस्य दातुर् नाशयते फलम् ॥ 

यमः

षष्टिं काणः शतं षण्डः श्वित्री यद् अनुपश्यति । 

शतं वै पाण्डुरोगी च सहस्रं पतितस् तथा ॥ 

[९७] वसिष्ठः [११,२० ] ।

अत्र चेन् मन्त्रसंयुक्तः शरीरैः पङ्क्तिदूषकैः । 

अदूष्यं तं यमः प्राह पङ्क्तिपावन एव सः ॥ 

“शरीरैः” शरीरप्रभवैः काणत्वादिभिर् न तु स्वयम् उत्पाद्यैर् अपि स्तेनत्वादिभिः ॥

अथ देवलः

परदाराभिगो मोहात् पुरुषो जार उच्यते । 

स एवोपपतिर्ज् ञेयो यः सदा संविशेद् गृहे ॥ 

जीवतो जारजः कुण्डो मृते भर्तरि गोलकः । 

यस् तयोर् अन्नम् अश्नाति स कुण्डाशीति कथ्यते ॥ 

ब्रह्मपुराणे

चतुःषष्टिपलैः शुद्धैः कुण्डं प्रस्थचतुष्टयम् । 

भवेत् तद् यस् तु निगिरेत् स कुण्डाशी पतत्य् अधः ॥ 

यमः

व्रती यः स्त्रियम् अभ्येति सो ऽवकीर्णी निरुच्यते । 

पुनर्भ्यास् तु पतिर् यो वै स भवेद् दिधिषूपतिः ॥

देवलः

ज्येष्ठस्य भार्यां सम्प्राप्तः सकामाद् दिधिषूपतिः ॥ 

मनुः [३,१७३ ] ।

भ्रातुर् मृतस्य भार्यायां यो ऽनुरज्येत कामतः । 

[९८] धर्मेणोपनियुक्तायां स ज्ञेयो दिधिषूपतिः ॥

लौगक्षिः

ज्येष्ठायां यद्य् अनूढायां कन्यायाम् उह्यते ऽनुजा । 

सा चाग्रेदिधिषूर् ज्ञेया पूर्वा तु दिधिषूः स्मृता ॥ 

यमः

महिषीत्य् उच्यते नारी सा चैव व्यभिचारिणी । 

तं दोषं क्षमते यस् तु स वै माहिषिकः स्मृतः ॥ 

देवलः

यश् च दुष्टतपश्चर्यः स गूढो नाम सञ्ज्ञया । 

भृतकाध्यापको यश् च भृतकाध्यापितश् च यः ॥ 

ताव् उभौ पतितौ विप्रौ स्वाध्यायक्रयविक्रयात् । 

यः शूद्रान् पतितांश् चापि याजयेद् अर्थकारणात् ॥ 

याजितो वा पुनस् ताभ्यां ब्राह्मणो ऽयाज्ययाजकः । 

दत्तानुयोगान् द्रव्यार्थं पतितान् मनुर् अब्रवीत् ॥ 

ब्रह्मविक्रयिणो ह्य् एते वर्जिताः सवनादिषु । 

इष्टं पूर्तम् अधीतं वा तप्तं वाप्य् आत्मना तपः ॥ 

प्रयच्छन्त्य् अपरेभ्यश् च धनार्थं धर्मविक्रयी । 

गोरसानां च विक्रेता गोविक्रेता च यो द्विजः ॥ 

[९९] गुडलवणतिलानां विक्रेता दुष्टविक्रयी ।

आत्मानं धर्मकृत्यं च पुत्रदारांश् च पीडयन् ॥ 

लोभाद्यः प्रचिनोत्य् अर्थान् स कदर्य इति स्थितिः । 

निकृष्टोत्कृष्टमध्येषु यो वर्णेष्व् अनवग्रहः ॥ 

आचरत्य् अपराचारं वर्णसम्भेदकस् तु सः । 

अनाहिताग्निः शतगुर् अनीजानः सहस्रगुः ॥ 

शूद्राजीवोपजीवी च नार्हन्त्य् अर्घान् द्विजातयः । 

कूपमात्रोदके ग्रामे विप्रः संवत्सरं वसन् ॥ 

शौचाचारपरिभ्रंशाद् ब्राह्मण्याद् विप्रमुच्यते । 

अनुपासितसन्ध्या ये नित्यम् अस्नातभोजनाः ॥ 

भ्रष्टशौचाः पतन्त्य् एते शूद्रतुल्याश् च धर्मतः । 

एकाकी व्यसनाक्रान्तो धन्य इत्य् उच्यते बुधैः ॥ 

देवकोशोपजीवी च नाम्ना देवलको भवेत् ॥

“अनवग्रहः” त्यक्तशास्त्रप्रतिनियमः । “अपराचारम्” अन्त्यवर्णोचिताचारम् ॥

यमः

समर्घं पण्यम् आहृत्य महार्घे यः प्रयच्छति । 

स वै वार्धुषिको नाम यश् च वृद्ध्या प्रयोजयेत् ॥ 

तथा

यश् च निन्द्यात् परं जीवन् प्रशंसत्य् आत्मनो गुणान् । 

स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥ 

“जीवन्” जीवनहेतोर् इत्य र्थः ।

तथा

अग्नीन् उत्सादयेद् यस् तु वीरहा स निरुच्यते ॥ 

[१००] देवलः

यः सगोत्रां समारूढो ब्राह्मणो गोत्रभिद् भवेत् । 

वैश्यापतिः कृष्णपृष्ठः काण्डपृष्ठो नरो भवेत् ॥ 

क्षत्रियवैश्यवृत्त्यनन्तरं नारदः [४, ६०] ।

तस्याम् एव च यो वृत्तौ ब्राह्मणो रमते रसात् । 

काण्डपृष्ठश् च्युतो मार्गात् सो ऽपाङ्क्तेयः प्रकीर्तितः ॥ 

हारीतः

शूद्रापुत्राः स्वयन्दत्ता ये चैते क्रीतकाः सुताः । 

सर्वे ते मैत्रिणा प्रोक्ताः काण्डपृष्ठा न संशयः ॥ 

काण्डमेषां कुलस्याख्या पर्वाण्य् आहुर् युगानि तु । 

यस् तु तं न्यायतो रक्षेत् स कुलीन इति स्मृतः ॥ 

स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् । 

तेन दुश्चरितेनासौ काण्डपृष्ठो न संशयः ॥ 

यमः

आपद्गतो ह्य् उपनतो यश् च स्याद् वैष्णवीसुतह् । 

सर्वे ते मनुना प्रोक्ताः काण्डपृष्ठास् त्रयः स्मृताः ॥ 

कुलं काण्डम् इति ख्यातं तस्मात् पर्वाणि ते जगुः । 

तत्र ज्येष्ठतरो यस्मात् तं वै काण्डेति निर्दिशेत् ॥ 

स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् । 

तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः ॥ 

[१०१] देवलः

राजप्रेष्यकरो नित्यं ब्राह्मणो विकृतः स्मृतः । 

अधीतविस्मृते वेदे भवेद् विप्रो निराकृतिः ॥ 

छन्दोगपरिशिष्टे कात्यायनः

यः स्वाध्यायाग्निमांस् तस्माद् देवादीन्नैभिर् इष्टवान् । 

निराकर्तामरादीनां स विज्ञेयो निराकृतिः ॥ 

“देवादीन्नैभिः” इति, अवश्यकृत्यदर्शपौर्णमासादियागद्वारेण ।

देवलः

गूढलिङ्ग्य् अवकीर्णी स्याद् यश् च भग्नव्रतस् तथा । 

धर्माधर्मविभागज्ञो निविष्टो वेदशासने ॥ 

कृपालज्जाक्षमाधीमान् आर्यो म्लेच्छो विपर्यये । 

द्वितीयस्य पितुर् यो ऽन्नं भुक्त्वा परिणतो द्विजः ॥ 

अवरेढ इति ज्ञेयः शूद्रधर्मेण जीवनः । 

भवेत् कारणसञ्ज्ञश् च सर्वेषु व्यवहारवान् ॥ 

अगारदाही स ज्ञेयः प्रेतदग्धा ह्य् अनेकशः । 

स चाप्य् अगारदाही स्याद् यो द्वेषाद् वेश्मदाहकः ॥ 

क्षेत्रसस्यवनानां च दग्धारो ऽरण्यदाहिनः । 

षण्डको वातजः षण्डः षण्डः क्लीबो नपुंसकः ॥ 

कीलकश् चेति षट्को ऽयं षण्डभेदो विभावितः ।

तेषां स्त्रीतुल्यवाक्चेष्टः स्त्रीधर्मा षण्डको भवेत् ॥ 

[१०२] पुमान् भूत्वा स्वलिङ्गानि पश्चाच् छिन्द्यात् तथैव च ।

स्त्री व पुम्भावम् आस्थाय पुरुषाचारवद्गुणा ॥ 

वातजो नाम षण्डः स्यात् स्त्रीषण्डो वापि नामतः । 

असल्लिङ्गो ऽपि षण्डः स्यात् षण्डस् तु म्लानमेहनः ॥ 

स कीलक इति प्रोक्तो यः क्लैब्याद् आत्मनः स्त्रियम् । 

अन्येन सह संयोज्य पश्चात् ताम् एव सेवते ॥ 

स्कन्दपुराणे

	ईश्वर उवाच- 

परीक्ष्य श्राद्धं दातव्यम् इत्य् एवं वैदिकी श्रुतिः । 

परीक्षणाच् च रम्भोरु आर्जवं गुणवत्तरम् ॥ 

अपरीक्ष्य तु यो दद्याच् छ्राद्धम् आर्जवम् आस्थितः । 

तस्य तुष्यन्ति पितरो देवताश् च न संशयः ॥ 

[१०३]

॥ ११ ॥

॥ अथ निमन्त्रणं निमन्त्रितनियमाश्च ॥

तत्र देवलः

अक्रोधो निभृतः स्वस्थः श्रद्धावान् अत्वरः शुचिः । 

समाहितमनास् तत्र क्रियायाम् असकृत् सदा ॥ 

[ तथा ]

श्वः कर्तास्मीति निश्चित्य दाता विप्रान् निमन्त्रयेत् । 

निरामिषं सकृद् उक्त्वा सर्वभुक्तजने गृहे ॥ 

असम्भवे परेद्यर् वा ब्राह्मणांस् तान् निमन्त्रयेत् । 

अज्ञातीन् असमानार्षान् अयुग्मान् आत्मशक्तितः ॥ 

“निभृतो” ‘त्र विविक्तदेशस्थितः । “समाहितमनाः” द्रव्यादौ । अयम् अर्थः — “असकृत्” पुनः पुनः, श्राद्धे तथा भवितव्यं यथा मनो नासंयतं भवतीति । ऽनिरामिषं सकृद् भुक्त्वा" इति पूर्वेद्युः परेद्युर् निमन्त्रणयोः साधारणम् । “सर्वभुक्तजने” सर्वे भुक्तवन्तो जना यस्मिन् स तथा । “असम्भवे” कुतश्चिन् निभित्तात् पूर्वेद्युर् निमन्त्रणासम्पत्तौ । ऽआर्षाः " प्रवराः ॥

शङ्खलिखितौ

    जन्मशरीरलक्षणगुणोपेतान् ब्राह्मणान् आमन्त्रयेत् । श्वो ‘द्येति वा श्राद्धम् आचरिष्य इति ॥ 

[१०४] मार्कण्डेयपुराणे [३१,३०,३३,३४] ।

निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् । 

अप्राप्तौ तद्दिने वापि हित्वा योषित्प्रसङ्गिनम् ॥ 

भिक्षार्थम् आगतान् वापि काले संयमिनो यतीन् । 

भोजयेत् प्रणिपाताद्यैः प्रसाद्य यतमानसः ॥ 

“अप्राप्तिः” अत्रासम्भवः ॥

मनुः [३, १८७ ] ।

पूर्वेद्य्र् अपरेद्यर् वा श्राद्धकर्मण्य् उपस्थिते । 

निमन्त्रयेत त्र्यवरान् सम्यग् विप्रान् यथोदितान् ॥ 

उशना

    तत्र गोमयोदकैर् भूमिमार्जनं भाण्डशौचं कृत्वा श्वः कर्तास्मीति ब्राह्मणान् निमन्त्रयेच् चतुरवरान् ॥ 

“चतुरवरान्” द्वौ दैवे, एकैकं पितृमातामहवर्गयोः ॥

वाराहपुराणे

वस्त्रशौचादि कर्तव्यं श्वः कर्तास्मीति जानता । 

स्थानोपलेपनं भूमिं कृत्वा विप्रं निमन्त्रयेत् ॥ 

दन्तकाष्ठं च विसृजेद् ब्रह्मचारी शुचिर् भवेत् । 

ऽभूमिं कृत्वा" दक्षिणाप्रवणादिगुणोपेताम् । ऽविसृजेत् " ब्राह्मणेभ्यो दद्यात् ॥

[१०५] आपस्तम्बः [२,१७,११-१७] ।

    पूर्वेद्युर् निवेदनम् । अपरेयुर् द्वितीयम् । तृतीयम् आमन्त्रणम् । त्रिःप्रायम् एके श्राद्धम् उपदिशन्ति । यथा प्रथमम् एवं द्वितीयं तृतीयं च ॥ 


    सर्वेष्व् एव विप्रेषु निवेदनं श्वो मया श्राद्धं कर्तव्यम्, तत्र भवन्तो निमन्त्रणीया इति । ब्राह्मणचोदनम् अपपरेयुः प्रातःकाले । भोजनकाले चामन्त्रणम् ॥ 

मत्स्यपुराणे

दक्षिणं जानुम् आलभ्य त्वं मयात्र निमन्त्रितः । 

एवं निमन्त्र्य नियमाञ् श्रावयेत् पैतृकान् बुधः ॥ 

तान् एवाह ।

अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । 

भवितव्यं भवद्भिश् च मयात्र श्राद्धकर्मणि ॥

यमः

साधुभिः सन्निमन्त्रयेत् ॥ 

तस्य ते पितरः श्रुत्वा श्राद्धकालम् उपस्थितम् । 

अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवाः ॥ 

तथा

ब्राह्मणैश् च सहाश्नन्ति पितरो ह्य् अन्तरिक्षगाः । 

वायुभूता न दृश्यन्ते भुक्त्वा यान्ति परां गतिम् ॥ 

‘साधुभिः सन्निमन्त्रयेद्" इति स्वयं निमन्त्रणासम्भवे । ऽभवितव्यं भवद्भिश् च मयात्र श्राद्धकर्मणि" **[१०६] **इत्यभिधानेन लिङ्गेन स्वयं निमन्त्रणस्य मुख्यत्वात् । यम-शातातपौ

अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमन्त्रितम् । 

तथैव वृषलस्यान्नं ब्राह्मणेन निमन्त्रितम् ॥ 

याज्ञवल्क्यः [१, २२५] ।

निमन्त्रयेत पूर्वेद्युर् ब्राह्मणान् आत्मवान् शुचिः । 

तैश् चापि संयतैर् भाव्यं मनोवाक्कायकर्मभिः ॥ 

श्राद्धाधिकारे आपस्तम्बः [२, १७, २४] ।

आरब्धे चाभोजनम् आ समापनात् ॥ 

॥ निमन्त्रितनियमाः ॥

यमः

आमन्त्रितास् तु ये विप्राः श्राद्धकाल उपस्थिते । 

वसेयुर् नियताहारा ब्रह्मचर्यपरायणाः ॥ 

यमः ।

निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा । 

न च छन्दांस्य् अधीयीत यस्य श्राद्धं च तद् भवेत् ॥ 

हारीतः

पूर्वेद्युर् मन्त्रितान् विप्रान् पितरः संविशन्ति वै । 

यजमानं च तां रात्रिं वसेयुर् नियतास् ततः ॥ 

कात्यायनः [श्राद्धकल्प, १, २३-२५ ] ।

    तद् अहः शुचिर् अक्रोधनो त्वरितो ऽप्रमत्तः सत्यवादी स्याद् अध्वमैथुनश्रमस्वाध्यायान् वर्जयेत् । आवाहनादि वाग्यत उपस्पर्शनात् । आमन्त्रिताश् चैवम् ॥ 

**[१०७] **“उपस्पर्शनात्” भोक्तॄणाम् अन्त्याचमनपर्यन्तम् ।

यमः

अहिंसा सत्यम् अक्रोधो दूरे चागमनक्रिया । 

अभारोद्वहनं क्षान्तिः श्राद्धस्योपादनाविधिः ॥ 

कात्यायनः [श्राद्धकल्प, १, १२-१३] ।

    अनिन्द्येनामन्त्रितो नापक्रामेत् । निमन्त्रितो नान्यद् अन्नं प्रतिगृह्णीयात् ॥ 

यमः, मनुश् च प्रथमे [मनु, ३, १९०]

केतितस् तु यथान्यायं ब्राह्मणो हव्यकव्ययोः । 

कथञ्चिद् अप्य् अतिक्रामन् पापः सूकरतां व्रजेत् ॥ 

ब्राह्मणं च स्वयं कृत्वा देवतापितृभिः सह । 

यद् अन्नं समुपाश्नन्ति तस्मात् तन् न व्यतिक्रमेत् ॥ 

केतनं कारयित्वा तु यो ऽतिपातयति द्विजः । 

ब्रह्महत्याम् अवाप्नोति शूद्रयोनौ च जायते ॥ 

तथा

आमन्त्रितस् तु यः श्राद्धे त्व् अन्यस्य कुरुते क्षणम् । 

संवत्सरकृतं पुण्यं तस्य नश्यति दुर्मतेः ॥ 

[१०८] तथा

आमन्त्र्य ब्राह्मणं यस् तु यथान्यायं न पूजयेत् । 

अतिकृच्छ्रासु घोरासु तिर्यग्योनिषु जायते ॥ 

‘अन्यस्य कुरुते क्षणम्" अन्यस्यामन्त्रणं स्वीकरोतीत्य् अर्थः ॥

ब्रह्मपुराणे

आमन्त्रितश् चिरं नैव कुर्याद् विप्रः कदाचन । 

देवतानां पितॄणां च दातुर् अन्यस्य चैव हि ॥ 

चिरकारी भवेद् द्रोग्धा पच्यते नरकाग्निना । 

“चिरकारी” विलम्बकारी ।

महाभारते [अनु।, ६१, ५४] ।

देवं वा यदि वा पित्र्यं यो ऽश्नीयाद् ब्राह्मणादिषु ॥ 

हारीतः

देवे वा यदि वा पित्र्ये निमन्त्रय ब्राह्मणं यदि । 

तर्पयेन् न यथान्यायं स तु तस्य फलं हरेत् ॥ 

प्रमादाद् विस्मृतं ज्ञात्वा प्रसाद्यैनं प्रयत्नतः । 

तर्पयित्वा विशेषेण सर्वं तत्फलम् आप्नुयात् ॥ 

देवलः

श्राद्धे निमन्त्रितो विप्रो वृषलीं यदि गच्छति । 

दातुः पापं समग्रं तत् क्षणेन प्रतिपद्यते ॥ 

[१०९] पूर्वं निमन्त्रितो ऽन्येन कुर्याद् अन्यपरिग्रहम् ।

भुक्ताहारेण वा भुङ्क्ते सुकृतं तस्य नश्यति ॥ 

तस्माद् दोषान् परित्यज्य तान् एतान् अपरान् अपि । 

ब्रह्मचारी शुचिर् भूत्वा श्राद्धं भुञ्जीत शक्तिमान् ॥ 

त्रीन् एव यन्त्रितो दाता भुक्ताहारेण भोजयेत् ।

त्रीन् एव निमन्त्रितब्राह्मणान् । “यन्त्रितः” नियतः । “भुक्ताहारेण” भोजनं कृत्वेत्य् अर्थः ॥

अत्र यमः आद्यश्लोकत्रये उशना च ।

आमन्त्रितस् तु यः श्राद्धे अध्वानं व्रजति द्विजः । 

भवन्ति पितरस् तस्य तं मासं पांसुभोजनाः ॥ 

आमन्त्रितस् तु यः श्रद्धे भारम् उद्वहति द्विजः । 

पितरस् तस्य तं मासं भवन्ति स्वेदभोजनाः ॥ 

आमन्त्रितस् तु यः श्राद्धे हिंसां वै कुरुते द्विजः । 

तं मासं पितरस् तस्य भवन्ति रुधिराशनाः ॥ 

आमन्त्रितस् तु यः श्राद्धे आयासं कुरुते द्विजः । 

भवन्ति पितरस् तस्य तं तु मासम् अनिर्वृताः ॥ 

आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते । 

भवन्ति पितरस् तस्य तं मासं शुक्लभोजनाः ॥ 

[११०] आमन्त्रितस् तु यः श्राद्धे कलहं कुरुते द्विजः ।

भवन्ति पितरस् तस्य तं मासं मलभोजनाः ॥ 

तस्मान् निमन्त्रितः श्राद्धे नियतात्मा भवेद् द्विजः 

अक्रोधनः शौचपरः सत्यवादी जितेन्द्रियः ॥ 

शङ्खः

निमन्त्रितस् तु यः श्राद्धे मैथुनं सेवते द्विजः । 

श्राद्धं दत्त्वा च भुक्त्वा च युक्तः स्यान् महतैनसा ॥ 

मनुः [३, १९२-२०१] ।

अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः । 

न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ 

यस्माद् उत्पत्तिर् एतेषां सर्वेषाम् अप्य् अशेषतः । 

ये च यैर् उपचर्याः स्युर् नियमैस् तान् निबोधत ॥ 

मनोर् हिरण्यगर्भस्य ये मरीच्यादयः सुताः । 

तेषाम् ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ 

विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः । 

अग्निष्वात्ताश् च देवानां मारीचा लोकविश्रुताः ॥ 

दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् । 

सुपर्णकिन्नराणां च स्मृता बर्हिषदो ऽत्रिजाः ॥ 

सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । 

वेश्यानाम् आज्यपा नाम शूद्राणां तु सुकालिनः ॥ 

[१११] सोमपाश् च कवेः पुत्रा हविष्मन्तो ऽङ्गिरःसुताः ।

पुलस्त्यस्याज्यपा नाम वसिष्ठस्य सुकालिनः ॥ 

अग्निदग्धानग्निदग्धान् काव्यान् बर्हिषदस् तथा । 

अग्निष्वात्तांश् च सौम्यांश् च विप्राणाम् एव निर्दिशेत् ॥ 

य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । 

तेषाम् अपीह विज्ञेयं पुत्रपौत्रम् अनन्तकम् ॥ 

ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः । 

देवेभ्यश् च जगत् सर्वं चरस्थाण्वनुपूर्वशः ॥ 

हारीतः

सोमो यमो ऽङ्गिराश् चैव सोमपाः पितरस् तथा । 

अग्निष्वात्ता बर्हिषदो हुतादः षड्विधो गणः ॥ 

चन्द्रमा ऋतवश् चैव मृतं यो ऽग्निर् दहत्य् अपि । 

सोमोपहूताः प्राक्सोमा अनीजानाश् च ब्राह्मणाः ॥ 

षड्विधो ऽप्य् अयं गणो “हुतादः” ।

अत्र निगमः

ये हता तत्र सङ्ग्रामे पितरस् ते त्रिधाभवन् । 

यद् धुतं पितृयज्ञेषु तेषां गच्छति तद् धविः ॥ 

**[११२] **अस्य च सर्वस्यायं तात्पर्यार्थः । यथा आवाहनकाले प्रमीताः पित्रादयो ब्राह्मणादिवर्णैर् अग्निष्वात्तादिरूपिणो ध्येया इति ॥

॥ इति निमन्त्रणं निमन्त्रितनियमाश् च ॥

[११३]

**॥ १२ ॥ **

॥ प्रागावाहनाच्छ्राद्ध विधिः ॥

अग्रावाहनात् पूर्वं श्राद्धविधिः । तत्र ऽपूर्वेद्युर् ब्राह्मणान् आमन्त्रयेद्" इत्यधिकारे—हारीतः

    अथ श्वोभूते दक्षिणां दिशं गत्वा दक्षिणाप्रणतान् समूलान् दर्भान् आहरेत् । अपरिगृहीताश् चापः । 

[ यमः] ।

समूलस् तु भवेद् दर्भः पितॄणां श्राद्धकर्मणि । 

मूलेन लोकान् जयति शक्रस्य तु महात्मनः ॥ 

गोभिलः [१,५,१७-१९] ।

    [विशाखानि प्रतिलूनाः कुशा] बर्हिः । उपमूललूनाः पितृभ्यः । तदलाभे शूकतृणशरशीर्यबल्बजमुतवनलशुण्ठवर्जं सर्वतृणानि ॥ 

ऽशूकतृणऽं शूकवत्तणम् । शरशीर्यबल्वजाश् चण्डांशुतृणजातिविशेषास् तत्तद्देशप्रसिद्धाः ।

ब्रह्मपुराणे

हरिताश् च सपिञ्जूलाः स्निग्धाः पुष्टाः समाहिताः । 

गोकर्णमात्रास् तु कुशाः सकृच्छिन्नाः समूलकाः । 

पितृतीर्थेन देयाश् च दूर्वाः श्यामाकम् एव च । 

काशाः कुशा बल्बजाश् च तथान्ये तीक्ष्णरोमशाः ॥ 

मौञ्जं च शाद्वलं चैव षड्दर्भाः परिकीर्तिताः ॥ 

श्राद्धे वर्ज्याः प्रयत्नेन ह्य् उलपक्षुपबल्वजाः ॥ 

दूर्वायाः श्यामाकस्य च काशादिवत् कुशाभावे विधिः । ऽपिञ्जूलऽं पवित्रम् । “समाहिताः” निर्दोषाः । “गोकर्णमात्राः” प्रादेशमात्राः साग्रा इति यावत् । “उलप-” कुशसदृशस् तृणविशेषः ॥

वायुपुराणे

रत्निप्रमाणाः शस्ता वै पितृतीर्थेन संस्कृताः । 

उपमूले तथा लूनाः प्रस्तरार्थे कुशोत्तमाः ॥ 

तथा

गुन्द्रा श्राद्धे क्षीरकुशा बल्वजा गन्धकी तथा । 

वीरणाश् चोलपश् चैव लम्बा वर्ज्यश् च नित्यशः ॥ 

“संस्कृताः” संसृष्टाः । “प्रस्तरः” अत्र पिण्डसंस्तरः । “गुन्द्रः” भद्रमुस्तकः । “क्षीरकुशः” प्रत्यग्रजातः । “गन्धकी” [११५] गन्धतृणानि ॥ “लम्बाः” उक्तप्रमाणाधिकाः कुशा एव दीर्घाः ॥

मनुर्-बृहस्पतिश् च प्रथमे ।

शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् । 

दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ 

अवकाशेषु चोक्षेषु जलतीर्थेषु चैव हि । 

विविक्तेषु च दत्तेन तृप्यन्ति पितरः सदा ॥ 

ऽअवकाशेषु चोक्षेषु" मनोहरेषु देशेषु । “विविक्तेषु” विजनेषु वनादिष्व् अपि ॥

यमः

रूक्षं कृमिवृतं क्लिन्नं सङ्कीर्णानिष्टगन्धिकम् । 

देशं त्व् अनिष्टशब्दं च वर्जयेच् छ्राद्धकर्मणि ॥ 

दक्षिणाप्रवणं स्निग्धं विविक्तं शुभलक्षणम् । 

शुचिं देशं परीक्ष्याथ गोमयेनोपलेपयेत् ॥

अगारेषु विविक्तेषु तीर्थेषु च नदीषु च । 

विविक्तेषु च देशेषु तुष्यन्ति पितरः सदा ॥ 

पारक्ये भूमिभागे तु पितॄणां निर्वपेत् तु यः । 

तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥ 

तस्माच् छ्राद्धानि देयानि पुण्येष्व् आयतनेषु च । 

नदीतीरेषु तीर्थेषु स्वभूमौ च प्रयत्नतः ॥ 

[११६] उपह्वरे नितम्बेषु तथा पर्वतसानुषु ।

गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ॥ 

“क्लिन्नम्” पङ्किलम् । “उपह्वरम्” अत्र पर्वतान्तकः ॥

ब्रह्मपुराणे

परकीयगृहे यस् तु स्वान् पितॄन् तर्पयेज् जडः । 

तद्भूमिस्वामिनस् तस्य हरन्ति पितरो बलात् ॥

अग्रभागं ततस् तेभ्यो दद्यान् मूल्यं च जीवताम् ।

“अग्रभागः” अत्र श्राद्धीयद्रव्यस्य । “तेभ्यः” तद्भूमिस्वामिपितृभ्यः ।

यमः

अटव्यः पर्वताः पुण्या नद्यस् तीर्थानि यानि च । 

सर्वाण्य् अस्वामिकान्य् आहुर् न हि तेषु परिग्रहः ॥ 

ब्रह्मपुराणे

जघान दानवौ विष्णुः पूर्वं तु मधुकैटभौ । 

वृत्रं महेन्द्रश् च ततः पृथ्वी तन्मेदसावृता ॥ 

अतो ऽर्थे मेदिनी सा तु लोके विज्ञायते जनैः । 

तस्माच् छ्राद्धे पञ्चगव्यैर् लेप्या शोध्या तथोल्मुकैः ॥ 

गौरमृत्तिका छन्ना प्रकीर्णतिलसर्षपा

देवलः

तथैव यन्त्रितो दाता स्नातः प्रातः सहाम्बरः । 

आरभेत नवैः पात्रैर् अन्नारम्भं च बान्धवैः ॥ 

[११७] तिलांश् च विकरेत् तत्र सर्वतो बन्धयेद् अजान् ।

असुरोपहतं सर्वं तिलैः शुद्ध्यत्य् अजेन च ॥ 

ततो ऽन्नं बहुसंस्कारं नैकव्यञ्जनभक्ष्यवत् । 

चोष्यपेयसमृद्धं च यथाशक्त्य् उपकल्पयेत् ॥

ततो ऽनिवृत्ते मध्याह्ने लुप्तलोमनखान् द्विजान् । 

अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम् ॥ 

तैलम् अभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् । 

पात्रैर् औदुम्बरैर् दद्याद् वैश्वदैवत्यपूर्वकम् ॥ 

ततः स्नात्वा निवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः । 

पाद्यम् आचमनीयं च सम्प्रयच्छेद् यथाक्रमम् ॥ 

ऽअन्नारम्भः " पाकोपक्रमः । ऽउदुम्बरऽं ताम्रम् ।

श्राद्धकाले समाहूतान् अलङ्कुर्वीत तान् द्विजान् । 

श्मश्रुकर्मशिरःस्नानधूपनाभ्यञ्जनाञ्जनैः ॥ 

मत्स्यपुराणे

उदपात्रं च कांस्यं च मेक्षणं च समित्कुशान् । 

आहरेद् अपसव्येन सर्वं दक्षिणतः शनैः ॥ 

एवम् आसाद्य तत् सर्वं भवनस्याग्रतो भुवि । 

गोमयेनोपलिप्तायां गोमूत्रेण तु मण्डले ॥ 

[११८] अक्षताभिः सपुष्पाभिस् तद् अभ्यर्च्यापसव्यवत् ।

विप्राणां क्षालयेत् पादान् अभिवन्द्य पुनः पुनः ॥ 

“उदपात्रम्” अवनेजनाद्यर्थम् । ‘कांस्यऽं चरुप्रक्षेपार्थम् । अथ श्राद्धकल्पे पिण्डपितृयज्ञाङ्गानां मेक्षणादीनाम् उपादानं श्राद्धपिण्डपितृयज्ञयोर् एकतन्त्रत्वाभिप्रायम् । मत्स्यपुराण एव श्राद्धपिण्डपितृयज्ञयोर् एकतन्त्रत्वं प्रस्तुत्य चरूद्वासनानन्तरं पिण्डपितृयज्ञसामग्रीप्रतिपादनात् ॥

आसनं कुतपं दद्याद् इतरद् वा पवित्रवत् । 

पादप्रक्षालनं कुर्यात् स्वयम् एव विनीतवत् ॥ 

आसध्वम् इति तान् ब्रूयाद् आसनं संस्पृशन्न् अपि । 

दक्षिणासंस्था आसीरन् न स्पृशेयुः परस्परम् ॥ 

ब्रह्मोयाश् च कथाः कुर्युः पितॄणाम् एतद् ईप्सितम् । 

“ब्रह्मोद्याः” ऽकः स्विद् एकाकी चरति" इत्यादिकानि वेदव्याख्यानानि ॥

शङ्खलिखितौ

    प्रयतो ऽपराह्णे शुचिः शुक्लवासा दर्भेषु तिष्ठन् स्वागतम् इति ब्रूयात् । पाद्यार्घ्याचमनीयोदकानि दत्वा ब्राह्मणान् उपसङ्गृह्योपवेशयेद् आसनम् अन्वालभ्य ॥ 

ब्रह्मपुराणे

तत्रासनानि देयानि चेलाजिनकुशैः सह । 

पृथक् पृथक् चासनेषु तिलतैलेन दीपकाः ॥ 

[११९] अविच्छिन्नास् तथा देयास् ते तु रक्ष्यास् तु वै द्विजैः ॥

“आसनेषु” आसनसन्निधौ । “अविच्छिन्नाः” श्राद्धसमाप्तिपर्यन्तस्थायिनः ॥

[देवल-कूर्मपुराणौ] ।

ये चात्र पित्र्ये देवानां विप्राः पूर्वं निमन्त्रिताः ।

प्राङ्मुखान्य् आसनान्य् एषां द्विदर्भोपहितानि च ॥ 

दक्षिणामुखयुक्तानि पितॄणाम् आसनानि तु । 

दक्षिणायैकदर्भाणि प्रोक्षितानि तिलोदकैः ॥ 

“दक्षिणामुखयुक्तानि” दक्षिणाग्राणि । अग्रत्वं च काष्ठमूलभागापेक्षया,

अमावास्यां महाप्राज्ञो विप्रान् आनाय्य पूजितान् । 

दक्षिणावृत्तिकाः सर्वा बृसीः स्वयम् अथाकरोत् ॥ 

दक्षिणाग्रास् ततो दर्भा विष्टरेषु निवेशिताः । 

पादयोश् चैव विप्राणां ये त्व् अन्नम् उपभुञ्जते ॥ 

इति भारतवचनात् (अनु, १३८, १२, १४) । “दक्षिणावृत्तिकाः” दक्षिणादिशिरस्काः ॥

याज्ञवल्क्यः [१, २२६-२२८] ।

अपराह्ने समभ्यर्च्य स्वागतेनागतांस् तु तान् । 

पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत् ॥ 

दैवे युग्मान् यथाशक्ति पित्र्ये ऽयुग्मांस् तथैव च । 

परिश्रिते शुचौ देशे दक्षिणाप्रवणे तथा ॥ 

द्वौ दैवे प्राक् त्रयः पित्र्य उदग् एकैकम् एव वा । 

मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदेविकम् ॥ 

“परिश्रिते” आवृते । “प्राक्” प्राङ्मुखाः ।

विष्णुः [७३,२] ।

    द्वितीये ऽह्नि शुक्लपक्षस्य पूर्वाह्ने कृष्णपक्षस्यापराह्णे विप्रान् सुस्नातान् आचान्तान् यथाभूयो विद्याक्रमेण कुशोत्तरेष्वासनेषूपवेशयेत् ॥ 

ऽद्वितीये “ह्नि” निमन्त्रणदिनापेक्षया । ऽयथाभूयो विद्या" बहुविद्यम् अनतिक्रम्य क्रमेण दैवपूर्वम् ।

शातातपः

द्वौ देवे ऽथर्वणौ विप्रौ प्राङ्मुखाव् उपवेशयेत् । 

पित्र्ये तूदङ्मुखान् त्रींश् च बह्वृचो ऽध्वर्युसामगान् ॥ 

मनु-बौधायनौ शातातपश् च प्रथमे ।

द्वौ देवे पितृकृत्ये त्रीन् एकैकम् उभयत्र वा । 

भोजयेत् सुसमृद्धो ऽपि न प्रसज्येत विस्तरे ॥ 

सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् । 

पञ्चैतान् विस्तरो हन्ति तस्मान् नेहेत विस्तरम् ॥ 

[१२१] ब्रह्मपुराणे

देशकालधनाभावाद् एकैकम् उभयत्र वा । 

शेषान् वित्तानुसारेण भोजयेद् अन्यवेश्मनि ॥ 

यस्माद् ब्राह्मणबाहुल्याद् दोषो बहुतरो भवेत् ।

श्राद्धनाशो मौननाशः श्राद्धतन्त्रस्य विस्मृतिः ॥ 

उच्छिष्टोच्छिष्टसंस्पर्शो निन्दा दात्रन्नभोक्तृषु । 

वितण्डया परीवादो जल्पास् ते ते पृथग्विधाः ॥ 

विष्णुपुराणे [३, १५, १७-१८] ।

प्राङ्मुखान् भोजयेद् विप्रान् देवानाम् उभयात्मकान् । 

पितृमातामहानां च भोजयेच् चाप्य् उदङ्मुखान् ॥ 

पृथक् तयोः केचिद् आहुः श्राद्धस्य करणं बुधाः । 

एकत्रैकेन पाकेन वदन्त्य् अन्ये महर्षयः ॥ 

बौधायनः [२,१७,१२] ।

उरःस्थाः पितरस् तस्य वामपार्श्वे पितामहाः । 

प्रपितामहा दक्षिणतः पृष्ठतः पिण्डतर्ककाः ॥ 

“उरःस्थाः” इत्याद्येकब्राह्मणपक्षे । “पिण्डतर्ककाः” पिण्डलेपाभिलाषिणः ॥

गौतमः [१५, ७-८] ।

नवावरान् भोजयेत् । अयुजो वा यथोत्साहं वा ॥ 

[१२२] आश्वलायनगृह्यम् [४,७,१-४] ।

    अथातः पार्वणे श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा । ब्राह्मणान् श्रुतशीलवृत्तसम्पन्नान् एकेन वा काले ज्ञापितान् स्नातान् कृतपच्छौचान् आचान्तान् उदङ्मुखान् पितृवद् उपवेश्यैकैकस्य द्वौ द्वौ त्रींस् त्रीन् वा वृद्धौ फलभूयस्त्वं न त्व् एवैकं सर्वेषाम् । कामम् अनाद्ये । पिण्डैर् व्याख्यातम् ॥ 

“एकेन” श्रुतादीनां समुदितानाम् असम्भव एषाम् अन्यतमेनापि सम्पन्नान् । “कृतपच्छौचान्” कृतपादप्रक्षालनान् पूर्वं विश्वेभ्यो देवेभ्यो ब्राह्मणान् उपवेश्य । “पितृवत्” पित्रादिक्रमेण । ऽद्वौ द्वौ" इत्याभ्युदयिकश्रादविषयम्, स्मृत्यन्तरेषु पार्वणादाव् अयुग्मब्राह्मणनियमात् । अत्रैवोपक्रमे ऽअथातः पार्वणे श्राद्धे काम्ये आभ्युदयिके" इत्यभिधानात् । ऽपिण्डैर् व्याख्यातम्" इति, यथा बहूनां पितॄणां प्रतिपुरुषं पिण्डस् तथा ब्राह्मणो ऽपि प्रतिपुरुषम् इति । “अनाद्ये” आद्यम् अत्र पार्वणधर्मकाणाम् आदिभूतं सपिण्डीकरणश्राद्धम्, तद्व्यतिरिक्ते श्राद्धे **[१२३] **काम्ये एकः पितॄणां ब्राह्मण इति । “अनाद्ये” अदनीयद्रव्याभावे एको ऽपि भोजनीय इति कश्चित् ॥

पैठीनसिः

    श्वः श्राद्धं करिष्यामीति सङ्कल्प्य ब्राह्मणान् सप्त पञ्च वा श्रोत्रियान् निमन्त्र्य शुचिः शुचौ देशे गवां गोष्ठे ऽग्न्यगारे वा गोमयेन विलिप्य पुष्पोपहारं कृत्वा प्राङ्मुखान् विश्वेदेवान् उपवेशयेत् । बर्हिष्मत्स्व् आसनेषु पितॄन् दक्षिणपूर्वेणेत्युक्तं श्राद्धकल्पश् च ॥ 

बौधायनः [२,१४,६] ।

    चरणवतो ऽनूचानान् योनिगोत्रमन्त्रासम्बन्धान् शुचीन् मन्त्रवतस् त्र्यवरान् अयुजः पूर्वेद्युः प्रातर् एव चामन्त्र्य सदर्भवत् क्लृप्तेष्व् आसनेषु प्राङ्मुखान् उपवेशयेद् उदङ्मुखान् वा ॥ 

“चरणवतः” स्वशाखायां व्यवस्थितान् । “मन्त्रासम्बन्धाः” शिष्योपाध्यायव्यतिरिक्ताः । “मन्त्रवतः” मन्त्राध्ययनयुक्तानिति ॥

हारीतः [अ। १२] ।

    कृतवेश्मकर्माणः सस्त्रीबालवृद्धाः सुरभिस्नाताः शुचयः शुचिवाससः । शुचीन् उपस्पृष्टाचमनीयान् शुचौ दक्षिणाग्रेषु दर्भेषु प्राङ्मुखान् ब्राह्मणान् भोजयेत् । उदङ्मुखान् इत्य् <span style="text-decoration:underline;">एके</span> । न वा प्राङ्निर्देशात् क्रूरा ह्य् एतेऽभिमुखा हिंसका **[१२४] **भवन्तीति **मैत्रायणिः** । तस्मात् प्राङ्मुखान् एव [ब्राह्मणान्] भोजयेत् । उदङ्मुखान् वैश्वदेवे । ते हि दक्षिणां रक्षन्ति ॥ 

“शुचिवाससः” स्युर् इति शेषः । ऽन वा" न उदङ्मुखान् भोजयेत् । “प्राङ्निर्देशात्” इति, पूर्वं यस्माद् एते पितॄन् उद्दिश्य निर्दिष्टास् तदर्थत्वेन कल्पितनिमन्त्रणादिना निमन्त्रणोत्तरकालं च,

निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् । 

वायुवच् चानुगच्छन्ति तथासीनान् उपसते ॥ 

इति दृष्ट्या पित्रधिष्ठानत्वात् ऽएते क्रूराः" । अतो दक्षिणाभिमुखस्य यजमानस्य श्राद्धं कुर्वतो ऽभिमुखा हिंसका भवन्ति । तस्मात् प्राङ्मुखान् स्वयं च दक्षिणाभिमुखो भोजयेत् । “दक्षिणाः” दक्षिणादिगवस्थिताः । इदं च पित्र्यब्राह्मणनां प्राङ्मुखोपवेशनं मैत्रायणीयानां व्यवस्थितम् ॥

वसिष्ठः [११, २९-३१] ।

अपि वा भोजयेद् एकं ब्राह्मणं वेदपारगम् । 

श्रुतशीलोपसम्पन्नं सर्वालक्षणवर्जितम् ॥ 

यद्य् एकं भोजयेच् छ्राद्धे दैवं तत्र कथं भवेत् । 

अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥ 

[१२५] देव्तायतने कृत्वा तथा श्राद्धं प्रवर्तयेत् ।

प्रास्येद् अन्नं तदग्नौ तु दद्याद् वा ब्रह्मचारिणे ॥ 

“अलक्षणानि” कुष्ठित्वादादीनि ।

शङ्खः

भोजयेद् अथ वाप्य् एकं ब्राह्मणं पक्तिपावनम् । 

दिव्ये कृत्वा तु नैवेद्यं पश्चात् तस्य तु निर्वपेत् ॥ 

“दिव्ये” विश्वेदेवस्थाने । ऽनैवेद्यऽं देवार्थम् उपकल्पितम् ।

बृहस्पतिः [श्राद्ध, ८६,८८] ।

यद्य् एकं भोजयेच् छ्राद्धे स्वल्पत्वात् प्रकृतस्य तु ।

स्तोकं स्तोकं समुद्धृत्य तेभ्यो ऽन्नं विनिवेदयेत् । 

ऽप्रकृतं " श्राद्धोचितं द्रव्यम् । ऽस्तोकं स्तोकं समुद्धृत्य " एकस्मिन्न् एव पात्रे पित्र्यादिभ्यो विभज्यानं सङ्कल्पयेद् इत्य् अर्थः ।

हारीतः

सन्तिष्ठमानेष्व् अर्हत्सु यो ‘नर्हो ऽग्रासनं श्रयेत् । 

गृह्णाति सकलं पङ्क्तेर् आयुषा च वियुज्यते ॥ 

चतुर्णां दुष्कृतं हरति ब्राह्मणो विघ्नकारकः ॥ 

अन्नस्यान्नपतेः पङ्क्तेर् भोजनाकाङ्क्षिणां तथा ॥ 

[सुमन्तुः] ।

विद्यातपोऽधिकानां वै प्रथमासनम् उच्यते । 

[१२६] यमः

प्रायेण मूर्खः श्रुतिमन्त्रहीनो 

	यो ऽग्रासनं गच्छति मूर्खभावात् । 

नान्यद् भयं पश्यति मूढचेता 

	देहप्रणाशे नरकं सुघोरम् ॥ 

यो वै विद्वान् न च ब्रह्मचारी 

	न चाश्रमस्थो न च मन्त्रपूतः । 

हवींषि चाश्नाति धुरि स्थितश् च 

	सो ऽश्नति पङ्क्त्या मलकिल्बिषाणि ॥ 

पङ्क्तिपावनानन्तरं पैठीनसिः

    तेषाम् एकैकः पुनाति पङ्क्तिनियुक्तो मूर्धनि सहस्रैर् अप्य् उपहताम् । तस्मान् नानियुङ्क्तो ऽग्रासनं गच्छेत् । यदि गच्छेत् पङ्क्त्या हरति दुष्कृतम् ॥ 

[१२७]

॥ १३ ॥

॥ अथ श्राद्धसम्पदः ॥

तत्र ब्राह्मणाः शास्त्रसम्पद्धेतवो दर्शिताः ऽअग्रयाः सर्वेषु वेदेषु" इत्यादियाज्ञवल्क्योक्तेः । अन्यद् अप्य् आह मनुः [३, २५५ - २५६] ।

अपराह्णस् तिला दर्भा वास्तुसम्पादनं तथा । 

सृष्टिर् मृष्टिर् द्विजाश् चाग्र्याः श्राद्धकर्मसु सम्पदः ॥ 

दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः । 

पवित्रं यच् च पूर्वोक्तं विज्ञेया हव्यसम्पदः ॥ 

“वास्तुर्” अत्र श्राद्धदेशः, तस्य सम्पादनं “वास्तुसम्पादनम्” दक्षिणाप्रवणत्व-समीकरणोपलेपनादिकरणम् । “सृष्टिः” विसर्गः, अकार्पण्येनान्नव्यञ्जनादिदानम् । [१२८] “मृष्टिः,” अन्नादेः स्वादुत्वसम्पादनम् । “सम्पदः” समृद्धयः । ऽपवित्रऽं मन्त्राः । ऽपवित्रऽं पावनं, शुच्याचारादि । ‘पूर्वोक्तऽं वास्तुसम्पादनादि । ऽहव्यऽं अत्र दैविकं कर्म । देवलः

दर्भास् तिला गजच्छाया दौहित्रो मधुसर्पिषी । 

कुतपो नीलकण्ठश् च पवित्राणीह पैतृके ॥ 

“नीलकण्ठो” नीलवृषः । सो ऽत्र पितृकर्मप्रसङ्गाद् उक्तः ।

यमः

यत्नेन भोजयेच् छ्राद्धे दौहित्रं व्रतिनं शिशुम् । 

दत्त्वासनं तु कुतपं तिलैर् अभ्यवकीर्य च ॥ 

ऽशिशुऽं बालम् अपि ।

पैठीनसिः

    तिला दौहित्रः कुतपा इति पवित्राणि श्राद्धे । सत्यं क्रोधं [चाक्रोधं?] च शौचं चाचारं च प्रशंसन्तीति ॥ 

विष्णुः [ ७९, १६] ।

    [खग]कुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि [च] पवित्राणि रक्षोघ्नानि च दद्यात् ।

[१२९] वायुपुराणे

कृष्णाजिनस्य सान्निध्यं दर्शनं दानम् एव च । 

रक्षोघ्नं ब्रह्मवर्चस्यं पशून् पुत्रांश् च दापयेत् ॥

हारीतः

दर्भैर् अद्भिस् तिलैर् दत्तं तूष्णीम् अप्य् आप्नुते दिवम् । 

विधिना त्व् आनुपूर्व्येण त्व् अक्षयं परिकल्पते ॥ 

काञ्चनादिषु दर्भाद्यैर् मन्त्रवत् प्रतिपादिताः । 

पितॄणाम् अक्षया यान्त्य् अमृता भूत्वा महोर्मिभिः ॥ 

ऽतूष्णीऽं श्राद्धमन्त्रविवर्जितम् । इयं च दर्भादीनां विध्यानुपूर्वीसहितानां स्तुतिः । “काञ्चनादिषु” पात्रेष्व् इति शेषः । “प्रतिपादिता” आपत्स्व् इति शेषः ।

यमः

रक्षन्ति दर्भा असुरान् तिला रक्षन्ति राक्षसान् । 

वेदविद् रक्षति त्व् अन्नं यतये दत्तम् अक्षयम् ॥ 

हारीतः

तिला रक्षन्ति दैतेयान् दर्भा रक्षन्ति राक्षसान् । 

रक्षन्ति श्रोत्रियाः पङ्क्तिं स्नातके दत्तम् अक्षयम् ॥ 

विष्णुः [१८, ४] ।

तिलैः सर्षपैर् वा यातुधानान् विसर्जयेत् ॥ 

[१३०] उशना

कुशा दर्भाः समाख्याताः कुतपो बृसयस् तथा । 

दुहितुश् चैव ये पुत्रा दौहित्रास् ते प्रकीर्तिताः ॥ 

“बृसी” आसनविशेषः, तृणमयं वर्तुलम् आसनम् ॥

शातातपः

दौहित्रं खड्गशृङ्गं तु ललाटे यद् धि जायते । 

तस्य शृङ्गस्य यत् पात्रं दौहित्रम् इति तद् विदुः ॥ 

दिवसस्याष्टमे भागे मन्दी भवति भास्करः । 

स कालः कुतपो नाम पितॄणां दत्तम् अक्षयम् ॥ 

पैठीनसिः

कुतो ऽपि श्राद्धवेलायां श्रोत्रियो यदि दृश्यते । 

श्राद्धं पुनाति वै यस्मात् कुतपस् तेन सञ्ज्ञितः ॥ 

अत्र च कुतपदौहित्रयोर् अनेकार्थत्वाद् एकतमोपादाने ऽपि श्राद्धसमृद्धिर् भवतीति मन्तव्यम् ॥

ब्रह्मपुराणे

यतिस् त्रिदण्डी करुणा राजतं पात्रम् एव च । 

दौहित्रः कुतपः कालश् छागः कृष्णाजिनं तथा ॥ 

[१३१] गौराः कृष्णास् तथारण्यास् तथैव त्रिविधास् तिलाः ।

पितॄणां तृप्तये सृष्टा दशैते ब्रह्मणा स्वयम् ॥ 

दर्भैर् मन्त्रैस् तिलैर् हेम्ना राजतेन विना जलम् । 

दत्तं हरन्ति रक्षांसि तस्माद् दद्यान् न केवलम् ॥ 

मत्स्यपुराणे

तथा खाड्गं च तत्पात्रं यश् च नेपालकम्बलः । 

रुक्मं दर्भास् तिला गावो दौहित्रश् चाष्टमः स्मृतः ॥ 

पापं कुत्सितम् एवाहुस् तस्य सन्तापकारिणः । 

अष्टाव् एते यतस् तस्मात् कुतपा इति विश्रुताः ॥ 

[१३२]

॥ १४ ॥

॥ अथातिथ्यम् ॥

तत्र यमः

भिक्षुको ब्रह्मचारी च भोजनार्थम् उपस्थितः । 

उपविष्टेष्व् अनुप्राप्तः कामं तम् अपि भोजयेत् ॥ 

यस्य वै यजमानस्य नाग्रे भुङ्क्ते यतिस् तथा । 

अनिष्टम् अहुतं तस्य हरते रक्षसां गणः ॥ 

प्रकृतेर् गुणतत्त्वज्ञो यस्याश्नाति यतिर् हविः । 

स तु वेदविदां तस्य सहस्राद् अतिरिच्यते ॥ 

तस्माद् अग्रासने भोज्यो यजता संशितो यतिः । 

श्रोत्रियो ब्रह्मचारी वा यज्ञस् तेन न लुप्यते ॥ 

सहस्रं तु सहस्राणां स्नातका यत्र भुञ्जते । 

एकस् तान् योगवित् प्रीतः सर्वान् अर्हति धर्मतः ॥ 

“अनुप्राप्तः” अतिथित्वेनेति शेषः । “यजमानस्य” श्राद्धं कुर्वाणस्य । “अनिष्टम्” इति, इष्टं हुतं च यस्माद् रक्षसां गणो हरति तस्माद् अनिष्टम् अहुतं भवतीत्य् अर्थः । ऽप्रकृतेर् गुणतत्त्वज्ञः" प्रकृतिर् अत्र परमात्मा, ऽप्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्" इति बादरायणसूत्रदर्शनात् । तस्य गुणाश् चिदानन्दादयः । तेषां तत्त्वं स्वरूपाव्यतिरेकः, तज्ज्ञ इत्य् अर्थः । “अग्रासने” तस्याम् एव पङ्क्तौ मूर्धनि । “अर्हति” आत्मना स स्वीकरोति ॥

[१३३] छागलेयः

पूजयेच् छ्राद्धकाले ऽपि यतिं सब्रह्मचारिणम् । 

विप्रान् उद्धरते पापात् पितृमातृगणान् अपि ॥ 

भुञ्जते यत्र तत्रापि यतयो ब्रह्मचारिणः । 

गृह्णन्ति पितरो देवाः स च याति परां गतिम् ॥ 

तारयन्ति च दातारं पुत्रान् दारान् पितॄंस् तथा ॥ 

तस्मात् सर्वप्रयत्नेन अर्चयेद् आश्रमागतम् ॥ 

अलाभे ध्यानभिक्षूणां भोजयेद् ब्रह्मचारिणम् । 

तदलाभे ऽप्य् उदासीनं गृहस्थम् अपि भोजयेत् ॥ 

ब्रह्मचारिसहस्रैस् तु वानप्रस्थशतैर् अपि । 

गृहस्थानां सहस्रैस् तु यतिर् एको विशिष्यते ॥ 

गन्धमाल्यफलैश् चैव भोजनैः क्षीरसंस्कृतैः । 

सम्पूजयेद् यतिं श्राद्धे पितॄणां तुष्टिकारिणम् ॥ 

ब्रह्मचारी तपस्वी च पूजनीयौ हि नित्यशः । 

तत्कृतं सुकृतं यत् तु तस्मात् षड्भागम् आप्नुयात् ॥ 

जाप्यं योगश् च यज्ञश् च यतस् तस्मै त्रयं स्मृतम् । 

तस्य प्रणामः पूजा च दत्तं भवति चाक्षयम् ॥ 

गृहस्थस्याश्रमं गच्छेद् ब्रह्मचारी यतिस् तथा । 

खाद्यं पानं फलं पुष्पम् आत्मानम् अपि वेदयेत् ॥ 

सततं योगयुक्तानां वीतरागतपस्विनाम् । 

सर्वारम्भनिवृत्तानां यतीनां दत्तम् अक्षयम् ॥ 

[१३४] यतये वीतरागाय दत्तम् अन्नं सुपूजितम् ।

न क्षीयते श्रद्धयापि कल्पकोटिशतैर् अपि ॥ 

ब्रह्मचारी यतिश् चैव पक्वान्नस्वामिनाव् उबौ । 

पचमानाः पतन्त्य् एते तापसः पतते पुनः ॥ 

योगिनं समतिक्रम्य गृहस्थं यदि भोजयेत् ॥ 

न तत् फलम् अवाप्नोति सर्वं गोत्रं प्रपातयेत् ॥ 

योगिनं समतिक्रम्य पूजयन्ति परस्परम् । 

दाता भोक्ता च नरकं गच्छते सह बान्धवैः ॥ 

अपरस्परदानानि लोकयात्रा न धर्मतः ।

तस्माद् यत्नेन दातव्यम् अन्यथा पतितो भवेत् ॥ 

सब्रह्मचारिणं ब्रह्मचारिसहितम् ॥ “अलाभे” इति ध्यानभिक्ष्वादीनां सहागमने ‘पि पूर्वपूर्वोत्कृष्टज्ञापनार्थम् । “तपस्वी” यतिः । “वेदयेत्” निवेदयेत् । ऽगोत्रऽं कुलम् । “प्रपातयेत्” अतिक्रान्तो यतिर् इति शेषः । “अपरस्परदानानि” परस्परदानानि न कर्तव्यानि । यतः ऽसा लोकयात्रा न धर्मतःऽ, नञ्समासश् चात्राश्राद्धभोजीतिवत् प्रसज्य प्रतिषेधे । “धर्मतः” इति प्रथमान्तात् तसिः । “अन्यथा” परस्परदानेन ॥

मनुः [३,२८३] ।

ब्राह्मणं भिक्षुकं चापि भोजनार्थम् उपस्थितम् । 

ब्राह्मणैर् अभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ 

[१३५] शातातपः

अतिथिर् यस्य नाश्नाति तच् छ्राद्धं न प्रशस्यते । 

श्रुतव्रतविहीनैश् च भुक्तम् अश्रोत्रियैश् च यत् ॥ 

शातातपग्रन्थान्तरे

आतिथ्यरहिते श्राद्धे भुञ्जते ये ऽबुधा द्विजाः । 

वृथा तेनान्नपाकेन काकयोनिं व्रजन्ति ते ॥ 

[१३६]

॥ १५ ॥

॥ अथापासनीयाः ॥

तत्र मनुः [३,२३९-२४१] ।

चाण्डालश् च वराहश् च कुक्कुटश् च तथैव च । 

रजस्वला च षण्डश् च नेक्षेरन्न् अश्नतो द्विजान् ॥ 

होमे प्रदाने भोज्ये च यद् एभिर् अभिवीक्षितम् । 

दैवे कर्मणि पित्र्ये च तद् भवत्य् अयथातथम् ॥ 

घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः ॥ 

श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः ॥ 

ऽअयथातथं " यदर्थं क्रियते तद्विपरीतम् । ऽकुक्कुटः पक्षवातेन" इत्यादि सन्निधिविशेषणं वारणपरम्, यावति देशे कुक्कुटादीनां पक्षवातादि सम्भाव्यते तावतो देशाद् अपनेया इत्य् अर्थः । “अवरवर्णजः” शूद्रः " ॥

यमः

कुक्कुटो विड्वराहश् च काकः श्वा च बिडालकः । 

वृषलीपतिश् च वृषलः षण्डो नारी रजस्वला । 

एतानि श्राद्धकालेषु परिवर्ज्यानि नित्यशः । 

कुक्कुटः पक्षवातेन हन्ति श्राद्धम् असंवृतम् ॥ 

[१३७] घ्राणेन विड्वराहश् च वायसस् तु रुतेन तु ।

श्वा तु दृष्टिनिपातेन मार्जारः श्रवणेन तु ॥ 

वृषलीपतिश् च दानेन चक्षुर्भ्यां वृषलस् तथा । 

छायया हन्ति वै षण्डः स्पर्शेन च रजस्वला ॥ 

खञ्जः काणः कुणिः श्वित्री दातुः प्रेष्यकरो भवेत् । 

न्यूनाङ्गश् चातिरिक्ताङ्गस् तम् आशु निनयेत् ततः ॥ 

देवलः

हीनाङ्गः पतितः कुष्ठी व्रणी पुल्कसनास्तिकौ । 

कुक्कुटः शूकरश्वानौ वर्ज्या श्राद्धेषु दूरतः ॥ 

बीभत्सम् अशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् । 

नीलकाषायवसनं छिन्नकर्णं च वर्जयेत् ॥ 

शस्त्रं कालायसं सीसं मलिनाम्बरवाससम् । 

अन्नं पर्युषितं वापि श्रद्वेषु परिवर्जयेत् ॥ 

“बीभत्सः” विकृतो उद्वेगकरः पदार्थः । मलिनम् अम्बरं वस्त [वस्त्र?] इति “मलिनाम्बरवासाः” ॥

महाभारते

रजस्वला च या नारी व्यङ्गिता कर्णयोस् तथा । 

निर्वापे नोपतिष्ठेत सङ्ग्राह्या नान्यवंशजा ॥ 

“निर्वापे” पाकारम्भप्रभृतिश्राद्धकर्मणि । “अन्यवंशजा” मातापितृवंशासम्बद्धा । ऽन सङ्ग्राह्या" न व्यापारयितव्येत्य् अर्थः ॥

[१३८] विष्णुः [८१,५ - १०] ।

    संवृते न श्राद्धं कुर्यात् । न रजस्वलां [पश्येत्] । न श्वानम् । न विड्वराहम् । न ग्रामकुक्कुटम् । प्रयत्नाच् छ्राद्धम् अजस्य दर्शयेत् ॥ 

पुनर् विष्णुः [८१,१५-१७] ।

    न हीनाधिकाङ्गाश् च श्राद्धं पश्येयुः । न शूद्राः । न पतिताः । 


    न महारोगिणः ॥ 

उशना

    विड्वराहमार्जारकुक्कुटनकुलशूद्ररजस्वलाशूद्रीभर्ताश् च दूरम् 


    अपनेतव्याः ॥ 

बृहस्पतिः [श्राद्धकाण्ड, ४८,५० ] ।

श्वपाकषण्डपिशुनाः श्वानकुक्कुटसूकराः । 

रजस्वला च चाण्डालाः श्राद्धे कार्यास् त्व् अदर्शनाः ॥ 

परिश्रितेषु दद्याच् च तिलैर् वा विकिरेन् महीम् । 

निनयेच् चोपविष्टस् तु तं दोषं पङ्क्तिपावनः ॥ 

“श्वपाकः” अन्त्यजातिविशेषः ।

[१३९] हारीतः

दैवे वा यदि वा पित्र्ये सुरापी यत् तु संस्पृशेत् । 

रजस्वला पुंश्चली वा रक्षः सङ्गच्छते हि तत् ॥

वायुपुराणे

नग्नादयो न पश्येयुः श्राद्धम् एवं व्यवस्थितम् । 

गच्छन्ति तैस् तु दृष्टानि न पितॄन् न पितामहान् ॥ 

सर्वेषाम् एव भूतानां त्रयी संवरणं स्मृतम् । 

तां त्यजन्ति तु ये मोहात् ते वै नग्नादयो जनाः ॥ 

बौद्धश्रावणनिग्रन्थाः शाक्यजीवककापिलाः । 

ये ‘धर्मान् अनुवर्तन्ते ते वै नग्नादयो जनाः ॥ 

वृथाजटी वृथामुण्डी वृथानग्नश् च यो नरः । 

महापातकिनो ये च ते वै नग्नादयो जनाः ॥ 

कुलत्वमानिनः शावा व्याधा मुष्टिकलङ्घनाः । 

कुकर्मसंश्रितास् त्व् एते कुपथाः परिकीर्तिताः ॥ 

एभिर् निर्धूलितं दृष्टं श्रद्धं गच्छति दानवान् । 

देवतानाम् ऋषीणां च पापवादरताश् च ये । 

असुरान् यातुधानांश् च दृष्टम् एतैर् व्रजत्य् उत । 

अपुमान् अपविद्धश् कुक्कुटी ग्रामसूकरः ॥ 

[१४०] श्वा चैव हन्ति श्राद्धानि दर्शनाद् एव सर्वशः ।

श्वाविट्सूकरसम्मृष्टं दीर्घरोगिभिर् एव च ॥ 

पतितैर् मलिनैश् चैव न द्रष्टव्यं कथञ्चन । 

अन्नं पश्येयुर् एते यत् तन् न स्याद् धव्यकव्ययोः ॥ 

उत्स्रष्टव्यं प्रधानार्थं संस्कारस् त्व् आपदि स्मृतः । 

हविषा संस्कृतानां तु पूर्वम् एव हि मार्जनम् ॥ 

मृत्संयुक्ताभिर् अद्भिस् तु प्रोक्षणं तु विधीयते । 

सिद्धार्थकैः कृष्णतिलैः कार्यं चैवावकीरणम् ॥ 

गुरुसूर्याग्निबस्तानां दर्शनं वा प्रयत्नतः । 

“बौद्धश्रावणकादयः” पाखण्डविशेषाः । “कुलत्वमानिनः” ये कुलाभिमानेन त्यक्ताचाराः । “शावाः” मृतहारिणः । “मुष्टिकः” मल्लः । ऽप्रधानार्थऽं श्राद्धार्थम् । ऽउत्स्रष्टव्यऽं श्राद्धे तन् न नियोज्यम् । असम्भवे तु मृत्संयुक्ताभिर् अद्भिर् मार्जनादिछागदर्शन-पर्यन्तसंस्कारं कृत्वा विनियोज्यम् इति समुदायार्थः ॥

[१४१]

॥ १६ ॥

॥ अथ विधिपरिभाषा ॥

तत्र शातातपः

नित्यश्राद्धम् अदैवं स्याद् एकोद्दिष्टं तथैव च ।

मातृश्राद्धं तु युग्मैः स्याद् अदैवं प्राङ्मुखैः पृथक् ॥ 

योजयेद् देवपूर्वाणि श्राद्धान्य् अन्यानि यत्नतः । 

तथा

सदैवं भोजयेच् छ्राद्धं तत्पूर्वं च प्रवर्तयेत् । 

अन्यथा त्व् अवलुम्पन्ति सदैवासुरराक्षसाः ॥ 

ऽतत्पूर्वऽं देवपूवम् ।

वायुपुराणे

नाप्रोक्षितं स्पृशेत् किञ्चिच् छ्राद्धे दैवे तथा पुनः । 

उत्तरेण हरेद् वेद्या दक्षिणेन विसर्जयेत् ॥ 

“वेदिः” अत्र दक्षिणाप्रवणादिश्राद्धदेशः । “दैवे” देवश्राद्धे ।

मनुः [३, २०३ - २०५] ।

देवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते । 

दैवं हि पितृकार्यस्य पूर्वम् आप्यायनं स्मृतम् ॥ 

तेषाम् आरक्षभूतं तु पूर्वं दैवं नियोजयेत् । 

[१४२] रक्षांसि हि विलुम्पन्ति श्राद्धम् आरक्षवर्जितम् ॥

दैवाद्यन्तं तद् ईहेत पित्राद्यन्तं न तद् भवेत् । 

पित्र्याद्यन्तं त्व् ईहमानः क्षिप्रं नश्यति सान्वयः ॥ 

ऽआप्यायनऽं पितृश्राद्धस्य प्रधानीभूतस्य समृद्धिकरम् अङ्गभूतं न तु स्वतः प्रधानम् । ऽआरक्षभूतऽं सर्वतो रक्षाकरम् । ऽदैवाद्यन्तऽं देवताद्यारम्भावसाने यस्य तत् तथा । एतेनैतद् उक्तं भवति — निमन्त्रणानि दैवपूर्वं, विसर्जनं तु विपरीतं कर्तव्यम् ॥

देवलः

यत्र तु क्रियते कर्म पैतृके ब्राह्मणान् प्रति । 

तत् सर्वं तस्य कर्तव्यं वैश्वदैवत्यपूर्वकम् ॥ 

बृहस्पतिः [ श्राद्धकाण्ड, ९१-९४] ।

ऋतुर् दक्षो वसुः सत्यः कालः कामस् तथैव च । 

धुरिश् च रोचनश् चैव तथा चैव पुरूरवाः ॥ 

मार्द्रवश् च दशैते तु विश्वेदेवाः प्रकीर्तिताः । 

इष्टिश्राद्धे क्र्तुर् दक्षः सत्यो नान्दीमुखे वसुः ॥ 

नैमित्तिके कालकामौ काम्ये च धुरिरोचनौ । 

पुरूरवा मार्द्रवश् च पार्वणे समुदाहृतौ ॥ 

उत्पत्तिं नाम चैतेषां न विदुर् ये द्विजातयः । 

अयम् उच्चारणीयस् तैः श्लोकः श्रद्धासमन्वितैः ॥ 

आगच्छन्तु महाभागा विश्वेदेवा वरप्रदाः । 

ये यत्र योजिताः श्राद्धे सावधाना भवन्तु ते ॥ 

**[१४३] **“इष्टिश्राद्धम्” इच्छाश्राद्धम् । ऽनैमित्तिकऽं सांवत्सरिकम् । एकोद्दिष्टं तद् यस्य साग्न्यादेः पार्वणवत् क्रियते । “यत्र” विश्वेदेवानां सम्भवात् ।

शातातपः

उदङ्मुखस् तु देवानां पितॄणां दक्षिणामुखः । 

प्रदद्यात् पार्वणे श्राद्धे देवपूर्वं विधानतः ॥ 

श्राद्धकल्पे कात्यायनः [१, १,२४-२५ १, २, १-५] ।

    आवाहनादि वाग्यत उपस्पर्शनात् । आमन्त्रिताश् चैवम् । दैवपूर्वं हि श्राद्धम् । पिण्डपितृयज्ञवद् उप।चारः पित्र्ये । द्विगुणास् तु दर्भाः । पवित्रपाणिर् दद्याद् आसीनः सर्वत्र । प्रश्नेषु पङ्क्तिमूर्धन्यं पृच्छति ॥ 

ऽसर्वान् वा पित्र्य" इति वचनात् तर्पणाद्य् अपि पित्र्ये द्विगुणैः कुशैः समाचरन्ति, न ऋजुभिर् एव ॥

मनुः [३,२८९] ।

प्राचीनावीतिना सम्यग् अपसव्यम् अतन्द्रिणा ।

पित्र्यम् आनिधनात् कार्यं विधिवद् दर्भपाणिना ॥ 

ऽअपसव्यऽं वामपार्श्वे । “अतन्द्रिणा” अनलसेन । “आनिधनात्” आसमाप्तेः ।

छन्दोगपरिशिष्टे कात्यायनः [१,२३] ।

दक्षिणं पातयेज् जानु देवान् परिचरन् सदा । 

पातयेद् इतरं जानु पितॄन् परिचरन् सदा ॥ 

[इति] श्रीलक्ष्मीधरविरचिते कृत्यकल्पतरौ विधिभाषा[पर्व ॥

[१४४]

॥ १७ ॥

॥ अथ जपासनादिविधिः ॥

अथ जपासनदानावाहानार्घ्यपाद्यकरणानि ।

तत्र ब्रह्मपुराणे

उपविश्य जपेद् धीमान् गायत्रीं तदनुज्ञया । 

तथा

पापापहं पावनीयम् अश्वमेधफलं तथा । 

मन्त्रं वक्ष्याम्य् अहं तस्माद् अमृतं ब्रह्मनिर्मितम् ॥ 

देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च । 

नमः स्वधायै स्वाहायै नित्यम् एव भवन्त्व् इति ॥ 

आद्यावसाने श्राद्धस्य त्रिरावृत्तं भवेत् सदा । 

अश्वमेधफलं ह्य् एतद् द्विजैः सत्कृत्य पूजितः ॥ 

पिण्डनिर्वापणे वापि जपेद् एतत् समाहितः । 

पठ्यमानम् इदं श्रुत्वा श्राद्धकाले ह्य् उपस्थिते ॥ 

पितरः क्षिप्रम् आयान्ति राक्षसाः प्रद्रवन्ति च । 

मत्स्यपुराणे

विश्वान् देवान् यवैः पुष्पैर् अभ्यर्च्यासनपूर्वकम् । 

पूरयेत् पात्रयुग्मं तु स्थाप्य दर्भपवित्रके ॥

याज्ञ्वल्क्यः [१,२२० - २३५] ।

पाणिप्रक्षालनं दत्वा विष्टरार्थं कुशान् अपि । 

आवाहयेद् अनुज्ञातो विश्वेदेवास इत्य् ऋचा ॥ 

[१४५] यवैर् अन्ववकीर्याथ भाजने सपवित्रके ।

शन्नो देव्या अपः क्षिप्त्वा यवो ऽसीति यवांस् तथा ॥ 

या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत् । 

दत्वोदकं गन्धधूपमाल्यदानं सदीपकम् ॥ 

[तथाच्छादनदानं च करशौचार्थम् अम्बु च] । 

अपसव्यं ततः कृत्वा पितॄणाम् अप्रदक्षिणम् ॥ 

द्विगुणांस् तु कुशान् कृत्वा उशन्तस् त्वेत्य् ऋचा पितॄन् । 

आवाह्य तदनुज्ञातो जपेद् आयन्तु नस् ततः ॥ 

[अपहता इति तिलान् विकीर्य च समन्ततः । ] 

यवार्थास् तु तिलैः कार्याः कुर्याद् अर्घ्यादि पूर्ववत् ॥ 

दत्वा संस्रवांस् तेषां पात्रे कृत्वा विधानतः । 

पितृभ्यः स्थानम् असीति न्युब्जं पात्रं करोत्य धः ॥ 

ऽपाणिप्रक्षालनऽं प्रक्षाल्यते ऽनेनेति प्रक्षालनम् उदकम् । ऽविष्टरार्थम् " आसनार्थम् । “अनुज्ञातः” अनुमतः । अनुज्ञातवचनाद् एव ऽविश्वान् देवान् आवाहयिष्ये" इत्यादिप्रश्नो ऽर्थात् पूर्वं वेदितव्यः । ऽयवैर् अन्ववकीर्य" आवाहनानन्तरम् आसनार्थं यववकिरणं कृत्वा । ऽयवो “सीति” ऽयवो ऽसि धान्यराजो वा" इत्यादिना । ऽआयन्तु न" इति, ऽआयन्तु नः पितर" इत्यादिमन्त्रः । " यवार्थाः" यवप्रयोजनानि विकिरणादीनि । [१४६] “संस्रवाः” अर्घ्ये दीयमाने संस्रवन्तः उदकबिन्दवः । ऽतेषाऽं अर्घ्याणाम् । ऽन्युब्जऽं अधोमुखम् । ऽअधः " भूमौ ॥

मत्स्यपुराणे

या दिव्येत्य् अर्घ्यम् उत्सृज्य दद्याद् गन्धादिकं ततः । 

वस्त्रोत्तरं चानुपूर्वं दत्त्वा संस्रवणादि च ॥ 

पितृपात्रं निधायाथ न्युब्जम् उत्तरतो न्यसेत् ॥ 

ऽवस्त्रोत्तरं " वस्त्रदानम् उत्तरम् अन्त्यं यत्र गन्धादिदाने तत् तथा । ऽअनुपूर्वऽं अनुक्रमेण । ऽसंस्रवणऽं संस्रवोदकम् । आदिशब्देन तिलपुष्पपवित्राणां ग्रहणम् । ऽउत्तरतः " उपविष्टब्राह्मणाद् उत्तरस्यां दिशि ॥

श्राद्धकल्पे कात्यायनः [२,५-१४] ।

    आसनेषु दर्भान् आस्तीर्य विश्वान् देवान् आवाहयिष्य इति पृच्छति । आवाहयेत्य् अनुज्ञातो विश्वेदेवास आगतेत्य् अनयावाह्यादकीर्य विश्वेदेवाः शृणुतेमम् इति जपित्वा पितॄन् आवाहविष्य इति पृच्छति । आवाहयेत्य् अनुज्ञात उशन्तस् त्वेत्य् अनयर्चावाह्यावकीर्यायन्तु न इति जपित्वा यज्ञियवृक्षचमसेषु पवित्रान्तर्हितेष्व् एकैकस्मिन्न् अप आसिञ्चति शन्नो देवीर् इति । एकैकस्मिन्न् एव तिलान् आवपति ऽतिलो ‘सि पितृदैवत्यो गोसवो देवनिर्मितः । प्रत्नम् अद्भिः पृक्तः स्वधया पितृंल् लोकान् प्रीणाहि नः स्वाहेति । **[१४७] **सौवर्णराजतौदुम्बरखड्गमणिमयानां पात्राणाम् अन्यतमेषु पात्रेषु यानि वा विद्यन्ते । पत्रपुटेषु वा । एकैकस्यैकैकेन ददाति सपवित्रेषु हस्तेषु ‘या दिव्या आपः पयसा सम्बभूवुर् या अन्तरिक्ष उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास् ता न आपः शिवाः शंस्योनाः सुहवा भवन्त्व् इत्य् असाव् एषते "र्घ" इति । प्रथमपात्रे संस्त्रवान् समवनीय पितृभ्यः स्थानम् असीति न्युब्जं पात्रं निदधाति । अत्र गन्धपुष्पधूपदीपानां प्रदानम् ॥ 

“असौ” इति सबोधनान्तं पित्रादिनामोपलक्षणम् । “अत्र” एतस्मिन् काले ।

आश्वलायनगृह्यम् [४,७,५ - १४] ।

    अपः प्रदाय । दर्भान् द्विगुणभुग्नान् आसनं प्रदाय । अपः प्रदाय । तैजसाश्ममयमृन्मयेषु त्रिषु पात्रेष्व् एकद्रव्येषु वा दर्भान्तर्हितेष्व् अप आसिच्य ऽशन्नो देवीर् अभिष्टय" इत्य् अनुमन्त्रितासु तिलान् आवपति ‘तिलो ऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वधया पितॄन् इमांल् लोकान् प्रीणयाहि नः स्वधा नम” इति । प्रसव्येन । इतरपाण्यङ्गुष्ठान्तरेणोपवीतित्वाद् दक्षिणेन वा सव्योपगृहीतेन पितर् इदं ते अर्घ्यं पितामहेदं ते अर्घ्यम् इति । अपूर्वम् । **[१४८] **ताः प्रतिग्राहयिष्यन् सकृत् सकृत् स्वधा अर्घ्या इति । प्रसृष्टास्व् अनुमन्त्रयेत ‘या दिव्या आपः पृथिवी सम्बभूवुर् या अन्तरिक्ष्या उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास् ता न आपः शंस्योना भवन्तु" इति संस्रवान् समवनीय ताभिर् अद्भिः पुत्रकामो मुखम् अनक्ति । 

	नोद्धरेत् प्रथमं पात्रं पितॄणाम् अर्घ्यपातितम् । 

	आवृतास् तत्र तिष्ठन्ति पितरः शौनको ऽब्रवीत् ॥ 

	उद्धरेद् यदि तत् पात्रं ब्राह्मणो ज्ञानदुर्बलः । 

	अभोज्यं तद् भवेच् छाद्धं क्रुद्धैः पितृगणैर् गतैः ॥ 

एतस्मिन् काले गन्धमाल्यधूपदीपाच्छादनानां प्रदानम् ॥ 

ऽदर्भान् आसनं प्रदाय" दर्भान् आसनत्वेन प्रदाय इत्य् अर्थः । “तैजसाश्ममयमृन्मयेषु” यथाक्रमं पित्रादीनां द्रव्यत्रयनिर्मितेषु । “एकद्रव्येषु” द्रव्यत्रयासम्भवे मृदायेकजातीयद्रव्यमयेषु । “प्रसव्येन” वामेन हस्तेन । तत्रापि न केवलेन वामेनैव, अपि तु ऽइतरपाण्यङ्गुष्ठान्तरेणऽ, इतरस्य दक्षिणस्य पाणेः अङ्गुष्ठान्तरेण पितृतीर्थेन । तेनैतद् उक्तं भवति — वामहस्तेन अर्घ्यपात्रं धृत्वा, दक्षिणहस्तेन पितृतीर्थं संस्पृश्य, यथा ब्राह्मणहस्तेषु जलं पतति तथा देयम् इति,

[१४९] ततो वामेन हस्तेन गृहीत्वा चमसान् क्रमात् ।

पितृतीर्थेन तत् तोयं दक्षिणेन च पाणिना । 

इति ब्रह्मपुराणवचनात् । अत्रैव हेतुः “उपवीतत्वाद्” इति । यथा दक्षिणहस्तेन कर्म कुर्वन् वामस्कन्धस्थितेन यज्ञोपवीतेनोपवीती भवति तथा वामहस्तेन कर्म कुर्वन् दक्षिणस्कन्धस्थितेन यज्ञोपवीतेनोपवीती भवति । ऽदक्षिणेन वा सव्योपगृहीतेन" दक्षिणेनैवावामहस्तेन वामहस्तान्वारब्धेनार्घ्यान् दद्यात् । “प्रसृष्टासु” दत्तास्व् अप्सु । ऽनोद्धरेत् प्रथमं पात्रऽं इति – प्रथमं यथोक्तोद्धरणकालात् ॥

बैजवापगृह्यम्

    अन्नं संस्कृत्य ब्राह्मणान युग्मान् अनवद्यान् अनूचानान् यथार्हम् उपवेश्य प्राचीनावीती पात्राण्य् अप्पूर्णानि सदर्भाणि सतिलानि पश्चाद् अग्नेर् दर्भेषु निधाय तिष्ठन् पितॄन् आवाहयिष्यामीत्य् आमन्त्र्योशन्तस् त्वेत्य् अनया यजमानस्य पितरं पितामहं नामभिर् आवाह्यायन्तु नः पितर इति जप्त्वा पात्राण्य् अनुदिशति । पितर् एतत् ते अर्घ्यं पितामहेदं ते अर्घ्यं प्रपितामहेदं ते अर्घ्यम् इति ब्राह्मणाञ्जलिषु पात्राणि निनीय पितृभ्यो ऽक्षयम् अस्त्व् इति शेषं दर्भेष्व् अवनेजयति ॥ 

**[१५०] **“शेषम्” अर्घ्यं दत्त्वावशिष्टम् अर्घ्यं पात्रस्थमे व । “दर्भेषु” अर्घ्यपात्रधारणार्थम् उपकॢप्तेषु ॥

शाङ्खायनगृहयम् [४,१,२-४] ।

    ब्राह्मणान् वेदविदो ऽयुग्मान् त्र्यवरार्घ्यान् पितृवद् उपवेश्यायुग्मान्य् उदपात्राणि तिलैर् अन्ववकीर्यासाव् एतत् ते इत्य् अनुदिश्य ब्राह्मणानां पाणौ निनयेत् ॥ 

“त्र्यवरार्घ्याः” त्रयो ‘वरार्घ्या निकृष्टसङ्ख्या येषु तेषु ब्राह्मणेषु ।

तथा निगमः

    श्वःश्वो नापिताभ्यङ्गोन्मर्दनस्नानदन्तधावनादिभिर् अभ्यर्च्य स्नातान् आगतान् पाद्यार्घ्याचमनीयदर्भासनानुलेपनधूपसुमनोभिर् अभ्यर्च्य पित्रादीन् आवाहहिष्य इति पृच्छति । प्रतिपितॄन् एकैकं मातुर् मातामहांश् च वृद्धावभ्यासे दर्भान् द्विगुणान् आसनेषु प्रदाय पादेभ्यो ऽन्यांश् चोल्लिख्य दक्षिणालेखायां कृत्वा लौहांश् चमसांश् चतुरः स्रक्तिलपयोदधिमधुघृत-मिश्रान् महाव्याहृत्यापो हि ष्ठा शन्नो देवीर् इत्य् अद्भिः प्रपूर्य ताभिर् व्यतिषङ्गम् अवदानवद् धुत्वा हस्तेष्व् अपो ऽभिषिञ्चत्य् अमुष्येति नामग्राहं चतुर्थेन मातामहादीनाम् ॥ 

“श्वःश्वः” निमन्त्रणदिवसाद् द्वितीयदिने । ऽनापिताभ्यर्चनऽं नखकल्पनादिना । “वृद्धावभ्यासे” वृद्धिनिमित्तके “अभ्यासे” आवृत्तौ श्राद्धस्य, मातृमातामहादीनां प्रतिदैवतम् आवाहनादि कर्तव्यम् । ऽअन्यान् लौहान्" ताम्रादिमयान् । “चतुर” इति पित्रादित्रयस्य पात्रत्रयम्, मातामहादीनां चैकम् एव, ऽचतुर्थेन मातामहादीनाम्" इत्यभिधानात् । “स्रक्” ग्रथितकुसुमानि । “ताभिः” अद्भिः ऽव्यतिषङ्गऽं [१५१] कृत्वा इति शेषः । “अवदानवत्” अवदानधर्मेण ॥१

शङ्खलिखितौ

    अपसव्यं वासोयज्ञोपवीते कृत्वा तिलैर् अवकीर्य सवसुरभितिलोन्मिश्रं पात्रेषूदकं दत्वा शन् नो देवीर् इति ब्राह्मणान् अनुज्ञाप्य पितॄन् आवाहयिष्यामीत्य् उशन्तस् त्वेत्य् आवाह्य पवित्रान्तरितेषु ब्राह्मणहस्तेषूदकं निनयेत् ॥ 

ब्रह्मपुराणे

देवान् आवाहविष्ये ऽहं प्राहुर् आवायत्सु च । 

विप्राङ्गुष्ठं गृहीत्वा तु विश्वेदेवान् समाह्वयेत् ॥ 

ततो मन्त्रं जपेन् मौनी विश्वेदेवास आगत । 

द्वितीयं च जपेन् मन्त्रं विश्वेदेवाः शृणुतेति च ॥ 

जपेत् तृतीयं मन्त्रं तु पौराणं पुण्यवर्धनम् । 

ॐ आगच्छन्तु महाभागा विश्वेदेवा वरप्रदाः ॥ 

ये यत्र योजिताः श्राद्धे सावधाना भवन्तु ते । 

इदं वः पाद्यम् अर्घ्यं च पुष्पं धूपं विलेपनम् ॥ 

अयं दीपप्रकाशश् च विश्वेदेवाः समर्प्यते । 

पितॄन् आवाहयिष्ये ऽहं शेषान् विप्रान् वदेत् ततः ॥ 

[१५२] आवाहयेति चोक्तस् तैः सावधाना भवन्त्व् इति ।

इदं वः पाद्यम् अर्घ्यं च चतुर्थ्यन्तं निवेदयेत् ॥ 

पितॄन् पितामहान् यक्ष्ये भोजनेन यथाक्रमम् । 

प्रपितामहान् सर्वांश् च तत्पितॄंश् चानुपूर्वशः ॥ 

उशन्तस् त्वेति च जपन् पितॄन् आवाहयेत् ततः । 

सोमवन्तो बर्हिषद अग्निष्वात्ताश् च ये ऽपरे ॥ 

पितरः पुण्ययशसः सर्वे ऽप्य् आयन्तु नस् त्व् इति । 

ततस् तिलान् गृहे तस्मिन् विकिरेच् चाप्रदक्षिणम् ॥ 

श्रद्धया परया युक्तो जपेद् अपहतास् त्व् इति । 

ततो यज्ञियवृक्षोक्तपात्रेषु सकुशेषु च ॥ 

गृहीत्वा यः पवित्रांश् च शन् नो देवीं जपन् क्षिपेत् । 

विकिरेत् तेषु च तिलान् तिलो ऽसीति जपक्रमात् ॥ 

अर्घ्यैः पुष्पैश् च गन्धैश् च ताः प्रपूज्याश् च शास्त्रवत् । 

ततो वामेन हस्तेन गृहीत्वा चमसान् क्रमात् ॥ 

पितृतीर्थेन तत् तोयं दक्षिणेन च पाणिना । 

दत्तदर्भोदके हस्ते विप्रेभ्यश् च पृथक् पृथक् ॥ 

दद्यान् मन्त्रं जपंश् चाथ या दिव्या आप इत्य् अपि । 

अमुकामुकगोत्रैतत् तुभ्यम् अस्तु तिलोदकम् ॥ 

एष ते ऽर्घ्यम् इति प्रोच्य तेभ्यो दद्याद् अथाष्टधा । 

जलं क्षीरं दधि घृतं तिलतण्डुलसर्षपाः ॥ 

कुशाग्राणि च पुण्यानि दत्त्वाचामेत् ततः स्वयम् । 

[अयं वो गन्ध इत्य् उक्त्वा गन्धं दद्यात् सुशोभनम्] ॥ 

इदं च पुष्पम् इत्य् उक्त्वा पुष्पाणि च निवेदयेत् । 

अयं वो धूप इत्य् उक्त्वा तदग्रे तु दहेत् ततः ॥

अयं वो दीप इत्य् उक्त्वा दीपं हृद्यं निवेदयेत् ।

अनङ्गलग्नं सद्वस्त्रं विभवे तद्युगं शुभम् ॥

[१५३] [इदं वो वस्त्रम् इत्य् उक्त्वा त्रितयं वा निवेदयेत्] ।

इदं वो माल्यम् इत्य् उक्त्वा दद्यान् माल्यं सुशोभनम् ॥ 

श्वेतचन्दनकर्पूरकुसुमानि शुभानि च ।

विलेपनार्थं दद्यात् तु यच् चान्यत् पितृवल्लभम् ॥

“मौनी” विहितेतरवाग्व्याहरणनिवृत्तः । “आगच्छन्तु” इत्यादिकस् तु तृतीयो मन्त्रः विश्वेदेवोत्पत्तिनामविशेषासने बोद्धव्यः । ऽउत्पत्तिं नाम चैतेषाम्" इत्यादि बृहस्पतिवचनानुसारात् । ऽचतुर्थ्यन्तऽं अमुकामुकगोत्रैतत् तुभ्यम् इति प्रकारेण । “सकुशेषु” पवित्रस्वरूपकुशसहितेषु । “शास्त्रवत्” विहितैर् गन्धपुष्पादिभिर् इत्य् अर्थः । “अष्टधा” अष्टप्रकारकत्वम् अत्र द्रव्याष्टकनिबन्धनम् । ऽयच् चान्यत् पितृवल्लभम्" रजतादि, जीवतां वा यद् अभिलषितं पित्रादीनाम् ॥

तथा

तेषु संस्रवपात्रेषु जलपूर्णेषु तत्र सः । 

पुत्रकामो मुखं पश्येन् मन्त्रं पूर्वमुखो जपेत् ॥ 

शुन्धन्तां लोकाः पितृसदनाः पितृसदनम् असीति च ॥ 

ततस् तेष्व् अर्घ्यपात्रेषु सपिधानेषु तत्पितॄन् । 

पूजयेत् पितृपूर्वं तु पाद्यार्घ्यकुसुमादिभिः ॥ 

तथा

स्रस्तभाण्डानि वर्ज्यानि पितृदैवतकर्मणि । 

पृथिवी पितृभिर् दुग्धा पात्रे रौप्यमये पुरा ॥ 

[१५४] स्वधामन्त्रं च तत् तस्मात् तेभ्यः प्रियतरं सदा ।

रौप्यपात्रेण पाद्यादि तस्मात् सूक्ष्मे ऽपि कारयेत् ॥ 

दत्त्वा हेममये पात्रे रूपवान् स्यात् स मानवः ।

दत्त्वा रत्नमये पात्रे सर्वरत्नाधिपो भवेत् । 

पालाशे ब्रह्मवर्चस्वी चाश्वत्थे राज्यम् आप्नुयात् ॥ 

पात्र औदुम्बरे दत्त्वा सर्वभूताधिपो भवेत् । 

दत्त्वा न्यग्रोधपात्रे तु प्रजां तुष्टिं श्रियं लभेत् ॥ 

रक्षोघ्ने काश्मरीपात्रे दत्वा पुण्यं लभेद् यशः । 

सौभाग्यं चाथ माधूके फल्गुपात्रे च सम्पदम् ॥

श्वेतार्कमन्दारमये दत्त्वा च मतिमान् भवेत् ।

बिल्वपात्रे धनं बुद्धिं दीर्घम् आयुर् अवाप्नुयात् ॥

अथ पद्मपुटे दत्वा मुनीनां वल्लभो भवेत् ।

सिक्ते मधुघृताभ्यां च यथासम्भवम् एव वा ॥ 

ऽस्रस्तभाण्डऽं विशीर्णभाण्डम् । ऽफल्गुपात्रऽं काष्ठोदुम्बरपात्रम् ।

वायुपुराणे

तथार्घ्यपिण्डभोज्येषु पितॄणां रजतं वरम् । 

अमङ्गल्यं प्रयत्नेन देवकार्येषु वर्जयेत् ॥ 

वर्जयेद् इत्य् अनुवृत्तौ विष्णुः [ ७९,५-११] । [१५५]

    उग्रगन्धीन्य् अगन्धीनि कण्टकिजातानि रक्तानि पुष्पाणि च । सितानि सुगन्धीनि कण्टकिजातान्य् अपि जलजानि रक्तान्य् अपि दद्यात् । वसामज्जाद्यं दीपार्थं न दद्यात् । जीवजं च सर्वं न धूपार्थे । तैलघृते दद्यात् । मधुघृतसहितं गुग्गुलुं दद्यात् । चन्दनकुङ्कुमकर्पूरागुरुपद्मकान्य् अनुलेपाय ॥ 

ऽवसामज्जाद्यऽं इत्याद्यशब्दाद् अन्यद् अपि जीवजम् एवंविधं वर्ज्यम् इति गम्यते । ऽतैलघृते दद्यात्ऽ, दीपार्थम् इति शेषः ।

शङ्खः

जलोद्भवानि देयानि रक्तान्य् आपि विशेषतः । 

ऊर्णासूत्रं प्रदातव्यं कार्पासम् अथवा नवम् ॥

दशां विवर्जयेत् प्राज्ञो यद्य् अप्य् अहतवस्त्रजाम् । 

उग्रगन्धीन्य् अगन्धीनि चैत्यवृक्षोद्भवानि च ॥ 

पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च । 

घृतेन दीपो दातव्यस् तिलतैलेन वा पुनः ॥ 

धूपार्थे गुग्गुलुं दद्यात् घृतयुक्तं मधूत्कटम् । 

[१५६] ब्रह्माण्डपुराणे

शुक्लाः सुमनसः श्रेष्ठास् तथा पद्मोत्पलानि च । 

गन्धरूपोपपन्नानि यानि चान्यानि कृत्स्नशः ॥

जपादिकुसुमं भाण्डी रूषिका च कुरण्टकः । 

पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ॥ 

जपादिशब्दाद् एवंविधं रक्तकुसुमम् । “भाण्डी” मञ्जिष्ठा । “रूषिका” अर्कपुष्पम् । “कुरुण्टकः” पीताम्लातकपुष्पम् ।

बह्मपुराणे

उग्रगन्धीन्य् अगन्धीनि दुष्टानि च विवर्जयेत् । 

चन्दनागुरुणी चोभे तथैवोशीरपद्मकम् ॥ 

तुरुष्कं गुग्गुलुं चैव घृताक्तं युगपद् दहेत् । 

घृतं न केवलं दद्याद् दुष्टं वा तृणगुग्गुलुम् ॥ 

ऽतुरुष्कं " सिंहकरसः । “तृणगुग्गुलुः” सर्जरसः ।

वायुपुराणे

लोके श्रेष्ठतमं सर्वम् आत्मनश् चापि यत् प्रियम् । 

सर्वं पितॄणां दातव्यं तद् एवाक्षयम् इच्छता ॥ 

जाम्बूनदमयं दिव्यं विमानं सूर्यसन्निभम् । 

दिव्याप्सरोभिः सम्पूर्णम् अन्नदो लभते ऽक्षयम् ॥ 

आच्छादनं तु यो दद्याद् अहतं श्राद्धकर्मणि । 

आयुः प्राकाम्यम् ऐश्वर्यं रूपं च लभते शुभम् ॥

[१५७] यज्ञोपवीतं यो दद्याच् छ्राद्धकाले तु धर्मवित् ।

पावनं सर्वविप्राणां ब्रह्मदानस्य तत् फलम् ॥ 

कृतं विप्रेण यो दद्याच् छ्राद्धकाले कमण्डलुम् ।

मधुक्षीरस्रवा धेनुर् दातारम् अनुगच्छति ॥ 

चक्रविद्धं तु यो दद्याच् छ्राद्धकाले कमण्डलुम् । 

धेनुं स लभते दिव्यां घटोपकृतदोहनाम् ॥ 

तूलपूर्णे तु यो दद्यात् पादुके श्राद्धकर्मणि । 

शोभनं लभते यानं पादयोः सुखम् एव च ॥ 

व्यजनं तालवृन्तं च दद्याद् विप्राय सत्कृतम् । 

प्राप्नुयात् स्पर्शयुक्तानि सुगन्धीनि मृदूनि च ॥ 

श्राद्धेषूपानहौ दद्याद् ब्राह्मणेभ्यः सदा बुधः । 

दिव्यं च लभते चक्षुर् वाजियुक्तांस् तथा रथान् ॥ 

श्रेष्ठं छत्रं च यो दद्यात् पुष्पमालाविभूषितम् । 

प्रासादो ह्य् उत्तमो भूत्वा गच्छन्तम् अनुगच्छति ॥ 

शरणं रत्नसम्पूर्णं सशय्यासनभोजनम् । 

श्राद्धे दत्वा पितृभ्यस् तु नाकपृष्ठे महीयते ॥ 

मुक्तावैदूर्यवासांसि रत्नानि विविधानि च । 

वाहनानि च मुख्यानि अयुतान्य् अर्बुदानि च ॥ 

सुमहज्ज्वलनप्रख्यं सर्वकामसमन्वितम् । 

चन्द्रसूर्यप्रभं दिव्यं विमानं लभते ध्रुवम् ॥ 

अप्सरोभिः परिवृतं कामगं तु मनोजवम् । 

स वसन् वै विमानाग्रे स्तूयमानः सुरोत्तमैः ॥ 

दिव्यैः पुष्पैः प्रसिञ्चन्ति पूर्णवृष्टिभिर् एव वा । 

गन्धर्वाप्सरसस् तत्र गायन्त्यो वादयन्ति च ॥ 

कन्यायुवतिमध्यस्थाहसिताभरणस्वनैः । 

सुस्वनैस् ते विबोध्यन्ते सततं हि मनोरमैः ॥ 

अश्वदानसहस्रेण रथदानशतेन च । 

[१५८] दन्तिनां हि सहस्रेण योगिष्व् आवसथो वरः ॥

दद्यात् पवित्रं योगिभ्यो यस् तूज्ज्वलनम् अम्भसि ।

अथ निष्कसहस्रस्य फलं प्राप्नोति मानवः ॥ 

जीवितस्य प्रदानाद् धि नान्यदानं विशिष्यते । 

तस्मात् सर्वप्रयत्नेन देयं प्राणाभिरक्षणम् ॥ 

अहिंसा सर्वदैवत्या पवित्रा सर्वदायिनी । 

दानं हि जीवितस्याहुर् दानानां परमं बुधाः ॥ 

लवणेन सुवर्णानि श्राद्धे पात्राणि दापयेत् । 

रसास् तम् उपतिष्ठन्ति भक्ष्यं सौभाग्यम् एव च ॥ 

तिलान् इक्षूंस् तथा भोज्यं श्राद्धे सत्कृत्य दापयेत् ।  

मित्राणि लभते लोके स्त्रीषु सौभाग्यम् एव च ॥ 

पात्रं वै तैजसं दद्यान् मनोज्ञं श्राद्धभोजने । 

पात्रं भवति कामानां विद्यानां च धनस्य च ॥ 

राजतं काञ्चनं चैव दद्याच् छ्राद्धेषु यः पुमान् । 

दत्वा च लभते दानात् प्राकाम्यं धनम् एव च ॥ 

धेनुं श्राद्धेषु यो दद्याद् गृष्टिं कुम्भोपदोहनीम् । 

गावस् तम् उपतिष्ठन्ति गवां पुष्टिस् तथैव च ॥ 

दद्याद् यः शिशिरे ह्य् अग्निं बहुकाष्ठं प्रयत्नतः । 

कायाग्निदीप्तिप्राकाम्यं सौभाग्यं रूपम् एव च ॥ 

इन्धनानि च यो दद्याद् द्विजेभ्यः शिशिरागमे । 

नित्यं जयति सङ्ग्रामे श्रिया युक्तश् च दीप्यते ॥ 

सुरभीणि तु स्नानानि गन्धवन्ति तथैव च । 

पूरयित्वा तु पात्राणि श्राद्धे सत्कृत्य दापयेत् ॥ 

गन्धवाहा महानद्यः सुखानि विविधानि च । 

दातारम् उपतिष्ठन्ति युवत्यश् च पतिव्रताः ॥ 

शयनासनयानानि भूमयो वाहनानि च । 

श्राद्धे ह्य् एतानि यो दद्याद् अश्वमेधफलं लभेत् ॥ 

[१५९] वनं पुष्पफलोपेतं दत्वा गोसवम् अश्नुते ।

कूपारामतडागानि क्षेत्रघोषगृहाणि च ॥ 

तान् दत्वा मोदते स्वर्गे नित्यम् आचन्द्रतारकम् । 

स्वास्तीर्णशयनं दत्वा श्राद्धे रत्नविभूषितम् ॥ 

पितरस् तस्य तुष्यन्ति सुखं चानन्त्यम् अश्नुते । 

अस्मिंल् लोके वसन् मोदेत् स्यन्दनैस् तु सवाहनैः ॥ 

राजभिः पूज्यते वापि धनैर् धान्यैश् च वर्धते । 

वर्णकौशेयपत्रोर्णे तथा प्रावारकम्बलः ॥ 

अजिनं क्षौमजं पट्टुं प्रवेणीमृगलोमिकाः । 

दत्वा चैतानि विप्रेभ्यो भोजयित्वा यथाविधि ॥ 

प्राप्नोति श्रद्दधानस् तु वाजपेयस्य यत् फलम् । 

विद्या नार्यः सुरूपाश् च पुत्रा भृत्याश् च किङ्कराः ॥ 

वशे तिष्ठन्ति भूतानि अस्मिंल् लोके त्व् अनामयम् । 

क्षौमकौशेयकार्पासं दुकूलम् अहतं तथा ॥ 

श्राद्धे ह्य् एतानि यो दद्यात् कामान् आप्नोत्य् अनुत्तमान् । 

अलक्ष्मीं नाशयत्य् आशु तमः सूर्योदये यथा ॥ 

भ्राजते च विमानाग्रे नक्षत्रेष्व् इव चन्द्रमाः । 

वासो हि सर्वदैवत्यं सर्वदेवेष्व् अभिष्टुतम् ॥ 

वस्त्राभावे क्रिया नास्ति यज्ञा वेदास् तपांसि च । 

तस्माद् वस्त्राणि देयानि श्राद्धकाले विशेषतः ॥ 

ऽप्राकाम्यऽं ऐश्वर्यविशेषः । “गृष्टिः” प्रथमप्रसूता गौः । ऽवर्णकौशेयऽं पीतादिवर्णकौशेयम् । ऽप्रावारकम्बलः " आच्छादनयोग्यः सूक्ष्मकम्बलः । " अजिनऽं कटिसूत्रम् । ऽक्षौमजऽं अतिसूक्ष्मपट्टनिर्मितं चर्म इति प्रसिद्धम् । “प्रवेणी”

गजास्तरणकम्बलः ॥

तथा

राजतं रजताक्तं वा पितॄणां पात्रम् उच्यते । 

[१६०] रजतस्य कथा वापि दर्शनं दानम् एव च ॥

अनन्तम् अक्षयं स्वर्गं राजतं दानम् उच्यते ॥ 

ब्रह्मपुराणे

मण्डलानि च कार्याणि नीवारैश् चूर्णकैः शुभैः ।

गौरमृत्तिकया वापि प्रणीतेनाथ भस्मना ॥ 

पाषाणचूर्णसङ्कीर्णम् आहतं तत्र वर्जयेत् ॥ 

[१६१]

॥ १७ – अ ॥

॥ अथान्नौकरणम् ॥

तत्र याज्ञवल्क्यः [१,२३६-२३८] ।

अग्नौ करिष्य आदाय पृच्छत्य् अन्नं घृतप्लुतम् । 

कुरुष्वेत्य् अभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ 

हुतशेषं प्रदद्यात् तु भाजनेषु समाहितः । 

यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥ 

ऽअग्नौ करिष्ये" इति पृच्छति । ऽघृतप्लुतम् अन्नम् आदाय" इत्य् अन्वयः । “पितृयज्ञवत्” पिण्डपितृयज्ञाङ्गभूते होने यावती इतिकर्तव्यता तया इत्य् अर्थः । “यथालाभोपपनेषु” विहितानाम् अन्यतमेषु ॥

आश्वलायनः [गृ। सू। ४,९, २-९] ।

    उद्धृत्य घृताक्तम् अन्नम् अनुज्ञापयत्य् अग्नौ करिष्ये करवै करवाणीति [वा ] । प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व कुर्व् इति । अथाग्नौ जुहोति यथोक्तं पुरस्तात् । अभ्यनुज्ञातायां पाणिष्व् एव वा । अग्निमुखा वै देवाः पाणिमुखाः पितर इति ह ब्राह्मणम् । यदि प्राणिष्व् आचान्तेष्व् अन्यद् अन्नम् अनुदिशति । अन्नम् अन्ने । सृष्टं दत्तम् आध्नुकम् इति ॥ 

**[१६२] **“करिष्ये” इत्यादिप्रश्नत्रये “क्रियता” इत्याद्युत्तरत्रये च यथासङ्ख्यं प्रयोगनियमः । अन्यथा पर्यायपदानां सहोपादानवैयर्थ्यात् । ऽयथोक्तं पुरस्ताद्" इति, प्राचीनावीतीध्मम् उपसमाधाय इत्य् आश्वलायनश्रौतसूत्रे । ऽपाणिष्व् एव वा" इत्य् अग्न्यभावे बोद्धव्यम्, अग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत् ।

इति मनुवचनात् [३,२१२] । ऽयदि पाणिषु” इति, यदि पाणिषु हूयते तदा ऽआचान्तेष्व् अन्यद् अन्नम् " “अनुदिशति” ददाति । इदम् आचमनीयं पिण्डप्रदानान्तरं च नैमित्तिकम् । न तु दत्तस्य भक्षणाशङ्का कर्तव्या,

अन्नं पाणितले दत्तं पूर्वम् अश्नन्त्य् अबुद्धयः । 

इत्य् अत्रैव निन्दाश्रुतेः ॥

बैजवापगृह्यम्

    यज्ञोपवीत्य् अग्नौ करवाणीत्य् आमन्त्र्यान्नौकरणं पिण्डपितृयज्ञवत् । आवृतो वा सर्वम् अनुक्रामेत् ॥ 

निगमः

    अवनेज्यान्नम् उधृयाज्येनाभिघार्याग्नौ करिष्यामीति पृच्छतिति । कुरुष्वेत्य् अनुज्ञातः समित्पूर्वकम् अग्नाव् आहुतीर् जुहोति ॥ 

“अवनेज्य” अर्घ्यप्रदानानन्तरं ब्राह्मणहस्ते जलं दत्वा ॥

शङ्खलिखितौ

    धूपगन्धमाल्यैर् अलङ्कृत्य ब्राह्मणान् सघृतम् अन्नं समनुज्ञाप्य दर्भैर् दक्षिणामुखैर् अग्निं परिस्तीर्य जुहुयात् । यमायाङ्गिरसे पितृमते स्वाहा । अग्नये कव्यवाहनाय स्वाहा । सोमाय पितृमते स्वाहेति ॥ 

[१६३] हारीतः

    आसाद्योदपात्रेषु समन्यायन्तीत्य् अप आसिच्य सुमनसश् चोत्पूय ब्राह्मणैर् अनुज्ञातः समीत्स्वेतीध्मम् आधायावाह्याग्निष्वात्तादीन् ब्राह्मणस्थान् उदपात्रैर् यथार्थम् अर्चयित्वा मेक्षणपाणिर् अनुज्ञायते । यत् सोमाय पितृमते जुहोति सोमज्येष्ठान् तेन सोमपांश् च पितॄन् प्रीणाति । यद् यमायाङ्गिरसे तेन यमज्येष्ठान् बर्हषदस् तेनाग्निष्वात्तांश् च । यद् अग्निं कव्यवाहनं स्विष्टकृतं तेन यन् मेक्षणम् आदधत्य् आत्मानं प्रीणाति । हुतोच्छिष्टं ब्राह्मणेभ्यः प्रदाय पिण्डेभ्यो ऽवशेषयेत् ॥ 

“आसाद्य” उदपात्राणि । “उत्पूय” प्रोक्षणीवन् मन्त्रवर्जम् । ऽअनुज्ञातः समीत्स्वेतिऽ, अग्निं समीत्स्व इति ब्राह्मणैर् अनुज्ञातः ॥

[१६४] विष्णुः [७३, ५- १४] ।

    आमश्राद्धेषु काम्येषु च प्रथमपञ्चकेनाग्निं हुत्वा । पशुश्राद्धेषु मध्यमपञ्चकेन । अमावास्यां [अमावास्यासु] उत्तमपञ्चकेन । आग्रहायण्या ऊर्ध्वं कृष्णाष्टकासु च क्रमेणैव प्रथममध्यमोत्तमपञ्चकैः । [अन्व]ष्टकासु च । ततो ब्राह्मणानुज्ञातः पितॄन् आवाहयेत् । आयन्तु सुरा [अपयन्त्व् असुरा] इति द्वाभ्यां तिलैर् यातुधानविवर्जनं [यातुधानानां विसर्जनं] कृत्वा । एतद् वः [एत] पितरः सर्वांस् तान् अग्न आ मे यन्तु एत [एतद्वः] पितर इत्य् आवाहनं कृत्वा कुशतिलमिश्रेण गन्धोदकेन यास् तिष्ठन्त्य् अमृता वाग् इति यन् मे मातेति च पाद्यं [निर्वर्त्य निवेद्यार्घ्यं कृत्वा] निवेद्य [च] अनुलेपनवस्त्र[कुशस्तिलवस्त्र]पुष्पालङ्कारधूपैः [धूपदीपैर् यथा]शक्त्या विप्रान् समभ्यर्च्य [घृतप्लुतम् अन्नम् आदय] आदित्या [ रुद्रा ] वसव इति वीक्ष्याग्नौ करिष्य इत्य् उक्त्वा [करवाणीत्य् उक्त्वा] अनुज्ञातश् च विप्रैः [तत्र विप्रैः] प्राग्वद् अग्नाव् आहुतित्रयं हुत्वा [कुर्व् इत्य् उक्त आहुतिवरं दद्यात्] । ये मामकाः पितरः एतद् वः पितरो ऽयं यज्ञ इति च सर्वाभिमन्त्रणं **[१६५] **[हविरनुमन्त्रणं] कृत्वा [वृत्वा] यथोपपन्नेषु पात्रेषु विशेषाद् रजतमयेउ [अन्नं] नमो विश्वेभ्यो देवेभ्य इत्य् अन्नम् आदौ प्राङ्मुखयोर् निवेदयेत् । पित्रे पितामहाय प्रपितामहाय [च] नामगोत्राभ्याम् उदङ्मुखेषु ॥ 

ऽआमश्राद्धऽं लौगाक्षिगृह्यानुसारेण ज्योतिष्टोमादाव् आरम्भे नान्दीमुखश्राद्धं मांसरहितं यत् क्रियते । ऽकाम्यश्राद्धऽं पञ्चम्यादौ पुत्रार्थिना क्रियमाणम् । “प्रथमपञ्चकेन” इति, इयम् एव सेति पञ्चदशर्चो ऽनुवाकः तैत्तरीयके काठके च पठ्यते । तस्य यथाक्रमं प्रथमद्वितीयतृतीयपञ्चकाः स्थालीपाकेनाग्नौकरणहोमे विनियुज्यन्ते । ऽपशुश्राद्धऽं समाप्ते ऽब्दे पशुश्राद्धं विधिवत् प्रतिपादयेद् इति हारीतोक्तं सपिण्डीकरणश्राद्धम् । ऽआदित्या वसव इति वीक्ष्य" ऽआदित्या वसव" इत्य् अनेन मन्त्रेण ब्राह्मणान् ईक्षित्वा ॥

बौधायनः [२, १४, ७, १४] ।

    अथैनास् तिलमिश्रा अपः प्रतिग्राह्य गन्धैर् माल्येन चालङ्कृत्याग्नौ करिष्यामीत्य् अनुज्ञातो ऽग्निम् उपसमाधाय सम्परिस्तीर्य [+ अग्निमुखात् कृत्वायस्यैव] तिस्र आहुतीर् जुहोति – "सोमाय पितृमते [पितृपीताय] स्वधा नमः स्वाहा । यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः **[१६६]** स्वाहा” इति । तच्छेषेणान्नम् अभिघार्यान्नस्यैता एव तिस्रो [+ आहुतीः] जुहुयात् । वयसां पिण्डान् [ण्डं] दद्यात् । "वयसां हि पितरः प्रतिमया चरन्ति" इति विज्ञायते । अथेतरान्नं ब्राह्मणेभ्यो निवेद्य ब्राह्मणस्याङ्गुष्ठेनानुदिशति । पृथिवीसमं तस्य[+ते] अग्निर् उपद्रष्टर् चस्ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्राह्मणस्य [ब्रह्मणस् त्वा]] मुखे ऽमृते ऽमृतं जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर् जुहोम्य् अक्षितम् असि मा पितॄणां क्षेष्ठा अमुत्रामुष्मिन् लोक इति । पितृभ्यः स्वधा नमः । द्वितीयम् अनुदिशति । अन्तरिक्षसमं तस्य ते [+वायुर् उपश्रोता] यजूंषि ते महिमा दत्तस्याप्रमादाय । पृथिवी ते पात्रं द्यौर् अपिधानं ब्राह्मणस्य मुखे अमृतं [ब्रह्मणस् त्वा मुखे] जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर् जुहोम्य् अक्षितम् असि मा पितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोके इति । तृतीयम् अनुदिशति । द्यौसमं तस्य त आदित्यो ऽनुख्याता सामानि ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे अमृतं जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर् जुहोम्य् अक्षितम् असि मा प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोके इति ॥ 

[१६७] अत्राप्य् उदाहरन्ति —

	अग्नौकरणशेषेण तद् अन्नम् अभिघारयेत् । 

	तस्मिंस् तु प्राशिते दद्याद् अन्नं यत् प्रकृतं भवेत् । 

	निरङ्गुष्ठं तु यच् छ्राद्धं तन् न प्रीणयते पितॄन् ॥ 

“अथ” उपवेशनानन्तरम् । “तच्छेषेण” हुताज्यशेषेण । “वयसाम्” इत्यादिना अनौकरणहोमानन्तरम् एव पिण्डप्रदानं कृत्वा तान् पिण्डान् पक्षिभ्यो दद्याद् इत्य् उक्तम् । एष च समाचारो बौधायनीनां क्वचिच् छ्राद्धे । ऽवयसां प्रतिमया" पक्षिणां रूपेण ॥ पैठीनसिः

    ऽदेवांश् च पितॄंश् चावाहयिष्य" इत्य् अनुज्ञाप्य सौम्याः सन्त्व् इत्य् उक्त्वाग्नौ करिष्यामीत्य् अनुज्ञाप्य कुरुष्वेत्य् उक्ते, ऽहविर् इत्य् एवं साङ्गुष्ठम् अन्नविधिं हविर्" इत्य् उक्त्वा, ब्राह्मणेभ्यो दद्यात् ॥ 

ऽहविर् इत्य् एवं साङ्गुष्ठम् अन्नविधिं हविर् इत्य् उक्त्वा" यः साङ्गुष्ठो अन्नविधिर् अन्नप्रकारः तं ब्राह्मणेभ्यो दद्याद् इत्य् अर्थः ॥

ब्रह्मपुराणे

ततो घृताक्तम् अन्नं च सोष्णम् आदाय साधितम् । 

तान् अग्नौ करिष्य इति प्रयतः प्रार्थयन् द्विजान् ॥ 

ॐ कुरुष्वेति तैर् उक्तो दक्षिणाग्निं समाह्वयेत् । 

दक्षिणाग्नेश् चतुर्दिक्षु दर्भान् आस्तीर्य वाग्यतः ॥ 

दद्याच् च समिधस् तिस्रस् तस्मिन् प्रादेशमात्रिकाः ॥

पलाशः समिदर्थं च नियोज्यः पितृकर्मणि ॥ 

घृताक्ताः समिधो हुत्वा दक्षिणाग्राः समन्त्रकाः । 

मेक्षणेन घृताक्तेन जुहुयाद् आहुतित्रयम् ॥ 

तथा क्षुत्तृट्क्रोधयुतो हीनमन्त्रो जुहोति यः । 

अप्रबुद्धे सधूमे वा सो ऽन्धः स्याद् अन्यजन्मनि ॥ 

स्वल्पे रूक्षे स्फुलिङ्गे वा वामावर्ते भयानके । 

आर्द्रकाष्ठैश् च सम्पूर्णे फूत्कारवति पावके ॥ 

कृष्णार्चिषि सदुर्गन्धे तथा लिहति मेदिनीम् । 

आहुतिं जुहुयाद् यस् तु तस्य नाशो भवेद् ध्रुवम् ॥ 

वायुपुराणे

अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः । 

पत्नीमादाय पुत्रांश् च जुहुयाद् धव्यवाहनम् ॥ 

तथा

आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः । 

अग्न्यर्थं लौकिकं वापि जुहुयात् कर्मसिद्धये ॥ 

**[१६९] **“अग्न्यर्थऽं अग्नौकरणहोमार्थम् । ऽलौकिकः " आवसथ्यः ।

तथा

पुष्पाणां च फलानां च भक्ष्याणाम् अन्नतस् तथा । 

अग्रम् उद्धृत्य सर्वेषां जुहुयाद् धव्यवाहनम् ॥ 

दक्षिणतो ऽग्नये नित्यं सोमायोत्तरतस् तथा । 

एतयोर् अन्तरे नित्यं जुहुयाद् वै विवस्वते ॥ 

तथा

पलाशफल्गुन्यग्रोधप्लक्षाश्वत्थविकङ्कताः । 

उदुम्बरास् तथा बिल्वश् चन्दनं यज्ञियाश् च ये ॥ 

सरलो देवदारुश् च सालश् च खदिरस् तथा । 

समिदर्थे प्रशस्ताः स्युर् एते वृक्षा विशेषतः ॥ 

ग्राह्याः कण्टकिनश् चैव यज्ञिया ये च केचन । 

पूजिताः समिदर्थे तु पितॄणां वचनं यथा ॥ 

समिद्भिः षट्फलोत्थाभिर् जुहुयाद् यो हुताशनम् । 

फलं यत् कर्मणस् तस्य तन् मे निगदतः शृणु ॥ 

अक्षयं सर्वकामीयम् अश्वमेधफलं हि तत् । 

[१७०] श्लेष्मातको नक्तमालः कपित्थः शाल्मलिस् तथा ॥

नीपो विभीतकश् चैव श्राद्धकर्मणि गर्हिताः । 

चिरिबिल्वस् तथाङ्कोलस् तिन्दुकाम्रातकौ तथा ॥ 

बकुलः कोविदारश् च एते श्राद्धेषु गर्हिताः । 

निवासा येषु कीटानाम् अयजीयाश् च गर्हिताः ॥ 

गुल्मैश् च वेष्टिता ये वै वल्लीभिश् च समावृताः । 

शकुनीनां निवासाश् च वर्जयेत् तान् महीरुहान् ॥ 

अन्यांश् चैवंविधान् सर्वान् अयज्ञीयांश् च वर्जयेत् । 

मत्स्यपुराणे [१८, ३२-३३] ।

अग्नौ कुर्याद् अनुज्ञातो विप्रो विप्रैर् यथाविधि । 

स्वगृह्येओक्तेन विधिना कांस्ये कृत्वा चरुं ततः ॥ 

अग्नीषोमयमाभ्यां तु कुर्याद् आप्यायनं ततः । 

दक्षिणाग्नौ प्रणीते वा य एकाग्निर् द्विजोत्तमः ॥ 

“प्रणीते” आवसथ्यात् पृथक्कृते । “एकाग्निः” आवसथ्यमात्रवान् । अयं चाग्नौकरणहोम आहिताग्नेर् दक्षिणाग्नाव् एव । तदसम्भवे आवसथ्येन । तस्याप्य् असम्भवे ब्राह्मणपाण्यादौ ॥

[१७१] विष्णुपुराणे [३,१५,२६] ।

जुहुयाद् वयञ्जनक्षारवर्जम् अन्नं ततो ऽनले । 

छन्दोगपरिशिष्टे कात्यायनः

अग्नौकरणहोमश् च कर्तव्य उपवीतिना । 

प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिश्रुतेः ॥ 

अपसव्येन वा कार्यो दक्षिणाभिमुखेन तु । 

निरुप्य हविर् अन्यस्माद् अन्यस्मै न हि हूयते ॥ 

स्वाहा कुर्यान् न चात्रान्ते न चैव जुहुयाद् धविः । 

स्वाहाकारेण हुत्वाग्नौ पश्चान् मन्त्रं समापयेत् ॥ 

ऽअपसव्येन वा कार्यः” इति यो ऽयं सव्यापसव्यविकल्पः स्वगृह्यानुसारेण शाखाभेदव्यवस्थितो बोद्धव्यः । ऽस्वाहा कुर्याद्" इत्यादेर् अयम् अर्थः — आदाव् एव स्वाहेत्य् उक्त्वा ऽसोमाय पितृमते" इति मन्त्रः समापनीयः । एवं ऽस्वाहाग्नये कव्यवाहनाय" इत्य् अपि ॥

मनुः, शातातपश् च प्रथमे ।

अग्न्यभावे तु विप्रस्य प्राणाव् एवोपपादयेत् । 

यो ह्य् अग्निः स द्विजो विप्रैर् मन्त्रविद्भिर् उदाहृतः ॥ 

अक्रोधनान् सुप्रसादान् वदन्त्य् एतान् पुरातनान् । 

लोकस्याप्यायने युक्तान् श्राद्धदेवान् द्विजोत्तमान् ॥ 

“अग्न्यभावे” अग्नौकरणहोमविनियुक्तश्रौतस्मार्ताग्निद्वयाभावे ॥

**[१७२] मत्स्यपुराणे **

अग्न्यभावे तु विप्रस्य पाणौ वाथ जले ऽपि वा । 

अजाकर्णे ऽश्वकर्णे वा गोष्ठे वाथ शिवान्तिके ॥ 

छन्दोगपरिशिष्टे कात्यायनः

पित्र्ये यः पङ्क्तिमूर्धन्यस्तस्य पाणाव् अनग्निकः । 

दत्वा मन्त्रवद् अन्येषां तूष्णीं पात्रेषु निक्षिपेत् ॥ 

यमः

अग्नौकरणशेषं तु पित्र्ये तु प्रतिपादयेत् । 

प्रतिपाद्य पितॄणां तु न दद्याद् वैश्वदेविके ॥

[१७३]

॥ १८ ॥

॥ अथ परिवेषणविधिः ॥

तत्र पैठीनसिः

    ब्राह्मणान् अलङ्कृत्य मांसापूपदधिघृतमधुपायसकृसरफलविकारान् इति मत्स्यांश् चोपसादयेत् । 

इतिशब्द आद्यर्थो ‘त्र शाकादिपरः । “उपसादयेत्” उपनयेत्, पिण्डप्रदानानन्तरम् ।

मनुः, बृहस्पतिश् च षष्ठे

पाणिभ्यां तूपसङ्गृह्य स्वयम् अन्नस्य वर्धितम् । 

विप्रान्तिके पितॄन् ध्यायन् शनकैर् उपनिक्षिपेत् ॥ 

मुक्तं ह्य् उभाभ्यां हस्ताभ्यां यद् अन्नम् उपनीयते । 

तद् धि प्रलुम्पन्त्य् असुराः सहसा दुष्टचेतसः ॥ 

गुणांश् च सूपशाकाद्यान् पयो दधि घृतं मधु । 

विन्यसेत् प्रयतः पूर्वं भूमाव् एव समाहितः ॥ 

[१७४] भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।

हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥ 

उपानीय तु तत् सर्वं शनकैः सुसमाहितः । 

परिवेषयेच् च प्रयतो गुणान् सर्वान् प्रचोदयन् ॥ 

यद् यद् रोचेत विप्रेभ्यस् तत् तद् दद्याद् अमत्सरः । 

ब्रह्मोद्याश् च कथाः कुर्यात् पितॄणाम् एतद् ईप्सितम् ॥ 

“अन्नस्य” इति तृतीयार्थे षष्ठी । ऽवर्धितऽं पूरितम् । ऽउभाभ्यां मुक्तऽं हस्तद्वयेनासम्बद्धम् । “गुणान्” अप्रधानान्, भोजने अन्नस्य प्राधान्यात् ।

देवलः

अथ पिण्डावशिष्टान्नं विधिवद् भोजयेद् द्विजान् । 

भोजनैः सतिलैः स्नेहैर् भक्ष्यापूपविमिश्रितैः ॥ 

ततो ऽन्नं च यथाकामं भोजयेत् तान् द्विजोत्तमान् । 

स्थित्वैवं निभृतः कर्ता मुदितः सादरः शुचिः ॥ 

यमः

ततो विशदम् आनीय भोजयेत् प्रयतो द्विजान् । 

अन्नं सूपं घृतं शाकं मांसं दधि पयो मधु ॥ 

तथा

धानाश् च मधुसंयुक्ता इक्षूंश् चैव सगोरसान् । 

शर्कराफलमूलं च सर्वं दद्याद् अमत्सरः ॥ 

ऽविशदऽं विमलम् ।

शङ्खलिखितौ

    ततस् तिलैमीसैः शाकैः सूपैः कृसरपायसापूपैर् लजैर् भव्यैः पानैर् मधुना घृतेन दध्ना पायसेन च प्रभूतम् इष्टतो ऽन्नं दद्याद् अनसूयः ॥ 

“इष्टतः” इच्छातः ॥

गौतमः [१५, ५-६] ।

[कालनियमः] शक्तितः । प्रकर्षेद् गुणसंस्कारविधीनन्नस्य ॥ 

ऽगुणसंस्कारविधीन्ऽ, “गुणाः” व्यञ्जनानि, ऽसंस्काराः " सुरभित्वादयः, तान् “प्रकर्षेत्” सातिशयान् कुर्याद् इत्य् अर्थः ।

कात्यायनः

उष्णं स्विष्टम् अन्नं शक्त्या वा दद्यात् ॥ 

सुष्ठु इष्टं “स्विष्टम्” ।

शङ्खः

श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्जितः । 

उष्णम् अन्नं द्विजातिभ्यः श्रद्धया विनिवेदयेत् ॥ 

अन्यत्र फलमूलेभ्यः पानकेभ्यश् च पण्डितः । 

भोजयेद् विधिवत् पश्चाद् गन्धमाल्योज्ज्वलान् द्विजान् ॥ 

ऽश्रद्धं कृत्वा" इति पूर्वकालता न विवक्षिता । ऽअन्यत्र फलमूलेभ्यः" इत्य् उष्णापेक्षया बोद्धव्यम् । तेन फलमूलादिकम् अनुष्णम् अपि देयम् ॥

[१७६] याज्ञवल्क्यः [१, २४०] ।

अन्नम् इष्टं हविष्यं च दद्याद् अक्रोधनो ऽत्वरः ॥ 

बृहस्पतिः [श्राद्ध, ३६] ।

संस्कृतं व्यञ्जनाद्यं च पयोमधुघृतान्वितम् । 

श्रद्धया दीयते यस्माच् छ्राद्धं तेन निगद्यते ॥ 

आपस्तम्बः [२, १९, १३-१६, २०, १-२] ।

    नैयमिकं [तु] श्राद्धं स्नेहवद् एव दद्यात् । सर्पिर् मासम् इति प्रथमः कल्पः । अभावे तैलं शाकम् इति । मघासु चाधिकं श्राद्धकल्पेन सर्पिर् ब्राह्मणान् भोजयेत् । मासिकश्राद्धे तिलानां द्रोणं [द्रोणं] येनोपायेन शक्नुयात् तेनोपयोजयेत् । समुदेतांश् च भोजयेत् ॥ 

“नैयमिकम्” अमावास्याश्राद्धं, तत् स्नेहेन विना न दद्यात् । ऽअधिकं ब्राह्मणान् सर्पिर् भोजयेत् श्राद्धकल्पेन" इत्य् अन्वयः । मघाश्राद्धे वैकल्पिकम् अपि तैलं देयम् इति तात्पर्यम् । ऽतिलानां द्रोणम् उपयोजयेद्" इति ब्राह्मणभूयस्त्वपक्षे । ऽयेनोपायेन शक्नुयाद्" इति मोदकादिप्रकारेण । “समुदेतान्” गुणवतः ॥

मनुः [३, २२९ - २३०] ।

नास्रम् आपातयेज् जातु न कुप्येन् नानृतं वदेत् । 

न पादेन स्पृशेद् अन्नं न चैतम् अवधूनयेत् ॥ 

[१७७] अस्रं गमयति प्रेतान् कोपो ऽरीन् अनृतं शुनः ।

पादस्पर्शस् तु रक्षांसि दुष्कृतीन् अवधूननम् ॥

“दुष्कृतीन्” पापकारिणः ।

देवलः

अस्रं न पातयेच् छ्राद्धे न जल्पेन् न हसेन् मिथः । 

न विभ्रमेन् न च क्रुध्येन् नोद्विजेच् चात्र कर्हिचित् ॥ 

प्राप्ते ऽपि कारणे श्राद्धे नैव क्रोधं समुत्सृजेत् । 

आश्रितः स्विन्नगात्रो वा न तिष्ठेत् पितृसन्निधौ ॥ 

न चात्र श्येनकाकादीन् पक्षिणः प्रतिषेधयेत् । 

तद्रूपाः पितरस् तत्र समायान्तीति वैदिकम् ॥ 

“कारणे” क्रोधस्येति शेषः । ऽसमुत्सृजेत् " अभिव्यञ्ज्यात् । “आश्रितः” अपाश्रितः ॥

विष्णुः [८१, १-३] ।

नान्नम् आसनम् आरोपयेत् । न पदा स्पृशेत् । नावक्षुतं कुर्यात् ॥ 

यमः

इष्टं निवेदितं दत्तं भुक्तं जप्तं तपः श्रुतम् । 

यातुधानाः प्रलुम्पन्ति शौचभ्रष्टं द्विजन्मनः ॥ 

तथा क्रोधेन यद् दत्तं भुक्तं यत् त्वरया पुनः । 

उभयं तद् विलुम्पन्ति यातुधानाः सराक्षसाः ॥ 

पितॄन् आवाहयित्वा तु नायुक्तप्रभवो भवेत् । 

तस्मान् नियम्य वाचं च क्रोधं च श्राद्धम् आचरेत् ॥ 

न क्रोधं कस्यचित् कुर्यात् कस्मिंश्चिद् अपि कारणे । 

अक्रुद्धपरिविष्टं हि श्राद्धे प्रीणयते पितॄन् ॥ 

“अयुक्तप्रभवः” अयुक्तस्यासम्बन्धप्रलापादेः कारणं न भवेद् इत्य् अर्थः ॥

[१७८] बौधायनः

अश्रद्धा परमः पाप्मा पाप्मा ह्य् अज्ञानम् उच्यते । 

अज्ञानाल् लुप्तधर्मः स्याल् लुप्तधर्मो ऽधमः स्मृतः ॥ 

श्रद्धया शोध्यते बुद्धिः श्रद्धया शोध्यते मतिः । 

श्रद्धया प्राप्यते धर्मः श्रद्धा पाप्मप्रमोचनी ॥ 

तस्माद् अश्रद्दधानस्य हविर् नाश्नन्ति देवताः । 

“मतिः” अत्रेच्छा, बुद्धेः पृथगुपादानात् ॥

कात्यायन

श्रद्धान्वितः श्राद्धं कुर्वीत शाकेनापि । 

मनुः [३, २७५] ।

यद् यद् ददाति विधिवत् सम्यक् छ्रद्धासमन्वितः । 

तत् तत् पितॄणां भवति परत्रानन्तम् अक्षयम् ॥ 

यमः

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । 

तथा श्राद्धेषु मिष्टान्नं मन्त्रः प्रापयते पितॄन् ॥ 

मनुः [३, २३३] ।

हर्षयेद् ब्राह्मणांस् तुष्टो भोजयेच् च शनैः शनैः । 

अन्नाद्येनासकृच् चैतान् गुणैश् च परिचोदयेत् ॥ 

बृहस्पतिः [श्राद्ध, १००] ।

भक्ष्यभोज्यगुणान् उक्त्वा भोजयेद् ब्राह्मणान् शनैः । 

आख्यानैः सेतिहासैश् च पूर्ववृत्तैश् च हर्षयेत् ॥ 

[१७९] आपस्तम्बः [२, १७, ४] ।

प्रयतः प्रसन्नमनाः सृष्टो भोजयेद् ब्राह्मणान् ॥ 

“सृष्टः” उत्साही ।

यमः, शातातपश् च द्वितीये ।

यावद् धविष्यं भवति यावत् स्विष्टं प्रदीयते । 

तावद् अश्नन्ति पितरो यावन् नाह ददाम्य् अहम् ॥ 

ब्राह्मणान्नं ददच् छूद्रः शूद्रान्नं ब्राह्मणो ददत् । 

तयोर् अन्नम् अभोज्यं तु भुक्त्वा चान्द्रायणं चरेत् ॥ 

चतुर्भिः स्रौत आपन्ने हस्तेनोन्मार्जयेद् घृतम् । 

उभाव् एव तु बास्रौतां दाता भोक्ता न संशयः ॥ 

स्रुतं नखैश् चतुर्भिश् च यो दद्यात् पाणिना घृतम् । 

दाता पुण्यं न चाप्नोति भोक्ता पापतरं व्रजेत् ॥ 

हस्तेन घृतं शौद्रं यद् अपि किम् आनीयतां तदपि शौद्रम् । 

शीतलम् अन्नं शौद्रं शूद्रैः परिवेष्टितं भवति शौद्रम् ॥ 

माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् । 

हस्तदत्तानि भुक्त्वा च दत्वा सान्तपनं चरेत् ॥ 

हस्तदत्ता च या भिक्षा सलिलं व्यञ्जनानि च । 

भुक्त्वा त्व् अशुचितां याति दाता स्वर्गं न गच्छति ॥ 

ऽशौद्रऽं शूद्रस्यैव श्राद्धयोग्यम् इत्य् अर्थः । ऽकिम् आनीयताम्" इति पृष्ट्वा यद् आनीयते अन्नादिकं तद् अपि ऽशौद्रम् " ॥

विष्णुः [ ७९, १२-१५] ।

    प्रत्यक्षलवणं च न दद्यात् । हस्तेन घृतव्यञ्जनादि । तैजसानि पात्राणि दद्यात् । विशेषतो राजतानि ॥ 

[१८०] शङ्खः

सैन्धवं लवणं यच् च तथा मानससम्भवम् । 

पवित्रे परमे ह्य् एते प्रत्यक्षम् अपि नित्यशः ॥ 

शातातपो, वसिष्ठ-वृद्धशातातपौ प्रथमे च ।

हस्तदत्तास् तु ये स्नेहा लवणं व्यञ्जनानि च । 

दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम् ॥ 

तस्माद् अन्तरितं देयं पर्णेन च तृणेन वा । 

न प्रदद्यात् तु हस्तेन नायसेन कदाचन ॥ 

वृद्धशातातप-लघुहारीतौ

आयसेन तु पात्रेण यद् अन्नं सम्प्रदीयते । 

भोक्ता विष्ठासमं भुङ्क्ते दाता च नरकं व्रजेत् ॥ 

मनुः [३, २०२] ।

राजतैर् भाजनैर् एषाम् अथो वा रजतान्वितैः । 

वार्य् अपि श्रद्धया दत्तम् अक्षयायोपपद्यते ॥ 

हारीतः

काञ्चनेन तु पात्रेण राजतोदुम्बरेण च । 

दत्तम् अक्षयतां याति खड्गेनार्यकृतेन च ॥ 

“आर्यकृतम्” त्रैवर्णिकनिर्मितम् अन्यद् अपि पात्रम् अभिमतम् ।

विष्णुः [ ७९, २२] ।

    घृतादिदाने तैजसानि पात्राणि [खड्गपात्राणि] फल्गुपात्राणि च प्रशस्तानि ॥ 

[१८१] वृद्धशातातपः

पात्रे तु मृन्मये यस् तु श्राद्धे भोजयते पितॄन् । 

तत्र दाता पुरोधाश् च भोक्ता च नरकं व्रजेत् ॥ 

पैठीनसिः

    मसूरमाषकोद्रवाश् चेत्य् अयज्ञियाः । लोहानां सीसकायसपाषाणहीनपात्राणि भग्नपात्राणि च ॥ 

“लोहानाम्” इति, योग्यतया सीसकायसापेक्षया निर्धारणम् । “हीनम्” अतिक्षुद्रम् ॥

हारीतः

पङ्क्त्यां चैवोपविष्टेभ्यः समं गन्धादिभोजनम् । 

न पक्त्यां विषमं दद्यान् न याचेन् न च दापयेत् ॥ 

याचको दापकश् चैताव् उभौ नरकगामिनौ । 

भुज्यत इति “भोजनम्” ओदनादि ।

यमः

न पङ्क्त्यां विषमं दद्यान् न याचेन् न च दापयेत् । 

याचिता दापिता दाता सर्वे निरयगामिनः ॥ 

तस्माद् विद्वान् न वै दद्यान् नाभियाचेन् न दापयेत् । 

एकपङ्क्त्युपविष्टानां विषमं यः प्रयच्छति ॥ 

दुष्कृतं हरते पङ्क्त्या दत्तं गृह्णाति यश् च तत् । 

कुनदीसेतुकारस्य कन्याविघ्नकरस्य च ॥ 

[१८२] पङ्क्त्यां विषमदातुश् च निष्कृतिर् नोपपद्यते ।

“कुनदी” स्वल्पजला, तत्र सेतुना जलप्रवाहस्यात्यन्तविच्छेदात् तदुपजीविनां बहूनां पीढा जायते ।

हारीतः

यस् त्व् एकपङ्क्त्यां कुरुते विशेषं 

	स्नेहाद् भयाद् वा यदि वार्थहेतोः । 

ऋषिप्रणीतां स्मृतिवेददृष्टां 

	तां ब्रह्महत्यां मुनयो वदन्ति ॥ 

]१८३]

॥ १८ – अ ॥

॥ अथान्नसङ्कल्पः ।

तत्र याज्ञवल्क्यः [१, २३८] ।

दत्वान्नं पृथिवीपात्रम् इति पात्राभिमन्त्रणम् । 

कृत्वेदं विष्णुर् इत्य् अन्ने द्विजाङ्गुष्ठं निवेदयेत् ॥ 

यमः

अङ्गुष्ठमात्रो भगवान् विष्णुः पर्यटते महीम् । 

राक्षसानां वधार्थाय को मे ऽद्य प्रहरिष्यति ॥ 

तस्माच् छ्राद्धेषु सर्वेषु त्व् अङ्गुष्ठग्रहणं स्मृतम् । 

निरङ्गुष्ठं तु यच् छ्राद्धं बहिर्जानु च यत् कृतम् ॥ 

बहिर्जानु च यद् भुक्तं सर्वम् एवासुरं भवेत् । 

विष्णुः [७३, १३-१४] ।

    नमो विश्वेभ्यो देवेभ्य इत्य् अन्नम् आदौ प्राङ्मुखयोर् निवेदयेत् । पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्याम् उदङ्मुखेषु ॥ 

शाङ्खायनगृह्यम् [४, १,८] ।

अन्नं चासाव् एतत् त इत्य् अनूद्दिश्य भोजयेत् ॥ 

[१८४] ब्रह्मपुराणे

ततो मधुघृताक्तं तु सोष्णम् अन्नं तिलान्वितम् । 

गृहीत्वा देवतीर्थेन प्रणवेनैव तत् पुनः ॥ 

एतद् वो ऽन्नम् इतीत्य् उक्त्वा विश्वेदेवांश् च संयजेत् । 

पितृभ्यश् च ततो दद्याद् अन्नम् आमन्त्रणेन तु ॥ 

अमुकामुकगोत्रैतत् तुभ्यम् अन्नं स्वधा नमः । 

अथ दत्वा समग्रं तु जलान्नं भोजनं क्रमात् ॥ 

विश्वेभ्यः श्राद्धदेवेभ्यः कुर्याच् च प्रतिपादनम् । 

द्विजाङ्गुष्ठं गृहीत्वा तु पठेन् मन्त्रं च वाग्यतः ॥ 

पृथिवी ते पात्रम् इत्य् अन्नं गृहीतं चिन्तयेत् पठन् । 

कृष्ण हव्यम् इदं रक्ष मदीयम् इति कीर्तयेत् ॥ 

पुनस् तेनैव मन्त्रेण पितृभ्यश् च निवेदयेत् । 

एकैकस्याथ विप्रस्य गृहीत्वाङ्गुष्ठम् आदरात् ॥ 

अमुकामुकगोत्रैतत् तुभ्यम् अन्नं स्वधा नमः । 

तिलम् अन्नं च पानीयं सकुशं तेन चाग्रतः ॥ 

विकिरेत् पितृभृत्येभ्यो जपन्न् अपहता इति । 

तेभ्यो दद्याद् अपोशानं भवन्तः प्राशयन्त्व् इति ॥ 

बौधायनः [२, १४, ११-१२; १५, १-२] ।

    अथेतरद् ब्राह्मणेभ्यो निवेद्य ब्राह्मणस्याङ्गुष्ठेनानखेनानुदिशति । पृथिवीसमं तस्य ते ऽग्निर् उपदृष्टर्चस् ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्राह्मणस्य मुखे ऽमृतं जुहोमि । ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर् जुहोम्य् अक्षितम् असि मा पितॄणां क्षेष्ठा **[१८५] **अमुत्रामुष्मिन् लोक इति । द्वितीयम् अनुदिशति । अन्तरिक्षसम तस्य ते वायुर् उपश्रोता यजूंषि ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्राह्मणस्य मुखे ऽमृतं जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर् जुहोम्य् अक्षितम् असि मा पितामहानां क्षेष्ठा अत्रामुष्मिन् लोक इति । तृतीयम् अनुदिशति । द्यौसमं तस्य त आदित्यो ऽनुख्याता सामानि ते महिमा दत्तस्याप्रमादाय । पृथिवी ते पात्रं द्यौर् अपिधानं ब्राह्मणस्य मुखे ऽमृतं जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर् जुहोम्य् अक्षितम् असि मा प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोक इति ॥ 

अथाप्युदाहरन्ति—

	अग्नौकरणशेषेण यद् अन्नम् अभिधार्यते । 

	तस्मिंश् च प्राशिते दद्याद् यद् अन्यत् प्रकृतं भवेत् ॥ 

	निरङ्गुष्ठं तु यच् छ्राद्धं न तत् प्रीणयते पितॄन् । 

“इतरत्” ओदनव्यञ्जनादीन् । “अग्नौकरणशेषेण” इति, अग्नौकरणाज्यशेषेण । ऽअन्नऽं अग्नौकरणाय यद् उद्धृतम् । “प्राशिते” प्रक्षिप्ते हुत इति यावत् । ऽअन्यत् प्रकृतऽं भोजनार्थं यद् ओदनव्यञ्जनादि प्रसाधितम् । ऽनिरङ्गुष्ठऽं उक्तप्रकाराङ्गुष्ठस्पर्शशून्यम् ॥

**[१८६] **दद्यादिति वक्ष्यमाणे कात्यायनः [ श्राद्धकल्पसूत्र, २, २-३] ।

    हुतशेषं दत्वा पात्रम् आलभ्य जपति पृथिवी ते पात्रं द्यौर् अपिधानं ब्राह्मणस्य मुखे ऽमृतं जुहोमि स्वाहेति । वैष्णव्यर्चा यजुषा वाङ्गुष्ठम् अवगाह्य ॥ 

शङ्खलिखितौ

    हविर् इत्य् एवं साङ्गुष्ठम् अन्नविधिं ब्राह्मणेभ्यो दद्यात् । 

अस्यायमर्थः — “अन्नविधिः” अन्नप्रकारः पायसादिः “ऽसाङ्गुष्ठम्” ब्राह्मणाङ्गुष्ठनिवेशनपूर्वकं ऽइदं हविर्” इत्य् अभिधाय सङ्कल्पनीय इति ।

हारीतः

निरङ्गुष्ठं तु यच् छ्राद्धं तन् न प्रीणयते पितॄन् । 

तस्माद् अङ्गुष्ठम् आक्रम्य जपेन् मन्त्रं समाहितः ॥ 

“मन्त्रः” ऽइदं विष्णुर् विचक्रमे" इति ।

तथा

अथानं निहितं पात्रे पिहितं तद् वर्षीयसा । 

संस्कृतं स्थानम् आयाति तद्वद् अङ्गुष्ठस्कृतम् ॥ 

“वर्षीयसा” अधःपात्राद् बृहत्तरेण ॥

[१८७]

॥ १९ ॥

॥ अथ भोजनविधिः ॥

तत्र याज्ञवल्क्यः [१, २३९] ।

सव्याहृतिकां गायत्रीं मधुवाता इति त्र्यृचम् । 

जप्त्वा यथासुखं वाच्यं भुञ्जीरंस् ते ऽपि वाग्यताः ॥ 

मनुः, हारीत-विष्णु-यम-शातातपा उशना च द्वितीये ।

अत्युष्णं सर्वम् अन्नं स्याद् भुञ्जीरंस् ते ऽपि वाग्यताः । 

न च द्विजातयो ब्रूयुर् दात्रा पृष्टा हविर्गुणान् ॥ 

यावद् ऊष्म भवत्य् अन्ने यावद् अश्नन्ति वाग्यताः । 

तावद् अश्नन्ति पितरो यावन् नोक्ता हविर्गुणाः ॥ 

हविर्गुणा न वक्तव्या यावद् वै पितृतर्पणम् । 

तैश् चापि तर्पितैः सम्यग् वक्तव्यं शोभनं हविः ॥

वाग्यतत्वाभिधानेनैव श्राद्धभोक्तुर् हविर्गुणानभिधाने सिद्धे ऽन च द्विजातयो ब्रूयुर् इति पुनर्वचनं हस्तसञ्ज्ञादिनापि गुणप्रतिपादननिषेधपरम् ॥

देवलः

ब्राह्मणश् च यथा शुद्धः प्रसन्नेन्द्रियमानसः । 

पैतृकान्नम् उपाश्नीयाद् असम्भ्रान्तः प्रसन्नवान् ।

“प्रसन्नवान्” प्रसन्नः ।

[१८८] तथा

अन्नपानकशीतोदं ददद्भयो ह्य् अवलोकितः । 

वक्तव्ये कारणे सञ्ज्ञां कुर्वन् भुञ्जीत पाणिना ॥

अस्यार्थः — अन्नाद्य् उपनीय तद्दानार्थं दात्रा “अवलोकितः” सञ्ज्ञां कुर्याद् एव । “वक्तव्ये” कारणे स्वीकारास्वीकारहेतौ ॥

शङ्खलिखितौ

    ब्राह्मणा अन्नगुणदोषौ नाभिवदेयुः । नानृतं ब्रूयुः । अन्योन्यं न प्रशंसेयुः । अन्नपानं न प्रभूतम् इति ब्रूयुर् अन्यत्र हस्तसञ्ज्ञायाः । यावद् भूमौ यावद् अप्रशस्तं यावत् सोष्म तावद् अश्नन्ति पितरः । अन्यत्र फलमूलपानकेभ्यः ॥ 

ऽयावद् भूमौ" इति, भोजनपात्रं तिष्ठतीति शेषः । तेन तस्योद्धरणं न कर्तव्यम् । ऽअप्रशस्तऽं अकृतप्रशंसम् ।

तथा च वराहपुराणे

उद्धरेद् यदि पात्रं तु ब्राह्मणो ज्ञानदुर्बलः । 

हरन्ति राक्षसास् तस्य भुञ्जतो ऽन्नं वसुन्धरे ॥ इति 

यमः

यस् तु पाणितले भुङ्क्ते यः सवायुस् तथाश्नुते । 

न चास्य पितरो ऽश्नन्ति यश् चैवाग्रे प्रशंसति ॥ 

श्राद्धे नियुक्तो भुञ्जानो न पृच्छेल् लवणादिषु । 

उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः ॥ 

दातुश् च पततो बाहुर् जिह्वा भोक्तुश् च भिद्यते । 

ऽसवायुः " फूत्कारसहितः ।

प्रभासखण्डे

यश् च फूत्कारवद् भुङ्क्ते यश् च पाणितले द्विजः । 

[१८९] न तद् अश्नन्ति पितरो यत् सवायुः समश्नुते ॥

वारहपुराणे

याचते यदि दातारं ब्राह्मणो ज्ञानवर्जितः । 

पितरस् तस्य नाश्नन्ति दातुर् भोक्तुर् न संशयः ॥ 

विष्णुः [८१, ११-१४ ] ।

    अश्नीयुश् च ब्राह्मणा वाग्यताः । न वेष्टितशिरसः । न सोपानत्काः । न पीठोपहितपादाः ।

मनु-शातातपौ

यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः । 

सोपानत्कश् च यद् भुङ्क्ते तद् वै रक्षांसि भुञ्जते ॥ 

यो ‘प्रसन्नमना भुङ्क्ते सोपानत्को ऽपि वा पुनः । 

प्रलापशीलः क्रुद्धो वा स विप्रः पितृदूषकः ॥ 

प्रहसन् वापि यो भुङ्क्ते स नाप्याययते पितॄन् । 

यो वेष्टितशिरा भुङ्क्ते यो वा भुङ्क्ते विगर्हयन् ॥ 

यमः

यो वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते वृषलीपतिः । 

सोपानत्कश् च यद् भुङ्क्ते यच् चाश्नाति तिरस्कृतम् ॥ 

तत् सर्वं दानवेन्द्राय ब्रह्मा भागम् अकल्पयत् । 

हारीतः

उद्धृत्य [उद्धृत?] पाणिर् विहसन् सक्रोधं विस्मयान्वितः । 

श्राद्धकालेषु यद् भुङ्क्ते न तत् प्रीणाति वै पितृन् ॥ 

आसुरं विस्मयान्नं स्यात् क्रोधान्नं राक्षसं विदुः । 

असत्कृतम् अवज्ञातं पैशाचं परिचक्षते ॥ 

[१९०] वसिष्ठः [११, २५-२६] ।

उभयोर् हस्तयोर् मुक्तं पितृभ्यो ऽन्नं निवेदितम् । 

तदन्तरं प्रतीक्षन्ते ह्य् असुरा दुष्टचेतसः ॥ 

तस्माद् अशून्यहस्तेन कुर्याद् अन्नम् उपागतम् । 

भाजनं वा समालभ्य तिष्ठेतोच्छेषणाद् बुधः 

ऽतस्माद् अशून्यहस्तेन" दातुर् भोक्तुर् वा सम्बन्धसहितम् ।

बौधायनः [२, १५, ३-९] ।

उभयोः शाखयोर् मुक्तं पितृभ्यो ऽन्नं निवेदितम् । 

तदन्तरम् उपासन्ते असुरा दुष्टचेतसः ॥ 

यातुधानाः पिशाचाश् च प्रतिलुम्पन्ति तद् धविः । 

तिलादानेष्व् अदायादास् तथा क्रोधवशे ऽसुराः ॥ 

काषायवासा यान् कुरुते जपहोमप्रतिग्रहान् । 

न तद् देवगमं भवति हव्यकव्येषु यद् धविः ॥ 

यच् च दत्तम् अनगुष्ठं यच् चैव प्रतिगृह्यते । 

आचामति च यस् तिष्ठन् न स तेन समृध्यते ॥ 


आद्यन्तयोर् अपां प्रदानं सर्वत्र । जपप्रभृति यथाविधानम् । शेषम् उक्तम् अष्टकाहोमे ॥ 

“अदायादाः” असम्बन्धिनः । “क्रोधवशे” दातरि सतीति शेषः । ऽआद्यन्तयोर् अपां प्रदाने" आदाव् अपां प्रदानम् अपोऽशनम्, “अन्ते” भोजनसमाप्तौ । प्रभृतिशब्दात् पितृध्यानाद्युपादानम् ॥

शातातपः

उपवीतं कटौ कृत्वा कुर्याद् गात्रानुलेपनम् । 

एकवासा श्च यो ऽश्नीयान् निराशाः पितरो गताः ॥ 

[१९१] उपवीती ततः कुर्याद् वृतः श्राद्धे ऽनुलेपनम् ।

न नियुक्तः शिखावर्जं माल्यं शिरसि धारयेत् ॥ 

सव्याद् अंसात् परिभ्रष्टं नाभिदेशे व्यवस्थितम् । 

एकवस्त्रं तु तं विद्याद् दैवे पित्र्ये च वर्जयेत् ॥ 

शङ्खलिखितौ

    नाग्रासनस्थः पूर्वम् अश्नीयात् । नाभ्यधिकं दद्यात् । न प्रतिगृह्णीयात् ॥ 

ऽअग्रासनस्थः " पङ्क्तिमूर्धन्य् उपविष्टः । “पूर्वम्” इतरब्राह्मणभोजनोपक्रमात् प्राक् । ऽअधिकऽं स्नेहादिना विषमम् ॥

यमः

अग्रासनोपविष्टस् तु यो भुङ्क्ते प्रथमं द्विजः । 

बहूनां पश्यतां सो ऽज्ञः पङ्क्तया हरति किल्बिषम् ॥ 

शातातपः

हस्तं प्रक्षाल्य यश् चापः पिबेद् भुक्त्वा द्विजः सदा । 

तद् अन्नम् असुरैर् भुक्तं निराशाः पितरो गताः ॥ 

“भुक्त्वा” भोजनं परिसमाप्य । “आपो” अत्र भोजनान्त्यचुलुकगताः ।

यमः

यत् तु भुक्त्वा पुनर् भुङ्क्ते यच् च तैलाभिघारितम् । 

रजस्वलाभिर् यद् दृष्टं तद् वै रक्षांसि भुञ्जते ॥ 

निरोङ्कारेण यद् भुक्तं परिविष्टं समन्युना । 

दुरात्मना च यद् भुक्तं तद् वै रक्षांसि गच्छति ॥ 

कीटाकेशावपनं च क्षुतं श्वभिर् अवेक्षितम् । 

रुदितं चावधूतं च तद् वै रक्षांसि गच्छति ॥ 

[१९२] अवेदव्रतचारित्रास् त्रिभिर् वर्णैर् द्विजातयः ।

मन्त्रवत् परिविष्यन्ते तद् वै रक्षांसि गच्छति ॥ 

विधिहीनम् अमृष्टान्नं मन्त्रहीनम् अदक्षिणम् । 

अश्रद्धया हुतं दत्तं तद् वै रक्षांसि गच्छति ॥ 

ऽतैलाभिघारितऽं घृतासम्भवे । “निरोङ्कारः” सर्वधा वैदिकमन्त्ररहितः । ऽअवधूतऽं वाससेति शेषः । ऽमन्त्रहीनऽं ऽपृथिवी ते" इत्य् अभिमन्त्रणरहितम् ॥

उशना

नियुक्तश् चैव यः श्राद्धे यत् किञ्चित् परिवर्जयेत् ।

पितरस् तस्य तं मासं नैराश्यं प्रतिपेदिरे ॥ 

पङ्क्तिपरिविष्टम् अरोचमानम् अपि यथाशक्ति किश्चिद् अपि भक्षणीयम् इति ॥

वसिष्ठः [११, ३४] ।

नियुक्तस् तु यतिः श्राद्धे दैवे वा मांसम् उत्सृजेत् । 

यावन्ति पशुरोमाणि तावन् निरयम् ऋच्छति ॥ 

आपस्तम्बः [२, १८, १२] ।

न चातद्गुणायोच्छिष्टं दद्यात् । 

“अतद्गुणाय” श्राद्धभोक्तृगुणरहिताय ॥

मनुः [३, २४९] ।

श्राद्धं भुक्त्वा यद् उच्छिष्टं वृषलाय प्रयच्छति । 

स मूढो नरकं याति कालसूत्रम् अवाक्शिराः ॥ 

देवलः

श्राद्धभोजी समुच्छिष्टं वृषलेभ्यो ददाति चेत् । 

स मूढो ऽनिष्कृअतिः प्राहुः प्रायश्चित्तेन शुध्यति ॥ 

**[१९३] **“अनिष्कृतिः” प्रायश्चित्तं विना तस्य निष्कृतिर् नास्तीति “प्राहुः” ॥

ब्रह्माण्डपुराणे

स्त्रीशूद्रायानुपेताय श्राद्धोच्छिष्टं न दापयेत् । 

यो दद्याद् रागसम्मोहान् न तद् गच्छति वै पितॄन् । 

तस्मान् न देयम् उच्छिष्टम् अन्नाद्यं श्राद्धकर्मणि । 

अन्यत्र दधिसर्पिर्भ्यां शिष्याय च सुताय च ॥ 

ऽअन्यत्र दधिसर्पिर्भ्याऽं इति, दधिसर्पिर्व्यतिरिक्तम् उच्छिष्टं न कस्मैचिद् अपि दातव्यम् । दधिसर्पिषोस् तु शिष्यपुत्रयोर् अपि श्राद्धभोक्तृगुणोपेतयोर् अभ्यनुज्ञा ।

[१९४]

॥ २० ॥ ॥

अथ जपादिविधिः ॥

तत्र कायात्यनः

    अश्नत्सु जपेद् व्याहृतिपूर्वां गायत्रीं सप्रणवां सकृत् त्रिर् वा रक्षोघ्नीः पित्र्यमन्त्रान् पुरुषसूक्तम् अन्यानि च पवित्राणि । 

“रक्षोघ्नीः” ऽकृणुष्व पाजः" इत्याद्या ऋचः । ऽपित्र्यमन्त्राः " ऽउदीरताम वर" इत्यादयः । “पवित्राणि” शतरुद्रीयप्रभृतीनि ।

निगमः

    भुञ्जत्सु जपेत् सवितृमन्त्रान् ऋग्यजुःसामेतिहासपुराणरक्षोनीः पावमानीर् उदीरताम् अवरेति मधुमतीश् च ॥ 

[१९५] विष्णुः [ ७३, १५ - १६] ।

ततस् त्व् अदत्सु ब्राह्मणेषु यन् मे प्रकामाद् अहोरात्रैर् यद् वः क्रव्याद् इति जपेत् । इतिहासपुराणधर्म्शास्त्राणि च ॥ 

बौधायनः [२, १४, ५] ।

रक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च । 

मध्वृचो ऽथ पवित्राणि श्रावयेद् आशयन् शनैः ॥ 

ऽरक्षोघ्नानि च सामानि" ऽयद् वा उ विश्वपति" इत्यादि ऋच्य् उत्पन्नानि । ऽस्वधावन्ति यजूंषि च " ऽपितृभ्यः स्वधाविभ्यः" इत्यादि । “मध्वृचः” ऽमधुवाता ऋतायत" इत्याद्याः" ।

हारीतः

    यद् यत् पूतं मन्येत पुनन्तु मा पितर इति षोडशपावमानीर् जपेद् आदितस् त्रीन् । अत्र पितर इति यजुः । नमो वः पितर इति यजुः स्यामान्तम् । ‘मधुवाता ऋतायत" इति तिस्रः । ‘पुनन्तु मा पितर" इत्य् अनुवाकः । त्वं सोम प्रचकित इति चैषा **[१९६]** पित्र्या संहिता । एतान् जपन् पितॄन् प्रीणाति पितॄणां चास्याक्षयं भवति ॥ 

ऽआदितस् त्रीन्" ऽपुनन्तु मा पितरः" इत्य् उपक्रम्य त्रीन् मन्त्रान् सदैव श्राद्धे जपेद् इत्य् अर्थः । ऽयजुः स्यामान्तम्" ऽमधुत्वं स्याम" इत्यन्तम् आश्वलायनसूत्रपठितम् ।

शङ्खलिखितौ

    पवित्राञ्जलिपाणिर् दर्भेष्व् आसीनो मधु वाता इति जपेत् । पवित्रं धर्मशास्त्रम् अप्रतिरथं च मध्ये गायत्रीम् अनुश्राव्य ।

ऽअप्रतिरथऽं ऽआशुः शिशान" इत्यादि । “अनुश्राव्य” श्रावयित्वा ॥

मनुः [३, १३२] ।

स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि । 

आख्यानानीतिहासांश् च पुराणानि खिलानि च । 

“खलानि” श्रीसूक्तादीनि ।

मत्स्यपुराणे

ब्रह्मविष्ण्वर्करुद्राणां स्तोत्राणि विविधानि च । 

इन्द्रेशसोमसूक्तानि पावमानीश् च शक्तितः ॥ 

बृहद्रथन्तरे तद्वज् ज्येष्ठं साम तथा बृहत् । 

तथैव शान्तिकाध्यायं मधुब्राह्मणम् एव च ॥ 

[१९७] मण्डलब्राह्मणं तद्वत् प्रीतिकारि च यत् पुनः ।

विप्राणाम् आत्मनश् चैव तत् सर्वं समुदीरयेत् ॥ 

ब्रह्मपुराणे

वीणावंशध्वनी वाथ विप्रेभ्यः सन्निवेदयेत् ॥ 

विष्णुपुराणे ३, १५, ३१-३७] ।

रक्षोघ्नमन्त्रपठनं भूमेर् आस्तरणं तिलैः । 

कृत्वा ध्येयाश् च पितरस् त एव द्विजसत्तमाः ॥ 

पिता पितामहश् चैव तथैव प्रपितामहः । 

मम तृप्तिं प्रयान्त्व् अद्य विद्वद्देहेषु संस्थिताः ॥ 

पिता पितामहश् चैव तथैव प्रपितामहः । 

तृप्तिं प्रयान्तु पिण्डेन मया दत्तेन भूतले ॥ 

पिता पितामहश् चैव तथैव प्रपितामहः । 

तृप्तिं प्रयान्तु मद्भक्त्या मयैतत् समुदाहृतम् ॥ 

मातामहस् तृप्तिम् उपैतु तस्य 

	तथा पिता तस्य पिता तु यो ऽन्यः । 

विश्वे च देवाः परमां प्रयान्तु 

	तृप्तिं प्रणश्यन्तु च यातुधानाः ॥ 

यज्ञेश्वरो हव्यसमस्तकव्य- 

	भोक्ताव्ययात्मा हरिरीश्वरो ऽत्र । 

तत्सन्निधानाद् अपयान्तु सद्यो 

	रक्षांस्य् अशेषाण्य् असुराश् च सर्वे ॥ 

ऽमयैतत् समुदाहृतम्" इति मन्त्रलिङ्गात् पितॄन् ध्यायता स्तोत्रम् एतत् पठनीयं ब्राह्मणभोजनकाले ।

[१९८] वायुपुराणे

सप्तार्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् । 

अमूर्तीनां समूर्तीनां पितॄणां दीप्ततेजसाम् ॥ 

नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम् । 

इन्द्रादीनां जनेतारो दक्षमारीचयोस् तथा ॥ 

सप्तर्षीणां पितॄणां च तान् नमस्यामि कामदान् । 

मन्वादीनां जनेतॄंश् च सूर्याचन्द्रमसौ तथा ॥ 

तान् नमस्कृत्य सर्वान् वै पितॄन् अप्सु दधिष्व् अपि । 

प्रजापतये कश्यपाय सोमाय वरुणाय च ॥ 

योगेश्वरेभ्यश् च सदा नमस्यामि कृताञ्जलिः । 

नक्षत्राणां ग्रहाणां च वाय्वग्न्योश् च पितॄंस् तथा ॥ 

द्यावापृथिव्योश् च तथा नमस्यामि कृताञ्जलिः । 

देवर्षीणां जनेतॄंश् च सर्वदेवनमस्कृतान् ॥ 

अभयस्य सदा दातॄन् नमस्ये ऽहं कृताञ्जलिः । 

पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तषु ॥ 

स्वयम्भुवे नमश् चैव ब्रह्मणे योगचक्षुषे । 

एतद् उक्तं तु सप्तार्चिर् देवर्षिगणपूजितम् ॥ 

पवित्रं परमं ह्य् एतच् छ्रीमद् रक्षोनिरासनम् ॥ 

[१९९]

॥ ३१ ॥

॥ अथ श्राद्धोत्तरं कर्म ॥

याज्ञवल्क्यः [१, २४०-२४८] ।

आ तृप्तेस् तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ 

अन्नम् आदाय तृप्ताः स्थ शेषं चैवानुमान्य च । 

तद् अनं प्रकिरेद् भूमौ दद्याच् चापः सकृत् सकृत् ॥ 

सर्वम् अन्नम् उपादाय सतिलं दक्षिणामुखः । 

उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात् पितृयज्ञवत् ॥ 

मातामहानाम् अप्य् एवं दद्याद् आचमनं ततः । 

स्वस्तिवाच्यं ततः कुर्याद् अक्षय्योदकम् एव च ॥ 

दत्त्वा तु दक्षिणां शक्त्या स्वधाकारम् उदाहरेत् । 

वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ 

ब्रूयुर् अस्तु स्वधेत्य् उक्ते भूमौ सिञ्चेत् ततो जलम् । 

विश्वेदेवाश् च प्रीयन्तां विप्रैश् चोक्ते इदं जपेत् ॥ 

दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च । 

श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इति ॥ 

इत्य् उक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् । 

वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥ 

[२००] यस्मिंस् ते संस्रवाः पूर्वं पितृपात्रे निवेशिताः ।

पितृपात्रं तद् उत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ 

“पूर्वजपः” सव्याहृतिगायत्री मधुवाता इत्यादि । ऽदद्याच् चापः सकृत् सकृत्" भोजनसमाप्तौ चुलकार्थं दत्वामृतापिधानं तु विप्रेभ्यश्च् अ सकृत् सकृद् इति ॥

कात्यायनः [श्राद्धकल्पसूत्र, ३, ७-१८] ।

    तृप्तान् ज्ञात्वान्नं प्रकीर्य सकृत् सकृद् अपो दत्वा पूर्ववद् गायत्रीं जपित्वा [जप्त्वा] मधुमतीर् मधु मध्व् इति [ मधुमती] च । तृप्ताः स्थेति पृच्छति । तृप्ताः स्म इत्य् अनुज्ञाशेषम् अन्नम् अनुज्ञाप्य सर्वम् अन्नम् एकतोद्धृत्योच्छिष्टसमीपे दर्भेषु त्रींस् त्रीन् पिण्डान अवनेज्य दद्यात् । आचान्तेष्व् इत्य् एके । आचान्तेषूदकं पुष्पाक्षतान् अक्षय्योदकं च दद्यात् [दत्त्वा] अघोराः पितरः सन्तु सन्त्व् इत्य् उक्ते गोत्रं नो वर्धतां वर्धताम् इत्य् उक्ते 


    	दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च । 


    	श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ‘स्तु ।


    इत्य् आशिषः प्रतिगृह्य स्वधावाचनीयान् सपवित्रान् कुशान् आस्तीर्य स्वधां वाचयिष्य इति पृच्छति । वाच्यताम् इत्य् अनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यः वृद्धमातामहेभ्यश् च स्वधोच्यताम् इति । अस्तु स्ववेत्य् उच्यमाने स्वधावचनीयेष्व् अपो **[२०१]** निषिञ्चति [ऊर्जम् इति] ॥ उत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्यात् [ब्राह्मणेभ्यः ] । विश्वेदेवाः प्रीयन्ताम् इति दैवे वाचयित्वा वाजे वाजे ऽवतेति विसृज्य । आ मा वाजस्येत्य् अनुव्रज्य प्रदक्षिणीकृत्योपविशेत [प्रविशेत् ] ॥ 

आश्वलायनगृह्यम् [४, ९,१०- १४] ।

    तृप्तान् ज्ञात्वा मधुमतीः श्रावयेद् अक्षन्नमीमदन्तेति च । सम्पन्नं पृष्ट्वा यद् यद् अन्नम् उपभुक्तं ततस् ततः स्थालीपाकेन सह पिण्डार्थम् उद्धृत्य शेषं निवेदयेत् । अभिमतेऽनुमते वा **[२०२]** भुक्तवत्स्व् अनाचान्तेषु पिण्डान् निदध्यात् । प्रकीर्यान्नम् उपवीर्यो स्वधोच्यताम् इति विसृजेद् अस्तु स्वधेति वा ॥ 

ऽस्थालीपाकेन सह" इत्यभिधानात्, केवलावसथ्याग्निमन्तः पिण्डपितृयज्ञार्थं स्थालीपाकं श्रपयित्वान्नदानान्तं श्राद्धं निर्वर्त्य स्थालीपाकस्याग्रेणग्नौकरणहोमं कृत्वा ब्राह्मणान् भोजयित्वा श्राद्धशेषान्नेन स्थालीपाकान्नम् एकीकृत्य पिण्डप्रदानं कर्तव्यम् । “अभिमते” श्राद्धभोक्त्रा स्वीकृते । “अनुमते” तेनैव इष्टैः सह भुज्यताम् इत्य् अनुज्ञाते ॥

शङ्खलिखितौ

    गायत्रीम् अनुश्राव्य तृप्तान् ज्ञात्वा स्वदितम् इति पृष्ट्वा शेषम् अन्नम् अनुज्ञाप्य प्रकृताद् अन्नविकिरं कुर्यात् । स्वधां वाचयित्वा विष्टरांस् त्रीन् निदध्यात् । त्रीण्य् एवोदपात्राणि सतिलानि सपवित्राणि मृन्मयाश्ममयौदुम्बराणि वा धूपगन्धमाल्यादर्शदीपाञ्जनादीनि चोपहरेत् । सर्वान्नप्रकारम् आदाय पिण्डान् निदध्यात् । अपसव्येन पाणिना दक्षिणं पाणिम् उपधार्यैकैकं त्रिभिर् अभिमन्त्र्यासाव् एतत् त इति दर्भेषु तेष्व् एव पाणी प्रमृज्योदपात्रैः परिश्राव्य ब्रूयाद् दातारः सन्त्व् इति बहुदेयं च नो ऽस्त्व् इति ॥ 

यमः

ततो भुक्तवतां शेषाद् अन्नशेषं निवेदयेत् । 

यथा ब्रूयुस् तथा कुर्याद् अनुज्ञातस् तु तैर् द्विजैः ॥ 

तृप्तान् आचामयेत् पृष्ट्वा वै ददाति प्रयत्नतः । 

आचान्तान् अनुजानीयाद् अभिवाद्य कृताञ्जलिः ॥ 

[२०३] भवन्तो रमताम् अत्र ज्ञात्वानुज्ञातलक्षणम् ।

स्वधेति चेति वक्तव्यं प्रीयन्तां पितरस् त्व् इति ॥ 

अक्षय्यम् अन्नपानं च वाच्यं प्रीतैर् द्विजातिभिः । 

ततो निर्वपणं कुर्यात् पिण्डानां तदनन्तरम् ॥ 

शुचौ देशे विविक्ते च प्रयत्नेनोपपादयेत् । 

विष्टरांस् त्रीन् वपेत् तत्र नामगोत्रसमन्वितान् ॥ 

अद्भिर् अभ्युक्ष्य विधिवत् तिलैर् अभ्यवकीर्य च । 

ततो दर्भेषु तं हस्तं निर्मृज्याल् लेपभागिनाम् ॥ 

ततः पानीयकुम्भेन तर्पयेत् प्रयतः पितॄन् । 

पूर्वपिण्डं प्रयच्छेत् तु पित्र्यं च पृथिवीति च ॥ 

पितामहाय त्व् अपरम् अन्तरिक्षे च दापयेत् । 

प्रपितामहाय च ततस् तृतीयं तु निवेदयेत् ॥ 

द्यौर् दविर् इति मन्त्रेण श्रुतिर् एषा सनातनी । 

ततो ऽभिवाद्य प्रणतो वरान् याचेत् पितामहान् ॥ 

दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च । 

श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इति ॥ 

ऽपृष्ट्वा वै ददाति प्रयत्नतः" इत्य् अनेनेदम् उच्यते शेषान्नानुज्ञापनं न वाङ्मात्रेण, किं तु तद्दाने प्रयत्नम् अपि स्वयं कुर्याद् इति । “ददातिर्” अत्रार्थपरः, तिष्ठन् होमान् यजत इतिवत् । ऽज्ञात्वा अनुज्ञातलक्षणऽं अभिरताः स्मेत्य् अनुज्ञासूचकं चिह्नम् ॥ “विष्टरान्” पिण्डासनकुशान् । ऽवपेत् तत्र" पिण्डान् इति शेषः । ऽलेपभागिनाऽं प्रपितामहात् परेषाम् ॥

बृहस्पतिः [श्राद्ध, १०६ - १०८, १०४, १०५, १२९, १०९] ।

पृच्छेत् तृप्तास् ततस् ते तु यद् ब्रूयुस् तत् समाचरेत् । 

तत्समीपे प्रकुर्याच् च पिण्डनिर्वपणं ततः ॥ 

[२०४] सर्वस्मात् प्रकृताद् अन्नात् पिण्डान् मधुतिलान्वितान् ।

पितृमातामहादीनां दद्याद् गृह्यविधानतः ॥ 

दीपगन्धैर् माल्यधूपैस् तथा वस्त्राञ्जनादिना । 

समभ्यर्च्योदपात्रं च तेषाम् उपरि निक्षिपेत् ॥ 

उपस्पृष्टोदकानां तु ब्राह्मणानां ततो ऽग्रतः । 

सोदकं विकरेद् अन्नं मन्त्रं चेमं समुच्चरेत् ॥ 

अग्निदग्धाश् च ये जीवा ये ऽप्य् अदग्धाः कुले मम । 

भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥ 

वाजे वाज इति प्रोक्त्वा ब्राह्मणांस् तान् विसर्जयेत् । 

विप्रान् प्रदक्षिणीकृत्य विप्राणां प्रार्थयेद् वरान् ॥ 

दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च । 

श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इति ॥ 

हारीतः

    तृप्तान् स्वदितम् इति पृच्छेत् स्वदितम् इति प्रत्याहुः । शृतम् इति दैवेष्व् आयुष्यम् इति स्वैरेष्वाचान्तेषु भूमौ विकिरं निनयेत् । प्रत्याचान्तेषु समूलतिलैर् ब्राह्मणपाणिषु निनयेत् । ॐ स्वधेत्य् आहुर् अस्तु स्वधेति प्रत्याहुः । ततो ऽनुज्ञावचनम् अभिरम्यताम् इत्य् एके । अभिरताः स्मेति प्रत्याहुः । वाजे वाज इत्य् अभिव्रज्य शेषस्य पिण्डान् पितृयज्ञवन् निदध्यात् । परिषेचनम् अभिषेचनम् उदकाञ्जलिम् अर्घ्यभाजनम् अर्घ्यप्रत्यवनेजनं मार्जनप्रवाहनं विकिरोदकं समूलतिलैर् यच् चान्यत् तूष्णीं तद् दशमम् एकादशकं श्राद्धसम् ऋद्धिकामः कुर्यात् ॥ 

“शृतम्” इति दैवेषु" —

देवान् उद्दिश्य यच् छ्राद्धं तत् तु दैविकम् उच्यते । 

हविष्येन विशिष्टेन सप्तम्यादिषु यत्नतः ॥ 

**[२०५] **इति भविष्यपुराणोक्तं देवश्राद्धम्, तत्र शृतम् इति पृच्छेत् । ऽशृतऽं सिद्धम् । ऽशृतं पार्क" इति निपातनात् । “स्वैरेषु” “श्राद्धं प्रति रुचिश् चैव " इति कथितश्राद्धेषु । ऽसमूलतिलैः समूला अत्र कुशाः, तेन समूलकुशतिलैः सह । “निनयेत्” जलम् इति शेषः । ‘ततो ऽनुज्ञावचनऽं कार्यम् इति शेषः । तच् च यथारुचि स्थीयताम् इत्यादि । ‘अभिरम्यताम् इत्य् एके " एके ऽभिरम्यताम् इत्य् अनुज्ञावचनशब्देन नियमं मन्यन्ते ॥

पुनर् हारीतः

श्वश्वादीनां तथा पत्नी पिण्डान् दद्यात् सुयन्त्रिता । 

उदकाञ्जलिदीपं च अञ्जनाभ्यञ्जनं तथा ॥ 

ऽश्वश्वादीनाऽं इति, यत्र शाखायां मातृप्रभृतीनां पृथक्त्वेन पिण्डप्रदानं विहितं तत्र यजमानत्वाद् अमन्त्रवत् । इदं स्त्रीभ्यः पिण्डदानं केषाञ्चिद् एव शाखिनाम् ॥

शाङ्खायनगृह्यम् [४, १,५-९] ।

    भुक्तवत्सु पिण्डान् दद्यात् । पुरस्ताद् एके । पिण्डान् पश्चिमेन तत्पत्नीनां किञ्चिद् अन्तर्धाय । ब्राह्मणेभ्यः शेषं निवेदयेत् । अग्नौकरणादि पिण्डपितृयज्ञेन कल्पे व्याख्यातम् ॥ 

“पुरस्तात्” ब्राह्मणभोजनात् प्राक् । “एके” अयं च भेद- शाखाभेदव्यवस्थितः । ऽपिण्डान् पश्चिमेन” पित्रादिपिण्डानां पश्चिमप्रदेशे अनतिदूरे किञ्चिद् अन्तर्धायिकं कृत्वा । ऽअग्नौकरणादि पिण्डपितृयज्ञेन" अग्नौकरणादीतिकर्तव्यतावता पिण्डपितृयज्ञेन ।

निगमः

    तृप्तेष्व् आमन्त्र्य तृप्ताः स्थेति पूर्ववन् निषिच्य पूर्वेषां स्वस्तिवाच्य ॐ स्वधोच्यताम् इत्य् उक्त्वाभिरम्यतां यथा सुखम् इति च सम्पूज्यानुव्रजेत् ॥ 

ऽपूर्ववन् निषिच्य" प्रत्यवनिज्य । “स्वस्तिवाच्य” स्वस्तीति वाचयित्वा ॥

उशना

    तृप्तांश् चेमान् प्रभूतं प्रभूतम् इत्य् उक्तवतः सदक्षिणेन तिलोन्मिश्रितोदकेन च सिच्य त्रीन् पूर्वान् अनुकीर्तयेत् । दर्भास्तीर्णायां भूमौ पिण्डान् निवेदयेत् । ततः स्वधां वाचयेत् । पिण्डान् अवधार्य तोयेन प्रतिषिच्योदकभाजनान्य् उत्सृजेत् ।

“सदक्षिणेन” दक्षिणाद्रव्यसहितेन । “प्रतिषिच्य” प्रत्यवनिज्य ॥

ऽअदत्सु ब्राह्मणेषु" इत्यनुवृत्तौ, विष्णुः [७३, १७–२८, ३२] ।

    उच्छिष्टसन्निधौ दक्षिणाग्रेषु दर्भेषु पृथिवी दर्विर् अक्षतेत्य् एकं पिण्डं पित्रे निदध्यात् । अन्तरीक्षं दर्विर् अक्षतेति द्वितीयं पितामहाय । द्यौर्द् अर्विर् अक्षतेति तृतीयं प्रपितामहाय । ये ‘त्र पितरः प्रेता इति वासो देयम् । वीरान्नः पितरो धत्त इत्य् अन्नम् । अत्र पितरो मादयध्वं यथाभागं दर्भमूले स्वकराभिवर्षणम् । ऊर्जं वहन्तीर् इत्य् अनेन सोदकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वार्घपुष्पधूपानुलेपनान्नादिभक्ष्याणि निवेदयेत् । उदकपात्रं मधुघृततिलैः संयुक्तं च । भुक्तवत्सु ब्राह्मणेषु तृप्तिम् आगतेषु मा मे क्षेष्टेत्य् अन्नं सतृणम् **[२०७]** अभ्युक्ष्यान्नविकिरणम् उच्छिष्टाग्रतः कृत्वा तृप्ता भवन्तः सम्पन्नम् इति च पृष्ट्वोदङ्मुखेष्व् आचमनादौ दत् वा ततः प्राङ्मुखेषु [दत्वा ततश् च सम्प्रोक्षितम् इति श्राद्धदेशं सम्प्रोक्ष्य दर्भपाणिः सर्वं कुर्यात् । ततः प्राङ्मुखाग्रतो] यन् मे राम इति प्रदक्षिणं कृत्वा प्रत्येत्य च यथाशक्ति दक्षिणां च दत्वाभिरमन्तु भवन्त इत्य् उक्त्वा तैर् उक्तो ऽभिरताः स्म इति देवाश् च पितरश् चेति [अभि]जपेत् । अक्षय्योदकं [ च] नामगोत्राभ्यां दत्वा विश्वेदेवाः प्रीयन्ताम् इति च प्राङ्मुखेभ्यस् ततः प्राञ्जलिर् इदं तन्मना याचेत । 

	दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च । 

	श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इति" ॥ 

	वाजे वाज इति ततो ब्राह्मणांश् च विसर्जयेत् । 

	पूजयित्वा यथान्यायम् अनुव्रज्याभिवाद्य च ॥ 

ऽयन् मे राम इति" यन् मे रामः शकुनिर् इत्यादिको मन्त्रः ।

मनुः [३, २१४-२२०; २२३] ।

अपसव्यम् अग्नौ कृत्वा सर्वम् आवृत्परिक्रमम् । 

अपसव्येन हस्तेन निर्वपेद् उदकं शुचि ॥ 

[२०८] त्रींस् तु तस्माद् धविःशेषं पिण्डान् कृत्वा समाहितः ।

औदकेनैव विधिना निर्वपद् दक्षिणामुखः ॥ 

न्युप्य पिण्डांस् ततस् तांस् तु प्रयतो विधिपूर्वकम् । 

तेषु दर्भेषु तं हस्तं निर्मृज्याल् लेपभागिनाम् ॥ 

आचम्योदक्परावृत्य त्रिर् आचम्य शनैर् असून् । 

षडृतूंश् च नमस् कुर्यात् पितॄन् एव च मन्त्रवित् ॥ 

उदकं निनयेच् छेषं शनैः पिण्डान्तिके पुनः । 

अवजिघ्रेच् च तान् पिण्डान् यथा न्युप्तान् समाहितः ॥ 

पिण्डेभ्यः स्वल्पिकां मात्रां समादायानुपूर्वशः । 

तान् एव विप्रान् आसीनान् विधिवत् पूर्वम् आशयेत् ॥ 

तेषां दत्वा तु हस्तेषु सपवित्रं तिलोदकम् । 

तत्पिण्डाग्रं प्रयच्छेत् तु स्वधैषाम् अस्त्व् इति ब्रुवन् ॥ 

ऽअपसव्यऽं अप्रदक्षिणं यथा भवति । “आवृत्परिक्रमः” “अपसव्येन” दक्षिणेनैव । “निर्वपेत्” निक्षिपेत्, पिण्डार्थास्तृतकुशेष्व् इति शेषः । “शुचि” अनुपहतम् । “तस्मात्” हविःशेषाद् अग्नौकरणहोमावशिष्टात् । ऽऔदकेनैव विधिना" अवनेजनोदकदानप्रकारेण । “न्युप्य” दत्वा । ऽविधिपूर्वकऽं स्वगृह्योक्तविधिप्रकारयुक्तम् । “उदक्परावृत्य” उदङ्मुखीभवितुं परावर्तनं कृत्वा । “मन्त्रवत्” ऽनमो वः पितरो रसाय" इत्यादिमन्त्रयुक्तम् । “निनयेत्” दद्यात् । ऽशेषऽं प्रथमावनेजनावशिष्टं ब्राह्मणार्चनानन्तरम् ॥

देवलः

अथ सङ्गृह्य कलशं सदर्भं पूर्णम् अम्भसा । 

पुरस्ताद् उपविश्यैषां पिण्डावापं निवेदयेत् ॥ 

[२०९] ततस् तैर् अभ्यनुज्ञातो दक्षिणां दिशम् एत्य सः ।

उपलिप्ते शुचौ देशे स्थानं कुर्वीत सैकतम् ॥ 

मण्डलं चतुरश्रं वा दक्षिणावनतं महत् । 

एकदर्भेण तन्मध्यम् उल्लिखेत् त्रिश् च तं त्यजेत् ॥ 

तस्मिन् स्थाने ततो दर्भान् एकमूलान् शिवान् बहून् । 

दक्षिणाग्रान् उदक्पादान् सर्वांस् तांस् तृणुयात् समम् ॥ 

अथ साञ्जलिर् उत्थाय स्थित्वा चावाहयेत् पिॠऋन् । 

पितरो मे प्रसीदन्तु प्रयान्तु च पितामहाः ॥ 

इति सङ्कीर्तयंस् तूष्णीं तिष्ठेत् क्षणम् अनुच्छ्वसन् । 

आवाहयित्वा दर्भाग्रैस् तेषां स्थानानि कल्पयेत् ॥ 

तेष्व् आसीनेषु पात्रेषु प्रयच्छेन् मार्जनोदकम् । 

पुष्पाणि विकिरेत् तत्र नानावर्णांस् तिलान् अपि ॥ 

ततश् चरुम् उपादाय सपवित्रेण पाणिना । 

चतुर्धा विभजेत् पिण्डान् घृताक्तान् भाजनेन वै ॥ 

अभ्यज्य मधुसर्पिर्भ्यां तान् वपेत् कुशसञ्चये । 

छायायां हस्तिनो छाये बस्तदौहित्रसन्निधौ ॥ 

पितृपूर्वं च नामानि त्रयाणां कीर्तयेच् छनैः । 

अपसव्यम् अपाङ्गुष्ठं मन्त्रपूर्वं स्वधेति च ॥ 

एतत् ते तत ये च त्वाम् अन्वित्याद्यावपेत् पितुः । 

तथा पितामहस्यापि तत्पितुश् च तथाचरेत् ॥ 

[२१०] सामान्यम् इति शेषाणां चतुर्थं पिण्डम् आवपेत् ।

एवं निवेश्य पिण्डांस् तान् अलङ्कुर्याच् च पूर्ववत्" ॥ 

अलङ्कृत्य यथाकल्पं जुहुयात् पावकं बुधः । 

हविर्भिः कव्यमन्त्रेण स्वधाकारं च घोषितम् ॥ 

हुत्वैवम् अग्निपिण्डानां सन्निधौ तदनन्तरम् । 

पक्वान्नेन बलिं तेभ्यः पिण्डेभ्यो वापयेद् द्विजः ॥ 

ततो दत्तबलिभ्यश् च पिण्डेभ्यो मन्त्रपूर्वकम् । 

पिण्डपात्रेण तेनैव दद्याद् आचमनोदकम् ॥ 

हविःशेषं ततो मुष्टिम् आदायैकैकम् आदितः । 

क्रमशः पितृपत्नीनां पिण्डनिर्वपणं चरेत् ॥ 

ततः पिण्डम् उपादाय हविषः संस्कृतं महत् । 

ज्ञातिवर्गस्य सर्वस्य सामान्यम् इति निर्वपेत् ॥ 

दक्षिणां सर्वभोगांश् च प्रतिपिण्डं प्रदापयेत् । 

भक्ष्यान् अपूपान् इक्षूंश् च व्यञ्जनान्य् अशनानि च ॥ 

ततश् च पिण्डपात्रेण समुद्धृत्य तिलोदकम् । 

पिण्डांस् तांस् त्रिः परिक्रामेद् अजस्रम् अपसव्यतः ॥ 

ततो ऽभिवाद्य प्रयतो वरं याचेत् ततः पितॄन् । 

वंशो नो वर्धतां भूयो बहुदेयं च नो ऽस्त्व् इति ॥ 

एकोद्दिष्टे ऽन्यमासे वा तथा संवत्सरे ऽपि च । 

विधानं चैतद् एव स्यात् पिण्डश् चैको ऽत्र पूज्यते ॥ 

एवं पिण्डान् समभ्यर्च्य हुत्वा चाग्निं यथाविधि । 

अभ्येत्य ब्राह्मणस्थानं ब्राह्मणांस् तान् समर्चयेत् ॥ 

अथ पिण्डावशिष्टानं विधिना भोजयेद् द्विजान् । 

ऽएषाऽं श्राद्धोपवेशितब्राह्मणानाम् । “दक्षिणादिक्” श्राद्धकर्त्रपेक्षया । “एत्य” प्राप्य । ऽसैकतं वालुकामयम् । **[२११] **“त्रिः” वारत्रयम् । ऽतऽं दर्भम् । “एकमूलान्” एकमूल-संलग्नबहुशिखान् । “उदक्पादान्” उदङ्मूलान् । ऽसमऽं एककालम् । ऽतेषाऽं पितॄणाम् । ऽस्थानानि कल्पयेत्" आस्तृतदर्भोपरीति शेषः । ऽमार्जनोदकऽं अवनेजनोदकम् । “बस्तः” छागः । ऽअपाङ्गुष्ठऽं अपगताङ्गुष्ठसम्बन्धम् । एतत् ते तत" इति पित्रादिपदं सम्बोधनान्तं प्रयोक्तव्यम् । ऽशेषाणाऽं वृद्धप्रपितामहादीनाम् । “पूर्ववत्” ब्राह्मणार्चनवत् । ऽकव्यमन्त्रेण " अग्नये कव्यवाहनायेत्यादिमन्त्रेण । ऽघोषितऽं उचैर् उच्चारितम्, कुर्याद् इति शेषः । ऽआचमनोदकऽं प्रत्यवनेजनोदकम् । ऽततश् च" इति, ततः सतिलोदकधारणं वारत्रयम् अपसव्यं पिण्डान् वेष्ट्येत्य् अर्थः । इदं च मनु-देवलाभ्यां पिण्डविधानं ब्राह्मणभोजनात् पूर्वम् उक्तम् अपि पिण्डप्रकरणानुरोधेनात्र लिखितम् ॥

शङ्खः

उच्छिष्टसन्निधौ कार्यं पिण्डनिर्वपणं बुधैः । 

आदौ वापि तथा कुर्याद् अग्निकार्यं यथाविधि ॥ 

यत् किञ्चित् पच्यते गेहे भक्ष्यं वा भोज्यम् एव वा । 

अनिवेद्य न भोक्तव्यं पिण्डमूले कथञ्चन ॥ 

भोजयित्वा यथाभक्त्या आचान्तान् दत्तदक्षिणान् । 

स्वस्ति वाच्य प्रसन्नात्मा अनुव्रज्य विसर्जयेत् ॥ 

‘अनिवेद्य न भोक्तव्यम्" इति सर्वम् अन्नम् उपकॢप्तं पिण्डबलित्वेन विनिवेदयेद् इत्य् अर्थः । “पिण्डमूले” पिण्डसमीपे ।

मनुर् विष्णुश् च प्रथमे ।

सार्ववर्णिकम् अन्नाद्यं सन्नीयाप्लाव्य वारिणा । 

समुत्सृजेद् भुक्तवताम् अग्रतो विकिरेद् भुवि ॥ 

[२१२] पृष्ट्वा स्वदितम् इत्य् एवं तृप्तान् आचामयेत् ततः ।

आचान्तांश् चानुजानीयाद् अभि भो रम्यताम् इति ॥ 

स्वधास्त्व् इत्य् एव ते ब्रूयुर् ब्राह्मणास् तदनन्तरम् । 

स्वधाकारः परा ह्य् आशीः सर्वेषु पितृकर्मसु । 

ततो भुक्तवतां तेषाम् अन्नशेषं निवेदयेत् । 

यथा ब्रूयुस् तथा कुर्याद् अनुज्ञातो द्विजोत्तमैः ॥ 

पित्र्ये स्वदितम् इत्य् एव वाक्यं गोष्ठे तु सुश्रुतम् । 

सम्पन्नम् इत्य् अभ्युदये दैवे रोचत इत्य् अपि ॥ 

विसृज्य ब्राह्मणांस् तांस् तु नियतो वाग्यतः शुचिः । 

दक्षिणां दिशम् आकाङ्क्षन् याचेतेमान् वरान् पितॄन् ॥ 

दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च । 

श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इति ॥ 

ऽसार्ववर्णिकऽं सर्वम् उपकॢप्तम् । “सन्नीय” मिश्रयित्वा । “आकाङ्क्षन्” निरीक्ष्यमाणः ॥

वसिष्ठः [३, ६९-७१ ।

    रोचत इति सायम्प्रातर् अशनान्य् अभिपूजयेत् । स्वदितम् इति पित्र्येषु । सम्पन्नम् इत्य् आभ्युदयिकेषु ॥ 

देवलः

एवं तृप्तेषु पानीयं दद्याद् आचमनं तथा । 

उच्छिष्टं चाप्य् अपनयेत् पित्र्याणां नाम वर्जयेत् ॥ 

ततः सर्वाशनं पात्रे गृहीत्वा विधिवत् स्वयम् । 

तेषाम् उच्छेषणस्थाने तेन पात्रेण निक्षिपेत् ॥ 

आचान्तेभ्यो द्विजेभ्यश् च प्रयच्छेद् अथ दक्षिणाम् । 

हिरण्यरत्नभोगानाम् अन्येषां च स्वशक्तितः ॥ 

[२१३] ततो मुष्टिम् उपादाय हविषो ऽन्तस् ततः स्वयम् ।

कलशं जलपूर्णं च गृहीत्वोभयम् एव च ॥ 

पितॄणां ब्राह्मणानां च हस्ताग्रात् प्रभृति क्षरन् । 

अपसव्यं क्रमेत् सर्वान् तांश् च पिण्डान् बहिर्मुखः ॥ 

त्रिर् एवं पतनं तोयं परीत्य श्रावयेच् छनैः । 

परिक्रम्य तु तत्पात्रं तत्रैवाप्य् अवकुब्जयेत् ॥ 

अथ वै वैश्वदेवत्यान् ब्राह्मणान् स्वस्ति वाचयेत् । 

अक्षयं वाचयेत् पित्र्यांश् चरमं सतिलोदकम् ॥ 

अथ विप्रान् गृहीतार्थान् सन्तृप्तान् अभिवादयेत् । 

यथावद् वैश्वदेवत्यान् पितृपूर्वं पुनः पितॄन् ॥ 

पूर्वम् उत्थापयेत् पित्र्यान् ऋध्यताम् इति च ब्रुवन् । 

उत्थितान् अनुगच्छेच् च तेभ्यः शेषं च संहरेत् ॥ 

पश्चात् तु वैश्वदेवत्यान् विप्रान् उत्थापयेत् तथा । 

एते हि पूर्वम् आसीनाः समुत्तिष्ठन्ति पश्चिमाः ॥ 

ऽपानीयऽं भोजनान्ते अमृताभिधानमसीयम् । " एवम्पतनऽं एवम् उक्तप्रकारं पतनं यस्य तत् तथा । ऽचरमऽं पश्चात् ।

ब्रह्मपुराणे

उच्छिष्टे सतिलान् दर्भान् दक्षिणाग्रान् निधापयेत् । 

यद् यन् निवेदितं किञ्चित् पितृभ्यश् चाथ तत्र च ॥ 

तस्मात् तस्माच् च तद्भागं गृहीत्वा च समे शुभे । 

दत्त्वामृतापिधानं तु विप्रेभ्यश् च सकृत् सकृत् ॥ 

कच्चित् सम्पन्नम् एतन् मे भो विप्रा इति तान् वदेत् । 

इति प्राहुः सुसम्पन्नं तांस् तान् पुनर् उदाहरेत् ॥ 

अहो भवन्तस् तृप्यन्तु तृप्ताः स्मेति वदन्ति ते । 

स तान् आह पुनः शेषं क देयं चान्नम् इत्य् अपि ॥ 

शिष्टेभ्यो दीयतां चैतद् इति तं प्रवदन्ति ते । 

अथ तृप्तांस् तु तान् ज्ञात्वा भूमाव् अन्नं जलं क्षिपेत् ॥ 

[२१४] ये ‘स्मत्कुलेजा पितरो लुप्तपिण्डोदकक्रियाः ।

ये चाप्य् अकृतचूडास् तु ये च गर्भाद् विनिःसृताः ॥ 

येषां दाहो न क्रियते ये ऽग्निदग्धास् तथापरे । 

भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥ 

ततः प्रक्षाल्य हस्तौ तु तथाचम्य हरिं स्मरेत् ।

प्रेतभागं विसृज्याथ प्रायश्चित्तोपशान्तये ॥ 

सव्याहृतिं सप्रणवां गायत्रीं च ततो जपेत् । 

पठेन् मधुमतीः पुण्यास् तथा च मधु मध्व् इति ॥ 

“उच्छिष्टे” उच्छिष्टसन्निधौ । “प्रायश्चित्तोपशान्तये” प्रायश्चित्तसाध्या या उपशान्तिः, तस्यै ।

तथा

तत्र दक्षिणपूर्वस्यां कार्या वेदी तथा दिशि । 

हस्तमात्रावाह्यभूमेश् चतुरङ्गुलम् उच्छ्रिता ॥ 

पिण्डनिर्वापणार्थाय रमणीया विशेषतः । 

ॐ निहन्मि सर्वं यद् अमेध्यवद् भवेद्

	धताश् च सर्वे ऽसुरदानवा मया । 

यक्षाश् च रक्षांसि पिशाचसङ्घा 

	हता मया यातुधानाश् च सर्वे ॥ 

अनेन मन्त्रेण सुसंयतात्मा 

	वेदीं च सर्वां सकृद् उल्लिखेच् च । 

शिवां च बुद्धिं ध्रुवम् इच्छमानः 

	क्षिपेत् कुशांस् तत्र च दक्षिणाग्रान् ॥ 

तथा ।

गृहीत्वा दर्भपिञ्जलीं ततो वामेन पाणिना । 

तया च दक्षिणाग्रां तु रेखाम् उल्लङ्घयेत् पठेत् ॥ 

पवित्रपाणिश् च जपन् मन्त्रं रक्षोन्नम् उत्तमम् । 

समूलान् दक्षिणाग्रांस् तु रेखायां प्रस्तरेत् कुशान् ॥ 

[२१५] अथ वै चमसादिभ्यस् त्व् अर्घपात्रेभ्य एव च ।

सपुष्पाञ्जलिम् आदाय तेषां पृष्ठे पृथक् पृथक् ॥ 

अप्रदक्षिणं नेनिज्याद् गोत्रनामानुमन्त्रितम् । 

अमुकामुकगोत्रैतत् तुभ्यम् अन्नं स्वधा नमः ॥ 

अवनेनिक्ष इत्यन्ते जपेच् च सुसमाहितः । 

पिण्डांस् तथार्घपात्रेषु त्रिषु दत्वा च पूर्ववत् ॥ 

मध्वाज्यजलसम्पृक्तं सर्वव्यञ्जनसंयुतम् । 

उष्णम् आदाय पिण्डं तु कृत्वा बिल्वफलोपमम् ॥ 

दद्यात् पितामहादिभ्यो दर्भमूले यथाक्रमम् । 

अमुकामुकगोत्रैतत् तुभ्यं पिण्डेति सञ्जपेत् ॥ 

ये च त्वाम् इति मन्त्रस् तु सर्वेभ्यश् च जपेत् पृथक् । 

ततो दर्भेषु विधिवत् सम्मार्ज्य च करौ ततः ॥ 

प्रक्षाल्य च जलेनाथ त्रिर् आचम्य हरिं स्मरेत् । 

तेभ्यः संस्रवपात्रेभ्यो जलेनैवावनेजनम् ॥ 

दत्वात्र पितरश् चेति पठेच् चोदङ्मुखः स्थितः । 

चिन्तयंश् च पितॄंस् तुष्टान् सर्वान् भास्वरमूर्तिकान् ॥ 

अमी मदन्त पितरस् त्व् इति पश्यन् धिया पठेत् । 

नीवीं विस्त्रस्य च जपेन् नमो वः पितरस् त्व् इति ॥ 

यथेह पुरुषं तं च मन्त्रं जप्त्वा कृताञ्जलिः । 

एतद् वः पितरो वासस् त्व् इति जल्पन् पृथक् पृथकूं ॥ 

अमुकामुकगोत्रैतत् तुभ्यं वासः पठेत् ततः । 

दद्यात् क्रमेण वासांसि श्वेतवस्त्रभवा दशाः ॥ 

गते वयसि वृद्धानि स्वानि लोमान्य् अथापि वा । 

क्षौमं सूत्रं नवं दद्याच् छाणं कार्पासम् एव वा ॥ 

कृष्णोर्णानीलरक्ताक्तकौशेयानि विवर्जयेत् । 

मधु साभ्यञ्जनं चार्घं पुष्पं धूपं विलेपनम् ॥ 

बलिं दद्याच् च विधिवत् पिण्डो ऽष्टाङ्गो भवेद् यथा । 

[२१६] पूजयित्वा तु पिण्डस्थान् पितॄंश् च प्रणमेद् ऋतून् ॥

ॐ वसन्ताय नमस् तुभ्यं ग्रीष्माय च नमो नमः । 

वर्षाभ्यश् च शरत्सञ्ज्ञऋतवे च नमः सदा ॥ 

हेमन्ताय नमस् तुभ्यं नमस् ते शिशिराय च । 

माससंवत्सरेभ्यश् च दिवसेभ्यो नमः सदा ॥ 

ऽगृहीत्वा दर्भपिञ्जूलीम्" इति, वामहस्तेन दर्भपिञ्जूलीं गृहीत्वा उभाभ्यां हस्ताभ्याम् उल्लिखेद् इत्य् अर्थः । “सव्योत्तराभ्यां पाणिभ्यां कुर्याद् उल्लेखनं द्विजः" इति वायुपुराण- वचनात्" । ऽपठेत् रक्षोघ्नं मन्त्रम्" अवहता इत्यादिकम् । ऽतेषां पृष्ठे" पिण्डार्थास्तृतकुशानाम् उपरि । “दत्वा” निक्षिप्य । “पूर्ववत्” पित्राद्यर्घपात्रेषु । “यथाक्रमम्” विधिवत्, अपसव्येन मन्त्रवच् च । “सम्माय” प्रोक्ष्य । “तेभ्यः” पिण्डस्थपितृभ्यः । ‘तेभ्यः संस्रवपात्रेयः" संस्रवपात्रतो जलम् आदायावनेजनं दत्वेत्य् अर्थः ।

वायुपुराणे

सव्योत्तराभ्यां पाणिभ्यां कुर्याद् उल्लेखनं द्विजः ॥ 

तथा

निहन्मि सर्वं यद् अमेध्यवद् भवेद्

	धताश् च सर्वे ऽसुरदानवा मया । 

रक्षांसि यक्षाः सपिशाचसङ्घा 

	हता मया यातुधानाश् च सर्वे ॥ 

एतेन मन्त्रेण सुसंयतात्मा 

	वेदीं च सर्वां सकृद् उल्लिख्य धीरः । 

[२१७] शिवां हि बुद्धिं ध्रुवम् इच्छमानः

	क्षिपेद् द्विजातिर् दिशम् उत्तरान्तः ॥ 

एवं पित्र्ये दृष्टम् एतद् द्विजस्य 

	तस्यासुरा वर्जयन्तीह श्राद्धम् । 

यस्मिन् देशे पठ्यते ह्य् एष मन्त्रस्

	तं वै देशं राक्षसा वर्जयन्ति ॥ 

“क्षिपेत्” उल्लेखनसाधनम् इति शेषः ॥

तथा

सकृद् एव हरेद् दर्भान् पिण्डार्थं दक्षिणामुखान् । 

प्राग्दक्षिणाग्रान् नियतो विधिश् चाप्य् अत्र वक्ष्यते ॥ 

मधुसर्पिस्तिलैर् युक्तांस् त्रीन् पिण्डान् निर्वपेद् बुधः । 

जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥ 

पिण्डान् परिक्षिपेत् सम्यग् अपसव्यम् अतन्द्रितः । 

अन्नेनाद्भिश् च पुष्पैश् च फलैर् भक्ष्यैः पृथग्विधैः ॥ 

पृथङ्मातामहानां च केचिद् इच्छन्ति मानवाः । 

त्रीन् पिण्डान् आनुपूर्व्येण साङ्गुष्ठान् मुष्टिबन्धनान् ॥ 

सानुचराणां यत्नेन पृथग् दद्याद् यथाक्रमम् । 

सव्येतराभ्यां पाणिभ्यां वदेन् मन्त्रम् इमं सदा ॥ 

नमो वः पितरस् तुष्टा इत्य् एवं श्रद्धया पुनः । 

सव्येतराभ्यां पाणिभ्यां प्रथमं पिण्डम् आवहेत् ॥ 

नमो वः पितरः सौम्या नित्यम् एवम् अतन्द्रितः । 

उदकस्य च रेखायाम् उदपात्रावसेचनम् ॥ 

[२१८] क्षौमसूत्रं नवं दद्याच् छाणं कार्पासिकं तथा ।

पत्रोर्णं पट्टसूत्रं च कौशेयं च विवर्जयेत् ॥ 

वर्जयेच् च दशां प्राज्ञो यद्य् अप्य् अहतका भवेत् । 

श्रेष्ठम् आहुस् त्रैककुदम् अञ्जनं नित्यम् एव हि ॥ 

गृहीत्वा दर्भपिञ्जूलैस् त्रिभिः कुर्याद् यथाविधि । 

अपसव्यं पितृभ्यस् तु दद्याद् अञ्जनम् उत्तमम् ॥ 

तैलं कृष्णतिलेभ्यश् च यत्नात् सुपरिरक्षितम् ॥ 

“दक्षिणामुखताप्राग्दक्षिणाग्रतयोर्” विकल्पः । “परिक्षिपेत्” परिवेष्टयेत्, वक्ष्यमाणतज्जलपुष्पादिना । ऽअपसव्यऽं अप्रदक्षिणम् । ऽदशां च वर्जयेत्" इति श्वेतवस्त्रव्यतिरिक्तदशाविषयम्, “दद्यात् क्रमेण वासांसि श्वेतवस्त्रभवां दशाम्” इति ब्रह्मपुराणवचनात् । ऽत्रैककुदऽं सौवीराञ्जनम् ॥

तथा

पेषयित्वाञ्जनं सम्यग् वेद्या उत्तरतो द्विजः ॥ 

तथा

तैलं पिण्डेन दातव्यं पिण्डस्याभ्यञ्जनं हि तत् । 

अञ्जनाभ्यञ्जने गन्धः सूत्रप्रणयनं तथा ॥ 

कौशैः पुनर्भवैः कार्यम् अश्वमेधफलार्थिना । 

एते वै पितरो देवा देवाश् च पितरः पुनः ॥ 

पुष्पगन्धादिधूपानाम् एषां मन्त्र उदाहृतः । 

ब्रूयाच् छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः ॥ 

सोमायेति च वक्तव्यं तथा पितृमतेति च ॥ 

तथा

स्तोतव्या चेह पृथिवी निवापस्य तु धारिणी । 

वैष्णवी काश्यपी चैव तथैवैक्ष्वाकवीति च ॥ 

उदकानयने चैव स्तोतव्यो वरुणः प्रभुः । 

[२१९] शातातपः

ब्राह्मणान् भोजयित्वा तु शक्त्या दद्यात् तु दक्षिणाम् । 

अभिप्रेतार्थसिद्ध्यर्थम् इष्टान् कामांस् तु वाचयेत् ॥ 

दीर्घा नदाश् च नद्यश् च विष्णोस् त्रीणि पदानि च । 

एवं चापः प्रसिञ्चानो दीर्घम् आयुर् अवाप्नुयात् ॥ 

अपां मध्ये स्थिता देवाः सर्वम् अप्सु प्रतिष्ठितम् । 

ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः ॥ 

लक्ष्मीर् वसति पुष्पेषु लक्ष्मीर् वसति पुष्करे । 

लक्ष्मीर् वस्ते सदा गोष्ठे सौमनस्यं सदास् तु मे ॥ 

अक्षतं चास्तु मे पुण्यं शान्तिः पुष्टिर् धृतिस् तु मे । 

दद्याच् छ्रेयस्करं लोके तत् तद् अस्तु सदा मम ॥ 

दक्षिणायां तु सर्वत्र बहु देयं तथास्तु नः । 

प्रतिगृह्याशिषस् तेषां कृत्वा विप्रान् प्रदक्षिणम् ॥ 

ततः प्रदक्षिणीकृत्य पुनस् तेषां कृताञ्जलिः । 

उक्त्वा चैव प्रियां वाचं प्रणिपत्य विसर्जयेत् ॥ \
भोजने ऽवतिष्ठमाने स्वस्ति कुर्वन्ति ये द्विजाः । 

तद् अन्नम् असुरैर् भुक्तं निराशाः पितरो गताः ॥ 

ब्रह्मपुराणे

आचान्तेषूदकं दद्यात् पुष्पाणि शयनानि च । 

यवो ऽसीति जपेन् मन्त्रं श्रद्धाभक्तिसमन्वितः ॥ 

दद्यात् तद् अक्षयजलं तिलाज्यमधुसंयुतम् । 

सपवित्रान् कुशान् भूमाव् आस्तीर्य सलिलं तथा ॥ 

ततः संस्रवपात्रेभ्यो जलम् आदाय चार्चितम् । 

ऊर्जं वहन्तिश् च जपन् पिण्डांश् चाप्य् अवसिञ्चति ॥ 

आचम्य प्रयतो भूत्वा मध्यमं चात्र जिघ्रति । 

पत्न्यै प्रयच्छन्ति च तं शेषान् पात्रे निधापयेत् ॥ 

समूलांस् तान् कुशान् वह्नाव् आधत्ते तत् तथोल्मुकम् । 

[२२०] सुवर्णरौप्यपात्राणि मनोज्ञानि शुभानि च ॥

हस्त्यश्वरथयानानि शयनानि गृहाणि च । 

उपानत्पादुकाच्छत्रचामरव्यजनानि च ॥ 

यज्ञेषु दक्षिणाः पुण्या इति सञ्चिन्तयन् हृदि । 

दरिद्रो ऽपि यथाशक्त्या दद्याद् विप्राय दक्षिणाम् ॥ 

मत्स्यपुराणे

ततश् च स्वधावाचकं विश्वेदेवेषु चोदकम् । 

दत्वाशिषः प्रगृह्णीयाद् द्विजेभ्यः प्राङ्मुखो द्विजः ॥ 

अघोराः पितरः सन्तु सन्त्व् इत्य् उक्तः पुनर् द्विजः । 

गोत्रं तथा वर्धतां नस् तथेत्य् उक्तश् च तैः पुनः ॥ 

दातारो नो" भिवर्धन्ताम् अन्नं चैवेत्य् उदीरयेत् । 

एताः सत्याशिषः सन्तु सन्त्व् इत्य् उक्तश् च तैः पुनः ॥ 

स्वस्तिवाचनकं कुर्यात् पिण्डान् उद्धृत्य शक्तितः । 

तथा

ततस् तान् अग्रतः स्थित्वा प्रतिगृह्योदपात्रिकाम् ।

वाजे वाजे इति पठन् कुशाग्रेण विसर्जयेत् ॥

बहिः प्रदक्षिणं कुर्यात् पदान्य् अष्टाव् अनुव्रजेत् ।

बन्धुवर्गेण सहितः पुत्रभार्यासमन्वितः ॥ 

महाभारते

श्राद्धापवर्गे विप्रस्य वक्तव्यं स्वदितं भवेत् । 

क्षत्रियस्याप्य् अथ ब्रूयात् प्रीयन्तां पितरस् त्व् इति ॥ 

अपवर्गे तु विप्रस्य श्राद्धकर्मणि भारत । 

अक्षय्यम् अभिधातव्यं स्वस्ति शूद्रस्य भारत ॥ 

पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते । 

एतद् एव निरोङ्कारं क्षत्रियस्य विधीयते ॥ 

वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति । 

[२२१] ब्रह्मपुराणे

इच्छन्ति केचिद् आचार्याः पश्चात् पिण्डनिवेदनम् । 

पूजनं चैव विप्राणां पूर्वम् एवेह नित्यशः ॥ 

तद् धि धर्मार्थकुशलो नेत्य् उवाच बृहस्पतिः । 

पूर्वं निवेदयेत् पिण्डान् पश्चाद् विप्रांश् च भोजयेत् ॥ 

यमः

यद् अन्नं विशदं नाम क्रियते तर्पितैर् द्विजैः । 

न च नाम्ना तद् आख्यातं तच् च भूमौ प्रदीयते ॥ 

ये ‘कृतचूडा ये बाला ये च गर्भाद् विनिःसृताः । 

अनूढा या मृताः कन्यास् तेषां भूमौ प्रदीयते ॥ 

अपां समीपे दर्भेषु सिकतासु च सर्वशः । 

अनेन विधिना दत्तं पितॄणाम् अक्षयं भवेत् ॥ 

ऽविशदऽं विमलम्, विकिरणयोग्यं कृत्वा भूमौ यद् विकिरेद् इत्य् अर्थः । ऽतर्पितैर् द्विजैः” इति, ऽवत्सरैर् अमावास्यायाम्" इति यत् काललक्षणा । तेन तर्पितेषु द्विजेष्व् इत्य् अर्थः । ऽन च नाम्ना तद् आख्यातम्" इति, उद्देश्यनामविशेषेणानिर्दिष्टम् । ऽअपां समीपे" इत्यादि गुणफलाधिकारः ॥

मनु-विष्णू [मनु, ३,२४७ - २४६, विष्णु, ८१,२२-२३] ।

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् । 

उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश् च यः ॥ 

उच्छेषणं भूमिगतम् अजिह्मस्याशठस्य च । 

दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥ 

**[२२२] **“त्यागिनां कुलयोषिताऽं अकारणेन कुलस्त्रीत्यागवताम् । ऽउच्छिष्टऽं पात्रस्थम् असंस्कृतप्रमीतादीनाम् । ऽभूमिगतऽं ऽउच्छेषणऽं उच्छिष्टं, “दासवर्गस्य” । “पित्र्ये” पितृकर्मणि ॥

वसिष्ठः [११,२३-२४] ।

प्राक् संस्कारात् प्रमीतानां सम्प्रेष्याणाम् इति श्रुतिः । 

भागधेयं मनुः प्राह उच्छिष्टोच्छेषणे उभे ॥ 

उच्छेषणं भूमिगतं विकिरेल् लेपम् औदकम् । 

अनुप्रेतेषु विसृजेद् अप्रजानाम् अनायुषाम् ॥ 

“सम्प्रेष्याः” दासाः । ऽलेपम् औदकऽं यदन्नोदकदिग्धस्य हस्तस्य दर्भेषु मार्जनम् । “अनुप्रेतेषु” पित्र्याद्यनुयायिषु मृतेषु मध्ये ऽअप्रजानाम् अनायुषाऽं ऽविसृजेत्ऽ, ऽउच्छेषणऽं विकिरणं लेपम् ओदकं च भागधेयं कल्पयेद् इत्य् अर्थः ॥

बृहस्पतिः [ श्राद्ध, ११०] ।

अग्नौ हुतेन देवस्थाः पितृस्था द्विजतर्पणैः । 

नरकस्थाश् च तृप्यन्ति पिण्डैर् दत्तैस् त्रिभिर् भुवि ॥ 

शातातपः

अग्नौ हुतेन देवस्थाः पितृस्थास् तर्पितैर् द्विजैः । 

भूमौ दत्तेन तिर्यक्स्थास् तृप्यन्ति पितरः सदा ॥ 

हारीतः

आयुर्दः प्रथमः पिण्डो द्वितीयः पुत्रदः स्मृतः । 

ऋद्धिदस् तु तृतीयो वै तस्मान् मध्यमम् आशयेत् ॥ 

या पत्नी पुत्रकामा स्यान् मध्यमं पिण्डम् अश्नुते । 

प्राजापत्येन विधिना स तस्याः पुत्रदः स्मृतः ॥ 

[२२३] ऽप्राजापत्यो विधिः” ऽअपां वौषधीनां रसं प्राशयामि भूतकृतं गर्भं धत्स्व" इति मध्यमं पिण्डं पत्न्यै प्रयच्छति । “आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषो ऽसद् इति तं पत्नी प्राश्नीयात्" इत्य् आपस्तम्बोक्तेः ॥

यमः

अप्स्व् एकं प्लावयेत् पिण्डम् एकं पत्न्यै निवेदयेत् । 

एकं च जुहुयाद् अग्नौ त्रयः पिण्डाः प्रकीर्तिताः ॥ 

यं पिण्डं प्लावयेद् अप्सु चन्द्रः प्रीणाति तेन सः । 

शशी प्रीणयते देवान् पितॄंश् चैव महायशाः ॥ 

तथा च मध्यमं पिण्डं पत्नी प्राश्नाति वाग्यता । 

पुत्रकामां सपुत्रां तां कुर्वन्ति प्रपितामहाः ॥ 

यद् एवम् अपरं पिण्डं जुहोत्य् अग्नौ द्विजोत्तमः । 

शाश्वतान् प्राप्यते लोकांस् तुष्य सः प्रपितामहैः ॥ 

“शाश्वतान्” इति, “प्रपितामहैः” “तुष्य” परितुष्य, ऽशाश्वतांल् लोकान्" “सः” श्राद्धकर्ता, “प्राप्यते” लभत इत्य् अर्थः ।

मनुः [३, २६७ - २६३] ।

एवं निर्वपणं कृत्वा पिण्डांस् तांस् तदनन्तरम् । 

गां विप्रम् अजम् अग्निं वा प्राशयेद् अप्सु वा क्षिपेत् ॥ 

पिण्डनिर्वपणं केचित् पुरस्ताद् एव कुर्वते । 

वयोभिः खादयन्त्य् एतान् प्रक्षिपन्त्य् अनले ऽप्सु वा ॥ 

[२२४] पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।

मध्यमं तु ततः पिण्डम् अद्यात् सम्यक् सुतार्थिनी ॥ 

आयुष्मन्तं सुतं विद्याद् यशोमेधासमन्वितम् । 

धनवन्तं प्रजावन्तं धार्मिकं सात्विकं तथा ॥ 

ऽएवं निर्वपणम्" इति, ब्राह्मणभोजनात् प्राक् पिण्डदानपक्षे तिस्रः प्रतिपत्तयो नियताः पक्षिदानादिकाः । ऽप्रक्षिपन्त्य् अनले ऽप्सु वा" इति पूर्वम् उक्तयोर् अपि जलानलयोर् अनुवादः पक्षिखादनविधानार्थः ॥

बृहस्पतिः [ श्राद्ध, १२३, १२५] ।

पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जलेषु वा । 

मध्यमं तु ततः पिण्डम् अद्यात् सम्यक् सुतार्थिनी ॥ 

अन्यदेशगता पत्नी गर्भिणी रोगिणी तथा । 

तदा तं जीर्णवृषभश् छागो वा भोक्तुम् अर्हति ॥ 

अस्यार्थः — सर्वपिण्डानां तावद् गोजलादिगोचरतया प्रतिपत्तिः । मध्यमपिण्डस्य तु यदा वृषे ऽजे वा प्रतिपत्तिस् तज्जीर्णे ।

[२२५] मत्स्यपुराणे

पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जले ‘पि वा । 

विप्रान्ते वापि विकिरेद् वयोभिर् अथवाशयेत् ॥ 

पलीन्तु मध्यमं पिण्डम् आशयेद् विनयान्विताम् । 

आधत्त पितरो गर्भम् अन्तः सन्तानवर्धनम् ॥ 

वायुपुराणे

पिण्डम् अग्नौ सदा दद्याद् भोगार्थी सततं नरः । 

पत्न्यै प्रजार्थं दद्याद् धि मध्यमं मन्त्रपूर्वकम् ॥ 

उत्तमां गतिम् अन्विच्छन् गोभ्यो नित्यं प्रयच्छति । 

आज्ञां प्रज्ञां यशः कीर्तिम् अप्सु नित्यं निधापयेत् ॥ 

प्रार्थयन् दीर्घम् आयुश् च वायसेभ्यः प्रयच्छति । 

आकाशं गमयेद् अप्सु स्थितो वा दक्षिणामुखः ॥ 

पितॄणां स्थानम् आकाशं दक्षिणादिक् तथैव च । 

शङ्खलिखितौ

    एवं वरान् याचयित्वा नमस्कृत्य पिण्डान् अग्नौ वाप्सु वा क्षिपेत् । पत्नीं वा मध्यमं पिण्डम् अश्नीयाद् आर्तवस्नाताम् ।

याज्ञवल्क्यः [१, २५७] ।

पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जले ऽपि वा । 

प्रक्षिपेत् सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ 

तत्र देवलः

निवृत्ते पितृमेधे तु दीपं प्रच्छाद्य पाणिना । 

आचम्य पाणिं प्रक्षाल्य ज्ञातीन् शेषेण तोषयेत् ॥ 

ततो ज्ञातिषु तुष्टेषु स्वान् भृत्यान् प्रतिपूजयेत् । 

पश्चात् स्वयं च पत्नीभिः पितृशेषम् उदाहरेत् ॥ 

एकोद्दिष्टेषु शेषं च ब्राह्मणेभ्यः समुत्सृजेत् । 

ततः स्वयं च भुञ्जीत पुनर् मङ्गलभोजनम् ॥ 

**[२२६] **“प्रच्छाय” निर्वाप्य “उदाहरेत्” । “एकोद्दिष्टेषु” एकाहादिश्राद्धेषु ॥

मनुः [३, २६४ - २६५] ।

प्रक्षाल्य हस्ताव् आचम्य ज्ञातिप्रायं प्रकल्पयेत् । 

ज्ञातिभ्यः सत्कृतं दत्वा बान्धवान् अपि पूजयेत् ॥ 

उच्छेषणं तु तत् तिष्ठेद् यावद् विप्रा विसर्जिताः । 

ततो गृहबलिं कुर्याद् इति धर्मों व्यवस्थितः ॥ 

ऽज्ञातिप्रायऽं ज्ञातिबहुलम् । ऽततो गृहबलिम्" इति, गृहबलिशब्दो भूतयज्ञाभिधायको वैश्वदेवादिनित्यमहायज्ञोपलक्षणपरः ।

तथा च मत्स्यपुराणे

निर्वृत्य प्रतिपत्यर्थं पर्युक्ष्याग्निं स मन्त्रवित् । 

वैश्वदेवं प्रकुर्वीत नित्यकं बलिम् एव च ॥ 

आदित्यपुराणे

पितॄन् सन्तर्प्य विधिवद् बलिं दद्याद् विधानतः । 

वैश्वदेवं ततः कुर्यात् पश्चाद् ब्राह्मणभोजनम् ॥ 

अत एव बलिवैश्वदेवक्रमो मत्स्यपुराणानुसारेण बोद्धव्यः ॥

मार्कण्डेयपुराणे

नित्यक्रियां पितॄणां च केचिद् इच्छन्ति सत्तमाः । 

न पितॄणां तथैवान्ये शेषं पूर्ववद् आचरेत् ॥ 

पृथक्पाकेन नेत्य् अन्ये केचित् सर्वम् अपूर्ववत् । 

वसिष्ठः [११, २१-२२] ।

श्रद्धे नोद्वासनीयानि उच्छिष्टान्यादिनक्षयात् । 

च्योतन्ते वै सुधाधारास् ताः पिबन्त्य् अकृतोदकाः ॥ 

**[२२७] **उच्छिष्टं न प्रमृज्यात् तु यावन् नास्तम् इतो रविः ।

क्षीरधारास् ततो यान्त्य् अक्षयाः सञ्चरभागिनः ॥ 

“च्योतन्ते” क्षरन्ति । ऽनोद्वासनीयानि उच्छिष्टानि" इति भूमिष्ठोच्छिष्टविषयम् । ऽउच्छिष्टं न प्रमृज्यात्" इति भूमिगतोच्छिष्टपात्रविषयम् । ऽसञ्चरभागिनःऽ, अन्यस्मै दत्तं अन्यं सञ्चरति यद् अन्नं तत् ऽसञ्चरम्, तद् ये भजन्ते दासादयः ।

ब्रह्मपुराणे

अस्तं गते ततः सूर्ये विप्रपात्राणि चाम्भसि । 

निःक्षिपेत् प्रयतो भूत्वा सर्वाण्य् अधोमुखान्य् अपि ॥ 

द्वितीये ऽहनि सर्वेषां भाण्डानां क्षालनं तथा ।

अनन्ता जायते तृप्तिः पितॄणां येन सर्वदा ॥ 

भक्ष्यं भोज्यं तथा पेयं यत् किञ्चित् पच्यते गृहे । 

न भोक्तव्यं पितॄणां तद् अनिवेद्य कथञ्चन ॥

ज्ञातिभ्यः सततं दत्वा बान्धवान् अपि पूजयेत् । 

बृहस्पतिः [श्राद्ध, १५५] ।

एवं देवान् पितॄंस् त्रींश् च तर्पयित्वा विधानतः । 

पुत्रभृत्यादिसहितो गृहस्थो भोक्तुम् अर्हति ॥ 

शातातपः

शेषम् अन्नम् अनुज्ञातं भुञ्जीत तदनन्तरम् । 

इष्टैः सार्धं तु विधिवद् द्बुद्धिमांस् तु समाहितः ॥ 

उशना

    तैर् अनुज्ञातः शेषम् इष्टेभ्यो दद्यात् स्वयं वा भुञ्जीत । 

ऽस्वयं वा" इति वाशब्दः समुच्चये ।

[२२८] आपस्तम्बः [२, १७, १६] ।

सर्वतः समवदाय शेषस्य ग्रासावरार्ध्यं प्राश्नीयाद् यथोक्तम् । 

“ग्रासावरार्ध्य” ग्रासासूनम् । “यथोक्तम्” गृह्योक्तं, ऽप्राणे निविष्टो ऽमृतं जुहोमि ब्रह्मणि आत्मा “मृतत्वाय” इति मन्त्रेण ।

ब्रह्मपुराणे [तै। आर।, १०, ३४, १] ।

भगिन्यो बान्धवाः पूज्याः श्राद्धेषु च सदैव हि ॥ 

तथा

वन्दिमागधसूताश् च तौर्यत्रिकविदस् तथा । 

अलब्धलाभाः श्राद्धेषु नाशयन्ति महद् यशः ॥ 

तस्मात् ते ऽपि विभक्तव्याः सकलं च विभज्य च ॥ 

याज्ञवल्क्यः [१,२४९] ।

प्रदक्षिणम् अनुव्रज्य भुञ्जीत पितृसेवितम् । 

ब्रह्मचारी भवेत् तां तु रजनीं ब्राह्मणैः सह ॥ 

निगमः

अनुज्ञातो गृह्यान् बालवृद्धांश् च परितोष्य भुञ्जीत । 

तस्याह उभयो रात्रिम् उभाव् अपि ब्रह्मचारिणौ स्याताम् ॥ 

वसिष्ठः, वृद्धशातातपश् च प्रथमे ।

श्राद्धं दत्वा च भुक्त्वा च मैथुनं यो ऽधिगच्छति । 

भवन्ति पितरस् तस्य तन्मासे रेतसो भुजः ॥ 

[२२९] यस् ततो जायते गर्भो दत्वा भुक्त्वा च पैतृकम् ।

न स विद्याम् अवाप्नोति क्षीणायुश् चैव जायते ॥ 

बृहस्पतिर् मनु-देवलौ च द्वितीये ।

तां निशां ब्रह्मचारी स्याच् छ्राद्धभोक्ता तथैव च । 

अन्यथा वर्तमानौ तौ स्यातां निरयगामिनौ ॥ 

श्राद्धभुग् वृषलीतल्पं तदहर् यो ऽधिगच्छति । 

तस्याः पुरीषे तं मासं पितरस् तस्य शेरते ॥ 

तस्मात् प्रदाता भोक्ता च श्राद्धे नियमितो भवेत् । 

अर्चकश् चार्चितस् तूभौ स्यातां नरकगामिनौ ॥ 

“वृषलीतल्पम्” इति मैथुनोपलक्षणम् ।

शातातपः

श्राद्धं कृत्वा परश्राद्धे भुञ्जते ये तु विह्वलाः । 

पतन्ति पितरस् तेषां लुप्तपिण्डोदकक्रियाः ॥ 

मत्स्यपुराणे

पुनर्भोजनम् अध्वानं द्यूतम् आयासमैथुनम् । 

श्राद्धकृच् छ्राद्धभुक् चैव सर्वम् एतद् विवर्जयेत् ॥ 

स्वाध्यायं कलहं चैव दिवास्वप्नं च सर्वदा । 

विष्णुपुराणे

श्राद्धे नियुक्तो भोक्ता वा भोजयित्वा नियोज्य च । 

व्यवायी रेतसो गर्ते मज्जयत्य् आत्मनः पितॄन् ॥ 

“व्यवायी” मैथुनकर्ता ॥

[२३०]

॥ २२ ॥

॥ अथपित्रादिस्वरूपम् ॥

तत्र मनुः [३,२८४] ।

वसून् वदन्ति तु पितॄन् रुद्रांश् चैव पितामहान् । 

प्रपितामहांस् तथादित्यान् श्रुतिर् एषा सनातनी ॥ 

देवलः

सर्वतः पितरः पूज्या देवतानां च देवताः । 

शुचयो निर्मलाः पुण्या दक्षिणां दिशम् आश्रिताः ॥ 

बसवः पितरो ज्ञेया रुद्रा ज्ञेयाः पितामहाः । 

प्रपितामहास् तथादित्याः श्रुतिर् एषा सनातनी ॥ 

प्रेतान् उद्दिश्य यत् कर्म क्रियते मानुषैर् इह । 

तुष्यन्ति पितरस् तेन न प्रेताः पितरः स्मृताः ॥ 

याज्ञवल्क्यः [१,२६९] ।

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । 

[२३१] प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥

पैठीनसिः

य एवं विद्वान् पितॄन् यजते वसवो रुद्रा आदित्याश् चास्य प्रीता भवन्ति । 

क एते पितरो नाम येभ्यो दत्तम् इहाक्षयम् ॥ 


    वसवः पितरो रुद्राः पितामहा आदित्याः प्रपितामहाः तेभ्यो दत्तम् इहाक्षयं भवति ॥ 

अत्र यद्य् अपि - “वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः” इत्यादिवाक्येभ्यः श्राद्धे वस्वादीनां देवतात्वं प्रतीयते, तथापि ऽअमुकामुकगोत्रैतत् तुभ्यम्" इत्यादिवाक्येभ्यः असाव् एतत् त इत्य् एवं यजमानस्य पित्रे, असाव् एतत् त इति पितामहाय असाव् एतत् त इति प्रपितामहायेति श्रुतेश् च, गोत्रनामसम्बन्धविशेषकीर्तनेन, स्वजनकादीनां चतुर्थ्यन्तत्वेन श्रवणाद् देवतात्वम् । वस्वादिरूपेण त एव ध्येयाः, ऽय एवं विद्वान् पितृन् यजते" इति पैठीनसिवचनात् ।

[२३२]

॥ २३ ॥

॥ अथ श्राद्धस्तुतिः ॥

तत्र यमः

ये यजन्ति पितृन् देवान् ब्राह्मणान् सहुताशनान् । 

सर्वभूतान्तरात्मानं विष्णुम् एव यजन्ति ते ॥ 

दत्वानेन विधानेन लभते चतुरो वरान् । 

धनम् अन्नं सुतान् आयुर् ददते पितरो भुवि ॥ 

आयुः पुत्रान् यशः स्वर्गं कीर्तिं पुष्टिं बलं श्रियम् । 

पशून् सुखं धनं धान्यं प्राप्नुयात् पितृपूजनात् ॥ 

देवलः

अरोगः प्रकृतः स्वस्थश् चिरायुः पुत्रपौत्रवान् । 

अर्थवान् अर्थभोगी च श्राद्धकामो भवेद् इह ॥ 

परत्र परमां तुष्टिं लोकांश् च विपुलान् शुभान् । 

श्राद्धकृत् स समाप्नोति यशश् च विपुलं नरः ॥ 

याज्ञवल्क्यः [१, २७०] ।

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । 

प्रयच्छन्ति तथा राज्यं नृणां प्रीताः पितामहाः ॥ 

हारीतः [अ। १२] ।

इमं श्राद्धविधिं पुण्यं कुर्याद् वापि पठेत् तु यः । 

स सर्वकामसंयुक्तो ह्य् अमृतत्वं च विन्दते ॥ 

[२३३] बृहस्पतिः [श्राद्ध, ४१] ।

य एवं वेत्ति मतिमांस् तस्य श्राद्धफलं भवेत् । 

उपदेष्टानुमन्ता च लोके तुल्यफलौ स्मृतौ ॥ 

हारीतः [अ। १२] ।

न तत्र वीरा जायन्ते नारोगा न शतायुषः । 

न च श्रेयो ऽधिगच्छन्ति यत्र श्राद्धं विवर्जितम् ॥ 

अपि मूलैः फलैर् वापि तथा ह्य् उदकतर्पणैः । 

अविद्यमाने कुर्वीत नैव श्राद्धं विवर्जयेत् ॥ 

[२३४]

॥ २४ ॥

॥ अथामश्राद्धम् ॥

तत्र मत्स्यपुराणे

आमश्राद्धं यदा कुर्याद् विधिज्ञः श्राद्धदस् तदा । 

तेनाग्नौकरणं कुर्यात् पिण्डंस् तेनैव निर्वपेत् ॥ 

जाबालिः

आमश्राद्धप्रदो ऽनग्निः सर्वत्रैव मनीषिणाम् । 

तेनाग्नौकरणं कुर्यात् पिण्डंस् तेनैव निर्वपेत् ॥ 

अत्रेदं तात्पर्यम्—“सर्वत्र” अमावास्यादौ श्राद्धनिमित्ते उपस्थिते ऽनग्निर् आमश्राद्धं कुर्यात् । अनग्निश् चात्र पाकसमर्थाग्निरहितः । एतच् च सकलपाकसामग्र्यभावोपलक्षणम् । न पुनर् अनग्निर् अनाहितामिः, अनुपनीतभार्यादिरहितप्रवासस्थानां पाकेन श्राद्धाभिधानात् ।

तथा च मत्स्यपुराणे

उभाभ्याम् अपि हस्ताभ्याम् आहृत्य परिवेषयेत् । 

प्रशान्तचित्तः सलिलं दर्भपाणिर् अशेषतः ॥ 

शुभांस् तु सूपशाकाद्यान् नानाभक्ष्यांस् तथैव च । 

अन्नं तु सदधिक्षीरं गोघृतं शर्करान्वितम् ॥ 

तथा

भुक्तवत्सु ततस् तेषु भोजनोपान्तिके नृप । 

सर्ववर्णिकम् अन्नाद्यम् अश्नीयात् प्लाव्य वारिणा ॥ 

समुत्सृजेद् भुक्तवताम् अग्रतो विकिरेद् भुवि । 

[२३५] तथा

** **तृप्तान् ज्ञात्वोदकं दद्यात् सकृद् विप्रकरे तथा ।

आचान्तेष्व् अपि चाचम्य वारि दद्यात् सकृत् सकृत् ॥ 

तथा

उच्छेषणं तु तत् तिष्ठेद् यावद् विप्रा विसर्जिताः ॥ 

एवमादिवाक्यैः पाकेन श्राद्धम् अभिधाय तत्रैवोक्तम् अध्याये ।

एतच् चानुपनीतो ऽपि कुर्यात् सर्वेषु पर्वसु । 

श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ॥ 

भार्याविरहितो ऽप्य् एतत् प्रवासस्थो ऽपि भक्तिमान् । 

शूद्रो ऽप्य् अमन्त्रवत् कुर्याद् अनेन विधिना बुधः ॥ इति । 

एतेनैतद् उक्तं भवति साग्नेर् निरग्नेश् चापद्य् एवामश्राद्धम् इति,

साग्नेर् निरनेश् चापद्य् एवामश्राद्धं सदैव हि । 

एवं शूद्रो ऽपि सामान्यं वृद्धिश्राद्धं च सर्वदा ॥ 

नमस्कारेण मन्त्रेण कुर्याद् आमान्नवद् बुधः । 

इति मत्स्यपुराण एवाभिधानात् ॥

[२३६]

॥ २५ ॥

॥ अथ जीवत्पितृजदिश्राद्धम् ॥

तत्र मनुः [३, २२० - २२२] ।

ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेत् । 

विप्रवद् वापि तं श्राद्धे स्वकं पितरम् आशयेत् ॥ 

पिता यस्य तु वृत्तः स्याज् जीवेद् वापि पितामहः । 

पितुः स नाम सङ्कीर्त्य कीर्तयेत् प्रपितामहम् ॥ 

पितामहो वा तच् छ्राद्धं भुञ्जीतेत्य् अब्रवीन् मनुः । 

कामं वा तदनुज्ञातः स्वयम् एव समाचरेत् ॥ 

“ध्रियमाणे” अवतिष्ठमाने जीवतीति यावत् । नामसङ्कीर्तनम् अत्र श्राद्धोपलक्षणार्थम् । “श्राद्धम्” अत्र श्राद्धार्थम् । ऽकामं वा तदनुज्ञातः" इति, पित्रादिभोजनादिदं पक्षान्तरम् । तेन पित्रादिनानुज्ञातः “कामम्” अभिलषितं " समाचरेद्" इत्य् अर्थः ।

तथा [९, १८६] ।

त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते । 

चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते ॥ 

विष्णुः [७५, १-७] ।

    पितरि जीवति यः श्राद्धं कुर्यात् स येषां पिता कुर्यात् तेषां कुर्यात् । पितरि पितामहे च जीवति येषां पितामहः । पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् । यस्य **[२३७] **पिता प्रेतः स्यात् स पित्रे पिण्डं निधाय पितामहात् परं द्वाभ्यां दद्यात् । यस्य पिता पितामहश् च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्वा पितामहपितामहाय दद्यात् । यस्य पितामहः प्रेतः स्यात् स तस्मै पिण्डं निधाय प्रपितामहात् परं द्वाभ्यां दद्यात् ।

	मानामहानाम् अप्य् एवं श्राद्धं कुर्याद् विचक्षणः । 

मन्त्रोहेण यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ 

ऽपिता प्रेतः स्याद्" इति, पितैव प्रेतो भवति पितामहप्रपितामहौ च जीवत इत्यर्थः । “मन्त्रोहेण” ऽशुन्धन्तां पितर" इत्यादिमन्त्रेषु पितर इत्य् अत्र मातामहा इत्यादिपदप्रक्षेपलक्षणेन । ऽशेषाणां पितृव्यमातुलादीनाम् । “मन्त्रवर्जितम्” आवाहनादिकं मन्त्रवर्जं कार्यम् इत्य् अर्थः ॥

हारीतः

जीवे पितरि वै पुत्रः श्राद्धकालं विवर्जयेत् । 

येषां वापि पिता दद्यात् तेषाम् एव प्रचक्षते ॥ 

पितामहे च जीवे वै पितर्य् एव समापयेत् । 

उदकाञ्जलिं च दीपं च अञ्जनं च प्रयत्नतः ॥ 

**[२३८] **“न जीवन्तम् अतिक्रम्य दद्यात्” इति श्रुतिबलाद् अमावास्यादाव् अप्य् एकस्यैव श्राद्धं दद्यात् । “उदकाञ्जलिम्” इत्यादिवचनाच् च गृहमेधीयवद् अपूर्वम् इति जयस्वामी

यज्ञपार्श्वपरिशिष्टम्

होमान्तः पितृयज्ञः स्याज् जीवे पितारि जानतः । 

पितरं भोजयित्वा च पिण्डौ निपृणुयात् परौ ॥ 

येभ्यः पिण्डान् पिता दद्यात् तेभ्यः पुत्रो ऽपि दापयेत् । 

न जीवन्तम् अतिदद्याद् इत्य् एषा नैगमी श्रुतिः ॥ 

जीवेत् पितामहो यस्य पिता चान्तरितो भवेत् । 

पितुर् एकस्य दातव्यम् एवम् आहुर् मनीषिणः ॥ 

त्रीन् वा पिण्डान् समारोप्य मध्यमं तेन भोजयेत् । 

द्वौ पिण्डौ ब्राह्मणे दद्याद् अग्नौ चाम्भसि वा क्षिपेत् ॥ 

उभौ यस्य व्यतीतौ च जीवेच् चेत् प्रपितामहः । 

पिण्डौ निपृणुयात् पूर्वौ भोजयेत् प्रपितामहम् ॥ 

निगमः

    यो वा जीवति पितॄणां तं भोजयेत् । सपिण्डान् इत्य् एके । जीवताम् अजीवतां वा देयम् एवेति **हिरण्यकेतुः** । कस्माद् यज्ञविधित्वाद् दर्शस्याङ्गत्वात् । एभ्य एव एतद् भागं करोतीति च श्रुतेर् एकस्मिन्न् अपि जीवत्य् अदानम् इति **कात्यायनः** ॥ 

“यज्ञविधित्वात्” इति जीवनम् अजीवनं वा विवक्षितम् । किं तु ऽयज्ञविधित्वात् " पित्राद्युद्देशेन **[२३९] **त्यागरूपस्य यज्ञस्यावश्यकतया विहितत्वात् । “दर्शस्याङ्गत्वात्” दर्शस्य दर्शाख्यस्य कर्मणः पिण्डपितृयज्ञो ऽङ्गं यत इत्य् अर्थः ।

छन्दोगपरिशिष्टे कात्यायनः

सपितुः पिण्डकृत्येषु अधिकारो न विद्यते । 

न जीवन्तम् अतिक्रम्य किञ्चिद् दद्याद् इति श्रुतिः ॥ 

पितामहे प्रियमाणे पितुः प्रेतस्य निर्वपेत् । 

पितुस् तस्य च वृद्धस्य जीवेच् च प्रपितामहः । 

पितुः स नाम सङ्कीर्त्य कीर्तयेत् प्रपितामहम् । 

पितुः पितुः पितुश् चैव तस्यापि पितुर् एव च । 

कुर्यात् पिण्डत्रयं यस्य संस्थितः प्रपितामहः । 

जीवन्तम् अतिदद्याद् वा प्रेतायान्नोदके द्विजः ॥ 

पितुः पितृभ्यो वा दद्यात् स पितेत्य् अपरा श्रुतिः । 

ऽतस्य च वृद्धस्य" इति, अनेन पितामहः परामृश्यते । ऽतस्यापि पितुः पितामहस्यापि पितुः प्रपितामहस्य । ऽसंस्थितः " मृतः ।

**[२४०] **पिण्डपितृयज्ञे कात्यायन[श्रौत]सूत्रम्

प्रेतेभ्यो ददाति जीवत्पितृको ऽपि जीवान्तर्हिते ऽपि । जीवत्पितृकस्य होमान्तम् । अनारम्भो वा । न व्यवेते **जातूकर्ण्यः** । न जीवन्तमतीति श्रुतेः ॥ 

जीवत्पितृकस्य त्रयः पक्षाः — जीवन्तं पितरम् अतिक्रम्य येभ्यः पिता दद्यात् तेभ्यो दद्याद् इत्य् एकः । होमान्तं ऽसोमाय पितृमते" [आप। श्रौत। २,६,१२।] इत्यादि दक्षिणाग्नौ होममात्रम् इत्य् अपरः । ऽअनारम्भो वा" अकरणम् एव वा इति तृतीयः । ऽन व्यवेते" इति न जीवता केनचिद् व्यवहिते देयम् इत्य् अर्थः ।

पितृपितामहप्रपितामहाधिकारे पिण्डपितृयज्ञे, आश्वलायनश्रौतसूत्रम् [२, ६, २२-२४ ] ।

    जुहुयाज् जीवेभ्यः । सर्वहुतं सर्वजीविनः । नामान्य् अविद्वांस् ततपितामहप्रपितामहेति ॥ 

ऽजुहुयाज् जीवेभ्यः" इति, पित्रादीनां मध्ये यो जीवति तस्मै पिण्डं जुहुयात् । प्रेताय तु पिण्डपितृयज्ञविधानेन दद्यात् । सर्वे यदि जीवन्ति तदा त्रीन् पिण्डान् जुहुयाद् इत्य् अर्थः ।

[२४१]

॥ २६ ॥

॥ अथ द्विपितृकश्राद्धम् ॥

तत्र शाङ्खायनसूत्रम्

    पिण्डान् यथावनेजितं निधायोभाव् एकस्मिन् पिण्डे पितृभेदे । न जीवत्पितुर् अस्ति । न जीवान्तर्हिताय । येभ्यो वा पिता तेभ्यः पुत्रो होमान्तं वा ।

ऽउभाव् एकस्मिन्" उभौ बीजिक्षेत्रिणौ । ऽएकस्मिन् पिण्डे" एकस्मिन्न् अपि पिण्डे सङ्कीर्तयेद् इत्य् अर्थः ।

प्रवराध्यायः

    अथ यदि पितृव्येन ज्ञातिना वैकार्येण जातास् ते परिगृहीतुर् एव भवन्ति । अथ यद्य् एषां स्वभार्यास्व् अपत्यं न स्यात् तद्रिक्थं हरेयुः । पिण्डं चैभ्यस् त्रिपुरुषं दद्युः । यद्य् अपि स्याद् उभाभ्याम् एव दद्युर् इत्य् आचार्यवचनम् । द्वे श्राद्धे कुर्याद् एकं वा । द्वे वा पृथग् उद्दिश्य एकपिण्डे द्वाव् अनुकीर्तयेत् प्रतिगृहीतारं चोत्पादयितारं च । तृतीयात् पुरुषात् परिगृहीता ॥ 

ऽएषाऽं क्षेत्रपितृव्यप्रभृतीनां बीजिनाम् ॥

हारीतः

    नाबीजं क्षेत्रं फलति नाक्षेत्रं बीजं रोहतीत्य् उभयदर्शनाद् उभयोर् अपत्यम् इत्य् अपरे । तेषाम् उत्पादयितुः प्रथमः प्रवरो भवति । द्वौ द्वौ पिण्डौ निर्वापे दद्युर् एकपिण्डे वा **[२४२] **द्वाव् अनुकीर्तयेत् । द्वितीये पुत्रः । तृतीये पौत्रो लेपिनश् च । त्रीन् अन्वाचक्षाण आ सप्तमाद् इत्य् एके ।

“तेषाम्” इति, तेषां बीजिक्षेत्रिणां पितॄणां मध्ये बीजिनः प्रवरम् आर्षेयं प्रथमं निर्दिशेत् । ततः क्षेत्रिण इति द्विप्रवरता । अस्य क्रत्वङ्गार्षेयप्रवरेण “निर्वापे” पितृयज्ञे, एकस्मिन्न् एव द्वाव् अनुकीर्तयेद् इति । अत्र वीप्सा द्रष्टव्या । “यदि द्विपिता स्याद् एकैकस्मिन् द्वौ द्वाव् उपलक्षयेत्” इत्य् आपस्तम्बवचनानुसारात् । तस्माद् एकस्मिन्न् एव पिण्डे द्वौ द्वौ पितरौ पितामहौ प्रपितामहौ चानुकीर्तनीयाव् इत्य् अर्थः । “द्वितीये” पितामहपिण्डे । द्वितीय इति प्रपितामहपिण्डस्याप्य् उपलक्षणम् । “पुत्रः” द्वामुष्यायणस्य । अत्रापि द्वौ द्वाव् अनुकीर्तयेद् इत्य् अनुषङ्गः । “तृतीये” प्रपितामहपिण्डे । “पौत्रो” द्वामुष्यायणस्य । अत्रापि द्वौ द्वाव् अनुकीर्तयेद् इति सम्बन्धः । ऽलेपिनश् च” अनुकीर्तयेद् इति शेषः । " त्रीन् अन्वाचक्षाणः" पित्रादिपिण्डान् अनुवदन् । ऽआ सप्तमात्" सप्तमपुरुषपर्यन्तम् ।

याज्ञवल्क्यः [२,१२८] ।

अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । 

उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः ॥ 

मरीचिः

सङ्गोत्राद् वान्यगोत्राद् वा यो भवेद् विधवासुतः । 

पिण्डश्राद्धविधानं च क्षेत्रिणे प्राक् प्रदापयेत् ॥ 

बीजिने तु ततः पश्चात् क्षेत्रे जीवति चेत् क्वचित् । 

बीजिने दद्युर् आदौ तु मृते पश्चात् प्रदीयते ॥ 

उभौ यदि मृतौ स्यातां बीजिन्य् आदौ तदा ददेत् । 

क्षेत्रिण्य् आदौ न दत्तं स्याद् बीजिने नोपतिष्ठति ॥ 

ऽसगोत्राद् अन्यगोत्राद् वा" इति सवर्णमात्राद् इत्य् अर्थः ॥

[२४३] नारदः

जाता ये त्व् अनियुक्तायाम् एकेन बहुभिस् तथा । 

अरिक्थभाजस् ते सर्वे बीजिनाम् एव ते सुताः ॥ 

दद्युस् ते बीजिनः पिण्डं माता चेच् छुल्कतो हृता । 

अशुल्कोपनतायां तु पिण्डदा वोदुर् एव ते ॥ 

“अरिक्थभाजः” क्षेत्रिणो रिक्थं न भजन्ते ।

॥ २६-अ ॥

॥ अथ पुत्रिकापुत्रश्राद्धम् ॥

तत्र शङ्खलिखितौ

    पुत्रिका पुत्रवद् इति प्रचेतसस् तस्या अपत्यं पुत्रिकासुतो मातामहपितामहानां पिण्डदः । पुत्रदौहित्रयोर् न विशेषो ‘स्त्य् अनुग्रहे ।

“मातामहपितामहानाम्” इति वंशद्वयोपलक्षणम् । “पुत्रदौहित्रयोः” औरसपुत्रपुत्रिकासुतयोः । “अनुग्रहे” नरकोत्तारणादिस्वरूपे ।

मनुः [९,१३२] ।

दौहित्रो ह्य् अखिलं रिक्थम् अपुत्रस्य पितुर् हरेत् । 

स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च ॥ 

द्वितीयं तु पितुस् तस्यास् तृतीयं तु पितुः पितुः ॥ 

“दौहित्रो” अत्र पुत्रिकासुतः ।

**इति श्रीमद्गोविन्दचन्द्रदेवमहासन्धिविग्रहिक-भट्टश्रीहृदयधरात्मजश्रीलक्ष्मीधरविरचिते **

कृत्यकल्पतरौ ड्यामुष्यायणपर्व ॥

[२४४]

॥ २७ ॥

॥ अथैकोद्दिष्टम् ॥

तत्र शातातपः

एकोद्दिष्टं तु यच् छ्राद्धं नैमित्तिकम् इहोच्यते । 

तद् अप्य् अद्यैव कर्तव्यम् अयुग्मान् आशयेद् द्विजान् ॥ 

मत्स्यपुराणे

तत एकादशाहे तु द्विजान् एकादशैव तु । 

क्षत्रादिसूतकान्ते तु भोजयेद् अयुजो द्विजान् ॥ 

द्वितीये ऽह्नि पुनस् तद्वद् एकोद्दिष्टं समाचरेत् । 

याज्ञवल्क्यः [१,२५१-२५२] ।

एकोद्दिष्टं दैवहीनम् एकार्घैकपवित्रकम् । 

आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत् ॥ 

उपतिष्ठताम् इत्य् क्षय्य स्थाने विप्रविसर्जने । 

अभिरम्यताम् इति वदेद् ब्रूयुस् ते" भिरताः स्म ह ॥ 

“अक्षय्यस्थाने” अक्षयपदप्रयोगप्रसङ्गे “उपतिष्ठताम्” इति प्रयोक्तव्यम् ॥

शाङ्खायनः

    अथात एकोद्दिष्टम् एकपवित्रकम् एको ऽर्घ एकः पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः । स्वदितम् इति तृप्तिप्रश्नः । उपतिष्ठताम् इत्य् अक्षय्यस्थाने । आभिरम्यताम् इति विसर्गः । संवत्सरम् एवं प्रेते ।

[२४५] मत्स्यपुराणे

स्वदितं विकिरे ब्रूयाद् विसर्गे चाभिरम्यताम् । 

आश्वलायनगृह्यपरिशिष्टम्

अतस् त्व् एकादशे ऽहनि श्राद्धं तस्य विधीयते । 

एकोद्दिष्टं तु यच् छ्राद्धम् असपत्नम् इति स्थितिः ॥ 

सपिण्डीकरणम् कृत्वा त्रिपक्षं परिशेषयेत् । 

उच्छेषणं भूमिगतं विकिरं लेपम् औदकम् ॥ 

अनुप्रेतेषु विसृजेद् अप्रजानाम् अनायुषाम् । 

एकोद्दिष्टेषु सर्वेषु न स्वधा नाभिरम्यताम् ॥ 

नाग्नौकरणमन्त्रश् च एकश् चाथ तिलोदकम् । 

अनूद्दिश्य तु प्रेतस्य सर्वत्रैव प्रदीयते ॥ 

एकं पवित्रम् एको ‘र्घ्य एकः पिण्डो विधीयते । 

अनपत्येषु सर्वेषु न स्वधा नाभिरम्यताम् ॥ 

स्वस्त्य् अस्तु विसृजेद् एवं सकृत् प्रणववर्जितः । 

एकोद्दिष्टस्य पिण्डे तु अनुशब्दो न युज्यते ॥ 

पितृशब्दं न कुर्वीत पितृहा चोपजायते । 

ऽअसपत्नऽं द्वितीयरहितम् । ऽसपिण्डीकरणं कृत्वा" इत्यादेर् अयम् अर्थः — यः त्रिपक्षाद् अर्वाक् अकृतसपिण्डीकरणः सः पक्षत्रये पूर्णे एकोद्दिष्टश्राद्धं कुर्याद् इति । ऽअनूद्दिश्य तु प्रेतस्य" इति, यत्र क्वचिद् एकोद्दिष्टे पार्वणादौ प्रेतस्य उद्देशत उत्सृज्यते तत्र सर्वत्रैवम् एवानुप्रेतेषूच्छेषणविकिरादिकं देयम् । ऽन स्वधा" इति, स्वधावाचनं न कुर्याद् इत्य् अर्थः । “स्वधा वाच्यताम् इति विसृजेत्” इत्य् आश्वलायनोक्तान्तिमस्वधाकारनिषेधः । “नाभिरभ्यताम्” इति प्रेतैकोद्दिष्टविषयम् । यत् तु शाङ्खायनवचनम् ऽअभिरम्यताम् इति विसर्गः" इति तद् इतरैकोद्दिष्टविषयम् । “अनुशब्दः” इति, अनुशब्दवान् ऽये [२४६] च त्वाम् अनु" इत्यादिमन्त्रः ऽपितृशब्दं न कुर्वीत" ऽनमो वः पितर" इत्यादिमन्त्रं न पठेद् इत्य् अर्थः ॥

बृहस्पतिः [श्राद्ध, १२८, १३२, १३५, १३६, १३८]

एकोद्दिष्टविधानेन यद् एकस्य प्रदीयते । 

आवाहनाग्नौकरणरहितं दैववर्जितम् ॥ 

वस्त्रालङ्कारशय्याद्यं पितुर् यद् वाहनायुधम् । 

गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे तद् अर्पयेत् ॥ 

भोजनं चानेकविधं कारयेद् व्यञ्जनानि च । 

यथाशक्तत्या प्रदद्याच् च गोभूहेमादिकं तथा ॥ 

श्रोत्रिया भोजनीयास् तु नव सप्तं त्रयोदश । 

ज्ञातयो बान्धवा निःस्वास् तथा चातिथयो ऽपरे ॥ 

प्रदद्याद् दक्षिणां तेषां सर्वेषाम् अनुरूपतः । 

हतम् अश्रोत्रियं श्राद्धं हता यज्ञास् त्व् अदक्षिणाः ॥ 

तस्मात् पणं काकिणी वा फलं पुष्पम् अथापि वा । 

प्रदद्याद् दक्षिणां यज्ञे तया समफलो भवेत् ॥ 

वाराहपुराणे

एकादशाहे कर्तव्यं श्राद्धं प्रेताय यत्नतः । 

श्वः करिष्य इति ज्ञात्वा ब्राह्मणामन्त्रणक्रिया ॥ 

स्नात्वा चैव शुचिर् भूत्वा प्रेतं विप्रेषु योजयेत् । 

गतो ऽसि दिव्यलोकं त्वं कृतान्तविहितात् पथः ॥ 

मनसा वायुभूतेन विप्रे त्वाहं नियोजये । 

पूजयिष्यामि भोगेन एवं विप्रं निमन्त्रयेत् ॥ 

अस्तं गते तथादित्ये गत्वा विप्रनिवेशनम् । 

दत्वा तु पाद्यं विधिवन् नमस्कृत्य द्विजोत्तमम् ॥ 

पादौ प्रक्षाल्य तैलेन प्रेतस्य हितकाम्यया । 

प्रभातायां तु शर्वर्याम् उदिते च दिवाकरे ॥ 

श्मश्रुकर्म कारयित्वा नखच्छेदं ततः परम् । 

[२४७] स्नपनाभ्यञ्जनं दद्याद् विप्राय विधिपूर्वकम् ॥

गृह्णीयाद् भूमिभागं च स्थण्डिलं तदनन्तरम् । 

निवापदेशं सङ्गृह्य कर्तव्यं स्थण्डिलं महत् ॥ 

नदीकूले निवासे वा प्रेतभूमिं विनिर्दिशेत् । 

अकृत्वा पृथिवीभागं निवापं ये तु कुर्वते ॥ 

तदधीनं जगद्भद्रे तदुच्छिष्टं कृतं भवेत् । 

न देवाः पितरस् तस्य गृह्णन्तीह कदाचन ॥ 

पतन्ति निरये घोरे तेनोच्छिष्टेन सुन्दरि । 

सचैलस्नपनं कृत्वा गत्वा चैव महानदीम् ॥ 

तीर्थानि मनसा ध्यात्वा तैः स्वम् अभ्युक्षयेद् बुधः । 

एवं शुद्धिं ततः कृत्वा ब्राह्मणं शीघ्रम् आनयेत् ॥ 

आगतं च द्विजं दृष्ट्वा कर्तव्या स्वागतक्रिया । 

अर्घ्यं पाद्यं ततः कृत्वा दृष्टतुष्टेन माधवि ॥ 

आसनं चोपकल्पेत मन्त्रेण विधिपूर्वकम् । 

अत्रासने देवतानाम् अनुज्ञातो विश्रम्यताम् ॥ 

प्रसादयेत् त्व् आसनं गृह्यपूतं 

	ज्ञानाग्निशुद्धेन करेण विप्रः । 

प्रक्षाल्य पाणी शिरसाभिवन्द्य 

	जानूनि विश्राव्य च मन्त्रवच् च ॥ 

उपवेश्यासने भद्रे छत्रं तत्र प्रकल्पयेत् । 

आवरणार्थं छत्रं तद् ब्राह्मणाय प्रदीयते ॥ 

पश्चाद् उपानहौ दद्यात् पादस्पर्शकरे उभे । 

सन्तप्तवालुकां भूमिम् असिकण्टकितां तथा ॥ 

सन्तारयति दुर्गाणि प्रेतं ददद् उपानहौ । 

तिलोपचारं कृत्वा तु विप्रस्य नियतात्मना ॥ 

नामगोत्रम् उदाहृत्य प्रेताय तदनन्तरम् । 

शीघ्रम् आह्वानयेद् भूमिं दर्भहस्तो ऽथ भूतले ॥ 

[२४८] ऽमन्त्र-ऽ-

इह लोकं परित्यज्य गतो ऽसि परमां गतिम् । 

एवम् आह्वानिते गन्धपुष्पधूपान् समर्पयेत् ॥ 

ऽगन्धमन्त्रः " - ऽसर्वः सुगन्धः । ऽपुष्पमन्त्र- " – ऽश्रिया देव्या" । “धूपमन्त्रो” “बृहसातिरसान्” ।

ततो वस्त्राणि विप्राय सर्वाण्य् आभरणानि च । 

पुनः पक्वान्नकं चैव कल्पयेच् च वसुन्धरे ॥ 

त्रिषु वर्णेषु कर्तव्यं पाकं भोजनम् एव च । 

शुश्रूषाम् अभिपन्नानां शूद्राणां च वरानने ॥ 

दिने त्रयोदशे प्राप्ते पाकेन भोजयेद् द्विजान् । 

एवं विधिः प्रयोक्तव्यः शूद्राणां मन्त्रवर्जितः ॥ 

अमन्त्रस्य च शूद्रस्य विप्रो मन्त्रेण गृह्यते । 

भुज्यमानस्य विप्रेण प्रेतभागस्य सर्वशः ॥

ज्ञातिवर्गेषु मित्रेषु सम्बन्धिस्वजनेषु च । 

भागस् तस्य प्रदातव्यो येनार्थो यस्य विद्यते ॥ 

शुचिर् भूत्वा तु विधिवत् कृत्वा शान्त्युदकानि च । 

प्रणम्य शिरसा देवि निवापस्थानम् आगतम् ॥ 

स्तोतव्यानि च मन्त्राणि समभक्त्या व्यवस्थितम् । 

मन्त्रः —

नमो नमो मेदिनि लोकधात्रि 

	उर्वि महि शैलगिरिधारिणि धरणे नमः । 

धरणि काश्यपि जगत्प्रतिष्ठे 

	वसुधे नमो ‘स्तु वैष्णवि भूतधात्रि ॥ 

नमो ऽस्तु ते सर्वरसप्रतिष्ठे

	निवापनावीति नमो नमो ऽस्तु ते । 

दद्यात् तिलोदकं तस्य नामगोत्रम् उदाहरन् ॥ 

[२४९] संवाह्य चरणौ तस्य नमस्कृत्य द्विजोत्तमम् ।

सङ्गृह्य पाणिना पाणिं मन्त्रेणोत्थापयेद् द्विजम् ॥ 

दद्याच् छय्यासनं देवि तथैवाञ्जनकाङ्कतम् । 

अञ्जनं कङ्कतं गृह्य शय्याम् आक्रम्य स द्विजः ॥ 

मुहूर्तं तत्र विश्रम्य पावनस्थानम् आगतम् ॥ 

गवां लाङ्गूलम् उद्धृत्य ब्राह्मणो हस्तम् आदधत् । 

पात्र औदुम्बरे तत्र कृत्वा चैव तिलोदकम् ॥ 

उपाहरन्ति मन्त्रेण सामवेदाद् द्विजातयः । 

मन्त्रैः पूर्वं तदा तोयं सर्वपापप्रणाशनम् ॥ 

गृह्य चौदुम्बरं पात्रं विप्रेण नियतात्मना । 

मन्त्रेणाभ्युक्षयेत् सर्वं स्वगृहे यत् तु तिष्ठति ॥ 

देवांश् चाग्निमुखान् सर्वांस् तर्पयित्वा विभागशः । 

भूतानां च बलिं दद्याद् ब्राह्मणेभ्यश् च भोजनम् ॥ 

प्रेतभागेन दत्तेन पूजयित्वा द्विजातयः । 

मृतस्य नामतोद्दिश्य ह्य् अक्षयं चोपकल्पयेत् ॥ 

स्वस्ति वाच्य च विप्राय दद्यात् प्रेतविसर्जनम् । 

प्राशयेत् पञ्चगव्यं च मधुपर्केण संयुतम् ॥ 

श्रीरामायणे

समतीते दशाहे तु कृतशौचो विधानतः । 

चक्रे द्वादशिकं श्राद्धं त्रयोदशिकम् एव च ॥ 

यानानि दासदासीश् च वेश्मानि सुमहान्ति च । 

भूषणानि च मुख्यानि राज्ञस् तस्यौर्ध्वदैहिकम् ॥ 

राजधर्मेषु वसिष्ठः [१९, २९-३०]

राजनि च प्रेते दद्यात् प्रासङ्गिकम् । एतेन मातापितृवृत्तिर् व्याख्याता ॥ 

**[२५०] **“प्रासङ्गिकऽं प्रसङ्गो विषयोपभोगः, तदर्थं शय्यासनादि । ऽमातापितृवृत्तिः " मातापित्रोर् अपि श्राद्धे प्रासङ्गिकशय्यादिदानेन वर्तितव्यम् इत्य् अर्थः ॥

विष्णुः [ २०, १-११] ।

    अथाशौचापगमे सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तस् त्व् एवंविधान् एव च ब्राह्मणान् यथाशक्त्य् उदङ्मुखान् गन्धमाल्यवस्त्रालङ्कारादिभिः पूजितान् भोजयेत् । एकवन् मन्त्रान् ऊहेद् एकोद्दिष्टे । उच्छिष्टसन्निधाव् एकम् एव तन्नामगोत्राभ्यां पिण्डं निर्वपेत् । भुक्तवत्सु ब्राह्मणेषु दक्षिणयाभिपूजितेषु प्रेतनामगोत्राभ्यां दत्ताक्षय्योदकेषु चतुरङ्गुलपृथ्वीस् तावद् अन्तरास् तावद् अधःखाता वितस्त्यायतास् तिस्रः कर्षूः कुर्यात् । कर्षूत्रयसमीपे चाग्नित्रयम् उपसमाधाय परिस्तीर्य तत्रैकैकस्मिन्न् आहुतित्रयं जुहुयात् । सोमाय पितृमते स्वधा नमः । अग्नये कव्यवाहनाय स्वधा नमः । यमायाङ्गिरसे स्वधा नमः । स्थानत्रये च प्राग्वत् पिण्डनिर्वणं कुर्यात् । ततो ऽन्नदधिमधुघृतमांसैः कर्षूत्रयं पूरयित्वा एतत् त इति जपेत् । एवं मृताहे प्रतिमासं कुर्यात् ।

ऽएकवन् मन्त्रान् ऊहेद्” इति, यत्र मन्त्रे बहुवचनान्तं पदं तत्रैकवचनान्तम् ऊहनीयम् इत्य् अर्थः ।

याज्ञवल्क्य-वृद्धशातातपौ

मृते ऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । 

प्रतिसंवत्सरं चैव माघम् एकादशे" हनि ॥ 

एकादशेऽहनि " इत्य् आशौचापगमानन्तरदिवसोपलक्षणपरम् । अथाशौचव्यपगम इति विष्णुस्मरणात् ॥

[२५१] छन्दोगपरिशिष्ठे कात्यायनः

श्राद्धम् अग्निमतः कार्यं दाहाद् एकादशे ऽहनि । 

ध्रुवाणि तु प्रकुर्वीत प्रमीताहनि सर्वदा ॥ 

द्वादश प्रतिमास्यानि आद्यं षाण्मासिकं तथा । 

सपिण्डीकरणं चेति प्रेतश्राद्धानि षोडश ॥ 

एकाहेन तु षण्मासा यदा स्युर् अपि वा त्रिभिः । 

न्यूनाः संवत्सराच्च् ऐव स्यातां षाण्मासिके तथा ॥

“अग्निमतो” मृतस्य । “ध्रुवाणि” आवश्यकानि वक्ष्यमाणानि । ऽसंवत्सरान् न्यूना" इति सम्बन्धः ॥

ब्रह्मपुराणे

नृणां तु त्यक्तदेहानां श्राद्धाः षोडश सर्वदा । 

चतुर्थे पञ्चमे वाथ नवमैकादशे तथा ॥ 

ततो द्वादशभिर् मासैः श्राद्धा द्वादशसङ्ख्यया । 

कर्तव्या शुचिभिस् तेषां तत्र विप्रांस् तु तर्पयेत् ॥ 

चतुर्थाहादिश्राद्धान्तराभावेनैकादशाहादिश्राद्धषोडशकाच् छ्राद्धषोडशकान्तरम् एतत् ॥

दशदिनकृत्यसमनन्तरम् हारीतः

श्वोभूत एकानुद्दिष्टं प्रदाय स्वस्त्ययनादिधर्मार्थान् प्रवर्तयन्ति ॥ 

“एकानुदिष्टम्” एकस्योद्देशेन ।

[२५२] बैजवापः

    ऊर्ध्व दशम्याम् अपो ऽभ्युपेत्य तस्मै श्राद्धकरणम् । गवास्विनाजेन वा तस्य चैवावृदष्टका ।

“आवृदष्टका” यस्याम् अष्टकायां आवृतवपाहोमाद्याः ।

पैठीनसिः

    मृतस्य मासि मासि श्राद्धं कुर्यात् । संवत्सरान्ते विसर्जनम् । नवमास्यम् इत्य् एके ॥ 

देवलः

एकादशादिभिः श्राद्धे मृतस्याप्यायनं चरेत् । 

सम्यक् संवत्सरे पूर्णे पितॄणां स्थानम् ऋच्छति ॥ 

हारीतः

मृते पितरि वै पुत्रः पिण्डम् अब्दे समाचरेत् । 

अन्नं कुम्भं च विप्राय प्रेतनिर्देशधर्मतः ॥ 

याज्ञवल्क्यः [१, २५५] ।

अर्वाक् सपिण्डीकरणं यस्य संवत्सराद् भवेत् । 

तस्याप्य् अन्नं सोदकुम्भं दद्याद् वर्षे द्विजन्मने ॥ 

प्रेताधिकारे पारस्करः [ ३, १०, ५४-५५] ।

    अहर् अहर् अन्नम् अस्मै ब्राह्मणायोदकुम्भं च अद्यात् । पिण्डम् अप्य् एके 


    निगृह्णन्ति ।

[२५३]

॥ २८ ॥

॥ अथ सपिण्डीकरणम् ॥

तत्र शातातपः

संवत्सरे तु विज्ञेयं सपिण्डीकरणं त्व् इह । 

सपिण्डीकरणान्ता च ज्ञेया प्रेतक्रिया बुधैः ॥ 

सपिण्डीकरणं श्राद्धं दैवपूर्वं नियोजयेत् । 

पितॄन् एवाशयेत् तत्र पुनः प्रेतं च निर्दिशेत् ॥ 

निरूप्य चतुरः पिण्डान् पिण्डदः प्रतिनामतः । 

ये समानाम् इति द्वाभ्याम् आद्यं तु विभजेत् त्रिधा ॥ 

एक एव विधिः पूर्वम् अर्घपात्रचतुष्टये । 

आसिशिञ्चेत् पितृपात्राणि प्रेतपात्रेण मन्त्रवित् ॥ 

“प्रेतक्रिया” प्रेतशब्दोल्लेखनया या क्रिया सा क्रियते । तेन सपिण्डीकरणापकर्षपक्षे ऽप्य् उदकुम्भदाने प्रेतशब्दोल्लेखो न कार्य इति । ऽपितॄन् एव" न तु मातामहादीन् । ऽआर्यऽं प्रेतपिण्डम् ॥

आश्वलायनपरिशिष्टम्

    अथ सपिण्डीकरणम् । चत्वार्य् उदपात्राणि । एकं मृतस्य । त्रीणीतरेषाम् । प्रथमं पात्रं त्रिषु पात्रेषु नियोजयेत् । समानीव आकूतिर् इत्य् एवम् एव प्रथमं पिण्डं त्रिषु पिण्डेषु नियोजयेत् । मधुमतीभिः सङ्गच्छध्वम् इति द्वाभ्याम् । एवं चतुर्थो ऽनुज्ञापितो भवति । न चात्र दैवं भोजयेत् । प्राग् एव दैवे ऽर्धम् अन्नाद्यं च दत्त्वा गन्धमाल्यैः पात्रम् अर्चयित्वा हुतशेषं पितृभ्यः पाणिषु दद्यात् । पुनस् तद् एव च ॥ 

[२५४] अन्नं पाणितले दत्तं पूर्वम् अश्नन्त्य् अबुद्धयः ।

	पितरस् तेन तृप्यन्ति सर्वं न प्राप्नुवन्ति च ॥ 

	यच् च पाणितले दत्तं यच् चान्नम् उपकल्पितम् । 

	एकीभावेन भोक्तव्यं पृथग्भागो न विद्यते ॥ 

“अनुज्ञपितो” विसर्जितः । ऽन चात्र" इति, पित्रादीनाम् आसनदानादिपदार्थकाण्डे देवासनादिपदार्थसङ्करं न कुर्याद् इत्य् अर्थः । “हुतशेष” अग्नौकरणहोमावशिष्टम् ॥

विष्णुः [२१, १२-२१] ।

    संवत्सरान्ते प्रेताय तत्पित्रे तत्पितामहाय च तत्प्रपितामहाय ब्राह्मणान् भोजयेत् । अग्नौकरणम् आवाहनं पाद्यं च कुर्यात् । संसृजतु [त्वा] पृथिवी समानी व इति प्रेतपाद्यपात्रे [पितृपात्र]त्रये योजयेत् । उच्छिष्टसन्निधौ पिण्डचतुष्टयं कुर्यात् । ब्राह्मणांश् च स्वाचान्तान् दत्तदक्षिणान् अनुव्रज्य विसर्जयेत् । ततः पिण्डम् अर्घपात्रोदकवत् पिण्डत्रये निदध्यात् । कर्षूत्रयसन्निकर्षे ऽप्य् एवम् एव । एवं सपिण्डीकरणं मासिकार्थवद् द्वादशाहं श्राद्धं कृत्वा त्रयोदशे ऽह्नि वा कुर्यात् । मन्त्रवर्जं हि शूद्राणां द्वादशे ऽह्नि । संवत्सराभ्यन्तरे यद्य् अधिकमासो भवेत् तदा मासिकार्थे दिनम् एकं वर्धयेत् ।

ऽकर्षूत्रयसन्निकर्षे ऽप्य् एवम्" इति, प्रेतैकोद्दिष्टसम्बन्धिकषूत्रयसष्निहितान् अपि पिण्डान् पित्रादिपिण्डेषु संसृजेत् । “मासिकार्थवत्” मासि भवानि श्राद्धानि ऽमासिकानिऽ, तदर्थः प्रेताप्यायनादिः, तेन युक्तानि श्राद्धानि मासिकार्थानि । आशौचापगमे ऽद्वादशाहऽं द्वादशा- हःसु कृत्वात्र त्रयोदशे ऽह्नि सपिण्डीकरणं कुर्यात् । आद्यं **[२५५] **चैकोद्दिष्टम् आशौचान्त एव कृतम् । ऊनषाण्मासिकोनादिको ऽपि षष्ठद्वादशदिवसयोर् एव कर्तव्ये । एवम् एतस्मिन् पक्षे षोडशश्राद्धानि भवन्ति । एतच् च साग्नेर् निरग्नेश् च वृद्ध्यादाव् अपकर्षनिमित्ते सति बोद्धव्यम् । वृद्धेश् च सपिण्डीकरणापकर्षनिमित्तत्वम्

अर्वाक् संवत्सराद् वृद्धौ पूर्णे संवत्सरे ऽपि वा । 

ये सपिण्डीकृताः प्रेताः । 

इति शातातपवाक्ये ऽनुवाददर्शनाज् ज्ञातव्यम् ॥

पैठीनसिः

संवत्सरान्ते विसर्जनं नवमास्यम् इत्य् एके । 

अयं च सपिण्डीकरणे नवमासविधिर् दशममासादौ वृद्धिश्राद्धनिमित्तसम्भवे बोद्धव्यः । न ततो ऽर्वाक् सपिण्डीकरणं कर्तव्यम् ॥

बैजवापः

    अथ सपिण्डीकरणम् । संवत्सरम् एकं पिण्डम् अनुद्दिश्य समाप्ते संवत्सरे चत्वार्य् उदपात्राणि संयुनक्ति । तथैकं प्रेताय त्रीन् पितृभ्यः । तत्प्रेतपात्रं पितृपात्रेषु सिञ्चति । ये समाना इति द्वाभ्याम् एवम् एव पिण्डान् यथा विमृशति । 

	एष वो ऽनुगतः प्रेतः पितरस् तं ददामि वः । 

	शिवम् अस्त्व् इति शेषाणां जायन्तां चिरजीविनः ॥ 

	समानीव आकूतिः समाना हृदयानि वः । 

	समानम् अस्तु वो मनो यथा वः सुसहासति ॥ 

	सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम् । 

	देवा भागं यथा पूर्वे सञ्जानाना उपासते ॥ इति । 

अभिशस्तपतितभ्रूणघ्नान् स्त्रीं च व्यभिचारिणीं नातिदिशेत् ॥ 

[२५६] हारीतः

समाप्ते तु पशुश्राद्धं विधिवत् प्रतिपादयेत् । 

चतुरो निर्वपेत् पिण्डान् प्रथमं तेषु निर्वपेत् ॥ 

वपां पशूंश् चरुं चैव ह्य् अवदानानि यानि च । 

हुत्वा नीतिविधानेन शेषान् पिण्डान् समावपेत् ॥ 

ततः प्रभृति वै प्रेतः पितृसामान्यम् आप्नुयात् । 

विन्दते पितृलोकं च ततः श्राद्धं प्रवर्तते ॥ 

विधिना सन्नियुक्तस्य यावल्लोमानि वै पशोः । 

तावद्वर्षसहस्राणि पितॄणाम् अक्षयं भवेत् ॥ 

तावद्वर्षसहस्राणि स्वर्गलोके महीयते । 

सर्वकामैश् च बध्नाति पशुयाजी न संशयः ॥ 

ब्रह्मपुराणे

चतुर्भ्यश् चार्घपात्रेभ्य एकं वामेन पाणिना । 

गृहीत्वा दक्षिणेनैव पाणिना च तिलोदकम् ॥ 

संसृजतु त्वा पृथिवी ये समाना इति स्मरन् । 

प्रेतविप्रस्य हस्ते तु चतुर्भागं जलं क्षिपेत् ॥ 

ततः पितामहादिभ्यस् तत्तन्मन्त्रैः पृथक् पृथक् । 

ये समाना इति द्वाभ्यां तज्जले तु समर्पयेत् ॥ 

अर्घस् तेनैव विधिना पात्राच् च विधिपूर्वकम् । 

तेभ्यश् चार्धं निवेद्यैव पश्चाच् च स्वयम् आचरेत् ॥ 

अथ तेनैव विधिना दर्भमूले ऽवनेजनम् । 

पितुर् दत्वा च पिण्डं तु दद्याद् भक्त्या तु पूर्ववत् ॥ 

दत्वा पिण्डम् अथाष्टाङ्गं ध्यात्वा तं च सुभास्वरम् । 

सुवर्णरूप्यदभैस् तु तस्मिन् पिण्डं ततस् त्रिधा ॥ 

कृत्वा पितामहादिभ्यः पितृभ्यः प्रेतम् अर्पयेत् । 

संसृजतु त्वा पृथिवी वायुर् अग्निः प्रजापतिः ॥ 

एतन् मन्त्रं जपेद् भक्त्या समानीवन्तम् एव च । 

[२५७] ये समाना इति द्वाभ्यां पितृभ्यः प्रेतम् अर्चयेत् ॥

वर्तुलांस् तु ततस् तांस् त्रीन् पिण्डान् कृत्वा प्रपूजयेत् । 

अर्घपुष्पैस् तथा धूपैर् वीपमाल्यानुलेपनैः ॥ 

मुख्यं तु पितरं कृत्वा पुनस् त्व् अन्यान् यथाक्रमम् । 

मृते पितरि यस्याथ विद्यते च पितामहः ॥ 

तेन देयास् त्रयः पिण्डाः प्रपितामहपूर्वकाः । 

तेभ्यश् च पैतृकः पिण्डो नियोक्तव्यस् तु पूर्ववत् ॥ 

मातर्य् अथ मृतायां तु विद्यते च पितामही । 

प्रपितामहपूर्वस् तु कार्यस् तत्राप्य् अयं विधिः ॥ 

जाबालः

नासपिण्डाग्निमान् पुत्रः पितृयज्ञं समाचरेत् । 

पापी भवत्य् अकुर्वन् हि पितृहा चोपजायते ॥ 

अयम् अर्थः । अशौचानान्तरम् आगामिनि दर्शे ऽवश्यङ्कर्तव्यपिण्डपितृयज्ञश्राद्धं मासिकश्राद्धपूर्वकं सपिण्डीकरणं कृत्वैव कुर्यात् ॥

याज्ञवल्क्यः [१, २५३-२५४] ।

गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम् । 

अर्घार्थं पितृपात्रे तु प्रेतपात्रं प्रसेचयेत् ॥ 

ये समाना इति द्वाभ्यां शेषं पूर्ववद् आचरेत् । 

एतत् सपिण्डीकरणम् एकोद्दिष्टं स्त्रिया अपि ॥ 

ऽस्त्रिया अपि" “एकोद्दिष्टम्” एकादशाहादि ऽसपिण्डीकरणऽं चैवम् एव कर्तव्यम् इत्य् अर्थः ।

वृद्धशातातपः

भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्ट एव च । 

सपिण्डक्रियां कृत्वा कुर्याद् अभ्युदयं ततः ॥ 

[२५८] विष्णुः [२१, २२] ।

सपिण्डीकरणं स्त्रीणां कार्यम् एव यथा भवेत् । 

यावज्जीवं तथा कुर्याच् छ्राद्धं तु प्रतिवत्सरम् ॥ 

वृद्धशातातपः

मातुः सपिण्डीकरणं कथं कार्यं सुतैर् भवेत् । 

पितामह्या सहैवास्याः सपिण्डीकरणं स्मृतम् ॥ 

छन्दोगपरिशिष्टे कात्यायनः [गोभिल, २, १०२] ।

मातुः सपिण्डीकरणं पितामह्या सहोदितम् । 

यथोक्तेनैव कालेन पुत्रिकाया न चेत् सुतः ॥ 

अस्यार्थः — पुत्रेण मातुः सपिण्डीकरणं पितामह्यादिभिः सह कर्तव्यम् । पुत्रिकापुत्रेण मातामहादिभिः सह ।

बौधायन-यज्ञपार्श्वौ

आदिशेत् प्रथमे पिण्डे मातरं पुत्रिकासुतः । 

द्वितीये पितरं तस्यास् तृतीये च पितामहम् ॥ 

शातातपो, वृद्धशातातपश् च द्वितीये ।

अप्रत्तायां पिता कुर्यात् प्रत्तायां तु पतिस् तथा । 

स्वेन स्वेनैव गोत्रेण संस्थितायां तिलोदकम् ॥ 

संस्थितायां तु भार्यायां सपिण्डीकरणान्तिकम् । 

पैतृकं भजते गोत्रम् ऊर्ध्वं तु पतिपैतृकम् ॥ 

एकमूर्तित्वम् आयाति सपिण्डीकरणे कृते । 

पत्नीपतिपितॄणां तु तस्मात् तद्गोत्रभागिनी । 

सपिण्डीकरणाद् ऊर्ध्वं यत् पितृभ्यः प्रदीयते । 

सर्वेष्व् अंशहरा माता इति धर्मेषु निश्चयः ॥ 

**[२५९] **“संस्थितायाऽं मृतायाम् । “तिलोदकम्” इत्य् और्ध्वदेहिकमात्रोपलक्षणम् । पितृगोत्रभाजनं चासुरादिनिन्दितविवाहोढाविषयम् इति स्मृतिमञ्जरीकारप्रभृतयः । ऽऊर्ध्वं तु पतिपैतृकम्” इत्य् अत्र हेतुः “एकमूर्तित्वम्” इत्यादि । ऽसपिण्डीकरणाद् ऊर्ध्वम्" इत्य् अनेन पित्राद्युद्देशेनैव व्यज्यमाने द्रव्ये “माता” “अंशहरा” तृप्तिभागिनी भवतीत्य् उक्तम् ।

बृहस्पतिः [श्राद्ध।, ८५, २९, २६] ।

स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते स्वधामयम् । 

पितामही च स्वेनैव तथैव प्रपितामही ॥ 

भर्तृगोत्रेण दातव्यं स्त्रीणां पिण्डोदकं सुतैः । 

पितामहपितृभ्यां च स्वेन स्वेन विधानतः ॥

पाणिग्रहणिका मन्त्राः पितृगोत्रापहारकाः । 

भर्तृगोत्रेण नारीणां देयं पिण्डोदकं ततः । 

चतुर्थीहोममन्त्रेण त्वङ्मांसहृदयेन्द्रियैः ॥ 

भर्त्रा संयुज्यते पत्नी तद्गोत्रा तेन सा भवेत् । 

विष्णुः [७४, १-८] ।

    अष्टकासु दैवपूर्वं शाकमांसापूपकैः श्राद्धं कृत्वा त्व् अन्वष्टकास्व् अष्टकावद् वह्नौ हुत्वा देवपूर्वम् एवं मात्रे पितामह्यै प्रपितामह्यै च पूर्ववद् ब्राह्मणान् भोजयित्वा दक्षिणाभिश् चाभ्यर्च्यानुव्रज्य विसर्जयेत् । ततः षट्कर्षूः कुर्यात् । तन्मूले च प्रागुद्गग्न्युपसमाधानं कृत्वा हुत्वा च पिण्डत्रयनिर्वपणं प्रत्येकस्मिन् कर्षूमूले कुर्यात् । कर्षूत्रये पुरुषाणां कर्षूत्रये स्त्रीणाम् । पुरुषकर्षूत्रयं सान्नेनोदकेन **[२६०]** पूरयेत् । स्त्रीकर्षूत्रयं सान्नेन पयसा । दध्ना मांसेन पयसा प्रत्येकं कर्षूत्रयम् । पूरयित्वा जपेद् एतद् भवद्भयो भवतीभ्यो ऽस्तु चाक्षयम् ॥ 

‘स्त्रीकर्षूत्रयं सान्नेन पयसा" पूरयेद् इत्य् अर्थः । ऽदध्ना मांसेन पयसा प्रत्येकं कर्षूत्रयऽं पूरयेद् इत्य् अपरः ॥

छन्दोगपरिशिष्टे कात्यायनः [ गोभिल, २,१०३] ।

न योषिद्भयः पृथग् दद्याद् अवसानदिनाद् ऋते । 

स्वभर्तृपिण्डमात्राभ्यस् तृप्तिर् आसां यतः स्मृता ॥ 

तथा

पितामहः पितुः पश्चात् पञ्चत्वं यदि गच्छति । 

पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोडशम् ॥ 

नैतत् पौत्रेण कर्तव्यं पुत्रवांश् चेत् पितामहः । 

पितुः सपिण्डतां कृत्वा कुर्यान् मासानुमासिकम् ॥ 

असंस्कृतौ न संस्कार्यौ पूर्वौ पौत्रप्रपौत्रकैः । 

पितरं तत्र संस्कुर्याद् इति **कात्यायनो** ऽब्रवीत् ॥ 

पापिष्ठम् अपि शुद्धेन शुद्धं पापकृतापि वा । 

पितामहेन पितरं संस्कुर्याद् इति निश्चयः ॥ 

“पूर्वौ” पितामहप्रपितामहौ यत्र केनापि निमित्तेन “असंस्कृतौ” अकृतसपिण्डीकरणौ, तत्रापि ताभ्यां सह ऽपितरं संस्कुर्यात् " सपिण्डयेद् इत्य् अर्थः ॥

इति श्रीलक्ष्मीधरविरचिते कृत्यकल्पतरौ श्राद्धकाण्डे सपिण्डीकरणपर्व ॥

[२६१]

॥ २९ ॥

॥ अथ सपिण्डीकरणोत्तर श्राद्धम् ॥

तत्र शातातपः

प्रदानं यत्र यत्रैषां सपिण्डीकरणात् परम् । 

तत्र पार्वणवच् छ्राद्धं ज्ञेयम् अभ्युदयाद् ऋते ॥ 

अर्वाक् संवत्सराद् वृद्धौ पूर्णे संवत्सरे ऽपि वा । 

ये सपिण्डीकृताः प्रेता न तेषां तु पृथक्रिया ॥ 

पृथक् पिण्डप्रदानं तु तस्माद् ऊर्ध्वं विधीयते । 

प्रेतानाम् इह सर्वेषां ये मन्त्रैस् तु नियोजिताः ॥ 

कृतार्थास् ते हि संवृत्ताः सपिण्डीकरणे कृते । 

प्रेतत्वाच् चेह निस्तीर्णाः प्राप्ताः पितृगणं तु ये ॥ 

यः सपिण्डीकृतं प्रेतं पृथक् पिण्डे नियोजयेत् । 

विधिघ्नस् तेन भवति पितृहा चोपजायते ॥ 

ऽपृथक् पिण्डेऽ, पृथक् इतरपिण्डासहभावेन पिण्डो यत्र दीयते एकोद्दिष्टे, तस्मिन् “नियोजयेत्” देवतात्वेनेति शेषः ।

जाबालः

पितृयज्ञं तु निर्वर्त्य मासिकं श्राद्धम् एव च । 

श्राद्धं प्रति रुचौ चैव मातापित्रोर् मृते ऽहनि ॥ 

असपिण्डीकृतं प्रेतम् एकोद्दिष्टेन तर्पयेत् । 

सपिण्डीकरणाद् ऊर्ध्वं त्रिभिः सामान्यम् इष्यते ॥ 

औरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु । 

प्रत्यब्दम् इतरे कुर्युर् एकोद्दिष्टं सुता दश ॥ 

**[२६२] **“पितृयज्ञः” अत्र पितृतर्पणम् ।

याज्ञवल्क्यः [१, २५६] ।

मृते ऽहनि तु कर्तव्यं प्रतिमासं च वत्सरम् । 

प्रतिसंवत्सरं चैवम् आद्यम् एकादशे ऽहनि ॥ 

मत्स्यपुराणे

ततः प्रभृति सङ्क्रान्ताव् उपरागादिपर्वसु । 

त्रिपिण्डम् आचरेच् छ्राद्धम् एकोद्दिष्टं मृतानि ॥ 

एकोद्दिष्टं परित्यज्य पार्वणं यः समाचरेत् । 

सदैवपितृहा स स्यान् मातृभ्रातृविनाशकः ॥ 

मृताहे पार्वणं कुर्वन्न् अधो ऽधो याति मानवः । 

सम्पृक्तेष्व् आकुलीभावः प्रेतेषु च ततो भवेत् ॥ 

तथा

यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम् । 

पार्वणेन विधानेन देयम् अग्निमता सदा ॥ 

अत्र च प्रत्यब्दं मृताहनि पार्वणैकोद्दिष्टयोस् तुल्यवद्विकल्पे प्राप्ते व्यवस्थितिर् यथा — औरसः क्षेत्रजश् च यः साग्निः प्रत्यब्दं पार्वणम् एव कुर्यात्,

औरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु ।

इति जाबालवचनात्,

यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम् । 

पार्वणेन विधानेन देयमग्निमता सदा ॥ 

इति मत्स्यपुराणवचनाच् च । निरग्निकौ त्व् औरसक्षेत्रजौ, इतरे तु पुत्राः साग्नयो निरग्नयश् च प्रत्यब्दं मृताहन्य् एकोद्दिष्टम् एव कुर्युर् इति महार्णवप्रकाशकारः

[२६३]

॥ ३० ॥

॥ अथ श्राद्धाधिकारिणः ॥

तत्र मरीचिः

मृते पितरि पुत्रेण किया कार्या विधानतः । 

बहवः स्युर् यदा पुत्राः पितुर् एकत्र वासिनः ॥ 

सर्वेषां तु मतं कृत्वा ज्येष्ठेनैकेन यत् कृतम् । 

द्रव्येण चाविभक्तेन सर्वैर् एव कृतं भवेत् ॥ 

शङ्खलिखितौ

यद्य् एकजाता बहवः पृथक्क्षेत्राः पृथग्धनाः । 

एकपिण्डाः पृथक्शौचाः पिण्डस् त्व् आवर्तते त्रिषु ॥ 

“पृथक्क्षेत्राः” विजातीयमातृजाताः । “एकपिण्डाः” एकम् एव पिण्डं दद्युः, न पुनः प्रतिपुरुषं पृथक् पिण्डदानम् । “पृथक्शौचाः” विजातीयमातृसम्बन्धेन पृथक्शुद्धयः । ऽपिण्डस् त्व् आवर्तते त्रिषु" सपिण्डता तु त्रिपुरुषेषु भवतीत्य् अर्थः ॥

पैठीनसिः

    यावत् त्रिपुरुषम् अविच्छिन्नं तावत् पिण्डः प्रदीयते । 


    त्रिपुरुषविनाशे तु पृथक् पिण्डोदकक्रिया ॥ 

ऽअविच्छिन्नऽं विजातीयपुरुषसम्प्रवेशेन जीवनेन च पतितत्वेन च विच्छेदरहितम् । “त्रिपुरुषविनाशे” विजातीयक्षत्रियादिप्रवेशेन ॥

[२६४] बृहस्पतिः [श्राद्ध; १५०] ।

प्रमीतस्य पिण्डं पुत्रैः श्राद्धे देयं प्रयत्नतः । ज्ञातिबन्धुसुहृच्छिष्यैर् ऋत्विग्भृत्यपुरोहितैः ॥ 

अत्र च पुत्रादिपूर्वपूर्वाभाव उत्तरोत्तराधिकारो बोद्धव्यः ।

गौतमः [१५, १३-१४] ।

    पुत्राभावे सपिण्डा मातृसपिण्डा शिष्याश् च दद्युः । तदभावे ऋत्विगाचार्यौ ॥ 

विष्णुपुराणे (३, १३, ३१-४०] ।

पुत्रः पौत्रः प्रपौत्रो वा तद्वद् वा भ्रातृसन्ततिः । 

सपिण्डसन्ततिर् वापि क्रियार्हा नृप जायते ॥ 

तेषाम् अभावे सर्वेषां समानोदकसन्ततिः । 

मातृपक्षस्य पिण्डेन सम्बन्धो यो जलेन वा ॥ 

कुलद्वये ‘पि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप । 

सङ्घातान्तर्गतैर् वापि कार्याः प्रेतस्य या क्रियाः ॥ 

उच्छिन्नबन्धुरिक्थाद् वा कारयेद् अवनीपतिः । 

पूर्वाः क्रिया मध्यमाश् च तथा चैवोत्तराः क्रियाः ॥ 

त्रिप्रकाराः क्रिया ह्य् एता संस्थाभेदान् शृणुष्व मे । 

आदाहाद् वार्यायुधादिस्पर्शाद् अन्त्याश् च याः क्रियाः ॥ 

ताः पूर्वा मध्यमा मासि मास्य् एकोद्दिष्टसञ्ज्ञिताः । 

प्रेते पितृत्वम् आपन्ने सपिण्डीकरणाद् अनु ॥ 

[२६५] क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ।

पितृमातृसपिण्डैस् तु समानसलिलैस् तथा ॥ 

सङ्घातान्तर्गतैश् चैव राज्ञा वा धनहारिणा । 

पूर्वाः क्रियास् तु कर्तव्याः पुत्राद्यैर् एव चोत्तराः ॥ 

दौहित्रैर् वा नरश्रेष्ठ कार्यास् तत्तनयैस् तथा । 

मृताहनि तु कर्तव्याः स्त्रीणाम् अप्य् उत्तराः क्रियाः ॥ 

प्रतिसंवत्सरं राजन्न् एकोद्दिष्टविधानतः । 

ऽमातृपक्षस्य पिण्डेन सम्बन्धः" मातृसपिण्डतः, ऽमातृपक्षस्य जलेन सम्बन्धो" मातृसमानोदकतः । " उत्सन्नबन्धुरिक्थात् " उत्सन्ना बन्धवो यस्य स तथा, तस्य “रिक्थात्” । ऽआदाहाद्वार्यायुधादिस्पर्शाद् अन्त्यादिऽ, “अन्त्याः” अन्तो मरणं, तत्र भवाः, ताश् च दाहोपक्रमा वार्यायुधादिस्पर्शपर्यन्ताः पूर्वा इत्य् अर्थः । ऽमासि मासि" इत्य् एकादशाहादिसपिण्डीकरणपूर्वप्रेतक्रियोपलक्षणम् । अत्र च पितृमातृसपिण्डादयः पूर्वक्रियाम् एव कुर्युर् नोत्तराम् । मध्यमक्रियायां त्व् एषाम् अनियमः । उत्तरक्रियायां तु पुत्राद्या भाविसन्ततिपर्यन्ता दौहित्रास् तत्तनयाश् च नियताः । “दौहित्रैः” “तत्तनयैः” इति च पुत्रिकापुत्रविषयम् ॥

ब्रह्मपुराणे

न कदाचित् सगोत्राय श्राद्धं कार्यम् अगोत्रजैः । 

असमाप्तव्रतस्यापि कर्तव्यं ब्रह्मचारिणः ॥ 

श्राद्धादि मातापितृभिर् न तु तेषां करोति सः । 

नित्यं गुरुकुलस्थस्य गुरुः सब्रह्मचारिणः ॥ 

[२६६] निरन्वये सपिण्डे तु मृते सति दयान्वितः ।

तदशौचं पुरा तीर्त्वा कुर्यात् तत् पितृवत् क्रियाम् ॥ 

त्रयाणाम् आश्रमाणां तु कुर्याद् दाहादिकां क्रियाम् । 

यतेः किञ्चिन् न कर्तव्यं न चान्येषां करोति सः ॥ 

गुरुः करोति शिष्याणां पिण्डनिर्वपणं सदा । 

कृत्वा तत् पैतृकं शौचं स्वजातिविहितं च यत् ॥ 

भ्रातुर् भ्राता स्वयं चक्रे तद्भार्या चेन् न विद्यते । 

तस्य भ्रातृसुतश् चक्रे यस्य नास्ति सहोदरः ॥ 

दत्तानां चाप्य् अदत्तानां कन्यानां कुरुते पिता । 

चतुर्थे ऽहनि तास् तेषां कुर्वीरन् सुसमाहिताः ॥ 

मातामहानां दौहित्राः कुर्वन्त्य् अहनि चापरे । 

ते ‘पि तेषां प्रकुर्वन्ति द्वितीये ऽहनि सर्वदा ॥ 

जामातुः श्वशुरश् चक्रे तेषां ते ऽपि च संयताः । 

मित्राणां तदपत्यानां श्रोत्रियाणां गुरुस् तथा ॥ 

भागिनेयसुतानां च सर्वेषां त्व् अपरे ऽहनि । 

श्राद्धं तु कृत्वा प्रथमं स्नात्वा कृत्वा जलक्रियाम् ॥ 

मृते राज्ञि सपिण्डे तु निरपत्ये पुरोहितः । 

मन्त्री वा तदशौचं तु कृत्वा पश्चात् करोति सः ॥ 

ब्राह्मणस् त्व् अन्यवर्णानां न करोति कदाचन । 

कामाल् लोभाद् भयाद् वापि कृत्वा तज्जातितां व्रजेत् ॥ 

पुत्राः कुर्वन्ति विप्राय क्षत्रविट्छूरयोनयः । 

स तादृशेभ्यः पुत्रेभ्यो न करोति कदाचन ॥ 

स्वमाता कुरुते तेषां ते ऽपि तस्याश् च कुर्वते ॥ 

स्वं गोत्रं यस्य सः ऽस्वगोत्रःऽ, विद्यमानसगोत्र इत्यर्थः । यस्मै श्राद्धं प्रकर्तव्यं तस्य सगोत्रे विद्यमाने अन्यगोत्रेण सङ्घातान्तर्गतेन राज्ञा वा श्राद्धं न कर्तव्यम् । “असमाप्तव्रतस्यापि” ऽतत् पितृवत्" यथा पिता पुत्रस्य यावद् यादृशीं **[२६७] **क्रियां करोति ताम् असपिण्डो “दयान्वितः” कुर्यात् । ऽयतेः किञ्चिन् न कर्तव्यम्" इति दाहादिसपिण्डीकरणान्तप्रेतक्रिया-विषयम् ।

तथा च महाभारते

न दग्धव्यो न दग्धव्यो विदुरो ऽयं कदाचन । 

ज्ञानदग्धशरीरस्य पुनर्दाहो न विद्यते ॥ 

ऽस्वजातिविहितं च यत्" आशौचान्तवार्यायुधादिस्पर्शादि ।

मार्कण्डेयपुराणे

सर्वाभावे स्त्रियः कुर्युः स्वमातृणाम् अमन्त्रकम् । 

तदभावे तु नृपतिः कारयेत् स्वकुटुम्बवत् ॥ 

तज्जातीयैर् नरैः सम्यग् दाहाद्याः सकलाः क्रियाः । 

ऽसर्वाभावे स्त्रियः कुर्युः स्वभर्तृणाम् अमन्त्रकम्" इति पत्नीव्यतिरिक्तावरुद्धादिस्त्रीविषयम्,

भ्रातुर् भ्राता स्वयं चक्रे तद्भार्या चेन् न विद्यते । 

इत्य् अर्वाग् एव पत्न्या अधिकारदर्शनात् ।

तथा

स्त्रीणाम् अप्य् एवम् एवैतद् एकोद्दिष्टम् उदाहृतम् । 

सपिण्डीकरणं तासां पुत्राभावे न विद्यते ॥ 

प्रतिसंवत्सरं कार्यम् एकोद्दिष्टं नरैः स्त्रियाः । 

मृताहनि यथान्यायं नृणां यद्वद् इहोदितम् ॥ 

ऽस्त्रीणाम् अप्य् एवम् एव" इति, यादृशेन सम्बन्धेन पितृव्यत्वादिना पुरुषाणाम् एकादशाहादि तादृशेनैव सम्बन्धेन स्त्रीणाम् अपि तत् कर्तव्यम् इति ॥

[१६८]

॥ ३१ ॥

॥ अथाभ्युदयिकम् ॥

तत्र विष्णुपुराणे [३, १३, ५-६] ।

कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः । 

नामकर्मणि बालानां चूडाकर्मादिके तथा ॥ 

सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । 

नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही ॥ 

तथा

युग्मांस् तु प्राङ्मुखान् विप्रान् भोजयेन् मनुजेश्वर । 

मत्स्यपुराणे

उत्सवानन्दसन्तानयज्ञोद्वाहादिमङ्गले । 

मातरः प्रथमं पूज्याः पितरस् तदनन्तरम् ॥ 

ततो मातामहाश् चैव विश्वेदेवास् तथैव च । 

ब्रह्मपुराणे

पिता पितामहश् चैव तथैव प्रपितामहः । 

त्रयो ह्य् अश्रुमुखा ह्य् एते पितरः परिकीर्तिताः ॥ 

तेभ्यः पूर्वतरा ये च प्रजावन्तः सुखैधिताः । 

ते तु नान्दीमुखा नान्दी समृद्धिर् इति कथ्यते ॥ 

तथा

कर्मण्य् अथाभ्युदयिके मङ्गल्यवति शोभने । 

जन्मन्य् अथोपनयने विवाहे पुत्रकस्य च ॥ 

[२६९] पितॄन् नान्दीमुखान् नाम तर्पयेद् विधिपूर्वकम् ।

पठेच् छकुनिसूक्तं तु स्वस्तिसूक्तं शुभं तथा । 

नान्दीमुखान् पितॄन् भक्त्या साञ्जलिश् च समाह्वयेत् । 

तथा ।

पठन् पवित्रं मन्त्रं तु विश्वेदेवाः स आगत । 

प्रशस्तान् शाद्वलान् दर्भान् आस्तीर्य प्राङ्मुखंस् तथा ॥ 

रक्षोघ्नीर् जुहुयाद् अग्नौ समिदर्थे महौषधीः । 

तिलार्थं तत्र विकिरेत् प्रशस्तांश् च तथा यवान् ॥ 

सर्वं यज्ञोपवीतेन न कुर्याद् अपसव्यकम् । 

अन्नं दद्याच् च दैवेन तीर्थेन च जपन् स्वधाम् ॥ 

कच्चित् सम्पन्नम् एतन् मे तान् पृच्छेच् च प्रहर्षयन् । 

सुसम्पन्नं च ते ब्रूयुः सर्वसिद्धिं ततः क्षिपेत् ॥ 

नान्दीमुखेभ्यश् चाक्षय्यम् इदम् अस्त्व् इति सञ्जपेत् । 

प्राङ्मुखांस् त्व् अथ दर्भास् तु दद्यात् क्षीरावनेजनम् ॥ 

दत्वा नान्दीमुखेभ्यश् च प्राचीं गच्छन् दिशं क्रमात् । 

शाल्यन्नं दधिमध्वक्तं बदराणि यवांस् तथा ॥ 

मिश्रीकृत्य तु चत्वारि पिण्डान् श्रीफलसन्निभान् । 

दद्यान् नान्दीमुखेभ्यश् च पितृभ्यो विधिपूर्वकम् ॥ 

अर्घं पुष्पं च धूपं च प्रशस्तम् अनुलेपनम् । 

वासश् चाप्य् अहतं युग्मं देयं च सदशं समम् ॥ 

द्राक्षामलकमूलानि यवांश् चाथ निवेदयेत् । 

तथैव दक्षिणार्थं तु दद्याद् विप्रेषु सर्वदा ॥ 

अथाक्षय्योदकस्थाने दत्त्वा क्षीरयवोदकम् । 

प्रपितामहसञ्ज्ञेभ्यो नान्दीमुख्यश् च मातरः ॥ 

मातामहिपितामह्यः प्रपितामह्य एव हि । 

मातामहेभ्यश् च तथा नान्दीवक्त्रेभ्य एव च ॥ 

प्रमातामहसञ्ज्ञेभ्यो भवद्भिश् च स्वघोच्यताम् । 

[२७०] अस्तु स्वधेति ते तं च जल्पन्ति प्रहसाः शुभम् ॥

विश्वेदेवाश् च प्रीयन्ताम् इति दाता ब्रवीति तान् । 

प्रीता भवन्तु ते तं च वदन्ति मधुराक्षरम् ॥ 

तमूषु वाजिनम् इति पठंस् तांश् च विसर्जयेत् । 

अथ नान्दीमुखीभ्यश् च मातृभ्यः श्राद्धम् उत्तमम् ॥ 

अनेन विधिना कार्यम् सीमन्तोन्नयनादिषु । 

ऽसमऽं साधारणम् एकम् एव, प्रतिपिण्डं भिन्नम् इत्य् अर्थः । “मूलम्” आर्द्रकादि । “प्रहसाः” प्रकृष्टहासाः । अत्र च ऽनान्दीमुखाः पितरः पितामहाः प्रपितामहा" इत्यादिकात्यायन-वाक्यदर्शनात् पित्रादय एव नान्दीमुखविशेषणवन्तो देवताः । यत् तु ब्रह्मपुराणे पित्रादित्रिकस्याश्रुमुखत्वम् उक्त्वा ततः परेषां नान्दीमुखत्वेन वृद्धिश्राद्ध-देवतात्वाभिधानम्, तज्जीवत्पित्रादित्रयस्य श्राद्धकर्तुर् वृद्धिश्राद्धे देवताभावार्थम् । ततश् च तस्याप्य् अवश्यं कर्तव्यम् इदम् इति । यत् तु पार्वणादिश्राद्धं तत् तेन न कर्तव्यम्, विष्णुस्मृतौ ऽपितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात्" इति निषेधात् ।

कात्यायनः

    आभ्युदयिके प्रदक्षिणम् उपचारः । पूर्वाह्णे पित्र्यमन्त्रवर्ज्ं [जपः ।] ऋजवो दर्भाः । यवैस् तिलार्थः । सम्पन्नम् इति तृप्तिप्रश्नः । [सुसम्पन्नम् इतीतरे ब्रूयुः] दधिबदराक्षतमिश्राः पिण्डाः । नान्दीमुखान् पितॄन् आवाहविष्य इति पृच्छति । आवाहयेत्य् अनुज्ञातो नान्दीमुखाः पितरः प्रीयन्ताम् इति अक्षय्यस्थाने नान्दीमुखान् पितॄन् वाचयिष्य इति पृच्छति । वाच्यताम् इत्य् अनुज्ञातो नान्दीमुखाः पितरः पितामहाः **[२७१] **प्रपितामहाश् च [मातामहाः प्रमातामहाः वृद्धप्रमातामहाश् च] प्रीयन्ताम् इति न स्वधां प्रयुञ्जीत । युग्मान् आशयेत् [ अत्र] ॥ 

याज्ञवल्क्यः [१, २५०] ।

एवं प्रदक्षिणीकृत्य वृद्धौ नान्दीमुखान् पितृन् । 

यजेत दधिकर्कन्धुमिश्रान् पिण्डान् यवैः क्रियाः ॥ 

शातातपः

पूर्वाह्णे दैविकं कार्यं श्राद्धम् अभ्युदयार्थिना । 

सव्येन चोपवीतेन ऋजुदर्भैश् च धीमता ॥ 

अपसव्यं च यो दद्याद् वृद्धिश्रद्धम् अतिक्रमात् । 

न तस्य देवास् तुष्यन्ति पितरश् च यथाविधि ॥ 

पितॄणां रूपम् आस्थाय देवतान्नं समश्नुते । 

तस्मात् सव्येन दातव्यं वृद्धिश्राद्धेषु नित्यशः ॥ 

युग्मांस् तु भोजयेद् वृद्धौ ब्राह्मणान् नियतः शुचिः । 

नान्दीमुखास् तु पितरस् तृप्यन्ताम् इति वाचयेत् ॥ 

मातुः श्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् । 

ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥ 

त्रिष्व् अप्य् एतेषु युग्मांस् तु भोजयेद् ब्राह्मणान् शुचिः । 

प्रदक्षिणं तु सव्येन प्रदद्याद् देवपूर्वकम् ॥ 

वसवः पितरो ज्ञेया रुद्राश् चैव पितामहाः । 

प्रपितामहास् तथादित्या इत्य् एषा नैगमी श्रुतिः ॥ 

अपसव्यं न कुर्वीत न कुर्याद् अप्रदक्षिणम् । 

यथैवोपचरेद् देवांस् तथा वृद्धौ पितॄन् अपि ॥ 

पवित्रपाणिर् आचान्त उपविष्टः समाहितः । 

प्रदद्यात् प्राङ्मुखः पिण्डान् वृद्धौ सव्येन वाग्यतः ॥ 

[२७२] प्रागग्रेषु च दर्भेषु पिण्डान् दद्यात् तु वृद्धिषु ।

पार्वणे दक्षिणाग्रेषु सपिण्डीकरणं तथा ॥ 

नानिष्ट्वा तु पितॄन् श्राद्धे कर्म दैविकम् आचरेत् । 

तेभ्यो ऽपि मातरः पूर्वं पूजनीयाः प्रयत्नतः ॥ 

अकृत्वा मातृयागं तु यः श्राद्धे परिवेषयेत् । 

तस्य क्रोधसमाविष्ठा हिंसाम् इच्छन्ति मातरः ॥ 

“दैविकम्” अत्राभ्युदयिकम्, पितॄणां नान्दीमुखानां देववदुपचारात् । ऽतृप्यन्ताम् इति वाचयेत्" अक्षय्यस्थाने इति शेषः । “मातृयागो” मातृपूजा ॥

आभ्युदयिकप्रस्तावे मार्कण्डेयपुराणे

वैश्वदेवविहीने तु केचिद् इच्छन्ति मानवाः । 

छन्दोगपरिशिष्टे कात्यायनः [१,१३ - १९] ।

कर्मादिषु तु सर्वेषु मातरः सगणाधिपाः । 

पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥ 

प्रतिमासु च शुद्धासु लिखितासु पटादिषु । 

अपि चाक्षतपुञ्जेषु नैवेद्यैश् च पृथग्विधैः ॥ 

कुड्यलग्नां वसोर् धारां सप्तधारां घृतेन तु । 

कारयेत् पञ्चधारां वा नातिनीचां न चोच्छ्रिताम् ॥ 

आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः । 

षड्भ्यः पितृभ्यस् तद् अनु श्राद्धदानम् उपक्रमेत् ॥ 

वसिष्ठोक्तो विधिः कृत्स्नो द्रष्टव्यो ऽत्र निरामिषः । 

अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् ॥ 

प्रातरामन्त्रितान् विप्रान् युग्मान् उभयतस् तथा । 

उपवेश्य कुशान् दद्याद् ऋअजून् एव हि पाणिना । 

“आयुष्याणि” आयुर्वृद्धिकरसूक्तानि । “षड्भ्यः” पित्रादिभ्यः मातामहादिभ्यश् च त्रिभ्यः । षड्भ्य इति च **[२७३] **मातृपितामहिप्रपितामहीनाम् उपलक्षणम् । “प्रातरामन्त्रितान्” इति च वचनाद् वैकल्पिकम् सायमामन्त्रणम् अपि निवर्तते । “उभयतः” पितृपक्षे वैश्वदेवपक्षे च ।

तथा गोभिलः १, २४-२७] ।

निपातो न हि सव्यस्य जानुनो विद्यते क्वचित् । 

सदा परिचरेद् भक्त्या पितॄन् अप्य् अत्र देववत् ॥ 

पितृभ्य इति दत्तेषु उपवेश्य कुशेषु तान् । 

गोत्रनामभिर् आमन्त्र्य पितॄन् अर्घ प्रदापयेत् ॥ 

नात्रापसव्यकरणं न पित्र्यं तीर्थम् इष्यते । 

पात्राणां पूरणादीनि दैवेनैव हि कारयेत् ॥ 

ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रपवित्रकान् । 

कृत्वार्घं सम्प्रदातव्यं नैकैकस्यात्र दीयते ॥ 

“ज्येष्ठोत्तरकरान्” ज्येष्ठस्य प्रथमोपवेशितकरस्योपरि यथा करो भवति तथेत्यर्थः । ऽकराग्राग्रपवित्रान् " कराग्रे अग्रपवित्रकं पवित्राग्रं येषां ते तान् ॥

तथा [गोभिलः १, ३९-५५] ।

मधु मध्व् इति यस् तत्र त्रिर्जपो ऽशितुम् इच्छताम् । 

गायत्र्यनन्तरं सो ऽत्र मधुमन्त्रविवर्जितः ॥ 

न चाश्नत्सु जपेत् त्व् अत्र कदाचित् पितृसंहिताम् । 

अन्य एव जपः कार्यः सोमसामादिकः शुभः ॥ 

यस् तत्र प्रकरो ‘न्नस्य तिलवद् यववत् तथा । 

उच्छिष्टसन्निधौ सो ऽत्र तृप्तेषु विपरीतकः ॥ 

सम्पन्नम् इति तृप्ताः स्थ प्रश्नस्थाने विधीयते । 

सुसम्पन्नम् इति प्रोक्ते शेषम् अन्नं निवेदयेत् ॥ 

प्रागग्रेषु च दर्भेषु आद्यम् आमन्त्र्य पूर्ववत् । 

**[२७४] **अपः क्षिपेन् मूलदेशे ऽवनेनिक्ष्वेति निस्तिलाः ॥

द्वितीयं च तृतीयं च मध्यदेशाग्रदेशयोः । 

मातामहप्रभृतींस् तु तेषाम् एव च वामतः ॥ 

सर्वस्माद् अन्नम् उद्धृत्य व्यञ्जनैर् उपसिच्य च । 

संयोज्याक्षतकर्कन्धुदधिभिः प्राङ्मुखस् ततः ॥ 

अवनेजनवत् पिण्डान् कृत्वा बिल्वप्रमाणकान् । 

तत्पात्रक्षालनेनाथ पुनर् अप्य् अवनेजयेत् ॥ 

उत्तरोत्तरदाने ऽपि पिण्डानाम् उत्तरोत्तरः । 

भवेद् अधश् चाधराणाम् अधरश्राद्धकर्मसु ॥ 

तस्माच् छ्राद्धेषु सर्वेषु वृद्धिमत्स्व् इतरेषु च । 

मूलमध्याग्रदेशेषु ईषत्सक्तांश् च निर्वपेत् ॥ 

गन्धादीन् निक्षिपेत् तूष्णीं तत आवाहयेद् द्विजान् । 

अन्यत्राप्य् एष एव स्याद् यवादिरहितो विधिः । 

दक्षिणाप्रवणे देशे दक्षिणाभिमुखस्य च । 

दक्षिणाग्रेषु दर्भेषु एषो ऽन्यत्र विधिः स्मृतः ॥ 

अथाग्रभूमिम् आसिञ्चेत [सु]सम्प्रोक्षितम् अस्त्व् इति । 

शिवा आपः सन्त्व् इति च युग्मान् एवोदकेन च ॥ 

सौमनस्यम् अस्त्व् इति च पुष्पदानम् अतः परम् । 

अक्षतं चारिष्टं चास्त्व् इति चाक्षतान् प्रतिपादयेत् ॥ 

अक्षय्योदकदानं च अर्घदानवद् इष्यते । 

षष्ठ्यैव नित्यं तत् कुर्यान् न चतुर्थ्यां कदाचन ॥ 

प्रार्थमासु प्रतिप्रोक्ते सर्वास्व् एव द्विजोत्तमैः । 

पवित्रान्तर्हितान् पिण्डान् सिञ्चेद् उत्तानपात्रकृत् ॥ 

युग्मान् एव स्वस्ति वाच्य अङ्गुष्ठग्रहणं सदा । 

कृत्वा धुर्यस्य विप्रस्य प्रणम्यानुव्रजेत् ततः ॥ 

ऽतिलवद् यववत् तथा" इति, यो ऽन्यत्र तिलयुक्तो ऽन्नप्रकरः क्रियते सो ऽत्र यवयुक्तो यथा भवति तथा कर्तव्यः । [२७५] “विपरीतकः” देवतीर्थादिना दानप्रकारेण । ऽआद्यऽं पुरुषम् ।

“ईषत्सक्तान्” ईषल्लग्नान् ।

तथा [ गोभिलः १, ६८-६८] ।

असकृद् यानि कर्माणि क्रियेरन् कर्मकारिभिः । 

प्रतिप्रयोगं नैव स्युर् मातरं श्राद्धम् एव च ॥ 

आधाने होमयोश् चैव वैश्वदेवे तथैव च । 

बलिकर्मणि दर्शे च पौर्णमासे तथैव च ॥ 

नवयज्ञे च यज्ञे च वदन्त्य् एवं मनीषिणः । 

एकम् एव भवेच् छ्राद्धम् एतेषु न पृथक् पृथक् ॥ 

नाष्टकासु भवे च्छ्राद्धं न श्राद्धे श्राद्धम् इष्यते । 

न सोष्यन्तीजातकर्मप्रोषितागतकर्मसु ॥ 

विवाहादिः कर्मगणो य उक्तो 

	गर्भाधानं शुश्रुम यः स चान्ते । 

विवाहादाव् एकम् एवात्र कुर्याच्

	छ्राद्धं नादौ कर्मणः कर्मणः स्यात् ॥ 

प्रदोषे श्राद्धम् एकं स्याद् गोनिष्कासप्रवेशयोः । 

न श्राद्धं युज्यते कर्तुं प्रथमे पुष्टिकर्मणि ॥ 

हलादियोगादिषु च षट्सु कुर्यात् पृथक् पृथक् । 

प्रतिप्रयोगम् अन्येषाम् आदाव् एकत्र कारयेत् ॥ 

बृहत्पत्रक्षुद्रपशुस्वस्त्यर्थं परिविष्यतोः । 

सूर्येन्दोः कर्मणी ये तु तयोः श्राद्धं न विद्यते ॥ 

न दशाग्रन्थिकेनैव विषवद् दष्टकर्मणि । 

कृमिदष्टचिकित्सायां नैव शेषेषु विद्यते ॥ 

गणशः क्रियमाणेषु मातृभ्यः पूजनं सदा । 

सकृद् एव भवेच् छ्राद्धम् आदौ न पृथगादिषु ॥ 

यत्र यत्र भवेच् छ्राद्धं तत्र तत्र च मातरः । 

[२७६] ऽअसकृ यानि कर्माणि" इत्य् अस्यैव विषयविशेषे नियमम् आह — ऽआधाने होमयोश् चैव" इत्यादिना । तेन सोमयागादौ प्रतिप्रयोगं श्राद्धावृत्तिः । ऽनवयज्ञऽं आग्रयणः । “प्रोषितागतकर्मसु” प्रोष्य एत्य गृहाद्युपतिष्ठते ऽपुत्रं दृष्ट्वा जपति" इत्यादिविहितम् । “कर्मगणः” गृहप्रवेशचतुर्थीकर्मादि- । “मातरः” जनीयाः इति शेषः ॥

तथा

स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु । 

पिण्डान् ओद्वाहनात् तेषां तस्याभावे तु तत् क्रमात् ॥ 

ऽआ उद्वाहनात्" विवाहपर्यन्तम् ।

यमः

पितॄणाम् अप्य् अतिथयः श्राद्धकालेषु देवताः । 

देवतानां च पितरो भवन्त्य् अतिथयः सदा ॥ 

इति श्रीभट्टहृदयधरात्मजमहासन्धिविग्रहिकभट्टश्रीअक्ष्मीधरविरचिते कृत्यकल्पतरौ श्राद्धकाण्डे आभ्युदयिकपर्व ॥

[२७७]

॥ ३२ ॥

॥ अथ जीवच्छ्राद्धविधिः ॥

तत्र ब्रह्मपुराणे

देशकालधनश्रद्धाव्यवसायसमुत्थिते । 

जीविते सति जीवाय दद्याच् छ्राद्धं स्वयं नरः ॥ 

कृतोपवासः सुस्नातस् त्रयोदश्यां समाहितः । 

कर्तारम् अथ भोक्तारं विष्णुं सर्वेश्वरं यजेत् ॥ 

जले स्थले ऽम्बरे मूर्तौ कलशे पुष्करे रवौ । 

चन्द्राग्निगुरुगोविप्रमातापितृषु सर्वगम् ॥ 

सदक्षिणाश् च सतिलास् तिस्रस् तु जलधेनवः । 

निवेदयेत् पितृभ्यश् च तदग्रेषु समाहितः ॥ 

सोमाय त्वा पितृमते स्वधा नम इति स्मरन् । 

अग्नये कव्यवाहनाय स्वधा नम इति स्मरन् ॥ 

दक्षिणे तु निदध्याच् च तृतीयां दक्षिणायुताम् । 

यमायाङ्गिरसे वाथ स्वधा नम इति स्मरन् ॥ 

तयोर् मध्ये तु निक्षिप्य विप्रान् पञ्चोपवेशयेत् । 

आवाहनदिना पूर्वं विश्वान् देवान् प्रपूज्य च ॥ 

अहं वसुभ्यस् त्वां विप्र रुद्रेभ्यस् त्वाम् अहं ततः । 

सूर्येभ्यस् त्वाम् अहं विप्र भोजयामीति तान् वदेत् ॥ 

आवहनादिकं शेषं कुर्यात् स्वपितृकर्मवत् ।

सौम्यां धेनुं ततो दद्याद् वासवाया द्विजाय तु ॥ 

[२७८] विश्वेभ्यश् चाथ देवेभ्यस् तिलपात्रं निवेदयेत् ।

स्वस्त्य् उदकम् अथाक्षय्यं जलं दत्वा च तान् द्विजान् ॥ 

विसर्जयेत् स्मरन् विष्णुं देवम् अष्टाक्षरं विभुम् । 

ततः कामकुलेशानं निशि नारायणं स्मरन् ॥ 

चतुर्दश्यां ततो गच्छेद् यथाप्राप्तां सरिद्वराम् । 

पूर्वेण विप्रः सौम्येन राजा वैश्यो परेण च ॥ 

दक्षिणेन तथा शूद्रो मार्गे च विकिरेद् यवान् । 

वस्त्राणि लोहखण्डानि जीवन्त इति संस्मरन् ॥ 

दक्षिणाभिमुखो वह्निं ज्वालयेत् तत्र च स्वयम् । 

पञ्चाशता कुशैर् ब्राह्मीं कृत्वा विप्रकृतिं दहेत् ॥

कृत्वा श्मशानिकं होमं पूर्णाहुत्यन्तम् एव हि । 

निरग्निर् अथवा भूमिं यमं रुद्रं च संस्मरन् ॥ 

हुत्वा प्राधानिकस्थाने पश्चाद् दाहापयेच् च ताम् । 

श्रपयेच् चापरे वह्नौ मुद्गमिश्रं चरुं ततः ॥ 

तिलतण्डुलमिश्रं च द्वितीयं सपवित्रकम् । 

पूरयेत् कर्षुकां चात्र मधुक्षीरघृतोदकैः ॥ 

तदुपान्ते ततो मुद्गैः पात्राणि त्रीणि पूरयेत् । 

ॐ पृथिव्यै नमस् तुभ्यम् इति चैकं निवेदयेत् ॥ 

ॐ यमाय नमश् चेति द्वितीयं तदनन्तरम् । 

ॐ नमश् चाथ रुद्राय श्मशानपतये तथा ॥ 

ततो दीप्तसमिद्धाग्निं भूमौ प्रकृतिदाहकम् । 

ॐ क्रव्यादम् अग्नितप्तायै भूम्यै नम इति स्मरन् ॥ 

क्षीराक्तं जलकुम्भं च विकिरेत् तत्प्रशान्तये । 

नाभिमात्रं ततस् तोयं प्रविश्य यमदिङ्मुखः ॥ 

सप्तभ्यो यमसञ्ज्ञेभ्यो दद्यात् सप्त जलाञ्जलीन् । 

यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ 

वैवस्वताय कालाय सर्वप्राणहराय च । 

स्वधाकारनमस्कारप्रणवैः सह सप्तधा ॥ 

[२७९] ॐ शिवाय च रुद्राय श्मशानपतये स्मरन् ।

लाजोदकाभ्यां पूर्णं तु कुम्भं च विकिरेद् भुवि ॥ 

याम्योन्मुखेषु दर्भेषु प्रदद्याद् अवनेजनम् । 

स्वधेति युक्तवाहाय रुद्रं नम इति स्मरन् ॥ 

अमुकामुकगोत्रैतत् तुभ्यम् अस्तु तिलोदकम् । 

प्रदद्याद् दश पिण्डांस् तु अर्घपुष्पसमन्वितान् ॥ 

धूपो दीपो बलिर् गन्धः सर्वेषाम् अस्तु चाक्षयम् । 

दश पिण्डांस् ततो दत्वा विष्णोः सौम्यं मुखं स्मरेत् ॥ 

निरुष्मणश् च तत् तोयं नाभिमात्रं प्रविश्य तु । 

प्रक्षिपेत् पूर्णकुम्भेन जलमध्ये पृथक् पृथक् ॥ 

प्रदद्यात् पञ्चपञ्चाशत् कुम्भान् अथ जलाञ्जलीन् । 

द्वारोपान्ते गृहे वाथ क्षीरं तोयं च निःक्षिपेत् ॥

जीवात्र स्नाहि दुग्धं च पिबेदं चाप्य् अनुस्मरन् । 

याम्योन्मुखेषु दर्भेषु स्वपेत् पश्चाद् उदङ्मुखः । 

अथामावास्यायां कुर्याच् च जीवच्छ्राद्धम् अतः परम् । 

घृतान्नमांसदधिभिः पूरयेत् कर्षुकात्रयम् ॥ 

कुर्याच् च मासिकं मासि सपिण्डीकरणं तथा । 

आशौचान्ते ततः सर्वम् आत्मनो वा परस्य तु ॥ 

कुर्याद् अस्थिरतां ज्ञात्वा शक्त्यारोग्यधनायुषाम् । 

“दक्षिणेन” दक्षिणदिग्भागे अदूर एव । " वासवाय " वसुभ्य उपवेशिताय ब्राह्मणाय । एवं रौद्राय इत्य् अपि । “प्राधानिकस्थाने” प्रधान होमस्थाने ॥

इति भट्टहृदयधरात्मजमहासन्धिविग्रहिकभट्टश्रीलक्ष्मीधरविरचिते कृत्यकल्पतरौ श्राद्धकाण्डं समाप्तम् ॥

॥ शुभं भूयात् ॥