२२ २ प्रतिश्रयदानम्

अथ प्रतिश्रयदानम्

तत्र देवीपुराणे

शक्र उवाच

२२.२.१ पुरस्य पश्चिमे भागे दक्षिणे चोत्तरे तथा ।
पूर्वे वा मध्यतो वापि ये कुर्वन्ति प्रतिश्रयम् ॥ [हेम् ६७३]

२२.२.२ देवतास् तत्र काः स्थाप्याः का न स्थाप्या द्विजोत्तम ।
दिग्विभागगता ब्रूहि स भवेद् येन शान्तिदः ॥ [हेम् ६७३]

ब्रह्मोवाच

२२.२.३ दक्षिणोत्तरपूर्वेण पश्चिमेन सुरेश्वर ।
अथ मध्यगतः शक्र कार्यो यत्नात् प्रतिश्रयः ॥ [हेम् ६७३]

२२.२.४ यत्र श्रान्ताश् च खिन्नाश् च विश्राम्यन्ति द्विजातयः ।
प्रतिश्रयस्य कर्तारः स्वर्गे तिष्ठन्ति ते चिरम् ॥ [हेम् ६७४]

२२.२.५ तस्मात् प्रतिश्रयः कार्यो दृष्टादृष्टफलार्थिभिः ।
देवताधिष्ठितः शक्र सर्वसौख्यप्रदो भवेत् ॥ [हेम् ६७४]

२२.२.६ देवतानां त्रयं प्रोक्तं चतुर्थो नोपपद्यते ।
महिषघ्नीं तथा यक्षं नायकं चात्र कारयेत् ॥ [हेम् ६७४]

२२.२.७ महिषघ्नी भवेन् मध्ये ज्येष्ठस्थाने न चान्यथा ।
वामतो नायकः कार्यो दक्षिणे यक्षराट् तथा ॥ [हेम् ६७४]

२२.२.८ अथ वा दिग्गताः कार्यास् तत्रापि कथयामि ते ।
यद् द्वारं संमुखं तस्य देवीं तत्र प्रतिष्ठयेत् ।

न यक्षं नायकं कार्यं द्वाराभ्यां मध्यतः स्थितम् ॥ [हेम् ६७४]

इति श्रीभट्टहृदयधरात्मजमहासान्धिविग्रहिकभट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ दानकाण्डं समाप्तम् ॥