२२.१ अथाश्रयदानम्
तत्र कालिकापुराणे
२२.१.१ शङ्करात् परमं नान्यद् अतस् तस्मै विकल्प्य च ।
यतीनाम् आश्रयं वापि कृत्वा पक्वेष्टकामयम् ॥ [हेम् ६६५]
विकल्प्य संकल्प्य ।
२२.१.२ सुशालं चारुनिर्वासं परिवारसमन्वितम् ।
व्याख्यामण्डपसंयुक्तम् आसनैर् विविधैस् तथा ।
पुष्पोद्यानसमायुक्तं सोदकं शङ्करालये ॥ [हेम् ६६५]
२२.१.३ ग्रामं दीपेन्धनाद्यर्थं प्रेष्याणां चैव चेतने ।
कौपीनोपानहाद्यर्थम् आश्रये ऽपि नियोजयेत् ॥ [हेम् ६६५]
२२.१.४ ततो ऽभ्यर्च्य यतीन् भक्त्या भोजयित्वा विशेषतः ।
वस्त्रैश् चैव प्रपूज्येशं भक्त्या तेभ्यो निवेदयेत् ॥ [हेम् ६६५]
२२.१.५ अनेनाश्रयदानेन सर्वकामयुतो नरः ।
भुक्त्वा त्व् अमरलोकानां भोगान् गच्छेत् तदालयम् ॥ [हेम् ६६६]
तदालयं शङ्करालयम् ।