श्रीलक्ष्मीधरविरचितः
कृत्यकल्पतरुः
व्रतकाण्डम्
[१]
[मङ्गलाचरणम्]
नानातन्त्रविचारचारुविलसच्चातुर्यचिन्तामणिर्
व्रात्यादिप्रकटप्रदोषशमनान्य् अङ्गैर् युतान्य् आदरात् ।
<span style="text-decoration:underline;">षष्ठे</span> सज्जनचित्तवाञ्छितफलान्य् अस्मिन् व्रतानि स्फुटं
काण्डे वक्ति मुदा विचित्रचरितः श्रीमान् स लक्ष्मीधरः ॥
[प्रतिज्ञा]
वारव्रतानि तिथिजान्य् आगमोक्तानि विस्तरात् ।
वक्ष्ये बहुफलान्य् अस्मिन् हृद्यानि निजलीलया ॥
[व्रतप्रशंसा]
व्रतम् एव परं लोकसाधनं भोगसाधनम् ।
व्रतेनैव जयो यस्मात् तस्मात् सर्वो व्रतं चरेत् ॥
[२] व्रतेन सुजयो राजा सार्वभौमो ‘भवत् कृते ।
त्रेतायां धार्मिको रामो द्वापरे तु धनञ्जयः ॥
कलौ विक्रमभूपालस् तस्माद् व्रतफलं महत् ।
एको धर्मो मनुष्याणां व्रतम् एव महात्मना ॥
प्रोक्तो नानाविधैस् तन्त्रैः शङ्करेण हरिं प्रति ।
सन्ति यद्य् अपि भूयांसो लोके धर्मा युगे युगे ॥
तथापि व्रतधर्मस्य कलां नार्हन्ति षोडशीम् ।
व्रतेन मुक्तिम् आपन्ना हरिणाक्षी वसुंस्हरा ॥
विक्रमस्य सुता साध्वी दशार्णविनिवासिनी ।
देवता दितिपुत्राश् च सिद्धा गन्धर्वकिन्नराः ॥
[पद्मपुराण् ।
ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च ।
उपवासैस् तथा तुल्यं तपः कर्म न विद्यते ॥
दिव्यं वर्षसहस्रं तु विश्वामित्रेण धीमता ।
तपसाक्रान्तम् एकेन स च विप्रत्वम् आगतः ॥
उपोष्य विधिवद् देवास् त्रिदिवं प्रतिपेदिरे । ]
ऋषयश् च परां सिद्दिम् उपवासैर् अवाप्नुवन् ॥
तथा ।
क्षुद्धर्म्सञ्ज्ञान् प्राणांश् चाप्य् आदत्ते धैर्यम् एव च ।
यो दुर्जयांस् तान् जयति स्वर्गस् तेन जितो भवेत् ॥
[३] भविष्यपुराणे ।
उपावृत्तस्य दोषेभ्यो यस् तु वासो गुणैः सह ।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥
“दोषा” रागद्वेषादयः । “गुणाः” करुणादयः ।
उपवासात् परं भक्ष्यं भैक्ष्यात् परम् अयाचितम् ।
अयाचितात् परं नक्तं तस्मान् नक्तेन वर्तयेत् ॥
हविष्यभोजनं स्नानं सत्यम् आहारलाघवम् ।
अग्निकार्यम् अधःशय्यां नक्तभोजी षड् आचरेत् ॥
“अग्निकाऋयम्” अत्र महाव्याहृतिमन्त्रैर् आज्यहोमः ।
तथा ।
नक्षत्रदर्शनान् नक्तं केचिद् इच्छन्ति मानवाः ।
मुहूर्तोनं दिनं केचित् प्रवदन्ति मनीषिणः ॥
नक्षत्रदर्शणान् नक्तम् अहं मन्ये नराधिप ।
“मुहूर्तोनं दिनम्”, “मुहूर्तो” घटिकाद्वयम्, तेन “ऊनं दिनम्” ।
नरसिंहपुराणे ।
आत्मद्विगुणच्छायायां यदा सन्तिष्ठते रविः ।
सौरनक्तं विजानीयान् न नक्तं निशि भोजनम् ॥
[४]
अथ व्रतधर्माः
तत्र महाभारते ।
गृहीत्वोदुम्बरं पात्रं वारिपूर्णम् उदङ्मुखः ।
उपवासं तु गृह्णीयाद् यद् वा सङ्कल्पयेद् बुधः ॥
“यद् वा” अन्यन् नक्तादिकम् ।
देवलः ।
अभुक्त्वा प्रातराहारं स्नात्वाचम्य समाहितः ।
सूर्यादिदेवताभ्यश् च निवेद्य व्रतम् आचरेत् ॥
**छागलेयः **।
पूर्वं व्रतं गृहीत्वा च नाचरेत् काममोहितः ।
जीवन् भवति चण्डालो मृतः श्वा चैव जायते ॥
देवलः ।
उपवासो विनश्येत दिवास्वप्नाक्षमैथुनैः ।
अत्यये ज्लपानेन जोपवासः प्रदुष्यति ॥
“अत्यये” अत्यन्तपीडायाम् ।
[५] तथा ।
सर्वभूतभयं व्याधिः प्रमादो गुरुशासनम् ।
अव्रतघ्नानि पठ्यन्ते सकृद् एतानि शास्त्रतः ॥
“सर्वभूतभयम्” सर्वभूतेभ्यो भयम् । तेन सर्पादिभयाद् अप्य् अङ्गवैकल्यम् । तेन व्रतहातिर् भवतीत्य् अर्थः ।
वृद्धशातातपः ।
गन्धालङ्कारवस्त्राणि पुष्पमालानुलेपनम् ।
उपवासे न दुष्यन्ति दन्तधावनम् अञ्जनम् ॥
उपवासं द्विजः कृत्वा ततो ब्राह्मणभोजनम् ।
कुर्यात् तथास्य सगुण उपवासो हि जायते ॥
मत्स्यपुराणे ।
तस्मात् कृतोपवासेन स्नानम् अभ्यङ्गपूर्वकम् ।
वर्जनीयं प्रयत्नेन रूपघ्नं तत्परं नृप ॥
**भविष्यपुराणे **।
क्षमा सत्यं दया दानं शौचम् इन्द्रियनिग्रहः ।
देवपूजाग्निहवनं सन्तोषः स्तेयवर्जनम् ॥
सर्वव्रतेष्व् अयं धर्मः साअमान्यो दशधा स्थितः ॥
[६] तथा ।
षष्ठीसमेता कर्तव्या सप्तमी नाष्टमीयुता ।
पतङ्गोपासनायेह षष्ठ्याम् आहुर् उपोषणम् ॥
एकादश्यां प्रकुर्वन्ति ह्य् उपवासं मनीषिणः ।
उपासनाय द्वादश्यां विष्णोर् यद्वद् इयं तथा ॥
अथ धूपाः
तत्र भविष्यपुराणे ।
अगुरुं चन्दनं मुस्ता सिल्हकं वृषणं तथा ।
समभागं तु कर्तव्यं धूपश् चामृतसम्भवः ॥
श्रीखण्डं ग्रन्थिसहितम् अगुरुं सिल्हकं तथा ।
मुस्तां तथेन्दुं भूतेश शर्करां च दहेत् त्र्यहम् ॥
इत्य् एषो ‘नन्तधूपश् च कथितो देवसत्तम ।
“ग्रन्थिः” ग्रन्थिपर्णम् । “इन्दुः” कर्पूरम् ।
पलाशपुष्पाणि धवो यक्षचन्दनम् एव च ।
कर्पूरं चन्दनं कुष्ठम् उशीरं सिल्हकं तथा ॥
सग्रन्थिवृषणं भीम कुङ्कुमं गृञ्जनं तथा ।
हरीतकी तथा भीम एष यक्षाङ्ग उच्यते ॥
[७] यक्षचन्दनम् उच्यत इत्य् अर्थः ।
कृष्णागुरुं सिल्हकं च वालकं वृषणं तथा ।
चन्दनं तगरं मुस्ता प्रबोधः शर्करान्वितः ॥
कर्पूरं चन्दनं पुष्पम् अगुरुं तगरं तथा ।
गृञ्जनं शर्करा कुष्ठं महाङ्गं सिल्हकं तथा ॥
महाङ्गो ‘यं स्मृतो धूपः प्रियो देवस्य सर्वदा ।
“महाङ्गं” मांसी ।
श्रीखण्डं वृषणं मुस्ता अगुरुं सिल्हकं शशी ।
शर्करा च तथा विप्र महाधूप इति स्मृतः ॥
अगुरुं सिल्हकं धूपः प्राजापत्यम् इति स्मृतम् ।
[८]
अथ वारव्रतानि
[आदित्यवारव्रतानि]
तत्र भविष्यपुराणे ।
डिण्डिर् उवाच ।
ये त्व् आदित्यदिने ब्रह्मन् पूज्यन्ति दिवाकरः ।
स्नानदानादिना तेषां किं फलं स्याद् ब्रवीहि मे ॥
ब्रह्मोवाच ।
ये त्व् आदित्यदिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः ।
सप्तजन्मनि ते पापाः सम्भवन्ति विरोगिणः ॥
नक्तं कुर्वन्ति ये त्व् अत्र मानवास् तं समाश्रिताः ।
जपमानाः परं जप्यम् <span style="text-decoration:underline;">आदित्यहृदयं</span> परम् ॥
आरोग्यम् इह वै प्राप्य सूर्यलोके व्रजन्ति ते ।
उपवासं तु कुर्वन्ति ये त्व् आदित्यदिने सदा ॥
[९] जपन्ति च महाश्वेतां ते लभन्ते यथेप्सितम् ।
अहोरात्रेण नक्तेन त्रिरात्रनियमेन च ।
जपमानो महाश्वेताम् ईप्सितं लभते फलम् ॥
विशेषाद् अदित्यदिने जपमनो गणाधिप ।
षडक्षरं महाश्वेतां गच्छेद् वैरोचनं पदम् ॥
“आदित्यहृदयम्” मन्त्रः । “महाश्वेता” ह्रीं ह्रीं स इति मन्त्रः । “षडक्षरः” मन्त्रः “सरोल्काय नमः” इति केचित् । ह्रां ह्रीं सूर्याय इति मन्त्रः ।
तथा ।
यो वै सूर्यदिने भक्त्या भानुं सम्पूज्य श्रद्दया ।
नक्तं करोति पुरुषः स यात्य् अमरलोक्ताम् ॥
आदित्य उवाच ।
यो ‘ब्दम् एकम् प्रकुर्वीत नक्तं मम दिने नरः ।
ब्रह्मचारी जितक्रोधो ममार्चनपरं सदा ॥
संवत्सरान्तम् आसाद्य मद्भक्तांश् चैव वै द्विजान् ।
भोजयित्वा ततो भ्रूयात् प्रीयतां मे दिवाकरः ॥
[१०] एवं भक्तिसमायुक्तो मम लोकं स गच्छति ।
न च मानुष्यकं लोकम् अधुवं प्राप्नुते नरः ॥
इत्य् आदित्यवार नक्तादिव्रतानि
अथादित्यवारे नन्दादिविधिः
तत्र **भविष्यपुराणे **।
ब्रह्मोवाच ।
द्वादशाहः स्मृतो वारो ह्य् आदित्यस्य महात्मनः ।
नन्दो भद्रस् तथा सौम्यः कामदः पुत्रदस् तथा ॥
जयो जयन्तो विजयश् चादित्याभिमुखस् तथा ।
हृदयो रोगहा चैव महाश्वेताप्रियो वरः ॥
शुक्लपक्षस्य षष्ठ्याम् तु माधे मासि गणाधिप ।
यो भवेत् स भवेन् नन्दः सर्वपापभयापहः ॥
तत्र नक्तं स्मृतं पुण्यं घृतेन स्नपनं रवेः ।
अगस्तिकुसुमानीह भानोस् तुष्टिकराणि तु ॥
विलेपनं सुगन्धं च श्वेतचन्दनम् उत्तमम् ।
धूपस् तु गुग्गुलुः श्रेष्ठो नैवेद्यं पूपम् एव च ॥
[११] दत्वा पूर्वं तु विप्राय ततो भुञ्जीत वाग्यतः ।
प्रस्थमात्रं भवेत् पूपं गोधूमजम् अनुत्तमम् ॥
यवोद्भवं वा कुर्वीत सगुडं सर्पिषान्वितम् ॥
“प्रस्थमात्रम्” इति षोडशापूपान्नानि ।
सहिरण्यं च दातव्यं ब्राह्मणे सेतिहासके ।
भौमे दिव्ये ‘थ वा देयं न्यसेद् वा पुरतो रवेः ॥
“दिव्यः” ब्राह्मणो गमः । तदितरब्राह्मणाः “भौमाः” ।
दातव्यो मन्त्रतश् चायं मण्डको ग्राह्य एव हि ।
पूपादिः शनकैर् भक्त्या आदित्यपरमस्य तु ॥
आदित्यतेजसोत्पन्नं राज्ञां तु रविनिर्मितम् ।
श्रेयसे मम विप्र त्वं प्रतीच्छापूपम् उत्तमम् ॥
कामदं सुखदं धन्यं पुत्रदं धनदं तथा ।
सदानैस् तु प्रतीच्छामि मण्डकं भास्करप्रियम् ॥
एताव् एव महामन्त्रौ दानादाने रविप्रियौ ।
अपूपस्य गणश्रेष्ठ श्रेयसे नात्र संशयः ॥
[१२] सैष नन्दविधिः प्रोक्तो नराणां श्रेयसे विभो ।
अनेन विधिना यस् तु नन्दे पूजयते रविम् ॥
सर्वपापविमुक्तात्मा सूर्यलोके महीयते ।
न दारिद्र्यं न रोगाश् च कुले तस्य महात्मनः ॥
यश् चैनं पूजयेद् भानुं न क्षयः सन्ततेः सदा ।
सूरलोकं गतश् चायं राजा भवति भूतले ।
बहुज्ञातिसमायुक्तस् तजसा द्विजसन्निभः ॥
“द्विजसन्निभः” रवितुल्यः ।
इति नन्दविधिः
मासि भाद्रपदे वीर शुक्लपक्षे तु यो भवेत् ।
षष्ठ्यां गणकुलश्रेष्ठ स भद्रः परिकीर्तितः ॥
तत्र नक्तं च यः कुर्याद् उपवासम् अथापि वा ।
हंसयानसमारूधो याति हंससलोकताम् ॥
मालतीकुसुमानीह तथा श्वेतं च चन्दनम् ।
विजयं च तथा धूपं पायसं च तथा परम् ॥
[१३] “विजयो धूपो” भविष्यपुराणोक्तः । तद् यथा ।
वृषणं सिल्हकं विप्र श्रीखण्डम् अगुरुं तथा ।
कर्पूरं च तथा मुस्ता शर्करा सत्वचा द्विज ॥
इत्य् एष विजयो धूपः स्वयं देवेन निर्मितः ॥
“वृषणम्” कस्तूरिका ।
पूजायां भास्करस्येह कुर्यात् त्रिपुरसूदन ॥
इत्थं सम्पूज्य देवेशं मध्याह्ने तु नराधिप ॥
दद्यात् तु दक्षिणां शक्त्या ततो भुञ्जीत वाग्यतः ।
पायसं गणशार्दूल सगुडं सर्पिषा सह ॥
सर्वान् कामान् अवाप्येह पुत्रदारधनादिभिः ।
विमुक्तः सर्वपापेभ्यो व्रजेद् भानुसलोकताम् ॥
एष एव विधिः प्रोक्तो [प्र]यत्नाच् च नराधिप ।
कृत्वा श्रुत्वा च यः पापान् मुच्यते मानवो भुवि ॥
इति भद्रविधिः ।
नक्षत्रं रोहिणी वीर यदा वारे ‘स्य वै भवेत् ।
यात्य् असौ सौम्यतां वीर स सौम्यः परिकीर्तितः ॥
[१४] स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।
अक्षयं स्यान् न सन्देहस् तस्य वारे महात्मनः ॥
नक्तं समास्थितो यो ‘त्र पूजयेद् भास्करं नरः ।
याति लोकं स देवस्य भास्करस्य महात्मनः ॥
रक्तोत्पलानि तत्रैव तथा रक्तं च चन्दनम् ।
सुगन्धश् चापि धूपो ‘त्र नैवेद्यं पायसं परम् ॥
ब्राह्मणाय च दातव्यं भोक्तव्यं चात्मना तथा ।
य एवं पूजयेत् सौम्यं चित्रभानुं गवां पतिम् ॥
स विमुक्तस् तु पापेभ्यस् त्वाष्ट्रीं कान्तिम् अवाप्नुयात् ।
इति सौम्यविधिः
प्राप्ते मार्गशिरे मासि शुक्लषष्ठ्यां तु यो भवेत् ।
स ज्ञेयः कामदो वारः स इष्टो भास्कअस्य तु ॥
त्रयं यः पूजयेद् भानुं भक्त्या शुद्ध्या समन्वितः ।
स मुक्तः सर्वपापेभ्यः प्राप्नुयाच् चण्डदीधितिम् ॥
रक्तचन्दनमिश्राणि करवीराणि सुव्रत ।
धूपं घृताहुतिं वीर भास्कराय प्रयोजयेत् ॥
“धूपं घृताहुतिम्” इति, घृतप्रेक्षेपोद्भवं धूपम् इत्य् अर्थः ।
नैवेद्यं चापि कासारं सुगन्धि तीक्ष्णम् एव च ।
कृत्वोपवासम् अथ वा नक्तं त्रिपुरसुदन ॥
इत्थं प्रपूजितो ह्य् अत्र भास्करो लोकभास्करः ।
[१५] ददाति विपुलान् कामान् तत्र सम्पूजितो रविः ॥
इति कामदविधिः ।
पञ्चतारं भवेद् यत्र नक्षत्रं गोवृषध्वज ।
वारे तु देवदेवस्य स वारः पुत्रदः स्मृतः ॥
“पञ्चतारं” रोहिणी हस्तं च । “यत्र” इति, पुत्रदवारविधौ ।
उपवासो भवेत् तत्र श्राद्धं कार्यं यथा भवेत् ।
प्राशनं चापि पिण्डस्य मधमस्य प्रकीर्तितम् ॥
सोपवासं तु वै भक्त्या पूजयेत् तत्र गोपतिम् ।
धूपमाल्योपहारैश् च दिव्यगन्धसमन्वितैः ॥
एवं पूज्य विवस्वन्तं तस्यैव पुरतो निशि ।
भूमौ सुप्यात् ततो देवीं जपन् श्वेतां महामते ॥
“पूज्य विवस्वन्तम्” इति, रविदिन इति शेषः ।
प्रभाते तु ततः स्नानं कृत्वा दत्वार्घ्यम् उत्तमम् ।
रक्तचन्दनसम्मिश्रैः करवीरैर् गणाधिप ॥
सम्पूज्य ग्रहभूतेशम् अंशुमन्तं त्रिलोचनम् ।
वारं च पूजयित्वा तं ततः श्राद्धं प्रकल्पयेत् ॥
पञ्चभिर् ब्राह्मणैर् देव दिव्यैर् भौमैश् च सुव्रत ।
ब्राह्मणौ गमसञ्ज्ञौ तौ तत्र दिव्यौ प्रकल्पयेत् ॥
त्रयस् तु ब्राह्मणा भौमाः प्रकल्प्यान्धकसुदन ।
कुर्याद् एवं ततः श्राद्धं पार्वणं भास्करप्रिय ॥
[१६] श्राद्धे त्व् अथ समाप्ते तु प्राश्य पिण्डं तु मध्यमम् ।
पुरतो देवदेवस्य स्थित्वा मन्त्रेण सुव्रत ॥
स एष पिण्डो देवेश यो ‘भीष्टं तव सर्वदा ।
अश्नाम पश्य तं तुभ्यं येन मे सन्ततिर् भवेत् ॥
प्रसादात् तव देवेश इति मे भावितं मनः ।
इत्थं सम्पूजितो यत्र भास्करः पुत्रदो भवेत् ॥
अतो ‘यं पुत्रदो वारो देवस्य परिकीर्तितः ॥
इति पुत्रदविधिः ।
दक्षिणे त्व् अयने यः स्यात् स जपः परिकीर्तितः ।
अत्रोपवासो नक्तं च स्नानं दानं जपस् तथा ॥
भवेच् छतगुणं देव भास्करप्रीतये कृतम् ।
तस्मान् नक्तादि कर्तव्यं स स्याच् छतगुणो विधिः ॥
इति जयविधिः
जयन्तेत्य् उत्तरे ज्ञेयो अयने गणनायक ।
वासो देवस्य यः स्याद् वै तत्र पूज्यो दिवाकरः ॥
पूजितस् तत्र देवेशः सहस्रगुणितं फलम् ।
[१७] ददाति देवशार्दूल स्नानदानादिकर्मणि ॥
घृतेन पयसा यत्र स्नानम् इक्षुरसेन च ।
विलेपनं कुङ्कुमं च प्रशस्तं भास्करप्रियम् ॥
धूपक्रिया गुग्गुलुना नैवेद्यं मोदकं प्रियम् ।
इत्थं सम्पूज्य देवेशं कुर्याद् धोमं ततस् तिलैः ॥
ब्राह्मणान् भोजयेत् पश्चान् मोदकांस् तिलशष्कुलीः ।
इत्थं यः पूजयेद् भानुं मित्रवारे गणाधिप ॥
सहस्रगुणितं तस्य फलं देवो ददाति वै ।
स्नानदानव्रतादीनाम् उपवासस्य वा विभो ॥
इति जयन्तविधिः ।
शुक्लपक्षस्य सप्तभ्यां प्राजापत्यर्क्षसंयुतः ।
स ज्ञेयो विजयो नाम सर्वपापभयापहः ॥
तत्र कोटिगुणं सर्वं फलं पुण्यस्य कर्मणः ।
ददाति भगवान् देवः पूजितः स गणाधिप ॥
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।
[१८] नक्तं वाप्य् उपवासश् च सम्पूज्यो ‘त्र दिवाकरः ॥
सप्तलोकाधिपत्यं च प्राप्यते सप्तसप्ततिः ॥
इति विजयविधिः ।
कृष्णपक्षस्य सप्तम्यां माघे मासि भवेच् च यः ।
आदित्याभिमुखो ज्ञेयः शृणु चास्य परं विधिम् ॥
कृत्वैकभक्तं सूर्यस्य वारे त्रिपुरसूदन ।
प्रातःस्नानं ततः कृत्वा पूजयित्वा दिवाकरम् ॥
आदित्याभिमुखस् तिष्ठेद् यावद् अस्तमनं रवेः ।
जपमानो महाश्वेतां स्तम्भम् आश्रित्य सुव्रतः ॥
चतुर्हस्तं मृदुः श्लक्ष्णम् अर्चनं तु समं दृढम् ।
रक्तचन्दनवृक्षस्य स्तम्भं कुर्याद् गणाधिप ॥
तम् आश्रित्य महाबाहो भक्त्या देवं दिवाकरम् ।
पश्यन् जपन् महाश्वेतां तिष्ठेद् आस्तमनं रवेः ॥
गन्धपुष्पोपहारैश् च पूजयित्वा दिवाकरम् ।
ब्राह्मणो ‘न्नं पुरो दत्वा ततो भुञ्जीत वाग्यतः ॥
[१९] इत्थम् एव तु यः कुर्याद् भास्करप्रीतये नरः ।
भानुमांस् तस्य प्रीतः स्यात् स प्रीतश् च ददाति हि ॥
धनधान्यं तथा पुत्रान् आरोग्यं भार्गवीं नृप ।
तस्मात् सम्पूजयेद् अत्र गीर्वाणाधिपतिं हरिम् ॥
“भार्गवी” लक्ष्मी ।
इत्य् आदित्याभिमुखविधिः ।
रविसङ्क्रमणे यः स्याद् रवेर् वारो गणाधिप ।
स ज्ञेयो हृदयो नाम आदित्यहृदयप्रियः ॥
तत्र नक्तं समाश्रित्य देवं सम्पूज्य तत्त्वतः ।
गत्वा चायतनं भानोर् आदित्याभिमुखः स्थितः ॥
जपेद् आदित्यहृदयं सङ्ख्ययाष्टशतं बुधः ।
अथ वास्तमनं यावद् भास्करं चिन्तयेद् धृदि ॥
गृहम् एत्य ततो विप्रान् भोजयेच् छक्तितः शिव ।
भुक्त्वा तु पायसं चैव ततो भूमौ स्वपेद् बुधः ॥
[२०] यो ‘त्र सम्पूजयेद् भानुं भक्त्या श्रद्धासमन्वितः ।
स कामांल् लभते सर्वान् आदित्यहृदये ‘र्पितान् ॥
इति हृदयविधिः ।
पूष्णो वारे यदा भौमं भवेद् वै भगदैवतम् ।
स वारो रोगहा प्रोक्तः सर्वरोगभयापहः ॥
“भगदैवतम्” पूर्वा फल्गुनी । उत्तरा फल्गुनीत्य् एके ।
यो ‘त्र पूजयते भानुं शुभगन्धविलेपनैः ।
सर्वरोगविनिर्मुक्तो याति सञ्ज्ञापतेर् गृहम् ॥
अर्कपत्रपुटे कृत्वा पुष्पाण्य् अर्कस्य सुव्रत ।
देवस्य पुर्ततो रात्रौ भक्त्या सम्पूजयेन् नरः ॥
पूजयित्वार्कपुष्पैस् तम् अर्कम् अर्कप्रियैः सदा ।
प्राशयित्वार्कपुष्पं तु दत्वा विप्राय दक्षिणाम् ॥
भुक्त्वा तु पायसं वीर रात्रौ स्वपिति भूतले ।
अनेन विधिना यस् तु पूजयेद् अत्र वै द्विजम् ॥
[२१] स मुक्तः सर्वरोगैस् तु गच्छेद् दिनकरालयम् ।
तस्माद् अपि व्रजेल् लोकं हुङ्काररववेदिनः ॥
“हुङ्काररववेदिनः” ब्राह्मणाः ।
इति रोगहविधिः ।
यस् त्व् अदित्यग्रहेशस्य वारो देवस्य सुव्रत ।
स्वशाखोक्तप्रियो लोके क्यातो गोश्रुतिभूषण ॥
यस् तु पूजयते तस्मिन् पतङ्गं पन्नगप्रियम् ।
गन्धपुष्पादिधूपैस् तु स्तोरैर् वा विविधैः सदा ॥
सोपवासो गणश्रेष्ठ आदित्यग्रहणे शुचिः ।
जपमानो महाश्वेतां स्वशाखोक्तम् अथापि वा ॥
पूजयेज् जगताम् ईशं तमोनाशनम् आशुगम् ।
पूजयित्वा दिनकरं महाश्वेतां ततो ‘र्चयेत् ॥
पूजयित्वा महाश्वेतां रविं देवं ततो ‘र्चयेत् ।
मह्श्वेतां प्रतिष्ठाप्य गन्धपुष्पैः सुपूजिताम् ॥
तस्या एव पुनः कुर्याद् अग्निकार्यं समाहितः ।
[२२] पूजयित्वा महाश्वेतां स्वशाखोक्तग्रहाधिपम् ॥
ब्राह्मणान् वाचयित्वा तु ततो भुञ्जीत वाग्यतः ।
आदित्यग्रहयुक्ते ‘स्मिन् वारे त्रिपुरसूदन ॥
यत् कर्म क्रियते पुण्यं तत् सर्वं शुभदं भवेत् ।
स्नानदानजपादीनां कर्मणां वृषभध्वज ॥
अनन्तं हि फलं तेषां भवत्य् अस्मिन् न संशयः ।
कृतानां तु गणश्रेष्ठ भास्करस्य वचो यथा ॥
तस्मात् सूर्यदिने कार्यं पुण्यं कर्म विचक्षणैः ।
एकभक्तं च नक्तं चाप्य् उपवासम् अथापि वा ॥
ये त्व् आदित्यदिने कुर्युस् ते यान्ति परं पदम् ।
धन्यं पुण्यं यशस्यं च पुत्रीयं कामदं तथा ॥
तस्मिन् दानम् अपूपस्य गोदानेन समं मतम् ।
द्वादशैते महाबाहो वारा भानोर् महात्मनः ॥
तुष्टिदाः कथितास् तुभ्यं सर्वपापभयापहाः ।
कृत्वैकम् एषां विधिवद् वारं वृषभवाहन ॥
[२३] ततो याति परं लोकं वृषकेतोर् महात्मनः ।
[इति महाश्वेताप्रियविधिः]
इति भविष्यपुराणीयनन्दादिवारविधिः ।
[दिवाकरव्रतम्]
श्रीनारायण उवाच ।
[कृत्वा भूमौ लिखेत् पद्मं शोभनं कर्णिकाचितम् ।]
पत्रैर् द्वादशभिर् युक्तं शोभमानं मनोरमम् ॥
तेषां मध्ये तु चत्वारि तन्मध्ये भास्करं न्यसेत् ॥
“तेषां मध्ये चत्वारि” इति, तेषां द्वादशपत्राणां सम्बन्धीनि चत्वानि पत्राणि पद्ममध्ये कर्णिकासंलग्नानि कार्याणि । अष्टौ तु तद्बाह्ये । एवं द्वादशदलं कृत्वेत्य् अर्थः ।
पूर्वपत्रे न्यसेत् सूरम् आग्नेय्यां तु दिवाकरम् ।
याम्यायां तु विवस्वन्तं निरृत्यां तु भगं न्यसेत् ॥
वरुणं पश्चिमे पत्रे वायव्ये इन्द्रम् एव च ।
आदित्यम् उत्तरे चैव सवितारं ततः परम् ॥
[२४] कर्णिकापूर्वपत्रे च न्यसेद् अर्कस्य वाजिनः ।
दक्षिणेन सहस्रांशुं मार्तण्डं पश्चिमे दले ॥
उत्तरे तु रविं देवं मध्ये भास्करम् एव च ।
एवं विन्यस्य सर्वासु दिक्षु सूर्यार्चनं भवेत् ॥
करवीरार्कपुष्पैश् च चन्दनागुरुचम्पकैः ।
“कालात्मन् सर्वभूतात्मन् पूजये सर्वतोमुख ॥
जन्ममृत्युजराशोकसंसारभयनाशन ।
दारिद्र्यव्यसनध्वंसं श्रीमान् कुरु दिवाकर ॥”
नमस्कारेण मन्त्रेण व्याहृत्या प्रणवादिभिः ।
“अग्निम् ईले नमस् तुभ्यं जातवेद नमो ‘स्तु ते ॥
इषे त्वाय नमस् तुभ्यं इषे त्वोर्जे नमो नमः ।
अग्न आयाहि वीतये अग्निगर्भ नमो ‘स्तु ते ॥
शं नो देवी नमस् तुभ्यं जगच्चक्षुर् नमो नमः ।”
आदित्यवारं हस्तेन पूर्वं गृह्णीत पाण्डव ॥
[ततः प्रत्यादित्यदिनं सप्तवारान् प्रपूजयेत् ।]
एकभक्तेन नकाशी ब्राह्मणान् भोजयेद् दिवा ॥
दक्षिणां तु यथाशक्त्या दद्याद् विप्राय शक्तितः ।
स्थित्वाग्रत इदं ब्रूयाद् भास्करः प्रीयताम् इति ॥
कामजं क्रोधजं वापि मदजं दर्पजं तथा ।
[२५] अपि जन्मसहस्रोत्थं पापं नश्यति तत्क्षणात् ॥
दद्रुकीटजकुष्ठानि श्वासगण्डभगन्दराः ।
तथा गुदव्रणा दुष्टा नाडिकाश् चर्मकीलकाः ॥
अपि जन्मसहस्रेषु नास्य व्याधिभयं भवेत् ।
धनधान्यसमायुक्तो नरः सौभाग्यम् आप्नुयात् ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
विमानवरम् आरूढः सूर्यलोके महीपते ॥
अपुत्रा या भवेन् नारी धनसौभाग्यवर्जिता ।
सुरूपान् लभते पुत्रान् धनं सौभाग्यम् एव च ॥
[इति दिवाकरव्रतम्]
इत्य् आदित्यवारकल्पः ।
अथ सप्तवारव्रतानि
तत्र पद्मपुराणे ।
पुलस्त्य उवाच ।
आदित्यवारं हस्तेन पूर्वम् आदाय भक्तितः ।
नक्तेन क्षपयेत् तावद् यावत् सप्तैति सङ्ख्यया ॥
ततस् तु सप्तमे पूर्णे कुर्याद् ब्राह्मणभोजनम् ।
आदित्यं विश्वसौवर्णं कृत्वा यत्नेन मानवः ॥
सितवस्त्रयुगच्छन्नं छत्रिकापादुके तथा ।
उपानहौ च दातव्ये स्थापयेत् ताम्रभाजने ॥
[२६] तेनैव स्नपनं कृत्वा सम्पूर्णाङ्गद्विजातये ।
दापयेत् कल्पविदुषे ब्राह्मणाय विशेषतः ॥
एवं कृत्वा फलं तस्य भवेद् आरोग्यम् उत्तमम् ।
द्रव्यसम्पत्सुतप्राप्तिर् इति पौराणिकी क्रिया ॥
अविसंवादिनी चेयं शाण्तिपुष्टिप्रदा नृणाम् ।
तद्वच् चित्रासु सङ्गृह्य सोमवारं विचक्षणाः ॥
नक्तेन क्षपेयेद् अष्टौ सोमवारान् प्रयत्नतः ।
प्रत्येकं ब्राह्मणान् भोज्य यथाशक्त्या विचक्षणाः ॥
नवमे तु ततः पूर्णे कुर्याद् ब्राह्मणभोजनम् ।
श्वेतयुग्मं च दातव्यं ततः सोमन्तु दापयेत् ॥
“श्वेतयुग्मं” शुक्लवस्त्रयुग्मम् ।
कांस्यभाजनसंस्थे तु क्षीरसम्पूरितं ततः ।
तद्वच् छत्रं पादुके च तथोपानत्समन्वितम् ॥
सम्पूर्णाङ्गाय दातव्यं ब्राह्मणाय विशेषतः ।
स्वात्याम् अङ्गारं गृह्य क्षपयेन् नक्तभोजनम् ॥
अष्टाव् एतानि यावच् च ततो ब्राह्मणभोजनम् ।
अङ्गारकं तु सौवर्णं स्थापितं ताम्रभाजने ॥
दापयेद् ब्राह्मणार्याय [सं]पूर्णाङ्गाय चैव हि ।
नक्षत्रानुक्रमेणैव गृह्य वारास् तु सप्त वै ॥
उपोष्यैकोत्तरं पश्चात् सौवर्णं दापयेत् सुधीः ।
अग्निकार्यं तु कुर्वीत यथादृष्टं विधानतः ॥
“उपोष्यैकोत्तरम्” इति, एकम् अङ्गम् उपोष्येत्य् अर्थः ।
एवं कृत्वा भवेद् यद् वै तन् निबोध नराधिप ।
[२७] सर्वे ग्रहाः सौम्यरूपा भवन्ति
नश्यन्ति रोगास् तुष्टिम् आयान्ति देवाः ।
तृप्यन्ति नाम पितरस् तर्पिताः स्युर्
दुःस्वप्नं च श्रवणान् नाशम् एति ॥
यदि सोमो रविसुतो भास्करो धरणीसुतः ।
केतुश् च मूर्ध्नि तिष्ठन्ति रौद्राः पीडाकरा ग्रहाः ॥
अनेन कृतमात्रेण सर्वे सौम्या भवन्ति हि ।
य एवं कुरुते राजन् सदा भक्तिसमन्वितः ॥
तस्य सानुग्रहाः सर्वे यच्छन्ति विजयं नृप ।
शनैश्चरं राहुकेतू लोहपात्रे तु विन्यसेत् ॥
होमम् आराधयेद् धीमान् ब्राह्मणेभ्यश् च दापयेत् ।
कृष्णवस्त्रयुगं देयम् एतेषां प्रीणनाय वै ॥
सौवर्णकाश् च दातव्या शान्तिश्रीविजयेप्सुभिः ।
व्रतान्ते सर्व एते हि ग्रहाः सौवर्णका नृप ।
दातव्या शान्तिम् इच्छद्भिर् व्रतान्ते द्विजभोजनम् ॥
यथाशक्त्या दक्षिणां तु ग्रहाणां प्रीतये तथा ।
अल्पायासेन राजेन्द्र सर्वान् कामान् अवाप्नुयात् ॥
इति सप्तवारव्रतानि ।
[वेश्यादित्यवारानङ्गदानव्रतम्]
मत्स्यपुराणे ।
कृष्णपत्नीः प्रति दालभ्य उवाच ।
यथा यथा व्रतं सम्यग् उपदिश्याम्य् अहं ततः ।
[२८] अविचारेण सर्वाभिर् अनुष्ठेयं तु तत् पुनः ।
संसारोत्तारणायालम् एतद् वेदविदो विदुः ॥
यदा सूर्यदिने हस्तः पुष्यो वाथ पुनर्वसुः ॥
भवेत् सर्वौषधिस्ननं सम्यङ् नारी समाचरेत् ।
तस्य पञ्चशरस्यापि सन्निधानत्वम् इष्यते ॥
अर्चयेत् पुण्डरीकाक्षम् अनङ्गस्यानुकीर्तनैः ।
कामाय पादौ सम्पूज्य जङ्घे वै मोहकारिणे ॥
मेढ्रं कन्दर्पनिधये कटिं प्रीतिमते नमः ।
नाभिं सौख्यसमुद्राय रामाय च अथोदरम् ॥
हृदयं हृदयेशाय स्तनाव् आह्लादकारिणे ।
वामाङ्गं पुष्पचापाय पुष्पबाणाय दक्षिणम् ॥
नमो ‘नन्ताय वै मौलिं विलोलायेति मूर्धजान् ।
सर्वात्मने शिरस् तद्देवदेवस्य पूजयेत् ॥
नमः शिवाय शान्ताय पाशाङ्कुशधराय च ।
गदिने पीतवस्त्राय शङ्खचक्रधराय च ॥
नमो नारायणायेति कामदेवाय ते नमः ।
नमः शान्त्यै नमः प्रीत्यै नमो मत्यै नमः श्रियै ॥
[२९] नमः पुष्ट्यि नमस् तुष्ट्यै नमः सर्वात्मसम्पदे ।
एवं सम्पूज्य गोविन्दम् अनङ्गात्मानम् ईश्वरम् ॥
गन्धैर् माल्यैस् तथा धूपैर् निवेद्यैश् चपि भूरिभिः ।
तत्र चाहूय विधिवद् ब्राह्मणं वेदपारगम् ॥
अव्यङ्गावयवं पूज्य गन्धधूपार्चनादिभिः ।
शालेयतण्डुलप्रस्थं घृतपात्रेण संयुतम् ॥
तस्मै विप्राय तं दद्यान् माधवः प्रीयताम् इति ।
इष्टाहारं च कुर्वीत तम् एव द्विजसत्तमम् ॥
रत्यर्थं कामदेवो ‘यम् इति चित्ते ‘वधार्यताम् ।
यद्य् इच्छति विप्रेन्द्रस् तत् तत् कुर्याद् विलासिनी ॥
सर्वभावेन चात्मानम् अर्पयेत् स्मितभाषिणी ।
एवम् आदित्यवारेण व्रतम् एतत् समापयेत् ॥
तण्डुलप्रस्थदानं च यावन् मासास् त्रयोदश ।
ततस् त्रयोदशे मासे सम्प्राप्ते तस्य भामिनी ॥
विप्रस्योपस्करैर् युक्तां शय्यां दद्याद् विचक्षणा ।
सोपधानकविश्रामां स्वास्तीर्णास् तरणां शुभाम् ॥
दीपकोपानहच्छत्रं पादुकासनसंयुतम् ।
सपत्नीकम् अलङ्कृत्य हेममुद्राङ्गुलीयकैः ॥
[३०] सूक्ष्मवस्त्रैः सकटकैर् धूपमाल्यानुलेपनैः ।
कामदेवं सपत्नीकं गुडकुम्भोपरि स्थितम् ॥
ताम्रपात्रासनगतं हेमनेत्रघटान्वितम् ।
सुकांस्यभाजनोपेतम् इक्षुदण्डसमन्वितम् ॥
दद्याद् अनेन मन्त्रेण तथैवैकां पयस्विनीम् ।
यथान्तरं न पश्यामि कामकेशवयोः सदा ॥
तथैव सर्वकामाप्तिर् अस्तु विष्णो सदा मम ।
यथा न कामिनी देहात् प्रयाति तव केशव ॥
तथा ममापि देवेश शरीरं स्वीकुरु प्रभो ।
तथा च काञ्चनं देवं प्रतिगृह्य द्विजोत्तमः ॥
को ‘दात् कामो ‘दाद् इति वैदिकं मन्त्रम् उच्चरेत् ।
ततः प्रदकीनीकृत्य विसृज्य द्विजपुङ्गवम् ॥
शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत् ।
ततः प्रभृति यो ‘न्यो ‘पि रत्यर्थं गेहम् आगतः ॥
सम्मान्यः सूर्यवारेण स सम्पूज्यो भवेत् सदा ।
एवं त्रयोदशं यावन् मासम् एकं द्विजोत्तम ॥
तर्पयेत यथाकामं प्रोषिते ‘न्यं समाहरेत् ।
तदनुज्ञां निषेवेत यावद् अस्यागमो भवेत् ॥
एवम् एकं द्विजं शान्तम् आचारज्ञं विचक्षणम् ।
सम्पूजयेच् चतुःप्राज्ञम् अपरं वरदाज्ञया ॥
[३१] आत्मनो ‘पि यदा विघ्नं गर्भसूतकराजकम् ।
दैवं वा मानुषं वा स्याद् उपरागेण वा ततः ॥
लक्ष्मीर् वियुज्यते देव न कदाचिद् यथा तव ।
शय्या ममाप्य् अशून्यास् तु तथैव मधुसूदन ॥
गीतवादित्रनिर्घोषं देवदेवस्य कारयेत् ।
एतद् धि कथितं सम्यग् भवतीनां विशेषतः ॥
सा वारानष्टपञ्चाशद् यथाशक्त्या समापयेत् ।
सुधर्मो ‘यं मतो भव्यो वेशानाम् इह सर्वदा ॥
पुरुहूतेन यत् प्रोक्तं दानवीषु पुरा मया ।
तद् इदं साम्प्रतं सर्वं भवतीष्व् अपि युज्यते ॥
सर्वपापप्रशमनम् अनन्तफलदायकम् ।
कल्याणिनीनां कथितं तत् कुरुध्वं वराङ्गनाः ॥
करोति याशेषम् अखण्डम् एतत्
कल्याणिनी माधवलोकसंस्था ।
सा पूजिता देवगणैर् अशेषैर्
आनन्दकृत्स्थानम् उपैत् विष्णोः ॥
इति वेश्यादित्यवाराङ्गदानव्रतः ।
[आदित्यवारनक्तव्रतम्]
नन्दिकेश्वर उवाच ।
यत् तद् इष्टात्मनो नाम परं ब्रह्म सनातनम् ।
[३२] सूर्याग्निचन्द्ररूपेण तत् त्रिधा जगति स्थितम् ।
तद् आराध्य शुभं विप्र् प्राप्नोति कुशलं सदा ॥
तस्माद् आदित्यवारेण सदा नक्ताशनो भवेत् ।
यदा हस्तेन संयुक्तम् आदित्यस्य तु वासरम् ॥
तदा शनिदिने कुर्याद् एकभक्तं विमत्सरः ।
तदारभ्य सदा कार्यं नक्तम् आदित्यवासरे ॥
नक्तम् आदित्यवारेण भोजयित्वा द्विजोत्तमान् ।
पत्रैर् द्वादशभिर् युक्तं रक्तचन्दनपङ्कजम् ॥
विलिख्य विन्यसेत् पूर्वं नमस्कारेण पूर्वतः ।
दिवाकरं तथाग्नेये विवस्वन्तम् अतः परम् ॥
भगं तु नैरृते तद्वद् वरुणं पश्चिमे दले ।
महेन्द्रम् अनिले तद्वद् आदित्यं च तथोत्तरे ॥
शान्तम् ईशानभागे तु नमस्कारेण विन्यसेत् ।
कर्णिकापूर्वपत्रे तु सूर्यस्य तुरगान् न्यसेत् ॥
दक्षिणे यमनामानं मार्तण्डं पश्चिमे दले ।
उत्तरेण रविं देवं कर्णिकायां तु भास्करम् ॥
रक्तपुष्पोदकेनार्घ्यं सतिलारुणचन्दनैः ।
तस्मिन् न्यसेत् ततो दद्याद् इमं मन्त्रम् उदीरयेत् ॥
[३३] “कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।
यस्माद् अग्नीन्द्ररूपस् त्वम् अतः पाहि प्रभाकर ॥
अग्निम् ईले नमस् तुभ्यम् इषे त्वोर्जिति भास्कर ।
अग्न आयाहि वरद नमस् ते ज्योतिषां पते ॥
अर्घ्यं दत्वा विसृज्याथ निशि तैलविवर्जितः ।
भुञ्जीत वत्सरान्ते तु भास्करं संस्मरन् मुहुः ॥
प्राक्तने ‘ह्नि शनौ चैव तैलाभ्यङ्गं विवर्जयेत् ।
वत्सरान्ते कारयित्वा काञ्चनं कमलोत्तमम् ॥
पुरुषं च यथाशक्त्या कारयेद् द्विभुजं तथा ।
सुवर्णशृङ्गी कपिलां यथार्हां
रौप्यैः खुरैः कांस्यदोहां सवत्साम् ।
पूर्णे गुडस्योपरि ताम्रपात्रे
निधाय पद्मे पुरुषं च दद्यात् ॥
सम्पूज्य रक्ताम्बरमाल्यधूपैर्
द्विजं च तक्तैर् अथ वा पिशङ्गैः ।
प्रक्षालयित्वा पुरुषं सपद्मं
दद्याद् अनेकव्रतदानकाय ॥
अव्यङ्गरूपाय जितेन्द्रियाय
कुटुम्बिने देयम् अनुद्धताय ।
नमो नमः पापविनाशनाय
विश्वात्मने सप्ततुरङ्ग्माय ॥
[३४] सामर्ग्ययजुर्वासनिधे ‘भिधात्रे
भवाब्धिपोताय जगत्सवित्रे ।
त्रयीमयाय त्रिगुणात्मने नमस्
त्रिलोकनाथाय नमो नमस् ते ॥
इत्य् अनेन विधिना समाचरंश्
छन्दम् एकम् अपि यस् तु मानवः ।
सो ‘धिरोहति विनष्टकल्मषः
सूर्यधाम धुरतां परावलिः ॥
कर्मसङ्क्षयम् अथाप्य भूपतिः
शोकदुःखभयरागवर्जितः ।
द्वीपसप्तकपतिर् भवेत् पुनर्
धर्ममूर्तिर् अमितौजसा युतः ॥
या च भर्तृगुरुदेवतत्परा
वेदमूर्तिदिनरात्रम् आचरेत् ।
सापि लोकम् अमरेशपूजिता
याति नारद रवेर् न संशयः ॥
इत्य् आदित्यवारनक्तव्रतानि ।
इति कल्पतरौ व्रतकाण्डे वारव्रतानि
[३५]
अथ तिथिव्रतानि
अथ प्रतिपदादितिथिव्रतानि
तत्र **भविष्यपुराणे **।
सुमन्तुर् उवाच ।
शृणु कौरव कर्माणि तिथिगुह्याश्रितानि तु ।
श्रुत्वैव पापहानिः स्यात् कृत्वानन्तफलं लभेत् ॥
प्रतिपदि क्षीराशनः । पुण्यप्राशनो द्वितीयायाम् । लवणवर्जं तृतीयायाम् । तिलान् अश्नीयाच् चतुर्थ्याम् । क्षीराशनः पञ्चम्याम् । फलाशनः षष्ठ्याम् । शाकाशनः सप्तम्याम् अष्टम्यां वापि । पिष्टाशनो नवम्याम् । अनग्निपक्वाहारो दशम्याम् । एकादश्यां घृताशनः । द्वादश्यां पायसाहारः । त्रयोदश्यां गोमूत्राहारः । चतुर्दश्यां यवाहारः । कुशोदकप्राशनं पञ्चदश्याम् । एष प्राशनविधिस् तिथीनाम् । एवं चानेन पक्षम् एकं यो वर्तयति सो ‘श्वमेधफलं दशगुणम् अवाप्नोति । स्वर्गे मन्वन्तरं यावत् प्रतिनिवसति । अथोपगीयमानो ‘प्सरोगन्धर्वैश् चतुर्युगानां दशशतं यावत् प्रतिवसति । तथाष्टमासपारणे राजसूयाश्वमेधफलं सहस्रगुणं प्राप्नोति । स्वर्गे चतुर्दश मन्वन्तराणि यावतिप्रतिवसति । उपगीयमानो ‘प्सरोगन्धर्वैर् य एवं नियमस्थः स त्व् एकम् एकं वर्तते स विष्णुलोके कालम् अनन्तं प्रतिवसति । य एवं नियमवान् राजन्न् आश्वयुजनवम्यां माघसप्तम्यां वैशाखतृतीयायां कार्तिकपौर्णमास्यां तिथौ व्रतानि गृह्णाति ब्रह्मचारी गृहस्थो वानप्रस्थो नरो नारी वा शूद्रो वा प्रयतमानसः सो ‘नन्तं ब्रह्मसालोक्यं गच्छति ।
[इति प्रतिपदादिव्रतम् ]
[क्षीरप्रतिपद्व्रतम्]
शतानीक उवाच ।
द्विजैतास् तिथयः प्रोक्ताः सङ्क्षेपान् न तु विस्तरात् ।
विस्तरेणैव मे भूयः प्रब्रूहि द्विजसत्तम ॥
रहस्यं यत् तिथीनां च देवतानां च चेष्टितम् ।
यानीष्टानि च देवानां भोज्यानि नियमांश् तथा ॥
सुमन्तुर् उवाच ।
देवतानां रहस्यानि व्रतानि नियमांस् तथा ।
तान् शृणुष्व महाभाग गदतो मम मानद ॥
[३७] तिथीनां प्रवरा यस्माद् ब्रह्मणा समुदाहृता ।
प्रतिपादिता पदे पूर्वे प्रतिपत् तेन चोच्यते ॥
अस्यान्ते कथयिष्यामि चोपवासविधिं परम् ॥
कार्तिक्यां माघसप्तम्यां वैशाख्यां च युगादिषु ।
नियमोपवासं प्रथमं ग्राहयेच् च विधानवित् ॥
या तिथिर् नियमं कर्तुं शक्या समनुगच्छति ।
तस्यां तिथौ विधानं यत् तन् निबोध द्विजोत्तम ॥
यदा वै प्रतिपद्यां तु गृह्णीयान् नियमं नृप ।
चतुर्दश्यां कृताहारः सङ्कल्पं परिकल्पयेत् ॥
अमावास्यां न भुञ्जीत त्रिकालं स्नानम् आचरेत् ।
पवित्राणि जपेन् नित्यं गायत्रीं शिरसा सह ॥
अर्चयित्वा विधानेन गन्धमाल्यैर् द्विजोत्तमान् ।
[३८] शक्त्या क्षीरं प्रदद्यात् तु ब्रह्मा मे प्रीयतां विभुः ॥
ततो भुञ्जीत गोक्षीरम् अनेन विधिना नृप ।
एष एव विधिर् दृष्टः सर्वासु तिथिषु नृप ॥
संवत्सरे गते काले व्रतम् अस्य समपयेत् ।
व्रतान्ते यत् फलं तस्य तन् निबोध नराधिप ॥
विमुक्तपापशुद्धस्य दिव्यदेहस्य देहिनः ।
ब्रह्मा ददाति सन्तुष्टो विमानम् अमितौजसम् ॥
अव्याहतगतिं दिव्यम् अप्सरोगरसेवितम् ।
रमयित्वा सुरुचिरं दैवतैः सह देववत् ॥
इह चागत्य विप्रत्वं दश जन्मान्य् असौ रमेत् ।
वेदवेदाङ्गविद् विज्ञो विद्वान् दीर्घायुर् एव च ॥
भोगी धनपतिर् दाता जायते ‘सौ कृते युगे ।
क्षत्रियो वैश्यः शूद्रो वा ब्राह्मणत्वम् अवाप्नुयात् ॥
हैहयैस् तालजङ्घैश् च तुरुष्कैर् यवनैः शकैः ।
उपोषिता इहात्रैव ब्राह्मणत्वं च लिप्सिताः ॥
[इति क्षीरप्रतिपद्व्रतम्]
[धन्यप्रतिपद्व्रतम्]
तत्र वराहपुराणे ।
अगस्त्य उवाच ।
अथातः सम्प्रवक्ष्यामि धन्यव्रतम् अनुत्तमम् ।
[३९] येन सद्यो भवेद् धन्यो ह्य् अधन्यो ‘पि हि यो भवेत् ॥
मार्गशीर्षे सिते पक्षे प्रतिपद् या तिथिर् भवेत् ।
तस्यां नक्तं प्रकुर्वीत रात्रौ विष्णुं च पूजयेत् ॥
वैश्वानराय पादौ तु अग्नये चोदरं तथा ।
हविर्भुजाय च उरो द्रविणायेति वै भुजे ॥
संवर्तायेति च शिरो ज्वलनायेति सर्वतः ।
अभ्यर्च्यैवं विधानेन देवदेवं जनार्दनम् ॥
तस्यैव पुरतः कुण्डं कारयित्वा विधानतः ।
होमं तत्र च कुर्वीत एतैर् मन्त्रैर् विचक्षणः ॥
“एतैर् मन्त्रैः” वैश्वानरायेति प्रागुक्तैः ।
ततस् तु यावकं चान्नं भुञ्जीत घृतसंयुतम् ।
कृष्णपक्षे ‘प्य् एवम् एव चातुर्मास्याम् तु यावकम् ॥
चैत्रादिषु च भुञ्जीत पायसं सघृतं बुधः ।
श्रावणादिषु सक्तूंश् च ततश् चैतत् समाप्यते ॥
समाप्ते च व्रते वह्निं काञ्चनं कारयेन् नृप ।
रक्तवस्त्रयुगच्छन्नं रक्तपुष्पानुलेपनम् ॥
कुङ्कुमेन तथा लिप्य ब्राह्मणं त्व् एवम् एव तु ।
सर्वावयवसम्पूर्णं गुणाढ्यं प्रियदर्शनम् ॥
पूजयित्वा विधानेन रक्तवस्त्रयुगेन च ।
पश्चात् प्रदद्यात् तं तस्य मन्त्रेणानेन मन्त्रवित् ॥
“धन्यो ‘स्मि धन्यकर्मा च धन्यवेषो ‘स्मि धन्यवान् ।
धन्येनानेन चीर्णेन व्रतेन स्यां सदा सुखी ॥”
[४०] एवम् उच्चार्य तं विप्रे न्यसेत् कोशम् इवात्मनः ।
सद्यो धन्यत्वम् आप्नोति यो ‘पि स्याद् भाग्यवर्जितः ॥
इह जन्मनि सौभाग्यं धनं धान्यं च पुष्कलम् ।
अनेन कृतमात्रेण जायते नात्र संशयः ॥
प्राग्जन्मसञ्चितं पापं वह्निर् दहति तस्य वै ।
दग्धपापः स शुद्धात्मा सो ‘मुत्रेह च नन्दति ॥
इति प्रतिपद्धन्यव्रतम् ।
अथ द्वितीयाव्रतानि
[पुष्प्द्वितीयाव्रतम्]
तत्र भविष्यपुराणे ।
रूपं सुरूपं यो वापि तथा च प्रवराः स्त्रियः ।
कार्तिके शुक्लपक्षस्य द्वितीयायां नराधिप ॥
पुष्पाहारो वर्षम् एकं वसेत् स नियतात्मवान् ।
कालप्राप्तानि यानि स्युर् हविष्यकुसुमानि च ॥
भुञ्जीत तानि दत्वा तु ब्राह्मणेभ्यो नराधिप ।
सुवर्णस्य च पुष्पाणि गवा सह ददाति यः ॥
व्रतान्ते तस्य सन्तुष्टौ देवौ त्रिभुवनेश्वरौ ।
दत्तः कामांस् तथा दिव्यान् विमानम् अमितौजसम् ॥
सुचिरं देवनारीभिर् लोके च रमते ‘श्विनोः ।
[४१] इह चागत्य कल्पान्ते द्विजो विप्रपुरस्कृतः ॥
वेदवेदाङ्गविद्वान् स्यात् सप्तजन्मान्तराण्य् असौ ।
दाता दान्तमतिर् वाग्मी चाधिव्याधिविवर्जितः ॥
पुत्रपौत्रैः परिवृतः सह पत्न्या रमेच् चिरम् ।
मध्यदेशे सुरम्ये च धर्मिष्ठो राज्यभाग् भवेत् ।
कथितेयं मया तुभ्यं द्वितीया पुष्पसञ्ज्ञिता ॥
“कार्तिके शुक्लपक्षस्य” इति, कार्तिकशुक्लद्वितीयायां व्रतम् आरभ्यान्यास्व् अपि शुक्लद्वितीयास्व् एवं वर्षपर्यन्तं पुष्पाहारो व्रतं कुर्याद् इत्य् अर्थः । “हविष्यकुसुमानि” देवपूजार्हाणि भक्षयेच् चाविरोधीनि । अश्विनाव् अत्र पूजनीयौ । तयोर् एवात्र फलप्रदत्वेन श्रवणात् ।
इति पुष्पद्वितीयाव्रतम्
[अशून्यशयनव्रतम्]
सुमन्तुर् उवाच ।
अशून्यशयनां नाम द्वितीयां शृणु भारत ।
याम् उपोष्य न वैधव्यं स्त्री प्रयाति नराधिप ॥
पत्नीवियुक्तश् च नरो न कदाचित् प्रजायते ।
[४२] “उपोष्य” इत्य् अत्रोपवसन् । उपवसनं च पुनर् अनशनम् । “नक्तं भुञ्जीत” इत्य् अग्रे ‘भिधानात् ।
कृष्णपक्षे द्वितीयायां श्रावणे मासि भारत ॥
इदम् उच्चारयेत् स्नातः प्रणम्य च जगत्पतिम् ।
“श्रीवत्सधारिन् श्रीवास श्रीकान्त श्रीपते ‘व्यय ॥
गार्हपथ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ।
शुचयो मा प्रणश्यन्तु मा प्रणश्यन्तु निर्जराः ।
याम्यगा मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ॥
“शुचयः” अग्नयः । “याम्यगाः” पितरः ।
लक्ष्म्या वियुज्यते देवो न कदाचिद् यथा भवान् ।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम् ॥
लक्ष्म्या न शून्यं व्रद यथा ते शयनं सदा ।
शय्या ममाप्य् अशून्यास् तु तथात्र मधुसूदन ॥”
[४३] एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्यास् तथा हरेः ।
फलानि दद्याच् छय्यायाम् अभीष्टानि जगत्पतेः ॥
नक्तं प्रणम्यायतने हरिं भुञ्जीत वाग्यतः ।
“नक्तं भुञ्जीत” इत्य् अन्वयः ।
ब्राह्मणाय द्वितीये ‘ह्नि शक्त्या दद्यात् तु दक्षिणाम् ॥
यानि तत्र महाबाहो काले सन्ति फलानि च ।
मधुराणि न तीव्राणि न चापि कटुकानि च ॥
दातव्यानि नृपश्रेष्ठ स्वशक्त्या शयनं नृप ।
मधुराणि च दत्वा तु मनोवल्लभतां व्रजेत् ॥
तस्मात् कटुकतीव्राणि स्त्रीलिङ्गानि च वर्जयेत् ।
खर्जूरमातुलुङ्गानि स्थितेन शिरसा सह ॥
फलानि शयने राजन् यज्ञभागहरस्य तु ।
एतान्य् एव तु विप्राय गाङ्गेयसहितानि तु ॥
द्वितीये ‘ह्नि प्रदेयानि भक्त्या शक्त्या च भारत ।
वासोदानं तथा धान्यफलदानसमन्वितम् ॥
[४४] “स्थितेन शिरसा” नालिकेरेण विद्यमानवृन्तेनेत्य् अर्थः । “यज्ञभागहरः” यज्ञपुरुषः । “गाङ्गेयम्” अत्र सुवर्णम् ।
एवं करोति यः सम्यङ् नरो मासचतुष्टयम् ।
तस्य जन्मत्रयं वीर गृहभङ्गो न जायते ॥
“मासचतुष्टयम्” कृष्णद्वितीयास्व् इति शेषः ।
अशून्यशयनश् च स्याद् धर्मकामार्थसाधकः ।
भ*त्यव्याहतैश्वर्यः पुरुषो नात्र संशयः ॥
नारी वा राजधर्मज्ञा व्रतम् एतद् यथाविधि ।
या करोति न शोच्यासौ बन्धुवर्गस्य जायते ॥
वैधव्यं दुर्भगत्वं च भर्तृत्यागं च सत्तम ।
नाप्नोति जन्मत्रितयम् एतत् कृत्वा महाव्रतम् ॥
इत्य् एषा कथिता राजन् द्वितीया तिथिर् उत्तमा ।
याम् उपोष्य नरो राजन्न् ऋद्धिं वृद्धिं श्रियं व्रजेत् ॥
इत्य् अशून्यशयनं द्वितीयाव्रतम् ।
मत्स्यपुराणे ।
ब्रह्मोवाच ।
भगवन् पुरुषस्येह स्त्रियाश् च विरहादिकम् ।
शोकव्याधिभयं दुःखं न भवेद् येन तद् वद ॥
[४५] श्री भगवान् उवाच ।
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदन ।
क्षीरार्णवे सलक्ष्मीकः सदा वसति केशवः ॥
तस्यां सम्पूज्य गोविन्दं सर्वान् कामान् समश्नुते ।
गोभूहिरण्यदानादि सप्तकल्पशतानुगम् ॥
अशून्यशयना नाम द्वितीया सा प्रकीर्तिता ।
तस्यां सम्पूजयेद् विष्णुम् एभिर् मन्त्रैर् विशेषतः ॥
“श्रीवत्सधारिन् श्रीकान्त श्रीधाम श्रीपते ‘व्यय ।
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ॥
लक्ष्म्या वियुज्यते देवो न कदाचिद् यथा हरिः ।
तथा कलत्रसम्बन्धो देव मात्मा वियुज्यताम् ॥
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा ।
शय्या ममाप्य् अशून्यास्तु तथैव मधुसूदन ॥”
गीतवादित्रनिर्घोषं देवदेवस्य कारयेत् ।
घण्टा भवेद् अशक्तस्य सर्ववाद्यमयी यतः ॥
एवं सम्पूज्य गोविन्दम् अश्नीयात् तैलवर्जितम् ।
नक्तम् अक्षारलवणं यावत् तत् स्याच् चतुष्टयम् ॥
ततः प्रभाते सञ्जाते लक्ष्मीपतिसमन्विताम् ।
दीपान्नभोजनैर् युक्तां शय्यां दद्याद् विचक्षणः ॥
पादुकोपानहच्छत्रचामरासनसंयुताम् ।
[४६] अभीष्टोपस्करैर् युक्तां शुक्लपुष्पाम्बरान्विताम् ॥
सोपधानकविश्रामां फलैर् नानाविधैर् युताम् ।
तथाभरणधान्यैश् च यथाशक्त्या समन्विताम् ॥
अव्यङ्गाय च विप्राय वैष्णवाय कुटुम्बिने ।
दातव्या वेदविदुषे न च कुप्येत कस्यचित् ॥
तत्रोपवेश्य दाम्पत्यम् अलङ्कृत्य विधानतः ।
पत्न्यास् तु भाजनं दद्याद् भक्ष्यभोज्यसमन्वितम् ॥
ब्राह्मणस्यापि सौवर्णीम् उपस्करसमन्विताम् ।
प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत् ॥
एवं यस् तु पुमान् कुर्याद् अशून्यशयनं हरेः ।
वित्तशाठ्येन रहितो रामायणपरायणः ॥
न तस्य पत्न्या विरहः कदाचिद् अपि जायते ।
नारी वाविधवा ब्रह्मन् यावच् चन्द्रार्कतारकम् ॥
न विरूपं न शोकार्तं दाम्पत्यं जायते क्वचित् ।
न पुत्रपशुरत्नानि क्षयं यान्ति पितामह ॥
सप्तकल्पसहस्राणि सप्तकल्पशतानि च ।
कुर्वन्न् अशून्यशयनं विष्णुलोके महीयते ॥
इत्य् अशून्यशयनव्रतम् ।
[४७]
[कान्तिव्रतम्]
वराहपुराणे ।
अगस्त्य उवाच ।
अथातः सम्प्रवक्ष्यामि कान्तिव्रतम् अनुत्तमम् ।
द्वितीयायां तु राजेन्द्र कार्तिकस्य सिते दिने ॥
नक्तं कुर्वीत यत्नेनाप्य् अर्चयेद् बलकेशवौ ।
बलदेवाय पादौ तु केशवाय शिरो ‘र्चयेत् ॥
एवम् अभ्यर्च्य मेधावी वैष्णवं रूपम् उत्तमम् ।
परं स्वरूपं सोमाख्यं द्विकलं तद्दिने ‘अर्चय्ते ॥
दद्याद् अर्घ्यं च मतिमान् मन्त्रेण परमेष्ठिनः ।
“नमो ‘स्त्व् अमृतरूपाय सर्वौषधिधराय च ॥
यज्ञलोकाधिपतये सोमाय परमात्मने ।”
अनेन खलु मन्त्रेण दत्वार्घ्यं शशिने नृप ॥
रात्रौ सविप्रो भुञ्जीत यवान्नं सघृतम् नृप ।
फाल्गुनादिचतुष्ठ्यां तु पायसं सघृतं शुचिः ॥
तिलहोमं प्रकुर्वीत कार्तिके तु यवैस् तथा ।
आषाढादिचतुष्ट्यां तु घृतहोमं तु कारयेत् ॥
नक्तं तिलान्नं भुञ्जीत एष पूर्वविधिक्रमः ।
[४८] अतः संवत्सरे पूर्णे कृत्वा सोमं तु राजतम् ॥
सितवस्त्रयुगच्छन्नं सितपुष्पानुलेपनम् ।
एवम् एव द्विजं पूज्य ततस् तं प्रतिपादयेत् ॥
“कान्तिमान् अश्विलोके तु सर्वज्ञः प्रियदर्शनः ।
त्वत्प्रसादात् सोमरूपी नारायण नमो ‘स्तु ते ॥”
अनेन खलु मन्त्रेण दत्वा विप्राय वाग्यतः ।
कृतमात्रे ततस् तस्मिन् कान्तिमान् जायते नरः ॥
आत्रेयेणापि सोमेन कृतम् एतत् पुरा नृप ।
तस्य व्रतान्ते सन्तुष्टः स्वयम् एव जनार्दनः ॥
[इति कान्तिव्रतम्]
इति द्वितीयाव्रतानि ।
अथ तृतीयाव्रतानि
[अलवणतृतीयाव्रतम्]
तत्र भविष्यपुराणे ।
सुमन्तुर् उवाच ।
पतिव्रता पतिप्राणा पतिशुश्रूषणे रता ।
एवंविधापि या युक्ता शुचिसम्भोजना सती ॥
सोपवासा तृतीयायां लवणं परिवर्जयेत् ।
“सोपवासा” इति, व्रतारम्भे द्वितीयायां कृतोपवासा तृतीयायां लवणं परिवर्जयेद् इत्य् अर्थः ।
[४९] सा वै गृह्णातु वै भक्त्या व्रतम् आमरणान्तिकम् ॥
गौरी ददाति सन्तुष्टा रूपं सौभाग्यम् एव च ।
लावण्यं ललितं हृद्यं श्लाघ्यं पुंसां मनोनुगम् ॥
पुंसां मनोरमा नारी भर्ता भार्यामनोरमः ।
गौरीव्रतेन लभते राजन् लवणवर्जनात् ॥
उमया च पुरा प्रोक्तं यद् वाक्यं तन् निबोध मे ।
इदं व्रतं प्रति विभो धर्मराजस्य शृण्वतः ॥
मम व्रतम् इदं श्रेष्ठं सौभाग्यकरणं नृणाम् ।
भर्त्रा तु नियता नारी व्रतम् एतच् चरिष्यति ॥
सा च मोदिष्यते भर्त्रा यावद् भर्ता हरो मम ।
या च कल्याणभर्तारं विन्दते शोभना सती ॥
सा त्व् इदं व्रतम् उद्दिश्य भवेद् अक्षारभोजना ।
मच्चित्ता मन्मनाः कुर्यान् मद्भक्ता मत्परिग्रहा ॥
गौरी संस्थाप्य सौवर्णी गन्धालङ्कारभूषिताम् ।
वस्त्रैः सुसूक्ष्मैः संवीतां पुष्पमण्डनमण्डिताम् ॥
लवणं सगुडं तैलं दद्याच् छुक्ले निवेदयेत् ।
कटुकन्दं जीरकं च शङ्खं पत्रं च भारत ॥
“शुक्ले” पक्ष इति शेषः । “कटुकन्दम्” आर्द्रकम् ।
गुडपूपास् तथा पूपाः खण्डवेष्टास् तथा नृप ।
[५०] ब्राह्मणे व्रतसम्पन्ने प्रदेयाः सुबहुश्रुते ॥
भुक्ते त्व् अर्चा सदा देया यथाशक्त्या हिरण्मयी ।
धनहीनैस् तु भक्त्या वै मधुक्षीरमयी नृप ॥
अक्षारलवणं रात्रौ भुङ्क्ते वीर स्ववाग्यतः ।
गौरी सन्निहिता नित्यं भूमौ संस्तरशायिनी ॥
भर्तारं लभते कन्या यद् वाञ्छति मनोनुगम् ।
सुचिरं सह भर्तारं क्रीडयित्वा त्व् इहैव शा ॥
सन्ततिं च प्रतिष्टाप्य सह तेनैव गच्छति ।
इह लोकात् परे लोके भोगश् चित्रशिखण्डिनाम् ॥
विधवा तु यदा राजन् देव्या व्रतपरायणा ।
भर्तारं नियता नित्यं सदार्चनपरायना ॥
इहैवोत्सृज्य देहं स्वं दृष्ट्वा हरपुरे प्रियम् ।
आकृष्य मम भूतेभ्यः सह भर्त्रा रमेद् दिवि ॥
वर्षकोटिं दशगुणं रमित्वा सा इहागता ।
भर्त्रा सहैव पूर्वोक्तं लभते फलम् ईहितम् ॥
इत्य् एषा तिथिर् इत्य् एवं तृतीया लोकपूजिता ।
सदा विशेषतः पुण्या वैशाखे मासि या भवेत् ॥
पुण्या भाद्रपदे मासि माघस्यैव न संशयः ।
मघे भाद्रपदे चापि स्त्रीणां धन्या प्रशस्यते ॥
साधारणा तु वै पूर्वा सर्वलोकस्य भारत ।
माधे मासे तृतीयायां गुडस्य लवणस्य च ॥
दानं श्रेयस्करं राजन् स्त्रीणां च पुरुषस्य च ।
[५१] गुडेन तुष्यते देवी लवणेन तु शङ्करः ॥
गुडपूपास् तु दातव्या मासि भाद्रपदे तु सा ।
तृतीया पायसं चापि वामदेवस्य प्रीतये ॥
वारिदानं प्रशस्तं च मोदकानां च भारत ।
वैशाखे मासि राजेन्द्र तृतीया चन्दनस्य च ॥
वारिणा तुष्यते देवी मोदकैर् भव एव हि ।
दानात् तु चन्दनस्येह कुञ्जजो नात्र संशयः ॥
या त्व् एषा कुरुशार्दूल वैशाखे मासि वै तिथिः ।
तृतीया साक्षया लोके गीर्वाणैर् इह शस्यते ॥
यो ‘स्यां ददाति करकान् वारिधान्यसमन्वितान् ।
स याति पुरुषो धीमान् लोकं वै हेममालिनः ॥
इत्य् एषा कथिता वीर तृतीया तिथिर् उत्तमा ।
याम् उपोष्य नरो राजन् बुद्धिवृद्धिं श्रियं व्रजेत् ॥
इत्य् अलवणतृतीयाव्रतम्
[आर्द्रानन्दकरीतृतीयाव्रतम्]
पद्मपुराणे ।
पुलस्त्य उवाच ।
तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम् ।
[५२] नाम्ना च लोके विख्याता आर्द्रानन्दकरीति या ॥
यदा शुक्लतृतीयायाम् आषाढर्क्षं भवेत् क्वचित् ।
ब्रह्मर्क्षं वा तथाप्यं वा हस्तं मूलम् अथापि वा ॥
“आषाढर्क्षम्” उत्तराषाढा । “ब्रह्मर्क्षम्” अभिजित् । “आप्यम्” पूर्वाषाढा ।
दर्भगन्धोदकैः स्नानं तदा सम्यक् समाचरेत् ।
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥
भवानीम् अर्चयेद् भक्त्या शुक्लपुष्पैः सुगन्धिभिः ।
महादेवं तथैकस्मिन्न् उपविष्टं तथासने ॥
वासुदेव्यै नमः पादौ शङ्कराय ततो हरम् ।
“वासुदेव्यै नमः पादौ” इति, वासुदेव्यै नम इति देव्याः पादौ पूजयेत् । “ॐ शङ्कराय नमः” इति हरस्य पादौ पूजयेत् । एवम् अग्रे ‘पि बोद्धव्यम् ।
जङ्घे शोकविनाशिन्यै आनन्दाय नमः प्रभो ॥
रम्भायै पूजयेद् ऊरू शिवाय च पिनाकिनः ।
आनन्दिन्यै कटिं देव्याः शूलिनः शूलपाणये ॥
माधव्यै च तथा नाभिम् अथ शम्भोर् भवाय वै ।
स्तनाव् आनन्दकारिण्यै सङ्करायेन्दुधारिणे ॥
उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरे ।
कराव् उत्पलधारिण्यै रुद्राय जगतां पतौ ॥
बाहू च परिरम्भिण्यै नृत्यशीलाय वै हरे ।
[५३] देव्या मुखं विलासिन्यै वृषाङ्काय पुनर् विभोः ॥
स्मितं च स्मरशीलायै विश्ववक्त्राय तत्परे ।
नेत्रे मन्दनिवासिन्यै विश्वधाम्न्यै त्रिशूलिनः ॥
भ्रुवौ नृत्यप्रियायै च ताण्डवेशाय शूलिनः ।
देव्या ललाटम् इन्द्राण्यै हव्यवाहाय वै विभोः ॥
स्वाहायै मुकुटं देव्या विभोर् गङ्गाधराय वै ।
विश्वमुख्यौ विश्वकायौ विश्वपादकरौ शिवौ ॥
प्रसन्नवदनौ वन्दे पार्वतीपरमेश्वरौ ।
एवं सम्पूज्य विधिवद् अग्रतः शिवयोः पुनः ॥
पद्मोत्पलानि रजसा नानावर्णानि कारयेत् ।
शङ्खं चक्रं च मकुटं स्वस्तिकं स्वभटामरम् ॥
यावन्तः पांसवस् तत्र रजसः पतिता भुवि ।
तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥
चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः ।
दद्याद् द्विजाय करकम् उदकान्नसमन्वितम् ॥
प्रतिपक्षं चतुर्मासं यवान्नेन निवेदयेत् ।
[५४] ततस् तु चतुरो मासान् पूर्ववत् करकोपरि ॥
दत्वा च सक्तुपात्राणि तिलपात्राण्य् अनन्तरम् ।
गन्धोदके पुष्पवारि चन्दनं कुङ्कुमोदकम् ॥
अपक्वं दधि दुग्धं च गोशृङ्गोदकम् एव च ।
पिष्टोदकं तथा वारि कुष्ठचूर्णान्वितं पुनः ॥
उशीरसलिलं तद्वद् यवपूर्णोदकं तथा ।
तिलोदकं तु सम्प्राप्य स्वपेन् मार्गशिरादिषु ॥
मासेषु पक्षद्वितयं प्राशनं समुदाहृतम् ।
सर्वाणि शुक्लपुष्पाणि प्रशस्तानि सदार्चने ॥
दानकाले च सर्वत्र मन्त्रम् एतम् उदीरयेत् ।
“गौरी मे प्रीयतां नित्यम् अनिन्द्या सर्वमङ्गला ॥
सौभाग्यायास् तु ललिता भवानी सर्वसिद्धये ।”
संवत्सरान्ते लवणं गुडकुम्भसमन्वितम् ॥
चन्दनं नेत्रपट्टं च सहिरण्याम्बुजं ततः ।
उमामहेश्वरं हैमं तद्वद् इक्षुफलैर् युतम् ॥
वरां स्वास्तरणां शय्यां सविश्रामां निवेदयेत् ।
सपत्नीकाय विप्राय गौरी मे प्रीयताम् इति ॥
आर्द्रानन्दकरी नाम तृतीयैषा सनातनी ।
[५५] याम् उपोष्य नरो याति शम्भोर् यत् परमं पदम् ॥
इह लोके सदानन्दं प्राप्नोति च न संशयः ।
आयुरारोग्यसन्तत्या न कश्चिच् छोकम् आप्नुयात् ॥
नारी वा कुरुते या तु कुमारी विधवापि वा ।
सापि तत् फलम् आप्नोति देव्यनुग्रहलालिता ॥
प्रतिपक्षम् उपोष्यैव मन्त्रार्चनविधानवित् ।
रुद्राणीलोकम् आप्नोति पुनरावृत्तिदुर्लभम् ॥
इत्य् आर्द्रानन्दकरीतृतीयाव्रतम्
[नामतृतीयाव्रतम्]
देवीपुराणे ।
ब्रह्मोवाच ।
गौरीं कालीम् उमां भद्रां दुर्गां कान्तिं सरस्वतीम् ।
मङ्गलां वैष्णवीं लक्ष्मीं शिवां नारायणीं क्रमात् ॥
मार्गे तृतीयाम् आरभ्य पूजयेत् स्वर्गभाग् भवेत् ।
[अर्धनारीश्वरं रुद्रम् अथ वा उमाशङ्करम् ॥
[५६] पूजयेद् विधिवन् नारी सावियोगम् अवाप्नुयात् ।]
अथ वा विष्णुरूपेण पूजयेच् चेश्वरं सदा ।
शङ्करं वामभागेन सर्वान् कामान् अवाप्नुयात् ॥
इति नामतृतीयाव्रतम् ।
[सौभाग्यशयनव्रतम्]
मत्स्यपुराणे ।
मत्स्य उवाच ।
वसन्तमासम् आसाद्य तृतीयायां जनप्रियाम् ।
शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत् ॥
तस्मिन्न् अहनि सा देवी किल विश्वात्मना सति ।
पाणिग्र्हणकैर् मन्त्रैर् उदूढा वरवर्णिणी ॥
तथा सहैव देवेशं तृतीयायाम् अथार्चयेत् ।
फलैर् नानाविधैर् धूपैर् दीपैर् नैवेद्यसंयुतैः ॥
प्रतिमां पञ्चगव्येन तथा गन्धोदकेन च ।
स्नापयित्वार्चयेद् गौरीं चन्द्रशेखरसंयुताम् ॥
नमो ‘स्तु पाटलायै तु पादौ देव्याः शिवस्य तु ।
शिवायेति च सङ्कीर्त्य जयायै गुफयोर् द्वयोः ॥
[५७] त्रिगुणायेते रुद्रस्य रुद्रस्य भवान्यै जङ्घयोर् युगम् ।
रुद्रेश्वराय रुद्रस्य विजयायै तु जानुनी ॥
सङ्कीर्त्य हरिकेशाय तथोरू वरदे नमः ।
ईशायै सत्कटिं रत्यै शङ्करायेति शङ्करम् ॥
कुक्षिद्वये च कोटव्यै शूलिनं शूलपाणये ।
मङ्गलायै नमस् तुभ्यम् उदरं चाभिपूजयेत् ॥
[सर्वात्मने नमो रुद्रम् ईशान्यै च कुचद्वयम् ।
शिवं देवात्मने तद्वद् भद्राण्यै कण्ठम् अर्चयेत् ॥]
त्रिपुरघ्नाय विश्वेशम् अनन्तायै करद्वयम् ।
त्रिलोचनायेति हरं बाहू कालानलप्रिये ॥
सौभाग्यभवनायेति भूषणाहिं तु पादयोः ।
स्वाहास्वधायै च मुखं भास्वरायेति शूलिनः ॥
अशोकमधुवासिन्यै पूज्याव् ओष्ठौ च कामदौ ।
स्थाणवे च हरं तद्वद् आस्यं चन्द्रमुखप्रिये ॥
नमो ‘र्धनारीशहरम् असिताङ्गीति नासिकम् ।
नम उग्राय लोकेशं ललितेति पुनर् भ्रुवौ ॥
शर्वाय पुरहन्तारं वासुदेव्यै तथालकम् ।
[५८] श्रीकण्ठनाथाय हरं स्निग्धकेशांस् तथार्चयेत् ॥
भीमाय सौम्यरूपिण्यै शिरः सर्वात्मने नमः ।
शिवम् अभ्यर्च्य विधिवत् सौभाग्याष्टकम् अग्रतः ॥
स्थापयेद् घृतनिष्पावकुसुम्भक्षीरजीरकम् ।
तवराजेक्षुलवणं कुस्तुम्बुरुम् अथाष्टकम् ॥
दत्तं सौभाग्यकृद् यस्मात् सौभाग्याष्तकम् इत्य् उत ।
अत्र घृतक्षीरयोर् एककोटिता । “विकारवच् गोक्षीरम्” इति सौभाग्याष्टकमध्ये मत्स्यपुरान एव पूवत्राभिधाना । “कुस्तुम्बरुः” धन्याकम् । “तवराजः” शर्कराविशेषः ।
एवं निवेद्य तत् सर्वम् अग्रतः शिवयोः पुनः ॥
चैत्रे शृङ्गोदकं प्राश्य स्वपेद् भूमाव् अरिन्दम ।
पुनः प्रभात उत्थाय कृतस्नानजपः शुचिः ॥
सम्पूज्य द्विजदाम्पत्यं माल्यवस्त्रविभूषणैः ।
सौभाग्याष्टकसंयुक्तं सुवर्णप्रतिमाद्वयम् ॥
प्रीयताम् अत्र ललिता ब्राह्मणाय निवेदयेत् ।
एवं संवत्सरं यावत् तृतीयायां सदा मनो ॥
प्राशने दानमन्त्रे च विशेषो यन् निबोध मे ।
गोशृङ्गोदकमात्रं स्याद् वैशाखे गोमयं पुनः ॥
ज्येष्ठे मन्दारकुसुमं बिल्वपत्रं शूचौ स्मृतम् ।
श्रावणे दधि सम्प्राश्य नभस्य च कुशोदकम् ॥
[५९] क्षीरम् आश्वयुजे मासि कार्तिके पृषदाज्यकम् ।
“पृषदाज्यम्” दधिमिश्रं घृतम् ।
मार्गशीर्षे तु गोमूत्रं पौषे सम्प्राशयेद् घृतम् ॥
माघे कृष्णतिलांस् तद्वत् पञ्चगव्यं च फाल्गुने ।
ललिता विजया भद्रा भवानी कुमुदा शिवा ॥
वासुदेवी तथा गौरी मङ्गला कमला सती ।
उमा च दानकाले तु प्रीयताम् इति कीर्तयेत् ॥
मल्लिकाशोककमलं कदम्बोत्पलमालतीम् ।
कुलुत्थं करवीरं च वाणमन्दारपङ्कजम् ॥
सिन्दुवारं च सर्वेषु मासेषु क्रमतः स्मृतम् ।
जपाकुसुम्भकुसुमं मालतीशतपत्रकम् ॥
यथालाभं प्रशस्तानि करवीरं च सर्वदा ।
एवं संवत्सरं यावद् उपोष्य विधिवन् नरः ॥
स्त्री वा भक्त्या कुमारी वा शिवाव् अभ्यर्च्य शक्तितः ।
व्रतान्ते शयनं दद्यात् सर्वोपस्करसंयुतम् ॥
उमामहेश्वरं हैमं वृषभं च गवा सह ।
स्थापयित्वा च शयने ब्राह्मणाय निवेदयेत् ॥
“उपस्करम्” उपधानादि । गोमिथुनम् अपि हैमम् एव, मुख्यस्य शयने स्थापनासम्भवात् ।
अन्यान्य् अपि यथाशक्त्या मिथुनान्य् अम्बरादिभिः ।
धान्यालङ्कारगोदानैर् अभ्यर्च्य धनसञ्चयैः ॥
[६०] वित्तशाठ्येन रहितः पूजयेद् गतविस्मयः ।
एवं करोति यः सम्यक् सौभाग्यशयनव्रतम् ॥
सर्वान् कामान् अवाप्नोति परमानन्दम् अश्नुते ।
फलस्यैकस्य च त्यागम् एतत् कुर्वन् समाचरेत् ॥
यत्नात् कीर्तिम् अवाप्नोति मासं मासं नराधिप ।
सौभाग्यारोग्यरूपायुर्वस्त्रालङ्कारभूषणैः ॥
न विमुक्ता भवेद् राजन्न् अब्दार्बुदशतत्रयम् ।
यस् तु द्वादशवर्षाणि सौभाग्यशयनव्रतम् ॥
करोति सप्त चाष्टौ च श्रीकण्ठभवने ‘मरैः ।
पूज्यमानो भवेत् सम्यग् यावत् कल्पशतत्रयम् ॥
नारी वा कुरुते चापि कुमारी वा नरेश्वर ।
असौ तत् फलम् आप्नोति देव्यनुग्रहलालिता ॥
शृणुयाद् अपि यश् चैव प्रदद्याद् अथ वा मतिम् ।
सो ‘पि विद्याधरो भूत्वा स्वर्गलोके वसेच् चिरम् ॥
इति सौभाग्यशयनव्रतम् ।
[अनन्ततृतीयाव्रतम्]
मत्स्यपुराणे ।
ईश्वर उवाच ।
शृणुष्वावहिता देवि तथैवानन्तपुण्यकृत् ।
[६१] नराणाम् अथ नारीणाम् आराधनम् अनुत्तमम् ॥
नभस्ये वाथ वैशाखे पुष्ये मार्गशिरस्य् अथ ।
शुक्लपक्षे तृतीयायां स्नातः सन् गौरसर्षपैः ॥
गोरोचनं सगोमूत्रं मुस्ता गोः शकृतं तथा ।
दधिचन्दनसम्मिश्रं ललाटे तिलकं न्यसेत् ॥
सौभाग्यारोग्यकृत् तस्मात् सदा च ललिताप्रियम् ।
प्रतिपक्षं तृतीयासु पुमान् आपीतवाससी ॥
धारयेद् अथ रक्तानि नारी चेत् पतिसंयुता ।
विधवा धातुरक्तानि कुमारी शुक्लवाससी ॥
देव्यर्चां पञ्चगव्येन ततः क्षीरेण केवलम् ।
स्नापयेन् मधुना तद्वत् पुष्पगन्धोदकेन तु ॥
पूजयेच् छुक्लपुष्पैस् तु फलैर् नानाविधैर् अपि ।
ध्न्यकाजाजिलवणगुडक्षीरघृतान्वितैः ॥
शुक्लाक्षततिलैर् अर्चां तां च देवीं सदार्चयेत् ।
“शुक्लाक्षताः” सिततण्डुलाः । “अर्चां” प्रतिमा ।
[६२] तत्पादाभ्यर्चनं कुर्यात् प्रतिपक्षं वरानने ॥
वरदायै नमः पादौ तथा गुल्फौ नमः श्रियै ।
अशोकायै नमो जङ्घे पार्वत्यै जानुनी तथा ॥
ऊरू माङ्गल्यकारिण्यै वामदेव्यै तथा कटिम् ।
पद्मोदरायै जठरम् उरः कामश्रियै नमः ॥
करौ सौभाग्यदायिन्यै बाहू हरमुखश्रियै ।
मुखं दर्पणवासिन्यै स्मरदायै स्मितं नमः ॥
गौर्यै नमस् तथा नासाम् उत्पलायै च लोचने ।
तुष्ट्यै ललाटफलकं कात्यायिन्यै शिरस् तथा ॥
नमो गौर्यै नमस् तुष्ट्यै नमः कान्त्यै नमः श्रियै ।
रम्भायै ललितायै च वासुदेव्यै नमो नमः ॥
एवं सम्पूज्य विधिवद् अग्रतः पद्मम् आलिखेत् ।
पत्रैर् द्वादशभिर् युक्तं कुङ्कुमेन सकर्णिकम् ॥
पूर्वेण विन्यसेद् गौरीम् अपर्णां च ततः परम् ।
भवानीं दक्षिणे तद्वद् रुद्राणीं च ततः परम् ॥
विन्यसेत् पश्चिमे सौम्याम् सदा मदनवासिनीम् ।
[६३] वायव्ये पाटलाम् उग्राम् उत्तरेण ततो ‘प्य् उमाम् ॥
मध्ये तथा उमां शान्तां मङ्गलां कुमुदासनीम् ।
भद्रां च मध्ये संस्थाप्य ललितां कर्णिकोपरि ॥
कुसुमैर् अक्षतैर् अर्चां नमस्कारेण विन्यसेत् ॥
गीतमङ्गलघोषं च कारयित्वा सुवासिनीम् ॥
पूजयेद् रक्तवासोभी रकताल्यानुलेपनैः ।
सिन्दूरस्नानचूर्णं च तासां शिरसि पातयेत् ॥
“स्नानचूर्णं” स्नानीयद्रव्यचूर्णम् ।
सिन्दूरं कुङ्कुमं स्नानम् अतीवेष्टं यतस् ततः ।
तथोपदेष्टारम् अपि पूजयेद् यत्नतो गुरुम् ॥
न पूज्यते गुरुर् यत्र सर्वा तथाफलाः क्रियाः ।
नभस्य पूजयेद् गौरीम् उत्पलैर् असितैः सदा ॥
बन्धुजीवैर् आश्वयुज्यां कार्तिके शतपत्रकैः ।
जातीपुष्पैर् मार्गशीर्षे पौषे पीतैः कुरण्टकैः ॥
कुन्दपुष्पैः सुवर्णाभैर् देवीं माघे ‘भिपूजयेत् ।
सिन्दुवारेण वा जात्या फाल्गुने ‘प्य् अर्चयेद् उमाम् ॥
[६४] चैत्रे तु मल्लिकाशोकैर् वैशाखे गन्धपाटलैः ।
ज्येष्ठे कमलमन्दारैर् आषाढे च जपाङ्कुरैः ॥
कदम्बैर् अथ मालत्या श्रावणे पूजयेत् सदा ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥
बिल्वपत्रार्कपुष्पं च यवगोशृङ्गवारि च ।
पञ्चगव्यं च बिल्वं च पाशयेत् क्रमशस् तथा ॥
एतद् भाद्रपदाद्द्य् अन्नप्राशनं समुदाहृतम् ।
प्रतिपक्षं च मिथुनं तृतीयायां वरानने ॥
[ब्राह्मणं ब्राह्मणीं चैव शिवां गौरीं प्रकल्पयेत् ।]
भोजयित्वा ततो भक्त्या वस्त्रमाल्यानुलेपनैः ॥
पुंसः पीताम्बरे दद्यात् स्त्रियः कौसुम्भवाससी ।
निष्पावाजाजिलवणम् इक्षुदण्डगुडान्वितम् ॥
तस्मै दद्यात् फलं पुंसः सुवर्णोत्पलसंयुतम् ।
यथा न देवि देवेशस् त्वां परित्यज्य गच्छति ॥
[तथा मां सम्परित्यज्य पतिर् नान्यत्र गच्छतु ।]
तथा समुद्धराशेषदुःखसंसारसागरात् ॥
कुमुदा विमला नन्दा भवानी वसुधा शिवा ।
ललिता कमला गौरी सती रम्भा च पार्वती ॥
[६५] नभस्यादिषु मासेषु प्रीयताम् इत्य् उदीरयेत् ।
व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम् ॥
मिथुनानि चतुर्विंशद् द्वादशैवाथ वार्चयेत् ।
अष्टाव् अष्टौ च मासान्ते चातुर्मास्ये ‘थ वार्चयेत् ॥
सर्वं दत्वा च गुरवे शेषान् अभ्यर्चयेद् बुधः ।
उक्तानन्ततृतीयैषा सदानन्तफलप्रदा ॥
सर्वपापहरा देवी सौभाग्यारोग्यवर्धनी ।
न चैनां वित्तशाठ्येन कदाचिद् अपि लङ्घयेत् ॥
नरो वा यदि वा नारी यतः शापात् पतत्य् अधः ।
गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी ॥
यदाशुद्धा तदान्येन कारयेत् प्रयता स्वयम् ।
इमाम् अनन्तफलदां यस् तृतीयां समाचरेत् ॥
कल्पकोटिशतं साग्रं शिवलोके महीयते ।
वित्तहीनो ‘पि कुर्वीत वर्षं वर्षम् उपोषणैः ॥
पुष्पमन्त्रविधानेन सो ‘पि तत् फलम् आप्नुयात् ।
[६६] नारी वा कुरुते या तु कुमारी विधवाथ वा ॥
सापि तत् फलम् आप्नोति गौर्यनुग्रहलालिता ।
इति अनन्ततृतीयाव्रतम् ।
[रसकल्याणिनीव्रतम्]
ईश्वर उवाच ।
अन्याम् अपि प्रवक्ष्यामि तृतीयां पापनाशिनीम् ।
रसकल्याणिनीम् एनां पुराकल्पविदो विदुः ॥
माघमासे तु सम्प्राप्य तृतीयां शुक्लपक्षतः ।
प्रातर्गव्येन पयसा तिलैः स्नानं समाचरेत् ॥
स्नापयेन् मधुना देवीं तथैवेक्षुरसेन तु ।
गन्धोदकेन मधुना पूजनं कुङ्कुमेन वै ॥
दक्षिणाङ्गानि सम्पूज्य ततो वामानि पूजयेत् ।
ललितायै नमो देव्याः पादौ गुल्फौ तथार्चयेत् ॥
जङ्घां जानुं तथा शान्त्यै तथा चोरुं श्रियै नमः ।
मदालसायै तु कटिम् अमलायै तथोदरम् ॥
[६७] स्तनं मदनवासिन्यै कुमुदायै च कन्धराम् ।
भुजं भुजाग्रं माधव्यै कमलायै मुखस्मिते ॥
भ्रूललाटं च शान्तायै शङ्करायै तथालकम् ।
मुकुटं विन्ध्यवासिन्यै पुनः कान्त्यै तथालकम् ॥
मदनायै ललाटं तु मोहनायै पुनर् भ्रुवम् ।
नेत्रे चन्द्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः ॥
उत्कण्ठन्यै नमः कण्ठम् अमृतायै नमः स्तनम् ।
रम्भायै वामबाहुं च विशोकायै नमः करम् ॥
हृदयं मन्दगामिन्यै पाटलायै तथोदरम् ।
कटिं सुरतवासिन्यै तथोरू चम्पकश्रियै ॥
जानुजङ्घे पादं च गौर्यै गुल्फं गायत्रियै नमः ।
धरादरायै पादं च विश्वकायै नमः शिरः ॥
नमो भवान्यै कामिन्यै कामदेव्यै जगच्छ्रियै ।
आनन्दायै सुनन्दायै सुभद्रायै नमो नमः ॥
एवं सम्पूज्य विधिवद् द्विजदाम्पत्यम् अर्चयेत् ।
भोजयित्वान्नपानेन मधुरेण विमत्सरः ॥
सलड्डुकं वारिकुम्भं शुक्लाम्बरयुगद्वयम् ।
दत्वा सुवर्णकमलं गन्धमाल्यैर् अथार्चयेत् ॥
[६८] प्रीयताम् अत्र कुमुदा गृह्णीयाल् लवणव्रतम् ।
अनेन विधिना देवीं मासि मासि समर्चयेत् ॥
लवणं वर्जयेन् माघे फाल्गुने च गुडं पुनः ।
तवराजं तथा चैत्रे वर्ज्यं च मधु माधवे ॥
पाटलं ज्येष्ठमासे तु तथाषाढे च जीरकम् ।
श्रावणे वर्जयेत् क्षीरं दधि भाद्रपदे तथा ॥
घृतम् आश्वयुजे तद्वद् ऊर्जे वर्ज्याथ मर्जिका ।
“ऊर्जे” कार्तिके । “मर्जिका” रसाला, लोके शिखरिणीति प्रसिद्धा ।
धान्यकं मार्गशीर्षे तु पौषे वर्ज्या तु शर्करा ॥
व्रतान्ते करकं पूर्णम् एतेषां मासि मासि च ।
दद्याद् विकालवेलायां भक्ष्यं पात्रेण संयुतम् ॥
“व्रतान्ते करकम्” इत्यादि, “एतेषां” लवणगुडादीनां मधे यस्मिन् मासे यत् त्यक्तं तन्मासव्रतान्ते तेन लवणादिना ‘पूर्णं करकं” वक्ष्यमाणलट्टुकादि “भक्ष्यं” पात्रयुक्तं दद्याद् इत्य् अर्थः ।
लड्डुकान् श्वेतवतींश् च संयावम् अथ पूरिकाः ।
घार्तिका घृतपूरांश् च पिष्टापूपांश् च मण्डकान् ॥
क्षीरशाकं च दध्यन्नं पिण्डशाकं तथैव् च ।
[६९] माघादिक्रमशो दद्याद् एतानि करकोपरि ॥
कुमुदा माधवी गौरी रम्भा भद्रा जया शिवा ।
उमा रतिः सती तद्वन् मङ्गला रतिलालसा ॥
क्रमान् माघादिषु त्व् अत्र प्रीयताम् इति कीर्तयेत् ।
सर्वत्र पञ्चगव्यं च प्राशनं समुदाहृतम् ॥
उपवासी च यो नित्यम् अशक्तौ नक्तम् इष्यते ।
पुनर् माघे तु सम्प्राप्ते शर्करां करकोपरि ॥
कृत्वा तु काञ्चनी गौरीं पञ्चरत्नसमन्विताम् ।
हैमीम् अङ्गुष्ठमात्रां च साक्षसूत्रकमण्डलुम् ॥
चतुर्भुजाम् इन्दुयुतां सितनेत्रपटावृताम् ।
तद्वद् गोमिथुनं शुक्लं सुवर्णाढ्यं सिताम्बरम् ॥
सवस्त्रभाजनं दद्याद् भवानी प्रीयताम् इति ।
अनेन विधिना यस् तु रसकल्याणिनीव्रतम् ॥
कुर्यात् स सर्वपापेभ्यस् तत्क्षणाद् एव मुच्यते ।
भवार्बुदसहस्रं तु न दुःखी जायते क्वचित् ॥
अग्निष्टोमसहस्रेण यत् फलं तद् अवाप्नुयात् ।
नारी वा कुरुते या तु कुमारी वा वरानने ॥
विधवा वा वराकी वा सापि तत्फलभागिनी ।
सौभाग्यारोग्यसम्पन्ना गौरीलोके महीयते ॥
इति रसकल्याणिनीव्रतम् ।
[७०]
[अवियोगतृतीयाव्रतम्]
कालिकापुराणे ।
अनिलाद उवाच
मार्गशिरे प्राप्ते चन्द्रे शुद्धे शुचिस्मिता ।
द्वितीयां तु समासाद्य नक्तं भुञ्जीत पायसम् ॥
आचम्य तु शुचिर् भूत्वा दण्डवच् छङ्करं नमेत् ।
मुद्रान्विता नमस्कृत्य विज्ञाप्य संस्पृशेद् गुरुम् ॥
उदुम्बरं ततो गृह्य भक्षयेद् दन्तधावनम् ।
उत्तराशागतं साग्रं सत्वचं निर्व्रणं शुभम् ॥
तृतीयायां परे चाहनि गौरीं शम्भुं प्रपूजयेत् ।
**[७१] **पूजवित्या निराहारा शङ्करं कीर्तयन् स्वपेत् ॥
शालिअपिष्टमये कृत्वा रूपे स्त्रीपुंसयोः शुभे ।
पात्रे संस्थाप्य् ते पूज्ये जागरं निशि कारयेत् ॥
विधिवत् पूजयित्वा तु हरं स्नाप्य घृतादिभिः ।
प्रभाते तं गृहीत्वा तु पुष्पं तस्य निवेदयेत् ॥
आचार्यं पूजयेद् भक्त्या मिष्टान्नेन तथा द्विजान् ।
दाम्पत्यानि च तत्रैव शक्त्या तां चापि दापयेत् ॥
प्रतिमासं च कुर्वीत विधिनानेन सर्वतः ।
कार्तिकान्ते ततो मासि मार्गशीर्षे स युज्यते ॥
नामान्य् अतः प्रवक्ष्यामि प्रतिमासं क्रमाच् छृणु ।
“अतः” मार्गशिरात् परम् । मार्गशीर्षे तु शम्भुः गौरी चेति नामनी प्रथमत एव कथिते ।
[७२] पूजायज्ञनिमित्तत्वसिद्ध्यर्थं चिन्तितस्य च ॥
एवं पौषे तु सम्प्राप्ते गिरीशं पार्वतीं तथा ।
अर्चां जप्य चतुर्थ्यां च पञ्चगव्यं ततः पिबेत् ॥
भवं चैवं बवानीं च माघे नित्यं प्रपूजयेत् ।
फाल्गुने च महादेवम् उमया सहितं विभुम् ॥
ललितां शङ्करं देवं चैत्रे सम्पूजयेद् बुधः ।
स्थानुं चैव हि वैशाखे लोकजायासमं जपेत् ॥
रुद्राण्या सह रुद्रं तु ज्येष्ठे मासि प्रपूजयेत् ।
आषाढे पशुनाथं च सत्या सह सुलोचनम् ॥
श्रीकण्ठं श्रावण्र् मासि सुनन्दां च समर्चयेत् ।
भीमं भाद्रपदे मासि कालरात्र्या समं प्रभुम् ॥
सिवम् आश्वयुजे देवं दुर्गासार्धं समर्चयेत् ।
ईशानं कार्तिके मासि शिवादेवीयुतं विभुम् ॥
जपध्यानार्चनादौ च नामान्य् एतानि सुव्रत ।
[७३] स्मृतानि नामरूपाणि विनैभिर् न हि सिद्धिभाक् ॥
प्रतिमासं तु पुष्पाणि त्व् अर्चनाय निवेदयेत् ।
तानि क्रमात् प्रवक्ष्यामि सद्यस् तुष्टिकराणि तु ॥
आद्ये नीलोत्पलं योग्यं तदभावे ‘पराणि वै ।
पत्राणि च सुगन्धीनि योजयेद् भक्तितो ‘र्चयेत् ॥
करवीरं निम्बपत्रं किंशुकं कुन्दमालिकम् ।
पाटलं च कदम्बं च तगरं द्रोणमालतीम् ॥
[एतान्य् उक्तक्रमेणैव मासेषु द्वादशस्व् अपि ।
भक्त्या योज्यानि रम्भोरु देवस्य प्रियकाम्यया ॥
तथा च पञ्चगव्यस्य प्राशनं प्रतिमासिकम् ।
नान्यद् धि पावनं किञ्चित् पञ्चगव्यात् परं स्मृतह्म् ॥
एवं व्रते कृते भद्रे शिवभक्तिसमन्विता ।]
वत्सरान्ते वितानं च ध्वजं घण्टां च दीपिकाम् ॥
धूपोत्क्षेपयुतं सूक्ष्मं शङ्कराय निवेदयेत् ।
स्नापयित्वार्चयित्वा तु सौवर्णं पुष्पकं न्यसेत् ॥
[७४] रूपयुग्मं ततो दद्याच् छालिपिष्टमयं च यत् ।
नैवेद्यं च बलिं चैव संयोज्य विधिवद् धरे ॥
कुर्यान् नीराजनं शम्भोस् ततो गच्छेत् स्वकं गृहम् ।
चतुरस्रं महादेवम् उमां चैव त्रिकोणिकाम् ॥
ध्यात्वाअचार्याय तद्युग्मं मौक्तिकादियुतं ददेत् ।
प्रतिमां पूजयेद् भक्त्या द्वादशैव द्विजोत्तमान् ॥
मिथुनानि तथा ब्रह्मन् भोक्ष्य शक्त्यानुदक्षयेत् ।
कर्षैकैकप्रमाणेन शातकुम्भमयं शुभम् ॥
[उमामहेश्वरं चैव कारैत्वा सुशोभनम् ।]
मौक्तिकानि चतुःषष्टि प्रवालकचतुष्टयम् ॥
तावन्ति पुष्यरागाणि ताम्ररूपाणि चैव हि ।
एतान् समग्रान् सम्भारान् वस्त्रयुग्मोपरि न्यसेत् ॥
[७५] चत्वारि शतम् अष्टौ च कुम्भांश् चोपानहौ तथा ।
सहिरण्याक्षतान् सर्वान् दद्यात् पुष्पोदकान्वितान् ॥
दीनानां दुःखितानां च तद्दिने चानिवारितम् ।
कल्पयेद् अन्नदानं चाप्य् आनक्तं शक्तितो ‘र्चयेत् ॥
न्यूनाधिकं न कर्तव्यं स्ववित्तपरिमाणतः ।
पूजयेत् कल्पनायैव वित्तशाठ्यं च कारयेत् ॥
अवियोगकरं चैव रूपसौभाग्यपुत्रदम् ।
वित्तदं चान्नदं नूनं भवेद् एवेति योजयेत् ॥
इत्य् अवियोगव्रतम् ।
[सौभाग्यतृतीयाव्रतम्]अ
वराहपुराणे ।
अगस्त्य उवाच ।
अतः परं महाभाग सौभाग्यकरणं व्रतम् ।
शृणु येनास्य सौभाग्यं स्त्रीपुंसाम् अभिजायते ॥
फाल्गुनस्य तु मासस्य तृतीया शुक्लपक्षतः ।
उपोषितव्या नक्तेन शुचिना सत्यभाषिणा ॥
[७६] सश्रीकं च हरिं पूज्य रुद्रं वाप्य् उमया सह ।
गम्भीरायेति पादौ तु सुभगायेति वै कटिम् ॥
उदरं देवदेवेति शितिकण्ठेति वै उरः ।
त्रिलोचनायेति शिरो रुद्रायेति समन्ततः ॥
एवम् अभ्यर्च्य मेधावी विष्णुं लक्ष्म्या समन्वितम् ।
हरं गौरीसमायुक्तं गन्धपुष्पादिभिः क्रमात् ॥
ततस् तस्याग्रतो होमं कारयेन् मधुसर्पिषा ।
तिलैः सह महाराज सौभाग्यपतयेति च ॥
ततस् त्व् अक्षारसंयुक्तं निःस्नेहं धरणीतले ।
गोधूमान्नं तु भुञ्जीत कृष्णे ‘प्य् एवं विधिः स्मृतः ॥
आषाढादिद्वितीयायां पायसं तत्र भोजयेत् ।
यवान्नं तु ततः पश्चात् कार्तिकादिषु पार्थिव ॥
श्यामाकान्नं हविर् वापि यथाशक्त्या प्रसन्नधीः ।
ततस् तु ब्राह्मणे दद्यात् पात्रभूते विचक्षणः ॥
अनङ्गहीने वेदानां पारगे साधुवर्तिनि ।
सदाचारयुते दद्याद् अल्पवित्ते ‘पि भूतले ॥
षड्भिः पात्रैर् उपेतं च ब्राह्मणाय निवेदयेत् ।
एकं मधुघृतं पात्रं द्वितीयं गृतपूरितम् ॥
तृतीयं तिलतैलस्य चतुर्थं गुडसंयुतम् ।
[७७] पञ्चमं लवणापूर्णं षष्ठं गोक्षीरपूरितम् ॥
सुभगो दर्शनीयश् च नारी वा पुरुषो ‘पि वा ॥
इति सौभाग्यव्रतम् ।अ
[इति श्रीमहाराजाधिराजगोविन्दचन्द्र (महासान्धिविग्रहिकश्रीमल्लक्ष्मीधरविरचिते]
कृत्यकल्पतरौ व्रतकाण्डे तृतीयाव्रतानि ]
अथ चतुर्थीव्रतानि
[अङ्गारकचतुर्थी]
तत्र मत्स्यपुराणे ।
चतुर्थ्यङ्गारकदिने यदा भवति दानव ।
मृदा स्नानं तदा कुर्यात् पद्मरागविभूषितः ॥
अग्निर् मूर्धा दिवो मन्त्रं जपन् तिष्ठेद् उदङ्मुखः ।
शूद्रस् तूष्णीं स्मरण् भौमम् आस्ते भोगविवर्जितः ॥
अर्धास्तमित आदित्ये गोमयेनोपलिप्य च ।
प्राङ्गणं पुष्पमालाभिर् अक्षताभिः समन्ततः ॥
अभ्यर्च्याभिलिखेत् पद्मं कुङ्कुमेनाष्टपत्रकम् ।
कुङ्कुमस्याप्य् अभावे तु रक्तचन्दनम् इष्यते ॥
चत्वारः करकाः कार्या भक्ष्यभोज्यसमन्विताः ।
तण्डुलै रक्तशालीयैः पद्मरागैश् च संयुताः ॥
[७८] चतुष्कोणेषु तान् कृत्वा फलानि विविधानि च ।
गन्धमाल्यादिकं सर्वं तथैव विनिवेदयेत् ॥
सुवर्णशृङ्गी कपिलाम् अथार्च्य
रौप्यैः खुरैः कांश्यदोहां सवत्साम् ।
धुरन्धरं रक्तम् अतीव सौम्यं
धान्यानि सप्तावरसंयुतानि ॥
[“सप्तदान्यानि”] यवगोधूमधान्यकतिलकङ्कुश्यामाकचीनकानि ॥अ
अङ्गुष्ठमात्रं पुरुषं तथैव
सौवर्णम् अत्यायतबाहुदण्डम् ।
चतुर्भुजं हेममये निविष्टं
पात्रे गुडस्योपरि सर्पियुक्तम् ॥
सामस्वरज्ञाय जितेन्द्रियाय
पात्राय शीलान्वयसंयुताय ।
दातव्यम् एतत् कनकं द्विजाय
कुटुम्बिने नैव च दम्बयुक्ते ॥
“भूमिपुत्र महातेजाः स्वेदोद्भव पिनाकिनः ।
रूपार्थी त्वां प्रपन्नो ‘हं गृहाणार्घ्यं नमो ‘स्तु ते ॥”
मन्त्रेणानेन दत्वार्घ्यं रक्तचन्दनवारिणा ।
ततो ‘र्चयेद् विप्रवरं रक्तमाल्याम्बरादिभिः ॥
दद्यान् मन्तेण तेनैव भौमं गोमिथुनान्वितम् ।
शय्यां च शक्तितो दद्यात् सर्वोपस्करसंयुताम् ॥
[७९] यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे ।
तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता ॥
प्रदक्षिणं ततः कृत्वा विसर्ज्य द्विजपुङ्गवम् ।
नक्तम् अक्षारलवणम् अश्नीयाद् घृतसंयुतम् ॥
शक्त्या यस् तु पुमान् कुर्याद् एवम् अङ्गारकाष्टकम् ।
चतुरो वाथ वा तस्य यत् पुण्यं तद् वदामि ते ॥
रूपसौभाग्यसम्पन्नः पुनर् जन्मनि जन्मनै ।
वैष्णवे ‘थ शिवे भक्तः सप्तद्वीपाधिपो भवेत् ॥
सप्त कल्पसहस्राणि रुद्रलोके महीयते ॥
इत्य् अङ्गारकचतुर्थी ।
[विनायकचतुर्थी]
भविष्यपुराणे ।
चतुर्थ्यां तु सदा राजन् निराहारो व्रतान्वितः ।
दत्वा तिलान्नं विप्राय स्वयं भुङ्क्ते तिलोदकम् ॥
वर्षद्वये समाप्तिर् हि व्रतस्य तु यदा भवेत् ।
विनायकस् तस्य तुष्टो ददाति फलम् ईप्सितम् ॥
इति विनायकचतुर्थी ।
[८०]
[अङ्गारकचतुर्थी]
चतुर्थी च चतुर्थी च यदाङ्गारकसंयुता ।
उपोष्य तत्र तत्रैव विधेयो विधिवत् कुजः ॥
“चतुर्थी तु” इति वीप्सायाम्, अङ्गारकयुतचतुर्थी त्व् अवगम्यते ।
उपोष्य नक्तेन विभो चतस्रः कुजसंयुताः ।
चतुर्थ्यां तु चतुर्थ्यां तु विधानं शृणु यादृशम् ॥
सौवर्णं तु कुजं कृत्वा सविनायकम् आदरात् ।
दशसौवर्णिकं मुख्यं दशार्धं वार्धम् एव च ॥
सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमये ‘पि वा ।
विंशत्पलानि पात्राणि विंशत्यर्धपलानि वा ॥
विंशत्कर्षान्य् अथो वीर विंशद् अर्धार्धम् एव च ।
रौप्यसङ्ख्यं पलं कार्यं पलार्धं पादम् एव च ॥
शक्त्या वित्तस्य भक्त्या वा पात्रे ताम्रमये ‘पि वा ।
प्रतिष्ठाप्य गृहेशं तु वस्त्रैः सम्परिवेष्टितम् ॥
[८१] विविधैः सैन्धवैर् वर्णै रक्तैर् वस्त्रैः समन्वितम् ।
“गृहेशः” अत्र कुजः । “सैन्धवैः” इति वस्त्रविशेषणम् । तेनैव सैन्धवैर् वर्णैर् वस्त्रैर् इत्य् अर्थः ।
ब्राह्मणाय सदा दद्याद् दक्षिणासहितं नृप ॥
वाचकाय महाबाहो गुणिने श्रेयसे नृप ।
इत्य् एषा कथिता पुण्या तिथीनाम् उत्तमा तिथिः ॥
याम् उपोष्य नरो रूपं दिव्यम् आप्नोति भारत ।
कान्त्यात्रेयसमो वीर तेजसा हरिसन्निभः ॥
ईदृग्रूपं समाप्येह याति भीमसदो नृप ।
“आत्रेयः” चन्द्रः । “हरिः” सूर्यः । “भीमस्य” महेश्वरस्य ।
प्रसादाद् विघनाथस्य गणेशस्य जगत्पतेः ॥
पठतां शृण्वतां राजन् कुर्वतां च विशेषतः ।
ब्रह्महत्यादिपापानि क्षीयन्ते नात्र संशयः ॥
इत्य् अङ्गारकचतुर्थी ।
[८२]
[अविघ्नचतुर्थीव्रतम्]
वराहपुराणे ।
अगस्त्य उवाच ।
तथाविघव्रतं राजन् कथयामि शृणुष्व तत् ।
[येन सम्यक् कृतेनेह न विघ्नम् उपजायते ॥]
चतुर्थ्यां फाल्गुने मासि गृहीतव्यं व्रतं त्व् इदम् ।
नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् ॥
तद् एवाग्नौ च होतव्यं तद् देयं ब्राह्मणाय च ।
चातुर्मास्यं व्रतं दैवं कृत्वा वै पञ्चमे तथा ॥
सौवर्णं गजवक्त्रं च कृत्वा विप्राय दापयेत् ।
पायसैः पञ्चभिः पात्रैर् व्यपेतसलिलैस् तथा ॥
एवं तस्य व्रतं कृत्वा सर्वविघ्नैः स मुच्यते ।
हयमेधस्य विघ्ने तु कृतवान् सगरः पुरा ॥
[एतद् एव चरित्वा तु हयमेधं स आप्तवान् ।
तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा ॥]
[८३] एतद् एव कृतं यस्मात् त्रिपुरं तेन पातितम् ।
तथा तु गच्छता स्वर्गं त्व् एतद् एव व्रतं कृतम् ॥
अन्यैर् अपि महीपालैः पृथिवीविजिगीषुभिः ।
तपोऽर्थिभिर् यज्ञकृते विघ्नोपशमनं परम् ॥
दिव्याय शूराय गजाननाय
लम्बोदरायैकरदासुराय ।
नगात्मजादेहमलोद्भवाय
कुठारहस्ताय नभश्चराय ॥
एवं प्रपूज्य स्तुतिभिः पुनश् च
होमं कुर्याद् विघ्नविनाशहेतोः ।
एवं कृते यान्ति विनाशम् आशु
विघ्नाश् च कार्याणि च यान्ति सिद्धिम् ॥
इत्य् अविघ्नव्रतम्
[कुन्दचतुर्थी]
देवीपुराणे ।
माघमासे तु सम्प्राप्ते चतुर्थी कुन्दसञ्ज्ञिता ।
[८४] सोपोष्या तु सुरश्रेष्ठ ततो राज्यं भविष्यति ॥
सर्वोपहारसम्पन्नं सर्वोपस्करम् आहरेत् ।
कुन्दपत्रफलं शाकं लवणं गुडशर्करा ॥
खण्डजीरककुस्तुम्बुधान्यानि विविधानि च ।
दातव्यानि सुरश्रेष्ठ कन्यकानां तु भक्तितः ॥
सूर्यपात्रं तथा भाण्डं मृन्मयानि विशेषतः ।
उद्दिश्य दापयेद् देव्यै प्रीयतां मे सदा इति ॥
अनेन विधिना शक्र सौभाग्यं पुरसन्ततिः ।
वर्धते नात्र सन्देहो नान्यथा मम भाषितम् अ॥
इति कुन्दचतुर्थीव्रतम् ।
[गणेशचतुर्थी]
नरसिंहपुराणे ।
सूत उवाच ।
चतुर्थ्यां तु न भुञ्जीत स्नात्वा नद्यां नरोत्तम ।
रक्ताम्बरधरो भूत्वा रक्तगन्धानुलेपनः ॥
रक्तचित्तो गणाधीशं विनायकम् अथार्चयेत् ।
रक्तचन्दनतोयेन स्नानपूर्वं विधानतः ॥
विलिप्य रक्तगन्धेन रक्तपुष्पैः प्रपूजयेत् ।
ततो ‘सौ दत्तवान् धूपम् आज्ययुक्तं सचन्दनम् ॥
[८५] नैवेद्यं चैव हारिद्रं गुडखण्डं घृतप्लुतम् ।
एवं संवत्सरं पूज्य विनायकम् अथास्तुवीत् ॥
इक्ष्वाकुर् उवाच ।
नमस्कृत्य महादेवं स्तोष्ये ‘हं तं विनायकम् ।
अभिषेके तथा तेन स्तुतः स्कन्देन वै पुरा ॥
वंशः क्लेशेन पुण्येन यशसा ब्रह्मचारिणा ।
कार्यार्थसिद्धये पूर्वं तं नमामि विनायकम् ॥
महागणपतिं शूरमूर्जितं जयवर्धनम् ।
एकदन्तं द्विदन्तं च चतुर्दन्तं चतुर्भुजम् ॥
त्र्यक्षं त्रिशूलहस्तं च रक्तनेत्रं वरप्रदम् ।
त्र्यम्बकेयं शङ्कुकर्णं प्रचण्डं दण्डनायकम् ॥
आरक्तं दण्डिनं चैव वह्निवक्त्रं हुतप्रियम् ।
अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् ॥
तं नमामि गणाध्यक्षं भीमम् उग्रम् उमासुतम् ।
मदमत्तं विरूपाक्षं भववक्त्रसमुद्भवम् ॥
सूर्यकोटिप्रतीकाशं भिन्नाञ्जनसमप्रभम् ।
ध्रुवं सुनिश्चलं शान्तं नमस्यामि विनायकम् ॥
[८६] नमो ‘स्तु गजरूपाय गणानां पतये नमः ।
मेरुमन्दररूपाय नमः कैलासवासिने ॥
विरूपाय स्वरूपाय नमस् ते ब्रह्मचारिणे ।
भक्तस्तुताय देवाय मनस् तुभ्यं विनायक ॥
त्वया पुराणं सर्वेषां देवानां कार्यसिद्धये ।
गजरूपं समास्थाय त्रासिताः सर्वदानवाः ॥
ऋषीणां देवतानां च नायकत्वं प्रकाशितम् ।
यतस् ततः सुरैर् अग्रैः पूज्यसे त्वं विनायक ॥
त्वाम् आराध्य गणाध्यक्षं सर्वज्ञं कामरूपिणम् ।
कार्यार्थं रक्तकुसुमै रक्तचन्दनवारिभिः ॥
रक्ताम्बरधरो भूत्वा चतुर्थ्याम् अर्चयेच् जपेत् ।
त्रिकालम् एककालं वा नियतो नियताशनः ॥
राजानं वा राजपुत्रं वा राजमन्त्रिणम् एव वा ।
राज्यं वा सर्वविघेन्शो वशीकुर्यात् सराष्ट्रकम् ॥
अविघ्नं तपसो मह्यं कुरु विघविनायक ।
मया त्वं संसुतो भक्त्या पूजितश् च विशेषतः ॥
यत् फलं सर्वतीर्थेषु सर्वयज्ञेषु यत् फलम् ।
तत् फलं समवाप्नोति स्तुत्वा देवं विनायकम् ॥
विषमं न भवेत् तस्य न च गच्छेत् पराभवम् ।
न च विघ्नो भवेत् तस्य जातो जातिस्मरो भवेत् ॥
[८७] य इदं पठति स्तोत्रं षड्भिर् मासैर् वरं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥
[इति गणेशचतुर्थीव्रतम्]
इति चतुर्थीव्रतानि ।
अथ पञ्चमीव्रतानि
[नागपञ्चमी]
भविष्यपुराणे ।
पञ्चमी दयिता राजन् नागानां नन्दवर्धनी ।
पञ्चम्यां किल नागानां भवतीत्य् उत्सवो महान् ॥
वासुकिस् तक्षकश् चैव कालियो मणिभद्रकः ।
ऐरावतो धृतराष्ट्रः कार्कोटकधञ्जयौ ॥
एते प्रयच्छन्त्य् अभयं तथा च प्राणिजीवनम् ।
पञ्चम्यां स्नपयन्तीह नागान् क्षीरेण ये नराः ॥
तेषां कुले प्रयच्छन्ति ते ‘भयं प्राणदक्षिणाम् ।
सप्तान् नागान् सदा मात्रा दह्यमानान् अहर्निशम् ॥
[८८] निर्वापयन्ति स्नपनैर् गवां क्षीराज्यमिश्रितैः ।
ये स्नापयन्ति तान् नागान् श्रद्धाभक्तिसमन्विताः ॥
[तेषां कुले सर्पभयं न भवेद् इति निश्चयः ।]
कृत्वा तु भोजनं पूर्वं ब्राह्मणानां तु कामतः ॥
[८९] विसृज्य नागाः प्रीयन्तां ये केचित् पृथिवीतले ।
ये च हेलिसदो ‘धस्था ये ‘अन्तरिक्षे दिवि स्थिताः ॥
ये नदीषु तथा नागा ये सरःस्व् अपि भोगिनः ।
ये वापीषु तडागेषु तेषु सर्वेषु वै नमः ॥
नागान् विप्रांश् च सम्पूज्य विसृज्य च यथार्हतः ।
ततः पश्चात् तु भुञ्जीत सह भृत्यैर् नराधिप ॥
प्रथमं मधुरम् अश्नीयाद् द्वितीयं कामतस् ततः ।
[९०] एवं तु नियमं कृत्वा यत् फलं तन् निबोध मे ।
मृतो नागपुरं याति पूज्यमानो ‘प्सरोगणैः ॥
विमानवरम् आरूढो रमते कालम् ईप्सितम् ।
तत आगत्य राजासौ सायुधानां वरो भवेत् ॥
सर्वरत्नसमृद्धश् च वाहनाढ्यश् च जायते ।
पञ्च जन्मान्य् असौ राजा द्वापरे द्वापरे भवेत् ॥
आधिव्याधिविनिर्मुक्तः पत्नीपुत्रसहायवान् ।
तस्मात् पूज्याश् च मान्याश् च घृतपायसअगुग्गुलैः ॥
इति नागपञ्चमी ।
[नागदष्टोद्धरणपञ्चमी]
सुमन्तुर् उवाच ।
नागदष्टो नरो राजन् प्राप्य मृत्युं व्रजत्य् अधः ।
अधो गत्वा भवेत् सद्यो निर्विषो नात्र संशयः ॥
शतानीक उवाच ।
नागदष्टः पिता यस्य भ्राता वा दुहितापि वा ।
माता पुत्रो ‘थ भार्या वा कर्तव्यं तद् वदस्व मे ॥
[९१] मोक्षाय तस्य विप्रेन्द्र दानं व्रतम् उपोषितम् ।
ब्रूहि मे द्विजशार्दूल येन तद् वै करोम्य् अहम् ॥
सुमन्तुर् उवाच ।
उपोष्या पञ्चमी राजन् नागानां पुष्टिवर्धिनी ।
स्वम् एकम् एकं राजेन्द्र विधानं शृणु भारत ॥
मासि भाद्रपदे या तु शुक्लपक्षस्य पञ्चमी ।
सा तु पुण्यमया प्रोक्ता ग्राह्या सा च महीपते ॥
ज्ञेया द्वादशमासस्य जपन् जप्यं च भारत ।
चतुर्थ्याम् एकभक्तं तु तस्यां नक्तं प्रकीर्तितम् ॥
भूरिभारमयं नागम् अथापि कलधौतकम् ।
कृत्वा दारुमयं वापि अथ वा मृन्मयं नृप ॥
“भूरिभारमयं” कनकभारमयम् । “कलधौतकम्” रूप्यमयम् ।
[पञ्चम्याम् अर्चयेद् भक्त्या नागानां पञ्चकं तथा ।]
[९२] करवीरैः शपतत्रैर् जातीपुष्पैश् च सुव्रत ॥
तथा गन्धप्रभूतैश् च पूजयेन् नागम् उत्तमम् ।
ब्राह्मणान् भोजयेत् पश्चाद् घृतपायसमोदकैः ॥
अनन्तं वासुकिं शङ्खं पद्मं कम्बलम् एव च ।
तथा कार्कोटकं नागं नागम् अश्वतरं तथा ॥
घृतराष्ट्रं शङ्खपालं कालियं तक्षकं तथा ।
पिङ्गलं च महानागं मासि मासि प्रकीर्तयेत् ॥
[९३] वत्सरान्ते पारणं स्यान् महाब्राह्मणभोजनम् ।
इतिहासविदे नागं गौरिकेण कृतं नृप ॥
तथार्जुनी प्रदातव्या वाचकाय महीपते ।
“अर्जुनी” गौः ।
एष पारणके वापि विधिः प्रोक्तो बुधैर् नृप ॥
सुवर्णभारनिष्पन्नं नागं दत्वा [तथा च गाअम् ।
व्यासाय कुरुशार्दूल पितुर् आनृण्यम् आप्नुयाः ॥
तव पित्रा कृता ह्य् एवं पञ्चम्युपासना नृप ।
उत्सृज्य नागतां वीर तव पूर्वपितामहः ॥
पुष्पोत्तरं सदो गत्वा तथा पुष्पसदो नृप ।
शुनासीरसदो गत्वा] तथा भाग्यसदो नृप ॥
सर्वदेवसदो गत्वा कञ्जजस्य सदो गतः ।
“शुनासीरसदः” इन्द्रसभा । “भाग्यसदः” आदित्यसभा । “कञ्जजो” ब्रह्मा ।
अन्ये ‘पि ये करिष्यन्ति चेदं व्रतम् अनुत्तमम् ॥
दष्टको मोक्षम् एतेषां शुभं स्थानम् अवाप्स्यति ।
इति नागदष्टोद्धरणपञ्चमी ।
[९४]
[सर्पाभयपञ्चमी]
तथा ।
श्रावणे मासि पञ्चम्यां शुक्लपक्षे नराधिप ।
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ॥
पूजयेद् विधिवद् द्वारं दधिदूर्वाङ्कुरैः कुशैः ।
गन्धपुष्पोपहारैश् च ब्राह्मणानां च तर्पणैः ॥
ये तस्यां पूजयन्तीह नागान् भक्तिपुरःसरम् ।
न तेषां सर्पतो वीर भयं भवति कुत्रचित् ॥
इति सर्पाभयपञ्चमी ।
[आलेख्यसर्पपञ्चमी]
तथा ।
तथा भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः ।
यस् त्व् आलेख्य नरो नागान् कृष्णवर्णादिवर्णकैः ॥
पूजयेद् गन्धपुष्पैश् च सर्पिःपायसगुग्गुलैः ।
[पायसेन घृताढ्येन पूजयित्वा द्विजोत्तमम् ॥
नक्तं स्वयं तद् अश्नीयाद् यतवाद्वीतमत्सरः ।]
[९५] तस्य तुष्टिं समायान्ति पन्नगास् तक्षकादयः ॥
आ सप्तमात् कुलात् तस्य न भयं नागतो भवेत् ।
आलेख्यसर्पपञ्चमी ।
[शान्तिपञ्चमी]
तथा ।
तथा चाश्वयुजे मासि पञ्चम्यां कुरुनन्दन ।
कृत्वा कुशमयान् नागान् इन्द्रान्या सह पूजयेत् ॥
घृतोदकाभ्यां पयसा स्नापयित्वा विशाम्पते ।
गोधूमैः पयसा स्विन्नैर् भक्ष्यैश् च विविधैस् तथा। ॥
यस् तस्यां विधिवन् नागाञ् छुचिर् भक्त्या समन्वितः ।
पूजयेत् कुरुशार्दूल तस्य शेषादयो नृप ॥
नागाः प्रीता भवन्तीह शान्तिम् आप्नोति वै विभो ।
स शान्तिलोकं आसाद्य मोदते शाश्वतीः समाः ॥
इति शान्तिपञ्चमी ।
[९६]
[नागमैत्रीपञ्चमी]
पद्मपुराणे ।
पञ्चमी सा तिथिर् धन्या सर्वपापहरा शुभा ।
एतस्यां सर्वतो यस् तु कत्वम्लं परिवर्जयेत् ॥
क्षीरेण स्नापयेन् नागान् ते तु यास्यन्ति मित्रताम् ।
इति नागमैत्रेयपञ्चमि ।
[शान्तिपञ्चमी]
वराहपुराणे ।
अगस्त्य उवाच ।
शान्तिव्रतं प्रवक्ष्यामि तव राजन् शृणुष्व तत् ।
येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनाम् ॥
पञ्चम्यां शुक्लपक्षस्य कार्तिके मासि पार्थिव ।
आरभ्य वर्षम् एकं तु भुञ्जीताम्बुविवर्जितम् ॥
नक्तं देवं तु सम्पूज्य हरिं शेषोपरि स्थितम् ।
अनन्तायेति पादौ तु कटिं वासुकये तथा ॥
तक्षकायेति जटरम् उरः कर्कोटकाय च ।
[९७] पद्माय कण्ठं सम्पूज्य महापद्माय वै भुजौ ॥
शङ्खपालाय वक्त्रं तु कुटिलायेति वै शिरः ।
पूर्वं विष्नुगतं पूज्य पृथक् चैव प्रपूजयेत् ॥
“पृथक् चैव” इति, अनन्ताद्यान् अष्टनागान् पृथक् पूजयेद् इत्य् अर्थः ।
क्षीरेण स्नपनं कुर्यात् तान् उद्दिश्य हरेः पुनः ।
तदग्रे होमयेत् क्षीरं तिलैः सह विचक्षणः ॥
एवं संवत्सरान्ते तु कुर्याद् ब्राह्मणभोजनम् ।
नागांश् च काञ्चनान् कृत्वा ब्राह्मणेभ्यो निवेदयेत् ॥
एवं यः कुरुते भक्त्या व्रतम् एतन् नराधिप ।
तस्य शाण्तिर् भवेन् नित्यं न नागेभ्यो भयं भवेत् ॥
इति शान्तिपञ्चमीव्रतम् ।
[९८]
अथ षष्ठीव्रतानि
[कामषष्ठी]
तत्र वराहपुराणे ।
अगस्त्य उवाच ।
कामव्रतं महाराज शृणु मे गदतो ‘धुना ।
येन कामाः सुसिद्धाः स्युर् मनसा चिन्तिता अपि ॥
षष्ठ्यां फलाशनो यस् तु वर्षम् एकं व्रतं चरेत् ।
माघमासे सिते पक्षे पञ्चम्यां नक्तभोजनः ॥
षष्ठ्यां तु प्राशयेद् धीमान् फलम् एकं तु पार्थिवः ।
ततो भुञ्जीत यत्नेन वाग्यतः शुद्धम् ओदनम् ॥
ब्राह्मणैः सह राजेन्द्र अथ वा केवलैः फलैः ।
तम् एकं दिवसं स्थित्वा सप्तम्यां पारयेन् नृप ॥
अग्निकार्यं तु कुर्वीत गुहरूपेण केशवम् ।
पूजयित्वा विधानेन वर्षम् एकं व्रतं वरेत् ॥
षड्वक्त्रः कार्तिको गुहः सेनानीः पावकात्मजः ।
कुमारः स्कन्द इत्य् एवं पूज्यो विष्णुश् च नामभिः ॥
समाप्तौ तु व्रतस्यास्य कुर्याद् ब्राह्मणभोजनम् ।
षण्मुखं सर्वसौवर्णं ब्राह्मणाय निवेदयेत् ॥
सर्वे कामाः समृद्ध्यन्तां मम देव षडानन ।
त्वत्प्रसादाद् इमं भक्त्या गृह्यतां विप्र मा चिरम् ॥
[९९] अनेन दत्वा मन्त्रेण ब्राह्मणाय सयुग्मकम् ।
“सयुग्मकम्” वस्त्रयुग्मसहितम् ।
ततः कामाः समृध्यन्ति सर्व एवेह जन्मनि ॥
अपुत्रो लभते पुत्रम् अधनो लभते धनम् ।
भ्रष्टराज्यो लभेद् राज्यं नात्र कार्या विचारणा अ॥
इति कामव्रतम् ।
[स्कन्दषष्ठी]
भविष्यपुराणे ।
सुमन्तुर् उवाच ।
षष्ठ्यां फलाशनो राजन् विशेषात् कार्तिके नृप ।
राज्यच्युतो विशेषेण स्वं राज्यं लभते ‘चिरात् ॥
षष्ठी तिथिर् महाराज सर्वदा सर्वकामदा ।
उपोष्या सा प्रयत्नेन सर्वकालं जयार्थिना ॥
कार्तिकेयस्य दयिता चैषा षष्ठी महातिथिः ।
देवसेनाध्पत्यं हि प्राप्तं यस्यां महात्मना ॥
अस्यां श्रीसमायुक्तो यस्मात् स्कन्दो ‘भवत् पुरा ।
तस्मात् षष्ठ्यां न भुञ्जीत प्राप्नुयाद् भार्गवीं तथा ॥
[१००] दत्वार्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिनामुखः ।
दध्ना घृतोदकैः पुष्पैर् मन्त्रेणानेन सुव्रत ॥
सप्तर्षिदारज स्कन्द महासेन महाबल ।
रुद्रोमाजात षद्वक्त्र गङ्गागर्भ नमो ‘स्तु ते ॥
प्रीयतां देवसेनानीः सम्पादयतु मद्व्रतम् ।
दत्वा विप्राय चाप्य् अन्नं यच् चान्यद् अपि वर्तते ॥
पश्चाद् भुक्त्वा त्व् असौ रात्यां भूमिं कृत्वा तु भाजनम् ।
एवं षष्ठीव्रतस्यास्य चोक्तं स्कन्देन यत् फलम् ॥
तन् नोबिध महाराज प्रोच्यमानं मयाखिलम् ।
षष्थ्यां फलाशनो यस् तु नक्ताहारो भविष्यति ॥
शुक्लायाम् अथ कृष्णायां ब्रह्मचारी समाहितः ।
तस्य सिद्धिं धृतिं पुष्टिं राज्यम् आयुर् निरामयम् ॥
पारत्रिकं चैहिकं च दद्यात् स्कन्दो न संशयः ।
अशक्तो ह्य् उपवासस्य स नक्तेन व्रती भवेत् ॥
तैलं षष्ठ्यां न भुञ्जीत न दिवा कुरुनन्दन ।
[१०१] यस् तु षष्ठ्यां नरो नक्तं कुर्याद् भरतसत्तम ॥
सर्वपापैर् विनिर्मुक्तो गाङ्गेयसदनं व्रजेत् ।
गाङ्गेयो ‘त्र कार्तिकेयः ।
स्वर्गे च नियतं वासो भवेन् नैवात्र संशयः ॥
इह चागत्य कालान्ते यथोक्तफलभाग् भवेत् ।
देवानाम् अपि वन्द्यो ‘सौ राजराजो भविष्यति ॥
इति स्कन्दषष्ठी ।
[कृष्णषष्ठी]
आदित्य उवाच ।
कृष्णषष्ठ्यां प्रयत्नेन कृत्वा नक्तं विधानतः ।
मासि मार्गशिरस्य् आदाव् अंशुमान् इति पूजयेत् ॥
विधिवत् प्राश्य गोमूत्रम् अनाहारो निशि स्वपेत् ।
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
पुष्ये ‘प्य् एवं सहस्रांशुं भानुमन्तम् उशन्ति वै ।
“उशन्ति” इच्छन्ति ।
वाजपेयफलं तत्र घृतं प्राश्य लभेन् नरः ॥
माघे दिवाकरं नाम कृष्णषष्ठ्यां निवेदयेत् ।
[१०२] निशि पीत्वा तु गोमूत्रं गोमेधफलम् अश्नुते ॥
मार्तण्डं फाल्गुने मासि पूजयेद् भक्षयेत् तिलान् ।
राजसूयस्य यज्ञस्य फलं पुण्यम् अवाप्नुयात् ॥
चैत्रे च हंसनामानं कृष्णाष्टम्यां प्रपूजयेत् ।
शुक्लपुष्पं नरः प्राश्य चावमेधफलं लभेत् ॥
[वैशाखे सूर्यनामानं कृष्ठ्यां प्रपूजयेत् ।]
पीत्वा कुशोदकं पुण्यं जितक्रोधो जितेन्द्रियः ॥
महामेधस्य यज्ञस्य वैनतेयफलं लभेत् ।
वैशाखे इति शेषः ।
ज्येष्ठे दिवस्पतिं पूज्य गवां शृङ्गोदकं पिबेत् ॥
गवां कोटिप्रदानस्य निखिलं फलम् अश्नुते ।
आषाढे त्व् अर्कनामानम् इष्ट्वा प्राश्य च गोमयम् ॥
प्रयात्य् अर्कसलोकत्वं वर्षाणां द्विशतं विभो ।
श्रावणे ‘र्यमनामानं पूजयित्वा पयः पिबेत् ॥
वर्षाणाम् अयुतं साग्रं मोदते भास्करालये ।
मासि भाद्रपदे षष्ठ्यां भास्करं नाम पूजयेत् ॥
प्राशनं पञ्चगव्यस्य सर्वं मेधफलं लभेत् ।
मासि चाश्वयुजे षष्ठ्यां भगाख्यं नाम पूजयेत् ॥
दूर्वाङ्कुरं सकृत् प्राश्य राजसूयफलं लभेत् ।
[१०३] मासे च कार्तिके षष्ठ्यां शक्राख्यं नाम पूजयेत् ॥
गोमूत्रफलम् अश्नीयद् अश्वमेधफलं लभेत् ।
वर्षान्ते भोजयेद् विप्रान् सूर्यभक्तिपरायणान् ॥
पायसं मधुसंयुक्तम् आज्येन सुपरिप्लुतम् ।
शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत् ॥
निवेदयेत् तु सूर्याय गां कृष्णां तु पयस्विनीम् ।
वर्षम् एकं चरेद् एवं नैरन्तर्येण यो नरः ॥
कृष्णषष्ठीव्रतं भक्त्या तस्य पुण्यफलं शृणु ।
सर्वपापविनिर्मुक्तः सर्वकामसमन्वितः ॥
मोदते सूर्यलोके तु स नरः शाश्वतीः। समाः ।
इति कृष्णषष्ठीव्रतम् ।
अथ सप्तमीव्रतानि
[शाकसप्तमी]
तत्र भविष्यपुराणे ।
क्षमा सत्यं दया दानं शौचम् इन्द्रियनिग्रहः ।
सूर्यपूजाग्निहवनं सन्तोषस्तेयवर्जनम् ॥
सर्वव्रतेष्व् अयं धर्मः सामान्येन सदा स्थितः ।
[१०४ तथा ।
गृहीत्वा सप्तमीकल्पं मानवो यस् तु तामसः ॥
त्यजेत् कामाद् भयाद् वापि स ज्ञेयः पतितो बुधैः ।
सप्तम्यां सोपवासस् तु रात्रौ भुङ्क्ते तु यो नरः ॥
कृत्वोपवासं षष्ठ्यां तु पञ्चम्याम् एकवारभुक् ।
दत्वा तु संस्कृतं शाकं भक्ष्यभोज्यैः समन्वितम् ॥
देवाय ब्राह्मणेभ्यश् च रात्रौ भुञ्जीत वाग्यतः ।
यावज्जीवं नरः कश्चिद् व्रतम् एतत् करिष्यरि ॥
तस्य श्रीर् विजयश् चैव त्रिवर्गश् च विवर्धते ।
मृतश् च स्वर्गम् आप्नोति विमानवरम् आस्थितः ॥
सूर्यलोके स रमते मन्वन्तरगणान् बहून् ।
इह चागत्य कालान्ते रिपून् शास्ति समन्ततः ॥
पुत्रपौत्रैः परिवृतो दाता स्यान् नृपपतिश् चिरम् ।
स भुनक्त्य् अपरान् राजन् विग्रहे वाजिनः परैः ॥
गयेन राजशार्दूल शाकाहारेण सप्तमीम् ।
उपोष्य लब्धं तत् तीर्थं पैत्रं वै गयसञ्ज्ञितम् ॥।
कुरुणा इह पूर्वेण शाकाहारेण वै ततः ।
[१०५] धर्मक्षेत्रं कुरुक्षेत्रं कृतं तेन विवस्वता ॥
सप्तमी नवमी षष्ठी तृतीया पञ्चमी तथा ।
कामदास् तिथयो ह्य् एता इहैव नरयोषिताम् ॥
सप्तमी माघमासस्य नवम्य् आश्वयुजे तथा ।
षष्ठी भाद्रपदे धन्या वैशाखे तु तृतीयका ॥
पुण्या भाद्रपदे ज्ञेया पञ्चमी नागपञ्चमी ।
इत्य् एता ह्य् एषु मासेषु विशेषास् तिथयः शुभाः ॥
शाकं सुसंस्कृतं कृत्वा पेयभक्ष्यसमन्वितम् ।
दत्वा विप्रे यथाशक्त्या पश्चाद् भुङ्क्ते निशि व्रती ॥
कार्तिके शुक्लपक्षस्य ग्राह्येयं कुरुनन्दन ।
चतुर्भिस् त्व् अपि मासैस् तु पारणं प्रथमं स्मृतम् ॥
अगस्तिकुसुमैश् चात्र पूजा कार्या विभावसोः ।
विलेपनं कुङ्कुमं च धूपैश् चैवापराजितैः ॥
स्नानं तु पञ्चगव्येन तद् एव प्राशयेत् तथा ।
“विभावसोः” सूर्यस्य ।
नैवेद्यं चात्र देवस्य पायसं परिकीर्तितम् ॥
तद् एव देयं विप्राणां शाकं भक्ष्यम् अथात्मना ।
शुभशाकसमायुक्तं भक्ष्यपेयसमन्वितम् ॥
[१०६] [द्वितीये पारणे राजञ् छुभगन्धानि यानि वै ।
पुष्पाणि तानि देवस्य तथा श्वेतं च चन्दनम् ॥
अगुरुश् चापि धूपो ‘थ नैवेद्यं गुडपूपकाः ।
स्नानं कुशोदकेनात्र प्राशनं गोमयस्य तु ॥
तृतीये करवीराणि तथा रक्तं च चन्दनम् ।
धूपानां गुग्गुलुश् चात्र प्रियो देवस्य सर्वदा ॥
शाल्योदनं च नैवेद्यं प्रियो देवस्य सर्वदा ।
तम् एव ब्राह्मणानां तु भक्ष्यलेह्यसमन्वितम् ॥]
कालशाकेन च विभो युक्तं दद्याद् विचक्षणः ।
गौरसर्षपकल्केन स्नानं चात्र विदुर् बुधाः ॥
तस्यैव प्राशनं धन्यं सर्वपापहरं शूभम् ।
तृतीयपारणस्यान्ते महद् ब्राह्मणभोजन ॥
श्रवणं च पुराणस्य वाचनं चास्य शस्यते ।
देवस्य पुरतः स्थित्वा ब्राःमणानां तथाग्रतः ॥
ब्राह्मणाद् वाचकाच् छ्राव्यं नान्यवर्णसमुद्भवात् ।
तथा तान् ब्राह्मणान् सर्वान् शक्त्या भक्त्या च पूजयेत् ॥
वाचकस्यामले राजन् वाससी सन्निवेदयेत् ।
वाचके पूजिते देवः सदा तुष्यति भास्करः ॥
[करवीरं यथेष्टं तु तथा रक्तं च चन्दनम् ।
[१०७] यथेष्टं गुग्गुलुं तस्य यथेष्टं पायसं सदा ॥
यथेष्टा मोदकास् तस्य यथा वै ताम्रभाजनम् ।]
यथेष्टं च घृतं तस्य यथेष्टो वाचकः सदा ॥
पुराणं च यथेष्टं वै सवितुः कुरुनन्दन ।
इत्य् एषा सप्तमी पूर्णा स्वप्रिया गोपतेः सदा ॥
याम् उपोष्येह पुरुषो दौर्गत्येन न युज्यते ।
इदं शाकसप्तमीव्रतं कार्तिके शुक्लसप्तम्याम् उपक्रम्य प्रतिमासं कुर्वता पुनर् मासचतुष्टये या शुक्लसप्तमी तस्यां पारणं कार्यम् । एवम् एकस्मिन् वर्षे वारत्रयं पारणं भवति । एवम् एव वर्षान्तरेष्व् एतादृशाअं [व्रतं यावज्जीवम्] कर्तव्यम् ।
[यज्ञसप्तमी]
वादुदेव उवाच ।
नैमित्तिकान् ततो वक्ष्ये यज्ञान् अद्य समासतः ।
[१०८] सप्तम्यां ग्रहणे चैव सङ्क्रान्तिषु विशेषतः ॥
शुक्लपक्षस्य सप्तम्यां हविर् भुक्त्वैकदा दिवा ।
सम्यग् आचम्य सन्ध्यायां वरुणं प्रणिपत्य च ॥
इन्द्रियाणि च संयम्य स तं ध्यात्वा स्वपेद् अधः ।
दर्भशय्यागतो रात्रौ प्रातः स्नातः सुसंयतः ॥
सर्वस्यादौ तथैवान्ते पूर्ववद् वरुणं यजेत् ।
जुहुयाद् बह्वृचो ह्य् अग्निं सूर्याग्निं परिकल्प्य वै ॥
सूर्याग्निकरणं वक्ष्ये तर्पणं च समासतः ।
अस्त्रेणोङ्कारम् उल्लिख्य सावित्र्याभ्युक्ष्य वानलम् ॥
“अस्त्रेण” अस्त्रमन्त्रेण । “सावित्र्या” सूर्यगायत्र्या ।
प्रक्षिप्यास्तीर्य दर्भांस् तु देशे काले यथेप्सिते ।
प्रागग्रैर् उदगग्रैश् च पात्राण्य् आलभ्य चक्रवत् ॥
पवित्रं द्विकुशं कृत्वा साग्रं प्रादेशसम्मितम् ।
तेन पात्राणि सम्प्रोक्ष्य संशोध्याज्यं विलोप्य तु ॥
उदग्भागस्थिते पात्रे प्रज्वाल्याथोल्मुखेन् च ।
[१०९] पर्यग्निकरणं कृत्वा तथाज्योत्पवनं त्रिधा ॥
परिमृज्य स्रुवादींश् च दर्भैः सम्प्रोक्षितैश् च तैः ।
जुहुयात् प्रोक्षिते वह्नौ तत्रार्कं पूजयेज् जपेत् ॥
भूमौ स्थितेन पातेण विष्टरेण च पाणिना ।
वामेन नृपशार्दूल नान्तरिक्षि तु हूयते ॥
“अन्तरिक्षे” पर्णिकादौ
दक्षिणेन स्रुवं गृह्य जुहुयात् पावकं पुनः ।
हृदयेन क्रियाः सर्वाः कर्तव्याः पूर्वचोदिताः ॥
“हृदयेन” हृदयमन्त्रेण ।
अर्काद् आरभ्य सन्तर्प्य दद्यात् पूर्णाहुतिं ततः ।
वरुणायादरान् माघे सप्तम्यां वरुणं यजेत् ॥
यथाशक्त्या तु विप्रेभ्यः प्रदद्यात् खण्डवेष्टकान् ।
दद्याच् च दक्षिणां शक्त्या प्राप्यते यागजं फलम् ॥
एवं च फाल्गुने सूर्यं चैत्रे वाप्य् अंशुमालिनम् ।
[११०] वैशाखे मासि धातारम् इन्द्रं ज्येष्ठे यजेद् रविम् ॥
आषाढे श्रावणे मासि भगं भाद्रपदे तथा ।
आश्विने चापि पर्जन्यं त्वष्टारं कार्तिके यजेत् ॥
मार्गशीर्षे तु मित्रं च पौषे विष्णुं यजेद् रविम् ।
संवत्सरेण यत् प्रोक्तं फलम् इष्टं दिने दिने ॥
तत् सर्वं प्राप्नुयात् क्षिप्रं भक्त्या श्रद्धासमन्वितः ।
एवं संवत्सरे पूर्णे कृत्वा वै काञ्चनं रथम् ॥
सप्तभिर् वाजिभिर् युक्तं नानारत्नोपशोभितम् ।
आदित्यप्रतिमां मध्ये शुद्धहेम्ना कृतां शुभाम् ॥
रत्नैर् अलङ्कृतां कृत्वा हेमपद्मोपरि स्थिताम् ।
तस्मिन् रथवरे कृत्वा सारथिं चाग्रतः स्थितम् ॥
वृतं द्वादशभिर् विप्रैः क्रमान् मासधिपात्मभिः ।
सर्वकल्पज्ञम् आचार्यं पूजयित्वा रथाग्रतः ॥
सञ्चिन्त्यादित्यवत् तं वै स्तुवण् रत्नादिनार्चयेत् ।
एवं मासाधिपान् विप्रान् सम्पूज्याथ निवेदयेत् ॥
आचार्याय रथं छत्रं ग्रामं गावो महीं शुभाम् ।
[१११] आश्वान् मासाधिपेभ्यश् च द्वादशभ्यो निवेदयेत् ॥
एवं भक्त्या [यथाशक्त्या] हेमरत्नादिभूषणम् ।
दत्वा तस्य नमस्कृत्य व्रतं पूर्णं निवेदयेत् ॥
अत ऊर्ध्वं न दोषो ‘स्ति व्रतस्याकरणे ‘पि मे ।
एवम् अस्त्व् इति विप्रेन्द्रैः महाचार्यैः पुनः पुनः ॥
बह्वीश् चैवाशिषो दत्वा प्रवदेत् प्रीयताम् इति ।
आदित्यो येन कामेन त्वया चाराधितो व्रतैः ॥
तुभ्यं ददातु तं कामं सम्पूर्णं भवतु व्रतम् ।
विप्रेभ्यो गुणवद्भ्यश् च शिष्टेभ्यश् च विशेषतः ॥
दीनेभ्यः कृपणेभ्यश् च शक्त्या दत्वा च दक्षिणाम् ।
ब्राह्मणान् भोजयित्वा च व्रतम् एतत् समापयेत् ॥
कृत्वैवं सप्तमीम् अब्दं राजा भवति धार्मिकः ।
एवं तु स भवेद् राजन् भास्करस्यातिवल्लभः ॥
शतयोजनविस्तीर्णं निःसपत्नम् अकण्टकम् ।
निष्पन्नं मण्डलं भुङ्क्ते साग्रं वर्षशतं सुखी ॥
वित्तहीनो ‘पि यो भक्त्या कृत्वा ताम्रमयं रथम् ।
[११२] दद्याद् व्रतावसाने तु कृत्वा सर्वं यथोदितम् ॥
सो ‘शीतियोजनं भुङ्क्ते विस्तीर्णं मण्डलं बुधः ।
एवं पिष्टमयं सो ‘पिअ वित्तहीनो ददेद् रथम् ॥
आषष्टियोजनं भुङ्क्ते दीर्घायुर् नीरजः सुखी ।
सूर्यलोकं स कल्पान्ते सकृत् कृत्वा समाप्नुयात् ॥
इति यज्ञसप्तमीव्रतम् ।
[रथाङ्गसप्तमी]
वादुदेव उवाच ।
माघस्य शुक्लपक्षे तु पञ्चम्यां मत्कुलोद्वह ।
एकभक्तं समाख्यातं षष्ठ्यां नक्तम् उदाहृतम् ॥
सप्तभ्याम् उपवासं तु केचिद् इच्छन्ति सुव्रतम् ।
षष्ठ्यां केचिद् उशन्तीह सप्तम्यां राधनं किल ॥
कृत्वोपवासः षष्ठम्यां तु पूजयेद् भास्करं बुधः ।
रक्तचन्दनमिश्रैश् तु करवीरैः समाहृतैः ॥
गुग्गुलेन महाबाहो सुगन्धेन च सुव्रत ।
[११३] पूजयेद् देवदेवेशं ग्रहेशं शङ्करं रविम् ॥
एवं हि चतुरो मासान् माधादीन् पूजयेद् रविम् ।
आत्मनश् चापि शुद्ध्यर्थं प्राशनं गोमयस्य च ॥
स्नानं च गोमयेनेह कर्तव्यं चात्मशुद्धये ।
ब्राह्मणान् दिव्यभौमांश् च भोजयेच् चापि भक्तितः ॥
ज्येष्ठादिष्व् अपि मासेषु श्वेतचन्दनम् उच्यते ।
श्वेतानि चाप् पुष्पाणि शुभगन्धान्वितानि वै ॥
कृष्णागुरुस् तथा धूपो नैवेद्यं पायसं परम् ।
तेनैव ब्राह्मणांस् तांस् तु भोजयेच् च महामते ॥
प्राशयेत् पञ्चगव्यं तु स्नानं तेनैव पुत्रकः ।
कार्तिकादिषु मासेषु अगस्तिकुसुमैः स्मृतम् ॥
पूजनं यदुशार्दूल धूपश् चैवापराजितः ।
नैवेद्यं गुडपूपाश् च तथा चेक्षुरसं स्मृतम् ॥
तेनैव ब्राह्मणांस् तांस् तु भोजयेच् च स्वशक्तितः ।
कुशोदकं प्राशयेच् च स्नानं च कुरु सिद्धये ॥
तृतीयपारणस्यान्ते माघे मासि महामते ।
भोजनं पायसं चैव द्विगुणं समुदाहृतम् ॥
देवदेवस्य पूजा च कर्तव्या शक्तितो बुधैः ।
[११४] रथस्य चाधियानं तु रथयात्रा च सुव्रत ॥
व्रतस्य प्राप्तिहेतोर् वै कर्तव्या विभवे सति ।
दानं स्वर्णरथस्येह यथोक्तं विभवे सति ॥
इत्य् एषा कथिता पुत्र रथाङ्गा सप्तमी शुभा ।
महासप्तमीति विख्याता महापुण्या महोदया ॥
याम् उपोष्य धनं पुत्रान् कीर्तिं विद्यां समश्नुते ।
इति रथाङ्गसप्तमी ।
[रथसप्तमी]
ब्रह्मोवाच ।
माघे मासि महादेव सिते पक्षे जितेन्द्रियः ।
षष्ठ्याम् उपोषितो भूत्वा गन्धपुष्पोपहारतः ॥
पूजयित्वा दिनकरं रात्रौ तस्याग्रतः स्वपेत् ।
विबुद्धस् त्व् अथ सप्तम्यां भक्त्या भानुं समर्चयेत् ॥
ब्राह्मणान् भोजयेद् भक्त्या वित्तशाठ्यं विवर्जयेत् ।
खण्डवेष्टैर् मोदकैश् च तथेक्षुगुडपूपकैः ॥
[११५] अथ संवत्सरे पूर्णे सप्तम्यां कारयेद् बुधः ।
देवदेवस्य वै यात्रां पूर्वोक्तविधिना चरेत् ॥
कृच्छ्रपादं तु यत् कृत्वा रथारूढं च तं रविम् ।
पश्येद् भक्त्या जगन्नाथं स याति परमां गतिम् ॥
तृतीयायाम् एकभक्तं चतुर्थ्यां नक्तम् उच्यते ।
अयाचितं तु पञ्चम्यां षष्ठ्यां चैवम् उपोषितः ॥
सप्तम्यां पारणं कुर्याद् दृष्ट्वा देवं रथे स्थितम् ।
पूजयित्वा च विधिना भक्त्या शक्त्या त्रिलोचन ॥
सौवर्णम् तु रथं कृत्वा ताम्रपात्रोपरि स्थितम् ।
रथमध्ये न्यसेद् व्योम पूजितं मणिभिर् नवम् ॥
पद्मरागं न्यसेन् मध्ये मौक्तिकं पूर्वतो न्यसेत् ।
इन्द्रनीलम् अथो याम्यां वारुण्यां मरकतं न्यसेत् ॥
प्रवालम् उत्तरे रुद्र सवज्रं विन्यसेद् बुधः ।
श्वेतं पीतं सितं वापि रक्तं वान्धकसूदन ॥
एतानि भव वस्त्राणि दिक्षु सर्वासु विन्यसेत् ।
[११६] पताका रथसंस्थाने घण्टाभरणभूषितम् ॥
पुष्पदाम्ना स्वलङ्कृत्व रथं रुद्र समन्ततः ।
यथान्यायं पूजयित्वा भास्कराय निवेदयेत् ॥
भोजयित्वाथ वा विप्रान् आचार्याय निवेदयेत् ।
यो ‘धीते सप्तमीकल्पं सोपाख्यानं च शङ्कर ॥
आचार्यः स द्विजो ज्ञेयो वर्णानाम् अनुपूर्वशः ।
सौराणां वैष्णवानां च शैवानां पार्वतीप्रिय ॥
अलाभे तु सुवर्णस्य रथं राजतम् आदिशेत् ।
तदभावे ताम्रमयं रथं व्योम च कारयेत् ॥
अलाभेन तु ताम्रस्य रथः पिष्टमयः स्मृतः ।
सहिरण्यं महादेव [ताम्रभाजनम् आस्थितम् ॥
कौशेययुग्मसहितं ब्राह्मणाय निवेदयेत् ।
पूर्वोक्ताय महादेव] वाचकाय महात्मने ॥
पञ्चरत्नसमायुक्तं शुभाङ्गं प्रावृतं सितम् ।
स्वशक्त्या तु विरूपाक्ष वित्तशाठ्यं विवर्जयेत् ॥
एषा पुण्या पापहरा रथाङ्गा सप्तमी हर ।
कथिता ते मया रुद्र महतीयं प्रकीर्तिता ॥
[११७] स्नानं दानम् अथो होमः पूजनं ग्रहनायके ।
शतसाहस्रिकं पुण्यं भवेद् भूधर विद्यते ॥
एवम् एषा पुण्यतरा माघे प्राप्ते तु सप्तमी ।
याम् उपोष्य नरो भक्त्या सूर्यस्यानुचरो भवेत् ॥
ब्राह्मणो याति देवत्वं क्षत्रियो विप्रतां व्रजेत् ।
वैश्यः क्षत्रियतां याति शूद्रो वैश्यत्वम् एति वै ॥
विद्याविनयसम्पन्नं भर्तारं कन्यका लभेत् ।
अपुत्रा स्त्री सुतं विन्द्यात् सौभाग्यं च गणाधिप ॥
विधवा वाप्य् उपोष्येमां सप्तमीं त्रिपुरान्तक ।
नन्यजन्मसु वैधव्यं प्राप्नुयात् पार्वतीप्रिय ॥
बहुपुत्रा बहुधना बर्तुर् वल्लभतां व्रजेत् ।
यावद् वै सप्त जन्मानि नारी वा पुरुषस् तथा ॥
इति रथसप्तमी ।
[फलसप्तमी]
सुमन्तुर् उवाच ।
अथ भाद्रपदे मासि शुकपक्षे महामते ।
[११८] सोपोष्या प्रथमं तत्र विधानं शृणु यद् भवेत् ॥
अयाचितं चतुर्थ्यां तु पञ्चम्याम् एकभोजनम् ।
[उपवासपरः षष्ठ्यां जितक्रोधो जितेन्द्रियः ॥
अर्वयित्वा दिनकरं गन्धपुष्पनिवेदनैः ।
पुरतः स्थण्डिले रात्रौ स्वप्याद् देवस्य पुत्रक ॥
प्रध्यायन् मनसा देवं सर्वभूतार्तिनाशनम् ।
सर्वदोषप्रशमनं सर्वपातकनाशनम् ॥
विबुद्धस् त्व् अथ सप्तम्यां कुर्याद् ब्राह्मणभोजनम् ।]
पूजयित्वा दिनकरं पुष्पधूपविलेपनैः ॥
नैवेद्यं तत्र देवस्य फलानि कथयन्ति हि ।
खर्जूरं नारिकेलं च तथा जम्बूफलानि च ॥
मातुलुङ्गफलानीह [कथितानि मनीषिभिः ।
भोजयित्वा ततो विप्रान् आत्मना चैव भोजयेत् ॥
तथैषां चाप्य् अभावे तु शृणु वान्यानि सुव्रत ।
शालिगोधूमपिष्टानि कारयेद् गणनायक ॥
गुडगर्भकृतानीह] घृतपाकेन पाचयेत् ।
चातुर्यावकमिश्राणि आदित्याय निवेदयेत् ॥
अग्निकार्यम् अथो कृत्वा ब्राह्मणान् भोजयेत् ततः ।
[११९] इत्थं द्वादश् वै मासान् कार्यं व्रतम् उत्तमम् ॥
मासि मासि फलाहारः फलादायी फलाशनः ।
व्रतम् एतत् तु कुर्वीत भक्त्या ब्राह्मणभोजनम् ॥
स्नानप्राशनयोश् चापि विधानं शृणु सुव्रत ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥
तिलसर्षपजः कल्कः श्वेता मृच् चापि सुव्रत ।
दूर्वाकल्कघृतं चापि गोशृङ्गक्षालनं जलम् ॥
जातीपुष्पविनिर्यासः प्रशस्तः स्नानकर्मणि ।
प्राशने चाप्य् अथैतानि सर्वपापहराणि वै ॥
आदौ कृत्वा भाद्रपदं यथासङ्ख्यं विदुर् बुधाः ।
इत्थं वर्षान्तम् आसाद्य भोजयित्वा द्विजोत्तमान् ॥
दिव्यान् भौमान् महादेव ततस् तेभ्यो निवेदयेत् ।
फलानि तानि हैमानि यथाशक्त्या व्रतानि तु ॥
सवत्साम् अथ वा धेनुं भूमिं सस्यान्विताम् अथ ।
प्रासादम् अथ वा भौमं सर्वधान्यसमन्वितम् ॥
[१२०] दद्याद् रक्तानि वस्त्राणि ताम्रपात्रं सविद्रुमम् ।
शक्तियुक्तस्य चैतानि दरिद्रस्य तु मे शृणु ॥
फलानि पिष्टजान्य् एषां तिलचूर्णान्वितानि तु ।
भोजयित्वा द्विजान् दद्याद् राजतानि फलानि तु ॥
धातुरक्तं वस्त्रयुग्मम् आचार्याय निवेदयेत् ।
सहिरण्यं महादेवं पञ्चरत्नसमन्वितम् ॥
इत्थं समाप्यते सम्यग् आब्दिकं तात पारणम् ।
इत्य् एषा वै पुण्यतमा सप्तमी दुरितापहा ॥
याम् उपोष्य नराः सर्वे यान्ति सूर्यसलोकताम् ।
पूज्यमानाः सदा देवैर् गन्धर्वापसरसां गणैः ॥
अनया मानवो यस् तु पूजयेद् भास्करं सदा ।
दारिद्र्यदुःखदुरितैर् मुक्तो याति दिवाकरम् ॥
ब्राह्मणो मोक्षम् आयाति क्षत्रियो स्वर्गतां व्रजेत् ।
वैश्यो धनसालोक्यं शूद्रो विप्रत्वम् आप्नुयात् ॥
अपुत्रा लभते पुत्रं दुर्भगा सुभगा भवेत् ।
विधवा या सती भक्त्या अनया पूजयेद् रविम् ॥
नान्यजन्मनि वैधव्यं नारी प्राप्नोति मानद ।
चिन्तामणिसमा ह्य् एषा विज्ञेया फलसप्तमी ॥
[१२१] पठतां शृण्वतां डिण्डे सर्वकामप्रदा स्मृता ॥
इति फलसप्तमी ।
[नामसप्तमी]
ब्रह्मोवाच ।
अतः परं प्रवक्ष्यामि रहस्यां नामसप्तमीम् ।
पवित्रा हि पवित्राणां महापातकनाशिनी ॥
सप्तमी कृतमात्रेयं नरांस् तारयते भवात् ।
सप्तावरान् सप्त पूर्वान् पितॄंश् चापि न संशयः ॥
रोगांश् छिनत्ति दुश्छेद्यान् दुर्जयान् जयते रिपून् ।
अर्थं प्राप्नोति दुष्प्राप्यं यः कुर्यान् नामसप्तमीम् ॥
कन्यार्थी लभते कन्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् धर्मार्थि धर्मम् आप्नुयात् ॥
समयान् पालयन् सर्वान् कुर्याच् चैवं विचक्षणः ।
समयान् शृणु भूतेष श्रेयसे गदतो मम ॥
आदित्यभक्तः पुरुषः सप्तम्यां गणनायकम् ।
मैत्रं वै सर्वतः कुर्याद् भास्करं चापि चिन्तयेत् ॥
सप्तम्यां न स्पृशेत् तैलं नीलं वस्त्रं न धारयेत् ।
न चाप्य् आमलकैः स्नानं न कुर्यात् कलहं क्वचित् ॥
[१२२] तथैवान्नमलं मद्यं न दद्यान् न पिबेद् बुधः ।
न द्रोहं कस्यचित् कुर्यान् न पारुष्यं समाचरेत् ॥
नावभाषेत चण्डालं न स्त्रियं च रजस्वलाम् ।
न चापि संस्पृशेद् धीनं मृतकं नावलोकयेत् ॥
नास्फोटयेन् नापि हसेद् गायेच् चापि न गीतिकाम् ।
न नृत्येद् अतिरागेण न च वाद्यादि वादयेत् ॥
न शयीत स्त्रिया सार्धं न सेवेत दुरोदरम् ।
न रोदेद् अश्रुपातेन न वाद्यात् पञ्चशाकिकाम् ॥
“दुरोदरम्” द्यूतम् । “पञ्चशाकिका” कन्दमूलफलपुष्पपत्राणि पञ्चशाकिकानि ।
नाकर्षेच् च शिरोयूका न मृषावादम् आचरेत् ।
परस्यानिष्तकथनम् अतिशोकं विवर्जयेत् ॥
न कञ्चित् ताडयेज् जन्तुं न कुर्याद् अतिभोजनम् ।
न कुर्याद् धि दिवा स्वप्नं दम्भं शाठ्यं च वर्जयेत् ॥
[१२३] रथ्यायाम् अटनं चापि यत्नतः परिवर्जयेत् ।
अथापरो विधिश् चात्र श्रूयतां त्रिपुरान्तक ॥
चैत्रात् प्रभृति कर्तव्या सर्वदा नामसप्तमी ।
धातेति चैत्रमासे तु पूजनीयो दिवाकरः ॥
अर्यमेति च वैशाखे ज्येष्ठे मित्रः प्रकीर्तितः ।
आषाढे वारुणो ज्ञेय इन्द्रो नभसि कथ्यते ॥
विवस्वांश् च नभस्ये तु पर्जन्यो ‘श्वयुजि स्मृतः ।
पूषा कार्तिकमासे तु मार्गशीर्षे तु कथ्यते ॥
भगः पौषे भवेत् पूज्यस् त्वष्टा माघे तु कथ्येत् ।
विष्णुस् तु फाल्गुने मासि पूज्यो वन्द्यश् च भास्करः ॥
सप्तम्यां चैव सप्तम्यां भोजयेद् भोजकान् बुधः ।
सघृतं भोजनं देयं भोजयित्वा विधानतः ॥
भोजकायैव दातव्या दक्षिणा स्वर्णमाषकम् ।
सघृतं भोजनं देयं रक्तवस्राणि चैव हि ॥
अलाभे भोजकानां तु दक्षिणीया द्विजोत्तमाः ।
तथैव भोजनीयाश् च श्रद्धया परयान्वितैः ॥
विशेषतो वाचकश् च ब्राह्मणः कल्पवित् सदा ।
इत्य् एषा वाचकश् च ब्राह्मणः कल्पवित् सदा ।
इत्य् एषा कथिता तुभ्यं सप्तमी गणनायक ॥
श्रुता सती पापहरा सूर्यलोकप्रदायिनी ।
इति नामसप्तमीव्रतम् ।
[१२४]
[जया सप्तमी]
ब्रह्मोवाच ।
जया च विजया चैव जयन्ती चापराजिता ।
महाजया च नन्दा च भद्रा वामा प्रकीर्तिता ॥
शुक्लपक्षस्य सप्तम्यां नक्षत्रं पञ्चतारकम् ।
यदा भवेत् तदा ज्ञेया जया नामेति सप्तमी ॥
तस्यां दत्तं हुतं जप्तं तर्पणं देवपूजनम् ।
सर्वं शतगुणं प्रोक्तं पूजा चापि दिवाकरे ॥
हंसे हंससमारूढे शुक्ला या सप्तमी परा ।
स्वम् एकम् एवं कर्तव्या विधिनानेन भास्कर ॥
पारणं त्रितयं तस्यां प्रथमं गोपते पुरा ।
प्रथमं चतुरो मासान् पारणं कथितं बुधैः ॥
कथितान्य् अत्र पुष्पाणि करवीरस्य सुव्रत ।
चन्दनं च तथा रक्तं धूपार्थे गुगुलुः स्मृतः ॥
[१२५] कासारं तु सितासारं नैवेद्यं भास्कराय वै ।
“कासारो” गोधूमचूर्णैक्षवघृतैर् भृष्ट्वा निर्मितो लोकप्रसिद्धः । “सितासारः” शर्कराबहुलः ।
अनेन विधिना पूज्य मार्तण्डं विबुधाधिपम् ॥
पूजयेद् ब्राह्मणान् भौमान् भक्ष्यभोज्यैर् यथाविधि ।
कासारं भोजयेद् विप्रान् पारणं फलवद् भवेत् ॥
स्वयम् एव तथाश्नीयात् प्रयतो मौनम् आश्रितः ।
पञ्चम्याम् एकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम् ॥
कृत्वोपवासं सप्तम्याम् अष्टम्यं पारणं भवेत् ।
सिद्धार्थकैः स्नानम् अत्र प्राशनं पायसेन च ॥
भानुर् मे प्रीयताम् अत्र दन्तक्ष्ठं तथार्कजम् ।
द्वितीयं श्रूयतां भीम पारणं गदतो मम ॥
मालतीकुसुमानीह श्रीखण्डं चन्दनं तथा ।
[१२६] नैवेद्यं पायसं भानोर् धूपं विजयम् आदिशेत् ॥
ब्राह्मणान् भोजयेच् चापि तथाश्नीयात् स्वयं विभो ।
रविर् मे प्रीयताम् अत्र नाम देवस्य कीर्तयेत् ॥
प्राशयेत् पञ्चगव्यं तु खादिरं दन्तधावनम् ।
द्वितीय पारणे चैव विधिर् उक्तो मयाधुना ॥
तृतीय पारणे चैव कथ्यमानं निबोध मे ।
अगस्तिकुसुमैर् अत्र भास्करं पूजयेद् बुधः ॥
समालम्भनम् अत्रोक्तं श्रीखण्डं कुङ्कुमं तथा ।
सिल्हको धूप उद्दिष्टः सूर्यप्रीतिकरः परः ॥
शाल्योदनं तु नैवेद्यं रसालोपरि संयुतम् ।
ब्राह्मणानां च दातव्यं भक्षयेच् च तथात्मना ॥
कुशोदकप्राशनं तु बदर्या दन्तधावनम् ।
विकर्तनः प्रीयतां मे नाम देवस्य कीर्तयेत् ॥
वर्षान्ते देवदेवस्य पूजा कार्या विधानतः ।
गन्धपुष्पोपहारैश् च नानाप्रेक्षणकैस् तथा ॥
गोदानैर् भूमिदानैश् च ब्राःमणानां च तर्पणैः ।
इत्थं सम्पूज्य देवेशं देवस्य पुरतः स्थितः ॥
कारयेत् परमं पुण्यं धन्यं पुस्तकवाचनम् ।
वस्त्रैर् गन्धैर् तथा धूपैर् वाचकं पूज्य यत्नतः ॥
[१२७] देवस्य पुरतः स्थित्वा ततो मन्त्रम् उदीरयेत् ।
देव देव जगन्नाथ सर्वरोगार्तिनाशन ॥
ग्रहेश लोकतपन विकर्तन तमोपह ।
कृतेयं देवदेवस्य जया नामेति सप्तमी ॥
मया तव प्रसादेन धन्या पापहरा शिवा ।
अनेन विधिना वीर यः कुर्यात् सप्तमीम् इमाम् ॥
तस्य स्नानादिकं सर्वं भवेच् छतगुणं विभो ।
कृत्वेमां सप्तमीं वीर पुरुषाः प्राप्ततेजसः ॥
धनधान्यं सुवर्णं च पुत्रान् आयुर् बलं स्मृतम् ।
प्राप्येय देवशार्दूल स्वर्गलोकं च गच्छति ॥
तस्माद् एत्य पुनर् भूमौ राजराजो भवेद् बुधः ।
इत्य् एषा कथिता वीर जया नामेति सप्तमी ॥
कृता श्रुता स्मृता या तु हंसलोकप्रदायिनी ।
इति जया सप्तमी ।
[विजया सप्तमी]
शुक्लपक्षस्य सप्तम्यां सूर्यवारो भवेद् यदि ।
[१२८] सप्तमी विजया नाम तत्र दत्तं महाफलम् ॥
स्नानं दानं जपो होम उपवासस् तथैव च ।
सर्वं विजयसप्तम्यां महापातकनाशनम् ॥
पञ्चम्याम् एकभक्तं स्यात् षष्ठ्यां नक्तं प्रचक्षते ।
उपवासश् च सप्तम्याम् अष्टम्यां पारणं भवेत् ॥
उपवासपरः षष्ठ्याम् अश्वस्थं पूजयेद् रविम् ।
“उपवासपरो” विजयसप्तम्याम् उपवासं करिष्यन् ।
गन्धपुष्पोपहारैश् च भक्त्या श्रद्धासमन्वितः ॥
प्रकल्प्य भूमौ पूजां च देवस्य पुरतः स्वपेत् ।
जपमानस् तु गायत्रीं सौरसूक्तम् अथापि वा ॥
त्र्यक्षरं वा महाश्वेतां षडक्षरम् अथापि वा ।
विबुद्धस् त्व् अथ सप्तम्यां कृत्वा स्नानं गणाधिप ॥
ग्रहेशं पूजयित्वा तु होमं कृत्वा विधानतः ।
ब्राह्मणान् भोजयेद् भक्त्या शक्त्या च गणनायक ॥
शाल्योदनम् अपूपांश् च खण्डवेष्टान् स्वशक्तितः ।
सघृतं पायसं दद्यात् तथा विप्रेषु शक्तितः ॥
दत्वा तु दक्षिणां भक्त्या ततो विप्रान् विसर्जयेत् ।
इत्य् एषा कथिता देव पुण्या विजयसप्तमी ॥
याम् उपोष्य नरो गच्छेत् पदं वैरोचनं परम् ।
[१२९] करवीराणि रक्तानि कुङ्कुमं च विलेपनम् ॥
विजयं धूपम् अस्यां तु भानोस् तुष्टिकराणि वै ।
एषा पुण्या पापहरा महापातकनाशिनी ॥
अत्र दत्तं हुतं वापि क्षीयते न गणाधिप ।
इति विजाया सप्तमी ।
[जयन्ती सप्तमी]
ब्रह्मोवाच ।
माघस्य शुक्लपक्षे तु सप्तमी या त्रिलोचन ।
जयन्ती नाम सा प्रोक्ता पुण्या पापहरा शुभा ॥
उपोष्या येन विधिना शृणु तं पार्वतीप्रिय ।
पारणानि तु चत्वारि कथितानि च पण्डितैः ॥
पञ्चम्याम् एकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम् ।
उपवासस् तु सप्तम्याम् अष्टम्यां पारणं भवेत् ॥
माघे च फाल्गुने मासि तथा चैत्रे च सुव्रत ।
बकपुष्पाणि धान्यानि कुङ्कुमं च विलेपनम् ॥
नैवेद्यं मोदकांश् चात्र धूप आज्यम् उदाहृतः ।
प्राशनं पञ्चगव्यं तु पवित्रीकरणं परम् ॥
[१३०] मोदकैर् भोजयेद् विप्रान् यथाशक्त्या गणाधिप ।
शाल्योदनं च भूतेश दद्याद् भक्त्या द्विजेषु वै ॥
इत्थं सम्पूजयेद् यस् तु भास्करं लोकपूजितम् ।
सर्वेषु पारणेष्व् एवं सो ‘श्वमेधफलं लभेत् ॥
द्वितीये पारणे पूज्य राजसूयफलं लभेत् ।
वैशाखे त्व् अथ ज्येष्ठे तु आषाढे मासि सुव्रत ॥
पूजार्थम् अत्र भानोर् वै शतपत्राणि सुव्रत ।
श्वेतं च चन्दनं भीम धूपो गुग्गुलुर् उच्यते ॥
नैवेद्यं गुडपूपाश् च प्राशनं गोमयस्य च ।
श्रावणे मासि देवेश तथा भाद्रपदे विभोः ॥
आश्विने चापि मासे तु रक्तचन्दनम् आदिशेत् ।
मालतीकुसुमानीह धूपो विजय उच्यते ॥
नैवेद्यं घृतपूर्णं तु भोजनं च द्विजातिषु ।
कुशोदकप्राशनं तु कायशुद्धिकरं परम् ।
तृतीयम् अपि चाख्यातं पारणं पापनाशनम् ॥
राजसूयाश्वमेधाभ्यां फलदं भास्करप्रियम् ।
चतुर्थम् अप्य् अहं वक्ष्ये पारणं श्रेयसे नृप ॥
[१३१] मासि वै कार्तिके वीर मार्गशीर्षे तथा शिव ।
पुष्ये च देवशार्दूल शृणु पुष्पाण्य् अशेषतः ॥
करवीराणि रक्तानि तथा रक्तं च चन्दनम् ।
अमृताख्यस् तथा धूपो नैवेद्यं पायसं परम् ॥
अर्जुनीयं तथा वज्रं प्राशनं परमं मतम् ।
“अमृतधूपो” भविष्यत्पुराण एवोक्तः । तद् यथा ।
अगरुं चन्दनं मुस्ता सिल्हकं वृषणं तथा ।
समभागं तु कर्तव्यं पञ्चामृतसमुद्भवम् ॥
“अर्जुनीयं” गव्यम् । “वज्रं” घृतम् ।
नामानि कीर्तितान्य् अत्र भास्करस्य महात्मनः ।
चित्रभानुस् तथा भानुर् आदित्यो भास्करस् तथा ॥
प्रीयताम् इति सर्वेषु पारणेष्व् एवमादिषु ।
अनेन विधिना यस् तु कुर्यात् पूजां विभावसोः ॥
अस्यां तिथौ महादेव स याति परमं पदम् ।
कृत्वैवं सप्तमीं भीम सर्वान् कामान् अवाप्नुयात् ॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
सरोगो मुच्यते रोगाच् छुभं प्राप्नोति पुष्कलम् ॥
पूर्ण संवत्सरे भीम कार्या पूजा दिवाकरे ।
[१३२] गन्धपुष्पोपहारैश् च ब्राह्मणानां च तर्पणैः ॥
नानाविधैः प्रेक्षणकैः पूजया वाचकस्य च ।
इत्थं सम्पूज्य देवेशं ब्राह्मणांश् च प्रपूज्य च ॥
वाचकं च द्विजं पूज्य इदं वाक्यम् उदीरयेत् ।
धर्मकार्येषु मे देव अर्थकार्येषु नित्यशः ॥
कामकार्येषु सर्वेषु जयो भवतु सर्वदा ।
तदा विसर्जयेद् विप्रान् वाचकं च द्विजोत्तमम् ॥
इत्थं कुर्याद् इमां यश् च स जयं प्राप्नुयात् सदा ।
सर्वपापविशुद्धार्त्मा सूर्यलोकं च गच्छति ॥
विमानवरम् आरूढः कविजोद्भवम् उत्तमम् ।
तेजसा रविसङ्काशः प्रभया पतगोपमः ॥
“कविजम्” कविः अग्निः, तज्जं सुवर्णम् । “पतगः” सूर्यः ।
इति जयन्ती सप्तमी ।
[अपराजिता सप्तमी]
ब्रह्मोवाच ।
मासि भाद्रपदे शुक्ला सप्तमी या गणाधिप ।
अपराजितेति विख्याता महापातकनाशिनी ॥
[१३३] चतुर्थ्याम् एकभक्तं तु पञ्चम्यां नक्तम् आदिशेत् ।
उपवासस् तथा षष्ठ्यां सप्तम्यां पारणं स्मृतम् ॥
पारणान्य् अत्र चत्वारि कथितानि मनीषिभिः ।
पुष्पाणि करवीराणि तथा रक्तं च चन्दनम् ॥
धूपक्रिया गुग्गुलुना नैवेद्यं गुडपूपकाः ।
नभस्यादिषु मासेषु विधिर् एषः प्रकीर्तितः ॥
श्वेतानि भीम पुष्पाणि तथा श्वेतं च चन्दनम् ।
धूपम् आज्यम् इहाख्यातं नैवेद्यं पायसं रवेः ॥
मार्गशीर्षादिमासेषु विधिर् एषः प्रकीर्तितः ।
ततो ‘गस्त्यस्य पुष्पाणि कुङ्कुमं च विलेपनम् ॥
धूपार्थं सिह्लकं प्रोक्तम् अथ वा बिल्वसम्भवम् ।
शाल्योदनं च नैवेद्यं रसालाः फाल्गुनादिषु ॥
रक्तोत्पलानि भूतेश मुस्तकं चन्दनं तथा ।
अनन्तधूपम् उद्दिष्टं नैवेद्यं गुडपूपकाः ॥
श्रीखण्डं ग्रन्थिसंयुक्तम् अगरुं सिह्लकं तथा ।
मुस्तां तथेन्दुं भूतेश शर्करां च दहेत् त्र्यहम् ॥
इत्य् एषो ‘नन्तधुपश् च कथितो देवसत्तम ।
“ग्रन्थी” ग्रन्थिपर्णम् । “इन्दुः” कर्पूरम् ।
[१३४] ज्येष्ठादिषु तथा ह्य् एष विधिर् उक्तो मनीषिभिः ॥
शृणु नामानि देवस्य प्राशनानि च सुव्रत ।
भर्गो ‘ंशुमान् अर्यमा च सविता त्रिपुरान्तकः ॥
पारणेषु च सर्वेषु प्रीयताम् इति कीर्तयेत् ।
गोमूत्रं पञ्चगव्यं च घृतम् उष्णं च वै पयः ॥
यस् त्व् इमां सप्तमीं कुर्याद् अनेन विधिना नृप ।
अपराजितो भवेत् सो ‘पि सदा शत्रुभिर् आवहे ॥
हत्वा शत्रून् जयेच् चापि त्रिवर्गं नात्र संशयः ।
त्रिवर्गम् अथ सम्प्राप्य भानोः पुरम् अवाप्नुयात् ॥
पूज्य पूर्णांशुम् एकं च पारयेच् छक्तितः खगम् ।
गन्धपुष्पोपहारैश् च पुराणश्रवणेन च ॥
अन्नदानेन च विभोर् ब्राःमणानां च तर्पणैः ।
वाचकं पूजयित्वा तु भास्करस्य प्रियं सदा ॥
भास्कराय द्विपं दद्याद् अलङ्कारविभूषितम् ।
यः पूजां कुरुते वीर सप्तम्यं च नरः सदा ॥
स पराजित्य शत्रूंस् तु याति हंससलोकताम् ।
शुक्लजोद्भवयानेन आपगेयपताकिना ॥
आपगाधिपसङ्काशो आपगानुचरो भवेत् ।
[१३५] “शुक्लजम्” सुवर्णम् । “आपगेयम्” अपि सुवर्णम् एव । “आपगाधिपो” वरुणः ।
इत्य् अपराजिता सप्तमी ।
[महाजया सप्तमी]
ब्रह्मोवाच ।
शुक्लपक्षे तु सप्तम्यां यदा सङ्क्रमते रविः ।
महाजया तदा स्याद् वै सप्तमी भास्करप्रिया ॥
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।
सर्वं कोटिगुणं प्रोक्तं तपनेन महौजसा ॥
यस् तस्यां मानवो भक्त्या घृतेन स्नापयेद् रविम् ।
सो ‘श्वमेधफलं प्राप्य ततः सूर्यपदं व्रजेत् ॥
पयसा स्नापयेद् यस् तु भास्करं भक्तिमान् नरः ।
विमुक्तः सर्वपापेभ्यो याति सूर्यसलोकताम् ॥
स्थित्वा तत्र चिरं कालं राजा भवति कञ्जजः ।
महाजयैषा कथिता सप्तमी त्रिपुरान्तक ॥
याम् उपोष्य नरो भक्त्या अचलां स्वर्गतिं लभेत् ।
[१३६] ततो याति परं ब्रह्म यत्र गत्वा न शोचति ॥
इति महाजया सप्तमी ।
[नन्दा सप्तमी]
ब्रह्मोवाच ।
या तु मार्गशिरे मासि शुक्लपक्षे तु सप्तमी ।
नन्दा सा कथिता वीर सर्वानन्दकरी शुभा ॥
पञ्चम्याम् एकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम् ।
सप्तम्याम् उपवासं तु कीर्तयन्ति मनीषिणः ॥
पारणान्य् अत्र वै त्रीणि उशन्तीह मनीषिणः ।
मालतीकुसुमानीह सुगन्धं चन्दनं तथा ॥
कर्पूरागुरुसम्मिश्रं धूपं चात्र विनिर्दिशेत् ।
दध्योदनं सखण्डं तु नैवेद्यं भास्करप्रियम् ॥
तद् एव दद्याद् विप्रेभ्यो ‘श्नीयाच् चापि स्वयं ततः ।
पूजार्थं भास्करस्यैष प्रथमे पारणे विधिः ॥
पलाशपुष्पाणि विभो यक्षचन्दनम् एव च ।
कर्पूरं चन्दनं कुष्ठम् उशीरं सिल्हकं तथा ॥
सग्रन्थिवृषणं भीम कुङ्कुमं गृञ्जनं तथा ।
हरीतकी तथा भीम एष यक्षाङ्क उच्यते ॥
[१३७] धूपः प्रबोध आदिष्टो नैवेद्यं खण्डखाद्यकम् ।
कृष्णागरुं सिल्हकं च वालकं वृषणं तथा ॥
चन्दनं तगरं मुस्ता प्रबोधं शर्करान्वितम् ।
भोजयेद् ब्राह्मणांश् चापि खण्दखाद्यैर् गणाधिप ॥
निम्बपत्रं तु सम्प्राप्य ततो भुञ्जीत वाग्यतः ।
पारणस्य द्वितीयस्य विधिर् एष प्रकीर्तितः ॥
नीलोत्पलानि शुद्धानि धूपं गुग्गुलुम् आहरेत् ।
नैवेद्यं पायसं चैव प्रीतये भास्करस्य च ॥
विलेपनं चन्दनं च घृतं प्राश्य विशुद्धये ।
तृतीयस्यापि ते वीर कथितो विधिर् उत्तमः ॥
शृणु नामानि देवस्य पावनानि नृणां सदा ।
विष्णुर् भगस् अथा धाता प्रीयताम् उच्चरेद् वचः ॥
अनेन विधिना यस् तु कुर्यान् नन्दां नरः सदा ।
स कामान् इह सम्प्राप्य [विधारम् अवाप्नुयात् ॥
पुत्रकामो लभेत् पुत्रं धनकामो लभेद् धनम् ।
विद्यार्थी च यशो विद्यां यशोऽर्थी च यशस् तथा ॥
[१३८] सर्वकामांस् तथावाप्य] नन्दते शाश्वतीः समाः ।
ततः सूर्यसदो गत्वा नन्दते नन्दनवर्धने ॥
इत्य् एषा नन्दजननी नन्दाख्याता मया द्विज ।
याम् उपोष्य तथा श्रुत्वा नन्दते ‘र्कम् अवाप्य वै ॥
इति नन्दा सप्तमी ।
[भद्रा सप्तमी]
ब्रह्मोवाच ।
शुक्लपक्षे तु सप्तम्यां नक्षत्रं सवितुर् भवेत् ।
यदा प्रमथनाथेश तदा सा भद्रतां व्रजेत् ॥
“सवितृनक्षत्रं” हस्तः ।
तथा ।
चतुर्थ्याम् एकभक्तं तु पञ्चम्यां नक्तम् आदिशेत् ।
षष्ठ्याम् अयाचितं प्रोक्तम् उपवासस् ततः परम् ॥
स्नपनं तत्र देवेश घृतेन कथितं बुधैः ।
क्षीरेण च तथा वीर पुनर् इक्षुरसेन च ॥
स्नपयित्वा तु देवेशं चन्दनेन विलेपयेत् ।
[१३९] दद्याच् च गुग्गुलं तस्य दद्याद् धोमम् अथाग्रतः ॥
गोधूमचूर्णनिष्पन्नं विमलं शशिसन्निभम् ।
सुवर्णं सगुडं चैव रक्तपुष्पोपशोभितम् ॥
यद् अस्य शृङ्गम् ईशानं तत्र वै मौक्तिकं न्यसेत् ।
यदग्रस् तत्र माणिक्यं न्यसेद् वा लोहितं मणिम् ॥
नैरृते मरकतं दद्यात् वायव्ये पद्मरागिणम् ।
सरोजं वाप्य् उत्तरतः स्वशक्त्या विन्यसेद् बुधः ॥
पाषण्डिनो विकर्मस्थान् बैडालव्रतिकान्त्यजान् ।
सप्तम्यां नालभेत् प्राज्ञो दिवास्वप्नं च वर्जयेत् ॥
अनेन विधिना यस् तु कुर्याद् वै तत्र सप्तमीम् ।
तस्य भद्राः सर्व एव गच्छन्ति क्रतवः सदा ॥
भद्रं ददाति यस् तस्यां भद्रस् तस्य सुतो भवेत् ।
[१४०] डिण्डिर् उवाच ।
को ‘यं भद्र इति प्रोक्तः कथं तस्माद् विभूषणम् ॥
तं दत्वा किं फलं चास्य विधिना केन दीयते ।
ब्रह्मोवाच ।
व्योम भद्रम् इति प्रोक्तं देवचिह्नं मनोरमम् ॥
शालिपिष्टमयं कार्यं चतुष्कोणं मनोरमम् ।
गव्येन सर्पिषा युक्तं खण्डशर्करयान्वितम् ॥
चातुर्जातकचूर्णेन द्राक्षाभिश् च विशेषतः ।
नारिकेलफलैश् चैव शुभगन्धैर् गणाधिप ॥
मध्येन्द्रनीलं भद्रस्य न्यसेत् प्राज्ञः स्वशक्तितः ।
पुष्परागं मर्कतं पद्मरागं तथैव च ॥
अनौपमं च माणिक्यं क्रमात् कोणेषु विन्यसेत् ।
प्रस्थमात्रं भवेद् भद्रं प्रस्थार्धं स्याच् च वा विभो ॥
अनेन विधिना कृत्वा देवस्य पुरतो न्यसेत् ।
[१४१] वाचकायाथ वा दद्याद् अथवा भोजके स्वयम् ॥
अनेन विधिना कृत्वा भद्रं यश् च प्रयच्छति ।
स हि भद्राणि सम्प्राप्य गच्छेद् गोपतिमन्दिरम् ॥
ब्रह्मलोकं ततो गच्छेद् यानारूढो न संशयः ।
तेजसा रविसङ्काशः कान्त्यात्रेयसमस् तथा ॥
प्रभया गोपतेस् तुल्यस् तेजसा शङ्करस्य च ।
तस्माद् एत्य पुनर् भूमौ गोप्तिः स्यान् न संशयः ॥
प्रसादाद् गोपतेर् वासं सर्वक्ष्माधिपपूजितम् ।
इत्य् एषा कथिता वीर भद्रा नामेति सप्तमी ॥
याम् उपोष्य नरो वीर ब्रह्मलोकम् अवाप्नुयात् ।
शृण्वन्ति ये पठन्तीह कुर्वन्ति च गणाधिप ॥
ते सर्वे भद्रम् आसाद्य यान्ति तद् ब्रह्म शाश्वतम् ।
इति भद्रसप्तमीव्रतम् ।
[त्रिगतिसप्तमी]
ब्रह्मोवाच ।
सप्तव्यां शुक्लपक्षे तु फाल्गुनस्येह यो नरः ।
जपन् हेलीति देवस्य नाम भक्त्या पुनः पुनः ॥
[१४२] देवार्चनं चाष्टशतं कृत्वैवं तु जपेच् छुचिः ।
स्नातः प्रस्थानकाले चाप्य् उत्थाने स्खलिते क्षते ॥
पाषण्डान् पतितांश् चैव तथैवान्त्यावसायिनः ।
नालपेत तथा भानुम् अर्चयेच् छ्रद्धयान्वितः ॥
इदं चोच्चारयेद् भानुं मनस्य् आधाय तत्परः ।
हंश हंस नमस् तुभ्यम् अगतीनां गतिर् भव ॥
संसारार्णवमग्नानां त्राता भव दिवाकर ।
एवं प्रसाद्योपवासं कृत्वा नियतमानसः ॥
पूर्वाह्ण एव चान्येद्युः सकृत् प्राश्यं च गोमयम् ।
स्नात्वार्चयित्वा हंसेति पुनर् नाम प्रकीर्तयेत् ॥
वारिधारात्रयं चैव निक्षिपेद् देवपादयोः ।
चैत्रवैशाखयोश् चैवं तद्वज् ज्येष्ठे च पूजयेत् ॥
मर्त्यलोके गतिं श्रेष्ठां कृष्ण प्राप्नोति वै नरः ।
उत्क्रान्तश् च व्रजेत् कृष्ण दिव्यं हसालयं शुभम् ॥
[१४३] वृषध्वजप्रसादाद् वै सङ्क्रन्दनसमो भवेत् ।
आषाढे श्रावणे चैव मासि भाद्रपदे शुभे ॥
तथैवाश्वयुजे चैवम् अनेन विधिना ततः ।
उपोष्य सम्पूज्य ततो मार्तण्डेति प्रकीर्तयेत् ॥
गोमूत्रप्राशनात् पूतो गणाधिपपुरं व्रजेत् ।
आराधितस्य जगताम् ईश्वरस्याव्ययात्मनः ॥
उत्क्रान्तिकाले स्मरणं भास्करस्य यथाश्रुति ।
क्षीरस्य प्राशनं यस् तु विधिर् एष मयोदितः ॥
कार्तिकादि यथान्यायं कुर्यान् मासचतुष्टयम् ।
तेनैव विधिना कृष्ण भास्करस्य प्रकीर्तयेत् ॥
स याति भानुसालोक्यं भास्करं स्मरति क्षये ।
प्रतिमासं द्विजातिभ्यो दद्याद् दानं यथेच्छया ॥
चतुर्मासे तु सम्प्राप्ते कुर्यात् पुस्तकवाचनम् ।
कथां वा भासकरस्येह तद्गीतिकम् अथापि वा ॥
[१४४] धर्मश्रवणम् इष्टं तु सदा धर्मध्वजस्य तु ।
“धर्मध्वजः” सूर्यः।
वाचकं पूजयित्वा तु तस्मात् कार्यं च श्रद्धया ॥
श्राद्धम् अनेन पक्वेन वाचकेन द्विजोत्तमाः ।
दिव्येन च यथायुक्तम् अभीष्टं भास्करस्य हि ॥
एवम् अन्ते गतिं श्रेष्ठां देवानाम् आनुकीर्तनात् ।
प्राप्नुयात् त्रिविधां कृष्ण त्रिलोकाख्यां नरः सदा ॥
कथितं पारणं यत् ते प्रथमं गोधराधनम् ।
आधिपत्यं तथा भोगांस् तेन प्राप्नोति मानुषः ॥
द्वितीयेन तथा भोगान् गोत्रारेः प्राप्नुयान् नरः ।
सूर्यलोकं तृतीयेन पारणेन तथाप्नुयात् ॥
एवम् एतत् समाख्यातं गतिप्रापकम् उत्तमम् ।
विधानं देवशार्दूल यद् उक्तं सप्तमीव्रते ॥
यस् त्व् एतां सप्तमीं कुर्यात् त्रिगतिं श्रद्धयान्वितः ।
तथा भक्त्या च वै नारी प्राप्नोति त्रिविधां गतिम् ॥
[१४५] एषा पुण्या पापहरा त्रिगतिः समुदाहृता ।
आराधनाय शस्तैषा सदा भानोर् बलावहः ॥
तथा कर्मसु पुण्या च त्रिवर्गज्येष्ठदा सदा ।
“गोत्रारिः” इन्द्रः । “त्रिवर्गज्येष्ठदा” धर्मदा ।
इति त्रिगतिसप्तमीव्रतम् ।
[पापनाशिनी सप्तमी]
ब्रह्मोवाच ।
शुक्लपक्षस्य सप्तम्यां यदा ऋक्षं करो भवेत् ।
तदास्यासौ महापुण्या सप्तमी पापनाशिनी ॥
तस्यां सम्पूज्य देवेशं चित्रभानुं जगद्गुरुम् ।
सप्तजन्मकृतात् पापान् मुच्यते नात्र संशयः ॥
यश् चोपवासं कुरुते तस्यां नियतमानसः ।
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ॥
दानं यद् दीयते किञ्चित् समुद्दिश्य दिवाकरम् ।
होमो वा क्रियते तत्र तत् सर्वं चाक्षयं भवेत् ॥
[१४६] एक ऋग्वेदपुरतो जप्त्वा श्रद्धापरेण तु ।
ऋग्वेदस्य समस्तस्य यच्छते तत् फलं ध्रुवम् ॥
सामवेदफलं साम यजुर्वेदफलं यजुः ।
अथर्वणो ‘थर्वणस्य निखिलं यच्छते फलम् ॥
यद् यत् पापम् अशेषं वै नाशयत्य् अत्र भास्करः ।
करं च सप्तमी कृष्ण तेनोक्ता पापनाशिनी ॥
अस्यां समभ्यर्च्य रविं यान्ति सौमनसं पुरम् ।
विमानवरम् आरुह्य कर्बुरोद्भवम् उत्तमम् ॥
“सौमनसं पुरम्” देवलोकम् । “कर्बुरम्” सुवर्णम् ।
तेजसा रविसङ्काशः प्रभयामरसन्निभः ।
कान्त्यात्रेयसमः कृष्ण सौर्ये हरिसमः सदा ॥
मोदते तत्र सुचिरं वृन्दारकगणैर् सह ।
पुनर् एत्य भुवं कृष्ण भवेद् वै क्ष्माधिपाधिपः ॥
इति पापनाशिनी सप्तमी ।
[१४७]
[मार्तण्डसप्तमी]
ब्रह्मोवाच ।
मार्तण्डसप्तमीं कृष्ण अथान्यां वच्मि ते ‘नघ ।
पौषे मासि सिते पक्षे सप्तम्यां समुपोषितः ॥
सम्यक् तं पूज्य मार्तण्डं मार्तण्ड इति वै जपन् ।
पूजयेत् कुतपं भक्त्या श्रद्धया परयान्वितः ॥
“कुतपः” सूर्यः ।
पुष्पधूपोपहाराद्यैर् उपवासैः समाहितः ।
मार्तण्डेति जपन् नाम पुन्स् तद्गतमानसः ॥
विप्राय दक्षिणां दद्याद् यथाशक्त्या खगध्वज ।
स्वपन् विबुध्य स्खलितो मार्तण्डेति च कीर्तयेत् ॥
पाषण्डिभिर् विकर्मस्थैर् आलापं च विवर्जयेत् ।
गोमूत्रं गोमयं चापि दधि क्षीरम् अथापि वा ॥
गोदेहतः समुद्भूतं प्राश्नीयाद् आत्मशुद्धये ।
द्वितीये ‘ह्नि पुनः स्नातस् तथैवाभ्यर्च्य तं रविम् ॥
तेनैव नाम्ना सम्पूज्य दत्वा विप्राय दक्षिणाम् ।
ततो भुञ्जीत गोदेहसमुद्भूतसमन्वितम् ॥
[१४८] एवम् एवाखिलान् मासान् उपोष्य तु प्रयत्नतः ।
दद्याद् गवाह्निकं विद्वान् प्रतिमासं स्वशक्तितः ॥
पारिते च पुनर् वर्षे यथाशक्त्या गवाह्निकम् ।
दत्वा परगवे भूयः शृणु यत् फलम् अश्नुते ॥
सुवर्णशृङ्गा गाः पञ्च षष्ठं च वृषभं नरः ।
प्रतिमासं द्विजातिभ्यो यद् दत्वा फलम् अश्नुते ॥
तद् आप्नोत्य् अखिलं सम्यग् व्रतम् एतद् उपोषितम् ।
तं च लोकम् अवाप्नोति मार्तण्डो यत्र तिष्ठति ॥
शाण्डिलेयसमः कृष्णः तेजसा नात्र संशयः ।
“शाण्डिलेयसमः” अग्निसमः ।
इति मार्तण्डसप्तमी ।
[अनन्तफलसप्तमी]
ब्रह्मोवाच ।
शुक्लपक्षे तु सप्तम्यां मासि भाद्रपदे ‘च्युत ।
प्रणम्य शिरसादित्यं पूजयेत् सप्तवाहनम् ॥
[१४९] पुष्पधूपादिभिर् वीर कुतपानां च तर्पणैः ।
“कुतपानाम्” ब्राह्मणानाम् ।
पाषण्डादिभिर् आलापम् अकुर्वन् नियतात्मवान् ॥
विप्राय दक्षिणां दत्वा नक्तं भुञ्जीत वाग्यतः ।
तिष्ठन् व्रजन् सुस्थितश् च क्षुतप्रस्खलितादिषु ॥
आदित्यनामस्मरणं कुर्वन्न् उच्चारणं तथा ।
अनेनैव विधानेन मासान् द्वादश वै क्रमात् ॥
उपोष्य पारणे पूर्णे समभ्यर्च्य जगत्गुरुम् ।
पुण्येन श्रवणेनेह प्रीणयन् पुष्टिम् अश्नुते ॥
एवं यः पुरुषः कुर्याद् आदित्याराधनं शुचिः ।
नारी वा स्वर्गम् अभ्येत्य सो ‘नन्तफलम् अश्नुते ॥
इत्य् अनन्तफलसप्तमी ।
[अव्यङ्गसप्तमी]
ब्रह्मोवाच ।
श्रावणे मासि देवेशं सप्तम्यां सप्तिवाहनम् ।
[१५०] शुक्लपक्षे समभ्यर्च्य पुष्पधूपादिभिः शुचिः ॥
प्राप्येह विपुलं देव धर्मानन्तरम् अक्षयम् ।
अमुत्र लोकम् आयात् दिव्यं खगपतेः शुभम् ॥
“धर्मानन्तरम्” अर्थम् । “खगपतिः” अत्रादित्यः ।
पाषण्डादिभिर् आलापम् अकुर्वन् नियतात्मवान् ।
विप्राय दक्षिणां दत्वा नक्तं भुञ्जीत वाग्यतः ॥
अव्यङ्गं देवदेवस्य वर्षे वर्षे नियोजयेत् ।
“अव्यङ्गः” एकवर्णशोभनकार्पाससूत्रनिर्मितः सर्पनिर्मोकाकृतिर् अन्तःसुषिरो द्वाविंशत्यधिकशताङ्गुलपरिमित उत्कृष्टो, विंशत्यधिकशताङ्गुलपरिमितो मध्यमो, अष्टोत्तरशताङ्गुलपरिमितो ह्रस्व इति बोद्धव्यः । एतच् च भविष्यत्पुराण एव साम्बोपाख्याने विस्तरेणोक्तम् ।
सप्तम्याम् अत्र देवस्य शुभं गुह्यतरं तथा ।
ऋग्भवेषु यथान्येषु पवित्राण्य् अत्र वै विदुः ॥
तथा देवस्य मासे ‘स्मिन्न् अव्यङ्गः परिगीयते ।
“ऋग्भवेषु” देवेषु ।
यस् त्व् आरोपयते भक्त्या भास्करस्य नरो ‘च्युत ॥
[१५१] अव्यङ्गं विधिवद् भक्त्या कृत्वा ब्राह्मणभोजनम् ।
घण्टातूर्यनिनादैश् च ब्रह्मघोषैश् च पुष्कलैः ॥
स दिव्ययानम् आरूढो लोकम् आयाति हेलिनः ।
अनेनैव विधानेन मासान् द्वादश वै क्रमात् ॥
उपोष्य पारणे पूर्णे दत्वा विप्राय दक्षिणाम् ।
एवं यः पुरुषः कुर्याद् आदित्याराधनं शुचिः ॥
स गच्छेत् परमं लोकं दिव्यं च वनमालिनः ।
इत्य् अव्यङ्गसप्तमी ।
[त्रितयप्रदानसप्तमि]
विष्णुर्** **उवाच ।
कुले जन्म तथारोग्यं धनं चैवात्र दुर्लभम् ।
त्रितयं प्राप्यते येन तन् मे वद जगत्पते ॥
ब्रह्मोवाच ।
यो मार्गशीर्षे सितसप्तमे ‘ह्नि
हस्तर्क्षयोगे जगतः प्रसूतिम् ।
[१५२] सम्पूज्य भानुं विधिनोपवासी
पुष्पैः सधूपान्नपरोपहारैः ॥
गृहीतगव्यं प्रतियव्यपूजा-
दानादियुक्तं व्रतम् एतद् एकम् ।
दद्याच् च दानं द्विजपुङ्गवेभ्यः
स्मरिष्यमाणं विनिबोध धीर ॥
वज्रं परं व्रीहियवं हिरण्यं
यवान्न्म् अम्भः करकान्नपानम् ।
इन्द्रं पयो ‘न्नं गुडफाणिताढ्यं
दद्यात् तथा वस्त्रम् अनुक्रमेण ॥
गव्ये च यव्ये विधिचोदितेन
तस्यां तिथौ लोकगुरुं प्रपूज्य ।
“यव्यो” मासः । “वज्रं” घृतम् । “गुडफाणिताढ्यं” जलकथितेक्षुरससिद्धं द्रवद्रव्यम् ।
अश्नीत धान्यानि विशुद्धिहेतोः
सम्प्राशनानीह निबोध तानि ॥
गोमूत्रम् अम्भो घृतम् आमशाकं
दूर्वादधिव्रीहियवांस् तिलांश् च ।
[१५३] सूर्यांशुतप्तं जलम् अम्बुजानि
क्षीरं च मासक्रमशो ‘त्र योज्यम् ॥
कुले प्रधाने धनधान्यपूर्णे
पद्मावृते ध्वस्तसमस्तदुःखे ।
प्राप्नोति जन्माविकलेन्द्रियश् च
भवत्य् अरोगी मतिमान् सुखी च ॥
“पद्मावृते” लक्ष्युआवृते ।
इति त्रितयप्रदानसप्तमी ।
[निक्षुभार्कसप्तमी]
ब्रह्मोवाच ।
सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् ।
स्त्रीत्वे वाप्य् उत्तमं नाथं यत् कृत्वा शृणु साम्प्रतम् ॥
निक्षुभार्कव्रतं भानोः सदा प्रीतिविवर्धनम् ।
अवियोगकरं वीर धर्मकामार्थसाधनम् ॥
सप्तम्याम् अथ षष्ठ्यां वा सङ्क्रान्तौ भानवे दिने ।
हविषा हविषा होमं सोपवासः समाचरेत् ॥
[१५४] निक्षुभार्कस्य दैवार्चां कृत्वा स्वर्णमयीं शुभाम् ।
राजतीं वाथ वार्क्षीं वा स्नापयेत घृतादिभिः ॥
“उत्तमं नाथं” प्राप्नोतीति शेषः । “निक्षुभा” सूर्यपत्नी, तया सहितो ‘र्कः । “हविषा” गव्यघृतेन ।
गन्धमाल्यैर् अलङ्कृत्य वस्त्रयुग्मैश् च शोभनैः ।
भक्ष्यभोज्यैर् अशेषैश् च विमानध्वजचामरैः ॥
भोजयेत् सूर्यभक्तांश् च भोजकांश् च तथा नृप ।
भक्त्या च दक्षिणां दद्याद् भास्करः प्रीयतां मम ॥
ताम्रपात्रे ‘थ वा कांस्ये शुक्लवस्त्रावगुण्ठिताम् ।
कृत्वायतनमध्ये तु प्रतिमाम् उपकल्पयेत् ॥
कृत्वा शिरसि तत् पात्रं वितानच्छत्रशोभितम् ।
ध्वजच्छत्रादिभिश् चैव ब्रध्नस्यायतनं व्रजेत् ॥
[१५५] निक्षुभार्कदिनेशस्य व्रतम् एतन् निवेदयेत् ।
तत्पीठे स्थापयेत् पात्रं पुष्पशोभासमन्वितम् ॥
प्रदक्षिणीकृत्य रविं प्रणिपत्य प्रसादयेत् ।
समाप्यैतद् व्रतं पुण्यं शृणु यत् फलम् आप्नुयात् ॥
द्वादशादित्यसङ्काशैर् महायानैर् नगोपमैः ।
यथेष्टं वै रवेर् लोके सौरैः सार्धं प्रमोदयेत् ॥
वर्षकोटिसहस्राणि वर्षकोटिशतानि च ।
तदन्ते च महाभागो विष्णुलोके महीयते ॥
ततः कर्मविशेषेण सर्वकामसमन्वितः ।
ब्रह्मलोकं समासाद्य परं सुखम् अवाप्नुते ॥
ब्रह्मलोकात् परिभ्रष्टः श्रीमान् सद्भिः प्रपूजितः ।
प्रजापतित्वम् आप्नोति सुरासुरनमस्कृतः ॥
भोगान् इह चिरं भुक्त्वा सोमलोके महीयते ।
सोमाच् चैन्द्रं पुनर् लोकम् आसाद्येन्द्रसमो भवेत् ॥
इन्द्रलोकाच् च गन्धर्वलोकं प्राप्य स मोदते ।
गन्धर्वराजपतिना सह नागैर् वसेत् सुखम् ॥
महारत्नप्रभावेण ह्य् उपशोभितम् अद्भुतम् ।
यक्षलोकम् अपि प्राप्तो यथाकामं प्रमोदते ॥
यक्षलोकात् प्रिभ्रष्टः क्रीडते मेरुमूर्धनि ।
[१५६] स्थानानि लोकपालानां क्रमाद् आगत्य मोदते ॥
लोकालोकान्तपर्यन्ते सर्वस्मिन् क्षितिमण्डले ।
यत्र तत्र सुखी नित्यं तद् अशेषम् अवाप्नुते ॥
धर्मार्थकाममोक्षांश् च राज्यं च प्राप्य मोदते ।
आदित्यात् प्राप्यते योगः सुप्रसन्नान् न संशयः ॥
इति निक्षुभार्कव्रतम् ।
[निक्षुभार्कचतुष्टयसप्तमी]
सुमन्तुर् उवाच ।
या तु षष्ठ्यां तु सप्तम्यां नियता व्रतचारिणी ।
वर्षम् एकं न भुङ्क्ते च महाभोगिजिगीषया ॥
वर्षान्ते प्रतिमां कृत्वा निक्षुभार्केति विश्रुताम् ।
स्नानाद्यं च विधिं कृत्वा पूर्वोक्तांल् लभते गुणान् ॥
जाम्बूनदमयैर् यानैश् चतुर्द्वारैर् अलङ्कृतम् ।
[१५७] गत्वादित्यपुरं रम्यं निखिलं विन्दते फलम् ॥
सौरादिसर्वलोकेषु भोगान् भुक्त्वा यथेप्सितम् ।
क्रमाद् आगत्य लोके ‘स्मिन् राजानं पतिम् आप्नुयात् ॥
या नार्य् उपवसेद् एवं कृत्स्नाम् एकां तु सप्तमीम् ।
सा गच्छेत् परमं स्थानं भानोर् अमिततेजसः ॥
वर्षान्ते प्रतिमां कृत्वा शालिपिष्टमयीं शुभाम् ।
पीतानुलेपमाल्यैश् च पीतवस्त्रैश् च पूजयेत् ॥
पूर्वोक्तं निखिलं कृत्वा भास्कराय निवेदयेत् ।
भूयो भौमैर् महायानैर् ध्वान्तचामीकरप्रभैः ॥
वर्षकोटिसहस्रं तु सूर्यलोके महीयते ।
सौरादिसर्वलोकेषु भोगान् भुक्त्वा यथेप्सितान् ॥
क्रमाद् आगत्य लोके ‘स्मिन् यथेष्टं विन्दते पतिम् ।
कुलीनं रूपसम्पन्नं सर्वशास्त्रविशारदम् ॥
सप्तम्यां या निराहारा भवेच् च संयता त्रिधा ।
गजं पिष्टमयं कृत्वा वर्षान्ते विनिवेदयेत् ॥
विधाय राजतं पद्मं सुवर्णकृतकर्णिकम् ।
भक्त्या विन्यस्य तत्पृष्ठे शेषं पूर्ववद् आचरेत् ॥
[१५८] कामतो ‘पि कृतं पापं भ्रूणहत्यापि यद् भवेत् ।
तत् सर्वं गजदानेन क्षीयते नात्र संशयः ॥
महापद्मविमानेन नरो याति सलोकताम् ।
वर्षकोटिशतं साग्रं सूर्यलोके महीयते ॥
सौरलोकादिलोकेषु भुङ्क्ते भोगान् नराधिप ।
क्रमाद् आगत्य लोके ‘स्मिन् यथेष्टं विन्दते पतिम् ॥
सर्वलक्षणसम्पन्नं धनधान्यसमन्वितम् ।
महोत्साहं महावीर्यं महासत्त्वं महाबलम् ॥
कृष्णपक्षे तु माघस्य सप्तम्यां या दृढव्रता ।
वर्षैकम् उपवासेन सर्वभोगविवर्जिता ॥
वर्षान्ते सर्वगन्धोत्थं निक्षुभार्कं निवेदयेत् ।
सुवर्णमणिमुक्ताढ्यं भोजयित्वा द्विजोत्तमम् ॥
इतिहासविदं प्राज्ञं वाचकं भार्यया सह ।
सुविचित्रैर् महायानैर् दिव्यैर् गन्धैश् च शोभितम् ॥
क्रीडेद् युगशतं साग्रं सूर्यलोके महीयते ।
प्रभया रविसङ्काशस् तेजसा हरिसन्निभः ॥
[१५९] यथेष्टं भानवे लोके भोगान् भुक्त्वा तु कृत्स्नशः ।
क्रमाद् आगत्य लोके ‘स्मिन् राजानं विन्दते पतिम् ॥
य एवं कुरुते राजन् व्रतं पापभयापहम् ।
निक्षुभार्कम् इदं पुण्यं स याति परमां गतिम् ॥
वर्षम् एकं महाबाहो श्रद्धया परयान्वितः ।
वर्षान्ते भोजयेद् वीर वाचकं भार्यया सह ॥
पूजयित्वा तु दाम्पत्यं महाभारतवाचकम् ।
पूजयेद् गन्धमाल्यैश् च वासोभिर् भूषणैस् तथा ॥
कृत्वा ताम्रमये पात्रे वज्रपूर्णैर् अलङ्कृते ।
निक्षुभार्कं तु सौवर्णं दद्यात् ताभ्यां तु शक्तितः ॥
निक्षुभा ब्राह्मणी ज्ञेया वाचको ‘र्कः प्रकीर्तितः ।
तस्मात् तौ पूजयेत् सौरीश्वरवच् छ्रद्धयान्वितः ॥
इति निक्षुभार्कचतुष्टयव्रतम् ।
[उभयसप्तमी]
सुमन्तुर् उवाच ।
हन्त ते सम्प्रवक्ष्यामि सूर्यव्रतम् अनुत्तमम् ।
[१६०] धर्मकामार्थमोक्षाणां प्रीतिदायकम् उत्तमम् ॥
पौषे मासि तु सम्प्राप्ते यः कुर्यान् नक्तभोजनम् ।
जितेन्द्रियः सत्यवादी स्नाति गोधूमगोरसैः ॥
पक्षयोः सप्तमीं यत्नाद् उपवासेन योजयेत् ।
त्रिसन्ध्यम् अर्चयेद् भानुं शाण्डिलेयं च सुव्रत ॥
अधःशायी भवेन् नित्यं सर्वभोगविवर्जितः ।
मासि पूर्णे तु सप्तम्यां घृतादिभिर् अरिन्दम ॥
कृत्वा स्नानं महापूजां सूर्यमन्त्रेण भारत ।
नैवेद्यम् ओदनप्रस्थं क्षीरसिद्धं निवेदयेत् ॥
भोजयित्वा द्विजान् अष्टौ सूर्यभक्तांश् च भारत ।
गां च दद्यान् महाराज कपिलां भास्करस्य तु ॥
य एवं कुरुते पुण्यं सूर्यव्रतम् अनौपमम् ।
तस्य पुण्यफलं वच्मि सर्वकामसमन्वितम् ॥
सूर्यकोटिप्रतीकाशैर् विमानैः सार्वकामिकैः ।
अप्सरोगणसङ्कीर्णैर् महाविभ्रमसंयुतैः ॥
सङ्गीतनृत्यताघोषैर् गन्धर्वगणशोभितैः ।
[१६१] दोधूयमानश् चमरैः स्तूयमानः सुरासुरैः ॥
सहस्रकिरणाद् भानोर् धनैश्वर्यसमन्वितः ।
स याति परमं स्थानं यत्रास्ते रविर् अंशुमान् ॥
रोमसङ्ख्या तु या तस्मात् तत्प्रसूतिकुले तु सा ।
तावद्युगसहस्राणि स्वर्गलोके महीयते ॥
त्रिःसप्तकुलजैः सार्धं भोगान् भुक्त्वा यथेप्सितान् ।
ज्ञानयोगं समासाद्य सूर्यस्यैवालयं व्रजेत् ॥
माघमासे तु सम्प्राप्ते यः कुर्यान् नक्तभोजनम् ।
पिण्याकं घृतसम्मिश्रं भुञ्जानः सन् जितेन्द्रियः ॥
उपवासश् च सप्तम्यां भवेद् उभयपक्षयोः ।
घृताभिषेकं सप्तम्यां कुर्याद् भानोर् नराधिप ॥
गां च दद्याद् दिनेशाय तरुणीं नीलसन्निभाम् ।
गत्वादित्यपुरं रम्यं भोगान् भुङ्क्ते यथेप्सितान् ॥
फाल्गुने मासि राजेन्द्र यः कुर्यान् नक्तभोजनम् ।
श्यामाकक्षीरनीवारैर् जितक्रोधो जितेन्द्रियः ॥
षष्ठ्यां वाप्य् अथ सप्तम्याम् उपवासपरो भवेत् ।
अष्टम्यां तु महास्नानं पञ्चगव्यघृतादिभिः ॥
[१६२] त्वग्भिश् च क्षीरवृक्षाणां स्नापयित्वा प्रपूजयेत् ।
सौरभेयीं ततो दद्याद् उक्तां तां रश्मिमालिने ॥
गत्वादित्यपुरं रम्यं मोदते शाश्वतीः समाः ।
मासि चैत्रे तु सम्प्राप्ते यः कुर्यान् नक्तभोजनम् ॥
शाल्यन्नं पयसा युक्तं भुञ्जानः संयतेन्द्रियः ।
भानवे पाटलां दद्याद् वैष्णवीं तरुणीं नृप ॥
पुष्परागमयैर् यानैर् नानाहंसादिशालिभिः ।
गच्छेत् सूर्यपदं रम्यं दुष्प्रापम् अकृतात्मभिः ॥
वैशाखे मासि राजेन्द्र यः कुर्यान् नक्तभोजनम् ।
दध्योदनं तु भुञ्जानो जितक्रोधो जितेन्द्रियः ॥
गोष्ठेशयो ह्य् अधःशायी निशायाम् एकवस्त्रभृत् ।
नियमं च यथोद्दिष्टं सामान्यं सर्वम् आचरेत् ॥
वैशाख्यां पौर्णमास्यां तु कुर्यात् स्नानं घृतादिभिः ।
सूर्यायालङ्कृतां श्वेतां दद्याद् गां तरुणीं नृप ॥
शङ्खकुन्द्रेन्दुवर्णाभैर् महायानैर् अलङ्कृतैः ।
श्वेतैर् गरुडसंयुक्तैर् गच्छेद् अर्कस्य मन्दिरम् ॥
सर्वातिशयरूपाभिर् नारीभिः परिवारितः ।
नीलोत्पलसुगन्धीनि रमते कालम् अक्षयम् ॥
[१६३] मासि ज्येष्ठे महाबाहो यः कुर्यान् नक्तभोजनम् ।
भुञ्जानः पायसं वीर सर्पिषा मधुना सह ॥
वीरासनो निशायां स्यात् सहस्रांशुम् अनुव्रजेत् ।
“वीरासनं” अनुपविश्यावस्थानम् ।
हितकारी गवां नित्यं गवां हिंसाविवर्जितः ॥
उभयोर् अपि सप्तम्यां कुर्यात् स्नानादिकं विधिम् ।
“उभयोः” पक्षयोर् इति शेषः ।
सूर्याय धेनुं दद्याच् च धूम्रवर्णाम् अलङ्कृताम् ॥
नीलोत्पलसमप्रख्यैर् महायानैर् अनौपमैः ।
महासिंहनिबद्धैश् च मोदते कालम् अक्षयम् ॥
आषाढे मासि यः कुर्यात् संयतो नक्तभोजनम् ।
षष्ठिकोदनसम्मिश्रं सकृद् अश्नीत गोरसम् ॥
गां दद्याच् च महाराज भास्कराय शुभाननाम् ।
सामान्यं च विधिं कुर्यात् प्राग् उक्तं यन् मया तव ॥
शुद्धस्फटिकसङ्काशैर् यानैर् बर्हिणवाहनैः ।
अणिमादिगुणैर् युक्तः सूर्यवद् विचरेद् दिवि ॥
सम्प्राप्ते श्रावणे मासि यः कुर्यान् नक्तभोजनम् ।
[१६४] क्षीरषष्ठिकयुक्तेन सर्वसत्त्वहिते रतः ॥
पीतवर्णां च गां दद्याद् भास्कराय महात्मने ।
सामान्यम् अखिलं कुर्यात् प्राग् उक्तं यन् मन्या तव ॥
सुविचित्रैर् महायानैर् हंससारसयायिभिः ।
गत्वादित्यपुरं श्रीमान् पूर्वोक्तं लभते फलम् ॥
वीर भाद्रपदे मासि यः कुर्यान् नक्तभोजनम् ।
हुतशेषं हविर् दद्याद् वृक्षमूलं समाश्रितः ॥
सुप्याद् आयतने रात्रौ सर्वभूतानुकम्पकः ।
दद्याद् गां तरुणीं वीर भास्कराय महात्मने ॥
निशाकरसमप्रख्यैर् वज्रवैदूर्यचित्रितैः ।
चक्रवाकसमायुक्तैर् विमानैः सार्वकामिकैः ॥
गत्वादित्यपुरं रम्यं ससुरासुरवन्दितः ।
मोदते स महायानैर् यावद् आभूतसम्प्लवम् ॥
श्रीमान् आश्वयुजे मासि यः कुर्यान् नक्तभोजनम् ।
घृताशनं तु भुञ्जानो जितक्रोधो जितेन्द्रियः ॥
दद्याद् गां पद्मपत्राभां भानोर् अमिततेजसः ।
दिव्याभरणसम्पन्नां त्रुणीं च पयस्विनीम् ॥
स्वच्छमौक्तिकसङ्काशैर् नीलोत्पलसुशोभितैः ।
[१६५] जीवञ्जीवकसंयुक्तैर् विमानैः सार्वकामिकैः ॥
गच्छेद् भानुसलोकत्वं तेजसा रविसन्निभः ।
कान्त्या विधुसमो राजन् प्रभया रविसन्निभः ॥
राजेन्द्र कार्तिके मासि यः कुर्यान् नक्तभोजनम् ।
क्षीरोदनं प्रभुञ्जानः सत्यवादी जितेन्द्रियः ॥
दिवाकराय गां दद्याज् ज्वलनार्कसमप्रभाम् ।
पूर्वोक्तं च विधिं कुर्यात् सूर्यतुल्यो भवेन् नरः ॥
कालानलशिखाप्रख्यैर् महायानैर् नगोपमैः ।
महासिंहकृताटोपैः सूर्यवन् मोदते सुखी ॥
मार्गशीर्षे शुभे मासि यः कुर्यान् नक्तभोजनम् ।
यवान्नं पयसा युक्तं भुञ्जानः संयतेन्द्रियः ॥
प्रयच्छेद् गां तथा कृष्णां नानालङ्कारभूषिताम् ।
सूर्याय कुरुशार्दूल विधिं चापि समाचरेत् ॥
सितपद्मनिभैर् यानैः श्वेताश्वतरसंयुतैः ।
गत्वादित्यपुरं रम्यं प्रभया परयान्वितः ॥
अहिंसा सत्यवचनम् अस्तेयः क्षान्तिर् आर्जवम् ।
त्रिषवणाग्निहवनं भूशय्या नक्तभोजनम् ॥
पक्षयोर् उपवासेन सप्तम्यां कुरुनन्दन ।
[१६६] एतान् गुणान् समाश्रित्य कुर्वाणो व्रतम् उत्तमम् ॥
सप्तम्युभयप्राख्यातं सर्वपापभयापहम् ।
सर्वरोगप्रशमनं सर्वकामफलप्रदम् ॥
इत्य् एवमादिनियमैश् चरेत् सूर्यव्रतं सदा ।
स गच्छेद् विपुलं स्थानं भानोर् अमिततेजसः ॥
इत्य् उभयसप्तमीव्रतम् ।
[पुत्रसप्तमी]
आदित्य उवाच ।
माघमासे तु शुक्लायां सप्तम्यां समुपोषितः ।
पूजयेद् यस् तु मां भक्त्या तस्याहं पुत्रतां व्रजे ॥
एवं चोभयसप्तम्यां मासि मासि सुरोत्तम ।
यस् तु मां पूजयेद् भक्त्या स्वम् एकम् एकम् आदरात् ॥
प्रयच्छामि सुतं तस्य ह्य् आत्मनो ह्य् अङ्गसम्भवम् ।
वित्तं यशस् तथा पुत्रम् आरोग्यं परमं तथा ॥
[१६७] माघमासे तु यो ब्रह्मन् शुक्लपक्षे जितेन्द्रियः ।
पाषण्डान् ग्राम्यपतितान् न जल्पन् विजितेन्दिर्यः ॥
उपोष्य विधिवत् षष्ठ्यां श्वेतमाल्यविलेपनैः ।
पूजयित्वा तु मां भक्त्या निशि भूमौ स्वपेद् बुधः ॥
प्रातर् उत्थाय सप्तम्यां कृत्वा स्नानादिकां क्रियाम् ।
पूजयित्वा तु मां ब्रह्मन् वीरहोमं समाचरेत् ॥
प्रीणयित्वा हरिं भक्त्या हविषा पद्मलोचनम् ।
दध्योदनेन पयसा पायसेन द्विजस् तथा ॥
तस्यैव कृष्णपक्षस्य षष्ठ्यां सम्यग् उपोषितः ।
रक्तोत्पलैः सुगन्धाढ्यै रक्तपुष्पैश् च पूजयेत् ॥
एवं पूजयते भक्त्या नरो मां विधिवत् सदा ।
उभयोर् अपि देवेन्द्र स पुत्रं लभते फलम् ॥
“वीरहोमः” अग्निहोमः । “हरिः” अत्रादित्यः । “तस्य” माघस्य ।
इति पुत्रसप्तमी ।
[१६८]
[सर्वाप्तिसप्तमीव्रतम्]
ब्रह्मोवाच ।
कृष्णपक्षे तु माघस्य सर्वाप्तिं सप्तमीं शृणु ।
पाषण्डादिभिर् आलापम् अकुर्वन् भानुतत्परः ॥
पूजयेत् प्रयतो देवम् एकाग्रमतिर् अंशुगम् ।
माघादि पारणं मासैः षड्भिः शुच्यन्तकं स्मृतम् ॥
“शुच्यन्तकम्” आषाढान्तकम् ।
मार्तण्डः प्रथमं नाम स्वितीयो ‘र्कः प्रकीर्तितः ।
तृतीयो चित्रभानुस् तु विभावसुर् अतः परम् ॥
भगेति पञ्चमो ज्ञेयः षष्ठो हंसः प्रकीर्तितः ।
पूर्वेषु षट्सु मासेषु स्नानप्राशनयोस् तिलाः ॥
श्रावणादिषु मासेषु पञ्चगव्यम् उदाहृतम् ।
स्नाने च प्राशने चैव प्रशस्तं पापनाशनम् ॥
प्रतिमासं च देवस्य कृत्वा पूजां यथाविधि ।
प्राशयेद् दक्षिणां दद्याच् छ्रद्दधानः स्वशक्तितः ॥
पारणं चति देवस्य प्रीणनं भक्तिपूजनम् ।
[१६९] कुर्वीत शक्त्या विधिवद् रविभक्त्या दिवस्पतेः ॥
नक्तं भुञ्जीत वै विष्णोस् तैलक्षारविवर्जितम् ।
कृष्णषष्ट्याम् उषित्वैवं सप्तम्याम् अथ वा दिने ॥
एताम् उषित्वा धर्मज्ञ हंसप्रीणनतत्परः ।
सर्वान् कामान् अवाप्नोति यद् यद् इच्छति चेतसा ॥
अतो लोकेषु विख्याता सर्वाप्तिर् इति सप्तमी ।
कृताभिलषिता ह्य् एषा प्रारब्धा धर्मतत्परैः ॥
पूरयत्य् अखिलान् कामान् संश्रिता च दिने दिने ।
इति सर्वाप्तिसप्तमी ।
[कामदा सप्तमी]
पितामह उवाच ।
फाल्गुनामलपक्षस्य सप्तम्यां क्ष्माधराधर ।
उपोषितो नरो नारी समभ्यर्च्य तमोपहम् ॥
सूर्यनाम जपन् भक्त्या भावयुक्तो जितेन्द्रियः ।
उत्तिष्ठन् प्रस्वपंश् चैव सूर्यम् एवानुकीर्तयेत् ॥
[१७०] ततो ‘न्यदिवसे प्राप्ते त्व् अष्टभ्यां नियतो रविम् ।
स्नात्वा सम्यक् समभ्यर्च्य दद्याद् विप्राय दक्षिणाम् ॥
रविम् उद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः ।
प्रणिपत्य जगन्नाथम् इति वाणीम् उदीरयेत् ॥
समाराध्य पुरा देवी सावित्री कामम् आप वै ।
स मे ददातु देवेशः सर्वान् कामान् विभावसुः ॥
समभ्यर्च्य दितिः प्राप्ता कृत्स्नान् कामान् यथेप्सितान् ।
स ददात्व् अखिलान् कामान् प्रसन्नो मे दिवस्पतिः ॥
भ्रष्टराज्यः स देवेन्द्रो यम् अभ्यर्च्य दिवाकरम् ।
कामार्थम् आप्तवान् राज्यं स मे कामान् प्रयच्छतु ॥
एवम् अभ्यर्च्य पूजां च निष्पाद्येह विशेषतः ।
भुञ्जीत प्रयतः सम्यक् हविष्यं पन्नगध्वज ॥
फाल्गुनो चैत्रवैशाखौ ज्येष्ठम् अत्यन्ततत्परम् ।
चतुर्भिः पारणं मासैर् एभिर् निष्पादितं भवेत् ॥
करवीरैश् चतुर्मासान् रविं सम्पूजयेत् ततः ।
कृष्णागरुं दहेद् धूपं प्राश्य गोशृङ्गजं जलम् ॥
नैवेद्यं खण्डवेष्टांश् च दद्याद् विप्रेभ्य एव च ।
[१७१] ततश् च श्रूयताम् अन्या त्व् आषाढादिषु यत्क्रिया ॥
जातीपुष्पाणि शस्तानि धूपो गुग्गुलुर् उच्यते ।
कुतपोदकम् अश्नीयान् नैवेद्यं पायसं तथा ॥
स्वयं तद् एव चाश्नीयात् शेषं पूर्ववद् आचरेत् ।
“कुतपोदकं” कुशोदकम् ।
कार्तिकादिषु मासेषु गोमूत्रं कायशोधनम् ॥
महाङ्गं धूपम् उद्दिष्टं पूजा रक्तोत्पलैस् तथा ।
कासारं चैव नैवेद्यं निवेद्यं भास्कराय वै ॥
प्रतिमासं च विप्राय दातव्या दक्षिणास् तथा ।
प्रीणनं चेच्छया भानोः पारणे पारणे गते ॥
यथाशक्ति यथायोगं वित्तशाठ्यं विवर्जयेत् ।
सद्भावेनैव सप्ताश्वः पूजितः प्रीअये मतः ॥
पारणान्ते यथाशक्त्या पूजितः स्थापितो रविः ।
प्रीणीतश् चेप्सितान् कामान् दद्याद् अव्याहतान् रविः ॥
एषा पुण्या पापहरा सप्तमी सर्वकामदा ।
यथाभिलषितान् कामान् ददाति गरुडध्वज ॥
अपुत्रः पुत्रम् आप्नोति अधनो धनम् आप्नुयात् ।
रोगाभिभूतश् चारोग्यं कन्या विन्दति सत्पतिम् ॥
समागमं प्रवासेभ्य उपोष्यैतद् अवाप्नुयात् ।
[१७२] सर्वान् कामान् अवाप्नोति गोगतश् चापि मोदते ॥
पुनर् एत्य महीं कृष्ण घनाघनसमो नरः ।
क्ष्मातले स्यान् न सन्देहः प्रसादाद् गोपतेर् नरः ॥
महाङ्गधूपो भविष्यत्पुराणोक्तः । तद् यथा ।
कर्पूरं चन्दनं पुष्पम् अगरुं तगरुं तथा ।
गृञ्जनं शर्करा कृष्ण महाङ्गं सिह्लकं तथा ॥
महाङ्गो ‘यं स्मृतो धूपः प्रियो देवस्य सर्वदा ॥ इति ।
“गोगतः” स्वर्गतः ।
इति कामदसप्तमीव्रतम् ।
[सिद्धार्थकादिसप्तमी]
सप्ताश्वतिलक उवाच ।
वैनतेय निबोध त्वं विधानं सप्तमीव्रते ।
एतद् धि परमं गुह्यं रवेर् आराधनं परम् ॥
सिद्धार्थकैस् तु प्रथमा द्वितीया वार्कसम्पुटैः ।
[१७३] तृतीया मरिचैः कार्या चतुर्थी निम्बसप्तमी ॥
षड्युता पञ्चमी कार्या षष्ठी च फलसप्तमी ।
सप्तम्य् अनोदना वीर सप्तमी परिकीर्तिता ॥
इत्य् एताः सप्तसप्तम्यः कर्तव्या भूतिम् इच्छता ।
तथा चात्र क्रमेणासां करणं कथयाम्य् अहम् ॥
माघे वा मार्गशीर्षे वा कार्या शुक्ला तु सप्तमी ।
नार्तस्य नियमभ्रंशः पक्षमासकृतो भवेत् ॥
अर्धप्रहरशेषे तु प्रकुर्याद् दन्तधावनम् ।
“अर्धप्रहरशेषे” पूर्वदिने ‘वशिष्टार्धप्रहरे ॥
सप्तम्यां ये तत्र वृक्षाः कामिकांस् तान् वदाम्य् अहम् ॥
मधूके पुत्रलाभः स्याद् अर्जुने भार्गवी स्थिरा ।
“अर्जुनः” ककुभः ।
[१७४] बदर्यां च बृहत्यां च क्षिप्रं रोगान् प्रमुच्यते ॥
ऐश्वर्यं च भवेन् निम्बे खदिरे धनसञ्चयः ।
शत्रुक्षयः कदम्बे चाप्य् अर्थलाभो ‘तिमुक्तके ॥
गुरुतां याति सर्वत्र आटरूषकसम्भवे ।
ज्ञातिप्रधानतां याति ह्य् अश्वत्थो यच्छते यशः ॥
श्रियं प्राप्नोति विपुलां शिरीषस्य निषेवणात् ।
प्रियङ्गुं सेवमानस्य सौभाग्यं परमं भवेत् ॥
अभीप्सितार्थसिद्धिः स्यान् नित्यं प्लक्षनिषेवणात् ।
न पाटितं समश्नीयाद् दन्तकाष्ठं च सव्रणम् ॥
न चार्द्रशुष्कं वक्रं वा न चैव त्वग्विवर्जितम् ।
वितस्तिमात्रम् अश्नीयाद् दीर्घं ह्रस्वं च वर्जयेत् ॥
उदङ्मुखः प्राङ्मुखो वा सुखासीनो ‘थ वाग्यतः ।
कामं यथेष्टं हृदये कृत्वा समभिमन्त्र्य च ॥
[१७५] मन्त्रेणानेन मतिमान् अश्नीयाड् दन्तधावनम् ।
वरदं त्वाभिजानामि कामदं च वनस्पते ॥
सिद्धिं प्रयच्छ मे नित्यं दन्तकाष्ठ नमो ‘स्तु ते ।
त्रीन् वारान् परिजप्यैवं भक्षयेद् दन्तधावनम् ॥
पश्चात् प्रक्षाल्य तत् काष्ठं शुचौ देशे विनिक्षिपेत् ।
ऊर्ध्वे निपतिते सिद्धिस् तथा वाभिमुखे स्थिते ॥
अतो ‘न्यथा निपतितम् आनीय पुनर् उत्सृजेत् ।
पराङ्मुखं यदि भवेत् त्रीन् वारान् दन्तधावनम् ॥
असिद्धिं तु विजानीयान् न ग्राह्या सा तु सप्तमी ।
ब्रह्मचारी तु तां रात्रिं सुप्यान् मङ्गल्यसेवया ॥
बिभ्रद् वासो ‘नुपहतं शुचिर् आचारसंयुतः ।
तस्यां रात्र्यां व्यतीतायां प्रातर् उत्थाय वै खग ॥
प्रक्षालयेन् मुखं धीमान् अश्नीयाद् दन्तधावनम् ।
उपविश्य शुचिर् भूत्वा प्रणम्य शिरसा रविम् ॥
जपं यथेष्टं कृत्वा तु जुहुयाच् च हुताशनम् ।
ततो ‘पराह्णसमये स्नात्वा शृङ्गोद्भवाम्बुभिः ॥
विधिपूर्वम् उपस्पृश्य मौनी शुक्लाम्बरः शुचिः ।
पूजयित्वा तु विधिवद् भक्त्या देवं दिवाकरम् ॥
[१७६] स्वपेद् देवस्य पुरतो गायत्रीजपतत्परः ।
अतः परं प्रवक्ष्यामि यैर् यैर् यत् फलम् आदिशेत् ॥
स्वप्ने दृष्टैस् तु सप्तम्यां पुरुषो नियतव्रतः ।
समाप्य विधिवत् सर्वां सर्वां जपहोमादिकां क्रियाम् ॥
भूमौ शय्यां समास्थाय देवदेवं विचिन्तयेत् ।
अत्र स्वप्ने यदि नरः पश्येद् उद्यद्दिवाकरम् ॥
शक्रध्वजं गजेन्द्रं वा तस्य सर्वाः समृद्धयः ।
वृषभं गजगोवत्सविणालोकाशनादिकान् ॥
भृङ्गारममलादर्शकरकाप्तौ सुखोत्सवः ।
रुधिरस्य स्रुतिः सेकः परमैश्वर्यकारकः ॥
सप्तवृक्षाधिरोहश् च क्षिप्रम् ऐश्वर्यम् आवहेत् ।
दोहनं महिषीस्ंही गोधेनूनां करे स्वके ॥
बन्धश् चासां राज्यलाभो नाभिस्पर्शे तु दुर्गतिः ।
अभिपत्य स्वयं खादेत् सिंहं गां भुजगान् अपि ॥
स्वाङ्गम् अस्थि हुताशनं च सुरापानं तथा खग ।
** वा राजते वापि यो भुङ्क्ते पायसं नरः ॥
[१७७] पात्रे तु पद्मपत्रे वा तस्यैश्वर्यं परं भवेत् ।
द्यूते वाप्य् अथ वा युद्धे विजयो हि सुखावहः ॥
गात्रप्रक्ष्वेडनं वापि शिरोवेधश् च भूतले ।
“गात्रप्रक्ष्वेडनम्” अङ्गसन्धिशब्दः ।
माल्याम्बराणां शुक्लानां हयानां पशुपक्षिणाम् ॥
सदा लाभं प्रशंसन्ति तथा विष्ठानुलेपनम् ।
हययाने भवेत् क्षेमं रथयाने प्रजागमः ॥
नानाशिरोबाहूनां च हस्तस्थां कुरुताच्छ्रियम् ।
अगम्यागमनं पुण्यं वेदाध्ययनम् उत्तमम् ॥
देवद्विजजना वीरगुरुवृद्धतपस्विनः ।
यद् वदन्ति नरान् स्वप्ने सत्यम् एवेति तद् विदुः ॥
प्रशस्तं दर्शनं तेषाम् आशीर्वादः खगाधिप ।
राजा स्यात् स्वशिरच्छेदे धनं बहुतरं भवेत् ॥
रुदिते भक्ष्य्सम्प्राप्ती राज्यं निगडबन्धने ।
[१७८] पर्वतं तुरगं सिंहं वृषभं गजम् एव हि ॥
महद् ऐश्वर्यम् आप्नोति यो विक्रम्याधिरोहति ।
ग्रसमानो ग्रहांस् तारा महीं च परिवर्तयेत् ॥
उन्मूलयन् पर्वतांश् च राजा भवति भूतले ।
देहान् निष्क्रान्तिर् अन्त्राणां वेष्टनं च खगाधिप ॥
यानं समुद्रसरिताम् ऐश्वर्यसुखकारणम् ।
सरितं चाम्बुधिं वापि तीर्त्वा पारं प्रयाति च ॥
तस्य लाभो भवेद् वीर सकलं कमलोपमम् ।
अद्रिं लङ्घयतश् चापि भवत्य् अर्थो जयस् तथा ॥
मांसम् आमं तथा विष्ठां फलं नानाविधं खग ।
भवत्य् अर्थागमः शीघ्रं कृमीन् वा यदि भक्षयेत् ॥
अङ्गनानां कुरूपाणां लाभो धर्शनम् एव च ।
संयोगश् चैव माङ्गल्यैर् आरोग्यं धनम् एव च ॥
ऐश्वर्यं राज्यलाभो वा यस्मिन् स्वप्न उदाहृतम् ।
तत्र स्यान् नास्ति सन्देहस् तैस् तैर् दृष्टैर् न संशयः ॥
दृष्ट्वा तु शोभनं स्वप्नं न भूयः शयनं व्रजेत् ।
[१७९] प्रातश् च कीर्तयेत् स्वप्नं यथादृष्टं खगाधिप ॥
प्राज्ञो भोजकविप्रेभ्यः सुहृदां देवतासु च ।
ततो मध्याह्न्समये स्नातः प्रयतमानसः ॥
तं शिवं देव विधिवत् पूजयित्वा दिवाकरम् ।
सम्यक् कृतजपो मौनी ततो हुतहुताशनः ॥
निष्क्रम्य देवायतनाद् भोजयेद् ब्राह्मणांस् ततः ।
रक्तानि चैव वस्त्राणि तथैव च सुगन्धयः ॥
सुगन्धिमाल्यानि हविष्यम् अन्नं
पयस्विनीं गाम् अपि वाचकाय ।
देयानि यच् चास्य भवेद् अभीष्टं
भवेद् अलाभो यदि वाचकानाम् ॥
विप्रास् तदार्हन्ति विशिष्टबुद्ध्या
ये मन्त्रदेवा हुतपावका वै ।
ये चापि सामाध्ययने नियुक्ता
यजुर्विदो वापि ऋचां विधिज्ञाः ॥
कृत्वैवं सप्त सप्तभ्यो नरो भक्तिसमन्वितः ।
श्रद्दधानो ‘नसूयश् च स कथं नाप्नुयात् फलम् ॥
[१८०] दशानाम् अश्वमेधानां कृतानां यत् फलं भवेत् ।
तत् फलं सप्तसप्तभ्यां कृत्वा प्राप्नोति मानवः ॥
दुष्प्रापं नास्ति तद् वीर सप्तभ्यां यन् न लभ्यते ।
न च रोगो ‘स्त्य् असौ लोके य एताभिर् न शाम्यति ॥
कुष्ठानि यानि रौद्राणि दुश्छेद्यानीह यानि तु ।
ग्रस्यन्ते तानि दर्वाणि गरुडेनेव पन्नगाः ॥
व्रतनियमविशेषैः सप्तमीसप्त चैवं
विधिवद् इह हि कृत्वा मानवो धर्मशीलः ।
श्रुतधनफलयोगैः सौख्यपुण्यैर् उपेतो
व्रजति तद् अनु लोकं शाश्वतं तीक्ष्णरश्मेः ॥
अतः परं प्रवक्ष्यामि पुष्पधूपादि कामिकम् ।
येन येन तु दानेन तत् फलं समवाप्यते ॥
मालतीकुसुमैः पूजा भवेत् सान्निध्यकारिणी ।
आरोग्यं करवीरैश् चाप्य् ऐश्वर्यम् अतुलं तथा ॥
मल्लिकायास् तु कुसुमैर् भोगवान् साधको भवेत् ।
सौभाग्यं पुण्डरीकैस् तु भवत्य् अर्थस् तु शाश्वतः ॥
[१८१] गन्धकुब्जकपुष्पैस् तु परमैश्वर्यम् अश्नुते ।
कमलोत्पलगन्धैस् तु यशो ‘पि विमलं लभेत् ॥
नानाविधैर् मुकुरकैः क्षिप्रं रोगात् प्रमुच्यते ।
“मुकुरकैः” विचकलैः ।
भवत्य् अक्षय्यम् अन्नं च नित्यम् अर्चयतो रविम् ॥
मन्दारकुसुमैः पूजा सर्वकुष्ठविनाशिनी ।
तथा बिल्वस्य कुसुमैर् महतीं श्रियम् अश्नुते ॥
अर्कपुष्पैर् भवत्य् अर्कः सर्वदा वरदः प्रभुः ।
प्रदाय रूपिणीं कन्याम् अर्चतो बकुलस्रजा ॥
किंशुकैः पूजितो देवो न पीडयति भास्करः ।
अगस्त्यकुसुमैः सिद्धिम् आनुकूल्यं प्रयच्छति ॥
स्त्रियं रूपवतीं दद्यात् पूजितः पङ्कजैः सदा ।
निरुद्वेगो भवेन् नित्यं पूजयन् वनमालया ॥
अशोककुसुमैर् देवम् अर्चयेद् यो द्विवाकरम् ।
न स मोहम् अवाप्नोति कदाचिद् अपि मानवः ॥
जपापुष्पैर् निरायासं कुर्याद् अभ्यर्चितो रविः ।
भक्त्या तुष्यति देवेशः किम् अन्यैर् वा प्रयोजनम् ॥
न कण्टकारिकापुष्पैर् न चैवोन्मत्तकोद्भवैः ।
न चाम्रातकजैः पुष्पैर् अर्चनीयो दिवाकरः ॥
आम्रातकस्य कुसुमं निर्माल्यम् इव दृश्यते ।
[१८२] अप्रत्यग्रं बहिर् यस्मात् तस्मात् तत् परिवर्जयेत् ॥
नाविज्ञातं प्रदातव्यं न म्लानं न च दूषितम् ।
न च पर्युषितं चैव दातव्यं भूतिम् इच्छता ॥
देवम् उन्मोचयेद् यस् तु तत्क्षणात् पुष्पलोभतः ।
पुष्पाणि च सुगन्धीनि भोजको नेतराणि तु ॥
ब्रह्महताम् अवाप्येह भोजको लोभमोहितः ।
महारौरवम् आसाद्य पच्यते शाश्वतीः समाः ॥
हन्त ते कीर्तयिष्यामि धूपदानविधिं परम् ।
प्रदानाद् देवदेवस्य येन धूपेन यत् फलम् ॥
सदा चन्दनधूपेन सान्निध्यं कुरुते रविः ।
प्रदद्यात् सन्निधिं चैव यद् यद् इच्छति मानवः ॥
तथैवागरुधूपेन वरान् दद्याद् अभीप्सितान्।
आरोग्यार्थी च पुरुषो सर्वदा गुग्गुलुं दहेत् ॥
पिण्डाङ्गधूपदानेन सदा तुष्यति भास्करः ।
“पिण्डाङ्गः” सिह्लकः ।
आरोग्यं च श्रियं दद्यात् सौभाग्यं परमं भवेत् ॥
सदा कुन्दकधूपेन सौभाग्यं लभते नरः ।
“कुन्दकः” मल्लकीनिर्यासः ।
श्रीवासकस्य धूपेन वाणिज्यं सफलं भवेत् ॥
[१८३] रसं सर्जरसं चैव दहतो ‘र्थागमो भवेत् ।
“श्रीवासः” सरलः । “रसो” वोलः ।
देवदारुं च दहतो भवत्य् अनुपमाक्षयः ॥
विलेपनं कुङ्कुमेन सर्वकामप्रदं भवेत् ।
इह लोके सुखी भूत्वा दाता स्वर्गम् आप्नुते ॥
चन्दनस्य प्रदानेन सर्वं दद्याद् दिवाकरः ।
अपि रोगशतैर् ग्रस्तः क्षिप्रम् आरोग्यम् अश्नुते ॥
वर्तिगन्धैश् च सौभाग्यं परमं विन्दते नरः ।
कस्तूरिकाचन्दनकैर् ऐश्वर्यम् अतुलं लभेत् ॥
सम्पूज्य विधिवद् देवं पुष्पधूपादिभिर् नरः ।
यथाशक्ति ततः पश्चान् नैवेद्यम् उपकल्पयेत् ॥
पुष्पाणां प्रवरा जाती धूपानां कुन्दको वरः ।
गन्धानां कुङ्कुमं श्रेष्ठं लेपानां चन्दनं वरम् ॥
दीपदाने घृतं श्रेष्ठं मोदकाश् च निवेदने ।
एवं सम्पूज्य विधिवत् कृत्वा चापि प्रदक्षिणम् ॥
प्रणम्य शिरसा देवं भास्करं तिमिरापहम् ।
[१८४] आरुह्य कार्बुरं यानं याति भानोः सलोकताम् ॥
“कार्बुरम्” सौवर्णम् ।
पुनः सम्पूज्य देवेशं जपं कुर्याद् यथेष्टकम् ।
हुताशनं च जुहुयाद् विधिदृष्टेन कर्मणा ॥
पूर्वम् एकैकशः कार्याः सप्तभ्यः सप्त सर्वदा ।
[उदकसप्तमी]
उदकप्रसृतिं पीत्वा क्रियते या तु सप्तमी ॥
सा ज्ञेया सुखदा वीर सदैवोदकसप्तमी ।
[वराटिका सप्तमी]
या काचित् सप्तमी प्रोक्ता ततो वक्ष्यामि शोभनाम् ॥
वराटिकात्रयेणान्नं यत् किञ्चित् प्राप्नुयान् नरः ।
अनेन देहि मूल्येन यल् लब्धं तत् तु भक्षयेत् ॥
अभक्ष्यं वापि बक्ष्यं वा नात्र कार्या विचारणा ।
इति सिद्धार्थकादिसप्तमी उदकसप्तमी वराटिकासप्तमी च ।
[१८५]
[गोमयादिसप्तमी]
सुमन्तुर् उवाच ।
यः क्षिपेद् गोमयाहारः शुक्ला द्वादशसप्तमीः ।
राजेन्द्र यावकाहारः शीर्णपर्णाशनो ‘पि वा ॥
क्षीराशी चैकभोक्ता वा भैक्ष्याहारो ‘थ वा पुनः ।
जलाहारो ‘थ वा भूत्वा पूजयित्वा दिवाकरम् ॥
पुष्पोपहारैर् विविधैः पद्मसौगन्धिकोत्पलैः ।
नानाप्रकारैर् गन्धैस् तु धूपैर् गुग्गुलुचन्दनैः ॥
कृसरापायसान्नाद्यैर् विचित्रैश् च विभूषणैः ।
अर्चयित्वा नरश्रेष्ठ हिरण्यान्नादिभिर् नरः ॥
यत् फलं समवाप्नोति क्रतुभिर् भूरिदक्षिणैः ।
तद् अत्र प्राप्यते वीर सप्तभ्यां केवलं रवेः ॥
विमानवरम् आरूढः सूर्यलोके महीयते ।
ततः पुण्यक्षयाद् राजा कुले महति जायते ॥
एवं भक्त्या विवस्वन्तं प्रतिमासं समाहितः ।
पूजयन् विधिवद् भक्त्या नामानीमानि कीर्तयेत् ॥
मधौ मासे विष्णुर् इति माधवे चार्थम् एति च ।
शुक्ले मासे विवस्वांश् च शुचौ मासे दिवाकरः ॥
[१८६] पर्जन्यः श्रावणे मासि नभस्ये वरुणस् तथा ।
मित्रश् चाश्वयुजे मासि कीर्तनीयो दिवाकरः ॥
मार्तण्डो ‘पि च विज्ञेयः कार्तिके काञ्चनप्रभः ।
मार्गशीर्षे कुजः प्रोक्तः सर्वपापविनाशनः ॥
पूषा पौषे तु वै मासि पूजनीयः प्रयत्नतः ।
माघे भगो ‘थ विज्ञेयस् त्वष्टा चैवाथ फाल्गुने ॥
एवं क्रमेण नामानि कीर्तयेत् प्रीतये रवेः ।
धूपार्चनविधानं तु सप्तम्यां सुसमाहितः ॥
यः करोति नरो भक्त्या स याति परमां गतिम् ।
तेजसा रविसङ्काशः प्रभयामरसन्निभः ॥
एतत् ते सर्वम् आख्यातं शृण्वतः पापनाशनम् ।
न च देयम् अशिष्याय नाभक्ताय कदाचन ॥
न च पापकृते देयं नातप्ततपसे ‘पि वा ।
कृतघ्ने नास्तिके वीर न देयं क्रूरकर्मणे ॥
इति गोमयादिसप्तमी ।
[१८७]
[सर्षपसप्तमी]
ब्रह्मोवाच ।
सम्पूज्य विधिवद् देवं पुष्पधूपादिभिस् तथा ।
यथाशक्ति ततः पश्चान् नैवेद्यं शक्तितो न्यसेत् ॥
पुष्पाणां प्रवरा जाती धूपानां विजयः परः ।
गन्धानां कुङ्कुमं श्रेष्ठं लेपानां रक्तचन्दनम् ॥
दीपदाने घृतं श्रेष्ठं नैवेद्यं मोदकं परम् ।
दत्तैर् एतैस् तु देवेशः सान्निध्यं चापि गच्छति ॥
एवं सम्पूज्य विधिवत् कृत्वा चापि प्रदक्षिणम् ।
प्रणम्य शिरसा देवं देवदेवं दिवाकरम् ॥
सुखासीनस् ततः पश्येद् रवेर् अभिमुखस्थितः ।
एवं सिद्धार्थकं कृत्वा हस्ते पानीयसंयुतः ॥
कामं यथेष्टं हृदये कृत्वा तद्वाञ्छितं नरः ।
पिबेत् सन्तोषयन् विप्रम् अस्पृशन् दशनैः सकृत् ॥
द्वितीयायां तु सप्तम्यां द्वौ गृहीत्वा च सुव्रत ।
तृतीयायां तु सप्तम्यां पातव्यास् त्रय एव तु ॥
चतुर्थ्यां चापि चत्वारः पञ्चम्यां पञ्च एव हि ।
[१८८] षट् पिबेच् चापि षष्ठ्यां तान् इतीयं वैदिकी श्रुतिः ॥
सप्तम्यां वारिसंयुक्तान् सप्त चैव पिबेन् नरः ।
आदिप्रभृति विज्ञेयो मन्त्रो ‘यम् अभिमन्त्रणे ॥
सिद्धार्थक त्वं लोके हि सर्वत्र श्रूयसे सदा ।
तथा माम् अपि सिद्धार्थम् अर्थानां कुरुतां रविः ॥
ततो हविर् उपस्पृश्य जपं कुर्याद् यथेप्सितम् ।
हुताशं चैव जुहुयाद् विधिदृष्टेन कर्मणा ॥
एवम् एताः पराः कार्याः सप्तम्यः सप्त सर्वदा ।
उदकप्रभृतिर् यावत् पञ्चगव्येन सप्तमी ॥
एकं तोयेन सहितं द्वौ चापि घृतसंयुतौ ।
तृतीयं मधुना सार्धं दध्नापि च चतुष्टयम् ॥
युक्तास् तु पयसा पञ्च षट्सु गोमयसंयुताः ।
पञ्चगव्येन वै सप्त पिबेत् सिद्धार्थकं द्विजः ॥
अनेन विधिना यस् तु कुर्यात् सर्षपसप्तमीम् ।
बहुपुत्रो बहुधनः सिद्धार्थश् चापि सर्वदा ॥
इह लोके नरो विप्रः प्रयाति च विभावसुम् ।
इति सर्षपसप्तमी ।
[१८९]
[सप्तसप्तमीकल्पः]
सुमन्तुर् उवाच ।
स्वयं याः कथिता पूर्वम् आदित्येन खगस्य तु ।
अरुणस्य महाबाहोः सप्तम्यः सप्त पूजिताः ॥
अर्कसम्पुटकैर् एका द्वितीया मरिचैस् तथा ।
तृतीया निम्बपत्रैस् तु चतुर्थी फलसप्तमी ॥
अनोदना पञ्चमी स्यात् षष्ठी विजयसप्तमी ।
सप्तमी कामिकी ज्ञेया विधिं तासां निबोध मे ॥
शुक्लपक्षे रविदिने प्रवृत्ते चोत्तरायणे ।
पुन्नामधेयनक्षत्रे गृह्णीयात् सप्तमीव्रतम् ॥
सर्वासु ब्रह्मचारी स्याच् छौचयुक्तो जितेन्द्रियः ।
सूर्यार्चनपरो दान्तो जपहोमपरस् तथा ॥
सप्तम्याम् एकभक्तं तु कुर्यान् नियतम् आत्मवान् ।
षष्ठ्यां न मैथुनं गच्छेन् मधुमांसं विवर्जयेत् ॥
अर्कसम्पुटकैर् एकां तथान्यां मरिचैर् नयेत् ।
तथापरां निम्बपत्रैः फलाख्यां फललक्षिताम् ॥
अनोदनं निराहार उपवासी यथाविधि ।
अहोरात्रं वायुभक्षः कुर्याद् विजयसप्तमीम् ॥
[१९०] तथैताः सप्त कृत्वा तु प्रतिमासं विचक्षणः ।
कुर्याद् विधानं विधिवत् ततः कुर्वीत कामिकीम् ॥
आसां लिखित्वा नामानि पत्रकेषु पृथक् पृथक् ।
तानि सर्वाणि पत्राणि क्षिपेद् अभिनवे घटे ॥
तदर्थं यो न जानीते बालो ‘बालो ‘पि वा नरः ।
तेनाभ्युद्धारयेद् एकं तत् कुर्याद् अविचारयन् ॥
तेनैव विधिना या तु प्रतिमासं परन्तप ।
सप्तैव यावत् सम्प्राप्ता विज्ञेया सात्र कामिकी ॥
इत्य् एताः सप्त सप्तम्यः स्वयं प्रोक्ता विवस्वता ।
कुर्वीत यो नरो भक्त्या स यात्य् अर्कसदो नृप ॥
अर्कसम्पुटकैर् वित्तम् अमलं साप्तपौरुषम् ।
मरीचैः सङ्गमः स्याद् वै प्रियपुत्रार्थिनः सदा ॥
सर्वे रोगाः प्रशाम्यन्ति निम्बपत्रैर् न संशयः ।
फलैश् च पुत्रपौत्रैश् च दौहित्रैश् चापि पुष्कलैः ॥
अनोदनात् तथा धान्यं सुवर्णं रजतं तथा ।
तथा यशो हिरण्यं वारोग्यं सन्ततिर् एव च ॥
उपोष्य विजयां शत्रून् राजा जयति नित्यशः ।
[१९१] साधयेत् कामदान् कामान् विधिवत् पर्युपोषिताः ॥
पुत्रकामो लभेत् पुत्रम् अर्थकामो ‘र्थम् अक्षयम् ।
विद्याकामी लभेद् विद्यां राज्यार्थी राज्यम् आप्नुयात् ॥
हृत्स्थान् कामान् ददात्य् एषा कामदा कुलनन्दन ।
नरो वा यदि नारी वा यथोक्तं सप्तमीव्रतम् ॥
करोति नियतात्मा वै स याति परमां गतिम् ।
मोहात् प्रमादाल् लोभाद् वा व्रतभङ्गो भवेद् यदि ॥
तदा त्रिरात्रं नाश्नीयात् कुर्याद् वा केशमुण्डनम् ।
प्रायश्चित्तम् इदं कृत्वा पुनर् एव व्रती भवेत् ॥
सप्तैव यावत् सम्प्राप्ताः सप्तम्यः सप्त संयुताः ।
अभ्यर्च्य सूर्यं सप्तम्यां माल्यधूपादिभिर् नरः ॥
भोजयित्वा द्विजान् भक्त्या प्राप्नुयात् स्वर्गम् अक्षयम् ।
सप्तम्यां विप्रमुख्येभ्यो हिरण्यं यः प्रयच्छति ॥
स तद् अक्षयम् आप्नोति सूर्यलोकं च गच्छति ।
[इति सप्तसप्तमीकल्पः]
[अर्कसम्पुटसप्तमी]
सुमन्तुर् उआच ।
इत्य् एवं सप्तमीकल्पः समासात् कथितस् तव ।
विस्तरात् तु पुनर् वच्मि शृणुष्वैकमना भृशम् ॥
फाल्गुनामलपक्षस्य षष्ठ्यां सम्यग् उपोषितः ।
[१९२] पूजयेद् भास्करं बक्त्या पुष्पगन्धादिलेपनैः ॥
अर्कपुष्पैर् महाबाहो गुग्गुलेन सुगन्धिना ।
सितेन धूपयेद् देवं चन्दनेन दिवाकरम् ॥
गुडोदनं च नैवेद्यं फलानां त्रितयं रवेः ।
एवं पूज्य दिवा भानुं रात्रौ तस्याग्रतः स्वपेत् ॥
जपेद् भूमौ परं जप्यं निद्रां च मात्यगाद् बुधः ।
ध्यायमानो महात्मानं देवदेवं दिवाकरम् ॥
षडक्षरेण मन्त्रेण कुर्यात् सर्वं समाहितः ।
जपं होमं तथा पूजां शतजप्तेन सर्वदा ॥
सावित्र्यास् तु जपं पूर्वं कृत्वा शतसहस्रशः ।
पश्चात् सर्वं प्रकुर्वीत जपादिकम् अनाकुलः ॥
श्रेयो ‘र्थम् आत्मनो वीर प्रीतये भास्करस्य तु ।
“ॐ भास्कराय विद्महे सहस्ररश्मये धीमहि तन् नः सूर्यः प्रचोदयात्” इति सावित्री ।
जप एष नरः प्रोक्तः सप्तम्यां भानुना स्वयम् ॥
जप्त्वा सकृद् भवेत् पूतो मानवो नात्र संशयः ।
प्रभाते त्व् अथ सप्तम्यां स्नातो नियतमानसः ॥
पूजयेद् भास्करं भक्त्या पूर्वोक्तविधिना नृप ।
[१९३] श्रद्धया भोजयेच् चापि ब्राह्मणान् भक्तितो नृप ॥
दिव्यैर् भोगैश् च विधिवद् भक्ष्यभोज्यैश् च नित्यशः ।
वित्तशाठ्यं न कुर्वीत भोजनार्हांस् तु भोजयेत् ॥
स भोजयेत् तथा सौरान् सौराद् अन्यं न भोजयेत् ।
घटी भोज्यो भवेद् विप्रः सप्तमीं कुरुते तु यः ॥
सौरतन्त्रेष्व् अभिज्ञेयो यश् च बक्तो दिवाकरे ।
एते भोज्या द्विजा राजन्न् आदित्येन समासतः ॥
प्रोक्ताः कुरुकुलश्रेष्ठ तथाभोल्यान् शृणुष्व मे ।
परभार्यापतिर् यस् तु कुष्ठरोगवहश् च यः ॥
यश् चान्यदेवताभक्तस् तथा नक्षत्रसूचकः ।
परापवादनिरतो यश् च देवलकस् तथा ॥
एते ह्य् अभोज्या विप्रेषु स्वयं देवेन निर्मिताः ।
घटते तु त्रयीं विद्यां ब्राःमणानां कदम्बके ॥
घटेत्य् उक्ता तु सा राजन् स्वयं देवेन भानुना ।
सा घटा विद्यते यस्य स घटीत्य् उच्यते द्विजः ॥
ब्रह्मक्षत्रविशां वीर शूद्राणां च कदम्बकम् ।
शृण्वतां विधिवत् पुण्यं भक्त्या पुस्तकवाचनम् ॥
[१९४] इतिहासनिबन्धस्य सा समस्येति भानुना ।
कथिता कुरुशार्दूल स्वयम् आकाशगामिना ॥
तस्याः कर्ता भवेद् यस् तु समस्याकारको मतः ।
स विप्रो राजशार्दूल सन्देष्टा भास्करस्य तु ॥
जयोपजीवी व्यासस्य समस्याजीवकस् तथा ।
यान्य् एतानि पुराणानि सेतिहासानि भारत ॥
जयेति कथितानीह स्वयं देवेन भानुना ।
एतानि वाचयेद् यस् तु ब्राह्मणान् उपजीवति ॥
जयोपजीवी स ज्ञेयो वाचकश् च तथा नृप ।
सम्पूज्यो यत्नतो भक्त्या प्रीतये भास्करस्य तु ॥
आरुणेयादिशास्त्राणि सप्ताश्वतिलकं तथा ।
यस् तु जानाति सौराणि स विप्रः सौरतन्त्रवित् ॥
पूजयेत् सततं यस् तु पूजयेद् भास्करं नृप ।
स याति परमं स्थानं यत् तत् पश्यन्ति सूरयः ॥
भोजकस् तु सदा राजन् यथा देवो दिवाकरः ।
स ज्ञेयो भास्करेणोक्तो भोजनीयः प्रयत्नतः ॥
[१९५] भोजकं निन्दयेद् यस् तु न तत् पूजयते तथा ।
ज्ञेयो ‘न्यदेवताभक्तः स विप्रः कुरुनन्दन ॥
मुण्डो व्यङ्गी तथा गौरः शङ्खपद्मधरस् तथा ।
यस्य याति गृहाद् राजन् भोजको मानवस्य तु ॥
तस्य यान्ति गृहाद् देवाः पितरो भास्करस् तथा ।
ब्राह्मणो यश् च राजेन्द्र भृत्यकर्म करोति वै ॥
देवतायतनेष्व् एव देवानां पूजनं तथा ।
साधिपत्यं भक्षणं च नैवेद्यस्य परं तथा ॥
स विज्ञेयो देवलको ब्राःमणो ब्राह्मणाधमः ।
नाधिकारो ‘स्ति विप्राणां भौमानां देवपूजने ॥
भृत्या भरतशार्दूल साधिपत्ये विशेषतः ।
देवालयेषु सर्वेषु वर्जयित्वा शिवालयम् ॥
द्वाव् एव सुप्रियौ राजन् भास्करस्य द्विजौ नृप ।
वाचको भोजकश् चैव ताव् एवोत्तमतां गतौ ॥
स्वयं गत्वा गृहं भक्त्या पाणिभ्यां पादम् आलभेत् ।
ब्रवीति च तथा विप्रं प्रसादं कुरु मे विभो ॥
[१९६] भास्करप्रीतये वीर भोजनं भुङ्क्ष्व मे गृहे ।
येन मे तृप्यते देवस् त्वयि तृप्ते दिवाकरे ॥
ब्राह्मणाश् चापि तं ब्रूयात् क्षणे सति महामते ।
एवं करिष्ये श्रेयो ‘र्थम् आत्मनस् तव वा विभो ॥
इत्य् आमन्त्र्य ततो गच्छेत् स्वगृहं कुरुनन्दन ।
तथा परे ‘ह्नि सम्पूज्य भक्त्या देवं दिवाकरम् ॥
हुत्वाथ पावकं राजन् भोजयेद् ब्राह्मणांस् तथा ।
शाल्योदनं तथा मुद्गान् सुगन्धं घृतम् एव च ॥
अपूपान् गुडपूर्णांश् च पयो दधि तथा गुडम् ।
एतैस् तु तृप्तिम् आयाति भास्करो नव सप्त वा ॥
वर्षाणि भरतश्रेष्ठ नात्र कार्या विचारणा ।
कुलत्थकान् मसूरांश् च तिलांश् चाढक्य एव च ॥
शिग्रुं चापि तथात्यर्थं राजमाषांस् तथैव च ।
एतान् न भास्करे दद्याद् य इछेच् छ्रियम् आत्मनः ॥
दुर्गन्धं यच् च कटुकम् अत्यम्लं भास्करस्य तु ।
विमिश्रांस् तण्डुलांश् चापि न दद्याद् भास्कराय वै ॥
इत्थं भोज्य द्विजान् राजन् प्राशयेद् अर्कसम्पुटे ।
प्रणम्य शिरसा देवम् उदकेन समन्वितः ॥
[१९७] निष्क्रम्य नगराद् राजन् गत्वा पूर्वोत्तरां दिशम् ।
नात्युच्छ्रितं नातिनीचं शुचौ देशे ‘र्कम् उत्तमम् ॥
जातं दृष्ट्वा महाबाहो पूजयित्वा खखोल्कतः ।
पूर्वोत्तरगतायां या तस्य शाखा दिवं गता ॥
शाखायाम् अग्रजे पत्रे सुसूक्ष्मे पल्लवासृते ।
सुश्लिष्टे च पृथग्भूते गृहीत्वा गृहम् आव्रजेत् ॥
स्नातः पूज्य विवस्वन्तम् अर्कपुष्पैः खकोल्कतः ।
ब्राह्मणान् भोजयित्वा चाप्य् अर्को मे प्रीयताम् इति ॥
प्राश्य मन्त्रेणार्कपुटं ततो भुञ्जीत वाग्यतः ।
देवस्य पुरतो वीर अस्पृशन् दशनैः पुटम् ॥
ॐ अर्कसम्पुट भद्रं ते सुभद्रं ते ‘स्तु वै सदा ।
ममापि कुरु भद्रं वै प्राशनाद् वित्तदो भव ॥
इमं मन्त्रं जपेद् राजन् स्मरन्न् अर्कं महामते ।
स्थित्वा पूर्वमुखं प्राज्ञो वारिणा सहितं नृप ॥
प्राश्य भुङ्क्ते च यो राजन् स याति परमां गतिम् ।
अनेन विधिना भक्त्या कर्तव्या सप्तमी सदा ॥
वर्षं यावन् महाबाहो प्रीतये ‘र्कस्य सर्वदा ।
[१९८] यश् चेमां सप्तमीं कुर्याद् भास्करप्रीतये नरः ॥
तस्याक्षतं भवेद् वित्तम् अचलं साप्तपौरुषम् ।
कृत्वेमां सिद्धिम् आयातः कौथुमिः सामगः पुरा ॥
कृष्ठरोगाच् च मुक्तो जपन् मासं महामते ।
बृहद्वल्को ‘थ जनको याज्ञवल्क्यो ‘थ कृष्णजः ॥
“कृष्णजः” साम्बः ।
अनया ह्य् अर्कम् आराध्य गता एते ‘र्कसाम्यताम् ।
इह धन्यतमा पुण्या सप्तमी पापनाशिनी ॥
पठतां शृण्वताम् राजन् कुर्वतां च विशेषतः ।
तस्माद् एषा सदा कार्या विधिवच् छ्रेयसे नृप ॥
अर्कप्रिया महाबाहो महापातकनाशिनी ।
इत्य् अर्कसम्पुटसप्तमी ।
[निम्बसप्तमी]
सुमन्तुर् उवाच ।
तृतीयां सप्तमीं वीर शृणुष्व गदतो मम ।
निम्बपत्रैः स्मृता या तु पापघ्नी रोगनाशिनी ॥
[१९९] तथार्चनविधिं चान्यं येन पूजयते रविम् ।
देवदेवं गदापाणिं शङ्खचक्रगदाधरम् ॥
अथार्चनविधिं वच्मि मन्त्रोद्धारं निबोध मे ।
सर्वपापहरं पुण्यं सर्वरोगविनाशनम् ॥
ॐ खखोल्काय नमः, इति मूलमन्त्रः । ॐ विटि विटि, शिरः । ॐ ज्वालिने, इति शिखा । ॐ सहस्ररश्मये फट्, कवचम् । ॐ सर्वतेजो ‘धिपतये फट्, अस्त्रम् । ॐ सहस्रकिरणोज्ज्वलाय फट्, ऊर्ध्वबन्धः । ॐ पृथिव्यै भूतभाविन्यै च नमः, इति भूतबन्धः । ॐ ज्वलनप्रज्वलनाय फट्, अग्निप्रकारः । ॐ आदित्याय विद्महे विश्वभावाय धीमहि तन् नः सूर्यः प्रचोदयात्, गायत्रीसकलीकरणम् इदम् । ॐ धर्मात्मने नमः, पूर्वतः । ॐ यमाय नमः, दक्षिणतः । ॐ दण्डनायकाय नमः, पश्चिमतः । ॐ रोमन्थाय नमः, उत्तरतः । ॐ श्यामपिङ्गलाय नमः, ऐशान्याम् । ॐ दीक्षिताय नमः, आग्नेय्यां । ॐ **[२००]** वज्रपाणय नमः, नैरृत्याम् । ॐ भूर्भुवस्वर् नमः, वायव्याम् । ॐ चन्द्राय् नक्षत्राधिपतये नमः, पूर्वतः । ॐ अङ्गारकाय क्षितिसुताय नमः, आग्नेय्याम् । ॐ बुधाय सोमसुताय नमः, दक्षिणतः । ॐ नमो वागीश्वराय सर्वविद्याधिपतये नमः, नैरृत्याम् । ॐ शुक्राय महर्क्षाय भृगुसुताय नमः, पश्चिमतः । ॐ शनैश्चराय रविसुताय नमः, वायव्याम् । ॐ अनूरवे नमः पूर्वतः । ॐ प्रमथनाय नमः, उत्तरतः । ॐ बुधाय नमः, पश्चिमतः । ॐ यमाय नमः, दक्षिणतः । ॐ भगवन्न् अपरिमितपूषमालिन् सकलजगत्पते सप्ताश्ववाहन चतुर्भुज परमसिद्धिद विस्फुलिङ्ग नमो एह्य् एहि इमम् अर्घं मम शिरसि गतं गृहाण तेजोरूप अनन्तज्वलन ठ ठ, इत्य् आवाहनमन्त्रः । ॐ नमो भगवते आदित्याय सहस्रकिरणाय गच्छ सुखं पुनर् आगमनाय, इति विसर्जनमन्त्रः ।
शृणुष्वार्चाविधिं कृत्स्नं प्रवक्षाम्य् अनुपूर्वशः ।
दीक्षाणां च विधानं च लोकानां हितकाम्यया ॥
आचार्यो विधिवद् राजन् मन्त्रपूतेन वारिणा ।
प्रोक्ष्य देवस्य पुरतो भूमिं भरतसत्तम ॥
प्राणायामत्रयं कुर्याच् छुद्ध्यर्थं सुसमाहितः ।
हृदयादि तथाङ्गेषु मन्त्रं विन्यस्य मन्त्रवित् ॥
कुर्यात् स तर्जनीमुद्रां दिशां च प्रतिशोधनम् ।
[२०१] पातालशोधनं वापि वह्निप्राकारम् एव च ॥
शोधनं नभसश् चैव कुर्वीतास्त्रम् अनुस्मरन् ।
याम्यसौम्यौ तथा विष्णुर् ब्रह्मा ईशान अग्नयः ॥
रुद्रनैरृत्यवायव्याः पद्मम् एतत् प्रकीर्तितम् ।
अष्टपत्रं लिहेत् पद्मं सूर्योद्देशे सकर्णिकम् ॥
आवाहनं ततः कृत्वा सुद्राम् आवाहयेद् रविम् ।
खखोल्कं स्थापयेत् तत्र सुरूपं लोकभावनम् ॥
स्थापयेत् स्नापयेच् चापि मन्त्रैर् मन्त्रशरीरिणम् ।
आग्नेय्यां दिशि देवस्य हृदयं स्थापयेन् नरः ॥
ऐशान्यां तु शिरः स्थाप्य नैरृत्यां विन्यसेच् छिवम् ।
पौरन्दर्यां न्यसेत् पद्मम् एकाग्रस्थितमानसः ॥
ऐशान्यां स्थापयेत् सोमं पौरन्दर्यां तु लोहितम् ।
वायव्यं चैव कवचं वारुण्याम् अस्त्रम् एव च ॥
आग्नेय्यां सोमतनयं याम्यां चैव बृहस्पतिम् ।
नैरृत्यां दानवगुरुं वारुण्यां तु शनैश्चरम् ॥
वायव्यां च तथा वह्निं कौबेर्यां केतुम् एव च ।
[२०२] द्वितीयायां तु कक्षायां देवतेजःसमुद्भवान् ॥
स्थापयेद् द्वादशादित्यान् काश्यपेयान् महाबलान् ।
भगः सूर्यो ‘र्यमा चापि मित्रो वै वरुणस् तथा ॥
सविता चैव धाता च विवस्वांश् च महाबलः ।
त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुर् उच्यते ॥
पूर्वे चेन्द्राय दक्षिणे यमाय पश्चिमे वरुणाय उत्तरे कुबेराय ऐशान्याम् ईश्वराय आग्नेय्याम् अग्नये नैरृत्यां निरृतय वायव्यां वायवे नमः ।
जया च विजया चैव जयन्ती चापराजिता ।
शेषश् च वासुकिश् चैव रोमन्थो ‘थ विनायकः ॥
महाश्वेता तथा देवी राज्ञी चैव सुवर्चला ।
तथान्यौ चापि विख्यातौ दण्डनायकपिङ्गलौ ॥
पुरस्ताद् भास्करस्यैते स्थापनीया विजानता ।
सिद्धिर् बुद्धिः स्मृतिर् देवी तथैवोत्पलमालिनी ॥
स्थाप्याश् च दक्षिण्ē पार्श्वे लोकपूज्याश् च मन्त्रतः ।
प्रज्ञा तन्त्री क्षुधा निद्रा हारीता तुष्टिर् एव च ॥
स्थाप्याः पश्चिमतो नित्यं श्रीकामेन विवस्वतः ।
सिद्धिर् भूमिस् तथा तुष्टिः पौर्णमासि विभावसोः ॥
स्थाप्या तथोत्तरे पार्श्वे इत्य् एता देवशक्तयः ।
[२०३] दीपम् अन्नम् अलङ्कारो वासः पुष्पाणि मन्त्रतः ॥
देयान्य् एतानि देवस्य सानुगस्य समृद्धये ।
विधिनानेन सततं सदा यो ‘र्चति भास्करम् ॥
स प्राप्य परमान् कामान् ततो भानुसमो भवेत् ।
अनेन विधिना यस् तु पूजयेद् भास्करं नृप ॥
रविप्रसादाद् गच्छेत् तु स परं स्थानम् अव्ययम् ।
अनेन विधिना पूज्य भास्करं भगवान् हरिः ॥
पुत्रान् अवाप्तवान् राजन् दुर्जयत्वं तथा रिपोः ।
अनेन विधिना पूज्य षष्ठ्यां भानुं समाहितः ॥
वैशाखशुक्लपक्षस्य जितक्रोधो जितेन्द्रियः ।
निम्बपत्रं ततो ‘श्नीयात् सप्तम्यां च ततो नृप ॥
इत्थं प्राश्य स्वपेद् भूमौ देवस्य पुरतो नृप ।
अष्टम्यां पूजयेद् भानुं पुनर् एव नृपोत्तम ॥
ब्राह्मणान् भोजयित्वा तु शक्त्या दद्याच् च दक्षिणाम् ॥
भुञ्जीत वाग्यतः पश्चान् मधुरं ग्लानिवर्जितम् ।
इत्य् एषा वत्सरं यावत् कर्तव्या निम्बसप्तमी ॥
कुर्वाणः सप्तमीं चैव सर्वरोगैः प्रमुच्यते ।
सर्वरोगविनिर्मुक्तः सूर्यलोकं च गच्छति ॥
इति निम्बसप्तमी ।
[२०४]
[फलसप्तमी]
सुमन्तुर् उवाच ।
अथ भाद्रपदे मासि सिते पक्षे महीपते ।
कृतोपवासः सन्ध्यायां विधिवत् पूजयेद् रविम् ॥
माहेश्वरेण विधिना पूजयेत् तत्र भास्करम् ।
अष्टम्यां तु पुनः स्नातः पूजयित्वा दिवाकरम् ॥
दद्यात् फलानि विप्रेभ्यो मार्तण्डः प्रीयताम् इति इ।
खर्जूरं नारिकेलं च मातुलुङ्गफलानि च ॥
ब्राह्मणान् भोजयित्वा तु फलाहारस् ततो भवेत् ।
पूर्वम् एकं तु सम्प्राश्य सुसूक्ष्मफलम् आदरात् ।
मन्त्रेण भरतश्रेष्ठ न चान्यत् किञ्चिद् एव हि ॥
फलाहारो भवेद् एवम् अष्टम्यां कुरुनन्दन ।
इति संवत्सरं यावत् कर्तव्या फलसप्तमी ॥
कृता च या महाबाहो पुत्रपौत्रान् प्रयच्छति ।
सर्वे भवन्तु सफला मम कामाः समन्ततः ॥
[२०५] इत्य् उक्त्वा भक्षयेद् राजन् पूर्वोक्तानि फलानि च ।
आकल्पं तत् कुरुशेष्ठ कृत्वा कामान् अवाप्नुयात् ॥
इति फलसप्तमी ।
[अनोदना सप्तमी]
सुमन्तुर् उवाच ।
शुक्लपक्षे तु चैत्रस्य षष्ठ्यां सम्यग् उपोषितः ।
पूजयेद् भास्करं भक्त्या पुष्पधूपविलेपनैः ॥
येन सम्पूजयेद् देवं स विधिः कथ्यते तवे ।
सदा वैश्रवणो येन विधिना पूजयेद् नृप ॥
ॐ प्रज्वलने नमः । ॐ अग्निप्रकारः । ॐ नमः शेषं समित्प्रकारः । ॐ सहस्रकिरणोज्ज्वलाय स्वाहा । ॐ यं वः । ॐ पृथिव्यै सर्वौषधिरूपिण्यै स्वाहा । पृथिव्यन्तं नमः । सकलीकरणमन्त्रः । आत्मनो देवशरीरे च ॐ धर्मात्मने नमः, पूर्वतः । ॐ दण्डकाय नमः, **[२०६]** दक्षिणतः । ॐ रोमन्थाय नमः, पश्चिमतः । ॐ सततोज्ज्वलरूपाय नमः, उत्तरतः । ॐ श्यामपिङ्गललोहिताय नमः, ऐशान्याम् । नीललोहिताय नमः, आग्नेय्याम् । शनैश्चराय नमः, नैरृत्याम् । वज्रपाणये नमः, वायव्याम् । ॐ नमो हरदेहाय महाबलपराक्रमाय सर्वतेजोऽधिपतये स्वाह, उत्तरे । ॐ शक्तिधराय नमः, प्रथमः प्रतीहारः पूर्वतः । ॐ हरदेहाय यज्ञरूपधराय नमः, द्वितीयः प्रतीहारः दक्षिणतो मन्त्रः । ॐ हरिताय नमः, पश्चिमतः । ॐ अश्वमुखाय नमः, उत्तरतः । कृतद्वारपालचतुष्तयम् । ॐ कुन्देन्दुक्षारप्रभाय स्वाहा, प्रथमो ‘श्वः । ॐ रक्ताक्षरक्तवर्णदीप्ताय नमः, द्वितीयो ‘श्वः । ॐ क्षीरवर्णतेजस्विने नमः, तृतीयो ‘श्वः । ॐ भिन्नाञ्जनवर्णाय नमः, चतुर्थो ‘श्वः । ॐ तीव्रतेजसे नमः, पञ्चमो ‘श्वः । ॐ व्योमवर्णाय प्रदीप्तमालिने नमः, षष्ठो ‘श्वः । ॐ सर्ववर्णाय सर्वाधिपतये नमः, सप्तमो ‘श्वः । ॐ नमो अगशकटाय कवचिने कश्यपपुत्राय् प्रजापतये नमः । ॐ अनन्तदेवाय नमः । ॐ असाधारणविक्रमतेजसे नमः, इत्य् आवाहनमन्त्रः । ॐ भास्कर देवाधिदेव गच्छ गच्छ यथासुखं स्वभवनं पुनर् आगमनाय, इति विसर्जनमन्त्रः । गायत्र्या स्वागतार्घ्यपाद्याचमनासनदानसाहित्यकरणगन्ध-पुष्पधूपरत्नहोमोपहारादिनिवेदनम् ।
[२०७] मुकुलीपद्ममुद्रा च निष्करा च तथापरा ।
नागाख्या व्योममुद्रा चाप्य् उग्रा चैवं पराः स्मृताः ॥
सप्तैताश् च परा मुद्राः कोटिमुद्रास् तथैव च ।
ॐ खखोल्काय नमः, हृदयम् । ॐ वरेण्याय नमः, शिरः । ॐ तेजसे नमः, शिखा । आदित्याय तेजोऽधिपतये नमः, कवचम् । आदित्याय सहस्ररश्मये नमः, अस्त्रम् । ॐ तेजोऽधिपतये नमः, मुखम् । ॐ मेअवृषणाय नमः, गुह्यम् । ॐ सहस्रकिरणाय नमः, पादौ । ॐ दीप्तदीप्ताधिपतये नमः, पृष्ठम् ।
ॐ भास्कराय् विद्महे सप्ताश्वाय धीमहि तन् मे भानुः प्रचोदयात् ।
सुमन्तुर् उवाच ।
अनेन विधिना पूज्य षष्ठ्याम् उपवसेच् छुचिः ।
पुरतः शयनं भानोः सप्तम्यां पूजयेत् पुनः ॥
भोजयेच् चापि विप्रांश्च दध्ना वा पायसेन वा ।
शक्त्या च दक्षिणां दद्याच् छ्रद्धया च व्रजेत् तु तान् ॥
पयः पीत्वा ततो गुह्यं स्थातव्यं कुरुनन्दन ।
[२०८] दन्तखाद्यं भवद् यस् तु तद् ओदनम् इति स्मृतम् ॥
भक्ष्यं भोज्यं तथा लेह्यम् ओदनं त्रिः प्रकीर्तितम् ।
पेयं चानोदनं प्रोक्तं तस्मात् तत् परिवर्जयेत् ॥
“तत्” ओदनम् ।
इत्य् एषानोदना नाम सप्तमी भरतर्षभ ।
याम् उपोष्य नरो भक्त्या धनधान्यम् अवाप्नुयात् ॥
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ॥
इत्य् अनोदना सप्तमी ।
[कल्याणसप्तमी]
भगवान् उवाच ।
सौरधर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमी ।
विशोकसप्तमी तद्वत् फलिनी नाम सप्तमी ॥
शर्करासप्तमी पुण्या तथा कमलसप्तमी ।
मन्दारसप्तमी चैव तथा च शुभसञ्ज्ञिता ॥
सर्वानन्तफला प्रोक्ता सर्वदेवर्षिपूजिता ।
[२०९] विधानम् आसां वक्ष्यामि यथावद् अनुपूर्वशः ॥
यदा तु शुक्लसप्तम्याम् आदित्यस्य दिनं भवेत् ।
सा तु कल्याणिनी नाम विजया च निगद्यते ॥
प्रातर् गव्येन पयसा स्नानम् अस्यां समाचरेत् ।
ततः शुक्लाम्बरः पद्मम् अक्षतैश् च प्रकल्पयेत् ॥
प्राङ्मुखो ‘ष्टदलं मध्ये तद्वृत्तं तु सकर्णिकम् ।
धूपाक्षताभिर् देवेशं विन्यसेत् सर्वतः क्रमात् ॥
पूर्वेण तपनायेति मार्तण्डायेति वै ततः ।
याम्ये दिवाकरायेति विधात्र इति नैरृते ॥
पश्चिमे वरुणायेति भास्करायेति चानिले ।
सौम्ये विकर्तनायेति वरायेत्य् अष्टमे दले ॥
अदाव् अन्ते च मध्ये च नमो ‘स्तु परमात्मने ।
मन्त्रैर् एभिः समभ्यर्च्य नमस्कारान्तदीपितैः ॥
शुक्लवस्त्रैः फलैर् भक्ष्यैर् धूपमाल्यानुलेपनैः ।
स्थण्डिले पूजयेद् भक्त्या तिलेन लवणेन च ॥
ततो व्याहृतिमन्त्रेण विसृज्य द्विजपुङ्कगान् ।
[२१०] शक्तितः पूजयेद् भक्त्या गुडक्षीरघृतादिभिः ॥
तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत् ।
एवं नियमकृत् सुप्त्वा प्रातर् उत्थाय मानवः ॥
कृतस्नानजपो मन्त्रैः सहैव घृतपायसम् ।
भुक्त्वाचरेद् अनिर्दिष्टे बैडालव्रतवर्जिते ॥
घृतपात्रं सकनकं सोदकुम्भं निवेदयेत् ।
प्रीयताम् अत्र भगवान् परमात्मा दिवाकरः ॥
अनेन विधिना सर्वं मासि मादि समाचरेत् ।
ततस् त्रयोदशे मासि गावो दद्यात् त्रयोदश ॥
वस्त्रालङ्कारसंयुक्ताः सुवर्णाढ्याः पयस्विनीः ।
एकाम् अपि प्रदद्याच् च वित्तहीने विमत्सरः ॥
न वित्तशाठ्यं कुर्वीत यतो मोहात् पतत्य् अधः ।
अनेन विधिना यस् तु कुर्यात् कल्याणसप्तमीम् ॥
सर्वपापविनिर्मुक्तो सूर्यलोके महीयते ।
[२११] आयुर् आरोग्यम् ऐश्वर्यम् अनन्तम् इह जायते ॥
सर्वपापहरा नित्यं सर्वदैवतपूजिता ।
सर्वदुष्टोपशमनी सदा कल्याणसप्तमी ॥
इति कल्याणसप्तमी ।
[विशोकसप्तमी]
पुलस्त्य उवाच ।
विशोकसप्तमीं तद्वद् वक्ष्यामि मुनिपुङ्गव ।
याम् उपोष्य नरः शोकं न कदाचिद् इहाश्नुते ॥
माघे कृष्णतिलैः स्नातः पञ्चम्यां शुक्लपक्षतः ।
कृताहारः कृशरया दन्तधावनपूर्वकम् ॥
उपवासव्रतं कृत्वा ब्रह्मचारी भवेन् निशि ।
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः ॥
कृत्वा तु काञ्चनं पद्मम् अर्को ‘यम् इति पूजयेत् ।
करवीरस्य पुष्पैस् तु रक्तवस्त्रयुगेन च ॥
यथा विशोकं भुवनं तथैवादित्य सर्वदा ।
तथा विशोकता मे ‘स्तु त्वद्भक्तिः प्रतिजन्मनि ॥
एवं सम्पूज्य षष्ठ्यां तु शक्त्या सम्पूजयेद् द्विजान् ।
[२१२] सुप्त्वा सम्प्राश्य गोमूत्रम् उत्थाय कृतनैत्यकः ॥
सम्पूज्य विप्रं यत्नेन गुडपात्रसमन्वितम् ।
तद् वस्त्रयुग्मं पद्मं च ब्राह्मणाय निवेदयेत् ॥
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः ।
ततः पुराणश्रवणं कर्तव्यं भूतिम् इच्छता ॥
अनेन विधिना सर्वम् उभयोर् अपि पक्षयोः ।
कुर्याद् यावत् पुनर् माघशुक्लपक्षस्य सप्तमी ॥
व्रतान्ते कलशं दद्यात् सुवर्णकमलान्वितम् ।
शय्यां सोपस्करां दद्यात् कपिलां च पयस्विनीम् ॥
अनेन विधिना यस् तु वित्तशाठ्यविवर्जितः ।
विशोकसप्तमीं कुर्यात् स यात् परमां गतिम् ॥
यावज् जन्मसहस्राणां साग्रं कोटिशतं भवेत् ।
तावन् न शोकम् अभ्येति रोगदौर्गत्यवर्जितः ॥
यं यं कामयते कामं तं तम् आप्नोति पुष्कलम् ।
निष्कामं कुरुते यस् तु स परं ब्रह्म गच्छति ॥
इति विशोकसप्तमी ।
[२१३]
[फलसप्तमी]
अन्याम् अपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम् ।
याम् उपोष्य नरः पापैर् विमुक्तः स्वर्गभाग् भवेत् ॥
मार्गशीर्षे शुभे मासि पञ्चम्यां नियतव्रतः ।
षष्ठ्याम् उपोष्य कमलं कारयित्वा तु काञ्चनम् ॥
शर्करासंयुतं दद्याद् ब्राह्मणाय कुटुम्बिने ।
रूपं च काञ्चनं कृत्वा फलस्यैकस्य कर्मवित् ॥
दद्याद् विकालवेलायां भानुर् मे प्रीयताम् इति ।
भक्त्या च विप्रान् सम्पूज्य सप्तम्यां क्षीरभोजनम् ॥
कृत्वा कुर्यात् फलत्यागं यावत् स्यात् कृष्णसप्तमी ।
ताम् उपोष्य विधिं कुर्याद् अनेनैव क्रमेण तु ॥
तद्वद् धेमफलं दद्यात् सुवर्णसमलक्षितम् ।
संवत्सरम् अनेनैव विधिनोभयसप्तमीम् ॥
उपोष्य दद्यात् क्रमशः सूर्यमन्त्रान् उदीरयेत् ।
भानुर् अर्को रविर् ब्रह्मा सूर्यः शक्रो हरिः शिवः ॥
श्रीमान् विभावसुस् त्वष्टा वरुणः प्रीयताम् इति ।
प्रतिमासं च सप्तम्याम् एकैकं नाम कीर्तयेत् ॥
प्रतिपक्षं फलत्यागम् एकं कुर्वन् समाचरेत् ।
व्रतान्ते विप्रमिथुनं पूजयेद् वस्त्रभूषणैः ॥
[२१४] शर्कराकलशं दद्याद् धेमपद्मफलान्वितम् ।
यथा च विपुलाः कामास् त्वद्भक्तानां सदा रवेः ॥
तथानन्तफलप्राप्तिर् मे ‘स्तु जन्मनि जन्मनि ।
इमाम् अनन्तफलदां यः कुर्यात् फलसप्तमीम् ॥
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ।
सुरापानादिकं किञ्चिद् यद् यच् चामुत्र वा कृतम् ॥
तत् सर्वं नाशम् आयाति यः कुर्यात् फलसप्तमीम् ।
कुर्वाणः सप्तमीम् एतां सततं रोगवर्जितः ॥
भूतान् भव्यांश् च पुरुषांस् तारयेद् एकविंशतिम् ।
इति फलसप्तमी ।
[शररासप्तमी]
सुमन्तुर् उवाच ।
शर्करासप्तमीं वक्ष्ये तद्वत् कल्मषनाशिनीम् ।
आयुर् आरोग्यम् ऐश्वर्यं यथानन्तं प्रजायते ॥
माधव्स्य सिते पक्षे सप्तमी नियतव्रतः ।
[२१५] प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनः ॥
स्थण्डिले पद्मम् आलिख्य कुङ्कुमेन सकर्णिकम् ।
तस्मिन् नमः सवित्रेति गन्धधूपं निवेदयेत् ॥
स्थापयेद् उदकुम्भं च शर्करापात्रसंयुतम् ।
शुक्लवस्त्रैर् अलङ्कृत्य शुक्लमाल्यानुलेपनैः ॥
सुवर्णैश् च समायुक्तं मन्त्रेणानेन पूजयेत् ।
विश्वं वेदयसे यस्माद् वेदवादीति पठ्यते ॥
सर्वस्यामृतम् एव त्वम् अतः शान्तिं प्रयच्छ मे ।
पञ्चगव्यं ततः पीत्वा स्वपेत् तत्पार्श्वतः क्षितौ ॥
सौरसूक्तं स्मरन्न् आस्ते पुराणश्रवणेन च ।
अहोरात्रे गते पश्चाद् अष्टम्यां कृतनैत्यकः ॥
तत् सर्वं वेदविदुषे ब्राह्मणाय निवेदयेत् ।
भोजयेद् भक्तितो विप्रान् शर्कराघृतपाय्सैः ॥
भुञ्जीतातैललवणं स्वयम् अप्य् अथ वाग्यतः ।
अनेन विधिना सर्वं मासि मासि समाचरेत् ॥
[२१६] संवत्सराने शयनं शर्कराकलशान्वितम् ।
सर्वोपस्करयुक्तां च तथैकां गां पयस्विनीम् ॥
गृहं च शक्तिमान् दद्यात् समस्तोपस्करान्विअम् ।
सहस्रेण तु निष्काणां क्रीत्वा दद्यात् स तेन वै ॥
दशभिर् वाथ निष्केण तदर्धेनापि शक्तितः ।
सुवर्णाश् च प्रदातव्याः पूर्ववत् स्वस्तिवाचनम् ॥
न वित्तशाठ्यं कुर्वीत कुर्वन् दोषान् समश्नुते ।
अमृतं पिबतो वक्त्रात् सूर्यस्यामृतबिन्दवः ॥
सन्निपेतुर् धरण्यां ये शालिमुद्गेक्षवः स्मृताः ।
शर्करासारतस् त्व् अस्माद् इक्षोः सारो ‘मृतात्मनः ॥
इष्टा रवेर् अतः पुण्या शर्करा हव्यकव्ययोः ।
शर्करासप्तमी ज्येष्ठा वाजिमेधफलप्रदा ॥
सर्वदुःखप्रशमनी पुत्रपौत्रविवर्धनी ।
यः कुर्यात् परया भक्त्या स परं ब्रह्म गच्छति ॥
[२१७] कल्पम् एकं वसेत् स्वर्गे ततो याति परां गतिम् ।
इति शर्करासप्तमी ।
[कमलसप्तमी]
सुमन्तुर् उवाच ।
अतः परं प्रवक्ष्यामि तद्वत् कमलसप्तमीम् ।
यस्याः सङ्कीर्तनाद् एव तुष्यतीह दिवाकरः ॥
वसन्तामलसप्तम्यां स्नातः सन् गौरसर्षपैः ।
तिलपात्रे च सौवर्णं निधाय कमलं शुभम् ॥
वस्त्रयुग्मावृतं कृत्वा गन्धपुष्पैः समर्चयेत् ।
नमः कमलहस्ताय नमस् ते विश्वधारिणे ॥
दिवाकर नमस् तुभ्यं प्रज्ञाकर नमो ‘स्तु ते ।
ततो विकालवेलायाम् उदकुम्भसमन्वितम् ॥
विप्राय दद्यात् सम्पूज्य वस्त्रमाल्यैर् विभूषणैः ।
शक्तिश् चेत् कपिलां दद्याद् अलङ्कृत्य विधानतः ॥
[२१८] अहोरात्रे गते पश्चाद् अष्टम्यां भोजयेद् द्विजान् ।
यथाशक्त्याथ भुञ्जीत मांसतैलविवर्जितम् ॥
अनेन विधिना शुक्लसप्तम्यां मासि मासि च ।
सर्वं समाचरेद् भक्त्या वित्तशाठ्यविवर्जितः ॥
व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम् ।
विप्राय दद्याद् गाम् एव सुसुवर्णां पयस्विनीम् ॥
भोजनासनदीपांस् तु दद्याद् इष्टान् उपस्करान् ।
अनेन विधिना यस् तु कुर्यात् कमलसप्तमीम् ॥
लक्ष्मीम् अनन्ताम् अभ्येति सूर्यलोके ‘वमोदते ।
कल्ये कल्ये ततो लोकान् सप्त गत्वा पृथक् पृथक् ॥
[२१९] अप्सरोभिः परिवृतस् ततो यानि परां गतिम् ।
इति कमलसप्तमी ।
[मन्दारसप्तमी]
अथान्यां सम्प्रवक्ष्यामि सर्वपापप्रणाशिनीम् ।
सर्वकामप्रदां पुण्यां नाम्ना मन्दारसप्तमीम् ॥
माघस्यामलपक्षे तु पञ्चम्यां नक्तभुङ् नरः ।
दन्तकाष्ठं ततः कृत्वा षष्ठीम् उपवसेद् बुधः ॥
विप्रान् सम्पूजयित्वा तु मन्दारं प्राशयेन् निशि ।
ततः प्रभात उत्थाय कृतस्नानः पुनर् द्विजान् ॥
भोजयेच् छक्तितः कृत्वा मन्दारकुसुमाष्टकम् ।
सौवर्णपुरुषं तद्वत् पद्महस्तं सुशोभनम् ॥
पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रे ‘ष्टपत्रकम् ।
हेममन्दारकुसुमं भास्करायेति पूर्वतः ॥
नमस्कारेण तद्वच् च सूर्यायेत्य् आनले दले ।
[२२०] दक्षिणे तद्वद् अर्काय तथार्यम्णेति नैरृते ॥
पश्चिमे वेदधाम्ने च वायव्ये चण्डभानवे ।
पूष्णे चोत्तरतः पूज्य चानन्दायेत्य् अतः परम् ॥
भुञ्जीतातैललवणं वाग्यतः प्राङ्मुखो गृही ।
एवं हि विधिना सर्वं मासि मासि च कारयेत् ॥
कुर्यात् संवत्सरं यावद् वित्तशाठ्यं विवर्जयेत् ।
एतद् एव व्रतान्तेषु विधाय कमलोपरि ॥
गोभिर् विभवतः सार्धं दातव्यं भूतिम् इच्छता ।
नमो मन्दारनाथाय मन्दारभवनाय च ॥
त्वं रवे तारयस्वास्माद् दुःखसंसारसागरात् ।
अनेन विधिना यस् तु कुर्यान् मन्दारसप्तमीम् ॥
विहार्यतिसुखी मर्त्यः कल्पं च दिवि मोदते ।
इमाम् अघौघपटलभीषणाध्वान्तदीपिकाम् ॥
[२२१] कुर्वन् न गच्छेत् संसारे सर्वभोगांल् लभेत् तदा ।
मन्दारसप्तमीम् एताम् ईप्सितार्थफलप्रदाम् ॥
यः पठेच् छृणुयाच् चापि सो ‘पि पापैः प्रमुच्यते ।
इति मन्दारसप्तमी ।
[शुभसप्तमी]
सुमन्तुर् उवाच ।
अथान्याम् अपि वक्ष्यामि शोभनां शुभसप्तमीम् ।
याम् उपोष्य नरो रोगाद् दुःखशोकात् प्रमुच्यते ॥
पुण्याम् आश्वयुजे मासि कृतस्नानजपः शुचिः ।
वाचयित्वा ततो विप्रान् आरभेच् छुभसप्तमीम् ॥
कपिलां धूपयेद् भक्त्या गन्धमाल्यानुलेपनैः ।
नमामि सूर्यसम्भूताम् अशेषभुवनालयाम् ॥
त्वाम् आनये तु कल्याणशरीरां सर्वसिद्धये ।
अलङ्कृत्वा तिलप्रस्थं ताम्रपात्रेण संयुतम् ॥
[२२२] काञ्चनं वृषभं तद्वद् वस्त्रमाल्यावगुण्ठितम् ।
फलैर् नानाविधैर् भक्ष्यैर् घृतपायससंयुतैः ॥
दद्याद् विकालवेलायाम् अर्यमा प्रीयताम् इति ।
पञ्चगव्यं च सम्प्राश्य स्वपेद् भूमाव् अमत्सरः ॥
ततः प्रभाते सञ्जाते भक्त्या सम्पूजयेद् द्विजान् ।
अनेन विधिना दद्यान् मासि मासि सदा नरः ॥
वाससी वृषभं हैमं तद्वद् गां काञ्चनोद्भवाम् ।
संवत्सरान्ते शयनम् इक्षुदण्डगुडान्वितम् ॥
सोपधानकविश्रामं भाजनासनसंयुतम् ।
ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा ॥
दद्याद् वेदविदे सर्वं विश्वात्मा प्रीयताम् इति ।
अनेन विधिना विद्वान् कुर्याद् यः शुभसप्तमीम् ॥
तस्य श्रीर् विमला कीर्तिर् भवेज् जन्मनि जन्मनि ।
अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये ॥
वसेद् गणाधिपो भूत्वा यावद् आभूतसम्प्लवम् ।
कल्पादाव् अवतीर्णस् तु सप्तद्वीपाधिपो भवेत् ॥
[२२३] ब्रह्महत्यासहस्रस्य भ्रूणहत्याशतस्य च ।
नाशनार्थम् इयं पुण्या पठ्यते शुभसप्तमी ॥
इमां पठेद् यः शृणुयान् मुहूर्तं
पश्येत् प्रसङ्गाद् अपि दीप्यमानाम् ।
सो ‘प्य् अत्र सर्वाघविमुक्तदेहः
प्राप्नोति विद्याधरनायकत्वम् ॥
यावत् समाः सप्त नरः करोति
यः सप्तमीं सप्तविधानयुक्ताम् ।
स सप्तलोकाधिपतिः क्रमेण
भूत्वा परं याति पदं मुरारेः ॥
इति शुभसप्तमी ।
[आरोग्यसप्तमी]
**वराहपुराणे **।
अथापरं महाराज व्रतम् आरोग्यसञ्ज्ञितम् ।
[२२४] कथयामि परं पुण्यं सर्वपापप्रणाशनम् ॥
तस्यैव माघमासस्य सप्तम्यां समुपोषितः ।
पूजयेद् भास्करं देवं विष्णुरूपं सनातनम् ॥
आदित्य भास्कर रवे भानो सूर्य दिवाकर ।
इति मन्त्रेण सम्पूज्यो देवो सर्वेश्वरो रविः ॥
षष्ठ्यां चैव कृताहारः सप्तम्याम् उपवासकृत् ।
अष्टम्यां चैव भुञ्जीत एष एव विधिः क्रमः ॥
अनेन वत्सरं पूर्णं विधिना यो ‘र्चयेद् रविम् ।
तस्यारोग्यं धनं धान्यम् इह जन्मनि जायते ॥
परत्र च शुभं स्थानं यद् गत्वा न निवर्तते ।
इत्य् आरोग्यसप्तमीव्रतम् ।
[पुत्रसप्तमी]
मासि भाद्रपदे यावत् कृष्णपक्षे सुरेश्वर ।
सप्तम्याम् उपवासेन पुत्रप्राप्तिव्रतं हि तत् ॥
षष्ठ्यां चैव तु सङ्कल्प्य सप्तम्याम् अर्चयेद् रविम् ।
[२२५] देवैस् तूपगतं देवं मातृभिः परिवारितम् ॥
ततः प्रभाते विमले त्व् अष्टाभ्यां प्रयतो हविम् ।
प्राग् विधानेन गोविन्दम् अर्चयित्वा विधानतः ॥
तस्याग्रतः कृष्णतिलैः सघृतैर् होमम् आचरेत् ।
ब्राह्मणान् भोजयेद् भक्त्या यथाशक्त्या च दक्षिणाम् ॥
ततः स्वयं तु भुञ्जीत प्रथमं बिल्वम् एककम् ।
पश्चाद् यथेष्टं भुञ्जीत स्नेहाड्ःयं षड्रसान्वितम् ॥
प्रतिमासम् अनेनैव विधिनोपोष्य मानवः ।
कृष्णाष्टमीम् अपुत्रो ‘पि लभेत् पुत्रं न संशयः ॥
इति पुत्रसप्तमी ।
**इति श्रीलक्ष्मीधरविरचिते कृत्यकल्पतरौ **
व्रतकाण्डे सप्तमीव्रतानि ।
अथाष्टमीव्रतानि
[दुर्गाष्टमीव्रतम्]
तत्र देवीपुराणे ।
ब्रह्मोवाच ।
देवीव्रतं प्रवक्ष्यामि सर्वकामप्रसाधनम् ।
[२२६] श्रावणे शुक्लपक्षे चाप्य् अष्टम्यां वायुभोजनः ॥
स्नात्वा चार्द्रपटो भूत्वा जितक्रोधः समाहितः ।
देवीं संस्नाप्य तोयेन पुनः क्षीरेण स्नापयेत् ॥
ततो गुग्गुलधूपं च सतुरुष्कं च दापयेत् ।
“तुरुष्कः” सह्लकः ।
ततो गन्धोदकस्नानं पुनस् तोयेन स्नापयेत् ॥
श्रीखण्डेन समालिप्य बिल्वपत्रैः प्रपूजयेत् ।
पायसं पाययेद् देव्या नैवेद्यं तेन भोजयेत् ॥
कन्याद्विजांश् च शक्त्या तु तेषां दद्याच् च दक्षिणाम् ।
कात्याननीति चोच्चार्य प्रीयताम् इति सर्वदा ॥
आत्मना पारणं तच् अ कृत्वा ह्य् आप्नोति भार्गवः ।
अश्वमेधफलं चाग्र्यं देव्या लोकं च गच्छति ॥
इमां भूमिं तथागत्य पृथिव्यां जायते नृपः ।
तेन तं लभते योगं शिवप्राप्तिकरं परम् ॥
मासे प्रौष्ठपदे शुक्ले गोशृङ्गाग्रगृहीतया ।
मदयत्य् आत्मनो ह्य् अङ्गम् उपलिप्ते तु स्नापयेत् ॥
“शुक्ले” पक्ष इति शेषः । अष्टम्याम् इति च सम्बध्यते ।
[२२७] तथा चामलकैः स्नात्वा शुचिः सङ्गतिवर्जितः ।
पूजयेद् यूथिकापुष्पैर् देवीं क्षीरेण स्नापयेत् ॥
अगरुं धूपनैवेद्यान् तिलतैलेन दीपकान् ।
तेन तान् भोजयेत् कन्याद्विजान् सद्वृत्तवर्तिनः ॥
पाषण्डान् नावलोकेत न च शास्त्रबहिष्कृतान् ।
दक्षिणा शक्तितो देया स्वस्तिवाच्यं च मङ्गलम् ॥
पारणं चात्मनस् तच् च सौत्रामणिफलं लभेत् ।
ततो देवीं स्नापयेच् च दध्ना चैवोदकेन च ॥
आलभ्य रोचनां मूर्ध्नि दहेद् धूपं च बालकम् ।
सनखं सितया मिश्रं पद्मपत्रैस् तथार्चयेत् ॥
नैवेद्यं रोहितं मांसं मांसं शल्यक्र्तं तथा ।
गोधूमविकृतान् भक्त्या घृतपक्वान् निवेदयेत् ॥
तेन कन्यास् तु सम्भोज्य द्विजांश् चैव क्षमापते ।
[२२८] शक्तितो दक्षिणा देया आत्मनस् तच् च भोजयेत् ॥
गोसहस्रप्रदानस्य फलम् आप्नोति मानवः ।
अरोगी सुखवान् धन्यो जायते चेह मानवः ॥
दुर्गानामानुसङ्कीर्त्य तस्या लोके महीयते ।
कार्तिके दत्तमूल्याभिर् मृद्भिः स्नायीत भार्गव ॥
देवीं गन्धोदकैः स्नाप्य चोशीरैः पूजय लेपयेत् ।
धूपं पञ्चरसं देयं तिलतैलेन दीपकाः ॥
नैवेद्यं यावकं सर्पिः कन्याविप्रेषु चात्मनः ।
भोजनं स्वस्तिवायैव दक्षिणा प्रीयतां शिव ॥
अनेन विधिना वत्स विद्यादानफलं लभेत् ।
वेदवेदाङ्गतत्त्वज्ञस् तदन्ते शिवतां व्रजेत् ॥
मार्गशीर्षे तथा मासि चाष्टम्यां गिरिमृत्स्नया ।
स्नात्वा देवीं ततः स्नाप्य तीर्थतोयेन भार्गव ॥
लेपयेद् बालकैः कुष्ठैः पूजा जातीगजाह्वयैः ।
धूपं कृष्णागरुं दद्याद् घृतैर् दीपान् प्रबोधयेत् ॥
दधिभक्तं तु नैवेद्यं कन्यास् तेनैव भोजयेत् ।
दक्षिणाः शक्तितो देया आत्मनस् तच् च पारणम् ॥
उमा मे प्रीयतां वाच्यं वाजपेयफलं लभेत् ।
इहैव धनवान् भोगी देहान्ते ब्रह्मणः पदम् ॥
[२२९] पौषाष्टम्यां तु दूर्वाग्रैः स्नात्वा शुक्लपरिच्छदः ।
जितक्रोधः स्नापयेच् च देवीं कर्पूरवारिणा ॥
विलेपयेत् कुङ्कुमेन मांसैर् वालकचन्दनैः ।
धूपं च निर्दहेत् प्राज्ञः पूजनीया कुरण्टकैः ॥
कृशरागुडनैवेद्यं कन्या भोज्याश् च तेन वै ।
आत्मनः पारणं तच् च शक्त्या वै तर्पयेद् द्विजान् ॥
नारायणी सदा प्रीता मम देवी प्रसीदतु ।
कृतेन ग्रहराजेन्द्र भूमिदानफलं लभेत् ॥
सुभगो धनसम्पन्नः परत्र शिवम् आप्नुयात् ।
माघमासे गवां शृङ्गमृद्भिः स्नात्वा तु भार्गव ॥
देवीं तोयेन संस्नाप्य तथा क्षीरघृतेन च ।
स्नापयेच् च पुनस् तोयैः कुङ्कुमेन विलेपयेत् ॥
धूपं देवदलं दद्यात् कुन्दपुष्पैस् तु पूजयेत् ।
घृतपूर्णं च नैवेद्यं कन्याविप्रांश् च तेन वै ॥
भोजयेद् आत्मनस् तच् च दक्षिणा प्रीयतां जया ।
सर्वयागफलं शुक्र लभते नात्र संशयः ॥
फाल्गुने सर्षपैः स्नात्वा देवीं माषफलाम्बुना ।
तथा चेक्षुरसेनैव भूयस् तेनोदकेन च ॥
रोचनालेपने पूजा शतपर्णिकया सह ।
[२३०] दीपो घृतेन धूपस् तु चन्दनं नखशर्करे ॥
नैवेद्ये ‘शोकवर्त्यश् च भोजनं कन्यकासु च ।
आत्मनस् तच् च कुर्वीत दक्षिणां स्वस्ति वाचयेत् ॥
विजया सुखदा नित्यं सन्तु मे चिन्तितानि तु ।
अनेन विधिना शुक्र राजसूयफलं समम् ॥
लभते श्रद्धया युक्तो यतो देवीमयं जगत् ।
चैत्राष्टम्यां तु स्नायीत मातृस्थानमृदाम्बुभिः ॥
देवीं तीर्थजलैः स्नाप्य मन्दलेपेन लेपयेत् ।
धूपं तुरुष्कं चोशीरं द्युतियुक्तैस् तु पूजयेत् ॥
नैवेद्यं शालिजं भक्तं शर्करा कन्यकास्व् अपि ।
आत्मनस् तच् च वै भोज्यं शक्तितो दक्षिणां ददेत् ॥
पूजिता सर्वकामानां पूरणाय सुखाय मे ।
विद्याः कन्याः समासाद्य हेमदानफलं लभेत् ॥
[२३१] सहकारफलैः स्नानं वैशाखे ह्य् अष्टमीषु च ।
आत्मानं देवतां स्नाप्य मांसीवालकवारिभिः ॥
लेपनं फलकर्पूरं धूपं पञ्चसुगन्धिकम् ।
देव्याः पूजा च कर्तव्या केतक्या चम्पकेन च ॥
शर्कराक्षीरनैवेद्यं कन्याविप्रेषु भोजनम् ।
आत्मनः पारणं तेन दक्षिणां शक्तितो ददेत् ॥
अपराजिता भवानी च शिवानाम्ना च वाचयेत् ।
प्रीयतां सर्वकालं मे ईप्सितं तु प्रयच्छति ॥
सर्वतीर्थाभिषेकं चाप्य् अनेनाप्नोति भार्गव ।
सूर्यलोकं व्रजेद् अन्ते तत्तुल्यो जायते सदा ॥
अष्टम्यां चैव ज्येष्ठस्य तिलैः स्नायाद् विचक्षणः ।
सर्वसङ्गपरित्यागी देवीं जम्बुफलाम्बुना ॥
स्नापयेल् लेपयेत् तेन नकुलेन सुगन्धिना ।
ततो विजयपुष्पैस् तु पूजयेद् ग्रहसत्तमः ॥
“विजयः” ककुभः ।
नैवेद्यं सक्तवो देयाः शर्करां कन्यकास्व् अपि ।
दक्षिणा शक्तितो देया चर्विकां प्रतिवाचयेत् ॥
[२३२] लभते शुक्र यज्ञस्य सौत्रामणिफलं समम् ।
अष्टम्यां च तथाषाढे निशानाथेन स्नापयेत् ॥
ततो देवीं जलैः कुम्भैः वरदाम् उदकेन च ।
स्नात्वा विलिप्य कर्पूरैश् चन्दनै रोचनाम्बुभिः ॥
धूपं चन्दनकर्पूरैर् वालकैः सितसिल्हकैः ।
भक्ष्यान् शर्करया पूर्णान् पानकानि शुभानि च ॥
दापयेत् कन्यकाविप्रभोजनं चात्मनस् तथा ।
शक्तितो दक्षिणां दद्यान् महिषघ्नीति कीर्तयेत् ॥
दीपमाला घृतेनैव सर्वकामान् प्रयच्छति ।
सर्वयज्ञमहीदानं सर्वतीर्थफलं लभेत् ॥
एतद् व्रतवरं शुक्र मया रुद्रेण विष्णुना ।
जगतो हितम् इच्छद्भिः शीलं दुर्गाव्रतं महत् ॥
भानुना ग्रहविध्वंससमरे च कृतं पुरा ।
तथा देवासुरैर् यक्षनागकिन्नरमानवैः ॥
अप्सरोभिस् तथा स्त्रीभिः सौभाग्यस्य विवृद्धये ।
[२३३] कृतं वै ग्रहशार्दूल यश् च कुर्याद् यथाविधि ॥
श्रवणाद् अस्य चाप्नोति सर्वकामसुखानि च ।
इष्टानि लभते मर्त्यो वन्ध्या पुत्रं प्रसूयते ॥
इति दुर्गाष्टमीव्रतम्
[कृष्णाष्टमी]
ब्रह्मोवाच ।
आश्विन वाथ माघे वा चैत्रे वा श्रावणे ‘पि वा ।
कृष्णाद् आरभ्य कर्तव्यं व्रतं शुक्लावधिं हरेः ॥
“कृष्णात्” पक्षतः । “शुक्लावधिं हरेः” शुक्लः पक्षः, एतच् चोक्तमासेष्व् एव वक्ष्यमाणप्रकारेण कृष्णाष्टम्या आरभ्य शुक्लाष्टमीं यावत् कर्तव्यम् ।
अष्टमीम् आश्वनीं कृष्णाम् एकभक्तेन कारयेत् ।
मङ्गलारूपिणीं देवीम् अथ वा चरुघातिनीम् ॥
पूजयेन् नरभेदेन गन्धमाल्यनिवेदनैः ।
कन्यकां भोजयेद् वत्स देवीभक्तांश् च मानवान् ॥
नक्तेन नवमी कार्या त्व् अयाचन् दशमीं क्षपेत् ।
एकादशीम् उपवसेत् पुनर् एष विधिर् भवेत् ॥
“पुनर् एव विधिर्” इति, यथा कृष्णाष्टम्याम् इति दिनचतुष्टयम् एकभक्तनक्तायाचितोपवासैर् नीतम् एवम् अपरम् अपि दिनचतुष्तयं नेयम् इत्य् अर्थः ।
[२३४] यावच् छुक्लाष्टमी विप्र उपोष्या तु विधानतः ।
दानं होमो जपः पूजा कन्या भोज्याश् तु प्रत्यहम् ॥
कर्तव्यं जितरोषेण देव्या भक्तिरते ‘पि च ।
नवधा पशुपातं तु महिषाव्यजादिकं तथा ॥
कर्तव्यं भूतवेताले न चैवात्मचिकीर्षया ॥
“कन्या अलङ्कृता कार्या” इत्य् शेषः ।
नटनर्तनप्रेक्षण[क?]म् अथ यात्रा प्रजागरम् ॥
दानं देयं यथाशक्त्या सर्वेषाम् अपि शक्तितः ।
महाभैरवरूपेण त्व् अस्थिमालाधराश्रये ॥
पूजनीया विशेषेण वस्त्रशोभापरादिषु ।
कर्तव्या सर्वकामार्थं प्रापणाय सुरोत्तम ॥
अनेन विधिना शुक्र यथेष्टं लभते फलम् ।
मङ्गला भैरवी दुर्गा वाहाही त्रिदशेश्वरी ॥
उमा हैमवती कन्या कपाली कैटभस्वनी ।
काली ब्राह्मी महेशी च कौमारी मधुसूदनी ॥
वाराही वासवि चैव नामान्य् एतानि वै जपेत् ।
पूजयेद् भोजयेत् कन्यां शास्त्रदृष्टेन कर्मणा ॥
वस्त्रालङ्कारकं चापि कटकाः कटिसूत्रकाः ।
दातव्याश् चात्मनः शक्त्या देव्या भक्तैः सुखात्मभिः ॥
अथ वा नवरात्रं च सप्त पञ्च त्रिकं च वा ।
एते च नवरात्रादिविकल्पाः प्रत्यहं सङ्कल्प्य एव कन्यादिभोजनं कार्यम् इत्य् एतत् पक्षापेक्षया ।
[२३५] एकभक्तेन नक्तेनायाचितेनाप्य् उपोषितैः ॥
क्षपयेत पुमान् शुक्र यावच् छुक्ला तु साष्टमी ।
पूजयेन् मङ्गलां तत्र मण्डले विधिवत् कृते ॥
सर्वसंसारसम्पन्ने सर्वविद्याविधायके ।
सर्वकामप्रदे शुक्र सर्वकामान् अवाप्नुयात् ॥
अर्थकामस्य चार्थं तु राज्यकामस्य राज्यदम् ।
आरोग्यपुत्रदं वत्स सर्वपातकनाशनम् ॥
सर्ववर्णैश् च कर्तव्यं पुंस्त्रीबालनपुंसकैः ।
नाधयो व्याधयस् तस्य न च शत्रुभयं भवेत् ॥
सङ्गरेषु जयो नित्यं महान् एको ‘पि जायते ।
सिध्यन्ति सर्वकार्याणि श्रवणान् नात्र संशयः ॥
इति अष्टमीव्रतम् ।
[पुष्पाष्टमी]
भविष्य्पुराणे ।
महादेव उवाच ।
शृणु देवि महापुण्यं मासपूजाफलं शुभम् ।
श्रावणे शुक्लपक्षस्य चाष्टम्यां समुपोषितः ॥
स्नापयेद् घृतक्षीराभ्याम् करवीरैश् च पूजयेत् ।
कृवागनिकार्यं विधिवत् तथा ब्राःमणभोजनम् ॥
[२३६] कन्याकर्तितसूत्रेण कारयित्वा पवित्रकम् ।
कृत्वा विचित्रपुष्पैश् च कुङ्कुमागरुचन्दनैः ॥
कृत्वोपवासं सप्तम्याम् अष्टम्यां विप्रभोजनम् ।
आरोपयति यो भक्त्या सो ‘ग्निष्टोमफलं लभेत् ॥
पुनर् भवति वै राजा भूतले नात्र संशयः ।
मासि भाद्रपदे ‘ष्टम्यां शुक्लपक्षे वरानने ॥
स्नापयित्वा तु मां भक्त्या पयसाथ घृतेन वा ।
अपामार्गेण कृत्वा तु पूजां देवि विधानतः ॥
हंसयानं समारूढो मम लोकं व्रजेद् दिवि ।
मासि चाश्वयुजे ‘ष्टम्याम् अर्कपुष्पैस् तु यो ‘र्चयेत् ॥
स्नापयेद् दधिगन्धेन कुङ्कुमेन विलेपयेत् ।
गैरिकं यानम् आरूढो ध्वजमालाकुलं शुभम् ॥
युक्तं मयूरप्रवरैर् मम याति स मन्दिरम् ।
कार्तिकस्य तु मासस्य शुक्लाष्टम्यां तु यो नरः ॥
स्नापयेन् मधु क्षीराभ्यां जातीपुष्पैश् च पूजयेत् ।
काञ्चनं यानम् आरुह्य किङ्किणीजालमालिनम् ॥
[२३७] स याति मे पुरं देवि गन्धर्वाप्सरसां प्रियः ।
मार्गशीर्षे तु वै मासि पञ्चगव्येन यो नरः ॥
स्नापयित्वार्चयेद् भक्त्या बकपुष्पैस् तु पूजयेत् ।
कृतोपवासं सप्तम्याम् अष्टम्यां विधिवन् नरः ॥
स त्रैलोक्यम् अतिक्रम्य यत्राहं तत्र गच्छेति ।
पौषमासे तु यो ‘ष्टम्यां भक्त्या मां पूजयेन् नरः ॥
उन्मत्तकस्य पुष्पैस् तु स्नापयित्वा घृतेन तु ।
विमानं दिव्यम् आरुह्य पुष्पकं नाम नामतः ॥
ममालयं समासाद्य मोदते शाश्वतीः समाः ।
माघमासे तथाष्टम्यां बिल्वपत्रेण यो ‘र्चयेत् ॥
स्नापयित्वा तु मां भक्त्या देवीम् इक्षुरसेन च ।
प्रभयार्कसमं यानं कान्त्यात्रेयसमं तथा॥
आरूढो मोदते नित्यं मम लोके न संशयः ।
फाल्गुनस्य तु मासस्य गन्धतोयेन यो नरः ॥
अर्चयेद् द्रोणपुष्पैः स इन्द्रस्यार्धासनं लभेत् ।
चैत्रे मासि तथा देवि पुष्पतोयेन यो नरः ॥
स्नापयित्वार्चयेद् भक्त्या चार्कपुष्पैस् तु सुन्दरि ।
बहुस्वर्णस्य यज्ञस्य विन्दते सफलं महत् ॥
वैशाखे तु तथा मास अष्टम्यां यस् तु मानवः ।
[२३८] कर्पूरागरुतोयेन स्नापयित्वा विधानतः ॥
अर्चयेच् छुक्लमन्दारैर् अश्वमेधफलं लभेत् ।
ज्येष्ठे मासि तथाष्टम्यां दध्ना यः स्नापयेत् तु माम् ॥
अर्चयेत् पद्मपुष्पैस् तु स गच्छेत् परमां गतिम् ।
आषाढे यो नरो ‘ष्टम्यां नानातीर्थोदकैर् वरैः ॥
स्नापयित्वार्चयेद् भक्त्या पुष्पैर् धुत्तूरकैस् तथा ।
गन्धर्वोरगपक्षैस् तु पूज्यमानो ‘मरैर् दिवि ॥
क्रीडते च मया सार्धं यावद् इन्द्राश् चतुर्दश ।
य एवं वत्सरं देवि कारयेद् अष्टमीव्रतम् ॥
न तस्य पुनरावृत्तिः सत्यम् एतद् ब्रवीम्य् अहम् ।
नीलकण्ठं शिवं शम्भुं भीमं वापि महेश्वरम् ॥
निरूपाक्षं महादेवम् उग्रं त्र्यम्बकम् एव च ।
ईश्वरं च शिवं देवि सर्वलोकेषु पूजितम् ॥
एतानि मम नामानि सासेष्व् एतेषु कीर्तयेत् ।
इति पुष्पाष्टमीव्रतम् ।
[२३९]
[दूर्वाष्टमी]
भविष्यपुराणे ।
विष्णुर् उवाच ।
ब्रह्मन् भाद्रपदे मासि शुक्लाष्टम्याम् उपोषितः ।
पूजयेच् छङ्करं भक्त्या यो नरः श्रद्धयान्वितः ॥
स याति परमं स्थानं यत्र देवस् त्रिलोचनः ।
गणेशं पूजयेद् यस् तु दूर्वया सहितं मुने ॥
फलानां सकलैर् दिव्यैर् गन्धपुष्पैर् विलेपनैः ।
दूर्वां पूज्य महेशानं मुच्यते सर्वपातकैः ॥
शुचौ देशे प्रजातायां दूर्वायां ब्राह्मणोत्तमः ।
स्थाप्य लिङ्गं ततो गन्धैः पुष्पैर् धूपैः समर्चयेत् ॥
खर्जूरैर् नारिकेलैश् च मातुलुङ्गफलैस् तथा ।
पूजयेच् छङ्करं भक्त्या दूर्वया विधिवद् द्विजम् ॥
दध्यक्षतैर् द्विजश्रेष्ठ अर्घ्यं दद्यात् त्रिलोचने ।
दूर्वाशमीभ्यां सम्पूज्य मानवः श्रद्धयान्वितः ॥
स वै सकृतजन्मा स्यात् सर्वदेवैश् तु वन्दितः ।
त्वं दूर्वे ‘मृतजन्मासि सर्वदेवैस् तु वन्दिता ॥
[२४०] पूजिता दह तत् सर्वं यन् मया दुष्कृतं कृतम् ।
एवं सम्पूज्य देवेशं दुर्वया त्व् इन्दुनन्दन ॥
ब्राह्मणेभ्यः फलं दद्यात् नारिकेलादि सुव्रतः ।
दधि प्राश्य गृहं गच्छेत् पूजयित्वा त्रिलोचनम् ॥
दूर्वा गौरी स्मृता राजन् शङ्करस् तु फलानि वै ।
यस् त्व् अस्यां तु तिथौ ब्रह्मन् पूजयेच् छङ्करं नरः ॥
स गच्छेच् च गृहं रम्यं दिव्यगन्धर्वपूजितम् ।
कृतोपवासं सप्तम्याम् अष्टम्यां पूजयेच् छिवम् ॥
पूर्वोक्तेनैव विधिना सर्वकामान् स विन्दति ।
विद्यां प्राप्नोति विद्यार्थी पुत्रार्थी पुत्रम् आप्नुयात् ॥
धनार्थी प्राप्नुयान् नित्यं भार्यार्थी लभते च ताम् ।
मनसा यद् यद् इच्छेत् तु तत् तद् आप्नोति मानवः ॥
य एवं पूजयेद् दूर्वां भूतेशं मानवः फलैः ।
स सप्तजन्मपापौघान् मुच्यते नात्र संशयः ॥
कृत्वोपवासं सप्तम्याम् अष्टम्यां पूजयेच् छिवम् ।
दूर्वासमेतं विप्रेन्द्र दध्यक्षतफलैः शुभैः ॥
ततः सम्पूजयेद् विप्रान् फलैर् नानाविधैर् द्विज ।
अनग्निपक्वम् अश्नीयाद् अन्नं दधि फलं तथा ॥
अक्षारलवणं ब्रह्मन्न् अश्नीयान् मधुनान्वितम् ।
[२४१] दद्यात् फलानि विप्रेषु फलाहारः स्वयं भवेत् ॥
प्रणम्य शिरसा दूर्वां शिवं च शिवम् आप्नुते ।
स एवं कुरुते भक्त्या महादेवस्य पूजनम् ॥
गणत्वं यात्य् असौ ब्रह्मन् मुच्यते ब्रह्महत्यया ।
एवं पुण्या पापहरा चाष्टमी दूर्वसञ्ज्ञिता ॥
चतुर्णाम् अपि वर्णानां स्त्रीजनस्य विशेषतः ।
इति दूर्वाष्टमीव्रतम् ।
[कृष्णाष्टमी]
देव्य् उवाच ।
कृष्णाष्टम्यां विधानं वै निखिलं क्रियते तथा ।
क्रमेण मे तथा ब्रूहि यत् कर्तव्यं सुरेश्वर ॥
ईश्वर उवाच ।
हेमन्ते त्व् अथ सम्प्राप्ते मासि मार्गशिरे तथा ।
नक्तं कृत्वा शुचिर् भूत्वा गोमूत्रं प्राशयेन् निशि ॥
आहारः प्राशनं तत्र न चान्नं तत्र प्राशयेत् ।
तेन नक्तं समुद्दिष्टं प्रासितेनाशितेन च ॥
[२४२] भूशय्यायां स्वपेद् रात्रौ शङ्करं पूज्य भक्तितः ।
अतिरात्रस्य यज्ञस्य फलम् अष्टगुणं भवेत् ॥
जपेत शङ्करं नाम सायं रात्रौ दिने तथा ।
पौषे गव्यं घृतं प्राश्य नक्तं कृत्वा तु मानवः ॥
भक्त्या तु पूजयेच् छम्भुं भावितस्तुतितत्परः ।
वाजपेयाष्टकं पुण्यं लभते नात्र संशयः ॥
माघे माहेश्वरं नाम क्षीरप्राशनम् आदिशेत् ।
अनाहारः स्वपेद् रात्रौ पूजयित्वा महेश्वरम् ॥
नामजप्त्या महेशस्य गोमेधाष्टकम् आप्नुयात् ।
फाल्गुने तु महादेवं कृष्णायां परिकीर्तयेत् ॥
तिलान् प्राश्य निराहारो निशि जप्त्वा समाहितः ।
जपन् नामाथ देवस्य संस्मरन् शङ्करं तथा ॥
राजसूयस्य यज्ञस्य फलम् अष्टगुणं भवेत् ।
जपन् नामेति पूर्वत्र महादेवेति कथ्यते ॥
चैत्रे स्थाणुं महापुण्यं पूजयेद् भक्षयेन् मधु ।
रात्रौ सम्प्राश्य विधिवद् अनाहारः स्वपेन् निशि ॥
स्थाणुं जप्त्वा महामन्त्रम् अश्वमेधाष्टकं लभेत् ।
कुश्ōदकं तु वैशाखे शिवं देवं प्रपूजयेत् ॥
मन्त्रं तं तु शिवं जप्त्वा नरमेधफलं लभेत् ।
[२४३] ज्येष्ठे पशुपतिं नाम गवां शृङ्गोदकं पिबेत् ॥
जप्त्वा पशुपतिं विप्र गवां कोटिफलं लभेत् ।
कृष्णाष्टम्याम् अथाषाढ उग्रं नाम प्रकीर्तयेत् ॥
प्राशयेद् गोमयं तत्र सौत्रामणिफलाष्टकम् ।
इमं यो जपते मन्त्रं सर्वसिद्धिप्रदायकम् ॥
शर्वेति श्रावणे प्रोक्तः सर्वपापक्षयङ्करः ।
नक्तं तु प्राशयेद् अर्कं जपन् मन्त्रं सुभावितः ॥
वर्षकोटिशतं साग्रं रुद्रलोके महीयते ।
त्र्यम्बकं तु जपेद् देवं मासि भाद्रपदे ‘ष्टमीम् ॥
प्राशयेत बिल्वपत्रम् अब्ददीक्षाफलं लभेत् ।
त्र्यम्बकं संस्मरेत् तत्र चैकचित्तः सुभावितः ॥
मासि चाश्वयुजे वीर प्राशनं तण्डुलोदकम् ।
नाम्ना चैशं स्मरेद् देवं पुण्डरीकाष्टकं लभेत् ॥
रुद्रं तु कार्तिके मासि दधि प्राश्य सुभावितः ।
रात्रौ तु संस्मरेद् रुद्रं सर्वपापप्रणाशनम् ॥
अग्निष्टोमस्य यज्ञस्य फलाष्टकम् अवाप्नुते ।
मन्त्रहीना क्रिया नास्ति मन्त्रहीनं न सिध्यति ॥
मन्त्रेण हि विना देवि यत्नेनापि वृथा भवेत् ।
[२४४] तस्मात् सर्वप्रयत्नेन मन्त्रम् एवम् उदीरयेत् ॥
समाप्ते तु व्रते देवि वर्षान्ते तु महाफलम् ।
अस्यैव तु प्रसादेन पदं याति निरामयम् ॥
अस्य मन्त्रस्य हेमन्ते शिशिरे चैव शोभने ।
व्रतं निवेदयेच् छम्भो त्वत्प्रसादात् सुरेश्वर ॥
सम्पूर्णं हि कृतं देव व्रतं परमपूजितम् ।
एवं विज्ञाप्य देवेशं सान्निध्यं भव शङ्कर ॥
त्वत्प्रसादात् सुरेशान् यथाशक्ति जपाम्य् अहम् ।
कन्दमूलफलैर् वापि वर्षान्ते तर्पणं स्मृतम् ॥
ब्राह्मणांश्च यथाशक्त्या शिवभक्तान् दृढव्रतान् ।
आमन्त्र्य परया भक्त्या क्रियतां मे त्व् अनुग्रहः ॥
व्रतस्य तर्पणं पुण्यं करिष्ये शिवनोदितम् ।
“तर्पणं” पूरणम् ।
इति सम्पूजयेत् पश्चात् भक्ष्य्भोज्यैर् अनेकशः ॥
दातव्या चार्जुनी कृष्णा सुरूपा सुपयस्विनी ।
हेमशृङ्गी रौप्यखुरा घण्टाभरणभूषिता ॥
वस्त्रपुष्पपरीधाना पुष्पमालान्विता शुभा ।
गुरवे गौः प्रदातव्या श्रेयोऽर्थं सुरसुन्दरि ॥
[२४५] आचार्यं तु शिवं विन्द्याच् छिवम् आचार्यरूपिणम् ।
उभयोर् अन्तरं नास्ति ह्य् आचार्यस्य शिवस्य च ॥
एतस्मात् कारणाद् देवि गुरुः पूज्यः सदाशिवः ।
यः समुद्धरते मर्त्यं घोरात् संसारसागरात् ॥
न तेन सदृशी माता न पिता न च बान्धवाः ।
यद् गुरोर् दीयते दानं यद् गृह्णाति सदाशिवः ॥
तस्मात् सर्वप्रयत्नेन पूजनीयो गुरुः सदा ।
इति ते कथितः सर्वः कृष्णाष्टम्यां विधिः परः ॥
अनेन विधिना यस् तु कुरुते वत्सरं नरः ।
स सर्वकामसम्पन्नः प्रयाति परमं पदम् ॥
इति कृष्णाष्टमीव्रतम् ।
[कृष्णाष्टमी]
श्रीविष्णुर् उवाच ।
कृष्णाष्टम्यां प्रयत्नेन कृत्वा नक्तं विधानतः ।
मासि मार्गशिरे चैव शङ्करं देवम् अर्चयेत् ॥
पीत्वा शक्त्या तु गोमूत्रम् अनाहारो निशि स्वपेत् ।
[२४६] अतिरात्रस्य यज्ञस्य फलम् अष्टगुणं भवेत् ॥
एवं पौषे ‘पि सम्पूज्य शम्भुं नाम महेश्वरम् ।
कृष्णाष्टम्यां घृतं प्राश्य राजसूयाष्टकं भवेत् ॥
माघे माहेश्वरं विप्र कृष्णाष्टम्यां प्रपूजयेत् ।
निशि पीत्वा तु गोक्षीरं गोमेधफलम् आप्नुयात् ॥
फाल्गुने च महादेवं सम्पूज्य प्राशयेत् तिलान् ।
राजसूयस्य यज्ञस्य फलम् अष्टगुणं भवेत् ॥
चैत्रे च स्थाणुनामानं कृष्णाष्टम्यां प्रपूजयेत् ।
यवांश् च भर्जितान् प्राश्य सो ‘श्वमेधफलं लभेत् ॥
वैशाखे शिवनामानम् इष्ट्वा रात्रौ कुशोदकम् ।
पीत्वा पुरुषमेध्स्य फलं दशगुणं भवेत् ॥
ज्येष्ठे पशुपतिं पूज्य गवां शृङ्गोदकं पिबेत् ।
गवां कोटिप्रदानस्य यत् फलं तद् अवाप्नुयात् ॥
[२४७] आषाढे चोग्रनामानम् इष्ट्वा प्राश्य च गोमयम् ।
वर्षाणां च शतं साग्रं शिवलोके महीयते ॥
एवं तु श्रावणे मासि पूज्यार्कं प्राशयेन् निशि ।
गोशतस्य च यज्ञस्य फलं प्राप्नोति मानवः ॥
त्यम्बकं [च] भाद्रपदे कृष्णाष्टम्यां प्रपूजयेत् ।
सम्प्राश्य बिल्वपत्रं तु वाजपेयफलं लभेत् ॥
मासे चाश्वयुजे प्रोक्तं प्राशनं तण्डुलोदकम् ।
नाम्ना चेशं जपेद् देवं पुण्डरीकफलं लभेत् ॥
मासे तु कार्तिके ‘ष्टम्याम् ईशानाख्यं प्रपूजयेत् ।
पञ्चगव्यं सकृत् पीत्वा पञ्चयज्ञफलं लभेत् ॥
वर्षान्ते भोजयेद् विप्रान् शिवभक्तिपरायणान् ।
[२४८] पायसं मधुसंयुक्तं घृतेन सुपरिप्लुतम् ॥
शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत् ।
सतिलाः कृष्णकलशा भक्ष्यभोज्येन संयुताः ॥
द्वादशात्र प्रदातव्याश् छत्रोपानद्युगान्विताः ।
निवेदयेद् यद् रुद्राय गां तु कृष्णां पयस्विनीम् ॥
वर्षकं व्रतं कुर्यान् नैरन्तर्येण यो नरः ।
कृष्णाष्टमीव्रतं भक्त्यातस्य पुण्यफलं शृणु ॥
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।
वसेच् छिवपुरे नित्यं न चेहायाति नाकभाक् ॥
इति प्रकारान्तरेण कृष्णाष्टमीव्रतम् ।
[कृष्णाष्टमी]
मत्स्यपुराणे ।
सूर्य उवाच ।
कृष्णाष्टमीम् अथो वक्ष्ये सर्वपापप्रणाशिनीम् ।
शान्तिर् मुक्तिश् च भवति यथा पुंसां विशेषतः ॥
[२४९] शङ्करं मार्गशिरसि शम्भुं पौषे ‘पि पूजयेत् ।
माघे महेश्वरं देवं महादेवं च फाल्गुने ॥
स्थाणुं चैत्रे शिवं तद्वद् विशाखे ‘प्य् अर्चयेन् नरः ।
ज्येष्ठे पशुपतिं तद्वद् आषाढे चोग्रम् अर्चयेत् ॥
पूजयेच् छ्रावणे शर्वं नभस्ये त्र्यम्बकं ततः ।
हरम् आश्वयुजे मासि तथेशानं च कार्तिके ॥
कृष्णाष्टमीषु सर्वासु शक्त्या सम्पूजयेद् द्विजान् ।
गोभूहिरण्यवासोभिः शिवभक्त्यानुपोषितः ॥
गोमूत्रं सघृतं क्षीरं तिलान् यवकुशोदकम् ।
गोशृङ्गोदकरीषार्कबिल्वपत्रदधीनि च ॥
पञ्चगव्यं च सम्प्राश्य शङ्करं पूजयेन् निशि ।
अश्वत्थं च वटं चैवोदुम्बरं प्लक्षम् एव च ॥
पलाशं जम्बुवृक्षं च विदुः षष्ठं महर्षयः ।
मार्गशीर्षादिमासाभ्यां द्वाभ्यां द्वाभ्याम् अथ क्रमात् ॥
एकैकं दन्तपवनं वृक्षेष्व् एतेषु भक्षयेत् ।
दद्यात् समाप्ते दध्यन्नं वितानं ध्वजचामरम् ॥
देवाय दद्याद् घ्ण्टां च कृष्णां गां कृष्णवाससी ।
द्विजानाम् उदकुम्भांश् च पञ्चरत्नसमन्वितम् ॥
[२५०] गावः कृष्णाश् च वासांसि फलानि विविधानि च ।
अशक्तस् तु पुनर् दद्याद् गाम् एकाम् अपि शक्तितः ॥
वित्तशाठ्यं न कुर्वीत कुर्वण् दोषम् आप्नुयात् ।
कृष्णाष्टमीम् उपोष्यैवं सप्तकल्पशतत्रयम् ॥
पुमान् सम्पूजितो देवैः शिवलोके महीयते ।
इति कृष्णाष्टमीव्रतम् ।
[कृष्णाष्टमी]
भविष्यपुराणे ।
विष्णुर् उवाच ।
कन्यागते सवितरि कृष्णपक्षे ‘ष्टमी तु या ।
सा च पापहरा पुण्या शिवस्यानन्दवर्धिनी ॥
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।
सर्वप्रीतिकरं स्याद् वै कृतं तस्यां त्रिलोचने ॥
विशेषतः कृतं श्राद्धं होमश् च विधिवन् मुने ।
तस्माच् छ्राद्धं प्रयत्नेन तस्यां कुर्याद् विचक्षणः ॥
एकभक्तं च पञ्चम्यां नक्तं सूक्ष्मं विदुर् बुधाः ।
उपवासस् तु सप्तम्याम् अष्टम्यां पूजयेच् छिवम् ॥
पूजयित्वा शिवं भक्त्या पितृश्राद्धं प्रकल्पयेत् ।
कृत्वा तु विधिवच् छ्राद्धं भुञ्जीत पितृसेवितम् ॥
[२५१] यस् त्व् अस्यां कुरुते श्राद्धं पूजयित्वा त्रिलोचनम् ।
तस्य वर्षाणि तृप्ताः स्युः पितरो दश पञ्च च ॥
एवं व्रतम् इदं कुर्यात् स्वम् एकं चैवम् आदरात् ।
नामभिः पूजयेद् देवं त्रिपुरान्तकरं परम् ॥
मासि भाद्रपदे शम्भुं शङ्करं तु तथा परे ।
शिवं तु कार्तिके मासि शर्वं मार्गशिरे तथा ॥
पौषे मासि तथेशानम् उग्रं माघे प्रकीर्तितम् ।
फाल्गुने रुद्रनामानं चैत्रे भीमं प्रकीर्तितम् ॥
वैशाखे नीलकण्ठं च ज्येष्ठे नाम भवं परम् ।
महादेवं तथाषाढे श्रावणे त्र्यम्बकं द्विज ॥
एतानि मासनामानि प्राशनानि निबोध मे ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कोशोदकम् ॥
गोरोचनां पञ्चगव्यं मन्दारोन्मृत्तिकां तथा ।
तिलान् यवांस् तथा विप्र प्राशयेत् कायशुद्धये ॥
वच्मि पुष्पाणि तं विप्र देवदेवस्य प्रीतये ।
करवीरं तथा जातीं प्रालेयानि कदम्बकम् ॥
उन्मत्तकं तथा बिल्वं शमीपत्रं बकं तथा ।
मालतीकुसुमं विप्र तथा मुकुरकस्य च ॥
[२५२] कुशपुष्पं तथा पुण्यम् अगस्तिकुसुमं तथा ।
सिल्हकं विजयं धूपं माहिष्याज्यं च गुग्गुलम् ॥
य एवं पूजयेद् देवं शङ्करं त्रिपुरान्तकम् ।
स्वम् एकम् एकं विप्रेन्द्र स याति परमं पदम् ॥
ब्राःमणान् पूजयेद् यस् तु वाचकं च विशेषतः ।
महादेवस्य वै भक्त्या भक्तान् पाशूपतान् द्विजान् ॥
एवं यः कुरुते श्राद्धम् अष्टम्याम् अष्टकासु च ।
पूजयित्वा सुरेशानं शिवं विप्रैर् मनीषिबिः ॥
तृप्यान्ति पितरस् तस्य वर्षाणि दश पञ्च च ।
दिव्यानि मुनिशार्दूल सप्त सप्त च सप्त च ॥
एवं च पालयेद् भक्त्या कृष्णाष्टम्यां ततः परम् ।
यं यं कामयते कामं तं तं प्राप्नोति मानवः ॥
पुत्रकामो लभेत् पुत्रं धनकामो धनानि च ।
विद्यार्थी लभते विद्यां कन्यार्थी कन्यकां पराम् ॥
इति कृष्णाष्टमीव्रतम् ।
[कृष्णाष्टमी]
ज्येष्ठे मासि द्विजश्रेष्ठ कृष्णाष्टम्यां त्रिलोचनम् ।
यः पूजयति देवेशम् ईशलोकं व्रजेन् नरः ॥
[२५३] ज्येष्ठे मासि तथाषाढे श्रावणे च तथापरे ।
पूजयेच् चतुरो मासान् नीलोत्पलकदम्बकैः ॥
त्रिपुरान्तकरं शम्भुं त्र्यम्बकान्धकसूदनम् ।
गन्धानां च कदम्बेन पूजयेद् गुग्गुलेन च ॥
देवरूपफलं विप्र प्राशयेत् कायशोधनम् ।
“देवरूपम्” देवफलम् ।
देवस्य कीर्तयेन् नाम शङ्करेति पुनः पुनः ॥
मासि चाश्वयुजे विप्र कार्तिके च तथा द्विज ।
मार्गशीर्षे तथा मासि पौषे मासि तथा हरम् ॥
पूजयेद् विधिवद् भक्त्या चोन्मत्तकुसुमैर् विभुम् ।
कर्पूरागरुधूपेन देवेशं पूजयेद् धरिम् ॥
विरूपाक्षेति वै नाम प्राशयेद् विधिवद् यवान् ।
सिह्लकं प्रवरं धूपं नैवेद्यं पायसं परम् ॥
माघे वै फाल्गुने मासि कृष्णाष्टम्यां त्रिलोचनम् ।
चैत्रवैशाखयोर् भक्त्या शतपत्रैः समर्चयेत् ॥
पूजयेद् विधिवच् छम्भुं त्रिपुरान्तकरं हरम् ।
महाधूपेन धूपेन विधिवत् कल्पितेन च ॥
नैवेद्यैः खण्डवेष्टैश् च नाम ईशेति पूजयेत् ।
य एवं पूजयेद् देवं कृष्णाष्टम्यां महेश्वरम् ॥
[२५४] स्वम् एकम् एकं विप्रेन्द्र स याति परमं पदम् ।
यद् इष्टं देवदेवस्य तच् छृणुष्व द्विजोत्तम ॥
उन्मत्तधूपो धूपस् तु धूपः कृष्णागरुः सदा ।
श्रीखण्डः सर्वगन्धेषु नैवेद्यं पायसं सदा ॥
पूजाकारः पाशुपतः सर्वभोगविवर्जितः ।
कल्पज्ञो ब्राःमणानां तु वाचकस् तस्य वल्लभः ॥
य एवं पूजयित्वा तु सर्वेण विधिवद् धरम् ।
वत्सरान्ते महापूजां पुण्यं पुस्तकवाचनम् ॥
यः कारयति वै भक्त्या तस्य पुण्यफलं शृणु ।
स गोलोकम् अवाप्नोति तेजसा शुक्रसन्निभः ॥
इति कृष्णाष्टमीव्रतम् ।
[दम्पत्यष्टमी]
कार्तिके मासि विप्रेन्द्र पुत्रकामो नरो मुने ।
अष्टम्यां कृष्णपक्षस्य पूजयेद् विधिवद् द्विज ॥
उमया सहितं देवं कृत्वा दर्भमयं विभुम् ।
गन्धपुष्पोपहारैश् च वासोभिर् भूषणैस् तथा ॥
[२५५] नीलवैडूर्यसङ्काशान् समूलान् पुष्पवर्जितान् ।
विवत्सकांस् तथा साग्रान् ऋजून् दर्भान् द्विजोत्तम ॥
गृहीत्वा कारयेद् देवं नीलकण्ठम् उमापतिम् ।
उमां च तां सतीं देवीं विधिवद् ब्रह्मसत्तम ॥
पूजयेद् गन्धमाल्यैस् तु फलैर् भक्ष्यैर् अनेकशः ।
नानाप्रेक्षणकैश् चैव मुखवाद्यैश् च सुव्रत ॥
एवं यः कुरुते भक्त्या ह्य् उमामाहेश्वरं व्रतम् ।
स्वम् एकम् एकं विप्रेन्द्र स याति परमं पदम् ॥
चतुर्भिः पारणैर् एवं खम् एकं कीर्तितं बुधैः ।
प्रथमं तु त्रिभिर् मासैः पारणं कार्तिकादिभिः ॥
कार्तिके मार्गशीर्षे तु पौषे मासि तथा मुने ।
उन्मत्तकस्य पुष्पैस् तु धूपैश् चैव यथोदितैः ॥
पूजयेद् गन्धमाल्यैस् तु फलैर् भक्ष्यैर् अनेकशः ।
नानाप्रेक्षणकैश् चैव मुखवाद्यैश् च सुव्रत ॥
य एवं कुरुते भक्त्या पूजयेद् विधिवच् छिवम् ।
श्रीखण्डचन्दनेनैनं श्वेतेन तु विलेपयेत् ॥
साज्यं तु गुग्गुलं दद्यान् नैवेद्यं पायसं परम् ।
स्नानं तु पञ्चगव्येन प्राशनं च प्रवर्तयेत् ॥
[२५६] महादेवेति वै नाम देवी गौरीति पठ्यते ।
माघे तु फाल्गुने मासि तथा चैत्रे द्विजोत्तम ॥
मालतीकुसुमैर् देवं कुसुमैर् मुद्गरस्य च ।
विरूपाक्षेति वै नाम देव्या नाम उमेति च ॥
पूजयेद् विधिवद् देवं धूपेनागरुणा विभुम् ।
कुङ्कुमेन तथा भक्त्या विधिवच् चोपलेपयेत् ॥
दध्ना शाल्योदनं दद्यान् नैवेद्यं शूलपाणये ।
कुशोदकं तथाश्नीयाद् आत्मनः कायशुद्धये ॥
वैशाखे तु तथा ज्येष्ठे ‘प्य् आषाढे च जपेद् धरम् ।
करवीरस्य पुष्पैस् तु तथा रक्तोत्पलैर् मुने ॥
प्राजापत्येन् धूमेन रसालामोदकैश् तथा ।
शिवः शिवा च वै नाम्नी तयोर् विप्र प्रकीर्तिते ॥
स्नानप्राशनयोः शस्ता घृतकृष्णतिला बुधैः ।
अगरुं सिह्लकं धूपं प्राजापत्यम् इति स्मृतम् ॥
श्रावणादिषु मासेषु जातीपुष्पकदम्बकैः ।
पूजयेद् विधिवद् देवं त्रिपुरान्तकरं परम् ॥
चतुःसमेन देवेशम् अर्चयेद् विधिवन् मुने ।
धूपेनागरुमिश्रेण कृशरापूपपायसैः ॥
एभिर् यः पूजयेद् देवं चतुर्भिः पारणैर् हरम् ।
चतुर्वर्गम् अवाप्नोति कामयानो न संशयः ॥
[२५७] अकामयानश् च पुनस् तुरीयं लभते फलम् ।
“तुरीयो” मोक्षः ।
कामयानो यथाकामं कामम् आप्नोति मानवः ॥
पुत्रकामो लभेत् पुत्रं द्रव्यार्थि विपुलं धनम् ।
विद्यार्थी विपुलां विद्यां नूनम् आप्नोति शङ्करात् ॥
कृत्वैवं व्रतम् एकं तु वर्षान्ते प्रीणयेद् धरिम् ।
नानाप्रेक्षणकैर् ब्रह्मन् ब्राह्मणानां च तर्पणैः ॥
दाम्पत्यं भोजयेद् विप्र प्रीतये शङ्करस्य च ।
कल्पज्ञं वाचकं विप्रं सपत्नीकं विचक्षणः ॥
वाचकं कल्पयेच् छम्भुं तत्पत्नीं ललितां मुने ।
प्रीणयित्वा तु दाम्पत्यं भक्ष्यभोज्यैर् अनेकशः ॥
कुसुम्भरक्तवस्त्राणि ताभ्यां दद्याद् द्विजोत्तम ।
नानाविधैर् गन्धपुष्पैः पूजयित्वा द्विजोत्तमम् ॥
दक्षिणां च पुनर् दद्यात् सौवर्णप्रतिमाद्वयम् ।
वाचकाय महादेवं तत्पत्न्यै ललितां मुने ॥
य एवं पूजयेच् छम्भुं भक्त्या श्रद्धासमन्वितः ।
स दिव्यं यानम् आरूढः शुक्रजोद्भवम् उत्तमम् ॥
[२५८] तेजसा शुक्रसङ्काशः प्रभया हरिसन्निभः ।
स गच्छेत् परमं स्थानम् अचलं शूलपाणिनः ॥
तस्माद् एत्य भवेद् राजा भूतले क्ष्माधिपेश्वरः ।
इति दम्पत्यष्टमीव्रतम्
[कालाष्टमी]
वामनपुराणे ।
पुलस्त्य उवाच ।
नभस्ये मासि च तथा या स्यात् कृष्णाष्टमी शुभा ।
युक्ता मृगशिरेणैव सा तु कालाष्टमी मता ॥
तस्यां पुरैकलिङ्गेषु तिथौ स्वपिति शङ्करः ।
“एकलिङ्गानि” वृष्भगणपतिरहितानि पश्चिमाभिमुखानि प्रसिद्धानि ।
वसन्ते सन्निधाने तु तत्र पूजाक्षया स्मृता ॥
स्नायीत विद्वान् विधिवद् गोमूत्रेण जलेन च ।
स्नात्वा सम्पूजयेत् पुष्पैः कुटजस्य त्रिलोचनम् ॥
[२५९] धूपः केसरनिर्यासैर् नैवेद्यं मधुसर्पिषा ।
“केसरो” बकुलः ।
प्रीयतां मे विरूपाक्ष इत्य् उच्चार्य च दक्षिणाम् ॥
विप्राय दद्यान् नैवेद्यं सहिरण्यं द्विजोत्तमः ।
तद्वद् आश्वयुजे मासि सोपवासो जितेन्द्रियः ॥
नवम्यां गोमयस्नानं कुर्यात् पूजां च पङ्कजैः ।
“तद्वद् आश्वयुजे मासि सोपवास” इत्य् अभिधानात् पूर्वमासे ‘प्य् उपवासो बोद्धव्यः ।
धूपयेत् सर्जनिर्यासैर् नैवेद्यं मधु मोदकम् ॥
कृवोपवासम् अष्टम्यां नवम्यां स्नानम् आचरेत् ।
प्रीयतां मे विरूपाक्षो दक्षिणा च तिलैः कृता ॥
कार्तिके पयसा स्नानं कर्वीरेण वार्चनम् ।
धूपं श्रीवासनिर्यासैर् नैवेद्यं मधुपायसम् ॥
सनैवेद्यं च रजतं दातव्यं दानम् अग्रजे ।
“अग्रजे” ब्राह्मणे । “श्रीवासः” सरलवृक्षः ।
प्रीयतां भगवान् स्थाणुर् इति वाच्यम् अनन्तरम् ॥
कृवोपवासम् अष्टम्यां नवम्यां स्नानम् आचरेत् ।
[२६०] मासि मार्गशिरे स्नानं तत्रार्चा रुद्रजा स्मृता ॥
धूपं श्रीवृक्षनिर्यासैर् नैवेद्यं मधुपायसम् ।
नैवेद्यं रक्तशाली च दक्षिणा परिकीर्तिता ॥
नमो ‘स्तु प्रीयतां शर्व इति वाच्यं च पण्डितैः ।
“अर्चा” पूजा । “रुद्रजा” शमीपुष्पजा । “श्रीवृक्षो” बिल्वः ।
पौषे स्नानं च हविषा पूजा स्यात् पारणेन तु ॥
धूपो मधूकनिर्यासैर् नैवेद्यं मधुशष्कुली ।
समुक्ता दक्षिणा प्रोक्ता प्रीणनाय जगद्गुरोः ॥
वाच्यं नमस् ते देवेश त्र्यम्बकेति प्रकीर्तयेत् ।
“हविषा” घृतेन ।
माघे कुशोदकस्नानं मृगमदेन वार्चनम् ॥
धूपो कदम्बनिर्यासो नैवेद्यं सतिलोदनम् ।
पयः कुसुम्भं नैवेद्यं सरुक्मं प्रतिपादयेत् ॥
प्रीयतां मे महादेव उमापतिर् इतीरयेत् ।
एवम् एकं समुद्दिष्टं षड्भिर् मासैस् तु पारणम् ॥
पारणान्ते त्रिणेत्रस्य स्नपनं कारयेत् क्रमात् ।
[२६१] गोरोचनाचन्दनकुङ्कुमेन
देवं समालभ्य च पूजयेच् च ।
प्रीयस्व दीनो ‘स्मि भवन्तम् ईशं
शशाङ्कनार्थं प्रणतो ‘स्मि नित्यम् ॥
ततस् तु फाल्गुने मासि कृष्णाष्टम्यां यतव्रतः ।
उपवासः समुद्दिष्टः कर्तव्यो द्विजसत्तम ॥
द्वितीये ‘ह्नि ततः स्नानं पञ्चगव्येन कारयेत् ।
पूजयेत् कुन्दपुष्पैस् तु धूपनं चन्दनेन तु ॥
नैवेद्यं सघृतं दद्यात् ताम्रपात्रे गुडोदनम् ।
दक्षिणां च द्विजातिभ्यो नैवेद्यसहितां तथा ॥
वासोयुगं प्रयच्छेच् च रुद्रम् उच्चार्य नामतः ।
चैत्रे चोदुम्बरफलैः स्नानं मन्दारकार्चनम् ॥
गुग्गुलं महिषाख्यं च घृताक्तं धूपयेद् बुधः ।
समोदकं तथा सर्पिः प्रीणनं विनिवेदयेत् ॥
दक्षिणां चैव नैवेद्यं मृगाजिनम् उदाहरेत् ।
आद्ये श्रवणम् अन्ते चापीदम् उच्चार्य नामतः ॥
प्रीणनं देवनाथस्य कुर्याच् छ्रद्धासमन्वितः ।
वैशाखे स्नानम् उद्दिष्टं सुगन्धिकुसुमाम्भसा ॥
[२६२] पूजनं शङ्करस्योक्तं व्रतं नक्तादिभिः प्रभो ।
धूपं सूर्याख्यपुष्पं च नैवेद्यं सफलं घृतम् ॥
“सूर्याख्यपुष्पम्” अर्कपुष्पम् ।
नाम जप्तव्यम् ईशस्य कालघ्नेति विपश्चिता ।
जलकुम्भान् सनैवेद्यान् ब्राह्मणाय निवेदयेत् ॥
उपानद्युगलं छत्रं दानं दद्याच् च भक्ततिअः ।
नमस्ते भगनेत्रघ्न पुष्पदन्तविनाअन ॥
इदम् उच्चारयेद् भक्त्या प्रीणनाय जगत्पतेः ।
आषाढे स्नानम् उदितं श्रीफलैर् अर्चनं सदा ॥
धुत्तूरकस्य कुसुमैर् धूपार्थं सिह्लकं तथा ।
नैवेद्यं सफलाः पूपा दक्षिणा सघृतास् तथा ॥
नमस् ते दैत्यदर्पघ्न इदम् उच्चारयेत् ततः ।
श्रावणे मृगमदेन स्नानं कृत्वार्चयेद् धरिम् ॥
श्रीवृक्षपत्रैः सफलैर् धूपं दद्यात् तथागरुम् ।
[२६३] नैवेद्यं सघृतं दद्याद् दधिपूर्णं समोदकम् ॥
दध्योदनं सकृशरं कृष्णधानाः सशष्कुलीह् ।
दक्षिणां वृषभं धेनुं दद्याच् च कपिलां शुभाम् ॥
कनकं रक्तवसनं प्रदद्याद् ब्राह्मणाय च ।
गङ्गाधरेति विख्यातं नाम शम्भोस् तु पण्डितैः ॥
अमीभिः षड्भिर् अपरमासैः पारणम् उत्तमम् ।
एवं संवत्सरं पूर्णं सम्पूज्य वृषभधवजम् ॥
अक्षयांऌ लभते लोकान् माहेश्वरपरो नरः ।
इदम् उक्तं व्रतं पुण्यं सर्वक्षेमकरं शुभम् ॥
स्वयं चन्द्रेण देवर्षे तत् तथा न तद् अन्यथा ।
इति कालाष्टमीव्रतम् ।
[कालीव्रतम्]
कालिकापुराणे ।
देव्य् उवाच ।
साधु भक्तो ‘सि धर्मज्ञ कालरात्रिव्रतं मम ।
शृणु वक्ष्याम्य् अहं तेभ्यः कर्तव्यं विधिवद् यथा ॥
मासि चाश्वयुजे ‘ष्टम्यां कृष्णपक्षे जितेन्द्रियः ।
सत्यवाक् स्थिरचित्तात्मा नियमस्थो भवेत् सुधीः ॥
[२६४] कृत्वादौ मण्डपं श्रीमद्भूमिभागे समे शुभे ।
चतुरस्रं समं शुक्लं पताकाध्वजशोभितम् ॥
सूत्रेण सूत्रितं कृत्वा कुण्डं हस्तप्रमाणतः ।
ततो हरेत् सुसम्भारान् दर्भांश् चैव तिलांस् तथा ॥
पलाशं पिप्पलस्यापि समिधः सप्तविंशति ।
धन्वाकृतिसमं तत्र कारयेद् विधिवच् छुभम् ॥
गर्गरीकलशांश् चैव वैभवांश् च हरेः शुभान् ।
“गर्गरी” मण्डली ।
पिटकं सूर्यपत्राणि बैदलानि शुभानि च ॥
नैवेद्यं पुष्पतोयार्घं द्रव्याणि तु वराणि च ।
हारयेत् सर्वम् एतद् धि व्यजनं च सुशोभनम् ॥
सुरभीणि च पुष्पाणि जातीनीलोत्पलाणि च ।
अन्यान् अपि पवित्रांश् च कुशादीन् आहरेद् बहून् ॥
गव्यानि चैव चित्राणि धूपान् गुग्गुलपूर्वकान् ।
प्रणीतान् विष्ठरांश् चैव चरुं च स्रुवम् एव च ॥
एवं संस्कृत्य सम्भारांश् चतुरः सकुलोद्भवान् ।
अधिवासार्थम् आचार्यान् माम् उद्दिश्य प्रकल्पयेत् ॥
ये शुद्धा विगतक्रोधा देवब्राःमणपूजकाः ।
अर्हाश् च सत्कुले जाताः सत्यशौचक्रियान्विताः ॥
चतुर्भिर् ईदृशैर् वत्स आचार्यैर् नियमस्थितैः ।
सप्तरात्रोषिता पूज्या चन्वहं नक्तभोजनैः ॥
[२६५] ततो नियमम् आदाय तत्कुण्डे धनुर् आकृतौ ।
होमं तु कारयेत् तद्वद् विप्रैः शाङ्करसम्भवैः ॥
तदभावे न चैवेह होमं कुर्यात् स्वयं शृणु ।
यदीच्छेद् ऊर्ध्वगमनं विभूतिं चेष्टदायिनीम् ॥
तदभावे ‘परान् विप्रान् होमवद् भूमिम् अर्चनैः ।
कारयेत् स ध्रुवं ज्ञात्वाप्य् अव्यङ्गां कुलजां तथा ॥
“शाङ्करसम्भवाः” शाङ्करवंशजाः साम्बगणाधिपादयः ।
साम्बं गणाधिपं मातॄर् भूपालं वृषभध्वजम् ।
आदाव् एतांश् च सम्पूज्य ततो होमं समाचरेत् ॥
हेतुरूपेण देवेशं सर्वकर्मसु सिद्धये ।
आग्नेयं मातृभिः सार्धं स्वरूपेण हरं यजेत् ॥
“भूपालः” क्षेत्रपालः । “आग्नेयः” कार्तिकेयः ।
विंशतीः सप्त पालाशीर् उदिते जुहुयात् तदा ।
पुनश् चास्तं गते भानाव् अश्वत्थाः समिधस् तथा ॥
“विंशति” “सप्त” इत्य् अनुषङ्गः ।
अर्धरात्रे तिलैः कृष्णैर् आज्येनाक्तैस् तु भक्तितः ।
अष्टोत्तरशतं यावत् कारयेद् धोमम् उत्तमम् ॥
मन्त्रेणानेन तत्रैव सर्वासु भवनाशिना ।
वरदेन सुसिद्धेन पूष्टिशान्तिविधायिना ॥
[२६६] ॐ ह्रीं नमः कृष्णवाससे शतसहस्रकोटिसिंहवाहने महाबले अपराजिते प्रत्यङ्गिरे
सर्वसैन्यपरिकर्मिणि मन्त्रच्छेदिनि सर्वसत्त्वोन्मादिनि सर्वभूतदमनि सर्वदोषान् ध्वंसय ध्वंसय सर्वविघ्नानुच्छेदयोच्छेदय विकृन्तय निकृन्तय सर्वदुष्टान् भक्षय भक्षय ज्वालाजिह्वे करालवक्त्रे सर्वगात्रान् स्फोटय स्फोटय शृङ्खलीः स्फोटय स्फोटय प्रयङ्गिरे नमो ‘स्तु ते स्वाहा ।
होम कृत्वा बलिं दद्याच् चरुं सर्वदिशासु च ।
कृशराज्यपुरोऽक्तेन पयसा योजितेन च ॥
कुर्यात् सप्तदिनं चैव सप्तमे दिग्भवेषु च ।
वारुणाः पञ्च पञ्चाशन् निबद्धाद् अधिकं कुले ॥
“कृशराज्यपुरोऽक्तेन” इति, वारुणेत्य् अस्य उपरितनस्यानुषङ्गः । “पुरो” गुग्गुलुः । “निर्बन्धात्” प्रतिदिननियतात् ।
बहुभिः सकुलोत्पन्नैः स्तुतिर् एव च चत्वरे ।
उषित्वा वाथ नक्तेन स्थातव्यं त्व् अर्चनाय वै ॥
यद् अग्नेः पूजनं वत्स कर्तव्यं विधिवत् सदा ।
धर्मयज्ञोद्भवैर् विप्रैः स्तुत्यर्थं तत् प्रभो शृणु ॥
दिनानि सप्त सप्तैव चन्दनागरुणा तथा ।
देव्याश् च परया भक्त्या क्षालयेन् मुखमण्डलम् ॥
[२६७] लेखा लेख्यस्य कर्तव्या क्षालनाय मुखस्य् अच ।
प्रतिमा मृन्मयी या तु स्थाप्यतां पूजयेत् सदा ॥
प्रक्षाल्य मन्त्रपूतेन संसृज्य मलवाससी ।
मधुना मधुपर्केण कारयेत् पूज्य यत्नतः ॥
ततो ‘मृतं पुनर् योज्य मुखं गात्रं च कारयेत् ।
कृत्वा चैव तु भक्ष्याणि विधिना विनियोजयेत् ॥
पयसा पायसं गव्यम् आज्येन मधुना युतम् ।
कारयेत् खण्डसंयुक्तं मदर्थम् अमृतं शुभम् ॥
नानाभक्ष्याणि संयोज्याप्य् ओदनं तु क्रमात् ततः ।
व्यञ्जनानि च पानानि पुनर् धूपं च दापयेत् ॥
प्रदक्षिणं ततो भूयो दण्डवत् प्रणिपत्य च ।
धर्मकालोद्भवेनाशु स्तोतव्याः स्वस्तवेन वै ॥
कृत्वा भक्त्या च तत्रैव ब्राह्मणान् विधिवत् ततः ।
काञ्चनैर् वासयेद् वासः समांशैर् धर्मसञ्ज्ञितः ॥
पुनर् गीतं तथा नृत्यं राज्यं चैव विशेषतः ।
देव्या याः पुरतो ‘त्यर्थयत्नाद् एवं तु कारयेत् ॥
सर्वम् एतत् कृतं वत्स गृह्णामि भक्तितः सदा ।
सर्वस्वं चैव मे युक्तं प्रच्छन्नं न स्पृशाम्य् अहम् ॥
प्रीत्यर्थं मम मन्त्रेणा शुचिः स्नात्वा जितेन्द्रियः ।
दान्तः क्षान्तिसमायुक्तस् तरसा भक्तिम् आचरेत् ॥
न धारयेन् मलं काये यतस् तत् पापम् ईरितम् ।
न च तेन भवेत् स्वर्तो न तयोर् मोक्ष एव च ॥
एवं निष्पादयित्वा तु गृहं गच्छेच् छनैस् ततः ।
[२६८] गत्वा प्राश्य शुचिर् विप्रः पञ्चगव्यं मुदान्वितः ॥
अष्टौ चैव कुमारीश् चाप्य् अष्टौ च द्विजसत्तमान् ।
भोजयेद् विधिवत् त्व् आदौ माम उद्दिश्य च मातरः ॥
अष्टौ चैव द्विजाण् भोज्य व्रतस्थान् शिवधर्मकान् ।
उद्दिश्य शङ्करं देवम् उमां चैव विनायकम् ॥
सन्तोष्य भक्षयेद् भक्त्या होतारं च विशेषतः ।
ततः क्षमापयेत् पश्चात् प्रणिपत्य मुहुर् मुहुः ॥
एतत् सामान्यम् उद्दिष्टं शक्त्या विस्तरतो भवेत् ।
दीनांश् च कृपणांश् चैव कारुण्यात् तत्र भोजयेत् ॥
यद् दत्तं वेदवद् विप्रे यद् दत्तं ब्रह्मचारिणे ।
तपोनिधिषु यद् दत्तं कारुण्याच् चैव यत् तथा ॥
तत् सर्वम् अक्षयं दानं वैमल्येन विधानतः ।
नूनं चैवेश्वरे दत्तं सत्यम् एव न संशयः ॥
अर्हानर्हाश् च सम्भोज्याः सर्वे चैवोत्सवे मम ।
आशया परया तृप्ताः स्त्री वान्ये वा किलाखिलाः ॥
बन्धुभिश् च ततः सार्धं मुदया परया पुनः ।
हुतभुग् यज्ञशेषां तु भुञ्जीत प्रयतात्मवान् ॥
अकाले कौमुदीं कुर्यात् कृष्णपक्षे च यः सदा ।
मासि चाश्वयुजे ‘ष्टम्याम् आरभेत् पर्वगोचरे ॥
उषित्वा वाथ नक्तेन चैकभक्तेन वा पुनः ।
विहाय पापसङ्घातं स गच्छेत् परमां गतिम् ॥
ब्राह्मणाः क्षत्रिया वात वैश्या वा शूद्रजातयः ।
चरिष्यन्ति व्रतं चैतत् ते ‘पि यास्यन्त्य् अनामयम् ॥
[२६९] एवं च विधिवत् कुर्वन् पुत्रवान् सधनो भवेत् ।
न लिपन्त्य् आपदो घोराः शत्रुभिर् न च बाध्यते ॥
कालीव्रतम् इदं ख्यानं कर्तव्यं तत्कुलोद्भवैः ।
शान्तिपुष्टिक्षमाकामैर् विद्याकामैः प्रयत्नतः ॥
सिंहायुत्सहस्रेण पूज्यमानेन चासुरैः ।
विमानेनार्कवर्णेन दिवं गच्छेद् यथाचरेत् ॥
एतद् व्रतं सदा त्वं हि मयोक्तं पापनाशनम् ।
भक्त्या च परया वत्स कर्तुम् अर्हस्य् अतन्द्रितः ॥
अन्त्यजादिषु सम्बन्धे यः करिष्यति शङ्करम् ।
हीनवर्णेन कुर्वंश् च स्याद् अनेन स कारकः ॥
इति कालीव्रतम् ।
[सोमव्रतम्]
[अथान्यत् सम्प्रवक्ष्यामि व्रतं श्रेयस्करं परम् ।
तस्योदाहरणं पुण्यं विधिवत् प्रनिबोधत ॥]
वारे सोमस्य चाष्टम्यां पक्षौ सः सोमम् अर्चयेत् ।
विधिना चन्द्रचूडाङ्कं प्राज्यान्नेन सचन्द्रकम् ॥
दक्षिणार्धे हरं ध्यायेद् वामार्धे च हरिं विभुम् ।
[२७०] घृताद्यैर् ऐक्षवाद्यैश् च लिङ्गं स्थाप्य च पूर्ववत् ॥
चन्दनेनेन्दुयुक्तेन दक्षिणार्धं विलेपयेत् ।
कुङ्कुमागरुणा वामं घनम् अर्घ्यं तथैव च ॥
काञ्चनेन सवज्रेण हरभागं तथार्चयेत् ।
समौक्तिकेन नीलेन हरेर् भागं विशेषतः ॥
पश्चात् पुष्पैः शुभैर् वेष्ट्य कारयेत् पुष्पमण्डलम् ।
नीराजनं पुनः कुर्यात् पञ्चविंशत्प्रदीपकैः ॥
उभाभ्यां चित्तवृत्तेन विधिना च मुहुर् मुहुः ।
आज्यसिद्धैः शुभैर् भक्ष्यैर् नैवेद्यं च निवेदयेत् ॥
व्रतिनो ब्राह्मणांश् चैव पूजयित्वा विभावसुम् ।
मिथुनानि च सम्भोज्य यथाशक्त्या च दक्षयेत् ॥
अष्टम्यां पितराव् अर्च्य विधिनानेन सुव्रत ।
वत्सरं च तदन्ते तु कर्तव्यं यन् निबोध तत् ॥
प्रागुक्तविधिना पूज्य सितपीतयुगद्वयम् ।
दद्याद् वितानके चैव पताकाघण्टिके तथा ॥
धूपसञ्चारणे वापि दीपवृक्षौ तु शोभनौ ।
एवमादि वियोज्यैव पूर्ववद् भोज्यम् आचरेत् ॥
अब्दपञ्चकम् एवं हि यः करिष्यत्य् असंशयम् ।
उभाभ्यां लोकम् आसाद्य पदं यास्यत्य् अनामयम् ॥
[२७१] असंशयस् ततो जीवन् नियमेन समाचरेत् ।
इहैव स हरिः साक्षान् नररूपीति लक्षयेत् ॥
न स्पृशन्त्य् आपदस् तं च न च दुःखी भवेत् खलु ।
ज्वरप्रगादिभिर् नैव पीड्यते ‘सौ कदाचन ॥
“पक्षौ” उभौ पक्षौ प्राप्य । “प्राज्यान्नं” आज्यबहुलम् अन्नम् । “घृताद्यैः” पञ्चामृतसञ्ज्ञकैः । “इन्दुयुक्तेन” कर्पूरयुक्तेन । “घनम्” उशीरम् । “सवज्रेण” हीरकयुक्तेन । “उभाभ्याम्” (देवी)देवाभ्याम् । चित्तवृत्तेन हरिहरध्यायिना । “विधिना” नीराजनस्य । “पितरौ” ताव् इव एवौ । “धूपसञ्चारणं” धूपदहनपात्रम् ।
इति सोमव्रतम् ।
[शङ्करार्कव्रतम्}
अथ चानेन मार्गेण शुभां ताम् एव चाष्टमीम् ।
सम्प्राप्यादित्ययोगेन प्राग्विधानेन चाभ्यसेत् ॥
किं तु दक्षिणनेत्रस्थं भास्करं चार्चयेद् बुधः ।
पद्मरागेण हैमेन योज्येदं लेपनं शृणु ॥
[२७२] नेत्रस्य च ललाटाघः कुङ्कुमं रक्तचन्दनम् ।
वृत्तं च योज्य मध्ये तु हरं पूर्ववद् अर्चयेत् ॥
अभावे पद्मरागाणां हैमं सर्वत्र योजयेत् ।
रुद्रबीजं परं मूलं यतस् तस्यैव सर्वदा ॥
रक्तमाल्याम्बरं शुक्लं नैवेद्यं च घृतप्लुतम् ।
शेषः पूर्वविधानेन कर्तव्यो विधिविस्तरः ॥
किं त्व् अत्रोपोष्य कुर्वीत सप्तम्यां संयतेन्द्रियः ।
शङ्करार्कं पुनः पूज्य घृतं गव्यं च पारयेत् ॥
एतत् प्राग्विधिना कार्यं पञ्चपक्षायणे विधौ ।
कुर्वण् सूर्यादिलोकेषु भुक्त्वा भोगान् व्रजेत् परम् ॥
एतत् तीर्त्वा प्रतापी स्याद् ददानः स्वजनप्रियः ।
अस्मिन् लोके न बाध्येत धनवान् पुत्रवान् भवेत् ॥
इति शङ्करार्कव्रतम् ।
इत्य् अष्टमीव्रतानि ।
[२७३]
अथ नवमीव्रतानि
[शौर्यव्रतम्]
तत्र वराहपुराणे ।
अगस्त्य उवाच ।
अतः परं प्रवक्ष्यामि शौर्यव्रतम् अनुत्तमम् ।
येन भीरोर् अपि महाशौर्यं भवति तत्क्षणात् ॥
मासि चाश्वयुजे शुद्धा नवमी सा ह्य् उपोषिता ।
सप्तम्यां कृतसङ्कल्पः स्थित्वाष्टम्यां निरोदनः ॥
नवम्यां प्राशयेत् पिष्टं प्रथमं भक्तितो नृप ।
ब्राह्मणान् भोजयेद् भक्त्या देवीं चैव तु पूजयेत् ॥
दुर्गां देवीं महाभागां महामायां महाप्रभाम् ।
एवं संवत्सरं यावद् उपोष्य तु विधानतः ॥
व्रतान्ते भोजयेद् धीमान् यथाशक्त्या कुमारिकाः ।
हेमवस्त्रादिभिस् तास् तु भूषयित्वा स्वशक्तितः ॥
पश्चात् क्षमापयेत् तां तु देवी मे प्रीयताम् इति ।
एवं कृते भ्रष्टराज्यो लभेद् राज्यं न संशयः ॥
अविद्यो लभते विद्यां भीरुः शौर्यं च विन्दति ।
इति शौर्यव्रतम् ।
[२७४]
[उभयनवमीव्रतम्]
भविष्यपुराणे ।
सुमन्तुर् उवाच ।
यो ‘ब्दम् एकं प्रकुर्वीत नवम्यां नक्तम् आदरात् ।
इह भोगान् नरो भुङ्क्त्वा परत्र च दिवं व्रजेत् ॥
पौषे मासि च सम्प्राप्ते यः कुर्यान् नक्तभोजनम् ।
जितेन्द्रियः सत्यवादी कामक्रोधविवर्जितः ॥
पक्षयोर् नवमीं यत्नाद् उपवासेन पालयेत् ।
त्रिकालं पूजयेद् आर्यां गन्धपुष्पोपहारकैः ॥
कृवाग्निकार्यं विधिवद् भूमौ शय्यां पकल्पयेत् ।
मासान्ते स्नपनं कुर्याद् भगवत्यै घृतादिभिः ॥
कृत्वा ध्यानं महापूजां चण्डिकायै प्रकल्पयेत् ।
नैवेद्यं तण्डुलप्रस्थं क्षीरसिद्धं निवेदयेत् ॥
कुमारीर् भोजयेच् चाष्टौ विप्रान् भाग्वतांस् तथा ।
“भागवतान्” भवतीभक्तान् ।
कृत्वा पिष्टमयीं देवीं नाम्ना चार्येति पूजयेत् ॥
चतुर्भुजां शूलधरां गन्धपुष्पैः सगुग्गुलैः ।
स्नानं कृत्वा तिलैर् विप्र तिलानां प्राशनं तथा ॥
य एवं पूजयेद् आर्यां तस्य पुण्यफलं शृणु ।
[२७५] सूर्यकोटिप्रतीकाशं विमानवरम् आस्थितः ॥
गच्छेद् दुर्गापुरं रम्यं यत्रास्ते चण्डिका स्वयम् ।
क्रीडते देवगन्धर्वैर् यावद् आभूतसम्प्लवम् ॥
त्रिःसप्तकुशजैः सार्धं भोगान् स्वर्गे यथेप्सितान् ।
पुनर् एत्य भुवं वीर राजा भवति भूतले ॥
माघमासे तु सम्प्राप्ते प्रकुर्यान् नक्तभोजनम् ।
कृशरां घृतसंयुक्तां भुञ्जानः सञ्जितेन्द्रियः ॥
उपवासपरो ‘ष्टम्यां पक्षयोर् उभयोर् अपि ।
पूजयेत् त्र्यम्बिकां भक्त्या कृत्वा गोधूमचूर्णतः ॥
दुर्गाम् अष्टभुजां वीर त्र्यम्बिकाम् इति नामतः ।
गन्धपुष्पोपहारैस् तु सर्वै रक्तैस् तु पूजयेत् ॥
धूपं कृष्णागरुं दद्यान् मांसं दद्याच् च माहिषम् ।
धान्यं सिद्धार्थकाः स्नाने प्राशने च यवाः स्मृताः ॥
य एवं माघमासे तु पूजयेत् त्र्यम्बिकां नरः ।
दिव्यं विमानम् आरूढः सूर्यलोके महीयते ॥
प्राप्ते तु फाल्गुने मासि यः कुर्यान् नक्तभोजनम् ।
यवान्नं भुञ्जमानस् तु (?) त्यक्त्वा दूरेण योषितः ॥
कृत्वोपवासम् अष्टम्यां पक्षयोर् उभयोर् नृप ।
पूजयेद् विधिवद् दुर्गां नाम्ना गौरीति वै नृप ॥
कृत्वा ताम्रमयीं वीर द्वात्रिंशार्धभुजां शुभाम् ।
[२७६] पीतैस् तु पूजयेत् पुष्पैश् चन्दनागरुमिश्रितैः ॥
दध्योदनं तु नैवेद्यं धूपो ‘यं सिह्लकः परः ।
स्नानप्राशनयोर् धान्यं गोमूत्रं कायशोधनम् ॥
नवम्यां च महादेवीं स्नपनं तु घृतादिभिः ।
कुमारीं भोजयेद् भक्त्या ब्राःमणांश् च स्वशक्तितः ॥
य एवं पूजयेद् भक्त्या दुर्गां देवीं नृपोत्तम ।
स याति परमं स्थानं यत्र सा चण्डिका स्थिता ॥
चैत्रे मासे तु सम्प्राप्ते यः कुर्यान् नक्तभोजनम् ।
पिष्टकं पयसा युक्तं भुञ्जानः शालिसम्भवम् ॥
पूजयेद् भगवतीं भक्त्या कृत्वा वै चन्दनस्य च ।
गन्धपुष्पोपहारैस् तु विंशार्धभुजसम्मिताम् ॥
ज्वालामुखी तु वै नाम्ना कुङ्कुमागरुचन्दनैः ।
धूपं चागरुकर्पूरं भगवत्यै निवेदयेत् ॥
दद्यात् पशुमुखं भक्त्या नैवेद्यं विधिवन् नृप ।
स्नाने कुशोदकं धान्यं प्राशनं च नराधिप ॥
इत्थं सम्पूज्य देवेशीं कुमारीं भोजन्येत् ततः ।
ब्राह्मणांश् च यथाशक्त्या ततो भुञ्जीत वाग्यतः ॥
पद्मरागगणैर् युक्तं सौवर्णमणिवेदिकम् ।
विमानवरम् आरूढो विष्णुलोके महीपते ॥
वैशाखे मासि राजेन्द्र नवम्यां पक्षयोर् द्वयोः ।
[२७७] उपवासपरो भक्त्या पूजनीया तु चण्डिका ॥
नाम्ना भगवतीत्य् एवं कृत्वा वासमयीं विभो ।
रूपेणाष्टभुजां शुभ्रां पूर्णचन्द्रनिभाननाम् ॥
मुद्गराणां च स्रग्भिस् तु पूजयेद् विधिवन् नृप ।
चन्दनागरुकर्पूरैर् धूपेन विजयेन च ॥
नैवेद्यं गुडपूपाश् च धूपं वा गुग्गुलं नृप ।
एवं सम्पूज्य विधिवत् कुमारीभोजनं ततः ॥
गोपुच्छे क्षालनजलं स्नानप्राशनयोर् मतम् ।
हंसकुन्देन्दुसङ्काशस् तेजसा ध्रुवसन्निभः ॥
विमानवरम् आरूढो देवीलोके महीयते ।
ज्येष्ठे मासि नृपश्रेष्ठ यः कुर्यान् नक्तभोजनम् ॥
शाल्यन्नम् अम्भसोपेतं भुञ्जानः पयसा सह ।
उपवासपरो भक्त्या नवम्यां पूजयेद् उमाम् ॥
ब्राह्मणी त्व् इति वै नाम्ना श्वेतरूपेण रूपिणीम् ।
पद्मपत्रेक्षणां भक्त्या नलिनैर् विविधैर् अपि ॥
[२७८] कुङ्कुमागरुकर्पूरैर् धूपेनागरुणा सह ।
अशोकवर्तिकमुखैर् नानाभक्षैस् तु पूजयेत् ॥
कुमारीं पूजयेद् वापि स्वशक्त्या ब्राःमणांस् तथा ।
गोक्षीरप्राशनात् पूतस् ततो भुञ्जीत वाग्यतः ॥
भोजयित्वा स्त्रियः शक्त्या कुमारीश् च विशेषतः ।
प्रभयादित्यसङ्काशस् तेजसा वह्निसम्भवः ॥
विमानवरम् आरूढो ब्रह्मलोके महीयते ।
आषाढे मासि राजेन्द्र यः कुर्यान् नक्तभोजनम् ॥
भुञ्जानः खण्डखाद्यानि पायसं च नराधिप ।
उपवासपरो भक्त्या नवम्यां पक्षयोर् द्वयोः ॥
पूजयेच् छ्रद्धया दुर्गाम् ऐन्द्रीनाम्ना तु नामतः ।
ऐरावतगतां शुभ्रां श्वेतरूपेण पक्षिणीम् ॥
कृत्वा स्वर्णमयीं भक्त्या नानाभरणभूषिताम् ।
नानापुष्पविशेषैस् तु भक्ष्यैर् नानाविधैस् तथा ॥
यक्षकर्दमगन्धैस् तु धूपैः सागरुचन्दनैः ।
एवं सम्पूज्य चेन्द्राणीं कुमारीं भोजयेत् ततः ॥
स्त्रियो विप्रान् यथाशक्त्या ततो भुञ्जीत वाग्यतः ।
पञ्चगव्यकृतस्नानः पञ्चगव्यकृताशनः ॥
ध्यायमानस् तथा चैन्द्रीं स्वपेद् भूमौ नराधिप ।
[२७९] य एवं पूजयेद् दुर्गां शक्त्या श्रद्धासमन्वितः ॥
ऐरावतसमारूढ इन्द्रस्यानुचरो भवेत् ।
श्रावणे मासि राजेन्द्र यः कुर्यान् नक्तभोजनम् ॥
क्षीरषष्ठिकभक्तेन सर्वभूतहिते रतः ।
उपवासपरो वीर नवम्यां पक्षयोर् द्वयोः ॥
पूजयेद् विधिवद् भक्त्या श्रद्धया चण्डिकां नृप ।
कौमारीम् इति वै नाम्ना नामतः पूजयेत् सदा ॥
कृत्वा रौप्यमयीं भक्त्या घोरां वै पापनाशिनीम् ।
करवीरस्य पुष्पैस् तु गन्धैश् चागरुचन्दनैः ॥
धूपेन च महाङ्गेन मोदकैश् चापि पूजयेत् ।
“महाङ्गो धूपः” धूपप्रकरण उक्तः ।
कुमारीं पूजयेद् भक्त्या स्त्रियो विप्रांश् च भक्तितः ॥
भुञ्जीत वाग्यतः पश्चाद् बिल्वपत्रकृताशनः ।
एवं सम्पूजयेद् देवीं श्रद्धया परयान्वितः ॥
स याति परमं स्थानं यत्र देवो गृहस्थितः ।
नरो भाद्रपदे मासि यः कुर्यान् नक्तभोजनम् ॥
भुञ्जानः पायसं वीर कालशाकं च श्रद्धया ।
उपवासपरो नित्यं नवम्यां पक्षयोर् द्वयोः ॥
पूजयेद् वैष्णवीं भक्त्या शङ्खचक्रासिधारिणीम् ।
जातीपुष्पैर् महाबाहो गन्धैः श्रीखण्डमिश्रितैः ॥
[२८०] श्रीखण्डागरुकर्पूरैः सिल्हकेन च धूपयेत् ।
नैवेद्यं घृतसम्पूर्णं यथाशक्त्या निवेदयेत् ॥
मांसेन प्रीणनं तस्यास् ततः पूज्याश् च कन्यकाः ।
गोशकृत् प्राश्य विधिवत् ततो भुञ्जीत वागयतः ॥
प्रीणयित्वा द्विजान् शक्त्या योषितश् च नराधिप ।
य एवं पूजयेद् भक्त्या वैष्णवीं सततं नरः ॥
विमानवरम् आरूढो विष्णुलोके महीयते ।
राजन्न् आश्वयुजे मासि यः कुर्यान् नक्तभोजनम् ॥
गुडोदनं प्रभुञ्जीत जितात्मा संयतेन्द्रियः ।
उपवासपरो भूत्वा नवम्यां पक्षयोर् द्वयोः ॥
माहेश्वरीं पूजयेत् तु कृत्वा रुक्ममयीं शुभाम् ।
वृषभं च ततो वीर श्वेतपुष्पोपलेपनैः ॥
अजानां महिषाणां च मेषाणां च तथा वधात् ।
प्रीणयेद् विधिवद् देवीं मांसशोणिततर्पणैः ॥
कुमारीं भोजयेद् भक्त्या ब्राह्मणान् योषितस् तथा ।
भक्ष्यभोज्यैर् अनेकैश् च मांसैश् च विधिवन् नृप ॥
पूजयित्वा तु यां दुर्गां बिल्वपत्रैश् च द्रोणकैः ।
बिल्वपत्राशनात् पूतस् ततो भुञ्जीत वाग्यतः ॥
[२८१] एवं सम्पूजयित्वा तु भक्त्या माहेश्वरीं नृप ।
अश्वमेधसहस्रस्य फलं प्राप्य दिवं व्रजेत् ॥
द्विजाङ्गप्रभया तुल्यः कान्त्या पुष्पायुधस्य च ।
पुष्पकं यानम् आरूढो मोदते शाश्वतीः समाः ॥
कार्तिके मासि राजेन्द्र यः कुर्यान् नक्तभोजनम् ।
क्षीरोदनं प्रभुञ्जानः सत्यवादी जितेन्द्रियः ॥
पूजयेच् छ्रद्धया देवीं वाराहीं चक्रधारिणीम् ।
शतपत्रस्रजाभिश् च कुङ्कुमेन विलेपयेत् ॥
कृष्णागरुं सिह्लकं च धूपं देवै निवेदयेत् ।
नैवेद्यं खण्डवेष्टं तु नवम्यां पक्षयोर् द्वयोः ॥
एवं सम्पूज्य वाराहीं कुमारीं भोजयेत् ततः ।
ब्राह्मणांश् च यथाशक्त्या ततो भुञ्जीत वाग्यतः ॥
प्राशयित्वा तिलान् वीर दत्वा हुत्वा च शक्तितः ।
एवं सम्पूजयित्वा तु वाराहीं स्वर्गम् आप्नुयात् ॥
क्रीडते विष्णुना सार्धं क्रीडमानैः सुरासुरैः ।
पुनर् एत्य भुवं राजा सार्वभौमो भवेन् नृप ॥
राजन् मार्गशिरे मासि यः कुर्यान् नक्तभोजनम् ।
भुञ्जानः शष्कुलीर् नित्यं जितात्मा च जितेन्द्रियः ॥
पूजयेद् विधिवद् भक्त्या चामुण्डां मुण्दसूदनीम् ।
नीलोत्पलैस् तथा पद्मैः बिल्वपत्रकदम्बकैः ॥
चन्दनागरुकर्पूरैर् गुग्गुलेन तथा नृप ।
[२८२] भक्ष्यैर् भोज्यैर् अनेकैश् च सुरामांसैर् अनेकशः ॥
रुधिरेण तथा वीर शिरोभिर् विविधैस् तथा ।
अजानां महिषाणां च स्वदेहस्य च भेदनात् ॥
नवम्यां विधिवद् भक्त्या पक्षयोर् उभयोर् अपि ।
कुमारीर् भोजयेच् चापि ब्राह्मणान् योषितस् तथा ॥
पञ्चगव्यकृतस्नानो ‘सृक् प्रास्य (च) विधानतः ।
ततो भुञ्जीत राजेन्द्र भूमिं कृत्वा तु भाजनम् ॥
य एवं पूजयेद् भक्त्या चामुण्डां सततं नरः ।
स याति परमं स्थानं यत्र सा परमा कला ॥
सौवर्णं यानम् आरूढो ध्वजमालकुलं शुभम् ।
मोदते दैवतैः सार्धं यावद् इन्द्रियाश् चतुर्दश ॥
पुनर् एत्य महाराज राजा भवति भूतले ।
प्रभयोज्ज्वलसङ्काशस् तेजश् वह्नि सन्निभः ॥
कान्त्या चन्द्रमसो वीर बुद्ध्या धिषण्शुक्रयोह् ॥
इत्य् उपभनवमीव्रतम् ।
[२८३]
[अथ नामनवमीव्रतम्]
नवम्यां शुकपक्षे तु कृते नक्ते विशेषतः ।
मासि चाश्वयुजे वीर दुर्गा देवीति पूजयेत् ॥
बिल्वपत्रैः स्रजाभिश् च द्रोणपुष्पैस् तु सर्वशः ।
गुग्गुलेनाज्यदिग्धेन भक्ष्यभोज्यैर् अनेकशः ॥
परमान्नेन रत्नेन महिषाजैर् विघातितैः ।
सम्प्रीणनं तथा कुर्याद् देव्या वै भक्तिम् आचरन् ॥
भोजयित्वा नवम्यां तु ब्राह्मणानां च कन्यकाः ।
ब्राह्मणांश् च स्त्रियश् चान्या यथाविभवशक्तितः ॥
पञ्चगव्यं ततः प्रास्य नक्तं भुञ्जीत वाग्यतः ।
य एवं पूजयेद् अत्र दुर्गां भक्तिसमन्वितः ॥
सो ‘श्वमेधसहस्रस्य फलं प्राप्य दिवं व्रजेत् ।
कृत्वोपवासम् अष्टम्यां मासि मार्गशिरे नृप ॥
नवम्यां पूजयेद् यस् तु भक्त्या भगवतीं बुधः ।
नाम्ना भगवतीत्य् एवं जातीपुष्पैर् नराधिप ॥
कर्पूरागरुधूपेन मधुना पायसेन च ।
भोजयित्वा कुमारीस् तु स्त्रियो विप्रांश् च शक्तितः ॥
[२८४] गोमयं प्रास्य विधिवत् ततो भुञ्जीत वाग्यतः ।
एवं च पूजयेद् भक्त्या नरो भवतीं तथा ॥
राजसूयफलं प्राप्य स गच्छति नरो दिवम् ।
पुष्ये ‘प्य् एवं महाबाहो नवम्यां च जितेन्द्रियः ॥
पूजयेत् त्र्यम्बिकां चैव नाम्नानेन नरः शिवाम् ।
करवीरस्य पुष्पैस् तु कुङ्कुमस्य च केसरैः ॥
निवेद्य सिल्हकं धूपं नैवेद्यं मांसपूपकाः ।
भोजयेद् विप्रकन्यास् तु स्त्रियो विप्रांश् च शक्तितः ॥
विधिवत् प्राश्य गोमूत्रं ततो भुञ्जीत वाग्यतः ।
य एवं पूजयेद् अत्र वाजपेयशतं लभेत् ॥
माघशुक्लनवम्यां तु पूजयेद् अम्बिकां बुधः ।
सर्वमङ्गलनामाख्यां यूथिकाकुमुदैर् नृप ॥
प्रबोधाख्येन धूपेनाप्य् अथ वा गुग्गुलेन च ।
नैवेद्यं चैव पूपाश् च मत्स्यमांसं च भारत ॥
पूजयित्वा नरो ‘प्य् एवं विधिवत् सर्वमङ्गलाम् ।
कुमारीं भोजयेच् छक्त्या स्त्रियो विप्रांश् च शक्तितः ॥
[२८५] शृङ्गपक्षालनं तोयं विधिवत् प्राश्य सुव्रत ।
अश्नीयाद् वाग्यतो ह्य् एवं ध्यायमानस् तु चण्डिकाम् ॥
य एवं पूजयेद् भक्त्या विधिवत् सर्वमङ्गलाम् ।
गोमेधानां शतं लब्ध्वा गोलोके स महीयते ॥
फाल्गुने मासि राजेन्द्र चण्डिकेति सदार्चयेत् ।
नाम्ना भगवतीं देवीं कञ्जपुष्पैस् तु पूजयेत् ॥
धूपेनागरुणा वीर सिल्हकेनापि चार्चयेत् ।
नैवेद्यं मोदकान् दत्वा मधु मांसं पयस् तथा ॥
पूर्वोक्तान् भोजयित्वा तु यथाशक्त्या विधानतः ।
य एवं पूज्य विधिवच् चण्डिकां चण्डमुण्डनीम् ॥
अग्निष्टोमस्य यज्ञस्य फलं शतगुणं भवेत् ।
चैत्रे मासि महाबाहो आर्या भगवती स्मृता ॥
पूजयेद् विधिवद् भक्त्या पुष्पैर् मुद्गरकस्य च ।
धूपेन कुसुमौघेन कासारेण च पूजयेत् ॥
[वैशाखे मासि राजेन्द्र नाम्ना भगवतीं यजेत् ।]
प्राशयेत् पुष्पतोयं तु ततो भुञ्जीत वाग्यतः ॥
कुमारीं भोजयेद् भक्त्या योषितो ब्राह्मणांस् तथा ।
[२८६] एवं पूज्याम्बिकां चात्र ज्योतिष्टोमफलं लभेत् ॥
ज्येष्ठे मासि प्रियां देवीं [पूजयेद् अम्बिकाम् उमाम् ।
कुशपुष्पोदकं प्राश्य ततो भुञ्जीत वाग्यतः ॥
कुमारीर् योषितो विप्रान्] पूजयेद् विधिवन् नृप ।
यूथिकाकुसुमैर् भक्त्या धूपेन हि बलेन च ॥
“बलेन” गन्धरसेन ।
शाल्योदनरसानां च श्रियै नैवेद्यम् आदिशेत् ।
एवं पूज्य श्रियं देवीं विष्णुलोके महीयते ॥
आषाढे शुक्लपक्षस्य नवम्यां पूजयेद् उमाम् ।
कर्णकोटीति नाम्नी वै लम्बकर्णा प्रकीर्तिता ॥
शमीपत्रकदम्बैस् तु पूजयेद् विधिवन् नृप ।
**[**कर्पूरागरुमिश्रेण धूपेन च कपालिनाम् ॥
पूजयित्वा भगवतीं कुमारीं भोजयेत् ततः ।
स्त्रियश् चापि यथाशक्त्या ब्राह्मणांश् च नराधिप ॥
शमीपत्रं ततः प्राश्य ततो भुञ्जीत वाग्यतः ।
एवं पूज्य महाकालीं राजसूयफलं लभेत् ॥
श्रावणे मासि राजेन्द्र नवम्यां चण्डमर्दिनीम् ।
नारायणीति वै नाम्ना पूजयेत् सततं बुधः ॥
रक्तैस् तिलैः सबकुलैः सकदम्बैस् तथा नृप ।
सघृतं गुग्गुलं धूपं नैवेद्यं घृतपायसम् ॥
एवं सम्पूज्य विधिवत् कुमारीर् भोजयेत् ततः ।
[२८७] योषितश् च तथा विप्रान् शक्त्या च विधिवन् नृप ॥
भोजयित्वा घृतं प्राश्य नवम्यां विधिवन् नृप ।
एवं सम्पूजयेद् देवीं स गच्छेत् परमं पदम् ॥
मासि भाद्रपदे शुक्ले नवम्यां चन्द्रिकां सदा ।
महानन्देति वै नाम्ना पूजयेद् विधिवन् नृप ॥
श्वेतरक्तैस् तथा पीतैः सर्वपुष्पैश् च भारत ।**]**
कर्पूरागरुमिश्रेण गुग्गुलेन विशेषतः ॥
भक्ष्यभोज्यैर् अनेकैश् च मोदकैर् लोपिकादिभिः ।
एवं सम्पूज्य विधिवन् महानन्दां नराधिप ॥
“लोपिका” गोधूमचूर्णपिण्डिका ।
कुमारीं पूजयेद् भक्त्या योषितो ब्राह्मणांस् तथा ।
भोजयित्वा ततो बिल्वं प्राशयेत् कायशोधनम् ॥
भूमिं तु भाजनं कृत्वा ततो भुञ्जीत वाग्यतः ।
एवं सम्पूजयित्वा तु ब्रह्मलोके महीयते ॥
वर्षान्ते भोजयेद् विप्रान् दुर्गाभक्तिपरायणान् ।
पायसं मधुसंयुक्तं घृतेन च परिप्लुतम् ॥
कुमारीं भोजयित्वा तु दद्याच् चात्र षडङ्गिनीम् ।
“षडङ्गिनी” गौः ।
वर्षम् एकं चरेद् एवं नैरन्तर्येण यो नरः ॥
नामाख्यां नवमीं भक्त्या तस्य पुण्यफलं शृणु ।
[२८८] सर्वपापनिविर्मुक्तः सर्वैश्वर्यफलप्रदः ॥
वसेद् दुर्गापुरे नित्यं न चेहायाति वै पुनः ।
एवं यः कुरुते पुण्यां नवमीं नामसञ्ज्ञिताम् ॥
स हि कामान् अवाप्याथ ब्रह्मलोके महीयते ।
अपुत्रो लभते पुत्रान् अधनो लभते धनम् ॥
कन्यार्थी लभते कन्यां यशोऽर्थी लभते यशः ।
इति नामनवमीव्रतम् ।
[अथ रूपनवमीव्रतम्]
सुमन्तुर् उवाच ।
शूलं पिष्टमयं कृत्वा ज्येष्ठे मासि नराधिप ।
कृत्वा तु राजतं पात्रं सुवर्णकृतकर्णिकम् ॥
निवेद्य श्रद्धया वीर भगवत्यै प्रपूज्यताम् ।
कामतो ‘पि कृतं कापं भ्रूणहत्यादि यद् भवेत् ॥
तत् सर्वं शूलदानेन देवी नाशयते ध्रुवम् ।
विमानवरम् आरूढो देवगन्धर्वपूजितः ॥
कल्पकोटिशतं साग्रं स्वर्गलोके महीयते ।
चण्डिका प्रीयतां मेति य एवं नृप यच्छति ॥
[२८९] क्षमा सत्यं दया दानं शौचम् इन्द्रियनिग्रहः ।
दुर्गापूजाग्निहवनं सन्तोषस्तेयवर्जनम् ॥
सर्वव्रतेष्व् अयं धर्मः सामान्येन व्यवस्थितः ।
विशेषम् अपि वक्ष्यसि प्रतिमासं व्रतं तु ते ॥
मार्गशीर्षे शुभे मासि हंसपिष्टविनिर्णयम् ।
गन्धमाल्यैर् अलङ्कृत्य ब्रह्माण्यै विनिवेदयेत् ॥
वर्षकोटिशतं साग्रं दुर्गालोके महीयते ।
पौषे गजं चतुर्दन्तं गन्धमाल्यैर् अलङ्कृतम् ॥
कृत्वा रुक्ममयं भक्त्या न्यस्य पात्रे हिरण्मये ।
इन्द्राण्यै विधिवद् दद्यान् नानामणिविभूषितम् ॥
य एवं पूजयेद् भक्त्या इन्द्राणीं श्रद्धया नरः ।
ऐरावतसमारूढः सौम्यलोके महीयते ॥
वर्षकोटिशतं साग्रं देवगन्धर्वपूजितः ।
माघे कृत्वा तु वै मेषं सौवर्णमयम् उत्तमम् ॥
कृत्वा रुक्ममये पात्रे स्वाहायै विनिवेदयेत् ।
नानागन्धैः समायुक्तं नानापुष्पोपशोभितम् ॥
विनिवेद्य नरो भक्त्या ह्य् अग्निलोके महीयते ।
दिव्यं विमानम् आरूढो ध्वजमालाकुलां शुभाम् ॥
पुनर् एत्य महीं राजा मण्डलाधिपतिर् भवेत् ।
मयूरं फाल्गुने मासि कृत्वा पिष्टमयं नृप ॥
गन्धमाल्यैर् अलङ्कृत्य कुमार्यै विनिवेदयेत् ।
निवेद्य विधिवद् भक्त्या विमानवरम् आस्थितः ॥
[२९०] क्रीडते देवगन्धर्वैर् गुहेन च महात्मना ।
चैत्रे मासि महाबाहो गरुडं पिष्टजं कृतम् ॥
सम्पूजयित्वा विधिवद् वैष्णव्यै विनिवेदयेत् ।
स्रजाभिर् विविधैर् वीर गन्धमाल्योपशोभितैः ॥
तं निवेद्य महाबाहो विष्णुलोके महीयते ।
चित्रयानं समारुह्य नानामणिकदम्बकैः ॥
वर्षकोटिशतं साग्रं तेजसा प्रज्वलन्न् इव ।
कृत्वा मणिमयं वीर हारं वै लोकपूजितम् ॥
गन्धमाल्योपहारैश् च पूजयित्वा विधानतः ।
वाराह्यै विनिवेद्येह इन्द्रलोके महीयते ॥
वर्षकोटिशतं साग्रं तेजसा वह्निसन्निभः ।
वैशाखे मासि राजेन्द्र कृत्वा देवं प्रणम्य तु ॥
सर्वताम्रमयं भक्त्या सुवर्णमणिभूषितम् ।
पूजयित्वा विचित्रैस् तु कुङ्कुमैर् गुग्गुलेन च ॥
चामुण्डायै निवेद्येह चिन्तितं लभते फलम् ।
प्रयाति च परं लोकं यत्र सा चण्डिका स्थिता ॥
सौरादिसर्वलोकेषु भुक्त्वा भोगान् अशेषतः ।
क्रमाद् आगत्य लोके ‘स्मिन् नरेन्द्रो जायते घ्रुवम् ॥
बहुपुत्रो बहुधनः सर्वशत्रुभयङ्करः ।
[२९१] कृत्वा पिष्टमयं वीर कच्छपं रत्नभूषितम् ॥
भूषयित्वा स्रजाभिस् तु पुष्पाणां चन्दनेन च ।
निवेद्य भक्त्या वारुण्यै रुद्रलोके महीयते ॥
शङ्खकुन्देन्दुसङ्काशं विमानवरम् आस्थितः ।
वर्षकोटिशतं साग्रं क्रीडयित्वा नराधिपः ॥
पुनर् एत्य महीं राजा मण्डलाधिपतिर् भवेत् ।
कृत्वा मृगं पिष्टमयम् आषाढे रत्नभूषितम् ॥
स्वर्णशृङ्गं रौप्यखुरं वायव्यै विनिवेदयेत् ।
पूजयित्वा तु विधिवत् पुष्पधूपोपलेपनैः ॥
निवेद्यैवं महाबाहो वायुलोके महीयते ।
नरयानं पिष्टमयं कृत्वा राजन् सुशोभनम् ॥
अनेकरूपकोपेतं श्रावणे मासि भूपते ।
पुष्पमालाकुलं दिव्यं ध्वजमालाकुलं तथा ॥
गन्धपुष्पोपहारैश् च पूजयित्वा विधानतः ।
कौबेर्यै विनिवेद्येह चाश्वमेधफलं लभेत् ॥
प्रयाति च परं स्थानं दुर्गादेवीप्रपूजितम् ।
कृत्वा भाद्रपदे मासि सर्वहेममयं विभो ॥
महिषं दिव्यसंस्थानं गन्धमाल्योपशोभितम् ।
[२९२] याम्यै निवेदयेद् भक्त्या भगत्यै विधानतः ॥
एवं निवेदयेद् भक्त्या सूर्यलोके महीयते ।
मासि चाश्वयुजे वीर मृन्मयं वृषभं शुभम् ॥
कृत्वा निवेदयेद् भक्त्या माहेश्वर्यै विधानतः ।
बिल्वपत्रस्रजाभिस् तु पूजयित्वा विधानतः ॥
आश्विन्यैश् चैव गोधूमैर् भक्ष्यभोज्यैर् अनेकशः ।
नानावस्त्रसमायुक्तं कृत्वा पुष्पमयं शुभम् ॥
विचित्रयानम् आरूढो रुद्रलोके महीयते ।
कल्पकोटिशतं साग्रं स्वर्गे वसति क्रीडयेत् ॥
अप्सरोगणसंयुक्तः क्रीडन् सुरगणैः सह ।
कामम् आगत्य लोके ‘स्मिन् राजा भवति भूतले ॥
सप्तधान्यसमायुक्तं सर्वबीजरसादिभिः ।
बलवद्वर्तनं वीर वितानच्छ्त्रशोभितम् ॥
गन्धमाल्यैश् च बहुभिः पूजितं च तथा नृप ।
कृत्वा रौप्यमयं भक्त्या विधिवच् चन्द्रमण्डलम् ॥
सुवर्णमणिमुक्ताढ्यं रोहिण्यै विनिवेदयेत् ।
[२९३] य एवं कुरुते भक्त्या तस्य पुण्यफलं शृणु ॥
वेदागमेषु यत् पुण्यं कथितं मुनिभिः पुरा ।
तत् पुण्यं कोटिगुणितं प्राप्नुयान् नात्र संशयः ॥
स याति परमं स्थानं यत्र सा चण्डिका स्थिता ।
देवदानवगन्धर्वैः स्तूयमानो गणादिभिः ॥
कल्पकोटिशतं साग्रं क्रीषते सह दैवतैः ।
दन्द्रलोकादिलोकेषु भोगान् भुक्त्वा यथेप्सितान् ॥
पुण्यक्षयाद् इहागत्य पुनर् एव महीपतिः ।
सुरूपः सुभगो नित्यं चण्डिकावरदानतः ॥
यच् च कामं समुद्दिश्य नरनारीनपुंसकाः ।
पूजयन्ति यदा देवीं तत् सर्वं तु लभन्ति ते ॥
मृन्मयं दारवं शैलम् इष्टकाभिः कृतं तथा ।
गृहं सञ्चर राजेन्द्र यथाविभवविस्तरैः ॥
सर्वोपकरणोपेतं सर्वधान्यप्रपूरितम् ।
भगवत्यै गृहं दत्वा सर्वान् कामान् अवाप्नुयात् ॥
य एवं कुरुते नक्तं स्वयम् एककम् आदरात् ।
नवम्याम् उपवासं तु कुर्वाणो विधिवन् नृप ॥
रूपाणि यच्च्छमानस् तु पूर्वोक्तानि नराधिप ।
अश्वमेधसहस्रस्य राजसूयशतस्य च ॥
लब्ध्वा फलं महाबाहो ब्रह्मलोके महीयते ।
[२९४] कल्पकोटिसहस्राणि पूज्यमानः सुरासुरैः ॥
पुण्यक्षयाद् इहागत्य पुनर् एव महीपतिः ।
राजा भवति दुर्धर्षः सप्तद्वीपाधिपो नृप ॥
इति रूपनवमीव्रतम् ।
[अथ रथनवमीव्रतम्]
सुमन्तुर् उवाच ।
कृत्वैवाश्वयुजे मासि शुक्लपक्षे नराधिप ।
नवम्याम् उपवासं तु दुर्गादेवीं प्रपूजयेत् ॥
पुष्पधूपोपहारैश् च ब्राह्मणानां च तर्पणैः ।
पूजयित्वा रथं कृत्वा नानावस्त्रोपशोभितम् ॥
शोभितं ध्वजमालाभिश् छत्रचामरदर्पणैः ।
नानापुष्पस्रजाभिस् तु सिंहैर् युक्तां मनोरमाम् ॥
कृत्वा स्वर्णमयीं दुर्गां महिषासनशोभिताम् ।
विन्यस्य रथमध्ये तु पूजयेत् कृतलक्षणाम् ॥
तं रथं राजमार्गेण शङ्खभेर्यादिनिःस्वनैः ।
नवम्यां भ्रामयित्वा तु नयेद् दुर्गालयं नृप ॥
[२९५] तत्र जागरपूर्वं तु प्रदीपाद्युपशोभिताम् ।
नानाप्रेक्षणकैर् वीर नृत्यमानैश् च पुत्रकैः ॥
जागरं कारयेत् तत्र पूजयानश् च चण्डिकाम् ।
प्रभाते स्नपनं कृत्वा तद्भक्तानां च शोभितम् ॥
रथं शोभासमायुक्तं भगवत्यै निवेदयेत् ।
भुक्त्वा च बान्धवैः सार्धं प्रणम्यार्यां गृहं व्रजेत् ॥
सर्वव्रतानां प्रवरं सर्वपापप्रणाशनम् ।
नवमीरथव्रताख्यं सर्वकामार्थसाधनम् ॥
सर्वयज्ञेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम् ।
तत् सर्वं सकलं विद्यान् नवमीव्रतपालनात् ॥
कल्पकोटिशतं साग्रं विष्णुलोके महीयते ।
पुनर् एत्य महीं राजा सार्वभौमो भवेद् इति ॥
नानोपकरणैर् युक्तां दन्तदारुमयीं शुभाम् ।
शक्त्या निवेदयेद् यस् तु भगवत्यै नराधिप ॥
सम्पूज्य गन्धपुष्पाद्यैर् विधिवच् चण्डिकां नृप ।
दुकूलतूलवस्त्राणां परिसङ्ख्या तु यावती ॥
तावद् वर्षसहस्राणि दुर्गालोके महीयते ।
वृषं शूलाङ्कितं यस् तु भगवत्यै निवेदयेत् ॥
आसप्तमं सप्तकुलं गृह्य देवालयं व्रजेत् ।
[२९६] यश् चोभयमुखीं गां च भगवत्यै सुशोभनाम् ॥
सप्तद्वीपां धरां दत्वा यत् फलं तद् अवाप्नुयात् ।
पादद्वयं शिरोऽर्धं वा यावद् वत्सस्य निर्गतम् ॥
तावद् गौः पृथिवी ज्ञेया तद्दाता स्यान् महीप्रदः ।
इति रथनवमीव्रतम् ।
[अथ वरनवमीव्रतम्]
नवम्यां नववर्षाणि राजन् पिष्टाशनो भवेत् ।
तस्य तुष्टा भवेद् देवी सर्वकामप्रदा शुभा ॥
अग्निपक्वम् अभुञ्जानो यावज्जीवं व्रती भवेत् ।
इह चामुत्र वरदा तत्राक्षतफलं भवेत् ॥
इति वरनवमीव्रतम् ।
[महानवमीव्रतम्]
नवम्यां शुक्लपक्षे तु सोपवासो जितेन्द्रियः ।
मासि चाश्वयुजे वीर कार्तिके कार्तिकोत्तरे ॥
[२९७] पुष्ये च पूजयेद् देवीं जातीपुष्पैर् विधानतः ।
धूपार्थे गुग्गुलं दद्यान् नैवेद्यं गुडपूपकान् ॥
दुर्गेति नाम जप्तव्यं पुरतो ‘ष्टशतं नृप ।
माघे च फाल्गुने मासि चैत्रे चैत्रोत्तरे नृप ॥
शुक्लपक्षे तथाष्टम्याम् उपवासपरायणः ।
मालतीकरवीरैश् च बिल्वपत्रैश् च पूजयेत् ॥
धूपेनागरुकर्पूरसिल्हकैर् वृषणेन च ।
नैवेद्यं पायसं मांसं मङ्गलायै निवेदयेत् ॥
सर्वमङ्गलनामेति जप्तव्यं नाम भारत ।
ज्येष्ठे मासि तथाषाढे श्रावणे श्रावणोत्तरे ॥
चण्डिकां पूजयेद् भक्त्या चण्डमुण्डप्रणाशिनीम् ।
बिल्वपत्रैः समुकुलैः शतपत्रिकया तथा ॥
प्रबोधेनैव धूपेन नैवेद्ये मोदकान् न्यसेत् ।
स्वम् एकम् एकं यस् त्व् एवं पूजयेद् अम्बिकां नरः ॥
नवम्यां शुक्लपक्षे तु सोपवासो जितेन्द्रियः ।
अश्वमेधसहस्रस्य राजसूयशतस्य च ॥
फलं प्राप्नोति राजेन्द्र स्वर्गलोकं च गच्छति ।
विमानं दिव्यम् आरूढः सौवर्णं किङ्किणीयुतम् ॥
[२९८] क्रीडित्वैवं महाराज राज भवति भूतले ।
प्रथमे पारणे दुर्गा द्वितीये सर्वमङ्गला ॥
तृतीय चण्डिका प्रोक्ता राजन् भगवती बुधैः ।
प्रथमं पञ्चगव्यं च स्नानप्राशनयोर् मतम् ॥
द्वितीयं बिल्वपत्रैश् च तृतीयं मधुसर्पिषा ।
मासि मासि महाबाहो कुमारीर् ब्राह्मणान् नृप ॥
स्वशक्त्या भोजयेद् राजन् भक्ष्यभोज्यैर् अनेकशः ।
पारणान्ते महाभोज्यं कर्तव्यं विधिवन् नृप ॥
गन्धपुष्पोपहारैश् च चण्डिकां पूजयेत् ततः ।
नानाप्रेक्षणकैर् वीर ब्रह्मघोषैस् तु पुष्कलैः ॥
पुण्याख्यानकथाभिश् च पूजया वाचकस्य च ।
विशेषतः स्वम् एकान्ते व्रते चीर्णे नराधिप ॥
महानवम्यां विधिवद् भक्ष्यभोज्यैर् अनेकशः ।
नवरात्रोपवासेन त्रिरात्रे वाथवा नृप ॥
पूर्वोक्तेन विधानेन महिषाजनिपातनैः ।
कुमारी भोजनैर् वीर ब्राह्मणानां च तर्पणैः ॥
गोमहिष्यजदानैश् च बिल्वपत्रस्रजादिभिः ।
स्वम् एकम् एकम् एवं तु व्रतेनानेन यो ‘र्चयेत् ॥
महानवमीसञ्ज्ञेन दुर्गाभक्त्या नराधिप ।
स याति परमं स्थानं विमानवरम् आस्थितः ॥
[२९९] यत्र देवी भगवती पूज्यमाना पुरःस्थिता ।
इति महानवमीव्रतम् ।
[अथानन्दानवमीव्रतम्]
सुमन्तुर् उवाच ।
आनन्दा नन्दिनी नन्दा महानन्दा महीपते ।
तथान्या नवमी पुण्या पञ्चमी महती स्मृता ॥
फाल्गुनामलपक्षस्य नवमी या महीपते ।
आनन्दा सा महापुण्या सर्वपापहरा मता ॥
कृत्वैकभक्तं पञ्चम्यां षष्ठ्यां नक्तं तथा नृप ।
अयाचितं तु सप्तम्याम् उपवासो परे ‘हनि ॥
य एवं पूजयेद् भक्त्या नवम्यां विधिवन् नृप ।
सोपवासो ‘र्चयेद् देवीं स याति परमं पदम् ॥
श्रीखण्डं चन्दनं वीर कर्पूरम् अगरुं तथा ।
अनेन भूषयेद् देवीं धूपं दद्यात् तथागरुम् ॥
मुद्गराणां स्रजाभिस् तु पुष्पैर् अन्यैश् च पूजयेत् ।
नैवेद्यं पायसं दद्या रसालामोदकं तथा ॥
पञ्चगव्यं प्रशस्तं हि स्नानप्राशनयोर् नृप ।
जप्तव्यं नाम वै देव्या अरुणाभा भयापहा ॥
इत्य् एतत् प्रथमं प्रोक्तं पारणं पापनाशनम् ।
मासैश् चतुर्भिर् आदीयं द्वितीयं पारणं शृणु ॥
[३००] “आदीयं” आद्यम् ।
भोजयेद् विप्रकन्याश् च नवभ्यां ब्राह्मणांस्त्रियः ।
मासि मासि महाबाहो यथाशक्त्या यथाविधि ॥
आषाढे श्रावणे मासि मासि भाद्रपदे तथा ।
तथा चाश्वयुजे मासि पूजयेद् भगवतीं विभो ॥
कृत्वैकभक्तं पञ्चम्यां षष्ठ्यां नक्तं तथा नृप ।
अयाचितं तु सप्तम्याम् उपवासो परे ‘हनि ॥
सोपवासो नवम्यां तु पूजयेद् विधिवच् छिवाम् ।
सो ‘श्वमेधफलं प्राप्य विष्णुलोके महीयते ॥
जातीपुष्पस्रजाभिश् च तथा रक्तैश् च चन्दनैः ।
कस्तूरिकाकृतैर् गन्धैर् देवीम् आलेपयेत् तथा ॥
माहिष्याज्यं गुग्गुलं च धूपं परमपूजितम् ।
नैवेद्यं गुडपूपाश् च खण्डवेष्टाश् च शक्तितः ॥
बिल्वपत्रोदकं स्नाने प्राशने च प्रकीर्तितम् ।
दुर्गाख्यं नाम जप्तव्यं सर्वपापभयापहम् ॥
इत्य् एवं पूजयित्वार्यां पूजयित्वा गुरुं तथा ।
कुमारीं भोजयेच् छक्त्या ब्राह्मणान् योषितस् तथा ॥
एवं यः पूजयेद् भक्त्या यथाविभवम् आत्मनः ।
स सिंहयानम् आरूधो ब्रह्मलोके प्रयाति वै ॥
[३०१] तृतीयं पारणं वच्मि सर्वपापहरं शिवम् ।
कार्तिकादि महापुण्यं दुर्गायाः प्रीतिवर्धनम् ॥
नानाविधानां पुष्पाणां जलजानां विशेषतः ।
स्रजाभिर् अर्चयेद् देवीं जगत्तोषणकारिणीम् ॥
कुङ्कुमागरुर् कर्पूरैः सुगन्धैश् च प्रलेपयेत् ।
सोमगर्भैस् तथा बक्ष्यैर् विष्णोश् चापि प्रपूजयेत् ॥
धूपो बिल्वशिरः शस्तः सघृतो गुग्गुलस् तथा ।
तिलैर् होमस् तथा कार्यस् तिलानां प्राशनं वरम् ॥
जपेन् नाम तथा देव्याः सर्वपापप्रणाशनम् ।
अपराजिताख्यम् अतुलं जपतां सततं नृणाम् ॥
एवं यः कृच्छ्रपादेन नवमीं समुपासते ।
मासि मासि महाबाहो वत्सरं यावद् एव हि ॥
स हि पुत्रान् अवाप्याथ ब्रह्मलोके महीयते ।
इत्य् आनन्दानवमीव्रतम् ।
[३०२]
[अथ नन्दिनीनवमीव्रतम्]
सुमन्तुर् उवाच ।
मासि मार्गशिरे मासि शुक्लपक्षे तु या भवेत् ।
सा नन्दिनी महापुण्या नवमी परिकीर्तिता ॥
यस् त्व् अस्यां पूजयेद् देवीं त्रिरात्रोपोषितो नरः ।
सो ‘श्वमेधम् अवाप्येह विष्णुलोके महीयते ॥
प्रथमे पारणे वच्मि चण्डिकापूजने विधिम् ।
जातीपुष्पस्रजाभिस् तु नानापुष्पकदम्बकैः ॥
पूजयेद् विधिवद् दुर्गां सर्वदानवसूदनीम् ।
नानाविधैर् गन्धपुष्पैः कर्पूरागरुमिश्रितैः ॥
प्रलेण्येद् यथाशक्त्या सिल्हकेन (च) धूपयेत् ।
भक्ष्यं भोज्यं तथा लेह्यं चोष्यं पेयं स्वशक्तितः ॥
नैवेद्यं च महाबाहो दुर्गादेव्यै निवेदयेत् ।
पञ्चगव्यकृतस्नानो जपमानस् तथाम्बिकाम् ॥
पूजयेद् विधिवद् दुर्गां ततः शाण्डिलिनीसुताम् ।
कुमारीं भोजयेद् वीर ब्राह्मणान् योषितस् तथा ॥
भुञ्जीत वागयतः पश्चाद् भूमिं कृत्वा तु भाजनम् ।
इति ते कथितं वीर पारणं प्रथमं मया ॥
द्वितीयं शृणु राजेन्द्र समासाद् गदतो मम ।
मासेषु राजन् सर्वेषु ज्येष्ठा ज्येष्ठे समाहितः ॥
पूजयेद् विधिवद् दुर्गां नानापुष्पादिधूपकैः ।
मुद्गराणां कदम्बैश् च जातीपुष्पकदम्बकः ॥
[३०३] चन्दनागरुकर्पूरैर् दुर्गां देवीं प्रपूजयेत् ।
श्रीवेष्टैः पयसा वीर पायसेन तथाम्बुजैः ॥
चण्डिकां पूजयेद् भक्त्या कुशदध्योदनेन च ।
नारायणीति वै नाम त्रिकालं तु जपेद् बुधः ॥
प्राशयेद् गोमयं शस्तं दूर्वाङ्कुरसमन्वितम् ।
स्नानम् आमलकैः शस्तं सर्वपापप्रणाशनम् ॥
पञ्चगन्धेन वा स्नानं कर्तव्यं कायशोधनम् ।
य एवं कुरुते राजन् नन्दिनीं नवमीं व्रती ॥
सुधीः सुचन्द्रयानेन स्वर्गलोके महीयते ।
बृन्दारकगणैः सार्धं क्रीडते शाश्वतीः समाः ॥
पुनर् एत्य महाबाहो राजा भवति भूतले ।
विक्रमेण हरेस् तुल्यो विभुत्वेन हरेस् तथा ॥
तेजसा च हरेस् तुल्यो गाम्भीर्ये सागरस्य च ।
बहुपुत्रो बहुधनः कीर्तिमान् राजवल्लभः ॥
भुक्त्वा तु विपुलान् भोगान् पुनः स्वर्गम् अवाप्नुयात् ।
इति नन्दिनीनवमीव्रतम् ।
[अथ नन्दानवमीव्रतम्]
सुमन्तुर् उवाच ।
मासि भाद्रपदे या तु नवमी बहुलोत्तरा ।
[३०४] सा तु नन्दा महापुण्या कीर्तिता पापनाशिनी ॥
तस्यां यः पूजयेद् दुर्गां विधिवत् कुरुनन्दन ।
सो ‘श्वमेधफलं विन्द्याद् विष्णुलोकं च गच्छति ॥
एकभक्तस् तु सप्तम्याम् अष्टम्यां समुपोषितः ।
जातीपुष्पैः कुन्दयूथैः पूजयेद् विधिवच् छिवाम् ॥
दूर्वोपरि स्थितां देवीं यथानामविनिर्मिताम् ।
खर्जूरैर् नारिकेलैश् च पुष्पैश् चामलकैस् तथा ॥
पूजयेत् सप्तधान्येन पिण्याकेन च सुव्रत ।
दध्ना शुद्धेन धूपेन दूर्वाङ्कूरैश् च धूपयेत् ॥
प्रजागरं ततो रात्रौ नन्दायाः पुरतो नृप ।
नानाप्रेक्षणकैः कुर्याद् ब्रह्मघोषैश् च पुष्कलैः ॥
नन्दाख्यं च जपेन् मन्त्रम् अष्टोत्तरशतं विभो ।
“नन्दाख्यम्” ॐ नन्दायै नमः इति मन्त्रः ।
प्रभाते तु नवम्यां वै पूजयित्वा तु चण्डिकाम् ॥
प्रीणयित्वा गुरून् शक्त्या कुमारीं भोजयेत् ततः ।
एवं चाश्वयुजे मासि कार्तिके कार्तिकोत्तरे ॥
पूजयेच् चतुरो मासान् नन्दां भगवतीं विभो ।
स्नाने कुशोदकं प्रोक्तं प्राशयेच् च नराधिप ॥
इत्य् एतत् कथितं वीर प्रथमं पारणं शूभम् ।
[३०५] द्वितीयं शृणु मे पौषे पारणं पापनाशनम् ॥
चण्डिकां पूजयेद् अत्र नाम्ना कनकनन्दिनीम् ।
नानास्रजाभिः कुसुमैः कुङ्कुमागरुचर्चिताम् ॥
नानाविधैर् भक्ष्यभोज्यैर् धूपेनागरुणा तथा ।
पञ्चगव्यकृतस्नानः सोपवासो जितेन्द्रियः ॥
पूजयित्वा महादेवीं रात्रौ स्वपिति भूतले ।
पुनर् नवम्यां सम्पूज्य विधिवत् कनकनन्दिनीम् ॥
कृत्वा तु शाण्डिलीपुत्र कुमारीं भोजयेत् ततः ।
वैशाखादिषु मासेषु पूजयेद् विधिनाच्युताम् ॥
मुद्गराणां स्रजाभिश् चाप्य् अशोकानां च भारत ।
कुङ्कुमागरुकर्पूरैश् चन्दनेन विलेपयेत् ॥
धूपेनागरुमिश्रेण पयसा पायसेन च ।
अच्युताख्यं जपेन् नाम सर्वपापहरं शुभम् ॥
गोरोचनाम्बुना स्नानं प्राशनं गोमयस्य च ।
कृत्वोपवासं सप्तम्यां पूजयित्वा तथाच्युताम् ॥
नवम्यां भोजयेच् छक्त्या कुमारीं ब्राह्मणांस्त्रियः ।
य एवं कुरुते नन्दां नवमीं विधिवद् विभो ॥
स्वम् एकम् एकं विधिवच् चिन्तितं लभते फलम् ।
इति नन्दानवमी ।
[३०६]
[अथ महानन्दानवमी]
माघे मासे तु या शुक्ला नवमी लोकपूजिता ।
महानन्देति सा प्रोक्ता सर्वानन्दकरी नृणाम् ॥
तस्यां स्नानं तथा दानं तथा होमम् उपोषितम् ।
सर्वं तद् अक्षयं प्रोक्तं यद् अस्यां क्रियते नरैः ॥
श्वेतपुष्पस्रजाभिस् तु नन्दां भगवतीं यजेत् ।
कुसुमेन तथा वीर धूपेनागरुणा तथा ॥
मोदकैर् विविधैर् वीर फलैर् नानाविधैर् अपि ।
तिलकल्ककृतस्नानो होमयेद् विधिवत् तिलान् ॥
पूजयेच् चतुरो मासान् नन्दां भगवतीं सुभाम् ।
कुमारीं भोजयेद् भक्त्या योषितो ब्राह्मणांस् तथा ॥
ज्येष्ठादिपारणे वीर जातीपुष्पकदम्बकैः ।
पूजयेद् विधिवद् दुर्गां नाम्ना विन्ध्यनिवासिनीम् ॥
प्राशयेत् पञ्चगव्यं तु स्नानं तेनैव पुण्यदम् ।
पायसं मधुसर्पिर्भ्यां तथा दध्योदनं परम् ॥
कार्तिकादिषु मासेषु पूजयेद् वै स्मिताननाम् ।
कन्दपुष्पस्रजाभिस् तु करवीरैश् च सुव्रत ॥
कस्तूरिकाकृतैर् गन्धैर् धूपेनागरुणा तथा ।
घृतपूरैः खण्डवेष्टैः श्रीफलैश् चापि पूजयेत् ॥
गोशृङ्गक्षालनात् स्नानात् पूजयेच् च नराधिप ।
पूजयेद् विधिवद् देवीं भक्त्या श्वेतमुखीं विभो ॥
[३०७] य एवं पूजयेद् वर्षं चण्डिकां समुपोषितः ।
स सर्वकामान् वा प्राप्य ब्रह्मलोके महीयते ॥
क्रीडित्वा ब्राह्मणैः सर्धं राजा भवति भूतले ।
धनधान्यसमृद्धस् तु पुत्रवान् कीर्तिमान् भवेत् ॥
इति महानन्दानवमी ।
[अथ महानवमीव्रतम्]
सुमन्तुर् उवाच ।
माघे वाश्वयुजे शुक्ला नवमी या नराधिप ।
सा महानवमी वीर महापातकनाशिनी ॥
तस्यां या क्रियते वीर नरैः स्नानादिकं विभो ।
तत् सर्वम् अक्षयं तस्यां तद् वै सिद्धिकरं तथा ॥
द्वादश्याम् एकभक्तं तु नक्तं कुर्यात् परे ‘हनि ।
अयाचितं चतुर्दश्याम् उपवासः परे ‘हनि ॥
एवं कृच्छ्रं चरेत् प्राज्ञो यावद् वै नवमीं विभो ।
अथ वा नवरात्रं चाप्य् उपवासपरायणः ॥
पूजयेद् विधिवद् दुर्गां बिल्वपत्रैर् नराधिप ।
द्रोनपुष्पैस् तथा वीर जातीपुष्पैश् च पूजयेत् ॥
कृत्वा दुर्गागृहं भक्त्या नानावर्णादिशोबनम् ।
नानारत्नसमाकीर्णं पुष्पदामोपशोभितम् ॥
नानाघण्टासमाकीर्णं ध्वजमालोपशोभितम् ।
एवं कृत्वा गृहं देव्यास् तत्क्षणाद् दिव्यनिर्मिताम् ॥
[३०८] तथा चाभिनवां वीर त्रिशूलाकृतिम् एव हि ।
नानाविधैर् भक्ष्यभोज्यैश् चन्दनागरुकुङ्कुमैः ॥
खर्जूरैर् नारिकेलैश् च तथान्यैर् विविधैः फलैः ।
इत्थं पूज्य नरो दुर्गां सवृषां पूजयेत् ततः ॥
पूरिकालिपिकाभिश् च खण्डवेष्टैः समोदकैः ।
इत्थं सम्पूजयेद् दुर्गां मासान् वै चतुरो बुधैः ॥
भूरिणा मद्यमांसेन पशुपातं तथैव हि ।
महिषाजशिरोभिश् च मेषाणां च तथार्चयेत् ॥
इत्य् एष कथितो वीर प्रथमे पारणे विधिः ।
द्वितीयस्यापि ते वच्मि पारणस्य समासतः ॥
माघादिषु च मासेषु पूजयेद् विधिवच् छिवाम् ।
नानाविधैः सुगन्धैश् च कुसुमैर् नृप मोदकैः ॥
गुडपुष्पैश् च धूपेन गुग्गुलेन च धूपयेत् ।
भक्ष्यभोज्यैर् अनेकैश् च कुमारीं भोजयेत् ततः ॥
ज्येष्ठादिषु च मासेषु नानापुष्पकदम्बकैः ।
पूजयेद् विधिवद् भक्त्या श्रद्धया विन्ध्यवासिनीम् ॥
विलेपयेत् तथा गन्धैर् धूपेनागरुणार्चयेत् ।
चन्दनं कुङ्कुमं कुष्ठं तगरं सिल्हकं तथा ॥
अण्डजं वृषणं चैव कर्पूरागरुमुस्तकम् ।
कृष्णागरुं महाबाहो यो ‘र्चयेच् चण्डिकां श्रियम् ॥
गुडोदनेन पयसा पायसेन तथार्चयेत् ।
कुमारीं भोजयेद् भक्त्या पायसेन घृतेन च ॥
एवं सम्पूजयेद् दुर्गां वत्सरं कुरुनन्दन ।
सो ‘श्वमेधफलं विन्द्याद् इति सत्यं न संशयः ॥
इति महानवमीव्रतम् ।
[३०९]
अथ दशमीव्रतानि
[सार्वभौमव्रतम्]
तत्र वराहपुराणे ।
अगस्त्य उवाच ।
सार्वभौमव्रतं चान्यत् कथयामि समासतः ।
येन सम्यक् कृतेनाशु सार्वभौमो भवेन् नृप ॥
कार्तिकस्य तु मासस्य दशमी शुक्लपक्षगा ।
तस्यां नक्ताशनो नित्यं दिक्षु शुद्धबलिं हरेत् ॥
“शुद्धबलिः” पवित्रद्रव्यैः पूजोपहारः ।
विचित्रकुसुमैर् भक्ष्यैः पूजयेच् च द्विजांस् तथा ।
सर्वा भवत्यः सिध्यन्तु मम जन्मनि जन्मनि ॥
एवम् उक्त्वा बलिं दत्वा तासु शुद्धेन चेतसा ।
ततो ‘र्धरात्रे भुञ्जीत दध्यन्नं च सुसंस्क्र्तम् ॥
पूर्वं पश्चाद् यथेष्टं च एवं संवत्सरं नृप ।
यः करोति नृपो नित्यं तस्य दिग्विजयो भवेत् ॥
इति सार्वभौमव्रतम् ।
[३१०]
अथैकासशीव्रतानि
तत्र वराहपुराणे ।
अगस्त्य उवाच ।
एकादश्यां तु यत्नेन नक्तं कुर्याद् यथाविधि ।
मार्गशीर्षे तु शुक्लादाव् आरभ्याब्दं विचक्षणः ॥
तद् व्रतं धनस्येष्टं कृतं वित्तं प्रयच्छति ।
**नरसिंहपुराणे **।
उपवासो मुनिश्रेष्ठ एकादश्यां विधीयते ।
नरसिंहं समभ्यर्च्य सर्वपापैः प्रमुच्यते ॥
इत्य् एकादशीव्रतम् ।
अथ द्वादशीव्रतानि
तत्र विष्णुः [४९.१–८] ।
मार्गशीर्षे तु शुक्लायाम् एकादश्याम् उपोषितो द्वादश्यां च भगवन्तं वासुदेवं समर्चयेत् । सुपुष्पधूपानुलेपनदीपनैवेद्यब्राह्मणतर्पणैः । व्रतम् एतत् संवत्सरं कृत्वा पापेभ्यः पूतो भवति । यावज्जीवं कृत्वा श्वेतद्वीपम् आप्नोति । उभयपक्षाद्वादशीष्व् एवं संवत्सरेण स्वर्गलोकम् अवाप्नोति । यावज्जीवं कृत्वा विष्णुलोकम् । एवं पञ्चदशीष्व् अपि ।
ब्रह्मभूयम् अमावास्यां पौर्णमास्यां तथैव च ।
योगभूतं परिचरन् केशवं महद् आप्नुयात् ॥
इति द्वादशीव्रतम् ।
[३११]
[अथ मत्स्यद्वादशीव्रतम्]
वराहपुराणे ।
सत्य(तपा) उवाच ।
को ‘सौ धरण्यां सञ्चीर्ण उपवासो महामुने ।
कानि व्रतानि च तथा त्व् एतन् मे वक्तुम् अर्हसि ॥
दुर्वासा उवाच ।
मार्गस्य शुक्लपक्षे तु दशम्यां नियतात्मवान् ।
स्नात्वा देवार्चनं कृत्वा त्व् अग्निकार्यं यथाविधि ॥
शुचिवासाः प्रसन्नात्मा हव्यं चान्नं सुसंस्कृतम् ।
भुक्त्वा पञ्चपदं गत्वा पुनः शौचं तु पादयोः ॥
कृत्वाष्टाङ्गुलमानं तु क्षीरवृक्षसमुद्भवम् ।
भक्षयेद् दन्तकाष्ठं तु ततश् चाचम्य यत्नतः ॥
स्पृष्ट्वा खानि तथाद्भिश् च चिरं ध्यात्वा जनार्दनम् ।
शङ्खचक्रगदापाणिं पीतवासःकिरीटिनम् ॥
प्रसन्नवदनं देवं सर्वलक्षणलक्षितम् ।
ध्यात्वा जलं गृहीत्वा तु भानुरूपं जनार्दनम् ॥
दृष्ट्वार्घ्यं दापयेत् पश्चात् करतोयेन मानवः ।
एवम् उच्चारेयेद् वाचं तस्मिन् काले महामुने ॥
[३१२] एकादश्यां निराहारो भूत्वाहनि परे द्व्यहम् ।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥
एवम् उक्त्वा ततो रात्रौ देवदेवस्य सन्निधौ ।
जपन् नारायणायेति स्वपेत् तत्र विधानतः ॥
ततः प्रभाते विमले नदीं गत्वा समुद्रगाम् ।
इतरां वा तडागं वा गृहीत्वा नियतात्मवान् ॥
आनीय मृत्तिकां शुद्धां मन्त्रेणानेन मानवः ।
धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा ॥
तेन सत्येन मां देव्ये पापान् मोचय मृत्तिके ।
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे ॥
भवन्ति पुण्यानि यतो मृत्तिकाम् आलभेत् ततः ।
त्वयि सर्वे रसा नित्यं स्थिता वरुण सर्वदा ॥
तेनेमां मृत्तिकां प्लाव्य मां पूतं कुरु मा चिरम् ।
एवं मृदं रविं तोयं प्रसाद्यात्मानम् आलभेत् ॥
त्रिः कृत्वा शेषमृदया कुण्डम् आलिख्य वै जले ।
ततः स्नात्वा नरः सम्यक् मन्त्रवच् चोपचारतः ॥
[३१३] स्नात्वा चावश्यकं कृत्वा पुनर् देवगृहं व्रजेत् ।
तत्राराध्य महायोगं परं नारायणं शुभम् ॥
केशवाय नमः पादौ कटिं दामोदराय च ।
जानुभ्याम् च नृसिंहाय उरः श्रीवत्सधारिणे ॥
कण्ठं कौस्तुभनाथाय वक्षः श्रीपतये तथा ।
त्रैलोक्यविजयायेति बाहू सर्वात्मने शिरः ॥
रथाङ्गधारिणे चक्रं शङ्करायेति वारिजम् ।
“वारिजम्” शङ्खम् ।
गम्भीरायेति च गदां पङ्कजं शान्तिमूर्तये ॥
एवम् अभ्यर्च्य देवेशं देवं नारायणं प्रभुम् ।
पुनस् तस्याग्रतः कुम्भांश् चतुरः स्थापयेद् बुधः ॥
जलपूर्णान् समाल्यांश् च सितचन्दनलेपितान् ।
चतुर्भिस् तिलपात्रैस् तु स्थगितान् रत्नगर्भिताम् ॥
चत्वारस् ते समुद्रास् तु कलशाः परिकीर्तिताः ।
तेषां मध्ये शुभं पीठं स्थापयेद् वस्त्रसंयुतम् ॥
[३१४] तस्मिंश् च रौप्यं सौवर्णं ताम्रं वा दारवं तथा ।
अलाभतस् तोयपूर्णं कृत्वा पात्रं ततो न्यसेत् ॥
“अलाभतः” सौवर्णादीनाम् अलाभे दारवम् अपि कुर्याद् इत्य् अर्थः ।
सौवर्णं मत्स्यरूपेण कृत्वा देवं जनार्दनम् ।
देवदेवाङ्गसंयुक्तं श्रुतिस्मृतिविभूषणम् ॥
तत्रानेकविधैर् भक्ष्यैः फलैः पुष्पैश् च शोभितम् ।
गन्धदूपैश् च मन्त्रैश् चाप्य् अर्चयित्वा यथाविधि ॥
रसातलगता वेदा यथा देव त्वयाहृताः ।
मत्स्यरूपेण तद्वन् मां भवाद् उद्धर केशव ॥
एवम् उच्चार्य तस्याग्रे जागरं तत्र कारयेत् ।
यथाविभवसारेण प्रभाते विमले तथा ॥
“यथाविभवसारेण” यथावित्तानुसारेण ।
चतुर्णां ब्राह्मणानां च चतुरो दापयेद् घटान् ।
पूर्वं च बह्वृचे दद्याच् छन्दोगे दक्षिणं तथा ॥
यजुःशाखान्विते दद्यात् पश्चिमं घटम् उत्तमम् ।
उत्तरं कामतो दद्याद् एष एव विधिः स्मृतः ॥
[३१५] ऋग्वेदः प्रीयतां पूर्वे सामवेदस् तु दक्षिणे ।
पश्चिमे तु यजुर्वेदो ‘थर्ववेदस् तथोत्तरे ॥
ताम्रपात्रैस् तु सतिलैः स्थगितान् कारितान् घटान् ।
[३१६] ततस् तं जलपात्रस्थं ब्राह्मणाय कुटुम्बिने ॥
दद्याद् एवं महाभाग ततः पश्चात् तु भोजयेत् ।
ब्राह्मणान् पायसेनाग्र्यान् ततः पश्चात् स्वरं नरः ॥
भुञ्जीत सहितो विप्रैर् वाग्यतः सञ्जितेन्द्रियः ।
यः सकृद् द्वादशीम् एतां करोति विधिवन् मुने ॥
स ब्रह्मलोकम् आप्नोति तत्कालं चैव तिष्ठति ।
ततो ब्रह्मोपसंहारे तत्र यस् तिष्ठते ‘चिरम् ॥
पुनः सृष्टौ भवेद् देवो वैराजो नाम नामतः ।
ब्रह्महत्यादिपापानि चेह लोके कृतान्य् अपि ॥
अकामतः कामतो वा तानि नश्यन्ति तत्क्षणात् ।
इह लोके दरिद्रो वा राजभ्रष्टो ‘थ वा नृप ॥
उपोष्य तु विधानेन मेश्वरो राजभाग् भवेत् ।
“मेश्वरः” लक्ष्मीश्वरः ।
वन्ध्या नारी भवेद् या तु अनेन विधिना शुभे ॥
उपोष्य तु भवेत् तस्याः पुत्रः परमधार्मिकः ।
अगम्यागमनं येन जानताजानता कृतम् ॥
स इमं विधिम् आस्थाय तस्मात् पापाद् विमुच्यते ।
ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च ॥
उपोष्येमां सकृद् भक्त्या वेदसंस्कारम् आप्नुयात् ।
[३१७] किं चात्र बहुनोक्तेन न तद् अस्ति महामुने ॥
प्राप्यं वा प्राप्यते नैव पापं वा यन् न पश्यति ।
अदीक्षिताय नो देयं विधानं नास्तिकाय च ॥
देववेदद्विषे वापि न श्राव्यं तु कदाचन ।
गुरुभक्ताय दातव्यं सर्वपापप्रणाशनम् ॥
इह जन्मनि वै राज्यं धनं धान्यं वरस्त्रियः ।
भवन्ति विविधा यस् तु उपोष्यति विधानतः ॥
इति मत्स्यद्वादशीव्रतम् ।
[अथ कूर्मद्वादशीव्रतम्]
दूर्वासा उवाच ।
पौषमासस्य या पुण्या द्वादशी शुक्लपक्षतः ।
तस्यां प्राग् इव सङ्कल्प्य कुर्यात् स्नानादिकाः क्रियाः ॥
निर्वर्त्य बोधयेद् रात्राव् एकादश्यां जनार्दनम् ।
[३१८] पृथङ् मन्त्रैर् द्विजश्रेष्ठ देवदेवं जनार्दनम् ॥
कूर्माय पादौ प्रथमं तु पूज्य
नारायणायेति कटिं हरेस् तु ।
सङ्कर्षणायेत्य् उदरं हरेस् तु
उरो विशोकाय भवाय कण्ठम् ॥
सुबाहवे चैव भुजौ शिरश् च
नमो विशालाय रथाङ्गशङ्खौ ।
स्वनाममन्त्रेण सुधूपगन्धैः
नानानिवेद्यैर् विविधैः फलैश् च ॥
अभ्यर्च्य देवं कलशं तदग्रे
संस्थाप्य माल्यासुरदामकण्ठम् ।
तं रत्नगर्भं तु पुरेव कृत्वा
स्वशक्तितो हेममयं तु देवम् ॥
समन्दरं कूर्मरूपेण कृत्वा
संस्थापयेत् ताम्रपात्रे घृतस्य ।
पूर्णे घटोपर्य् अथ सन्निवेश्य
श्वो ब्राह्मणायैवम् एवं तु दद्यात् ॥
[३१९] श्वो ब्राह्मणान् भोज्य सदक्षिणांश् च
यथाशक्त्या प्रीणयेद् देवदेवम् ।
नारायणं कूर्मरूपेण पश्चात्
स्वयं च भुञ्जीत सभृत्यवर्गः ॥
एवं कृते चेत् त्रिविधं हि पापं
विनश्यते नात्र विचारणास्ति ।
संसारचक्रं प्रविहाय शुद्धं
प्राप्नोति लोकं तु हरेः पुराणम् ॥
अनेकजन्मान्तरसञ्चितानि
नश्यन्ति पापानि नरस्य भक्त्या ।
प्रागुक्तरूपं तु फलं लभन्ते
नारायणस् तुष्टिम् उपैति सद्यः ॥
इति कूर्मद्वादशीव्रतम् ।
[अथ वराहद्वादशीव्रतम्]
दुर्वासा उवाच ।
एवं माघे सिते पक्षे द्वादशीं धरणीभृतः ।
वराहस्य शृणुष्वान्यां पुण्यां परमधार्मिकः ॥
[३२०] अगम्यागमनं येन जानताजानता कृतम् ।
स इमं विधिम् आस्थाय तस्मात् पापाद् विमुच्यते ॥
ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च ।
उपोष्येमां सकृद् भक्त्या वेदसंस्कारम् आप्नुयात् ॥
किं चात्र बहुनोक्तेन महापरमधार्मिक ।
प्रागुक्तेन विधानेन सङ्कल्प्यं स्नानम् एव तु ॥
कृत्वा देवं समभ्यर्च्य चैकादश्यां विचक्षणः ।
पुष्पैर् नैवेद्यगन्धैश् चाप्य् अर्चयित्वाच्युतं नरः ॥
पश्चात् तस्याग्रतः कुम्भं जलपूर्णं तु विन्यसेत् ।
वराहायेति पादौ तु माधवायेति वै कटिम् ॥
क्षेत्रज्ञायेति जठरं विश्वरूपेत्य् उरो हरेः ।
सर्वज्ञायेति वै कण्ठं प्रजानां पतये शिरः ॥
प्रद्युम्नायेति च भुजौ दिव्यास्त्राय सुदर्शनम् ।
अमृतोद्भवाय शङ्खं चाप्य् एष एवार्चने विधिः ॥
एवम् अभ्यर्च्य मेधावी तस्मिन् कुम्भे तु विन्यसेत् ।
सौवर्णरौप्यताम्रं वा पात्रं विभवशक्तितः ॥
सर्वबीजैस् तु सम्पूर्णं स्थापयित्वा विचक्षणः ।
तत्र शक्त्या च सौवर्णं वराहं कारयेद् बुधः॥
दंष्ट्राग्रेणोद्धरन् पृथ्वीं सपर्वतवनद्रुमाम् ।
[३२१] माधवं मधुहन्तारं वाराहं रूपम् आस्थितम् ॥
सर्वबीजभृते पात्रे रत्नगर्भघटोपरि ।
स्थापयेत् परमं देवं जातरूपमयं हरिम् ॥
सितवस्त्रयुगच्छन्नं ताम्रपात्रे तु वैष्णवम् ।
स्थाप्यार्चयेद् गन्धपुष्पैर् नैवेद्यैर् विविधैः फलैः ॥
पुष्पमण्डपिकां कृत्वा जागरं तत्र कारयेत् ।
प्रादुर्भावाद् धरेस् तत्र वाचयेत् कामयेद् बुधः ॥
एवं संस्तूयमानस्य प्रभाते ‘भ्युदिते रवौ ।
शुचिः स्नातो हरिं पूज्य ब्राह्मणाय निवेदयेत् ॥
वेदवेदाङ्गविदुषे साधुवृत्ताय धीमते ।
विष्णुभक्ताय विदुषे विशेषेण तु दापयेत् ॥
एवं विधानतो दत्वा हरिं वाराहरूपिणम् ।
ब्राह्मणाय भवेद् यद् धि फलं तस्य निशामय ॥
इह जन्मनि सौभाग्यं श्रीः कान्तिः स्तुतिर् एव च ।
ज्ञानवान् वित्तवान् भोगी ह्य् अपुत्रः पुत्रवान् भवेत् ॥
*इति वराहद्वादशीव्रतम् *
[३२२]
अथ नरसिंहद्वादशी
दुर्वासा उवाच ।
तद्वच् च फाल्गुने मासि शुक्लपक्षे तु द्वादशीम् ।
उपोष्य प्रोक्तविधिना हरिम् आवाहयेद् बुधः ॥
नरसिंहाय पादौ तु गोविन्दायोदरं तथा ।
कटिं विश्वभुजे पूज्य अनिरुद्धेत्य् उरस् तथा ॥
कण्ठं च शितिकण्ठाय पिङ्गकेशाय वै शिरः ।
असुरध्वंसनायेति चक्रं तोयात्मने तथा ॥
शङ्खम् इत्य् एव सम्पूज्य गन्धपुष्पफलैस् तथा ।
तदग्रे स्थाप्य कुम्भं तु सितवस्त्रयुगान्वितम् ॥
तत्रोपरि नृसिंहं तु सौवर्णं रत्नभाजने ।
सौवर्णे शक्तितः कृत्वा दारुवंशमये ‘पि वा ॥
रत्नगर्भघटे स्थाप्य तत्र पूज्य विधानतः ।
द्वादश्यां चेद् अविदुषे ब्राह्मणाय निवेदयेत् ॥
[३२३] एवं कृते फलं प्राप्तं यत् पुरा पार्थिवेन तु ।
वत्सनाम्ना तु तत् ते ‘हं प्रवक्ष्यामि महामुने ॥
तस्य व्रतान्ते भगवान् नृसिंहस् तोष्यते ‘पि च ।
चक्रं प्रादाच् च शत्रूणां विध्वंसनकरं मृधे ॥
तेनास्त्रेण स्वयं राज्यं जितवान् स नृपोत्तम ।
राज्ये स्थिताश्वमेधानां सहस्रम् अकरोत् प्रभुः ॥
अन्ते च ब्रह्मलोकाख्यं पदम् आगाच् च सत्तम ।
एषा धन्या पापहरा द्वादशी भवतो मुने ॥
कथितेमां प्रयत्नेन श्रद्धां कुरु यथेच्छकम् ।
इति नरसिंहद्वादशी ।
अथ वामनद्वादशीव्रतम्
दूर्वासा उवाच ।
एवम् एव मुने मासि चैत्रे सङ्कल्प्य द्वादशीम् ।
उपोष्य धारयेद् भक्त्या देवदेवं जनार्दनम् ॥
वामनायेति वै पादौ विष्णवे कटिम् अर्चयेत् ।
वासुदेवेति जटरम् उरः सङ्कर्षणाय च ॥
कण्ठं विश्वभृते पूज्य शिरो वै व्योमरूपिणे ।
बाहुं विश्वजिते पूज्य स्वनाम्ना शङ्खचक्रके ॥
[३२४] अनेन विधिना देवं देवदेवं जगत्पतिम् ।
प्राक् प्ररत्नोदरं कुम्भं सयुग्मं परितो न्यसेत् ॥
“युग्मम्” वस्त्रयुग्मम् ।
प्राक् प्रपात्रे च संस्थाप्य वामनं काञ्चनं बुधः ।
यथाशक्त्या कृतं ह्रस्वं सितयज्ञोपवितिनम् ॥
कुण्डिकां स्थापयेत् पार्श्वे छत्रिकापादुके तथा ।
अक्षमालां च संस्थाप्य बृसीकां च विशेषतः ॥
एतैर् उपस्करैर् युक्तां प्रभाते ब्राह्मणाय तम् ।
दापयेत् प्रीयतां विष्णुः ह्रस्वरूपीत्य् उदीरयेत् ॥
मासनाम्ना तु संयुक्तं प्रादुर्भावाभिधानकम् ।
[प्रीयताम् इति सर्वत्र विधिर् एष प्रकीर्तितः ॥
“सामनाम्ना” मार्गशीर्षादिमासकेशवादिनाम्ना । “प्रादुर्भावाभिधानकम्”] मत्स्यरूपी कूर्मरूपीत्य् एवमादि ।
श्रूयते च पुरा राजा हर्यश्वः पृथिवीपतिः ।
अपुत्रः स तपस् तेपे पुत्रम् इच्छंस् तपोनिधिः ॥
तस्यैव कुर्वतस् त्व् इष्टिं पुत्रार्थे मुनिसत्तम ।
आजगाम हैर् देवो द्विजरूपसमन्वितः ॥
स उवाच नृपं राजन् किं ते व्यवसितं त्व् इति ।
[३२५] पुत्रार्थम् इति चोवाच तं विप्रः प्रत्युवाच ह ॥
इदम् एवं विधानं तु कुरु राजन् प्रयत्नतः ।
स विप्र एवम् उक्त्वा तु क्षणाद् अन्तर्हितस् ततः ॥
राजापि तच् चकारार्थं मन्त्रवित्तं द्विजातये ।
दरिद्राय स्वयं प्रादाज् ज्योतिर्गर्भाय धीमते ॥
यथादितेर् अपुत्रायाः स्वयं पुत्रत्वम् आगतः ।
भगवंस् तेन सत्येन ममाप्य् अस्तु सुतो वरः ॥
“विधानं” वामनद्वादशीव्रतविधिम् । “मन्त्रवित्” “यथादितेर् अपुत्राया” इत्यादिमन्त्रज्ञः । “तं” वामनम् ।
अनेन विधिनोक्तेन तस्य पुत्रो ‘भवन् मुने ।
उग्राश्व इति विख्यातश् चक्रवतीं महाबलः ॥
अपुत्रो लभते पुत्रान् धनार्थी लभते धनम् ।
भ्रष्टराज्यो लभेद् राज्यं ततो विष्नुपुरं व्रजेत् ॥
इति वामनद्वादशीव्रतम् ।
[अथ जामदग्न्यद्वादशीव्रतम्]
दूर्वासा उवाच ।
वैशाखे ‘प्य् एवम् एवं तु सङ्कल्प्य विधिना नरः ।
तद्वत् स्नानं मृदा कृत्वा ततो देवालयं व्रजेत् ॥
तत्राराध्य हरिं भक्त्या चैभिर् मन्त्रैर् विचक्षणः ।
जामदग्न्याय पादौ चाप्य् उदरं सर्वधारिणे ॥
[३२६] मधुसूदनायेति कटिम् उरः श्रीवत्सधारिणे ।
क्षत्रान्तकाय बाहू च मणिकण्ठाय कण्ठकम् ॥
स्वनाम्ना शङ्खचक्रे तु शिरो ब्रह्माण्डधारिणे ।
एवम् अभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् ॥
विन्यसेत् स्थगितं वस्त्रयुग्मेन च विशेषतः ।
वैणवेन तु पात्रेण तस्मिन् संस्थापयेद् धरिम् ॥
जामदग्न्येन रूपेण कृत्वा सौवर्णम् अग्रतः ।
दक्षिणे परशुं हस्ते तस्य देवस्य कारयेत् ॥
सर्वगन्धैश् च सम्पूज्य पुष्पैर् नानाविधैस् तथा ।
ततस् तस्याग्रतः कार्यं जागरं भक्तिमान् नरः ॥
प्रभाते विमले सूर्ये ब्राह्मणाय निवेदयेत् ।
आसीद् राजा महाभागो वीरसेनो महाबलः ॥
अपुत्रः स पुरा तीव्रं तपस् तेपे महायशाः ।
चरन्तं तत् तपो घोरं याज्ञवल्क्यो महामुनिः ॥
आजगाम महायोगी तं द्रष्टुं नाम दूरतः ।
रजोवाच ।
कथं मे भविता पुत्रः स्वल्पायासेन वै द्विज ।
एतन् मे कथय प्रीत्या भगवन् प्रणतस्य वै ॥
[३२७] एवम् उक्तो मुनिस् तेन पार्थिवेन यशस्विना ।
आचख्यौ द्वादशीं चेमां वैशाखे सितपक्षजाम् ॥
स हि राजा विधानेन पुत्रकामी विशेषतः ।
उपोष्य लब्धवान् पुत्रं नलं परमधार्मिकम् ॥
यो ‘द्यापि कीर्त्यते लोके पुण्यश्लोको नृपोत्तमः ।
प्रासङ्गिकं फलं ह्य् एतद् व्रतस्यास्य महामुने ॥
यत् पुत्रो जायते वित्तविद्यावान् कान्तिर् उत्तमा ।
इह जन्मनि किं चित्रं परलोके शृणुष्व मे ॥
कल्पम् एकं ब्रह्मलोक उषित्वाप्सरसां गणैः ।
क्रीडन्ति ते पुनः सृष्टौ जायन्ते चक्रवर्तिनः ॥
त्रिंशत्कल्पसहस्राणि जीवन्ति नात्र संशयः ।
इति जामदग्न्यद्वादशीव्रतम् ।
[अथ राघवद्वादशीव्रतम्]
दूर्वासा उवाच ।
ज्येष्ठे मासे ‘प्य् एवम् एव सङ्कल्प्य विधिमान् नरः ।
अर्चयेत् परमं देवं पुष्पैर् नानाविधैः शुभैः ॥
ॐ नमो राघवायेति पादौ पूर्वं समर्चयेत् ।
[३२८] त्रिविक्रमायेति कटिं घृतविश्वाय चोदरम् ॥
उरः संवत्सरायेति कण्ठं संवर्तकाय च ।
सर्वास्त्रधारिणे बाहू स्वनाम्नाब्जरथाङ्गके ॥
सहस्रशिरसे ‘ब्यर्च्य शिरस् तस्य महात्मनः ।
एवम् अभ्यर्च्य विधिवद् घृतकुम्भं प्रकल्पयेत् ॥
प्राग्वद् वस्त्रयुगच्छन्नौ सौवर्णौ रामलक्ष्मणौ ।
अर्चयित्वा विधानेन प्रभाते ब्राह्मणाय वै ॥
तौ दातव्यौ सुमनसा कामात् तत्पुरुषेण तु ।
अपुत्रेण पुरा दृष्टो राज्ञा दशरथेन तु ॥
वसिष्ठः पुत्रकामाय् प्रसङ्गात् पुरम् आगतः ।
इदम् एव विधानं तु कथयामास स द्विजः ॥
प्राग् रहस्यं विदित्वा तु स राजा कृतवान् इदम् ।
तस्य पुत्रः स्वयं जज्ञे रामाख्यो मधुसूदनः ॥
चतुर्धासाव् अभूद् विष्णुः परितोषान् महामुने ।
एतद् ऐहिकम् आख्यातं पारत्रिकम् अतः शृणु ॥
[३२९] दिव्यान् भोगान् भुञ्जते स्वर्गसंस्थो
यावद् इन्द्रा दश च द्विद्विसङ्ख्याः ।
अतीतकाले पुनर् एत्य मर्त्यं
राजराजो जायते यज्ञयाजी ॥
“दश च द्विद्विसङ्ख्या” चतुर्दशेत्य् अर्थः ।
नश्यन्ति पापानि च तस्य पुंसः
कामान् अवाप्नोति यथेप्सितांश् च ।
निष्काम एतद् व्रतम् एव चीर्त्वा
प्राप्नोति निर्वाणपदं स्थिरं तत् ॥
इति राघवद्वादशीव्रतम् ।
[अथ कृष्णद्वादशीव्रतम्]
दूर्वासा उवाच ।
आषाढे ‘प्य् एवम् एवं तु सङ्कल्प्य विधिवन् नरः ।
अर्चयेद् वरदं देवं गन्धपुष्पैर् विधानतः ॥
वासुदेवाय पादौ तु कटिं सङ्कर्षणाय च ।
स्कन्धं च पापहतये त्व् अनिरुद्धाय वै उरः ॥
[३३०] ऊरुं च चक्रपाणये भुजौ भूपतये तथा ।
स्वनाम्ना शङ्खचक्रे तु पुरुषायेति वै शिरः ॥
एवम् अभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् ।
विन्यसेद् वस्त्रसंयुक्तं तस्योपरि ततो न्यसेत् ॥
काञ्चनं वासुदेवं तु चतुर्धाङ्गं सनातनम् ।
तम् अभ्यर्च्य विधानेन गन्धपुष्पादिभिः क्रमात् ॥
प्राग्वत् तु ब्राह्मणे दद्याद् वेदवादिनि सुव्रते ।
एवं नियमयुक्तस्य यत् पुण्यं तच् छृणुष्व मे ॥
वासुदेवो भवेद् राजा यदुवंशविवर्धनः ।
देवकी तस्य भार्यासीत् समानव्रतधारिणी ॥
सा त्व् अपुत्राभवत् साध्वी पतिधर्मपरायणा ।
तस्याः कालेन महता नारदो ‘भ्यागमद् गृहम् ॥
वसुदेवेन भक्त्या च पूजितो वाक्यम् अब्रवीत् ।
कथयामास धर्मज्ञो देवकीवसुदेवयोः ॥
ताव् अप्य् एतद् विधिं भक्त्या चक्रतुः श्रद्धयान्वितौ ।
तयोस् तुष्टः स्वयं विष्णुः पुत्रत्वं प्रजगाम ह ॥
एवम् एषा पापहरा द्वादशी पुत्रदा स्मृता ।
इमाम् उपोष्य तु सुतान् विद्यां वित्तं लभेत च ॥
राज्यं च भ्रष्टराज्यस् तु पापिनः पापसङ्क्षयम् ।
यथा भावोपनीतस् तु धरण्या केशवेन वै ॥
मृतो विष्णुपुरे रम्ये मोदते कालम् अक्षयम् ।
[३३१] मन्वन्तराणि षट्त्रिंशत् ततः काललये पुनः ॥
इह लोके भवेद् राजा सप्त वर्षायुतानि तु ।
दाता पुत्रसमायुक्तो मृतो निर्वाणम् आप्नुयात् ॥
इति कृष्णद्वादशीव्रतम् ।
[अथ बुद्धद्वादशीव्रतम्]
दूर्वासा उवाच ।
[एवम् एव श्रावणे तु मासि सङ्कल्प्य द्वादशीम् ।]
अर्चयेत् परमं देवं गन्धपुष्पनिवेदनैः ॥
बुद्धाय पादौ सम्पूज्य श्रीधरायेति वै कटिम् ।
मनोभवाय जठरम् उरः संवत्सराय च ॥
सुग्रीवायेति च कटिं भुजौ वै विश्ववाहनः ।
प्राग्वच् छस्त्राणि सम्पूज्य शिरो वै परमात्मने ॥
एवम् अभ्यर्च्य मेधावी घटं च स्थापयेत् ततः ।
तं सौवर्णमयं बुद्धं कृत्वा चैव विचक्षणः ॥
[३३२] तम् अप्य् एवं तु सम्पूज्य ब्राह्मणाय निवेदयेत् ।
अनेन विधिना पूर्वं द्वादशी समुपोषिता ॥
शुद्धोदनेन बुद्धो ‘भूत् स्वयं पुत्रो जनार्दनः ।
महतीं च श्रियं प्राप्तः पुत्रपौत्रसमन्वितः ॥
भुक्त्वा राजश्रियं सो ‘थ गतिं परमिकां ग्तः ।
इति बुद्धद्वादशीव्रतम् ।
[अथ कल्किद्वादशीव्रतम्]
दूर्वासा उवाच ।
तद्वद् भाद्रपदे मासि शुक्लपक्षे ‘त्र द्वादशीम् ।
सङ्कल्प्य विधिना देवम् अर्चयेत् परमेश्वरम् ॥
नमो ‘स्तु कल्किने पादौ हृषीकेशाय वै कटिम् ।
म्लेच्छप्रध्वंसनायोरू जगन्मूर्तेस् तथोदरम् ॥
श्रीकण्ठायेति कण्ठं तु खड्गपाणीति वै भुजौ ।
स्वनाम्ना शङ्खचक्रे च विश्वमूर्तेस् तथा शिरः ॥
एवम् अभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् ।
विन्यसेत् कल्किनं देवं सौवर्णं कारयेत् तथा ॥
[३३३] सितवस्त्रयुगच्छन्नं गन्धपुष्पोपशोभितम् ।
कृत्वा प्रभाते विप्राय प्रदेयं शास्त्रवित्तमे ॥
पूर्वं राजा विशालो ‘भूत् काशीपुर्यां महाबलः ।
द्वादशीं कृतवान् सो ‘पि चक्रवर्ती बभूव ह ॥
यज्ञैश् च विविधैर् इष्ट्वा पुनर् निर्वाणम् आप्नुयात् ।
पूज्यते मत्स्यरूपेण सर्वज्ञत्वम् अभीप्सुभिः ॥
स्ववंशोद्धरणार्थाय कूर्मरूपी तु पूज्यते ।
भवोदधिनिमग्नेन वराहः पूज्यते हरिः ॥
नरसिंहस्वरूपेण सर्वपापभयातुरैः ।
वामनो मोहनार्थाय वित्तार्थे जमदग्निजः ॥
क्रूरशत्रुविनाशाय यजेद् दाशरथिं बुधः ।
बलकृष्णौ यजेद् धीमान् पुत्रकामो न संशयः ॥
रूपकामो यजेद् बुद्धं कल्किनं शत्रुधातने ।
इति कल्किद्वादशीव्रतम् ।
[अथ पद्मनाभद्वादशीव्रतम्]
दूर्वासा उवाच ।
तद्वद् आश्वयुजे मासि द्वादशीं सितपक्षिणीम् ।
सङ्कल्प्याभ्यर्चयेद् देवं पद्मनाभं सनातनम् ॥
पद्मनाभाय पादौ तु कटिं वै पद्मयोनये ।
[३३४] उदरं सर्वदेवाय पुष्कराक्षाय वै उरः ॥
अव्ययाय तथा बाहू प्राग्वद् अस्त्राणि पूजयेत् ।
प्रभवाय शिरः पूज्य प्राग्वद् अग्रे घटं न्यसेत् ॥
तस्मिन् हेममयं देवं पद्मनाभं तु विन्यसेत् ।
तम् एव देवं सम्पूज्य गन्धपुष्पादिभिः क्रमात् ॥
प्रभातायां तु शर्वर्यां ब्राह्मणाय निवेदयेत् ।
आसीत् कृतयुगे राजा भद्राश्वो नाम वीर्यवान् ॥
यस्य नाम्नाभवद् वर्षं भद्राश्वं नाम नामतः ।
तस्यागस्त्यः कदाचित् तु गृहम् आगत्य भूपतेः ॥
उवाच पञ्चरात्रं तु वसामि भवतो गृहे ।
तं राजा शिरसा नत्वा स्थीयताम् इत्य् अभाषत ॥
तस्य कान्तिमती नाम्ना भार्या परमशोभना ।
ताम् अगस्त्यस् तथा दृष्ट्वा रूपतेजोन्वितां शुभाम् ॥
सपत्नीश् च तया तुल्याः कुर्वतीः कर्म शोभनम् ।
साधु साधु जगन्नाथ स्त्रीशूद्रौ साधु साध्व् इति ॥
एवम् उक्त्वा ननर्तौ[ओ?]च्चैर् अगस्थ्य् राजसन्निधौ ।
राजोवाच ।
किं हर्षकारणं ब्रह्मन् येनैवं नृत्यते भवान् ।
[३३५] अगस्त्य उवाच ।
कापि राज्ञी त्वदीयाभूद् दासी वैश्यस्य वैदिशे ।
नगरे हरिदत्तस्य त्वम् अस्याः पतिर् एव च ॥
तस्यैव कर्मकारो ‘भूच् छूद्रो विद्धेति नामतः ।
स तत्राश्əअयुजे मासि द्वादश्यां नियतः शुचिः ॥
स्वयं विष्ण्वालयं गत्वा गन्धपुष्पादिभिर् हरिम् ।
अभ्यर्च्य स्वगृहं प्राप्य भवन्तौ रक्षपालकौ ॥
स्थाप्य द्वारे ‘पि दीपानां ज्वालनार्थं महामते ।
गते तस्मिन् भवन्तौ तान् दीपान् ज्वालयतौ स्थितौ ॥
यावत् प्रभाता रजनीं निःशाठ्येन नृपोत्तम ।
ततः कालेन महता मृतौ द्वाव् अपि दम्पती ॥
तेन पुण्येन ते जन्म प्रियव्रतगृहे ‘भव ।
इयं च पत्नी च जाता वैशदास्य् अभवत् पुरा ॥
पारक्यस्यापि दीपस्य ज्वालितस्य हरेर् गृहे ।
इयं व्युष्टिः परा जाता भक्तियुक्तस्य ते पुरा ॥
स्वेन यत् पुनर् अर्थेन विष्णुम् अभ्यर्च्य दीपकम् ।
ज्वालयेत् तस्य यत् पुण्यं तत् सङ्ख्यातुं न शक्यते ॥
इति पद्मनाभद्वादशीव्रतम् ।
[३३६]
[अथ योगेश्वरद्वादशीव्रतम्]
अगस्त्य उवाच ।
शृणुष्व भक्तितो राजन् कार्तिकैकादशी तथा ।
उपोष्य विधिना येन सर्वासां प्राप्नुयात् फलम् ॥
प्राग्विधानेन सङ्कल्प्य तद्वत् स्नानं समाचरेत् ।
विलोमेनार्चयेद् देवं नारायणम् अकल्मषम् ॥
नमः सहस्रशिरसे शिरः सम्पूज्ये वै हरेः ।
पुरुषायेति च भुजौ कण्ठं वै विश्वरूपिणे ॥
ज्ञानात्मनेति चास्त्राणि श्रीवत्साय तथा उरः ।
जगद्ग्रसिष्णवे पूज्य उदरं दिव्यमूर्तये ॥
कटिं सहस्रपादाय पादौ देवस्य पूजयेत् ।
अनुलोमेन देवेशं पूजयित्वा विचक्षणः ॥
नमो दामोदरायेति सर्वाङ्गं पूजयेद् धरेः ।
एवं सम्पूज्य विधिना तस्याग्रे चतुरो घटान् ॥
स्थापयेद् रत्नगर्भांस् तु सितचन्दनचर्चितान् ।
स्रग्दामाबद्धग्रीवांस् तु सितवस्त्रावगुण्टितान् ॥
स्थगितान् ताम्रपात्रैस् तु तिलपूर्णैः सकाञ्चनैः ।
चत्वारः सागराश् चैते कल्पिता द्विजसत्तम ॥
[३३७] तन्मध्ये प्राग्विधानेन सौवर्णं स्थापयेद् धरिम् ।
योगेश्वरं योगविधिम् अनन्तं पीतवाससम् ॥
तम् अप्य् एवं तु सम्पूज्य जागरं तत्र कारयेत् ।
कुर्याच् च वैष्णवं योगं जयेद् योगेश्वरं हरिम् ॥
षोडशारे रथाङ्गे तु रजोभिर् बहुभिः कृते ।
एवं कृत्वा प्रभाते तु ब्राह्मणान् पञ्च चानयेत् ॥
चत्वारः कलशा देयाश् चतुर्णां पञ्चमस्य तु ।
योगेश्वरं तु सौवर्णं प्रदद्यात् प्रयतः शुचिः ॥
वेदाध्येत्रे समं दत्तं तद्विदे द्विगुणं तथा ।
आचार्ये पञ्चरात्राणां सहस्रगुणितं भवेत् ॥
यस् त्व् इमं सरहस्यं तु समन्त्रं चोपपादयेत् ।
विधानं तस्य भक्त्या वै दत्तं कोटिगुणं भवेत् ॥
गुरौ तिष्ठति यस् त्व् अन्यम् आसन्नं पूजयेत् सुधीः ।
स दुर्गतिम् अवाप्नोति दत्तं तस्य च निष्फलम् ॥
आसन्ने तु गुरौ पूर्वं पश्चाद् अन्यस्य दीयते ।
अविद्यो वा सविद्यो वा गुरुर् देवो जनार्दनः ॥
अमार्गस्थो ‘पि मर्गस्थो गुरुर् एव परा गतिः ।
प्रतिपद्य गुरुर् यस् तु मोहाद् विप्रतिपद्यते ॥
[३३८] युगकोटिं स नरके पच्यते नात्र संशयः ।
एवं दत्वा विधानेन तत्त्वतो विष्णुम् अर्चयेत् ॥
विप्राणां भोजनं दत्वा यथाशक्ति सदक्षिणम् ।
धरणीव्रतम् एतद् धि पुरा कृत्वा प्रजापतिः ॥
प्रजां लेभे तथा मुक्तिं ब्रह्मण्यं विजने पुनः ।
युवनाश्वो ‘पि राजर्षिर् एतेन विधिना पुरा ॥
मान्धातारं सुतं लेभे परं ब्रह्म च शाश्वतम् ।
तथा हैहयदायादः कृतवीर्यो नराधिपः ॥
कार्तवीर्यं सुतं लेभे परं ब्रह्म च शाश्वतम् ।
शकुन्तलाप्य् एवम् एव व्रतं चीर्त्वा महामुने ॥
लेभे शाकुन्तलं पुत्रं दौष्यन्तिं चक्रवर्तिनम् ।
अनेन विधिना प्राप्तं चक्रवर्तित्वम् उत्तमम् ॥
धरण्या अपि पाताले मग्नया च कृतं पुरा ।
व्रतम् एतत् ततो नाम्ना धरणीव्रतम् उच्यते ॥
समाप्ते ‘स्मिन् धरा देवी हरिणा कोलरूपिणा ।
उद्धृताद्यापि तुष्टेन धारिता नौर् इवाम्भसि ॥
य इदं शृणुयाद् भक्त्या यश् च कुर्यान् नरोत्तमः ।
स सर्वपापनिर्मुक्तो विष्णुसालोक्यतां व्रजेत् ॥
[३३९] किं पुनर् द्वादशैतास् तु येनेन्द्रत्वं ददुः पुरा ॥
इति योगेश्वरद्वादशीव्रतम् ॥
[अथ भर्तृद्वादशीव्रतम्]
अप्सरसः ।
भगवन् ब्रह्मतनय भर्तृकामा वयं द्विज ।
नारायणश् च भर्ता नो यथा स्याद् आचचक्ष्व (?) तत् ॥
नारद उवाच ।
इदानीं कथयाम्य् आशु येन भर्ता हरिः स्वयम् ।
वरदं तम् अवाप्नोति भर्तृत्वं च नियच्छति ॥
वसन्ते शुक्लपक्षस्य द्वादशी या भवेच् छुभा ।
तस्याम् उपोष्य विधिवत् सश्रीकं हरिम् अर्चयेत् ॥
पर्यङ्के पूज्य देवेशं नानास्तरणसंयुतम् ।
तत्र लक्ष्म्याः पतिं देवं रौप्यं कृत्वा निवेदयेत् ॥
तस्योपरि ततः पुष्पैर् मण्डपं कारयेद् बुधः ।
नृत्यवादित्रघोषैश् च जागरं तत्र कारयेत् ॥
मनोभवायेति शिरस् त्व् अनङ्गायेति वै कटिम् ।
[३४०] कामाय बाहुमूले तु स्वयम् आस्थाय चोदरम् ॥
मन्मथायेति पादौ तु हरये इति सर्वतः ।
पुष्पैः सम्पूज्य देवेशं मल्लिकाजातिभिस् तथा ॥
पश्चाच् चतुर आदाय इक्षुदण्डान् सशोभनान् ।
चतुर्दिक्षु न्यसेत् तस्य देवस्य पुरतो नृप ॥
एवं कृत्वा प्रभाते च प्रदद्याद् ब्राह्मणाय च ।
वेदवेदाङ्गयुक्ताय सम्पूर्णाङ्गाय धीमते ॥
ब्राह्मणाश् च ततो भोज्या व्रतम् एतत् समापयेत् ।
एतस्माद् व्रततो विष्णुर् भर्ता वो भविता ध्रुवम् ॥
अकृत्वा मत्प्रणामं तु पृष्टं गर्वेण यद् व्रतम् ।
व्रतेन देवदेवेशं प्रियं लब्ध्वाभिमानतः ॥
अवसाने ‘पहरणं गोपालैर् वा भविष्यति ।
परत्राणां च कल्पानां देवो भर्ता भविष्यति ॥
इति भर्तृद्वादशीव्रतम् ।
[अथ शुभद्वादशीव्रतम्]
अगस्त्य उवाच ।
शृणु राजन् महाभाग शुभव्रतम् अनुत्तमम् ।
[३४१] येन सम्प्राप्यते विष्णुः शुभेनैव न संशयः ॥
मासि मार्गशिरे पुण्ये प्रथमं व्रतम् आचरेत् ।
एकभक्तं सिते पक्षे यावत् स्याद् दशमीति च ॥
ततो दशम्यां मध्याह्ने स्नात्वा केशवम् अर्चयेत् ।
भुक्त्वा सङ्कल्पयेत् प्राग्वद् द्वादशीं शुद्धमानसः ॥
केशवेति हरिं पूज्य दद्यात् तत्प्रीतये तिलान् ।
सहिरण्यांश् तदा कृत्वा द्वादशीं प्रयतो नृप ॥
तावत् परम् उषित्वा तु यवान् दद्याद् द्विजातये ।
कृत्वा चैतैर् हरिर् वाच्यो दाने होमे तथार्चने ॥
चातुर्मास्यं तथैवं तु क्षपित्वा राजसत्तम ।
चैत्रादिषु पुनस् तद्वद् उपोष्य प्रयतः शुचिः ॥
सक्तुपात्राणि विप्राणां सहिरण्यानि दापयेत् ।
श्रावणादिषु मासेषु गोविन्दं तद्वद् अर्चयेत् ॥
त्रिषु मासेषु यावत् तु कार्तिकस्यादिरागतः ।
तम् अप्य् एवं क्षपित्वा च समां च प्रयतः शुचिः ॥
अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः ।
[३४२] सङ्कल्पं कारयेद् भक्त्या द्वादश्यां संयतेन्द्रियः ॥
एकादश्यां यथाशक्त्या कारयेत् पृथिवीं नृप ।
काञ्चनीं सप्तपातालकुलपर्वतसंयुताम् ॥
भूविन्यासविधानेन स्थापयेत् तां हरेः पुरः ।
सितवस्त्रयुगच्छन्नां सर्वबीजसमन्विताम् ॥
सम्पूज्य प्रियदत्तेति पञ्चरत्नैर् विचक्षणः ।
जागरं तत्र कुर्वीत प्रभाते तु पुनर् द्विजान् ॥
आमन्त्र्य सङ्ख्यया राजन्न् एकविंशतिनामतः ।
तेषाम् एकैकशओ गां चाप्य् अनड्वाहं च दापयेत् ॥
एकैकं वस्त्रयुग्मं चाप्य् एकैकं चाङ्गुलीयकम् ।
कटकं चैव सौवर्णं कर्णाभरणम् एव च ॥
एकैकं ग्रामम् एतेषां राजा राज्यप्रदो भवेत् ।
यथाविभवसारेण ततो गां सम्प्रदापयेत् ॥
अशक्त्या करणे चैव दरिद्रो ‘पि स्वशक्तितः ।
यथाशक्त्या महीं कृत्वा काञ्चनीं गोयुगं तथा ॥
वस्त्रयुगमम् अथैकं च दत्वा विभवशक्तितः ।
गोयुग्मासम्भवात् सर्वं हिरण्येनैव कारयेत् ॥
एवं कृत्वा तथा कृष्णद्वादश्याम् एव चोत्तरे ।
रौप्यां च पृथिवीं कृत्वा यथाविभवशक्तितः ॥
प्रदद्याद् ब्राह्मणानां तु तथा तेषां तु भोजनम् ।
उपानहौ यथाशक्त्या पादुके छत्रिकां तथा ॥
[३४३] एवं दद्याद् देवदेवः कृष्णो दामोदरो मम ।
प्रीयतां सर्वदा देवो विश्वरूपो हरिर् मम ॥
दाने च भोजने चैवम् उक्ते यत् फलम् आप्यते ।
न शक्यं तु सहस्रेण वर्षाणाम् अपि कीर्तितुम् ॥
शुभव्रतम् इदं पुण्यं यः कुर्यात् तु नरेश्वरः ।
स सर्वसम्पदं प्राप्य ततो विष्ण्वालयं व्रजेत् ॥
इति शुभद्वादशीव्रतम् ।
[अथ विष्णुप्राप्तिव्रतम्]
वराह उवाच ।
द्वादश्याम् उपवासं तु ये वै कुर्वन्ति ते नराः ।
माम् एव प्रतिपद्यन्ते मम भक्तिपरायणाः ॥
कृत्वा चैवोपवासं तु गृहीत्वा चाञ्जलिं ततः ।
नमो नारायणायेति चादित्यम् अभिलोकयेत् ॥
यावन्तो बिन्दवः केचित् पतन्त्य् अञ्जलितो जलात् ।
तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥
तथैव तस्यां द्वादश्यां कृत्वा कर्म यथाविधि ।
आर्तवैश् चैव पुष्पैश् च मृगगन्धैश् च धूपनैः ॥
य एवं कारयेद् भूमि तस्यापि शृणुयाद् गतिम् ।
[३४४] दत्वा शिरसि पुष्पाणि इमं मन्त्रम् उदाहरेत् ॥
ॐ इति कृत्वा मन्त्रः ।
“सुरश्रेष्ठ धराधर सुमनसः सुमना गृह्य प्रीयतां मे भगवान् विष्णुः” एतेन मन्त्रेण सुमनो दद्यात् । गन्धमन्त्र उच्यते । “ॐ नमस् तुभ्यं विष्णवे व्यक्तसुगन्धिगन्धं गृह्णेमं भगवते विष्णवे" एतेन मन्रेण गन्धान् दद्यात् ।
अश्रुत्वापि च शास्त्राणि यो माम् एवं च कारयेत् ।
मम लोकं स गच्छेच् च जायते स चतुर्भुजः ॥
श्यामाकं षाष्ठिकं चैव सद्भोज्यानि गुणांस् तथा ।
शालीन् यवान्नं च तथा सुखं नीवारभक्तकम् ॥
एतानि यस् तु भुञ्जीत मम कर्मपरायणः ।
स स्याच् च शङ्खचक्राङ्गो लाङ्गली मुसली गदी ॥
इति विष्णुप्राप्तिद्वादशीव्रतम् ।
[अथ अखण्डव्रतम्]
वामनपुराणे ।
पुलस्त्य उवाच ।
मासि चाश्वयुजे ब्रह्मन् यदा पद्माज् जगत्पतेः ।
[३४५] नाभ्यां निर्याति हि तथा देवस्यैतद् यथा भवेत् ॥
कन्दर्पस्य कराग्रेषु कदम्बश् चारुदर्शनः ।
तेन तस्य परा प्रीतिः कदम्बेन विवर्धते ॥
यक्षाणाम् अधिपस्यापि मणिभद्रस्य नारद ।
वटवृक्षः समभवत् तेन तस्य हि रतिस् तदा ॥
महेशस्यापि हृदये धुत्तूरविटपः शुभः ।
सञ्जातस् तेन शर्वस्य रतिकृत् तस्य चेतसः ॥
तथैव मध्यतो देहाज् जातो मरकतः प्रभुः ।
खदिरः कण्टकी श्रीमान् भगवद्विश्वकर्मणः ॥
गिरिजायाः करतले कुन्दवृक्षस् तु जायते ।
गणाधिपस्य कुसुमं राजते सिन्धिवारकः ॥
यमस्य दक्षिणे पार्श्वे पलाशो दक्षिणोत्तरे ।
कृष्णः कुसूलको रौद्राज् जातः क्षोभकरो ‘व्ययः ॥
स्कन्दस्य बन्धुजीवश् च रवेर् अश्वस्थ एव च ।
कात्यायन्याः शमी जाता बिल्वो लक्ष्म्याः करे करे ॥
नागानां प्रभुतो ब्रह्मन् शरस्तम्बो व्यजायत ।
वासुकेः सुशुभे पुच्छे पृष्ठे दूर्वासिता सिता ॥
साध्यानां हृदये जातो वृक्षो हरितचन्दनः ।
एवं तेषु च सर्वेषु तेन तत्र रतिर् भवेत् ॥
तस्मिन् पुण्य शुभे काले या शुक्लैकादशी भवेत् ।
तस्यां सम्यग् यजेद् विष्णुं येन खण्डं प्रपूर्यते ॥
[३४६] “येन खण्डं प्रपूर्यते” इति, येन विष्नुपूजनेन खण्डम् असम्पूर्णम् धर्मादिभिः परिपूर्णं भवतीत्य् अर्थः ।
पुष्पैः पत्रैः फलैर् वापि गन्धवस्तुरसान्वितैः ।
ओषधीभिश् च सर्वाभिः यावत् स्थावरसम्भवैः ॥
घृतं तिलान् व्रीहियवान् हिरण्यं कनकादि यत् ।
मणिमुक्ताप्रवालानि वस्त्राणि विविधानि च ॥
रसाश् च स्वादुकट्वमलकषायलवणादयः ।
तिक्तानि च निवेद्यानि तान्य् अखण्डानि यनि हि ॥
तत्पूजार्थं प्रदातव्यं केशवाय महात्मने ।
येन संवत्सरं पूर्णम् अखण्डं जायते गृहे ॥
कृत्वोपवासं देवर्षे द्वितीयेन न संशयः ।
स्नानेन तेन स्नायीत येनाखण्डं हि वत्सरम् ॥
सिद्धार्थकैस् तिलैर् वापि तेनैवोद्वर्तनं स्मृतम् ।
हविषा पद्मनाभस्य स्नानम् एव समाचरेत् ॥
होमे तद् एव गदितं दानं शक्त्या द्विजोत्तम ।
पूजा च कुसुमैः कार्या पादाव् आरभ्य केशवम् ॥
धूपयेद् विविधं धूपं येन स्याद् वत्सरं परम् ।
हिरण्येन च वासोभिः पूजयेत् तं जगद्गुरुम् ॥
सरसद्रवचूष्याणि हविष्याणि निवेदयेत् ।
[३४७] सम्पूज्य देवदेवेशं पद्मनाभं जगद्गुरुम् ॥
विज्ञाय यन् मुनिश्रेष्ठ मन्त्रेणानेन सुव्रत ।
नमो ‘स्तु पद्महस्ताय पद्मगर्भाय वै नमः ॥
धर्मार्थकाममोक्षाणि ह्य् अखण्डानि भवन्तु मे ।
विकासिपद्मपत्राक्ष तथाखण्डो ‘सि सर्वशः ॥
तेन सत्वेन धर्माध्यास् त्व् अखण्डाः सन्तु केशव ।
एवं संवत्सरे पूर्णे सोपवासो जितेन्द्रियः ॥
अखण्डं पारयेद् ब्रह्मन् व्रतं वै सर्ववस्तुषु ।
तस्मिंश् चीर्णे व्रते व्यक्तं परितुष्यति माधवः ॥
धर्मार्थकाममोक्षाद्यास् त्व् अक्षयाः सम्भवन्ति च ।
इत्य् अखण्डद्वादशीव्रतम् ।
[नामद्वादशी]
मार्गशीर्षाद्यान् केशवनारायणगोविन्दविष्णुमधुसूदनवामनश्रीधरहृषीकेश-पद्मनाभदामोदरान् प्रपूजयेद् धूपस्रग्दामाद्यैर् उपोष्य सम्पूज्य दक्षिणाबिर् नामभिर् अश्वमेधनृपसूयवाजपेयाप्तोर्यामाग्निष्टोमगोमेधपुरुषसौत्रामणि-पञ्चयज्ञहोमतो लभ्यं सर्वम् अश्नात्य् अन्ते नित्यस्मरणाद् अर्चनान् नामजपाच् च ।
**इति नामद्वादशीव्रतम् ।**
**[३४८]**
**[श्रवणद्वादशीव्रतम्]**
वामनपुराणे ।
प्रेमोवाच ।
श्रवणद्वादशी नाम मासि भाद्रपदे भवेत् ।
ततो नागरिको ‘त्रैको गतः स्नातुं च सङ्गमे ॥
ऐरावत्यनड्वलयोर् ब्रह्मक्षत्रपुरःसराः ।
प्रातिवेश्यप्रसङ्गेन तत्राप्य् अनुगतो ‘स्म्य् अहम् ॥
कृतोपवासः शुचिमान् एकादश्यां शुचिव्रतः ।
ततः सङ्गमतोयेन वारिधाराधरं नवम् ॥
सम्पूर्णवस्त्रसंवीतं सङ्गमाम्भःसमन्वितम् ।
मृत्पात्रम् अभिमृश्याथ पूर्णं दध्योदनेन वै ॥
प्रददौ ब्राह्मणाग्राय शुचये कृतकर्मणे ।
एतत् ते कारणं प्रोक्तं यद् अन्नं च सहाम्भसा ॥
दत्तं तद् इदम् आयाति मध्याह्ने ‘पि दिने दिने ।
इति श्रवणद्वादशीव्रतम् ।
[विजयद्वादशीव्रतम्]
आदित्यपुराणे ।
भानुर् उवाच ।
द्वादशी चापरा ब्रह्मण् पुष्येण च समन्विता ।
पुष्येण सा च संयुक्ता उपोष्या तु प्रयत्नतः ॥
[३४९] द्वादशी श्रवणोपेता विजया परिकीर्तिता ।
काले बहुतिथे ब्रह्मन् कदाचित् सा तु लभ्यते ॥
पुष्येण द्वादशी या तु शुक्ला वा फाल्गुनस्य तु ।
जया सा द्वादशी प्रोक्ता स्वयं वै विष्णुना पुरा ॥
तस्यां दत्तं तपस् तप्तं कोटिकोटिगुणोत्तरम् ।
यदा तु श्रावणे विप्रः कदाचित् क्षत्रवद् भवेत् ॥
विजया सा तिथिः प्रोक्ता उपोष्या विधिवत् तु या ।
एकादश्यां निराहारो द्वादश्यां विष्णुम् अर्चयेत् ॥
रौप्यसौवर्णपात्रे वा दारुवंशमये ‘पि वा ।
आच्छाद्य पात्रं वासोभिर् अहतैः सुपरीक्षितैः ॥
मार्गैश् च मेढजैश् चैव सिद्धिः स्याच् छक्त्यपेक्षया ।
तिलाढकेन बिल्वाद्यैः प्रस्थेन कुडवेन वा ॥
अलाभे यवगोधूमैः फलं मुख्यतिलैर् भवेत् ।
पुष्पैर् गन्धैः फलैर् धूपैः कालेनैवार्चयेद् धरिम् ॥
नानाविधैर् निवेद्यैश् च भक्ष्यभोज्यैर् गुडोदनैः ।
मन्त्रवर्णं चतुर्गुणं भक्त्या लक्षगुणोत्तरम् ॥
जागरं तत्र कुर्वीत योगवादित्रनर्तनैः ।
एवं सनियमश् चास्यां प्रभाते विमले सति ॥
भक्त्या वा वित्तसारेण सहिरण्यं च दापयेत् ।
[३५०] प्रदेयं शास्त्रविदुषि ब्राह्मणे मन्त्रतो द्विजः ॥
ब्राह्मणांश् चापि मन्त्रेण प्रतिगृह्णाति मन्त्रवित् ।
ददाति मन्त्रतो ‘प्य् एवं दाता भक्तिसमन्वितः ॥
“वामनो बुद्धितो दातो द्रव्यस्थो वामनः स्वयम् ।
ब्राह्मणस्य प्रसादाद् वै तेन वै वामनो हि सः ॥”
इति प्रतिग्रहणमन्त्रः । अथ पूजामन्त्रः ।
मत्स्यं कूर्मं वराहं च नरसिंहं च वामनम् ।
रामं रामं च कृष्णं च अर्चयामि नमो नमः ॥
ॐ मत्स्याय नमः पादयोर् दद्यात् । कूर्माय नमः जानुभ्याम् । ॐ वराहाय नमः गुह्यम् । ॐ नृसिंहाय नमः नाभ्याम् । ॐ वामनाय नमः उरः । ॐ रामाय नमः भुजयोः । ॐ कण्ठे भ्रुवोश् च रामाय नमः । ॐ शिरसि कृष्णाय नमः । पुष्पफलनैवेद्यं सर्वम् एतद् अर्चनाविधानेन दातव्यम् ।
एवं तूपोष्य विप्रेन्द्र द्वादशीं श्रवणेन तु ।
पूर्वोक्तेन विधानेन भोजनं पृषदाज्यकम् ॥
पूर्वं दत्वा ब्राह्मणाय पश्चाद् भुञ्जीत चात्मना ।
न दुःखाय यथेष्टं तु न च रात्रौ विधिः स्मृतः ॥
समाप्ते तु व्रते ब्रह्मन् यत् पुण्यं तन् निबोध मे ।
चतुर्युगानां विप्रेन्द्र एकसप्ततिपावनीम् ॥
तावद् विष्णुपुरे विप्र क्रीडते कामतो ‘क्षयम् ।
इह चागत्य कालान्ते राजराजो भविष्यति ॥
त्रेतायुगे धर्मयुगे जायते च पुनः पुनः ।
दश जन्मनि विप्रेन्द्र विषये पत्तने शुभे ॥
[३५१] कुले महति जातः स्याद् वेदवेदाङ्गपारगः ।
हस्त्यश्वरथयानानां दाता भोक्ता विमत्सरी ॥
भोक्ता पुरवराणां च यजन् यज्ञं च कोटिशः ।
रूपसौभाग्यसम्पन्नो दीर्घायुर् नीरुजो भवेत् ॥
पुत्रपौत्रैः परिवृतो जीवेच् च शरदां शतम् ।
इति विजयद्वादशीव्रतम् ॥
[पुष्यार्कद्वादशीव्रतम्]
देवीपुराणे ।
मन्त्रोक्तेन तु दोषेण प्रस्तुते नरकं प्रति ।
मतिर् वा सवनस्थस्य व्रताराधनदानयोः ॥
पुष्यार्कद्वादशी पुण्या सर्वपापनिबर्हिणी ।
कृता वा केन सा शक्र घृतपात्रप्रदायिना ॥
दाता प्रत्यक्षतस् तस्य देवदेवो जनार्दनः ।
अदर्शयन् मन्त्रपायी पीतवासाश् चतुर्भुजः ॥
इति पुष्यार्कद्वादशीव्रतम् ।
[३५२]
[भाग्यर्क्षद्वादशीव्रतम्]
बृहस्पतिर् उवाच ।
कथं स राजा भाग्यस्थः सर्वलोकाधिको विभुः ।
कथं च दिव्यतां प्राप्तो विष्णुसालोक्यतां व्रजेत् ॥
सर्वदेवेश्वरस् तस्य कथं तुष्ट उमापतिः ।
ब्रह्मोवाच ।
भाग्यर्क्षद्वादशी नाम सा च भाग्यप्रदायिका ।
तत्र कृत्वा हरेर् अर्चाम् इष्ट्वा पद्मैर् यथाविधि ॥
सर्वलक्षणसम्पूर्णां श्रेष्ठवृक्षोद्भवां मुने ।
शङ्करार्धं हरेः पुंस उभे संस्थापयेद् वशी ॥
“हरेर् अर्चा” हरिहररूपा प्रतिमा । “शङ्करार्धं हरेः” इत्यादि, शङ्करस्यार्धं हरेः पुरुषस्यार्धम् इत्य् एवं हरिहरमूर्ती उभे संस्थापयेद् इत्य् अर्थः ।
भक्त्या सर्वोपहारेण द्वादशारार्णमण्डले ।
आज्येन चक्रराजेन पूजितो मधुसूदनः ॥
तुतोष तस्य नृपतिस् ततो भाग्यत्वम् आप्तवान् ।
[३५३] “नकराजो” ‘त्र द्वादशार एव, महासुदर्शनमन्त्र इति केचित् ।
तुष्टेन देवदेवेन वरो दत्तो द्विजोत्तम ।
अत ऊर्ध्वं भवान् वत्स मम तुल्यो भविष्यति ॥
भाग्यर्क्षद्वादशी तावद् असङ्ख्याता तदर्चनम् ।
यागमण्डलपूजार्हं हरिम् उद्दिश्य कारयेत् ॥
आचार्याय प्रदातव्यं हेमगोभूतिलादिकम् ।
दक्षिणां वित्तसारेण पुनाति नरकार्णवात् ॥
युगभाग्यप्रभावेण प्रयच्छति फलं हरिः ।
“युगभाग्यप्रभावेण” इति, युगस्य कृतादेर् भाग्यस्य कर्मणः प्रभावेणेत्य् अर्थः ।
यथा काले च क्षेत्रे च एकापि गणिका गता ॥
प्रयाति सर्वां वृद्धिं तु तथा भाग्ययुगे द्विज ।
तथा भाग्ये तथा पौष्णे वासवे च द्विजोत्तम ॥
तुल्यरूपं विजानीयाद् द्वादश्यां सप्तमीषु च ।
“भाग्यम्” भगदैवत्यं पूर्वफल्गुनीनक्षत्रम् । “पौष्णं” रेवती । “वासवम्” धनिष्ठा ।
तुष्यते देवदेवेशः शशाङ्काङ्कितशेखरः ॥
पुत्रान् राज्यं च सौभाग्यं प्रयच्छति जनार्दनः ।
मासि मासि च यो मर्त्यः करोति हरिपूजनम् ॥
[३५४] पद्मे सुलक्षणोपेते सर्ववर्णोपशोभिते ।
तस्य तुष्यति देवेशश् चक्रपाणिर् जनार्दनः ॥
इति भाग्यर्क्षद्वादशीव्रतम् ।
[अथ भीमद्वादशीव्रतम्]
मत्स्यपुराणे ।
वासुदेव उवाच ।
यद्य् अष्टमीचतुर्दश्योर् द्वादशीष्व् अथ वा भवेत् ।
अन्येष्व् अपि दिनर्क्षेष्व् अप्य् अशक्तं समुपोषितुम् ॥
ततः पुण्याम् इमां भैमीतिथिं पापप्रणाशिनीम् ।
उपोष्य विधिनानेन गच्छेद् विष्णोः परं पदम् ॥
माघमासस्य दशमी यदा शुक्ला भवेत् तदा ।
घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत् ॥
तथैव विष्णुम् अभ्यर्च्य नमो नारायणेति च ।
कृष्णाय पादौ सम्पूज्य शिरः सर्वात्मने नमः ॥
वैकुण्ठायेति वै कण्ठम् उरः श्रीवत्सधारिणे ।
शङ्खिने चक्रिणे तद्वद् गदिने वरदाय वै ॥
सर्वे नारायणस्यैवं सम्पूज्या बाहवः क्रमात् ।
दामोदरायेत्य् उदरं मेढ्रं पञ्चशराय वै ॥
[३५५] ऊरू सौभाग्यनाथाय जानुनी भूतधारिणे ।
नमो नीलाय वै जङ्घे पादौ विश्वसृजे नमः ॥
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रिये ।
नमः पुष्ट्यै नमः स्तुत्यै नमस् तुष्ट्यै तथा श्रिये ॥
नमो विहङ्गनाथाय वायुवेगाय पक्षिणे ।
विषप्रमाथिने नित्यं गुरुडं चाभिपूजयेत् ॥
एवं सम्पूज्य गोविन्दम् उमापतिविनायकौ ।
गन्धैर् माल्यैश् च धूपैश् च भक्ष्यैर् नानाविधैर् अपि ॥
गव्येन पयसा सिद्धां कृशरां त्व् अथ वाग्यतः ।
सर्पिषा सह भुक्त्वा च गत्वा शतपथं नरः ॥
न्यग्रोधदन्तकाष्ठं वाप्य् अथ वा खादिरं बुधः ।
गृहीत्वा धावयेद् दन्तान् आचान्तः प्रागुदङ्मुखः ॥
पूजां सायन्तनीं कृत्वा शयीतास् तमिते रवौ ।
नमो नारायणायेति त्वाम् अहं शरणं गतः ॥
एकादश्यां निराहारः समभ्यर्च्य तु केशवम् ।
रात्रिं च सकलां स्थित्वा स्नानं च पयसा गतः ॥
सर्पिषा विश्वदहनं कृत्वा ब्राह्मणपुङ्गवैः ।
सहैव पुण्डरीकाक्ष द्वादश्यां क्षीरभोजनम् ॥
करिष्यामि यथा सो ‘हं निर्विघ्नेनास्तु तच् च मे ।
एवम् उक्त्वा स्वपेत् तत्र इतिहासकथाः पुनः ॥
श्रुत्वा प्रभाते सञ्जाते नदीं गत्वा विशां पते ।
[३५६] स्नानं कृत्वा मृदा तद्वत् पाषण्डान् अभिवर्जयेत् ॥
उपास सन्ध्यां विधिवत् कृत्वा च पितृतर्पणम् ।
प्रणम्य च हृषीकेशम् अमलं वार्कम् ईश्वरम् ॥
गृहस्य पुरतो भक्त्या मण्डपं कारयेद् बुधः ।
दशहस्तम् अथाष्टौ वा करान् कुर्याद् विशां पते ॥
चतुर्हस्तप्रमाणं च विन्यसेच् चात्र तोरणम् ।
प्रमाप्य कलशं तत्र माषपात्रेण संयुतम् ॥
छिद्रेण जलसम्पूर्णम् अधः कृष्णाजिने स्थितः ।
“प्रमाप्य कलशं तत्र” इति, स्थापयित्वा कलशं तोरण इत्य् अर्थः ।
तस्य धारां च शिरसा धारयेत् सकलां निशाम् ॥
धाराभिर् भूरिभिर् भूरि फलं वेदविदो विदुः ।
यस्मात् तस्मात् कुरुश्रेष्ठ धाराः कार्यास् तु शक्तितः ॥
तथैव विष्णोः शिरसि क्षीरधाराः प्रपातयेत् ।
[पञ्च कुण्डांस् ततः कृत्वा वेद्यां तत्र समाधिनः ॥
चतुरस्रं पूर्वकुण्डं कारयेत् प्रयतो द्विज ।
दक्षिणेनार्धचन्द्रस् तु पश्चिमे वर्तुलं तथा ॥
तथा वाश्वत्थपत्राभम् उत्तरेण तु कारयेत् ।
मध्ये तु पद्माकारं च कारयेद् वैष्णवीर् द्विजः ॥
पूर्वतो वेदिकायास् तु निजस्थानं प्रकल्पयेत् ।
[३५७] पानीयधारां शिरसि धारयेद् विष्णुतत्परः ॥
द्वितीयवेदी देवस्य तत्र पद्मं सकर्णिकम् ।
तत्त्वमध्यस्थितं देवं मूर्त्या वै पुरुषोत्तमम् ॥]
अरत्निमात्रं कुण्डं च कृत्वा तत्र च मेखलाम् ।
योनिबन्धोदितं कृत्वा ब्राह्मणैर् यवसर्पिषी ॥
तिलांश् च देवदैवत्यै मन्त्रैर् एवाग्निवित् तदा ।
कृत्वा च वैष्णवं सम्यक् चरुं गोक्षीरसंयुतम् ॥
निष्पावार्धप्रमाणैर् वा दाराम् आज्यस्य पातयेत् ।
“ब्राह्मणैः” ऋत्विग्भिः करणभूतैः हुत्वेत्य् अर्थः । “निष्पवार्धम्” वल्लबीजार्धम् ।
जलकुम्भान् महावीर स्थापयित्वा त्रयोदश ॥
भक्ष्यैर् नानाविधैर् युक्तान् सितवस्त्रैर् अलङ्कृतान् ।
युतान् औदुम्बरैः पात्रैः पञ्चरत्नसमन्वितान् ॥
“औदुम्बरम्” ताम्रमयम् ।
चतुर्भिर् बह्वृचैर् होमस् तत्र कार्य उदङ्मुखैः ।
रुद्रजापश् चतुर्भिश् च यजुर्वेदपरायणैः ॥
वैष्णवानि च सामानि चत्वारः सामवेदिनः ।
अरिष्टवर्गसहितान् अभितः परिपाठयेत् ॥
“अरिष्टवर्गः” ‘तपमूषुवाजिनम्” इत्य् अस्याम् ऋच्य् उत्पन्नसामद्वयम् ।
[३५८] एवं च द्वादशान् विप्रान् वस्त्रमाल्यानुलेपनैः ।
पूजयेद् अङ्गुलीयैश् च वित्तशाठ्यविवर्जितः ॥
एवं क्षपति रात्रिं च नृत्यगीतकलस्वनैः ।
उपाध्यायस्य च पुनर् द्विगुणं सर्वम् एव च ॥
ततः प्रभाते विमले समुत्थाय त्रयोदश ।
गाश् च दद्यात् कुरुश्रेष्ठ सौवर्णखुरसंयुताः ॥
पयस्विनीः शीलवतीः कांस्यदोहसमन्विताः ।
रौप्यखुराः सवस्त्राश् च चन्दनेनाभिसेविताः ॥
तास् तु तेषां ततो भक्त्या भक्ष्यभोज्यानुतर्पितान् ।
कृत्वा वै ब्राःमणान् सर्वान् रत्नैर् नानाविधैर् युतान् ॥
भुक्त्वा वाक्षारलवणम् आत्मना च विसर्जयेत् ।
अनुगम्य पदान्य् अष्टौ पुत्रभार्यासमन्वितः ॥
प्रीयताम् अत्र देवेशः केशवः शोकनाशनः ।
शिवस्य हृदये विष्णुर् विष्णोश् च हृदये शिवः ॥
यथोत्तरं न पश्यामि तथा मे स्वस्तिभावतः ।
एवम् उच्चार्य तान् कुम्भान् गावश् च शयनानि च ॥
वासांसि चैव सर्वेषां गृहाणि प्रापयेद् बुधः ।
अभावे बहुशय्यानाम् एकाम् अपि सुसंस्कृताम् ॥
शय्यां दद्याद् गृही भीम सर्वोपस्करसंयुताम् ।
इतिहासपुराणानि वाचयित्वातिवाहयेत् ॥
तद् दिनं नरशार्दूल य इच्छेद् विपुलां श्रियम् ।
[३५९] तस्मात् त्वं सर्वम् आलभ्य भीमसेन विमत्सरः ॥
कुरु व्रतम् इदं सम्यक् स्नेहाद् गुह्यं मयोदितम् ।
त्वया कृतम् इदं वीर त्वन्नाम्नाङ्ग भविष्यति ॥
सा भीमद्वादशीत्य् एषा सर्वपापहरा शुभा ।
सा तु कल्याणिनी नाम पुराणेषु च पठ्यते ॥
स्नातः पुरा मण्डलम् एष तद्वत् ।
तेजोमयं वेदशरीरम् आप ।
अस्यां च कल्याणतिथौ विवस्वान्
सहस्रधारेण सहस्ररश्मिः ॥
इदम् इह हि कृतं महेन्द्रमुख्यैः
वसुभिर् अथासुरदेवकोटिभिश् च ।
फलम् इव हि न शक्यते ‘नुवक्तुं
यदि जिह्वायुतकोटयो मुखेषु ॥
कलिकलुषविदारिणीम् अतस् ताम्
इति कथयिष्यति यादवेन्द्रसूनुः ।
अपि नरकगतान् पितॄन् अशेषान्
अलम् उद्धर्तुम् इहैव यः करोति ॥
इति भीमद्वादशीव्रतम् ।
[३६०]
[विशोकद्वादशीव्रतम्]
** **मनुर् उवाच ।
किम् अभीष्टवियोगशोकसङ्घान्
अलम् उद्धर्तुम् उपोषणं व्रतं वा ।
विभवोद्भवकारि भूतले ‘स्मिन्
भवभीतेर् अपि सूदनं च पुंसाम् ॥
मत्स्य उवाच ।
परिपृष्टम् इदं जगत्प्रियं ते
विबुधानाम् अपि दुर्लभं महत्त्वात् ।
तव भक्तिम् अतस् तथापि वक्ष्ये
व्रतम् इन्द्रासुरदानवेषु गुह्यम् ॥
नन्दिकेश्वर उवाच ।
पुण्यम् आश्वयुजे मासि विशोकद्वादशीव्रतम् ।
दशम्यां लघुभुग् विद्वान् आरभेन् नियमेन च ॥
उदङ्मुखः प्राङ्मुखो वा दन्तधावनपूर्वकम् ।
एकादश्यां निराहारः समभ्यर्च्य च केशवम् ॥
श्रियम् अभ्यर्च्य विधिवद् भोक्ष्ये वै त्व् अपरे ‘हनि ।
एवं नियमकृत् सुप्त्वा प्रातर् उत्थाय मानवः ॥
स्नानं सर्वौषधैः कुर्यात् पञ्चगव्यजले ‘पि तत् ।
[३६१] शुक्लमाल्याम्बरं तद्वद् धारयेच् छीघ्रम् उत्पलैः ॥
विशोकाय नमः पादौ जङ्घे च वरदाय वै ।
श्रीशाय जानुनी तद्वद् ऊरू च जलशायिने ॥
कन्दर्पाय नमो गुह्यं माधवाय नमः कटिम् ।
दामोदरायेत्य् उदरं पार्श्वे च विपुलाय वै ॥
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै ।
श्रीधराय विभोर् वक्षः करौ मधुभिदे नमः ॥
चक्रिणे वामबाहुं च दक्षिणं गदिने नमः ।
वैकुण्ठाय नमः कण्ठम् आस्यं यज्ञमुखाय वै ॥
नासां शोकविनाशाय वासुदेवाय चाक्षिणी ।
ललाटं वामनायेति हरायेति पुनर् भ्रुवौ ॥
अलकान् माधवायेति किरीटं विश्वरूपिणे ।
नमः सर्वात्मने तद्वच् छिर इत्य् अभिपूजयेत् ॥
एवं सम्पूज्य गोविन्दं धूपमाल्यानुलेपनैः ।
तत्रापि मण्डलं कुर्यात् स्थण्डिलं कारयेन् मुदा ॥
चतुरस्रं समन्ताच् च रत्निमात्रम् उदक्प्लुतम् ।
सूक्ष्मं हृद्यं च परितो वप्रद्वयसमावृतम् ॥
[३६२] त्रिरङ्गुलोच्छ्रितं वप्रं तद्विस्तारो द्विरङ्गुलः ।
स्थण्डिलस्योपरिष्टात् तु भित्तिर् अष्टाङ्गुला भवेत् ॥
नदीवालुकया शूर्पे लक्ष्म्याः प्रतिकृतिं न्यसेत् ।
स्थण्डिले शूर्पम् आरोप्य लक्ष्मीम् इत्य् अर्चयेद् बुधः ॥
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै ।
नमस् तुष्ट्यै नमः पुष्ट्यै नमो घृत्यै नमो नमः ॥
विशोका दुःखनाशाय विशोका वरदास् तु मे ।
विशोका मे ‘स्तु सन्तत्यै विशोका सर्वसिद्धये ॥
शुक्लाम्बरधरः शूर्पं संवेष्ट्यापूरयेत् फलैः ।
भक्ष्यैर् नानाविधैस् तद्वत् सुवर्णकमलेन च ॥
रजनीषु च सर्वासु पिबेद् दर्भोदकं बुधः ।
ततस् तु गीतनृत्यानि कारयेत् सकलां निशाम् ॥
यामत्रये व्यतीते तु सुप्त्वोत्थाय च मानवः ।
अभिगम्य स विप्राणां मिथुनानि तथार्चयेत् ॥
अनेन विधिना सर्वं मासि मासि समाचरेत् ।
व्रतान्ते शयनं दद्याद् गुडधेनुसमन्वितम् ॥
सोपधानकविश्रामं सुवस्त्राभरणं शुभम् ।
[३६३] यथा न लक्ष्मीर् देव त्वां परित्यज्य च गच्छति ॥
तथा रूपं तथारोग्यम् अशोको वास्तु मे सदा ।
देवेन रहिता लक्ष्मीर् जायते न क्वचिद् यथा ॥
तथा विशोकता मे ‘स्तु भक्तिर् अग्र्या च केशवे ।
मन्त्रेणानेन शयनं गुडधेनुसमन्वितम् ॥
शूर्पं च लक्ष्म्या सहितं दातव्यं भूतिम् इच्छता ।
उत्पलं करवीरं च बाणम् अम्लानकुङ्कुमम् ॥
केसरं सिन्धुवारं चाप्य् अम्लानकुसुमं तथा ।
मल्लिका गन्धपुष्पाणि कुन्दं च कुसुमं तथा ॥
कदम्बं कुब्जकं जाती शस्तान्य् एतानि सर्वदा ।
विशोकद्वादशी चैषा सर्वपापहरा शुभा ॥
ताम् उपोष्य नरो याति तद् विष्णोः परमं पदम् ।
इह लोके च सौभाग्यम् आयुर् आरोग्यम् एव च ॥
वैष्णवं पदम् आप्नोति मरणे स्मरणं हरेः ।
भवार्बुदसहस्राणि दश चाष्टौ च धर्मवित् ॥
न शोकदुःखदारिद्यं तस्य सञ्जायते नृप ।
नारी वा कुरुते या च विशोकद्वादशीम् इमाम् ॥
ऋतुमती परा नित्यं सापि तत् फलम् आप्नुयात् ।
यस्माद् अग्रे हरेर् नित्यम् अनन्तं गीतवादनम् ॥
इति विशोकद्वादशीव्रतम् ।
[३६४]
[अथ विभूतिद्वादशीव्रतम्]
नन्दिकेश्वर उवाच ।
शृणु नारद वक्ष्यामि विष्णोर् व्रतम् अनुत्तमम् ।
विभूतिद्वादशी नाम सर्वासुरगणस्तुता ॥
कार्तिके चैव वैशाखे मार्गशीर्षे ‘थ फाल्गुने ।
आषाढे वा दशम्यां तु शुक्लायां लघुभुङ् नरः ॥
कृत्वा सायन्तनीं सन्ध्यां गृह्णीयान् नियमं बुधः ।
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ॥
द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो ।
तद् अविघ्नेन मे यातु साफल्यं मधुसूदन ॥
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः ।
पूजयेत् पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः ॥
विभूतये नमः पादौ विशोकाय च जानुनी ।
नमः शिवायेति चोरू विश्वमूर्ते नमः कटिम् ॥
कन्दर्पाय नमो मेढ्रम् आदित्याय फले तथा ।
“फले” कृष्णवृषणौ ।
दामोदरायेत्य् उदरं वासुदेवाय च स्तनौ ॥
[३६५] माधवायेत्य् उरो विष्णोः कण्ठम् उत्कण्ठिने नमः ।
श्रीधराय मुखं केशान् केशवायेति नारद ॥
पृष्ठं शार्ङ्गधरायेति श्रवणे वरदाय वै ।
स्वनाम्ना शङ्खचक्रासिगदाजलजपाणये ॥
शिरः सर्वात्मने ब्रह्मन् नम इत्य् अभिपूजयेत् ।
मत्स्यम् उत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः ॥
उदकुम्भसमायुक्तम् अग्रतः स्थापयेद् विभो ।
गुडपात्रैस् तिलैर् युक्तं सितवस्त्रावगुण्ठितम् ॥
कृत्वा जागरणं कुर्याद् इतिहासकथादिना ।
प्रभातायां तु शर्वर्यां ब्राह्मणाय कुटुम्बिने ॥
सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत् ।
यथा न मुच्यते विष्णुः सदा सर्वविभूतिभिः ॥
तथा मां मोचयाशेषदुःखसंसारकर्दमात् ।
दशावताररूपाणि प्रतिमासं क्रमान् मुने ॥
दत्तात्रेयं तथा व्यासम् उत्पलेण समन्वितम् ।
दद्याद् एवं समादाय पाषण्डान् परिवर्जयेत् ॥
समाप्यैवं यथाशक्त्या द्वादशद्वादशीर् नरः ।
संवत्सरान्ते लवणपर्वतेन समन्विताम् ॥
शय्यां दद्यान् मुनिश्रेष्ठ गुरवे धेनुसंयुताम् ।
संवत्सरान्ते द्वादश्यां मासि द्वादश एव च ॥
समाप्तौ माघमासस्य द्वादश्यां लवणाचलम् ।
[३६६]
निर्वेदयीत गुरवे शय्यां चोपस्करान्विताम् ।
अलङ्कृत्य हृषीकेशं सौवर्णमयपादुकम् ॥
इत्यभिधानाल् लवणाचलो ‘पि सौवर्णमयपादयुक्तो देय इत्य् अवगम्यते ।
ग्रामं च शक्तिमान् दद्यात् क्षेत्रं वा भवनान्वितम् ॥
गुरुं सम्पूज्य विधिवद् वस्त्रालङ्कारभूषणैः ।
अन्यान् अपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् ॥
तर्पयेद् वस्त्रगोदानैर् धनसम्पत्तये ‘पि च ।
आराधनं चापि विष्णोर् यथाशक्त्या समाचरेत् ॥
यथा यथा हि पुरुषो भक्तिमान् माधवं प्रति ।
पुष्पार्चनविधानेन कुर्यात् संवत्सरत्रयम् ॥
अनेन विधिना यस् तु विभूतिद्वादशीव्रतम् ।
कुर्यात् पापविनिर्मुक्तः पितॄणां तारयेच् छतम् ॥
जन्मनां शतसाहस्रम् शोकफलभाग् भवेत् ।
न च व्याधिभयं तस्य न दारिद्र्यं न बन्धनम् ॥
वैष्णवो ‘थ शिवे भक्तो भवेज् जन्मनि जन्मनि ।
अपि कल्पसहस्राणां शतम् अष्टोत्तरं भवेत् ॥
तावत् स्वर्गे वसेद् ब्रह्मन् भूपतिश् च पुनर् भवेत् ।
इमान्य् आचरतो ब्रह्मन्न् अखण्डव्रतम् आचरेत् ॥
यथाकथञ्चित् कमलैर् द्वादश्यो द्वादशापि वा ।
कर्तव्याः शक्तितो देया विप्रेभ्यश् चापि दक्षिणा ॥
**[३६७] **वित्तशाठ्यं न कुर्वीत मत्स्यस् तुष्यति केशवः ।
इति विभूतिद्वादशीव्रतम् ।
[अथ मदनद्वादशीव्रतम्]
चैत्रे मासि सिते पक्षे द्वादश्यां नियमस्थितः ।
स्थापयेद् अव्रणं कुम्भं सिततण्डुलसंयुतम् ॥
नानाफलयुतं तद्वद् इक्षुदण्डसमन्वितम् ।
सितवस्त्रयुगच्छन्नं सितचन्दनचर्चितम् ॥
नानाभक्ष्यसमोपेतं सहिरण्यं च शक्तितः ।
ताम्रपात्रं गुडोपेतं तस्योपरि निवेदयेत् ॥
तस्माद् उपरि कामं तु कदलीदलसंयुतम् ।
कुर्याच् छर्करयोपेतां रतिं तस्य समृद्धये ॥
अग्रतो ‘न्नं ततो दद्याद् गीतवाद्यं च कारयेत् ।
तदभावे कथां कुर्यात् कामकेशवयोर् नरः ॥
कामनाम्ना हरेर् अर्चां स्नापयेद् गुडवारिण ।
शुक्लपुष्पाक्षतदलैर् अर्चयेन् मधुसूदनम् ॥
कामाय पादौ सम्पूज्य जङ्घे सौभाग्यदाय च ।
ऊरू च माधवायेति कटिं वै मन्मथाय च ॥
[३६८] सुस्थोदरायेत्य् उदरम् अनङ्गायेत्य् उरो हरेः ।
मुखं पद्ममुखायेति बाहू पञ्चशराय वै ॥
नमः सर्वात्मने मौलिम् अर्चयेद् इति केशवम् ।
ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत् ॥
ब्राह्मणान् भोजयेद् भक्त्या स्वयं च लवणाद् ऋते ।
भुक्त्वा तु दक्षिणां दद्याद् इमं मन्त्रम् उदीरयेत् ॥
“प्रीयताम् अत्र भगवान् कामरूपी जनार्दनः ।
हृदये सर्वभूतानां य आनन्दो ‘भिधीयते ॥”
अनेन विधिना चापि मासि मासि समाचरेत् ।
उपवासी त्रयोदश्याम् अर्चयेद् विष्णुम् अव्ययम् ॥
फलम् एकं च सम्प्राश्य द्वादश्यं भूतले स्वपेत् ।
ततस् त्रयोदशे मासि घृतधेनुसमन्विताम् ॥
काञ्चनीं कामधेनुं च शुक्लां गां च पयस्विनीम् ।
वासोभिश् चापि सम्पूज्य शक्त्या विभवभूषणैः ॥
शक्त्या गवादिकं दद्यात् प्रीयताम् इत्य् उदीरयेत् ।
होमः शुक्लतिलैः कार्यः कामनामानुकीर्तनात् ॥
गव्येन सर्पिषा तद्वत् पायसेन च धर्मवित् ।
विप्रेभ्यो भोजनं दद्याद् वित्तशाठ्यं विवर्जयेत् ॥
इक्षुदण्डान् अथो दद्यात् पुष्पमालाः स्वशक्तितः ।
[३६९] यः कुर्याद् विधिनानेन मदनद्वादशीम् इमाम् ॥
सर्वपापविनिर्मुक्तः प्राप्नोति हरिसात्म्यताम् ।
इह लोके वरान् पुत्रान् सौभाग्यं सुखम् अश्नुते ॥
यः स्मरः संस्मृतो विष्णुर् आनन्दाख्यो महेश्वरः ।
सुखार्थी कामरूपेण स्मरेत् तं जगदीश्वरम् ॥
इति मदनद्वादशीव्रतम् ।
[अथ त्रयोदशीव्रतम्]
तत्र नरसिंहपुराणे ।
गुरुवारे त्रयोदश्याम् अपराह्णे जलप्लुतः ।
तर्पयित्वा देवपितॄन् ऋषींश् च तिलतण्डुलैः ॥
नरसिंहं समभ्यर्च्य यः करोत्य् उपवासकम् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥
इति त्रयोदशीव्रत्म् ।
[३७०]
अथ चतुर्दशीव्रतानि
[शिवचतुर्दशीव्रतम्]
तत्र मत्स्यपुराणे ।
नन्दिकेश्वर उवाच ।
शृणुष्वावहितो ब्रह्मन् वक्ष्ये माहेश्वरं व्रतम् ।
त्रिषु लोकेषु विख्याता नाम्ना शिवचतुर्दशी ॥
मार्गशीर्षे त्रयोदश्यां सितायाम् एकभोजनः ।
प्रार्थयेद् देवदेवेशं त्वाम् अहं शरणं गतः ॥
मासश् चात्र शुक्लप्रतिपदासिर् अमावास्यान्तश् चान्द्रो मासः ।
चतुर्दश्यां निराहारः समभ्यर्च्य च शङ्करम् ।
सुवर्णं वृषभं दत्वा भोक्ष्ये ‘हं च परे ‘हनि ॥
एवं नियमकृत् स्वप्यात् प्रातर् उत्थाय मानवः ।
कृतस्नानजपः पश्चाद् उमया सह शङ्करम् ॥
पूजयेत् कमलैः शुक्लैर् गन्धैर् धूपानुलेपनैः ।
पादौ नमः शिवायेति शिरः सर्वात्मने नमः ॥
ललाटं तु त्रिनेत्राय नेत्राणि हरये नमः ।
मुखम् इन्दुमुखायेति श्रीकण्ठायेति कन्धरा ॥
सद्योजाताय कर्णौ तु वामदेवाय वै भुजौ ।
अघोरहृदयायेति हृदयं चाभिपूजयेत् ॥
स्तनौ तत्पुरुषायेति तथेशायेति चोदरम् ।
[३७१] उरश् चानन्तधर्माय ज्ञानभूताय वै कटिम् ॥
ऊरू चानन्तवैराग्यसिंहायेति प्रपूजयेत् ।
अनन्तैश्वर्यनाथाय जानुनी चार्चयेद् बुधः ॥
प्रधानाय नमो जङ्घे गुल्फौ व्योमात्मने नमः ।
अप्रमेयाय रूपाय केशान् पृष्ठं च पूजयेत् ॥
नमः पुष्ट्यै नमस् तुष्ट्यै पार्वतीं चाभिपूजयेत् ।
भद्रं तु वृषभं हैमम् उदकुम्भसमन्वितम् ॥
शुक्लमाल्याम्बरयुतं पञ्चरत्नसमन्वितम् ।
भक्ष्यैर् भोज्यैश् च संयुक्तं ब्राह्मणाय निवेदयेत् ॥
प्रीयतां देवदेवो ‘त्र सद्योजातः पिनाकघृक् ।
ततस् तु विप्रान् अन्नेन तर्पयेद् भक्तितः शुभान् ॥
पृषदाज्यं तु सम्प्राश्य स्वपेद् भूमाव् उदङ्मुखः ।
ततः सम्पूजयेद् विप्रान् भुञ्जीत वाग्यतः शुचिः ॥
तद्वत् कृष्णचतुर्दश्याम् एतत् सर्वं समाचरेत् ।
चतुर्दशीषु सर्वासु कुर्यात् पूर्ववद् अर्चनम् ॥
ये तु मासविशेषाः स्युस् तान् निबोध क्रमाद् इह ।
मार्गशीर्षासिमासेषु क्रमाद् एतद् उदीरयेत् ॥
शङ्कराय नमस् तुभ्यं नमस् ते करवीरक ।
[३७२] त्र्यम्बकाय नमस् ते ‘स्तु माहेश्वर ततः परम् ॥
नमस् ते ‘स्तु महादेव स्थाणवे च ततः परम् ।
नमः पशुपते नाथ नमस् ते शम्भवे पुनः ॥
नमस् ते परमानन्द नमः सोमार्धधारिणे ।
नमो भीमाय चेत्य् एवं त्वाम् अहं शरणं गतः ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
पञ्चगव्यं तथा बिल्वं यव्यं गोशृङ्गवारि च ॥
तिलाश् च कृष्णा विधिवत् प्राशनं क्रमशः स्मृतम् ।
मन्दारैर् मालतीभिश् च तथा बर्बरकैर् अपि ॥
सिन्धुवारैर् अशोकैश् च मल्लिकाभिः सपाटलैः ।
अर्कपुष्पैः कदम्बैश् च शतपत्रैस् तथोत्पलैः ॥
एकैकेन चतुर्दश्याम् अर्चयेत् पार्वतीपतिम् ।
पुनश् च कार्तिके मासि सम्प्राप्ते तर्पयेद् द्विजान् ॥
अन्नैर् नानाविधैर् भक्ष्यैर् वस्त्रमाल्यविभूषणैः ।
कृत्वा नीलवृषोत्सर्गं श्रुत्युक्तविधिना नरः ॥
उमामहेश्वरं चैव वृषभं च गवा सह ।
मुक्ताफलसमायुक्तं सितनेत्रजटान्वितम् ॥
सर्वोपस्करसंयुक्तां शय्यां दद्यात् सकुम्भकाम् ।
ताम्रपात्रोपरि पुनः शालितण्डुलसंयुताम् ॥
[३७३] स्थाप्य विप्राय शान्ताय वेदव्रतपराय वै ।
ज्येष्ठसामविदे देयं न बकव्रतिने क्वचित् ॥
गुणज्ञे श्रोत्रिये दद्याद् आचार्ये तत्त्ववेदिनि ।
अव्यङ्गाय च सौम्याय सदा कल्याणकारिणे ॥
सपत्नीकाय सम्पूज्य माल्यवस्त्रविभूषणैः ।
गुरौ सति गुरौ देयं तदभावे द्विजातये ॥
न वित्तशाठ्यं कुर्वीत कुर्वन् देवो पतत्य् अधः ।
अनेन विधिना यस् तु कुर्याच् छिवचतुर्दशीम् ॥
सो ‘श्वमेधसहस्रस्य फलम् आप्नोति मानवः ।
ब्रह्महत्यादिपापानि अत्र वामुत्र वा कृतम् ।
पतिभिर् भ्रातृबिश् चापि नाशं तत् सर्वम् आप्नुयात् ॥
दीर्घायुर् आरोग्यकुलाभिवृद्धिर्
अत्राक्षयामुत्र चतुर्भुजत्वम् ।
गणाधिपत्यादि च कल्पकोटि-
शतं वसित्वा पदम् एति शम्भोः ॥
न बृहस्पतिर् अप्य् अलं तद् अस्याः
फलम् इन्द्रो न पितामहो ‘पि वक्तुम् ।
न च सिद्धगणो ‘प्य् अलं न चाहं
यदि जिह्वायुतकोटयो ‘पि वक्तुम् ॥
भवत्य् अमरवल्लभः पठति यः स्मरेद् वा सदा
शृणोत्य् अपि विमत्सरः सकलपापनिर्मोचिनीम् ।
[३७४] इमां शिवचतुर्दशीम् अमरकामिनीकोटयः
स्तुवन्ति तम् अनिन्दितं किम् उ समाचरेद् यः सदा ॥
या वाथ नारी कुरुते ‘थ भक्त्या
भर्तारम् आपृच्छ्य गुरुं सुतं वा ।
सापि प्रसादात् परमेश्वरस्य
परं पदं याति पिनाकपाणेः ॥
इति चतुर्दशीव्रतानि ।
**अथ पौर्णमासीव्रतानि **
[पुत्रकामव्रतम्]
तत्र ब्रह्मपुराणे ।
पुलस्त्य उवाच ।
ततो व्रान्ते भगवान् पिनाकी
तस्यां गुहायाम् अनुमोद्य पुण्यम् ।
देवैश् च सर्वैर् अनुगम्यमानो
बभूव कामेन विहारचारी ॥
तस्यां मनुष्यः सुचिरं प्रमत्तो
नभस्यमासस्य तु पौर्णमास्याम् ।
[३७५] भार्याद्वितीयः ससहाय एव
पुत्रेष्टिम् आदौ स्वगृहे ‘पि कृत्वा ॥
गच्छेत् ततः सर्वसमृद्धियुक्तो
होमैश् च जाप्यैर् बलिना च रुद्रम् ।
शैलेन्द्रकन्याम् अथ नन्दिनं च
सद्भावशक्त्याप्य् अथ वार्चयित्वा ॥
सम्भोज्य विप्रान् अथ देवपूर्वान्
कृतोपवासाज् जितरोषदोषः ।
ततः सहायान् अपि भोजयित्वा
भार्यां च पश्चात् स्वयम् अन्वभुङ्क्ते ॥
तृप्तां च भार्याम् अथ गोपयित्वा
प्रददक्षिणीकृत्य गुहां स गुह्यम् ।
गृहांस् तु गच्छेत् परिपूर्णकामो
वृषः प्रहृष्टः कृतभोजनश् च ॥
कथाश् च दिव्यास् त्व् अथ नन्दिनीश् च
भार्यां ततः श्रावयेद् भावयुक्ताम् ।
क्षीरोदनं त्रिदिनं भोजयेच् च
वन्ध्यां च भार्याम् अथ पुत्रकामाम् ॥
ततो गृहे सर्वसमृद्धिकामैः
सन्तर्प्य भार्यां प्रयतो विधाय ।
[३७६] उमां शिवं नन्दिनम् अर्चयित्वा
ततो भवेत् पुत्रवती च वन्ध्या ॥
प्रादेशमात्राम् अथ वा शिवस्य
हिरण्मयीं राजतीम् आयसीं वा ।
त्रिशूलखत्वाङ्गधरां वरेण्यां
त्रिलोचनां जटिलां चारुरूपाम् ॥
कृत्वाकृतिं ताम् अभिपूज्य पश्चात्
प्रताप्य वह्नौ तु निधाय पात्रे ।
प्रस्थेन दुग्धस्य ततो ‘भिषेकं
कृत्वा च तत् पाययेत् पुत्रकाम्याम् ॥
इति पुत्रकामव्रतम् ।
[पुत्रकाम्यव्रतम्]
ज्येष्ठे मासि सिते पक्षे पौर्णमास्यां यतव्रतः ।
स्थापयेद् अव्रणं कुम्भं सिततण्डुलपूरितम् ॥
नानाफलयुतं तद्वद् इक्षुदण्डसमन्वितम् ।
सितवस्त्रयुगच्छन्नं सितचन्दनचर्चितम् ॥
नानाभक्ष्यसमोपेतं सहिरण्यं च शक्तितः ।
ताम्रपात्रं गुडोपेतं तस्योपरि निवेदयेत् ॥
तस्माद् उपरि ब्रह्माणं सावर्णपद्मकोदरे ।
कुर्याच् छर्करयोपेतां सावित्रीं तस्य वामतः ॥
[३७७] गन्धधूपं ततो दद्याड् गीतवाद्यं च कारयेत् ।
तदभावे कथां कुर्याद् यथा प्राह पितामहः ॥
ब्रह्मनाम्नीं च प्रतिमां कृत्वा गुडमयीं शुभाम् ।
शुक्लपुष्पाक्षततिलैर् अर्चयेत् पद्मसम्भवम् ॥
ब्रह्मणे पादौ सम्पूज्य जङ्घे सौभाग्यदाय च ।
विधये चोरुयुग्मं च मन्मथायेति वै कटिम् ॥
ब्रह्मोदरायेत्य् उदरम् अनङ्गायेत्य् उरो हरेः ।
मुखं पद्ममुखायेति बाहू वै वेदपाणये ॥
नमः सर्वात्मने मौलिम् अर्चयेच् चापि पङ्कजम् ।
ततः प्रभ्ते तं कुम्भं ब्राह्मणाय निवेदयेत् ॥
ब्राह्मणान् भोजयेद् भक्त्या स्वयं तु लवणं विना ।
शक्त्या तु दक्षिणां दद्याद् इमं मन्त्रम् उदीरयेत् ॥
“प्रीयताम् अत्र भगवान् सर्वलोकपितामहः ।
हृदये सर्वलोकानां यस् त्व् आनन्दो ‘भिधीयते ॥”
अनेन विधिना सर्वं मासि मासि समाचरेत् ।
उपवासी पौर्णमास्याम् अव्ययं ब्रह्म पूजयेत् ॥
फलम् एकं तु सम्प्राश्य शर्वर्यां भूतले स्वपेत् ।
तत्र त्रयोदशे मासि घृतधेनुसमन्विताम् ॥
शय्यां दद्याद् विधिं कृत्वा सर्वोपस्करसंयुताम् ।
ब्रह्माणं काञ्चनं कृत्वा सावित्रीं राजतीं तथा ॥
पद्मासनः सृष्टिकर्ता सावित्री च फलस्य तु ।
[३७८] वस्त्रैर् द्विजं सपत्नीकं पूज्य शक्त्या विभूषणैः ॥
शक्त्या गवाह्निकं दद्यात् प्रीयताम् इत्य् उदीरयेत् ।
होमः शुक्लतिलैः कार्यो ब्रह्मनामानि कीर्तयेत् ॥
गव्येन सर्पिषा तद्वत् पायसेन च कर्मवित् ।
विप्रेभ्यो भोजनं दत्वा वित्तशाठ्यविवर्जितः ॥
इक्षुदण्डांस् ततो दद्यात् पुष्पमालाः स्वशक्तितः ।
यो ब्रह्मा स स्मृतो विष्णुर् आनन्दात्मा महेश्वरः ॥
सुखार्थी कामरूपेण स्मरेद् एवं पितामहम् ।
यः कुर्याच् च विधानेन पौर्णमासीं स्त्रियो ‘पि वा ॥
सर्वपापविनिर्मुक्तः प्राप्नोति ब्रह्म शाश्वतम् ।
इह लोके वरान् पुत्रान् सौभाग्यं ध्रुवम् अश्नुते ॥
इति पुत्रकाम्यव्रतम् ।
पौर्नमासीव्रतानि
[चन्द्ररोहिणीशयनव्रतम्]
तत्र मत्सपुराणे ।
नारद उवाच ।
दीर्घायुरारोग्यकुलाभिवृद्धि-
युक्तः पुमान् रूपगुणान्वितः स्यात् ।
[३७९] मुहुर् मुहुर् जन्मनि येन सम्यग्
व्रतं समाचक्ष्व तद् इन्दुमौले ॥
भगवान् उवाच ।
त्वया पृष्टम् इदं सम्यक् पुत्राद्यक्षयकारकम् ।
रहस्यं तव वक्ष्यामि यत् पुराणविदो विदुः ॥
रोहिणीचन्द्रशयनं नाम व्रतम् इहोत्तमम् ।
तस्मिन् नारायणस्यार्चाम् अर्चयेद् इन्दुनामभिः ॥
यदा सोमदिने शुक्ला भवेत् पञ्चदशी क्वचित् ।
अथ वा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजापते ॥
तदा स्नानं नरः कुर्यात् पञ्चगव्येन सर्षपैः ।
“ब्रह्मनक्षत्रम्” रोहिणी ।
आप्यायस्वेति च जपेद् विद्वान् अष्टशतं पुनः ॥
शूद्रो ‘पि परया भक्त्या पाषण्डालापवर्जितः ।
सोमाय वरदायाथ विष्णवे च नमो नमः ॥
कृतजप्यश् च भवनम् आगत्य मधुसूदनम् ।
पूजयेत् फलपुष्पैश् तु सोमनामानि कीर्तयेत् ॥
सोमाय शान्ताय नमो ‘स्तु पादाव्
अनन्तधाम्ने ‘पि च जानुजङ्घे ।
ऊरुद्वयं चापि जलोदराय
सम्पूजयेन् मेढ्रम् अनङ्गबाहवे ॥
[३८०] नमो नमः कामसुखप्रदाय
कटिः शशाङ्कस्य सदार्चनीया ।
तथोदरं चाप्य् अमृतोदराय
नाभिस् तु पूज्या च त्रिलोचनाय ॥
नमो ‘स्तु चन्द्राय मुखं च पूज्यं
दन्ता द्विजानाम् अधिपाय पूज्याः ।
आस्यं नमश् चन्द्रमसे ‘भिपूज्यं
पूज्याव् अथौष्ठौ कुमुदप्रियाय ॥
नासा च नाथाय वनौषधीनाम्
आनन्दभूताय पुनर्भुवौ च।
नेत्रद्वयं पद्मनिभं तथेन्दोर्
इन्दीवरश्यामकराय शौरेः ॥
नमः समस्तामरवन्दिताय
कर्णद्वयं दैत्यनिषूदनाय ।
ललाटम् इन्दोर् उदधिप्रियाय
केशाः सुषुम्नाधिपते ‘भिपूज्याः ॥
शिरः शशाङ्काय अअमो मुरारेर्
विश्वम्भरायेति नमः किरीटम् ।
पद्मप्रिये रोहिणि नाम लक्ष्मि
सौभाग्यसौख्याम्र्तचारुकाये ॥
[३८१] देवीं च सम्पूज्य् सुगन्धिपुष्पैर्
नैवेद्यधूपादिभिर् इन्दुपत्नीम् ।
सुप्त्वाथ भूमौ पुनर् उत्थितेन
स्नात्वा च विप्राय हविष्ययुक्तः ॥
देयः प्रभाते सहिरण्यवारि-
कुम्भो नमः पापविनाशनाय ।
सम्प्राश्य गोमूत्रम् अमांसम् अन्नम्
अक्षारवर्ज्यान् अथ विंशतिं च ॥
ग्रासान् पयःसर्पियुतान् उपोष्य
भुक्त्वेतिहासं शृणुयान् मुहूर्तम् ।
कदम्बनीलोत्पलकेतकानि
जाती सरोजं शतपत्रिका च ॥
अम्लानकुब्जान्य् अथ सिन्धुवारं
पुष्पं तथा नारद मल्लिकायाः ।
शुक्लं च विष्णोः करवीरपुष्पं
सचम्पकं च क्रमशः प्रदेयम् ॥
श्रावणादिषु मासेषु क्रमाद् एतानि सर्वदा ।
तस्मिन् मासे व्रतादिः स्यात् स्वपुष्पैर् अर्चयेच् छिवम् ॥
एवं संवत्सरं यावद् उपोष्य विधिवन् नरः ।
व्रतान्ते शयनं दद्याद् दर्पणोपस्करान्वितम् ॥
रोहिणीचन्द्रमिथुनं कारयित्वा च काञ्चनम् ।
चन्द्रः षडङ्गुलः कार्यो रोहिणी चतुरङ्गुला ॥
[३८२] मुक्ताफलाष्टकयुतां सितवस्त्रजटान्विताम् ।
क्षीरकुम्भोपरि पुनः कांस्यपात्रसमावृताम् ॥
दद्यान् मन्त्रेण पूर्वाह्णे शाकेक्षुफलसंयुताम् ।
श्वेताम् अथ सुवर्णास्यां खुरै रौप्यैः समन्विताम् ॥
सवस्त्रबाजनां धेनुं तथा शङ्खोपशोभिताम् ।
भूषणैर् द्विजदाम्पत्यम् अलङ्कृत्य गुणान्वितम् ॥
चन्द्रो ‘यं द्विजरूपेण सभार्य इति कल्पयेत् ।
यथा हि रोहिणी कृष्ण शयनं ह्य् उपगच्छति ॥
सोमरूपस्य ते तद्वन् ममाभेदो ‘स्तु भूतिभिः ।
यथा त्वम् एव सर्वेषां परमानन्दमुक्तिदः ॥
भक्तिर् मुक्तिस् तथा भुक्तिस् त्वयि चन्दास्तु मे सदा ।
इति संसारभीतस्य मुक्तिकामस्य चानघ ॥
रूपारोग्यायुषाम् एतद् विधायकम् अनुत्तमम् ।
इदम् एव पितॄणां च सर्वथा त्व् अवलम्बकम् ॥
त्रैलोक्याधिपतिर् भूत्वा सप्तकल्पशतत्रयम् ।
चन्द्रलोकम् अवाप्नोति विष्णुर् भूत्वा विमुच्यते ॥
नारी वा रोहिणीचन्द्रशयनं वा समाचरेत् ।
सापि तत्फलम् आप्नोति पुनरावृत्तिदुर्लभम् ॥
इति चन्द्ररोहिणीशयनव्रतम् ।
[३८३]
[सोमव्रतम्]
भविष्यपुराणे ।
सुमन्तुर् उवाच ।
सोमव्रतं तथा चास्य शङ्करस्य च प्रीतये ।
ताम्रपात्रं पयःपूर्णं कृत्वा तत्स्थं च शङ्करम् ॥
प्रच्छाद्योपरि वस्त्रेण गन्धपुष्पार्चनं महत् ।
शिवभक्ते द्विजे दद्याद् भोजयित्वा विधानतः ॥
प्राच्यां समुद्गते सोमे प्रतीच्यां च गते रवौ ।
पौर्णमास्यां च वैशाख्यां गृह्य पात्रं शिवाग्रतः ॥
प्रीयताम् मे महादेवः सोममूर्तिर् जगत्पतिः ।
तस्मै विप्राय तत् पात्रम् अर्पयेद् भक्तितः सदा ॥
एतत् सोमव्रतं नाम कृत्वा सोमान्तिकं व्रजेत् ।
रुद्रलोकात् परिभ्रष्टो भवेज् जातिस्मरो नरः ॥
पूर्वाभ्यासेन तेनैव पुनः शिवपुरं व्रजेत् ।
इति सोमव्रतम् ।
[ईशानव्रतम्]
कालिकापुराणे ।
अनिलाद उवाच ।
अथोपोष्य चतुर्दश्यां पौर्णमास्यां गुरोर् दिने ।
[३८४] पूजयेद् विधिनानेन लिङ्गं सर्वं निबोध मे ॥
ब्राह्मणान् पश्चिमे भागे वामे लिङ्गस्य वै हरिम् ।
खखोल्कं दक्षिणे रौद्रम् ईश्वरं प्राग्दिशि स्थितम् ॥
ईशानं मध्यमे देशे पूर्वाह्णे चैव पूजयेत् ।
विलिप्यागरुचन्द्रेण कुसुमैश् च सुगन्धिभिः ॥
गुग्गुलं चाज्यसंयुक्तम् अगरुं वासितं शुभम् ।
दग्ध्वा नीराजनं कुर्याद् दत्वा वै युग्मपञ्चकम् ॥
नैवेद्यं च बलिं चैव पूर्ववत् स्वगृहं व्रजेत् ।
पञ्चगव्यं ततः प्राश्य आचार्यं ब्राह्मणांस् तथा ॥
व्रतिनो मिथुनान्य् एव भोजयेच् च स्वशक्तितः ।
हेमवस्त्रादिकं चैव यत्नात् कृत्वाथ कल्पयेत् ॥
ततो देवः प्रपूज्यो वै नैवेद्यं तु निवेद्य च ।
नत्वाग्निं पूजयित्वा च पञ्चवक्त्रं शिवं स्मरेत् ॥
प्राप्ते ‘ब्दे पञ्चमे गावः पञ्च पञ्च नियोजयेत् ।
तेषाम् उद्दिश्य तेष्व् एव न्यूनं वापि ततो ‘धिकम् ॥
निखिलं प्राग्विशेषं च कर्तव्यं तत्पदे शुचि ।
[३८५] सुखकीर्तिश्रियो ‘न्नं च इहैव विभवाय च ॥
रहस्यम् एतद् यत् प्रोक्तं न देयं यस्य कस्यचित् ।
इति ईशानव्रतम् ।
अथ नानातिथिव्रतानि
[तिथियुगलव्रम्]
तत्र अत्रिः ।
द्वे चाष्टम्यौ च मासस्य चतुर्दश्यौ तु द्वे तथा ।
अमावास्यापौर्णमास्यौ सप्तमी द्वादशीव्रतम् ॥
संवत्सरम् अभुञ्जानः सततं च जितेन्द्रियः ।
ब्रह्मचर्यफलं यच् च यत् फलं समुपार्जितम् ॥
क्रतु[ऋतु?]गामिफलं यच् च तद् अवाप्नोत्य् अभोजनात् ।
इति तिथियुगलव्रतम् ।
[शिवोपासनव्रतम्]
**भविष्यपुराणे **।
चतुर्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।
यो ‘ब्दम् एकं न भुञ्जीत शिवार्चनरतः शुचिः ॥
[३८६] यत् पुण्यम् अक्षयं प्रोक्तं सततं सत्रयाजिनाम् ।
तत् पुण्यं सफलं तस्य शिवलोकं च गच्छति ॥
इति शिवोपासनव्रतम् ।
[शिवनक्तव्रतम्]
कृष्णाष्टमीं तु नक्तेन तथा कृष्णचतुर्दशीम् ।
इह भोगान् अवाप्नोति परत्र शिवम् ऋच्छति ॥
तथा ।
यो ‘ब्दम् एकं प्रकुर्वीत नक्तं पर्वणि पर्वणि ।
ब्रह्मचारी जितक्रोधः शिवार्चनरतः सदा ॥
संवत्सरान्ते विप्रेन्द्र शिवभक्तान् समाहितान् ।
भोजयित्वा ततो ब्रूयात् प्रीयतां भगवान् प्रभुः ॥
एवं विधिसमायुक्तः शिवलोकं च गच्छति ।
न च मानुषतां लोके ह्य् अधुर्वां प्राप्यते नरः ॥
स्कन्दपुराणे ।
ईश्वरोवाच ।
नवमी चाष्टमी चैव पौर्णमासी त्रयोदशी ।
यो भुङ्क्ते दिवि चैतेषु स्वपर्वसु नरः समाम् ॥
गणाधिपत्यं लभते अनिशं यद् दिने दिने ।
पृथिवीभाजने भुङ्क्ते स त्रिरात्रफलं लभेत् ॥
अहोरात्रे विन्दति । “पृथिवीभाजने” भूवाव् अन्नं निधायेत्य् अर्थः ।
[३८७] संवत्सरं तु यो भुङ्क्ते नित्यम् एव ह्य् अतन्द्रितः ।
निवेद्य पितृदेवेभ्यः पृथिव्याम् एव वा भवेत् ॥
“यो भुङ्क्ते” पृथिव्याम् एवेत्य् अर्थः ।
[इति शिवनक्तव्रतम्]
[अर्कव्रतम्]
तत्र भविष्यपुराणे ।
आदित्य उवाच ।
सप्तम्यां च तथाष्टम्यां पक्षयोर् उभयोर् अपि ।
यो ‘ब्दम् एकं नक्तभोजी नियतात्मा जितेन्द्रियः ॥
यत् पुण्यं परमं प्रोक्तं सततं सत्रयाजिनाम् ।
सत्यवादिषु यत् पुण्यं यत् पुण्यम् ऋतुगामिनाम् ॥
तत् फलं खलु प्राप्यासौ मम लोकम् उपैति सः ।
पृथिवीं भाजनं कृत्वा यो भुङ्क्ते क्षयसन्धिषु ॥
अहोरात्रेण् चैकेन त्रिरात्रफलम् अश्नुते ।
[इति अर्कव्रतम्]
[सुखव्रतम्]
कृष्णषष्ठीं तु यो भुङ्क्ते यस् तु कृष्णां च सप्तमीम् ।
इहैव सुखम् आप्नोति परत्र च शुभां गतिम् ॥
इति सुखव्रतम् ।
[३८८]
[चण्डिकाव्रतम्]
अष्टम्यां च नवम्यां च पक्षयोर् उभयोर् अपि ।
यो ‘ब्दम् एकं न भुञ्जीत चण्डिकाराधने रतः ॥
स याति परमं स्थानं यत्र सा चण्डिका स्थिता ।
इति चण्डिकाव्रतम् ।
[सम्भोगव्रतम्]
द्वे पञ्चम्यौ हि मासस्य द्वौ च प्रतिपदौ नरः ।
सोपवासः सुगन्धाढ्यः शयीत प्रियया सह ॥
खगनिश्चलचित्तस् तु रतिप्रीतिविवर्जितः ।
समस्तस्मृतिशीलश् च तस्य पुण्यफलं शृणु ॥
दिव्यं वर्षसहस्रं तु दिव्यं वर्षशतं तथा ।
तपस् तप्तं भवेत् तेन महद् एव न संशयः ॥
इति सम्भोगव्रतम् ।
[सूर्यव्रतम्]
तथा ।
मार्तण्डप्रीतये यस् तु श्राद्धं कुर्याद् विधानतः ।
[३८९] सङ्क्रान्ताव् अयने धीर सूर्यओके महीयते ॥
कृतोपवासः षष्ठ्यां तु सप्तम्यां यस् तु मानवः ।
करोति विधिवद् भक्त्या भास्करः प्रीयताम् इति ।
स सर्वरोगनिर्मुक्तः सूर्यलोके महीयते ।
इति सूर्यव्रतम् ।
[यमव्रतम्]
महाभारते ।
यजिष्णुः पञ्चमीं षष्ठीं यमान् यो भोजयेद् द्विजान् ।
अष्टमीम् अथ कौन्तेय शुक्लपक्षे चतुर्दशीम् ॥
उपोष्य व्याधिरहितो रूपवान् अभिजायते ।
इति यमव्रतम् ।
[हरिव्रतम्]
नरसिंहपुराणे ।
पौर्णमास्याम् अमावास्याम् एकभक्तं समाचरेत् ।
तत्रैकभक्तं कुवाणः पुण्यां गतिम् अवाप्नुयात् ॥
चतुर्थ्यां च चतुर्दश्यां सप्तम्यां नक्तम् आचरेत् ।
अष्टम्यां च चतुर्दश्यां सप्तम्यां नक्तभोजनम् ॥
अष्टम्यां च त्रयोदश्यां सम्प्राप्नोत्य् अभिवाञ्छितम् ।
[३९०] कालिकापुराणे ।
रौक्मरूपान्वितं पात्रं दधिपूर्णं च राजितम् ।
पात्रं दधिपयःपूर्णं प्रदद्यान् मौक्तिकान्वितम् ॥
संयोज्य वस्त्रयुग्मेन विष्णोर् अग्रे निवेशयेत् ।
ततः पुण्याहवाक्येन जपशब्दादिमङ्गलैः ॥
हरिं चैवार्चयेद् यो हि स्नाप्य सौवर्णपङ्कजैः ।
ततस् तु पात्रम् आदाय वाद्यब्रह्मस्वनैः स्वयम् ॥
कुर्यात् प्रदक्षिणं तस्मै विष्णवे प्रभविष्णवे ।
ततश् चामन्त्र्य विधिविअत् पूजयेत् तु विशेषतः ॥
एवं विप्रं तु सम्भोज्य दक्षिणाभिश् च दक्षयेत् ।
व्रतिनश् चान्नदानेन वस्त्राद्येन च तर्पयेत् ॥
ये तु वित्तार्थकृपणा तांस् तु शक्त्याथ नन्दयेत् ।
इति हरिव्रतम् ।
[पात्रव्रतम्]
उपोष्यैकादशीं शुक्लां माघमासे तु पूर्णिमाम् ।
कुर्याद् विधिम् इमं सम्यक् तदा तस्य व्रजेत् पदम् ॥
तद् धि रूपप्रदं चैतद् व्रतं सौभाग्यदायकम् ।
पुत्रदं सुखदं चैव विधिना चरितं त्व् इदम् ॥
व्रत्स्यास्य तु वक्तारं समयुक्तं गुणान्वितम् ।
पूजयेद् भूमिकामो ‘थ पादुकाद्यैः शुभान्वितः ॥
[३९१] रौक्मम् आज्ययुतं चाथ पात्रं नीलां च गाम् अपि ।
अभावे तत् तदा हेम्नः कर्षार्धेन तु राजतम् ॥
वस्त्रयुग्मं च नक्तं च सूक्ष्मं पुष्पकचित्रितम् ।
आश्रित्य तत्र तत् पात्रं शुचौ देशे निवेशयेत् ॥
ततो जागरणं कुर्याद् गीतवाद्यादिमङ्गलैः ।
प्रभाते तु नयेत् पात्रं हरेर् आयतनं महत् ॥
स्नाप्य क्षीरादिभिर् देवं विष्णुं सम्पूज्य वै स्वयम् ।
निवेदयेत् तु तत् पात्रं प्रीयताम् इत्य् उदीरयेत् ॥
ततो नानाविधैर् भक्ष्यैः सुगन्धैर् मोदकेन च ।
दधिखण्डाज्ययुक्ताढ्यं नैवेद्यं च बलिं हरेत् ॥
ततो गत्वा गृहं गच्छेद् आचार्यं प्रणमेत् पुनः ।
प्रणम्य भोजयेद् भक्त्या व्रतिनश् च द्विजैः सह ॥
कल्पयेद् भोजनं श्रेष्ठं सर्वेष्व् एव तपस्विषु ।
दीनानां कृपणानां च सर्वेषाम् अनिवारितम् ॥
आचार्यं हेमवस्त्राद्यैर् दक्षयेद् विधिवत् तदा ।
यथाशक्त्या परांश् चैव दीर्घम् आयुर् जिजीविषुः ॥
एतत् पात्रव्रतं ज्ञेयं गुह्यं चाप्य् अप्रकाशितम् ।
अनेनापि व्रतेनैव सम्यक् प्राप्य शुभं पदम् ॥
मोदने सुचिरं कालम् आयुष्मान् बलवान् इह ।
इति पात्रव्रतम् ।
[३९२]
[हरिक्रीषायनव्रतम्]
अनिलाद उवाच ।
नृसिंहम् अथ वा रौक्मं कृत्वा देवं चतुर्भुजम् ।
ताम्रपात्रे प्रतिष्ठाप्य बहुदंष्ट्रं प्रकल्पयेत् ॥
बाहुभ्यां पद्मरागौ तु नखानां विद्रुमांस् तथा ।
पुष्परागैः स्तनोद्देशे कर्णयोर् नीलिकाव् उभौ ॥
राजावर्तेक्षणं कृत्वा नीलवैडूर्यमस्तकम् ।
कृत्वा रूपम् इदं रम्यं तत्पात्रे मधुना युते ॥
पूरयेद् वारिमिश्रेण पूरितं तु पुनर् ददेत् ।
वस्त्रयुग्मेन वा छन्नम् आसने विनिवेशयेत् ॥
गन्धपुष्पैस् तथा धूपैर् जागरं च प्रकल्पयेत् ।
कृत्वा समस्तम् एतत् तु हरये पूर्ववद् ददेत् ॥
यत् किञ्चित् प्राग् विनिर्दिष्टं कुर्यात् सर्वं न हापयेत् ।
कार्तिक्यां वाथ वैशाख्याम् आश्रित्य द्वादशीम् अथ ॥
कृत्वा निवेदयेत् सम्यक् ततस् तत् पदम् अश्नुते ।
अरण्ये वाथ सङ्ग्रामे वस्तुसङ्घसमाकुले ॥
[३९३] न भयं जायते तस्य सकृद् यस् त्व् इदम् आचरेत् ।
परिहार्यापदो घोरा धनम् आयुः प्रयच्छति ॥
सन्ततिं चैव रूपत्वं सौभाग्यं च मनोरथान् ।
एतत् ते कथितं सम्यक् हरेः क्रीडायनं महत् ॥
तत्स्थानप्रापकं चैव धर्माः सङ्क्षेपतः क्रियाः ।
श्रुत्वा ध्यायात् पदं पुण्यं सर्वपापैः प्रमुच्यते ॥
धनम् आयुर् विवर्धेते श्रावणस्य न संशयः ।
श्रावके दक्षिणाम् दद्याच् छक्त्या युग्मं विभूतये ॥
श्रोतव्यं तेन वर्षासु पुराणं वापरे ‘हनि ।
इति हरिक्रीडायनव्रतम् ।
[अथ महाव्रतम्]
अनिलादोवाच ।
महाव्रतम् अहं वक्ष्ये येनारोहन्ति तत् पदम् ।
सुरासुरमुनीनां च दुर्लभं विधिना शृणु ॥
पर्वण्य् आश्वयुजस्यान्ते पायसं च घृतप्लुतम् ।
नक्तं भुञ्जीत शुद्धात्मा ओदनं चैक्षवान्वितम् ॥
[३९४] आचम्याथ शुचिर् भूत्वा कल्पयेद् दन्तधावनम् ।
भुक्त्वा चैतन् महादेवं नत्वा भक्तियुतो व्रती ॥
“अहं देव व्रतम् इदं कर्तुम् इच्छामि शाश्वतम् ।
तवाज्ञया महादेव तत्र गिर्वहणं कुरु ॥”
उक्त्वैवं नियमं गृह्णन् वर्षाण्य् एव तु षोडश ।
तिथेः प्रतिपदायास् तु पालयिष्याम्य् अनुक्रमात् ॥
ततो मार्गशिरे मासि प्रतिपद्य् अपरे ‘हनि ।
उपावसेद् गुरुं पृष्ट्वा महादेवं स्मरन् मुहुः ॥
महादेवरतान् विप्रान् भस्मप्रच्छन्नविग्रहान् ।
षोडशाष्टौ तदर्धं वा दम्पत्यश् च निमन्त्रयेत् ॥
देवं च नक्तम् आसाद्य दीपान् प्रज्वाल्य षोडश ।
पशुनाथं महादेवं भक्त्या नत्वा निमन्त्रयेत् ॥
आमन्त्र्य च गृहं गत्वा महादेवं स्मरन् क्षितौ ।
शुचिवस्त्रास्तृतायां तु निराहारो निशि स्वपेत् ॥
अथोदये सहस्रांशोः स्नात्वा चादाय दीपकान् ।
नैवेद्यं स्नपनाद्यं वा गच्छेत् तच् छङ्करालयम् ॥
गत्वा वितानकं दद्याद् वस्त्रयुग्मं च घण्टिकाम् ।
धूपोत्क्षेपं पताकां च दत्वा स्नानं च कारयेत् ॥
एवम् अभ्यर्च्य देवेशं कषायै रूक्षयेच् च तम् ।
स्नापयेत् पञ्चगव्येन घृतेन तदनन्तरम् ॥
[३९५] मधुना च तथा भूयो दध्ना च पयसा तथा ।
रसेन चाथ खण्डेन फलैश् च स्नापयेत् पुनः ॥
तिलाम्बुना ततः स्नाप्य स्नापयेद् उष्णवारिणा ।
लेपयेत् स्नापयेत् पश्चात् कर्पूरागरुचन्दनैः ॥
एवं सम्पूजयेच् छक्त्या हैमे न्यस्य व्रजेद् गृहम् ।
नानाभक्ष्यैः फलैश् चैव कुर्यान् नैवेद्यम् एव हि ॥
गृहं गत्वा यथान्यायं हिरण्यरेतसं विभुम् ।
जातवेदसम् आधाय तर्पयेत् तिलसर्पिषा ॥
व्रतिनश् च तथाचार्यं मिथुनानि च भोजयेत् ।
हेमवस्त्रादिदानेन यथाशक्त्या तु दक्षयेत् ॥
एवं विसृज्य तान् [सर्वान् सार्धं बन्धुजनैः स्वयम् ।
पीत्वादौ पञ्चगव्यं च हृष्टो भुञ्जीत वाग्यतः ॥
यत् किञ्चिद् एतद् उच्छिष्टं महादेवम् उदीरयेत् ।
तम् उद्दिश्य च तत् सर्वं] कर्तव्यं श्रेय इच्छता ॥
प्रारम्भे च विधिं कुर्याद् दरिद्रो ‘प्य् अथ वेश्वरः ।
वित्तसामर्थ्यतश् चैव प्रतिमासं च कृत्स्नशः ॥
स्वल्पवित्तो ‘थ वा कश्चित् पुष्यादौ कार्तिकावधौ ।
कृत्वा नक्तम् अमावास्यां प्रागुक्तविधिना ततः ॥
प्रोष्ठपद्याम् उपोष्यैवं पञ्चगव्यं पिबेच् छुचिः ।
[३९६] महादेवं स्मरन् सार्धं भक्त्या भुञ्जीत लिङ्गिभिः ॥
मासस्य कार्तिकस्यान्ते कृत्स्नं प्राग्विधिना चरेत् ।
प्रोष्ठपदद्वितीयायाम् उभे तीर्थी उपोषयेत् ॥
एवं पौषे तु सम्प्राप्ते पतिपन्नक्तम् आचरेत् ।
द्वितीये ‘ब्दे द्वितीयायाम् उपवसेत् कार्तिकावधौ ॥
तन् नयेत् प्राग्विधानेन द्वितीयाम् उत्सवं ततः ।
माघमासे तु सम्प्राप्ते कृत्स्नं प्राग्विधिना चरेत् ॥
वित्तशाठ्यम् अकुर्वाणः कृत्स्नम् आलम्भकालिकम् ।
कृत्वा नक्तं तृतीयायां द्वे तिथ्य् उपवसेत् पुनः ॥
तृतीयायां चतुर्थ्यां च पञ्चम्यां पारयेद् बुधः ।
पूर्वं प्रारम्भवद् भोज्यं मिथुनानि तपस्विनः ॥
अभ्यर्च्य च महादेवं भुञ्जीतार्च्य विभावसुम् ।
यजेत पौष्णं द्वितीयायां तृतीयां नक्तम् आचरेत् ॥
उपोष्यैवं चतुर्थ्यां तु पञ्चम्यां पारयेत् ततः ।
प्रतिमासं क्षपेद् एवं यावत् कार्तिकगोचरान् ॥
ततो मार्गशिरे मासि द्वितीये ‘प्य् उपवसेत् पुनः ।
चतुर्थीं पञ्चमीं चैव प्रागारम्भं विधानतः ॥
यजेद् द्वाभ्यां तृतीयायां चतुर्थ्यां नक्तम् आचरेत् ।
पञ्चम्याम् उपवासे तु प्रतिमासं च पञ्चमे ॥
आददीत तिथिं चैकां मार्गमासे तथापराम् ।
पूर्ववत् सन्त्यजेत् पौषे प्रत्यब्दं चैवम् आचरेत् ॥
[३९७] कृत्वैवं षोडशे वर्षे पौर्णमास्याः समुद्गमे ।
पूर्ववद् देवम् अभ्यच्र्य कृशानुं चापि तर्पयेत् ॥
महादेवाय गां दद्याद् दीक्षिताय द्विजाय च ।
हेमशृङ्गां सवत्सां च सघण्टां कांस्यदोहनाम् ॥
सितवस्त्रधरान् विप्रान् महाचार्यांश् च षोडश ।
सम्भोज्य हेमवस्त्राद्यैर् यथाशक्त्या तु दक्षयेत् ॥
छत्रोपानहकुम्भांश् च दद्यात् तेभ्यः पृथक् पृथक् ।
भोजयेत् तान् विसृज्यैवं मिथुनानि तु षोडश ॥
ब्राह्मणांश् च यथाशक्त्या भोजयेद् वेदपारगान् ।
अन्येषां च क्षुधार्तानां दद्याद् अन्नं च भागिने ॥
एवं महाव्रतं कृत्वा ब्रह्मघ्नो ‘य् एति मोचनम् ।
भूर्भुवादिष्व् अशेषेषु लोकेषु बहु भोगदम् ॥
चतुर्णाम् अपि वर्णानां सदा सोपानवत् स्थितम् ।
न कुर्यात् परधनं प्राप्य सम्मुष्टं स्यात् सदैव हि ॥
धन्यम् आयुःप्रदं नित्यं रूपसौभाग्यदं परम् ।
[३९८] स्त्रीपुंसयोश् च निर्दिष्टं व्रतम् एतत् पुरातनम् ॥
विधवयापि कर्तव्यं भवेद् अविधवा च या ।
युक्तयापि च कर्तव्यम् अवियोगाय तद् व्रतम् ॥
उपोष्य प्रतिमासं तु भुञ्जीत व्रतिभिः सह ।
एकद्वित्रिचतुर्भिर् वा सर्वेष्व् अब्देषु शक्तितः ॥
अन्ते चतुर्वर्षाणां च प्रारम्भविधिम् आचरेत् ।
पुण्यसम्भारम् अन्विच्छन्न् अनामयपदं च तत् ॥
अथारब्धे व्रते कश्चिद् असमाप्ते मृतो भवेत् ।
सो ‘पि तत् फलम् आप्नोति सत्प्रारम्भप्रभावतः ॥
वाचकः श्रावकश् चैव श्रोतारश् च व्रस्य ये ।
भवन्ति पुण्यसंश्लिष्टाः तत्पादाभिमुखाश् च ये ॥
[इति महाव्रतम्]
इति नानातिथिव्रतानि ।
[३९९]
अथ नक्षत्रव्रतानि
[पुष्यव्रतम्]
तत्र आपस्तम्बः [२.२०.३–९] ।
उदगयन आपूर्यमाणपक्षस्यैकरात्रम् अवाराध्यम् उपोष्य तिष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा महाराजम् इष्ट्वा तेन सर्पिष्मता ब्राह्मणान् भोजयित्वा पुष्ट्यर्थेण सिद्धिं वाचयेत् । एवम् अहर् अहर् आ परस्मात् तिष्यात् । द्वौ द्वितीये । त्रींस् तृतीये । एवं संवत्सरम् अभ्युच्चयेन । महान्तं पौषं पुष्णाति । आदित एवोपवासः ।
“अवरार्ध्यं” अवरम् । अवरता चैकरात्रोपवासस्यापूतस्य पुंसो बहूपवासपक्षापेक्षया । “महाराजः” कुबेरः । “तेन” हुतशिष्टेन चरुणा । “पुष्ट्यर्थेन सिद्धिं वाचयेत्” पुष्टिः सिद्धिर् अस्त्व् इति वाचयेत् । “एवं” पूर्ववच् चरुणा महाराजेष्टिब्राह्मणभोजनादि कार्यम् । “द्वौ द्वितीये” द्वौ ब्राह्मणौ द्वितीये पुष्ये भोजनीयाव् इत्य् अर्थः । “एवं संवत्सरम् अभ्युच्चयेन” पूर्ववत् तृतीयां च चतुर्थीम् इत्य् उत्तरोत्तरवृद्ध्या ब्राह्मणान् [४००] भोजयेद् इत्य् अर्थः । “आदित एव” प्रथमपुष्ये पूर्वे ह्य् उत्तरे चेत्य् अर्थः ।
इति पुष्यव्रतम् ।
[नक्षत्रपुरुषव्रतम्]
मत्स्यपुराणे ।
नारदोवाच ।
श्रीमदारोग्यरूपायुर्भाग्यसौभाग्यसम्पदा ।
संयुक्तस् तव विष्णोर् वा पुमान् भक्तः कथं भवेत् ॥
नारी वा विधवा सर्वगुणसौभाग्यसंयुता ।
क्रमान् मुक्तिपदं देव किञ्चिद् व्रतम् इहोच्यताम् ॥
रुद्रोवाच ।
सम्यक् पृष्टं त्वया ब्रह्मण् सर्वलोकहितावहम् ।
श्रुतम् अप्य् अत्र यच् छान्त्यै तद् व्रतं शृणु नारद ॥
नक्षत्रपुरुषं नाम वरं नारायणार्चनम् ।
पादादि कुर्याद् विधिवद् विष्णोर् नामानि कीर्तयेत् ॥
प्रतिमां वासुदेवस्य मूलर्क्षाद्य् अभिपूजयेत् ।
चैत्रे मासि समासाद्य कृत्वा ब्राह्मणवाचनम् ॥
मूले नमो विश्वधराय पादाव्
अनन्तदेवाय च रोहिणीषु ।
जङ्घे च पूज्ये वरदाय चैव
द्वे जानुनी चाश्विकुमार ऋक्षे ॥
[४०१] [पूर्वोत्तराषाढयुगे च पादौ
नमः शिवायेत्य् अभिपूजनीयौ ।]
पूर्वोत्तराफल्गुनियुग्मके च
मेढ्रं नमः पञ्चशराय पूज्यम् ॥
कटिं नमः शार्ङ्गधराय विष्णोः
सम्पूजयेन् नारद कृत्तिकासु ।
तथार्चयेद् भाद्रपदाद्वये च
पार्श्वे नमः केशिनिषूदनाय ॥
कुक्षिद्वयं नारद रेवतीषु
दामोदरायेत्य् अभिपूजनीयम् ।
ऋक्षे ‘नुराधासु च माधवाय
नमो ‘स्त्व् अथोरःस्थलम् एव पूज्यम् ॥
पृष्ठं धनिष्ठासु च पूजनीयम्
अघौधविध्वंसकराय तद्वत् ।
[श्रीशङ्खचक्रासिगदाधराय
नमो विशाखासु भुजाश् च पूज्याः ॥
हस्ते तु हस्ता मधुसूदनाय
नमो ‘भिपूज्या इति कैटभारेः ।]
पुनर्वसाव् अङ्गुलिपर्वभागाः
साम्नाम् अधीशाय नमो ‘भिपूज्याः ॥
भुजङ्गनक्षत्रदिने नखानि
सम्पूजयेन् मत्स्यशरीरिणं च ।
[४०२] कूर्मस्य पादौ शरणं व्रजामि
ज्येष्ठासु कण्ठे हरिर् अर्चनीयः ॥
श्रोत्रे वराहाय नमः प्रपूज्य
जनार्दनस्य श्रवणे च सम्यक् ।
पुष्ये मुखं दानवसूदनाय
नमो नृसिंहाय च पूजनीयम् ॥
नमो नमः कारणवामनाय
स्वातीषु दन्ताग्रम् अथार्चनीयम् ।
आस्यं हरेत् भार्गवनन्दनाय
सम्पूजनीयं द्विज वारुणे तु ॥
नमो ‘स्तु रामाय मधासु नासा
सम्पूजनीया रघुनन्दनस्य ।
मृगोत्तमाङ्गे नयने च पूज्ये
नमो ‘स्तु ते राम विघूर्णिताक्ष ॥
“मृगोत्तमाङ्गम्” मृगशिराः ।
बुधाय शान्ताय नमो ललाटं
चित्रासु सम्पूज्यतमं मुरारेः ।
शिरो ‘भिपूज्यं भरणीषु विष्णोर्
नमो ‘स्तु विश्वेश्वर कल्किरूप ॥
आर्द्रासु केशाः पुरुषोत्तमस्य
सम्पूजनीया हरये नमस् ते ।
उपोषितेनर्क्षदिनेषु शक्त्या
सम्पूजनीया द्विजपुङ्गवाः स्युः ॥
[४०३] पूर्णे व्रते सर्वगुणान्विताय
वाग्रूपशीलाय च सामगाय ।
हैमीं विशालायतबाहुदण्डां
मुक्ताफलेन्द्रोपलवज्रयुक्ताम् ॥
गुडेन पूर्णे कलशे निविष्टाम्
अर्चां हरेर् वस्त्रमयीं सहैनाम् ।
शय्यां तथोपस्करभाजनादि-
युक्तां प्रदद्याद् द्विजपुङ्गवाय ॥
यद् यत् प्रियं किञ्चिद् इहास्ति देयं
तत् तद् द्विजायात्महिताय सर्वम् ।
मनोरथान्नः सफलीकुरुष्व
हिरण्यगर्भाच्युतरुद्ररूप ॥
सलक्ष्मीकं सभार्याय काञ्चनं पुरुषोत्तमम् ।
शय्यां दद्याच् च मन्त्रेण ग्रन्थिभेदविवर्जिताम् ॥
यथा न विष्णुभक्तानां वृजिनं जायते क्वचित् ।
तथा सुरूपपारम्ये केशवे भक्तिर् उत्तमा ॥
यथा लक्ष्म्या न शयनं तव शून्यं जनार्दन ।
शय्या ममाप्य् अशून्यास्तु कृष्ण जन्मनि जन्मनि ॥
एवं निवेद्य तत् सर्वं वस्त्रमाल्यानुलेपनम् ।
नक्षत्रपुरुषज्ञाय विप्रायाथ विसर्जयेत् ॥
भुञ्जीतातैललवणं सर्वर्क्षेष्व् अप्य् उपोषितः ।
भोजयेत् तद् यथाशक्त्या वित्तशाठ्यविवर्जितः ॥
[४०४] इति नक्षत्रपुरुषम् उपोष्य विधिवत् स्वयम् ।
सर्वान् कामान् अवाप्नोति विष्णुलोके महीयते ॥
ब्रह्महत्यादिकं किञ्चिद् यद् अत्रामुत्र वा कृतम् ।
आत्मना वाथ पितृभिस् तत् सर्वं नाशम् आप्नुयात् ॥
इति नक्षत्रपुरुषव्रतम्
[आदित्यशयनव्रतम्]
श्रीभगवान् उवाच ।
उपवासेष्व् अशक्तानां नक्तं भोजनम् इष्यते ।
यस्मिन् व्रते तद् अप्य् अत्र श्रूयतां वैष्णवं महत् ॥
आदित्यशयनं नाम यथावच् छङ्करार्चनम् ।
येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते ॥
यदा हस्तेन सप्तम्याम् आदित्यस्य दिनं भवेत् ।
सूर्यस्य वाथ सङ्क्रान्तिस्थिथिः सा सार्वकामिकी ॥
उमामहेश्वरस्यार्चाम् अर्चयेत् सूर्यनामभिः ।
सूर्यार्चां हरलिङ्गं चाप्य् उभयं पूजयेद् अतः ॥
उमापते रवेश् चापि न भेदः क्वचिद् इष्यते ।
यस्मात् तस्मान् मुनिश्रेष्ठ गृहे शम्भुं समर्चयेत् ॥
[४०५] हस्तेन सूर्याय नमो ‘स्तु पादाव्
अर्काय चित्रास्व् अथ गुल्फदेशम् ।
स्वातीषु जङ्घे पुरुषोत्तमाय
धात्रे विशाखासु च जानुदेशम् ॥
तथानुराधासु नमो ‘स्तु पूज्यम्
ऊरुद्वयं देवसहस्रभानोः ।
ज्येष्ठासु गुह्यं प्रतिपूज्य भानोर्
इन्द्राय सोमाय कटिं च मूले ॥
पूर्वोत्तराषाढयुगे च नाभिं
त्वष्ट्रे नमः सप्ततुरङ्गमाय ।
तीक्ष्णांशवे तु श्रवणे च कुक्षिः
कक्ष्ये धनिष्ठासु विकर्तनाय ॥
वक्षःस्थलं ध्वान्तविनाशनाय
जलाधिपर्क्षे प्रतिपूजनीयम् ।
“जलाधिपर्क्षं” शतभिषा ।
पूर्वोत्तराभाद्रपदाद्वये च
बाहू नमश् चन्द्रकराय पूज्यौ ॥
धाम्नाम् अधीशाय करद्वयं च
सम्पूजनीयं द्विज रेवतीषु ।
[४०६] नखानि पूज्यानि तथाश्विनीषु
नमो ‘स्तु सप्ताश्वधुरन्धराय ॥
कठोरधाम्ने भरणीषु पृष्ठं
दिवाकरायेत्य् अभिपूजनीयम् ।
ग्रीवाग्निष्क्षे ‘धरम् अम्बुजेशं
सम्पूजयेन् नारद रोहिणीषु ॥
“अग्निऋक्षम्” कृत्तिका ।
मृगोत्तमाङ्गे दशना मुरारेः
सम्पूजनीया हरये नमस् ते ।
नमः सवित्रेति च शाङ्करे तु
नासाथ पूज्या च पुनर्वसु वा ॥
“शाङ्करम्” आर्द्रा ।
ललाटम् अम्भोरुहवल्लभाय
पुष्ये ‘लकान् वेदशरीरिणश् च ।
सार्पे ‘थ मौलं विबुधप्रियाय
मघासु कर्णाव् इति गोगणेशम् ॥
“सार्पम्” आश्लेषा ।
पूर्वासु गोब्राह्मणनन्दनाय
नेत्राणि सम्पूज्यतमानि शम्भोः ।
अथोत्तराफाल्गुनिभे भ्रुवौ च
विश्वेश्वरायेति च पूजनीये ॥
[४०७] नमो ‘स्तु पाशाङ्कुशभस्मशूल-
कपालसर्पेन्दुधनुर्धराय ।
जरासुरानङ्गपुरान्धकादि-
विनाशशूलाय नमः शिवाय ॥
इत्यादि चास्त्राणि च पूजयित्वा
विश्वेश्वरायेति शिरोऽभिपूजनम् ।
भोक्तव्यम् अत्रैवम् अतैलम् अन्नम्
अमांसम् अक्षारम् अभुक्तशेषम् ॥
[इत्य् एवंविधनक्तानि कृत्वा दद्यात् पुनर् वृषम् ।
शालीयतण्डुलप्रस्थम् उदुम्बरमये घृतम् ॥
संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत् ।]
सप्तमे वस्त्रयुग्मं च पारणे त्व् अधिकं भवेत् ॥
चतुर्दशे तु सम्प्राप्ते पारणे नारदाब्दिके ।
ब्राह्मणान् भोजयेद् भक्त्या गुडक्षीरघृतादिभिः ॥
कृत्वाथ काञ्चनं पद्मम् अष्टपत्रं सकर्णकम् ।
शुद्धम् अष्टाङ्गुलं तच् च पद्मरागदलान्वितम् ॥
शय्यां विलक्षणां कृत्वा विरुद्धग्रन्थिवर्जिताम् ।
सोपधानकविश्रामां स्वास्तीर्णावरणाश्रयाम् ॥
पादुकोपनहच्छत्रचामरासनदर्पणैः ।
भूषणैर् अपि संयुक्तां फलवस्त्रानुलेपनैः ॥
अस्यां निधाय तत् पद्मम् अलङ्कृत्य गुणान्वितम् ।
[४०८] कपिलां वस्त्रसंयुक्ताम् अतिशीलां पयस्विनीम् ॥
रौप्यखुरां हेमशृङ्गीं सवत्सां कांस्यदोहनाम् ।
दद्यान् मन्त्रेण पूर्वाह्णे न चैनाम् अभिलङ्घयेत् ॥
“यथैवादित्यशयनम् अशून्यं तव सर्वदा ।
कान्त्या धृत्या श्रिया राज्ञ्या तथा मे सन्तु सिद्धयः ॥
यथ न देवाः श्रेयांसं त्वदन्यम् अनघं विदुः ।
तथा माम् उद्धराशेषाद् दुःखसंसारसागरात् ॥”
ततः प्रदक्षिणीकृत्य प्रणम्य च विसर्जयेत् ।
शय्यागवादि तत् सर्वं द्विजस्य भवनं नयेत् ॥
इदं महापातकभिन्नराणाम्
अप्य् अक्षयं देववेदविदो वदन्ति ।
नैव त्व् अपुत्रेण धनैर् वियुक्तः
पत्नीभिर् आनन्दकरः सुराणाम् ॥
नाभ्येति रोगं च न दुःखशोकं
या वाथ नारी कुरुते ‘तिभक्त्या ।
इति पठति शृणोति वा तद् इत्थं
रविशयनं पुरुहूतवल्लभः स्यात् ॥
अपि नरकगतान् पितृन् असेषान्
रविभवनं नयतीह यः करोति ॥
इत्य् आदित्यशयनव्रतम् ।
[४०९]
[पुत्रोत्पत्तिव्रतम्]
ब्रह्मपुराणे ।
सूतोवाच ।
ब्रह्मणो मानसः पुत्रो वसिष्थ इति नः श्रुतम् ।
तस्य शक्तिः प्रियः पुत्रस् तस्य पुत्रः पराशरः ॥
तपश् चचार सुमहद् दुश्चरं सुरदानवैः ।
पुत्रार्थी ब्रह्मचारी च ततो लब्धवरो ‘भवत् ॥
स पुत्रं लप्स्यसीत्य् एवं देवैर् उक्तो महात्मभिः ।
तीर्थयात्राप्रसङ्गेन चचार पृथिवीतले ॥
पश्यन् नानाविधान् भावान् यमुनातीरम् आगतः ।
तत्र संवत्सरं स्नानं श्रवणे श्रवणे मुनिः ॥
मनोरथफलप्राप्त्यै चकार श्रद्धयान्वितः ।
[पाराशर्यं सुतं लेभे व्रतस्यास्य प्रभावतः ॥]
एवम् अन्यो ‘पि चर्क्षेषु स्नात्वा शुद्धिम् अवाप्नुयात् ।
[पुत्रान् पौत्रांश् च लभते सुखं चात्यन्तम् अश्नुते ॥]
इति पुत्रोत्पत्तिव्रतम्
[४१०]
[गोयुग्मव्रतम्]
देवीपुराणे ।
वृषं गां च समादाय युवानौ लक्षणान्वितौ ।
हेमशृङ्गैः खुरै रौप्यैः सवस्त्रैः पूजयेन् मुने ॥
शिवो मे पूजयित्वा तु तद्दिने यः प्रयच्छति ।
शिवभक्ताय विप्राय रोहिण्या वा मृगेण वा ॥
न वियोगो भवेत् तस्य सुतपत्नीपतेः क्वचित् ।
विमानैर् वातरंहोभिर् गच्चेच् छिवपुरं द्विजः ॥
ततो बौमांश् चिरं भुक्त्वा इह चागत्य जायते ।
समृद्धो धनधान्याभ्यां पुत्रपौत्रसमाकुलः ॥
विगतारिर् भवेद् ब्रह्मन् व्रतस्यास्य प्रभावतः ।
इति गोयुग्मव्रतम् ।
[गोरत्नव्रतम्]
यो वा रत्नसमायुक्तं गोयुगं पूजयेन् मुने ।
प्रयच्छति शिवो मे च प्रीयतां भावितात्मना ॥
[४११] स सर्वपापदुःखाभ्याम् विमुक्तः क्रीडते सदा ।
इह लोके भवेद् धन्यो देहान्ते परमं पदम् ॥
इति गोरत्नव्रतम् ।
[नक्षत्रविधिव्रतम्]
**मनुर् **उवाच ।
अतः परं प्रवक्ष्यामि रूपसौभाग्यकारकम् ।
नक्षत्रविधिना वत्स यथा तुष्यति शङ्करी ॥
मृगाद् आरभ्य मूलेन पादौ जातिस्रजा पुरा ।
पूजयेत् सोपवासस् तु नक्षत्रान्ते तु पारणम् ॥
यवान्नं हविषा युक्तं ब्राह्मे जङ्घे प्रपूजयेत् ।
“ब्राह्मं” रोहिणी ।
कल्हारैर् भृङ्गराजैश् च तिलमाषान्नभोजनम् ॥
तेनैव प्रथमं विप्रान् अश्विन्यां जानुनी जपेत् ।
कुन्दैश् च सितपुष्पैश् च भोजने दधिशर्कराः ॥
आषाढद्वितये चोरू बिल्वपत्रैः प्रपूजयेत् ।
नक्षत्रान्ते भोजयीत ब्राह्मणांस् तच् च पारणम् ॥
गुह्यं च फाल्गुनीयुग्मे पारयन्त्या प्रपूजयेत् ।
“पारयन्ती” पुष्पविशेषः ।
[४१२] दधिभक्तं तु नैवेद्यं कृत्तिकासु कटिं यजेत् ॥
दमनैः सितपुष्पैश् च लड्डुकैर् दधिभोजनैः ।
पार्श्वे भाद्रपदायुग्मे तथा च कुसुमैः सितैः ॥
क्षीरान्नं दधि विप्राणां नक्षत्रान्ते तु भोजनम् ।
पौषे कुक्षिद्वयं देव्याः सहकारस्रजा यजेत् ॥
घृतमाषान्नभोज्यं तु अनूराधायुगे यजेत् ।
कर्णिकारैः शुभैः पीतैर् भोजनं घृतपाचितम् ॥
पृष्ठदेशं धनिष्ठासु हेमपुष्पैः प्रपूजयेत् ।
“हेमपुष्पैः” नागकल्हारैः ।
कर्णिपत्रैश् च नैवेद्यं दोर्विशाखासु पूजयेत् ॥
मरुत्पत्रैः सुगन्धैश् च देयं भोज्यं तु पायसम् ।
[करौ करे पूजयीत उशीरतगरादिभिः ॥
गुडक्षीरं च नैवेद्यम् अङ्गुलीश् च पुनर्वसौ ।
कुङ्कुमेनार्चयेद् देव्या देयं भोज्यं च षाष्टिकम् ॥]
नखान् भुजङ्गदैवत्ये पुन्नागादिभिर् अर्चयेत् ।
भोज्यं तु मल्लिका देया ग्रीवां ज्येष्ठासु पूजयेत् ॥
सितधान्यादिभिर् देव्या देयं भोज्यं घृतादिकम् ।
रम्भापुष्पैर् जपेत् कर्णौ श्रावणे भोजयेद् दधि ॥
“रम्भा” कदली ।
[४१३] पुष्ये मुखं तु पद्माद्यैः शर्करान्नं तु भोजनम् ।
[स्वात्यां तु रदना देव्याः सुरक्तैः कमलैर् यजेत् ॥
अंसं शतभिषर्क्षे च नागकेसरचन्दनैः ।]
खर्जूरं शर्करा भोज्यं यजन्न् आसां मधासु च ॥
जपापुष्पैस् तथा भोज्यं गोधूमं घृतसंस्कृतम् ।
मृगनेत्रद्वयं देव्याः सुगन्धैः कुसुमैर् जपेत् ॥
घृतमाषान्नभोज्यं तु जपेत् तासां मघासु च ।
चित्रां चित्रस्रजा पूज्यं ललाटं चित्रभोजनम् ॥
[भरणीषु शिरो देव्याः पङ्कजादिस्रजा यजेत् ।
क्षीरान्नं भोजनं देयं केशान् आर्द्रासु पूजयेत् ॥
जात्यादिकुसुमैर् देव्याः सर्वान्नानि च भोजयेत् ।]
नक्षत्रेष्व् इति पूज्यार्या रूपपुत्रादिभिः सह ॥
शम्भुर् वाप्य् अथ वा विष्णुर् घृतं हेमं च दक्षिणा ।
देयं वस्त्रयुगं तस्मै सपत्नीके द्विजे प्रिये ॥
देवीशास्त्रार्थकुशले शिवज्ञानविशारदे ।
सम्पूर्णचन्द्रवदना पद्मपत्रायतेक्षणा ॥
शोभना दशनाः शुभ्राः कर्णौ चापि सुमांसलौ ।
षट्पदौघनिभैः केशैर् युता कोकिलवादिनी ॥
ताम्रौष्ठी पद्मपत्राभा सुहस्ता स्तननामिता ।
नाभिप्रदक्षिणावर्ता रम्भादण्डनिभोरुका ॥
सुश्रोणी तनुमध्या च सुश्लिष्टाङ्गुलिशोभना ।
प्रमदा सुभगा भर्तुर् मनुष्यो ‘पि महाभुजः ॥
पीनवक्षाः पृथुस्कन्धाः पूर्णचन्द्रनिभाननः ।
[४१४] सितदन्तो गजगामी महाबलपराक्रमः ॥
प्रियः सर्वस्य लोकस्य पद्मपत्रायतेक्षणः ।
सर्वशास्त्रार्थवेत्ता च स्त्रीणां चेतोऽपहारकः ॥
कामतुल्यो महारूपो व्रतेनानेन जायते ।
अवियोगश् च बन्धूनाम् इष्टानां च शुभागमः ॥
नक्षत्रार्थं महापुण्यं व्रतानां व्रतम् उत्तमम् ।
आपत्स्व् अपि न भेदो वा स्त्रिया कार्यं न दूष्यते ॥
अपि दोषात्मकैर् भावैर् न त्याज्यं मुनिसत्तम ।
इति नक्षत्रविधिव्रतम् ।
[उमामहेश्वरव्रतम्]
यदीच्छति सुभर्तारम् इह जन्मन्य् अथापरे ।
[कन्या कुर्यान् नृपश्रेष्ठ विष्णुना कथितं व्रतम् ॥
सर्वपापहरं पुण्यं सर्वकामफलप्रदम् ।
उमामहेश्वरं नाम कर्तव्यं विधिना यथा ॥]
प्रोष्ठाश्विने तथा मासे मृगयोगे ‘थ वा मुने ।
मैत्रे शाक्रे ‘थ वा कार्यम् अष्टम्यां वाथ शाङ्करे ॥
“प्रोष्ठो” भाद्रपदो मासः । “मृगो” मृगशिरानक्षत्रम् । “मैत्रम्” अनूराधा । “शाक्रम्” ज्येष्ठा । “शाङ्करम्” आर्द्रा ।
[४१५] पूर्वे ‘हनि सपत्नीकं ब्राह्मणं शुभसङ्गतम् ।
एकभार्याव्रतं वत्स सर्वधर्मव्रतान्वितम् ॥
आमन्त्रयाम्य् एष यथा प्रातः कार्यस् त्व् अनुग्रहः ।
मुदान्वितस् तदा कुर्यात् कलिद्वन्द्वविवर्जितः ॥
मधुरान्नेन भोज्यं तु क्षीरेक्षुयवशालिभिः ।
सितसूक्ष्मे तथा रक्ते शुभे देये च वाससी ॥
निर्मले सदृशे देये देवदेवीप्रसादके ।
स्नात्वा उमेश्वरः पूज्यः स्थण्डिले प्रतिमां शुभाम् ॥
कृत्वा दिशां बलिं दत्वा वितानम् अवतारयेत् ।
चतुरस्रं चतुर्द्वारं गोमयेनोपलिप्य च ॥
चतुष्कं शालिगोधूमकर्णकैर् उपशोभितम् ।
दीपमाल्यान्वितं कृत्वा दाम्पत्यं भोजयेत् ततः ॥
शङ्करौ मनसा ध्यात्वा शक्रभक्तिसमन्वितः ।
देवचन्दनकाश्मीरकर्पूरागरुधूपितम् ॥
जातीपुन्नागमन्दारशतपत्रैः समन्वितम् ।
स्थाप्य युग्मं सुसंवीतं त्रिधा कृत्वा प्रदक्षिणम् ॥
सुखलेपेन सम्भाज्य ध्यायेत् तं तु महेश्वरम् ।
आचम्य चार्घ्यपाद्यं च दद्याद् गन्धोदकं तथा ॥
सहिरण्यं सरत्नं तु पुनर् दत्वा क्षमापयेत् ।
प्रीयतां मे उमाभर्ता सर्वदेवपतिर् यथा ॥
उमामन्त्रेण चैवोमाम् ईशमन्त्रेण शङ्करम् ।
पूजिता सर्वकामाण् वै प्रयच्छत्य् अविचारतः ॥
[४१६] अनेन विधिना कन्या नारीणां जायते पतिः ।
समृद्धः सर्वभूतानां पतित्वम् उपगच्छति ॥
इत्य् उमामहेश्वरव्रतम् ।
[शङ्करनारायणव्रतम्]
इन्द्र उवाच ।
कथितं शङ्करोमाख्यं व्रतं मनसि तुष्टिदम् ।
श्रोतुम् इच्छाम्य् अहं विष्णुशङ्करसञ्ज्ञितम् ॥
मनुर् उवाच ।
यथा उमेश्वरं तात तथा कार्यम् इदं व्रतम् ।
किं तु पीतानि वासांसि केशवाय प्रकल्पयेत् ॥
गन्धपुष्पं तथा धूपं सुगन्धं च जनार्दने ।
कार्यं पूजनसम्भारे लड्डुकादिरसम् दधि ॥
एवं तौ भोजयित्वा तु प्रतिमास्थण्डिले ‘पि वा ।
आहृत्य ब्राह्मणौ वत्स वेदसिद्धान्तपारगौ ॥
यती वा व्रतसम्पन्नौ जटाकाषायधारिणौ ।
तौ भोज्य विधिनानेन शूल्पाणिजनार्दनौ ॥
क्षमाप्य विधिना वत्स सर्वकामार्थसाधकौ ।
हेमात्र दक्षिणा विष्णोर् मौक्तिकं शङ्करस्य च ॥
[४१७] दत्वानुव्रजतो लोकौ क्रमाद् देहक्षये ततः ।
भुक्त्वा भोगांस् तथा शक्र इहायातो नरेश्वरः ॥
[कुल भवति भूतानां सुखी पुत्रादिसंयुतः ।
पूर्वभावाद् भवेद् भक्तिः शिवे विष्णौ च शाश्वती ॥
योगं प्राप्य परं याति तत्र तत् स्थानम् अव्ययम् ।]
इति शङ्करनारायणव्रतम् ।
[ब्रह्मगायत्रि-चन्द्ररोहिणीव्रतम्]
अनेनैव विधानेन लक्ष्मीनारायणव्रतम् ।
ब्रह्मगायत्रिजं तात चन्द्ररोहिणिजं तथा ॥
भावचिन्तानुरूपेण सत्यम् एव फलं लभेत् ।
इति ब्रह्म(गायत्रि)चन्द्ररोहिणीव्रतम् ।
[४१८]
अथ मासव्रतानि
**कार्तिकस्नानविधिः **
तत्र विष्णुः [८९.१–४] ।
कार्तिको मासो ‘ग्निदैवत्यः । अग्निश् च सर्वदेवानां मुखम् । तस्मात् कार्तिकं सकलं मासं बहिःस्नायी गायत्रीजपनिरतः सकृद् धविष्याशी संवत्सरकृतात् पापात् पूतो भवति । अत्र गाथा भवति ।
कार्तिकं सकलं मासं प्रातःस्नायि जितेन्द्रियः ।
जपन् हविष्यभुग् दान्तः सर्वपापैः प्रमुच्यते ॥
इति कार्तिकस्नानविधिः ।
[एकभक्तव्रतम्]
स्कन्द्पुराणे ।
एकभक्तेन यो दिव्यं मासं मार्गं क्षपेत् च ।
स तेन कर्मणा युक्तः सौभाग्यं याति सर्वतः ॥
[४१९] पौषमासेन पुत्रांश् च बहून् आप्नोति धार्मिकान् ।
माघमासे च कुर्वाणाः स्त्रियः प्राप्नोति वै प्रियाः ॥
एकभक्तं तु कुर्वाणः फाल्गुने मासि नित्यशः ।
क्षपयेद् एकभक्तेन चैत्रे मासे नरोत्तम ॥
धनधान्यसमृद्धे तु कुले जायेत रूपवान् ।
वैशाख्ं यः क्षपेन् मासम् एकभक्तेन मानवः ॥
सा याति श्रेष्ठतां लोके पूजितो धनदान्यवान् ।
ज्येष्ठमासे नरो यो वै एकभक्तं समाचरेत् ॥
भ्रातॄणां भवति श्रेष्ठो भोगांश् चाप्नोति पुष्कलान् ।
आषाढं वापि यो मासम् एकभक्तं समाचरेत् ॥
यात्य् असौ मान्यतां प्राप्य कामान् आप्नोति पुष्कलान् ।
श्रावणे वापि यो मासे तथैवाचरते नरः ॥
सेनापत्यं स सम्प्राप्य बलवान् अभिजायते ।
यो ‘पि चाश्वयुजे मासि चैकभक्तेन तिष्ठति ॥
वाणिज्यं फलते तस्य कृषिः पशुगणास् तथा ।
कार्तिकं त्व् अपि यो मासम् एकभक्तेन तिष्ठति ॥
सो ‘श्वमेधफलं प्राप्य वह्निलोके महीयते ।
यः क्षपेद् एकभक्तेन यावज् जीवं नरोत्तमः ॥
विमानेनार्कवर्णेन स गच्छेच् छक्रलोकताम् ।
संवत्सरं तु यः पुष्यम् एकभक्तेन तिष्ठति ॥
स पार्थिवसमो भूत्वा महीं याति नरेद्रवत् ।
महाभारते ।
मार्गशीर्षं तु यो मासम् एकभक्तेन सङ्क्षपेत् ।
श्रीमान् कुले जातिमांस् तु स हरत्वं प्रपद्यते ॥
[४२०] पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत् ।
सुभगो दर्शनीयश् च यशोभागी च जायते ॥
माघमासं तु यो मासम् एकभक्तेन यः क्षपेत् ।
श्रीमान् कुले ज्ञातिमांस् तु स महत्वं प्रपद्यते ॥
भगदैवं तु वै मासम् एकभक्तेन यः क्षपेत् ।
स्त्रीषु वल्लभतां याति वश्याश् चैव भवन्ति ताः ॥
चैत्रं तु नियतं मासम् एकभक्तेन यः क्षपेत् ।
सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥
विस्तरेद् एकभक्तेन वैशाखे यो जितेन्द्रियः ।
नरो वा यदि वा नारी जातीनां श्रेष्ठतां व्रजेत् ॥
ज्येष्ट्ःआमूलं तु वै मासम् एकभक्तेन यः क्षपेत् ।
यत्र यत्राभिषेकेण युज्यते ज्ञातिवर्धनः ॥
आषाढम् एकभक्तेन स्थित्वा मासम् अतन्द्रितः ।
बहुधान्यो बहुधनो बहुपुत्रश् च जायते ॥
श्रावणं नियतो मासम् एकभक्तेन यः क्षपेत् ।
यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः ॥
प्रौष्ठपद्यां तु यो मासम् एकाहारो भवेन् नरः ।
धनाढ्यं स्फीतम् अतुलम् ऐश्वर्यं प्रतिपद्यते ॥
[४२१] तथैवाश्वयुजं मासम् एकभक्तेन यः क्षपेत् ।
प्रजावान् बहुवाद्यश् च बहुपुत्रश् च जायते ॥
कार्तिकं तु नरो मासं यः कुर्याद् एकभोजनम् ।
शूरश् च बहुभाग्यश् च कीर्तिमांश् चैव जायते ॥
इत्य् एकभक्तव्रतम् ।
[अथ स्त्रीणां कामव्रतम्]
भविष्यपुराणे ।
एकभक्तेन या नारी कार्तिकं तु क्षपेन् नरः ।
क्षमाहिंसादिनियमैः संयता ब्रह्मचारिणी ॥
गुदान्नमिश्रं शाल्यन्नं भास्कराय निवेदयेत् ।
पुष्पाणि करवीराणि गुग्गुलं चाज्यम् आदरात् ॥
सप्तम्यां वाथ वाष्टम्याम् उपवासरतिर् भवेत् ।
पक्षयोर् उभयोः स्नात्वा श्रद्धया परयान्विता ॥
इन्द्रनीलप्रतीकाशैर् विमानैः सार्वकामिकैः ।
नारी युगशतं साग्रं सूर्यलोके महीयते ॥
तस्माद् आगत्य लोके ‘स्मिन् यथेष्टं विन्दते पतिम् ।
क्षमा सत्यं दया दानं शौचम् इन्द्रियनिग्रहः ॥
सूर्यपूजाग्निहवनं सन्तोषस्तेयवर्जनम् ।
सर्वव्रतेष्व् अयं धर्मः सामान्येन सदास्थितः ॥
मार्गशीर्षे शुभे मासि व्योम पिष्टेन निर्मितम् ।
गन्धमाल्यैर् अलङ्कृत्य भास्कराय निवेदयेत् ॥
गैरिकेयैर् महायानैर् अप्सरोगणसंयुतैः ।
[४२२] समैकादशसाहस्रं सूर्यलोके महीयते ॥
“गैरिकेयैः” सौवर्णैः ।
क्रमाद् आगत्य लोके ‘स्मिन् राजानं पतिम् आप्नुयात् ।
पौषे तु गरुडं कृत्वा भानवे विनिवेदयेत् ॥
गन्धमाल्यैर् अलङ्कृत्य भास्करं विबुधोत्तमम् ।
ताम्रपात्रस्थिते तस्मिन् तत् सर्वं विनिवेदयेत् ॥
“तस्मिन्” गरुडे ।
महापद्मकयानेन दिव्यगन्धप्रवाहिणा ।
समैकादशसाहस्रं सूर्यलोके महीयते ।
सम्प्राप्यैवं क्रमाल् लोकं यथेष्टं नृपतिं पतिम् ।
माघे चाश्वयुतं दीपरत्नमाल्यविभूषितम् ॥
पैष्टभानुसमायुक्तं कृत्वायतनम् आनयेत् ।
महारथोपमैर् यानैः श्वेताश्वकसमन्वितैः ॥
वर्षायुतशतं साग्रं सूर्यलोके महीयते ।
क्रमाद् आगत्य लोके ‘स्मिन् यथेष्टं विन्दते पतिम् ॥
देवार्चां फल्गुने मासि कृत्वा पिष्टमयं तु वै ।
गन्धमाल्यैर् अलङ्कृत्य स्थापयेद् भास्करालये ॥
विमानैः सूर्यसङ्काशैर् गीतवाद्यसमाकुलैः ।
समैकादशसाहस्रं सूर्यलोके महीयते ॥
पुनर् एत्य इमं लोकं यथेष्टं विन्दते पतिम् ।
कृत्वा क्षणं तथा चैत्रे गन्धमाल्योपशोभितम् ॥
स्थाप्य पात्रे यथोक्ते तु भास्कराय निवेदयेत् ।
“यथोक्ते” ताम्रमये ।
[४२३] शरदिन्दुप्रतीकाशैर् विमानैः सार्वकामिकैः ॥
वर्षायुतशतं साग्रं सूर्यलोके महीयते ।
कर्मक्षयाद् इहागत्य पुत्रपौत्रसमन्विता ॥
अभीष्टं पतिम् आसाद्य लभेद् भोगान् सुदुर्लभान् ।
[तण्डुलाढकपिष्टेन कृत्वा वै मेरुपर्वतम् ॥]
“तण्डुलाढकपिष्टेन” तण्डुलेनेत्य् अर्थः ।
निक्षुभार्कसमायुक्तं सर्वधातुविभूषितम् ।
नानालङ्कारसम्पन्नं नानामाल्यविभूषितम् ॥
सर्वरत्नसमायुक्तं स्थापयेद् भास्करालये ।
महाव्योमव्रतं ह्य् एतद् वैशाख्यां च समाचरेत् ॥
नानाविधैर् विमानैश् च सूर्यलोके महीयते ।
क्रमाद् आगत्य लोके ‘स्मिन् क्रीडते मानसावनौ ॥
पिष्टेन पङ्कजं कृत्वा ज्येष्ठे मासि सवेदिकम् ।
“पङ्कजम्” पद्मम् ।
पात्रैः सम्पूज्य गन्धाढ्यैर् नानामाल्यविभूषितैः ॥
शुद्धस्फटिकसङ्काशैर् विमानैः सार्वकामिकैः ।
वर्षकोटिशतं साग्रं सूर्यलोके महीयते ॥
क्रमाद् आगत्य लोके ‘स्मिन् राजानं पतिम् आप्नुयात् ।
द्वितीयं च तथा पद्मम् आषाढे पैष्टम् उत्तमम् ॥
सर्वबीजरसैः पूर्णं कृत्वा च शुभलक्षणम् ।
नागकेसरगन्धाढ्यं सर्वरत्नविभूषितम् ॥
हंसवाहैर् महायानैः सर्वभोगान्विता नृप ।
वर्षकोटिशतं साग्रं मेघलोके महीयते ॥
क्रमाल् लोकम् इमं प्राप्य राजानं विन्दते पतिम् ।
[४२४] [निवेदयेत् तु सूर्याय श्रावणे तिलपर्वतम् ।
स्वच्छन्दगामिभिर् यानैर् नानारत्नविभूषितैः ॥
वर्षकोटिशतं साग्रं सूर्यलोके महीयते ।
सम्प्राप्य विविधान् भोगान् बह्वाश्चर्यसमन्वितान् ॥
क्रमाल् लोकम् इमं प्राप्य राजानं विन्दते पतिम् ।]
कृत्वा भाद्रपदे मासि व्योमशालिमयं ततः ॥
विमानं ध्वजवस्त्राढ्यं नानामाल्यविभूषितम् ।
निशाकरकरप्रेक्ष्यं महायानैः सुशोभितैः ॥
वर्षकोटिसहस्राणि सूर्यलोके महीयते ।
क्रमाद् आगत्य लोके ‘स्मिन् राजानं विन्दते पतिम् ॥
कृत्वा चाश्वयुजे मासि विपुलं धान्यपर्वतम् ।
सुवर्णवस्त्रगन्धाढ्यं सूर्यस्याग्रे निवेदयेत् ॥
सा विचित्रैर् महायानैर् वरैर् भोगसमन्वितैः ।
वर्षकोटिसहस्राणि सूर्यलोके महीयते ॥
तस्मिंल् लोके पुनः प्राप्य राजानं विन्दते पतिम् ।
इति स्त्रीणां कामव्रतम् ।
[नन्दाव्रतम्]
**देवीपुराणे **।
ब्रह्मोवाच ।
अतः परं प्रवक्ष्यामि सर्वस्योदयवर्धकम् ।
यत् कृत्वा जायते राजा सार्वभौम इहानघ ॥
[४२५] मासे नभ्सि सम्प्राप्ते नक्ताहारो जितेन्द्रियः ।
प्रातःस्नायी सदाध्यायी चाग्निकार्यपरायणः ॥
देवीं सम्पूजयेद् वत्स बिल्वपुन्नागचम्पकैः ।
धूपं च गुग्गुलं दद्यान् नैवेद्यं घृतपायसम् ॥
क्षीरान्नं दधिभक्तं चाप्य् अथ वा शाकयावकम् ।
जपं च कुर्यान् मन्त्रस्य सहस्रम् अथ वा शतम् ॥
देव्याः समर्चयेत् तावद् यावत् पूर्णव्रतो भवेत् ।
पूर्णे व्रते ततो वत्स कल्पाचार्यद्विजांस् तथा ॥
भोजयेत् पूजयेद् भक्त्या हेमभूवस्त्रयोगृषैः ।
अभावान् नर वित्तस्य जपः कार्यो द्विजोत्तम ॥
यस् तु कुर्याद् इदं भक्त्या सो ‘पि तत्तुल्यम् आप्नुयत् ।
न च व्याधिजरामृत्युर् न भयं वारिसम्भवम् ॥
जायते देव भक्तस्य अन्ते च फलम् अव्ययम् ।
अत्र मन्त्रपदानि भवन्ति । ॐ नन्दे नन्दिनि सर्वार्थसाधिनि नमः । इत्य् मूलमन्त्रः । ॐ नन्दे हृदयाय नमः । इति हृदयम् । ॐ नन्दिनि शिरसे नमः । शिरः । ॐ सर्वायै नमः । शिखा । ॐ अर्थसाधिनि नमः । कवचम् । ॐ त्रिनेत्रायै नमः । नेत्रम् । ॐ नमः हुं फट् । अस्त्रम् । ॐ नन्दिनी इति दिग्बन्धः ।
[४२६] तृतीयायां च पञ्चम्यां चतुर्थ्याम् अष्टमीषु च ।
नवम्यां पौर्णमास्याम् एकादश्यां द्वादशीषु च ॥
षष्ठ्यां सा चैव वित्तेशा पूजनीया विशेषतः ।
नन्दाम् उद्दिश्य यो दद्याच् छ्रावणे गोवृषं सितम् ॥
स लभेद् इष्टकाम् आप्तिं देवीलोकं च शाश्वतम् ।
नभस्ये तां समुद्दिश्य दद्याद् गां काञ्चनान्विताम् ॥
स व्रजेद् धतपपस् तु नन्दालोकं तम् अक्षयम् ।
आश्विने नवरात्रं तु उपवासम् अयाचितैः ॥
कृत्वा देवीं प्रपूज्याथ अष्टम्याम् अपरे ‘हनि ।
हेमपुष्पमणिर्वस्त्रं नानाचित्रविभूषिअम् ॥
दानं च काञ्चनं देयं नन्दायै स्वर्गसिद्धये ।
विधूतपापसङ्घातः सर्वकामसमन्वितः ॥
गच्छते तं तु लोकं वै यत्र देवी सुरारिहा ।
वसते कल्पकोटीस् तु अप्सरोगणभूषितः ॥
नन्दते ‘प्य् आगतश् चात्र पृथिव्याम् एकराड् भवेत् ।
कार्तिके पूजयित्वा तु देवीं जातीगजायुधैः ॥
अन्नदानं ददद् विप्रे कन्यासु स्त्रीष्व् अथापि वा ।
श्वेतानि चैव वस्त्राणि तथा देयानि दक्षिणा ॥
मुच्यते सर्वपापैस् तु जन्मान्तरकृतैर् अपि ।
इहैव जायते योगी परत्र पदम् अव्ययम् ॥
मार्गे च विधिवत् स्नात्वा पूजयेत् कुङ्कुमैस् तथा ।
[४२७] नैवेद्यं घृतपूपाश् च देयाः कन्यासु च द्विजे ॥
भोजयेद् भक्षयेद् वत्स वस्त्रैः कीटकुलोद्भवैः ।
प्राप्नुयात् सर्वकामान् वै सर्वपापात् प्रमुच्यते ॥
पौषे देवीं समाराध्य जलजैः स्रग्भिर् अर्चयेत् ।
नैवेद्यं शालिभक्तं च कन्याः सम्भोज्य दक्षयेत् ॥
पीतवस्त्रैस् तथा शय्या देव्या देयाथ शोभना ।
अनेन विधिना तस्य साक्षाद् देवी प्रसीदति ॥
ददाति कामिकान् भोगान् अन्ते च स्वपुरं नयेत् ।
माघे तु पूजयेद् देवीं कुटजस्रग्भिर् आदरात् ॥
कुङ्कुमेन सदर्पेण तथा समुपलेपिता ।
“सदर्पेण” कस्तूरिकासहितेन ।
विधिवत् पूर्ववत् तासु कन्याश् च परिपूजयेत् ॥
द्विजांश् च चण्डिकां भक्त्या विधिना कृतपायसैः ।
दक्षिणां तिलहोमं च यथाशक्त्या प्रदापयेत् ॥
विधूतपापकलिकः सर्वभोगसमन्वितः ।
विशत्रुर् बहुपुत्रश् च जायते नरसत्तमः ॥
देहान्ते नन्दिनीलोकं सर्वदेवैर् नमस्कृतम् ।
प्रयाति नात्र सन्देहो ह्य् अनेन विधिना नृप ॥
फाल्गुने पूजयेद् देवीं स्रग्भिस् तु सहकारजैः ।
तथा नैवेद्यभक्ष्याणि शर्करामधुना सह ॥
भोजयेत् कन्यकाविप्रान् दक्षिणा सितवाससी ।
अनेन जायेत् भोगी देवलोकं च गच्छति ॥
सम्प्राप्ते चैत्रमासे तु देवीं पूज्याथ किंशुकैः ।
नैवेद्ये लड्डुका देयास् तथा कन्याश् च भोजयेत् ॥
[४२८] स्त्रियश् च रक्तवस्त्रैश् च दीक्षितव्या यथाविधि ।
अनेन सर्वकामार्थान् प्राप्नुयाद् अविचारयन् ॥
देवीलोकं व्रजेद् वत्स यत्र भोगा निरन्तराः ।
वैशाखे पूजयेद् देवीं स्रग्भिर् वै कर्णिकारजैः ॥
नैवेद्यं सक्तवः खण्डं कन्या भोज्याश् च दक्षयेत् ।
शुभानि हेमवस्त्राणि देयानि द्विजसत्तमे ॥
देवीं तु प्रीणयेद् वत्स सर्वदेवेष्व् अनुत्तमाम् ।
ज्येष्ठे तु शङ्करी पूज्या रक्ताशोककरण्डकैः ॥
जलकुम्भाश् तथा देयाः सम्पूर्णा वासिताम्भसा ।
अनेन वारुणान् भोगान् देवी क्षिप्रं प्रयच्छति ॥
आषाढे पूजयेद् देवीं पद्मैर् नीलोत्पलैर् दलैः ।
नैवेद्यं शर्कराभक्तं दद्याद् वै यवपायसम् ॥
कन्याः स्त्रियो द्विजा भोज्या दक्षयेच् च तथानघ ।
नानाहेमाङ्गरागाद्यैस् तिलभूम्यैश् च मौक्तिकैः ॥
पूज्या भगवती शक्त्या सर्वकामार्थसिद्धये ।
नन्दा सुनन्दा कनका उमा दुर्गा क्षमावती ॥
गौरी योगीश्वरी श्वेता नारायणी सुतारका ।
अम्बिकेति च नामानि श्रावणादाव् अनुक्रमात् ॥
ये कीर्तयन्ति चोत्थाय ते नरा धूतकल्मषाः ।
भवन्ति कुरुशार्दूल पृथिव्यां धनसङ्कुलाः ॥
एतानि पथि सङ्ग्रामे रिपुपीडासु नित्यशः ।
स्मारयन्ति च दुर्गेति चण्डिकेति सुरोत्तमाः ॥
[४२९] व्रतानां प्रवरं कार्यम् अर्धं वा पादम् एव वा ।
मासं वाश्रित्य कर्तव्यं श्रावणादिक्रमेण तु ॥
इति नन्दाव्रतम् ।
[नन्दापदद्वयव्रतम्]
अतः परं प्रवक्ष्यामि नन्दादेव्याः पदव्रतम् ।
येन सा प्रीयते वत्स अचिरेण महात्मना ॥
हेमोत्थे पादुके कार्ये यथाशक्त्य् अनुसारतः ।
आम्रदूर्वाक्षतैर् बिल्वपत्रैः पूज्ये तु मन्त्रतः ॥
देवीं प्रपूज्य भक्त्या तु स्थण्डिले प्रतिमासु वा ।
मद्भक्ताय च विप्राय कन्यकासु निवेदयेत् ॥
मुच्यते सर्वपापेभ्यो दुर्गालोकं च गच्छति ।
ततः क्षये महाप्राज्ञ विद्याधरपतिर् भवेत् ॥
कालेनैवम् इहायातः पृथिव्यां नृपसत्तम ।
जायते नात्र सन्देहो ब्राह्मणेष्व् इह मानवः ॥
इति नन्दापदद्वयव्रतम् ।
[त्रिविक्रमव्रतम्]
भविष्यपुराणे ।
समभ्यर्च्य जगन्नाथं देवम् अर्कम् अथापि वा ।
एकम् अश्नाति यो नक्तं द्वितीयं ब्राह्मणार्पणम् ॥
[४३०] करोति भास्करप्रीत्यै कार्तिकं मासम् आप्नुयात् ।
पूर्वे वयसि यत्नेन जानताजानतापि वा ॥
पापम् आचरितं तस्मान् मुच्यते नात्र संशयः ।
अनेनैव विधानेन मासि मार्गशिरे नरः ॥
तम् अभ्यर्च्य चैकभक्तं विप्रेभ्यो यः प्रयच्छति ।
भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे ॥
मध्ये वयसि यत् पापं योषिता पुरुषेण वा ।
कृतं तस्मात् प्रमुच्येत विविधात् पातकान् न्र्प ॥
तथा कृत्वैकभक्तं तु यस् तु विप्राय यच्छति ।
दिवाकरं समभ्यर्च्य पौषे मासि महीयते ॥
[त्रैमासिकं व्रतम् इदं यः करोति नरेश्वर ।
स विष्णुप्रीणनात् पापैर् लघुभिः परिमुच्यते ॥
द्वितीये वत्सरे राजन् मुच्यते चोपपातकैः ।]
तद्वत् तृतीये ‘पि कृते महापातकनाशनम् ॥
व्रतम् एतन् नरैः स्त्रीभिस् त्रिभिर् मासैर् अनुष्थितम् ।
त्रिभिः संवत्सरैश् चैव प्रददाति फलं नृणाम् ॥
त्रिभिर् मासैर् व्यवस्था तु त्रिविधात् पातकान् न्र्प ।
त्रीणि नामानि देवस्य मोचयन्ति त्रिवार्षिकैः ॥
यतस् ततो व्रतम् इदं त्रिविक्रमम् उदाहृतम् ।
सर्वपापप्रशमनं भास्कराराधनं परम् ॥
इति त्रिविक्रमव्रतम् ।
[४३१]
[अथ चित्रभानुपदद्वयव्रतम्]
ब्रह्मोवाच ।
उत्तरे त्व् अयने कृष्ण स्नातो नियतमानसः ।
घृतक्षीरादिना देवं स्नापयेत् तिमिरापहम् ॥
चारुवस्त्रोपहारैश् च पुष्पधूपानुलेपनैः ।
समभ्यर्च्य ततः सम्यग् ब्राःमणानां च पूजनैः ॥
पदद्वयव्रतं सम्यग् गृह्णीयाद् भानुतत्परः ।
वन्देत् स्नाने चित्रभानुं तथा भुञ्जन् नराधिप ॥
भुक्त्वा च चित्रभानुं च चित्रभानुं व्रजंस् तथा ।
स्वपन् विबुद्धश् च सदा होमं कुर्वंस् तथार्चनम् ॥
चित्रभानोर् अनुदिनं करिष्ये नामकीर्तनम् ।
यावद् अद्यादिना प्राप्तं क्रमशो दक्षिणायनम् ॥
करिष्ये ‘हं सदा चैवं कीर्तयिष्ये जगत्प्रभुम् ।
तथा च नानृतं वक्ष्ये दुर्वचः परमात्मनः ॥
अज्ञानाद् अथ वा ज्ञानात् कीर्तयिष्याम्य् अहं प्रभुम् ।
षण्मासान् एव च जपेच् चित्रभानुम् अतः परम् ॥
तं स्मरन् मरणे याति यां गतिं सास्तु मे गतिः ।
षण्मासाभ्यन्तरे मृत्युर् यद्य् एतस्मिन् भवेन् मम ॥
तन् मया भास्करस्येह स्वयम् आत्मा निवेदितः ।
परमात्मा अपि ब्रह्मा चित्रभानुमयं परम् ॥
यन् नमस्य स्मरन् याति स मे भानुः परा गतिः ।
यदि प्रातस् तथा सायं मध्याह्ने वा नृपोत्तम ॥
षण्मासाभ्यन्तरे न्यासः कृतो व्रतमयो नृप ।
[४३२] तथा कुरु जगन्नाथ सर्वलोकपरायण ॥
चित्रभानो यथान्यायात् त्वत्तो भवति मे गतिः ।
एवम् उच्चार्य षण्मासान् चित्रभानुमयं व्रतम् ॥
तावान् निष्पादयेद् यावत् सम्प्राप्ते दक्षिणायने ।
ततश् च प्रीणनं कुर्याद् यथाशक्त्या विभावसोः ॥
भोजयेद् ब्राह्मणान् द्वियान् भौमांश् चैव सदक्षिणान् ।
पुण्यात्मनां कथां कुर्यान् मार्तण्डस्य तथाग्रतः ॥
पूजयेद् वचकं भक्त्या यथाशक्त्या धराधर ।
एवं व्रतम् इदं कृष्ण यो वाचयति मानवः ॥
नारी या देवशार्दूल मुच्यते सर्वकिल्बिषैः ।
षण्मासाभ्यन्तरे तासां मरणं यदि जायते ॥
प्राप्नोत्य् अनशने प्रोक्तं यत् फलं तन् न संशयः ।
यद् द्वयं कृष्ण पादस्य सुभक्तेन सदार्चितम् ॥
चित्रभानुपदद्वन्द्वव्रतं पापप्रणाशकम् ।
भवत्य् एतज् जगौ भानुः पुरा कृष्णाय पृच्छते ॥
इति चित्रभानुपदद्वयव्रतम् ।
[अथ सङ्क्रान्त्युद्यापनव्रतम्]
तत्र मत्स्यपुराणे ।
नन्दिकेश्वर उवाच ।
अथान्यद् अपि वक्ष्यामि सङ्क्रान्त्युद्यापने फलम् ।
यद् अक्षयं परे लोके सर्वकामफलप्रदम् ॥
विषुवे चायने चापि सङ्क्रान्तिव्रतम् आचरेत् ।
पूर्वेद्युर् एकभक्तेन दन्तधावनपूर्वकम् ॥
[४३३] सङ्क्रान्तिवासरे प्रातस् तिलैः स्नानं विधीयते ।
रविसङ्क्रमणे भूमौ चन्दनेनाष्टपत्रकम् ॥
पद्मं सकर्णिकं कुर्यात् तस्मिन्न् आवाहयेद् रविम् ।
“चन्दनेन” रक्तचन्दनेन ।
कर्णिकायां न्यसेत् सूर्यम् आदित्यं क्रमशस् ततः ॥
नमो यमार्चिषे याम्ये नमो ऋङ्मण्डलाय च ।
नमः सवित्रे नैरृत्ये वारुणे तपनं पुनः ॥
वायव्ये तु भगं न्यस्य पुनः पुनर् अथार्चयेत् ।
मार्तण्डम् उत्तरे विष्णुम् ईशाने विन्यसेत् सदा ॥
गन्धमाल्यैः फलैर् भक्ष्यैः स्थण्डिले पूजयेत् ततः ।
द्विजाय सोदकं कुम्भं घृतपात्रं हिरण्मयम् ॥
कमलं च यथाशक्त्या कारयित्वा निवेदयेत् ।
चन्दनोदकपुष्पैश् च देवायार्घ्यं न्यसेद् भुवि ॥
विश्वाय विश्वरूपाय विश्वधाम्ने स्वयम्भुवे ।
नोम ‘नन्त नमो धात्रे ऋक्सामयजुषां पते ॥
अनेन विधिना सर्वं मासि मासि समाचरेत् ।
वत्सरान्ते तथा कुर्यात् सर्वं द्वादश मानवः ॥
संवत्सरान्ते घृतपायसेन
समर्च्य वह्निं द्विजपुङ्गवांश् च ।
कुम्भान् पुनर् द्वादशदान्ययुक्तान्
सवस्त्रहैरण्मयपद्मगर्भान् ॥
पयस्विनीः शीलवतीश् च कुर्यात्
हेमास्यरौप्यखुरवस्त्रयुक्ताः ।
गावो ‘ष्ट वा सप्त सकांस्यदोहा
मालाम्बरा वा चतुरो ‘प्य् अशक्तः ॥
[४३४] दौर्गत्ययुक्तः कपिलां तथैकां
निवेदयेद् ब्राह्मणपुङ्गवाय ।
हैमीं च दद्यात् पृथिवीं सशेषाम्
आकर्षरौप्याम् अथ वापि ताम्रीम् ॥
पैष्टीम् अशक्तो ‘थे तिलैर् विधाय
सौवर्णसूर्येण समं प्रदद्यात् ।
“सशेषा” अनन्तोरगसहिता । “पैष्टी” पिष्टमयी सप्तद्वापयुक्ता ।
न वित्तशाठ्यं पुरुषो ‘त्र कुर्यात्
कुर्वन्न् अधो याति न संशयो ‘त्र ॥
यावन् महेन्द्रप्रमुखा नरेन्द्राः
पृथ्वी च सप्ताब्धियुतात्र तिष्ठेत् ।
ततः स गन्धर्वगणाग्रशेषैः
सम्पूज्यते नारद नाकपृष्ठे ॥
ततस् तु कर्मक्षयम् आप्य लोके
द्विपाधिपः स्यात् कुलशीलयुक्तः ।
भवेत् सुखाव्यङ्गवपुः सभार्यः
प्रभूतपुत्रो नृपवन्दिताङ्घ्रिः ॥
इति सङ्क्रान्त्युद्यापनव्रतम् ।
[४३५]
अथ संवत्सरव्रतानि
[अथ सारस्वतव्रतम्]
सम्यक् पृष्टं त्वया राजञ् छृणु सारस्वतं व्रतम् ।
यस्य सङ्कीर्तनाद् एव तुष्यतीह सरस्वती ॥
यो मद्भक्तः पुमान् कुर्याद् एतद् व्रतम् अनुत्तमम् ।
तद्वत्सरादौ सम्पूज्य विप्रम् एनं समाचरेत् ॥
अथ वादित्यवारेण ग्रहताराबलेन च ।
पायसं भोजयेद् विप्रान् कृत्वा ब्राह्मणवाचनम् ॥
शुक्लवस्त्राणि दत्वा च सहिरण्यानि शक्तितः ।
गायत्रीं पूजयेद् भक्त्या शुक्लमाल्यानुलेपनैः ॥
यथा न देवि भगवान् ब्रह्मलोकपितामहः ।
त्वां परित्यज्य सन्तिष्ठेत् तथा भव वरप्रदा ॥
वेदशास्त्राणि सर्वाणि नृत्यगीतादिकं च यत् ।
न विहीनस् तथा देवि तथा मे सन्तु सिद्धयः ॥
लक्ष्मीर् मेधा वरा पुष्टिस् तुष्तिः सृष्टिः प्रभा मतिः ।
एताभिः पाहि चाष्टाभिस् तनुभिर् मां सरस्वति ॥
एवं सम्पूज्य गायत्रीं वीणादण्डेन मण्डिताम् ।
शुक्लपुष्पाक्षतैर् भक्त्या सकमण्डलुपुष्टिकाम् ॥
मौनव्रतेन भुञ्जीयात् सायं प्रातश् च धर्मवित् ।
पञ्चम्यां प्रतिपक्षं च पूजयेच् छन्दवासिनीम् ॥
[४३६] तथैव तण्डुलप्रस्थं घृतपात्रेण संयुतम् ।
क्षीरं दद्याद् धिरण्यं च गायत्री प्रीयताम् इति ॥
सन्ध्यायां च तथा मौनम् एतत् कुर्वन् समाचरेत् ।
नान्तरा भोजनं कार्यं यावन् मासास् त्रयोदश ॥
समाप्ते च व्रते दद्याद् भोजनं तिलतण्डुलैः ।
पूर्णं कुम्भं वस्त्रयुग्मं गां च विप्राय शोभनाम् ॥
देव्या वितानघण्टां च सितनेत्रपटान्विताम् ।
चन्दनं वस्त्रयुग्मं च दध्यन्नं शिखरं पुनः ॥
तथोपदेष्टारम् अपि भक्त्या सम्पूजयेद् गुरुम् ।
वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः ॥
अनेन विधिना यस् तु कुर्यात् सारस्वतं व्रतम् ।
विद्यावान् अर्थयुक्तश् च लक्ष्मीयुक्तश् च जायते ॥
इति सारस्वतव्रतम् ।
[अथ फलत्यागव्रतम्]
**मत्स्यपुराणे **।
निन्दिकेश्वर उवाच ।
मार्गशीर्षे शुभे मासि तृतीयायां मुने व्रतम् ।
द्वादश्याम् अथ वाष्टम्यां चतुर्दश्याम् अथापि वा ॥
आरभेच् छुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम् ।
अनेय्ष्व् अपि च मासेषु पुण्ये ‘ह्नि मुनिसत्तम ॥
सदक्षिणं पायसेन शक्तितः पूजयेद् द्विजान् ।
अष्टादशानां धान्यानाम् अन्यत्र फलमूलकम् ॥
[४३७] वर्जयेद् अब्दम् एकं तु विनैवौषधकारणात् ।
सवृषं काञ्चनं रुद्रं धर्मराजं च कारयेत् ॥
कूष्माण्डं मातुलिङ्गं च वृन्ताकं पनसं तथा ।
आम्रातककपित्थानि कालिङ्गम् अथ वारुकम् ॥
श्रीफलाश्वत्थबदरं जम्बीरं कदलीफलम् ।
कर्मारं दाडिमं शक्त्या कलधौतानि षोडश ॥
मूलकामलकं जम्बूतिन्तिडीकरमर्दकम् ।
तक्कोलैलाकतुण्डीरं करीरकुटजं शमी ॥
उदुम्बरं नारिकेलं द्राक्षाथ बृहतीद्वयम् ।
रौप्याणि कारयेद् भक्त्या फलानीमानि षोडश ॥
ताम्रं तालफलं कुर्याद् अगस्तिफलम् एव च ।
पिण्डीरकाश्मर्यफलं तथा सूरणकन्दकान् ॥
रक्तालुकाकन्दकं च कनकाभीरुचिञ्चिकम् ।
चित्रवल्लीफलं तद्वत् कूटशाल्मलिकाफलम् ॥
ग्राम्यनिष्पावमधुकवटेङ्गुदपटोलकम् ।
ताम्राणि षोडशैतानि कारयेद् बुद्धितो नरः ॥
उदकुम्भद्वयं कृत्वा धान्योपरि सवाससम् ।
भक्ष्यपात्रद्वयोपेतं हैमरुद्रवृषान्वितम् ॥
धेन्वा सहैव शान्ताय विप्रायाथ कुटुम्बिने ।
सपत्रीकाय सम्पूज्य पुण्ये ‘ह्नि विनिवेदयेत् ॥
यथा फलेषु सर्वेषु वसन्त्य् अमरकोटयः ।
[४३८] तथा सर्वफलत्यागव्रताद् भक्तिः शिवे ‘स्तु मे ॥
यथा शिवश् च धर्मश् च सदानन्तफलप्रदौ ।
तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ ॥
यथा फलानां कामाः स्युः शिवभक्तेषु सर्वदा ।
तथानन्तफलावाप्तिर् मे ‘स्तु जन्मनि जन्मनि ॥
यथाभेदेन पश्यामि शिवविष्ण्वर्कपद्मजान् ।
तथा ममास्तु विश्वात्मा शङ्करः शङ्करः सदा ॥
इति दत्वा तु तत् सर्वम् अलङ्कृत्य च भूषणैः ।
शक्तिश् चेच् छयनं दद्यात् सर्वोपस्करसंयुतम् ॥
अशक्तस् तु फलान्य् एव यथोक्तानि विधानतः ।
तथोदकुम्भयुग्मं च शिवधर्मौ च काञ्चनौ ॥
विप्राय दत्वा भुञ्जीत वाग्यतः स्तेयवर्जनम् ।
अन्यान् अपि यथाशक्त्या भोजयेद् विप्रपुङ्गवान् ॥
एतद् भागवतानां च सौरवैष्णवयोगिनाम् ।
शुभं सर्वफलत्यागव्रतं वेदविदो विदुः ॥
नारीभिश् च यथाशक्त्या कर्तव्यं द्विजपुङ्गव ।
एतस्मान् न परं किञ्चिद् इह लोके परत्र च ॥
व्रतम् एतन् मुनिश्रेष्ठ यद् अनन्तफलप्रदम् ।
सौवर्णताम्ररौप्येषु यावन्तः परमाणवः ॥
भवन्ति चूर्णमानेषु फलेषु मुनिसत्तम ।
तावद् युगसहस्राणि रुद्रलोके महीयते ॥
[४३९] एतत् समस्तकलुषापहरं जनानाम्
आजीवनाय मनुजेषु च सर्वदा स्यात् ।
जन्मान्तरेषु न च पुत्रवियोगदुःखम्
आप्नोति धाम च पुरन्दरदेवजुष्टम् ॥
इति फलत्यागव्रतम् ।
अथ षष्टिव्रतानि
तत्र मत्स्यपुराणे ।
नन्दिकेश्वर उवाच ।
अथातः सम्प्रवक्ष्यामि व्रतषष्टिकम् उत्तमम् ।
रुद्रेणाभिहितं देव्या महापातकनाशनम् ॥
१। देवव्रतम्
नक्तम् अब्दं चरित्वा तु गवा सार्धं कुटुम्बिने ।
हैमं चक्रं त्रिशूलं च दद्याद् विप्राय वाससी ॥
शिवरुद्रौ नतो ‘स्मीति शिवलोके स मोदते ।
एतद् देवव्रतं नाम महापातकनाशनम् ॥
**२। रुद्रव्रतम् **
यस् त्व् एकभक्तेन समां क्षपेद् धैमवृषान्विताम् ।
धेनुं तिलमयीं दद्यात् स पदं याति शाङ्करम् ॥
एतद् रुद्रव्रतं नाम पापशोकविनाशनम् ।
[४४०]
३। नीलव्रतम्
यस् तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् ।
एकान्तरितनक्षाशी समान्ते वृषसंयुतम् ॥
वैष्णवं स पदं याति नीलव्रतम् इदं शुभम् ।
४। प्रीतिव्रतम्
आषाढादिचतुर्मासम् अभ्यङ्गं वर्जयेन् नरः ।
भोजनोपस्करं दद्यात् स याति भवनं हरेः ॥
लोके प्रीतिकरं नॄणां प्रीतिव्रतम् इहोच्यते ।
५। गौरीव्रतम्
वर्जयित्वा मधौ यस् तु दधिक्षीरघृतेक्षुकान् ।
“मधौ” चैत्रे ।
दद्याद् वस्त्राणि सूक्ष्माणि रसपात्रैर् युतानि च ॥
सम्पूज्य विप्रमिथुनं गौरी मे प्रीयताम् इति ।
एतद् गौरीव्रतं नाम भवानीलोकदायकम् ।
६। कामव्रतम्
पुष्यादौ तु त्रयोदश्यां कृत्वा नक्तं मधौ पुनः ।
अशोकं काञ्चनं दद्याद् इक्षुयुक्तं दशाङ्गुलम् ॥
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयताम् इति ।
कल्पं विष्णुपुरे स्थित्वा विशोकः स्यात् पुनर् नृप ॥
एतत् कामव्रतं नाम सदा शोकविनाशनम् ।
७। शिवव्रतम्
आषाढादिव्रतं यस् तु वर्जयेन् नखकर्तनम् ।
वार्ताकं च चतुर्मासं मधुसर्पिर्घटान्वितम् ॥
[४४१] कार्तिक्यां तत् पुनर् हैमं ब्राह्मणाय निवेदयेत् ।
“आषाढादि” आषाडोपक्रमम्, आषाढ्यां नियमं गृह्णीयाद् इत्य् अर्थः ।
रुद्रलोकम् अवाप्नोति शिवव्रतम् इदं स्मृतम् ॥
८। सौम्यव्रतम्
वर्जयेद् यस् तु पुष्पाणि हेमन्ते शिशिरे तथा ।
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च काञ्चनम् ॥
दद्याद् द्विकालवेलायां प्रीयेतां शिवकेशवौ ।
दत्वा परं पदं याति सौम्यव्रतम् इदं स्मृतम् ॥
९। सौभाग्यव्रतम्
फाल्गुन्यां तु तृतीयायां लवणं यस् तु वर्जयेत् ।
समाप्ते शयनं दद्याद् गृहं सोपस्करान्वितम् ॥
सम्पूज्य विप्रमिथुनं भवानी प्रीयताम् इति ।
गौरीलोके वसेत् कल्पं सौभाग्यव्रतम् उच्यते ॥
१०। सारस्वतव्रतम्
सन्ध्यामौनं नरः कुर्यात् समान्ते घृतकुम्भकम् ।
वस्त्रयुग्मं तिलघटं ब्राह्मणाय निवेदयेत् ॥
सारस्वतं पदं याति पुनरावृत्तिदुर्लभम् ।
एतत् सारस्वतं नाम रूपविद्याप्रदायकम् ॥
११। सम्पद्व्रतम्
लक्ष्मीम् अभ्यर्च्य पञ्चम्याम् उपवासि भवेन् नरः ।
[४४२] समान्ते हेमकलशं दद्याद् धेम्ना समन्वितम् ॥
स वैष्णवपदं याति लक्ष्मीवान् जन्मजन्मनि ।
एतत् सम्पद्व्रतं नाम सदा पापविनाशनम् ॥
१२। आयुर्व्रतम्
कृत्वा तु लेपनं शम्बोर् अग्रतः केशवस्य च ।
यावद् अब्दं पुनर् दद्याद् धेनुं जलघटान्विताम् ॥
जन्मायुतं शतायुः स्याद् अन्ते शिवपुरं लभेत् ।
एतद् आयुर्व्रतं नाम सदा पापविनाशनम् ॥
१३। कीर्तिव्रतम्
अश्वत्थं भास्करं गङ्गां प्रणम्यैकत्र वाग्यतः ।
एकभक्तं नरः कुर्याद् अब्दम् एकं विमत्सरः ॥
व्रतान्ते विप्रमिथुनं पूज्य धेनुत्रयान्वितम् ।
वृक्षं हिरण्मयं दद्यात् सो ‘श्वमेधफलं लभेत् ॥
एतत् कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ।
१४। सोमव्रतम्
घृतेन स्नपनं कृत्वा शम्भोर् वा केशवस्य च ।
अक्षतैस् तु समां कुर्यात् पद्मं गोमयमण्डले ॥
समान्ते हेमकलशं तिलधेनुसमन्वितम् ।
शुद्धम् अष्टाङ्गुलं दद्याच् छिवलोके महीयते ॥
[४४३] “समां” वर्षम् ।
सामगाय च तद् देयं सामव्रतम् इहोच्यते ।
१५। वीरव्रतम्
नवम्याम् एकभक्तं तु कृत्वा कन्याश् च शक्तितः ।
भोजयित्वा समां दद्याद् धेमकुम्भं सवाससी ॥
हैमं सिंहं च विप्राय दत्वा शिवपुरं व्रजेत् ।
जन्मार्बुदं सुरूपः स्याच् छत्रुभिश् चापराजितः ॥
एतद् वीरव्रतं नाम नारीणां च सुखप्रदम् ।
१६। पितृव्रतम्
यावत् समां भवेद् यस् तु पञ्चदश्यां पयोव्रतः ।
“पञ्चदश्याम्” अमावास्यायाम् ।
समान्ते श्राद्धकृद् दद्याद् गावः पञ्च पवस्विनीः ॥
वासांसि वा पिशङ्गानि जलकुम्भयुतानि च ।
स याति वैष्णवं लोकं पितॄणां तारयेच् छतम् ॥
कल्पान्ते राजराजः स्यात् पितृव्रतम् इदं स्मृतम् ।
१७। आनन्दव्रतम्
चैत्रादिचतुरो मासान् जलं दद्याद् अयाचितम् ।
व्रतान्ते मणिकं दद्याद् अन्नवस्त्रसमन्वितम् ॥
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते ।
कल्पान्ते भूपतिर् नूनम् आनन्दव्रतम् उच्यते ॥
[४४४]
१८। धृतिव्रतम्
पञ्चामृतेन स्नपनं कृत्वा संवत्सरं विभोः ।
वत्सरान्ते पुनर् दद्याद् धेनुं पञ्चामृतैर् युताम् ॥
“पञ्चामृतम्” दधि-क्षीर-घृत-मधु-इक्षुरसाः । “विभोः” शङ्करस्य ।
विप्राय दद्याच् छङ्खं च स पदं याति शाङ्करम् ।
राजा भवति कल्पान्ते धृतिव्रतम् इदं स्मृतम् ॥
१९। अहिंसाव्रतम्
वर्जयित्वा पुमान् मांसम् अब्दान्ते गोप्रदो भवेत् ।
तद्वद् धैमं मृगं दद्यात् सो ‘श्वमेधफलं लभेत् ॥
अहिंसाव्रतम् इत्य् उक्तं कल्पान्ते भूपतिर् भवेत् ।
२०। सूर्यव्रतम्
माघमास्य् उषसि स्नानं कृत्वा दाम्पत्यम् अर्चयेत् ।
भोजयित्वा यथाशक्त्या माल्यवस्त्राणि भूषणैः ॥
सूर्यलोके वसेत् कल्पं सूर्यव्रतम् इदं स्मृतम् ।
२१। विष्णुव्रतम्
आषाढादिचतुर्मासं प्रातःस्नायी भवेन् नरः ।
विप्रेषु भोजनं दत्वा कार्तिक्यां गोप्रदो भवेत् ॥
स वैष्णवं पदं याति विष्णुव्रतम् इदं स्मृतम् ।
२२। शीलव्रतम्
अयनाद् अयनं यावद् वर्जयेत् क्षीरसर्पिषी ।
तदन्ते पुष्पदामानि घृतधेन्वा सहैव तु ॥
[४४५] दत्वा शिवपुरं याति विप्राय घृतपायसम् ।
एतच् छीलव्रतं नाम चारोग्यश्रीप्रलप्रदम् ॥
२३। दीप्तिव्रतम्
सन्ध्यादीपः प्रदेयस् तु समां तैलं विवर्जयेत् ।
समान्ते दीपिकां दद्याच् चक्रशूले च काञ्चने ॥
वस्त्रयुग्मं च विप्राय स तेजस्वी भवेद् इह ।
रुद्रलोकम् अवाप्नोति दीप्तिव्रतम् इदं स्मृतम् ॥
२४। रुद्रव्रतम्
कार्तिकादितृतीयायां प्राश्य गोमुत्रयावकम् ।
नक्तं चरेद् अब्दम् एकम् अब्दान्ते गोप्रदो भवेत् ॥
गौरीलोके वसेत् कल्पं स्थित्वा राजा भवेद् इह ।
एतद् रुद्रव्रतं नाम सदा कल्याणकारकम् ॥
२५। दृढव्रतम्
वर्जयेच् चैत्रमासे तु यस् तु गन्धानुलेपनम् ।
शुक्तिं गन्धभृतां दत्वा विप्राय सितवाससी ॥
वारुणं पदम् आप्नोति दृढव्रतम् इदं स्मृतम् ।
२६। कान्तिव्रतम्
वैशाखे पुष्पलवणं वर्जयित्वा तु गोप्रदः ।
कृत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेद् इह ॥
एतत् कान्तिव्रतं नाम कान्तिकीर्तिफलप्रदम् ।
२७। ब्रह्मव्रतम्
ब्रह्माण्डं काञ्चनं कृत्वा तिलराशिसमन्वितम् ।
त्र्यहं तिलव्रतो भूत्वा वह्निं सन्तर्प्य सद्विजम् ॥
[४४६] सम्पूज्य विप्रदाम्पत्यं माल्यवस्त्रविभूषणैः ।
शक्तितस् त्रिपलाद् ऊर्ध्वं विश्वात्मा प्रीयताम् इति ॥
पुण्ये ‘ह्नि पद्मशयनं ब्रह्म यात्य् अपुनर्भुवम् ।
एतद् ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम् ॥
२८। धेनुव्रतम्
यश् चोभयमुखीं दद्यात् प्रभूतकनकान्विताम् ।
दिनं पयोव्रतस् तिष्ठेत् स याति परमं पदम् ॥
एतद् धेनुव्रतं नाम पुनरावृत्तिदुर्लभम् ।
२९। कल्पवृक्षव्रतम्
त्र्यहं पयोव्रतः स्थित्वा काञ्चनं कल्पपादपम् ।
पलाद् ऊर्ध्वं यथाशक्त्या तण्डुलं शूर्पसंयुतम् ॥
दत्वा ब्रह्मपदं याति कल्पवृक्षव्रतं स्मृतम् ।
३०। भीमव्रतम्
मासोपवासी यो दद्याद् धेनुं विप्राय शोभनाम् ।
स वैष्णवपदं याति भीमव्रतम् इदं स्मृतम् ॥
३१। धराव्रतम्
दद्याद् विंशत्पलाद् ऊर्ध्वं महीं कृत्वा तु काञ्चनीम् ।
दिनं पयोव्रतस् तिष्ठेद् रुद्रलोके महीयते ॥
धराव्रतम् इदं प्रोक्तं सप्तकल्पशतानुगम् ।
३२। महाव्रतम्
माघमासे ‘थ चैत्रे वा गुडधेनुप्रदो भवेत् ।
गुडव्रतस् तृतीयायां गोलोके स महीयते ॥
महाव्रतम् इदं नाम परमानन्दकारकम् ।
[४४७]
३३। प्रभाव्रतम्
पक्षोपवासी यो दद्याद् विप्राय कपिलाद्वयम् ।
स ब्रह्मलोकम् आप्नोति देवासुरसुपूजितः ॥
कल्पान्ते राजराजः स्यात् प्रभाव्रतम् इदं स्मृतम् ।
३४। प्राप्तिव्रतम्
वत्सरं त्व् एकभक्ताशी सभक्ष्यजलकुम्भदः ।
शिवलोके वसेत् कल्पं प्राप्तिव्रतम् इदं स्मृतम् ॥
३५। सुगतिव्रतम्
नक्ताशी त्व् अष्टमीषु स्याद् वत्सरान्ते तु धेनुदः ।
पौरन्दरपदं याति सुगतिव्रतम् उत्तमम् ॥
३६। वैश्वानरव्रतम्
यश् चेन्धनाग्निदो विप्रे वर्षादि चतुरस् त्व् ऋतून् ।
घृतधेनुप्रदानेन स परं ब्रह्म गच्छति ॥
वैश्वानरव्रतं नाम सर्वपापप्रणाशनम् ।
३७। कृष्णव्रतम्
एकादश्यां च नक्ताशी यश् चक्रं विनिवेदयेत् ।
चैत्रे समान्ते सौवर्णं स विष्णोः पदम् आप्नुयात् ॥
एतत् कृष्णव्रतं नाम कल्पान्ते राज्यलाभकृत् ।
३८। देवीव्रतम्
पायसाशा समान्ते तु दद्याद् विप्राय गोयुतम् ।
[४४८] लक्ष्मीलोके वसेत् कल्पम् एतद् देवीव्रतं स्मृतम् ॥
३९। भानुव्रतम्
सप्तम्यां नक्तभुग् दद्यात् समान्ते गां पयस्विनीम् ।
सूर्यलोकम् अवाप्नोति भानुव्रतम् इदं स्मृतम् ॥
४०। वैनायकव्रतम्
चतुर्थ्यां नक्तभुग् दद्याद् अब्दान्ते हेमवारिजम् ।
व्रतं वैनायकं नाम शिवलोकप्रदायकम् ॥
४१। फलव्रतम्
महाफलानि यस् त्यक्त्वा चतुर्मासं द्विजातये ।
इमानि कार्तिके दद्याद् गोयुगेन समं नरः ॥
एतत् फलव्रतं नाम सूर्यलोके महीयते ।
“महाफलानि” कूष्माण्डपनसादीनि ।
४२। सौरव्रतम्
यश् चोपवासी सप्तम्यां समान्ते हेमपङ्कजम् ।
गावश् च शक्तितो दद्याद् धेमान्नघटसंयुताः ॥
एतत् सौरव्रतं नाम सूर्यलोकफलप्रदम् ।
४३। वृषव्रतम्
द्वादश द्वादशीर् यस् तु समाप्योपोषणैः पुनः ।
गोवस्त्रकाञ्चनैर् विप्रान् पूजयेच् छक्तितो नरः ॥
परं पदम् अवाप्नोति वृषव्रतम् इदं स्मृतम् ।
४४। प्राजापत्यव्रतम्
कृत्स्नान्ते गोप्रदः कुर्याद् भोजनं शक्तितः पदम् ।
[४४९] शाङ्करं याति विप्राणां प्राजापत्यम् इदं स्मृतम् ॥
“भोजनं” “विप्राणाम्” इति सम्बन्धः ।
४५। त्र्य्म्बकव्रतम्
चतुर्दश्यां समान्ते तु नक्ताशी गोयुगप्रदः ।
शैवं पदम् अवाप्नोति त्रैयम्बकम् इदं स्मृतम् ॥
४६। वरव्रतम्
सप्तरात्रोषितो दद्याद् घृतकुम्भं द्विजातये ।
वरव्रतम् इदं प्राहुर् ब्रह्मलोकफलप्रदम् ॥
४७। इन्द्रव्रतम्
आकाशशायी वर्षासु दद्याद् अन्ते पयस्विनीम् ।
शक्रलोके वसेत् कल्पम् इदम् इन्द्रव्रतं स्मृतम् ॥
४८। शीलव्रतम्
अनग्निपक्वम् अश्नाति तृतीयायां तु यो नरः ।
गां दत्वा शिवम् अभ्येति पुनरावृत्तिवर्जितम् ॥
इह चानन्दकृत् पुंसां शीलव्रतम् इदं स्मृतम् ।
४९। अश्वव्रतम्
हेमं पलद्वयाद् ऊर्ध्वं रथम् अश्वयुगान्वितम् ।
दद्यात् कृतोपवासः सन् दिवि कल्पशतं वसेत् ॥
कल्पान्ते राजराजः स्याद् अश्वव्रतम् इदं स्मृतम् ।
५०। करिव्रतम्
तद्वद् धेमरथं दद्यात् करिभ्यां संयुतं नरः ।
[४५०] तद्वत् पलद्वयाद् ऊर्ध्वम् अर्कलोके महीयते ॥
भवेद् उपोषितो भूत्वा करिव्रतम् इदं स्मृतम् ।
५१। सुखव्रतम्
अथ वा सम्परित्यज्य समान्ते गोप्रदो भवेत् ।
यक्षाधिपत्यम् आप्नोति तत् सुखव्रतम् उच्यते ॥
५२। वरुणव्रतम्
निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत् ।
वारुणं लोकम् आप्नोति वरुणव्रतम् उच्यते ॥
५३। चन्द्रव्रतम्
चान्द्रायणं च यः कुर्याद् धेमचन्द्रं निवेदयेत् ।
चन्द्रव्रतम् इदं प्रोक्तं चन्द्रलोकफलप्रदम् ॥
५४। रुद्रव्रतम्
ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम् ।
यावत् षष्ठीत्रयोदश्यो रुद्रव्रतम् इदं स्मृतम् ॥
५५। भवानीव्रतम्
सकृन् नक्तव्रतं कुर्यात् तृतीयायां शिवालये ।
समान्ते धेनुदो भक्त्या भवानीव्रतम् उच्यते ॥
५६। पवनव्रतम्
माघे मास्य् आर्द्रवासाः स्यात् सप्तम्यां गोप्रदो भवेत् ।
दिवि कल्पम् उषित्वा तु राजा स्यात् पवनव्रतम् ॥
५७। धामव्रतम्
त्रिरात्रोपोषितो दद्यात् फाल्गुन्यां भवनं शुभम् ।
[४५१] आदित्यलोकम् आप्नोति धामव्रतम् इदं स्मृतम् ॥
५८। इन्दुव्रतम्
त्रिसन्ध्यं पूज्य दाम्पत्यम् उपवासी विभूषणैः ।
दद्याद् यः समवाप्नोति मोक्षम् इन्दुव्रतादिकम् ॥
५९। सोमव्रतम्
दत्वा सितद्वितीयायाम् इन्दोर् लवणभोजनम् ।
समान्ते गोप्रदो याति विप्राय शिवमन्दिरम् ॥
कल्पान्ते राजराजः स्यात् सोमव्रतम् इदं स्मृतम् ।
६०। विश्वव्रतम्
दशम्याम् एकभक्ताशी समान्ते दशधेनुदः ।
गिरिं च काञ्चनीं दद्याद् ब्रह्मणे ‘धिपतिर् भवेत् ॥
एतद् विश्वव्रतं नाम महापातकनाशनम् ।
इति षष्टिव्रतानि ।
[४५२]
अथ प्रकीर्णव्रतानि
तत्र वराहपुराणे ।
एकादश्यां निराहारो यो भुङ्क्ते द्वादशीदिने ।
शुक्ले वा यदि कृष्णे वा तद् व्रतं वैष्णवम्महत् ॥
एतद् विद्वान् सुघोराणि हन्ति पापानि पार्थिव ।
त्रयोदश्यां तु नक्तेन धर्मव्रतम् इदं स्मृतम् ॥
शुक्लपक्षे फाल्गुनस्य तद् आरभ्य विचक्षणः ।
रौद्रव्रतं चतुर्दश्यां कृष्णपक्षे विशेषतः ॥
तं माघमासाद् आरभ्य पूर्णं संवत्सरं नृप ।
इन्द्रव्रतं पञ्चदश्यां शुक्लायां नक्तभोजनात् ॥
पितृव्रतम् अमावास्याम् इति बीजं तवोदितम् ।
दश पञ्च च वर्षाणि य एवं कुरुते नृप ॥
तिथिव्रतानि कस् तस्य फलं ब्रूते प्रमाणतः ।
अश्वमेधसहस्राणि राजसूयशतानि च ॥
इष्टानि तेन राजेन्द्र कल्पोक्ताः क्रतवस् तथा ।
एकम् एव व्रतं हन्ति कृतं पापानि नित्यसः ॥
यः पुनः सर्वम् एवैतत् कुर्यान् नरवरात्मज ।
स सुद्धो विरजान् लोकान् आप्नोति सकलान् नृप ॥
[४५३]
[महातपोव्रतानि]
स्कन्दपुराणे ।
अहोरात्रं तु यो देव्याः कुर्याद् एकं नरोत्तम ।
दशानां स सुअर्णानां फलम् आप्नोति शोभनम् ॥
“सुवर्णानां” सुवर्णदानस्य “फलं” इत्य् अर्थः ।
मासे मासे त्व् अहोरात्रं यः करोति नरोत्तमः ।
स तेन कर्मणा युक्तः सर्वपापविवर्जितः ॥
न याति नरकं सत्यं यमं च न (स) पश्यति ॥
तथा ।
मासे मासे तु यः कुर्यात् त्रिरात्रक्षपणं व्रतम् ।
कौबेरलोकम् आसाद्य स विन्देत् परमं परम् ॥
चतुर्थे ‘हनि यो भुङ्क्ते प्रयतात्मा शुचिर् नरः ।
गान्धर्वं स पदं प्राप्य मोदते शक्रवद् दिवि ॥
पञ्चमे ‘हनि यो भुङ्क्ते प्रतिमासम् अतन्द्रितः ।
स मुक्तः सर्वपापैस् तु स गच्छेद् दिवमूर्जितः ॥
यो भुङ्क्ते दिवसे षष्ठे नित्यं नियमवान् शुचिः ।
वारुणं लोकम् आसाद्य स याति परमं पदम् ॥
सप्तमे ‘हनि यो भुङ्क्ते जितद्वन्द्वो दृढव्रतः ।
आदित्यलोकम् आप्नोति सो ‘पि विन्देन् महाव्रतम् ॥
[४५४] “जितद्वन्द्वः “आतपादिदुःखसहिष्णुः” ।
अष्टमे ‘हनि यो भुङ्क्ते जितद्वन्द्वो दृढव्रतः ।
वैष्णवं लोकम् आसाद्य स भवेत् परमद्युतिः ॥
नवमे ‘हनि यो भुङ्क्ते नरो नियमवान् शुचिः ।
स वसूनां प्रियो भूत्वा वसते वसुभिः सह ॥
दशमे ‘हनि यो भुङ्क्ते द्वादशाहफलं लभेत् ।
अश्विभ्यां स समो भूत्वा सूर्यवज् ज्वलते सदा ॥
“द्वादशाहः” क्रतुविशेषः ।
एकादशे तु यो भुङ्क्ते दिवसे मानवः सदा ।
एकादशाहं सम्प्राप्य स रुद्रगणतां लभेत् ॥
यो द्वादशे तु दिवसे भुङ्क्ते देवि सदा नरः ।
द्वादशाहं तु सम्प्राप्य शक्रलोके महीयते ॥
त्रयोदशे तु यो नित्यम् अश्नाति दिवसे नरः ।
वसेत् स भार्गवं स्थानं प्राप्य दिव्यसुखान्वितम् ॥
अश्नन् चतुर्दशे नित्यं दिवसांस् तु क्षपेन् नरः ।
तौष्टिकं लोकम् आसाद्य भवेद् गणपतिर् नरः ॥
“तौष्टिकम्” दिव्यम् ।
अर्धमासं क्षपेद् यस् तु नित्यम् एव ह्य् अतन्द्रितः ।
[४५५] देवराजेन तुल्यो ‘सौ भूत्वा स्वर्गे तु तिष्ठति ॥
यस् तु मासं क्षपेद् धीरो जितक्रोधो जितेन्द्रियः ।
स विमानेन दिव्येन अप्सरोभिः समन्वितः ॥
सर्वलोकेषु वसते बधून्य् अब्दयुतानि च ।
ततो ब्रह्मासनं प्राप्य ब्रह्मणा च सुपूजितः ॥
ब्रह्मलोके निवसते यथा ब्रह्मा नरोत्तम ।
महाभारते ।
मासि मासि त्रित्रात्राणि कृत्वा वर्षाणि द्वादश ।
गणाधिपत्यम् आप्नोति निःसपत्नम् अकण्डकम् ॥
यस् तु संवत्सरं पूर्णम् एकाहारो भवेन् नरः ।
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥
दश वर्षसहस्राणि स्वर्गलोके महीयते ।
तत्क्षयाद् इह आगत्य माहात्म्यं प्रतिपद्यते ॥
यस् तु संवत्सरं पूर्णं चतुर्थं भक्तम् अश्नुते ।
अहिंसानिरतो नित्यं सत्यवाङ् नियतेन्द्रियः ॥
वाजपेयस्य यज्ञस्य फलं प्राप्नोति वै नरः ।
त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते ॥
“चतुर्थं भक्तम् अश्नुते” उपोष्य परे ‘हनि न भुङ्क्त इत्य अर्थः ।
[४५६] षष्ठकाले तु कौन्तेय नरः संवत्सरं क्षपेत् ।
“षष्ठकाले” भुङ्क्त इति शेषः ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
चक्रवाकप्रयुक्तेन विमानेन स गच्छति ।
चत्वारिंशत्सहस्राणि दिवम् आवसते च सः ॥
[पक्षे पक्षे गते राजन् यो ‘श्नीयाद् वर्षम् एव तु ।
षण्मासानशनं तस्य भगवान् अङ्गिराब्रवीत् ॥
षष्टिर् वर्षसहस्राणि दिवम् आवसते स च सः ।]
“अश्नीयात्” द्वितीये पक्षे सर्वदिनेष्व् इत्य् अर्थः ।
वीणानां वल्लकीनां च वेणूनां च विशाम्पते ॥
सुघोषैर् मधुरैः शब्दैः सुषुप्तः प्रतिबुध्यते ।
संवत्सरम् इहैकं तु मासि मासि पिबेत् पयः ॥
फलं विश्वजितः स्फीतं प्राप्नोति स नरोत्तमः ।
सिंहव्याघ्रादियुक्तेन स विमानेन गच्छति ॥
शतं चाप्सरसः कन्या रमयन्ति नरं तथा ।
सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ॥
मासाद् ऊर्ध्वं नरव्याघ्र नोपवासो विधीयते ।
युधिष्ठिर उवाच ।
यो दरिद्रैर् अपि विधिः शक्यः प्राप्तुं सदा भवेत् ।
तुल्यो यज्ञफलैर् एतैस् तम् मे ब्रूहि पितामह ॥
[४५७] भीष्म उवाच ।
यस् तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् ।
अहिंसानिरतो नित्यं यजानो जातवेदसम् ॥
“पिबेत्” उदकम् अपीति शेषः ।
षड्भिर् एव तु वर्षैः स सिध्यति नात्र संशयः ।
देवस्त्रीणाम् अधीवासे न्र्त्यगीतनिनादिते ॥
प्राजापत्ये वसेत् पद्मं वर्षाणाम् अग्निसन्निभे ।
“पद्मं” कोटिशतम् ।
त्रीणि वर्षाणि सततं यः प्राश्नो[आ?]त्य् एकभोजनम् ॥
धर्मपत्नीरतो नित्यम् अग्निष्ठोमफलं लभेत् ।
द्वितीये दिवसे यस् तु प्राश्नीयाद् एकभोजनम् ॥
सदा द्वादश मासान् वै जुह्वानो जातवेदसम् ।
[यज्ञं बहुसुवर्णं यो वासवप्रियम् आहरेत् ॥
सत्यवाग् दानशीलश् च ब्रह्मण्यश् चानसूयकः ।
क्षान्तो दान्तो जितक्रोधो यत् फलं समवाप्नुयात् ॥
पाण्डुराभप्रतीकाशे विमाने हंसलक्षणे ।
द्वे समाप्ते ततः पद्मे सो ‘प्सरोभिर् वसेत् सह ॥
“समाप्ते” परिपूर्णे ।
तृतीये दिवसे यस् तु प्राश्नीयाद् एकभोकनम् ।
[४५८] सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ॥]
अग्निकार्यपरो नित्यं नित्यं कालप्रोबोधिनः ।
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् ॥
सप्तर्षीणां सदा लोके सो ‘प्सरोभिर् वसेत् सह ।
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥
“आस्य” स्थित्वा ।
दिवसे यश् चतुर्थे तु प्राश्नीयाद् एकभोजनम् ।
सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ॥
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् ।
सागरस्य च पर्यन्तं वासवं लोकम् आवसेत् ॥
देवराजस्य च क्रीडां नित्यकालम् अवेक्षते ।
“सागरस्य च पर्यन्तं” समुद्रसङ्ख्याविशेषान्तम् ।
दिवसे पञ्चमे यस् तु प्राश्नीयाद् एकभोजनम् ॥
सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ।
अलुब्धः सत्यवादी च ब्रह्मण्यश् चाविहिंसकः ॥
असूयापापरहितो द्वादशाहफलं लभेत् ।
जाम्बूनदमयं दिव्यं विमानं हंअलक्षणम् ॥
सूर्यमालासमाभासम् आरोहेत् पाण्डुरं गृहम् ।
आवर्तनानि चत्वारि तुलापद्मानि द्वादश ॥
शराग्निपरिमाणं च तत्रासौ वसते सुखम् ।
“आवर्तनानि” मन्वन्तराणि । तुलापद्मानि शतं प्रमाणानि । “शराग्निपरिमाणम्” शराः पञ्च, अग्नयस् त्रयः । इदम् अपि परिमाणं मन्वन्तराणाम् एव ।
[४५९] दिवसे यस् तु षष्ठे तु मुनिः प्राश्नीत भोजनम् ॥
सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ।
सदा त्रिषवणस्नायी ब्रह्मचार्य् अनसूयकः ॥
“मुनिः संयतवाक् ।
[गवां मेधस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् ।]
तथैवाप्सरसाम् अङ्गे सुषुप्तः प्रतिबुध्यते ॥
नूपुराणां निनादेन मेखलानां च निःस्वनैः ।
कोटीः सहस्रवर्षाणां युगकोटिशतानि च ॥
पद्मान्य् अष्टादश तथा पताके द्वे तथैव च ।
अयुतानि च पञ्चाशद् ऋक्षचर्मशतस्य च ॥
लोमप्रमाणेन समं ब्रह्मलोके महीयते ।
“पताका” सङ्ख्याविशेषः ।
दिवसे सप्तमे यस् तु प्राश्नीयाद् एकभोजनम् ॥
सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ।
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरेत् ॥
सुमनो वर्णकं चैव मधु मांसं च वर्जयेत् ।
पुरुषो मरुतां लोकम् इन्द्रलोकं च गच्छति ॥
तत्र तत्र च सिद्धार्थो देवकन्याभिर् अर्च्यते ।
फलं बहुसुवर्णस्य दानस्य लभते नरः ॥
सङ्ख्याम् अतिगुणां चापि तेषु लोकेषु मोदते ।
“सरस्वतीं गोपयाहः” वाचं नियच्छन् । “वर्णकम्” कुङ्कुमादि । “अतिगुणां” अतिक्रान्तगुणाम्, अपरिमिताम् इति यावत् ।
[४६०] यस् तु संवत्सरं पूर्णम् भुङ्क्ते ‘हन्य् अष्टमे नरः ॥
देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ।
पुण्डरीकस्य यज्ञस्य फलं प्राप्नोत्य् अनुत्तमम् ॥
पद्मवर्णनिभं चैव विमानम् अधिरोहति ।
कृष्णाः कनकगौराश् च नार्यः श्यामास् तथैव च ॥
वयोरूपसमायुक्ता लभते नात्र संशयः ।
यस् तु संवत्सरं भुङ्क्ते नवमे च परे ‘हनि ॥
सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ।
अश्वमेधस्य यज्ञस्य फलम् आप्नोति मानवः ॥
पुण्डरीकप्रभासं च विमानं लभते नरः ।
दीप्तः सूर्याग्नितेजोभिर् दिव्यमालाभिर् एव च ॥
नीयते रुद्रकन्याभिः सो ‘न्तरिक्षं सनातनम् ।
अष्टादश सहस्राणि वर्षाणां कल्पम् एव च ॥
कोटीशतसहस्रं च तेषु लोकेषु मोदते ।
यस् तु संवत्सरं भुङ्क्ते दशाहे वै गते गते ॥
सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ।
“गते” प्राप्ते ॥
तथा ।
अश्वमेधसहस्रस्य फलं प्राप्नोत्य् अनुत्तमम् ।
ब्रह्मकन्यानिवासे च सर्वभूतमनोहरे ॥
रूपवत्यश् च तं कन्या रसयन्ति सदा नरम् ।
[४६१] एकादशे तु दिवसे यः प्राप्ते प्राशते हविः ॥
सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ।
परस्त्रियो नाभिलषेत् वाचा च मनसापि वा ॥
अनृतं च न भाषेत मातापित्रोः कृते अपि ।
अभिगच्छेन् महादेवं विमानस्थं महाबलम् ॥
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् ।
रुद्राणां तम् अधीवासं दिवं दिव्यं मनोरमम् ॥
वर्षाण्य् अपरिमेयानि युगान्ताग्निसमप्रभः ।
कोटीशतसहस्रं च कोटीशतशतानि च ॥
रुद्रं नित्यं प्रणमते देवदानवसम्मतः ।
स तस्मै कुशलं प्राप्तो दिवसे दिवसे भवेत् ॥
दिवसे द्वादशे यस् तु प्राप्ते वै प्राशते हविः ।
[सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ॥
आदित्यद्वादशाभासं विमानं सो ‘धिरोहति ।
अष्टमहर्द्धिसंयुक्तं ब्रह्मलोके प्रतिष्ठितम् ॥
नित्यम् आवसथं प्राप्य नरनारीसमाकुलम् ।
त्रयोदशे तु दिवसे यः प्राप्ते भुञ्जते हविः ॥
सदा द्वादशमासान् वै देवसत्रफलं लभेत् ।]
रत्नपद्मोदयं नाम विमानं साधयेन् नरः ।
तत्र शङ्कुं पताकां च युगान्ते कल्पम् एव च ॥
युतायुतं तथा पद्मं समुद्रञ्च तथा वसेत् ॥
“शङ्कुपताका”प्रभृतयः सङ्ख्याविशेषाः ।
[४६२] गीतगन्धर्वघोषैश् च भेरीप्रणवनिःस्वनैः ।
सदा प्रमुदितस् ताभिर् देवकन्याभिर् ईड्यते ॥
चतुर्दशे तु दिवसे यः प्राप्ते प्राशते हविः ।
सदा द्वादश मासान् वै महामेधफलं लभेत् ॥
अनिर्देश्यवयोरूपा देवकन्याः स्वलङ्कृताः ।
पृष्ठतश् चामरधरा विमानैर् अनुयान्ति तम् ॥
देवकन्यानिवासे च तस्मिन् वसति मानवः ।
जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः ॥
यस् तु पक्षे गते भुङ्क्ते ह्य् एकभक्तो जितेन्द्रियः ।
सदा द्वादशमासांस् तु जुह्वानो जातवेदसम् ॥
राजसूयसहस्रस्य फलं प्राप्नोत्य् अनुत्तमम् ।
यानम् आरोहते दिव्यं हंसबर्हिणसेवितम् ।
[मुनिमण्डलकैश् चित्रं जातरूपसमावृतम् ।
दिव्याभरणशोभाभिर् वरस्त्रीभिर् अलङ्कृतम् ॥
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ।
वैजयन्तीसहस्रैश् च शोभितं गीतनिःस्वनैः ॥
दिव्यं दिव्यगुणोपेतं विमानम् अधिरोहति ।]
वसेद् युगसहस्रं च खड्गकुञ्जरवाहनः ॥
षोडशे दिवसे यस् तु सम्प्राप्ते प्राशने हविः ।
सदा द्वादशमासान् वै सोमयज्ञफल्ं लबेत् ॥
[४६३] सोमकन्यानिवासेषु सो ‘ध्यावसति नित्यशः ।
सौम्यगन्धानुपेपश् च सेव्यते ‘प्सरसां गणैः ॥
[सुदर्शणाभिर् नारीभिर् मधुराभिस् तथैव च ।
अर्च्यते वै विमानस्थः कामभोगैश् च सेव्यते ॥]
फलं पद्मशतं कल्पं महाकल्पशताधिकम् ।
आवर्तनानि चत्वारि साधयेच् चाप्य् असौ नरः ॥
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः ।
सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ॥
स्थानं वारुणम् ऐन्द्रं वा रौद्रं वाप्य् अधिगच्छति ।
मारुतौशनसं चैव ब्रह्मलोकं च गच्छति ॥
तत्र दैवतकल्पाभिर् आसनेनोपचर्यते ।
भूर्बुवं चापि देवर्षिं विश्वरूपम् अवेक्षते ॥
“भूर्भुवम्” ब्राह्मणम् ।
चन्द्रादित्याव् उभौ यावद् गगने चरतः प्रभो ।
तावच् चरत्य् असौ वीरः शुद्धामृतरसायनः ॥
अष्टादशे तु दिवसे प्राश्नीयाद् एकभोजनम् ।
सदा द्वादशमासान् वै सप्तलोकान् स पश्यति ॥
रथैः सनन्दिघोषैश् च पृष्ठतः सो ‘नुगम्यते ।
देवकन्याधिरूढैश् च भ्राजमानैर् अलङ्कृतैः ॥
[४६४] विमानम् उत्तमं दिव्यं सः स्वयं ह्य् अधिरोहति ।
तत्र कल्पसहस्रं च कान्ताभिः सह मोदते ॥
सुधारसं च भुञ्जीतामृतोप्मम् अनुत्तमम् ।
एकोनविंशे दिवसे यो भुङ्क्ते ह्य् एकभोजनम् ॥
सदा द्वादशमासान् वै सप्तलोकान् स पश्यति ।
उत्तमं लभते स्थानं सो ‘प्सोरोगणसेवितम् ॥
तत्रामरवरस्त्रीभिर् मोदते विगतज्वरः ।
दिव्याम्बरधरः श्रीमान् अयुतानां शतं समाः ॥
पूर्णे ‘थ दिवसे विंशे यो भुङ्क्ते ह्य् एकभोजनम् ।
सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ॥
अमांसाशि ब्रह्मचारी सर्वभूतहिते रतः ।
स लोकान् विमलान् वश्यान् आदित्यानाम् उपाश्नुते ॥
गन्धर्वैर् अप्सरोभिश् च दिव्यमाल्यानुलेपनैः ।
विमानैः काञ्चनैर् दिव्यैः पृष्ठतः सो ‘नुगम्यते ॥
एकविंशे तु दिवसे यो भुङ्क्ते ह्य् एकभोजनम् ।
स हि द्वादशमासान् वै जुह्वानो जातवेदसम् ॥
[लोकम् औशनसं दिव्यं शक्रलोकं च गच्छति ।
अश्विनोर् मरुतां चैव सुखेष्व् अभिरतः सदा ॥
अनभिज्ञश् च दुःकानां विमानवरम् आस्थितः ।
सेव्यमानो वरस्त्रीभिः क्रीडत्य् अमरवत् प्रभुः ॥
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्य् एकभोजनम् ।
सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ॥]
[४६५] धृतिमान् मार्गनिरतः सत्यवाग् अनसूयकः ।
लोकान् वसूनां प्राप्नोति दिवाकरसमद्युतिः ॥
कामचारः स्वधाहारो विमानवरम् आस्थितः ।
रमते देवकन्याभिर् दिव्याभरणभूषितः ॥
[त्रयोविंशे तु दिवसे यः प्राशेद् एकभोजनम् ।
सदा द्वादशमासांस् तु मिताहारी जितेन्द्रियः ॥
वायोर् उशनसश् चैव रुद्रलोकं च गच्छति ।
कामचारी कामगमः पूज्यमानो ‘प्सरोगणैः ॥
अनेकयुगपर्यन्तं विमानं वरं आस्थितः ।
रमते देवकन्याभिर् दिव्याभरणभूषितः ॥]
चतुर्विंशे तु दिवसे यः प्राशेद् एकभोजनम् ।
स हि द्वादशमासान् वै जुह्वानो जातवेदसम् ॥
आदित्यानाम् अधीवासे मोदमानो वसेच् चिरम् ।
रमते देवकन्यानां सहस्रैर् अयुतैस् तथा ॥
पञ्चविंशे तु दिवसे यः प्राशेद् एकभोजनम् ।
सदा द्वादशमासान् वै पुष्कलं यानम् आरुहेत् ॥
रथैः सनन्दिघोषैश् च पृष्ठतः सो ‘नुगम्यते ।
देवकन्यासमारूढै रजतैर् विमलैः शुभैः ॥
तत्र कल्पसहस्रं वै [रमते स्त्रीशतावृतः ।
सुधारसं च लभते ‘मृतोपमम् अनुत्तमम् ॥
षड्विंशे दिवसे यस् तु प्राश्नीयाद् एकभोजनम् ।
सदा द्वादशमासान् वै] नियतो नियताशनः ॥
[४६६] जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् ।
सम्प्राप्नोति महाभागः पूज्यमानो ‘प्सरोगणैः ॥
सप्तानां मरुतां लोकान् वसूनां च समश्नुते ।
गन्धर्वैर् अप्सरोभिश् च पूज्यमानः प्रमोदते ॥
द्वे युगानां सहस्रे तु दिवि दिव्येन चेतसा ।
सप्तविंशे तु दिवसे यः प्राशेद् एकभोजनम् ॥
सदा द्वादशमासांस् तु [जुह्वानो जातवेदसम् ।
फलम् आप्नोति विपुलं देवलोके च मोदते ॥
अमृताशी वसंस् तत्र स वै तृप्तः प्रपूज्यते ।
स्त्रीभिर् मनोऽभिरामाभी रममाणो मदोत्कटः ॥
युगकल्पसहस्राणि त्रीण्य् आवसति वै सुखम् ।
यो ‘ष्टविंशे तु दिवसे जितात्मा च जितेन्द्रियः ।
फलं देवर्षिचरितं विपुलं च समश्नुते ॥
भोगवांस् तेजसा युक्तः स्वर्गे वरिर् इवामलः ।
सुकुमार्यश् च तं नार्यस् त्वरमाणाः सुवर्चसः ॥
रमयन्ति मनःकान्ते विमाने सूर्यसन्निभे ।
सर्वकामयुते दिव्ये कल्पायुतशतं समाः ॥
एकोनत्रिंशे दिवसे [यः प्राशेद् एकभोजनम् ।
सदा द्वादशमासान् वै सत्यव्रतपरायणः ॥
तस्य लोकाः शुभा दिव्या दिव्यगन्धगुणान्विताः ।
तत्र चैतं शुभा नार्यो] दिव्याभरणभूषिताः ॥
मनो ‘भिरमा मधुरा रमयन्ति पदोत्कटाः ।
भोगवांस् तजसा युक्तो वैश्वानरसमप्रभः ॥
[४६७] दिव्येन वपुषा चैव भ्राजमान इवामरः ।
वसूनां मरुतां चैव सन्ध्यानाम् अश्विनोस् तथा ॥
रुद्राणां च तथा लोकान् ब्रह्मलोकं च गच्छति ।
यस् तु मासे गते भुङ्क्ते एकभक्तं समात्मकः ॥
सदा द्वादश मासान् वै ब्रह्मलोके गतिर् भवेत् ।
सुधाक्षारकृताहारं श्रीमान् सर्वमनोहरः ॥
तेजसा वपुषा युक्तो भ्राजते रश्मिमान् इव ।
स्वयं युताभिर् नारीभिर् विमानस्थो महीपते ॥
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ।
यावद् वर्षसहस्रं तु जम्बूद्वीपे ‘भिवर्षति ॥
तावत् संवत्सरः प्रोक्तो ब्रह्मलोकस्य धीमतः ।
विप्रुषश् चैव यावत्यो निपतन्ति नभस्तलात् ॥
वर्षासु वर्षतस् तावन् निवसत्य् अमरप्रभः ।
यावदित्यादि । “जम्बूद्वीपे वर्षासु वर्षसहस्रं” “धीमतो” देवस्य “वर्षतो” वृष्टिं कुर्वतो “यावत्यो विप्रुषो” जलकणाः “नभस्तलान् निपतन्ति” “तावत्” तावतः संवत्सरान् ब्रह्मलोके वसतीत्य् अर्थ ।
मासोपवासी वर्षैस् तु दशभिः स्वयम् उत्तमम् ॥
महर्षित्वम् अथासाद्य स्वशरीरगतिर् भवेत् ।
मुनिर् दान्तो जितक्रोधो जितशिश्नोदरस् तथा ॥
जुह्वन्न् अग्नौ च नियतः सन्ध्योपासनसेविता ।
बहुभिर् नियमैर् एवं मासम् अश्नाति यो नरः ॥
अभावकाशशीलश् च तस्य वासो ‘तिरिच्यते ।
दिवं गत्वा शरीरेण स्वेन राजन् यथामरः ॥
[४६८] स्वर्गे पुण्यं यथाकामं नृप भुङ्क्ते यथाविधि ।
उपवासान् इमान् कृत्वा गच्छेच् च परमां गतिम् ॥
तथा ।
वैश्याः शूद्राश् च ये मोहाद् उपवासं प्रकुर्वते ।
त्रिरात्रम् एकरात्रं च तयोः पुष्टिर् न विद्यते ॥
चतुर्थभक्तक्षपणं चैश्ये शूद्रे विधीयते ।
त्रिरात्रं तु न धर्मजैर् विहितं ब्रह्मवादिभिः ॥
“पुष्टिः” फलम् ।
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् ।
पयोभक्ष्यो दिवं याति स्नानेन द्व्रविणाधिकः ॥
गवाढ्यः शाकदीक्षाभिः स्वर्गमार्गस् तृणाशिनाम् ।
स्त्रियस् त्रिषवणस्नानाद् वायुं पीत्वा क्रतुं लभेत् ॥
नित्यस्नायी भवेद् राजा सन्ध्ये तु द्वे जपन् द्विजः ।
सेन्द्रं साधयते राज्यं नाकपृष्ठम् अनाशकः ॥
स्थण्डिले तु शयानानां गृहाणि शयनानि च ।
चीरवल्कलवासोभिर् वासांस्य् आभरणानि च ॥
रसानां प्रतिसंहारे सौभाग्यम् इह विन्दति ।
आमिषप्रतिसंहारे प्रजास्य् आयुष्मती भवेत् ॥
उदवासं वसेद् यस् तु स नराधिपतिर् भवेत् ।
[४६९] “प्रतिसंहारः” परित्यागः । “उदवासः” उदके वासः ।
सत्यवादी नरश्रेष्ठो दैवतैः सह मोदते ॥
गन्धमाल्यनिवृत्या तु कीर्तिर् भवति पुष्कला ।
केशश्मश्रून् धारयताम् अग्र्या भवति सन्ततिः ॥
उपवासं च दीक्षां वाप्य् अभिषेकं च पार्थिवः ।
कृत्वा द्वासशवर्षाणि वीरयानाद् विशिष्यते ॥
इति श्रीमहाराजाधिराजश्रीमद्गोविन्दचन्द्रमहासान्धिविग्रहिक-
भट्टहृदयधरात्मजेन भट्टश्रीलक्ष्मीधरेण विरचिते
कृत्यकल्पतरौ व्रतकाण्ड्ं समाप्तम् ॥
॥ श्रीशुभम् अस्तु ॥