+०५ दान-काण्डम्

कृत्यकल्पतरौ दानकाण्डम्

ॐ गणेशाय नमः ।

१ येनाविच्छेदवेदध्वनिहतकलिभिः श्रोत्रियाणां पुरीभिः
फुल्लाब्जामोदमाद्यन्मधुकरमुखरव्योमभागैस् तडागैः ।

चक्रे धात्री पवित्रा विभववितरणैर् अर्थिवाञ्छातिरिक्तैः

स श्रीमान् एष लक्ष्मीधर इह तनुते पञ्चमं दानकाण्डम् ॥

२ दानस्वरूपम् आचष्टे देयादेयविवेचनम् ।
पात्राणां लक्षणं सम्यक् महादानानि षोडश ॥

३ अत्र पर्वतदानानि गुडधेन्वादिकानि च ।
तथा हेमगवीदानं दानं च वृषभस्य च ॥

४ दानं कृष्णाजिनस्यापि भूमिदानम् अनन्तरम् ।
सुवर्णदानम् अप्य् अत्र विद्यादानं वदत्य् असौ ॥

५ कल्पदानं तिथौ दानं दानं नक्षत्रलक्षितम् ।
अन्नदानम् अथारोग्यदानं वक्ति द्विजोत्तमः ॥

६ अभयस्य तथा दानं वदत्य् एष सुपुण्यधीः ।
तथा प्रकीर्णदानानि वापीकूपसरोविधिम् ॥

७ आरामस्य प्रतिष्ठां च दानम् आश्रयलक्षणम् ।
दानकाण्डे ऽत्र पर्वाणि क्रमाद् द्वाविंशतिर् मता ॥

अथ दानधर्मः

तत्र व्यासः

८ वर्णानाम् आश्रमाणां च चातुर्वर्ण्ये युधिष्ठिर ।
दानधर्मं प्रवक्ष्यामि यथा व्यासेन भाषितम् ॥ [हेम् ५]

९ यद् ददासि विशिष्टेभ्यो यद् अश्नासि दिने दिने ।
तत् ते वित्तम् अहं मन्ये शेषं कस्यापि रक्षसि ॥ [हेम् ५]

१० यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् ।
अन्ये मृतस्य क्रीडन्ति दारैर् अपि धनैर् अपि ॥ [हेम् ५]

११ अहन्य् अहनि याचन्तम् अहं मन्ये गुरुं यथा ।
मार्जनं दर्पणस्येव यः करोति दिने दिने ॥ [हेम् ७]

१२ आयासशतलब्धस्य प्राणेभ्यो ऽपि गरीयसः ।
गतिर् एकैव वित्तस्य दानम् अन्या विपत्तयः ॥ [हेम् ६]

१३ किं धनेन करिष्यन्ति देहिनो भङ्गुराश्रयाः ।
यदर्थं धनम् इच्छन्ति तच् छरीरम् अशाश्वतम् ॥ [हेम् ७]

१४ यदि नाम न धर्माय न कामाय न कीर्त्तये ।
यत् परित्यज्य गन्तव्यं तद् धनं किं न दीयते ॥ [हेम् ७]

१५ जीविते यस्य जीवन्ति विप्रा मित्राश् च बान्धवाः ।
सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥

१६ किं कायेन सुपुष्टेन बलिना चिरजीविना ।
यन् न सत्त्वोपकाराय तज् जीवितम् अनर्थकम् ॥

१७ ग्रासाद् अर्धम् अपि ग्रासम् अर्थिभ्यः किं न दीयते ।
इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ [हेम् ७]

१८ किं देहेन सुपुष्टेन सुपुष्टम् अपि यास्यति ॥
१९ अदाता पुरुषस् त्यागी धनं संत्यज्य गच्छति ।
दातारं कृपणं मन्ये मृतो ऽप्य् अर्थं न मुञ्चति ॥ [हेम् ७]

२० प्राणिनां सति मर्तव्ये यः कृतार्थो मृतो न सः ।
अकृतार्थस्य यो मृत्युर् अन्तरप्रलयो हि सः ॥

२१ अनाहूतेषु यद् दत्तं यच् च दत्तम् अयाचितम् ।
भविष्यति युगस्यान्तस् तस्यान्तो न भविष्यति ॥

२२ मृतवत्सा यथा गौर् वै तृष्णालुब्धा तु दुह्यते ।
अपरस्परदानानि लोकयात्रा न धर्मवत् ॥

२३ अदृष्टम् अश्नुते दानं भुक्त्वा चैव न दृश्यते ।
पुनरागमनं नास्ति तस्य दानम् अनन्तकम् ॥

मत्स्यपुराणे

२४ न्यायेनार्जनम् अर्थानां वर्धनं चाभिरक्षणम् ।
सत्पात्रप्रतिपत्तिश् च सर्वशास्त्रेषु पठ्यते ॥ [म्प् २७४.१]