अथ वृक्षप्रतिष्ठा
तत्र देवीपुराणे
ब्रह्मोवाच
२१.१ अनूपे सजले स्थाने पुमान् दैवे ऽथ वा जले ।
आरामं रोपयेत् प्राज्ञो विधिदृष्टेन कर्मणा ॥ [हेम् १०४४]
इअनूपे ऽतिस्निग्धे । सजले जलाशयसहिते ।
२१.२ कालं देशं तथा पात्रं बीजं बीजक्रियाविधिः ।
तथा फलेन संसृष्टम् एवम् आरोपितं भवेत् ॥ [हेम् १०४४–४५]
२१.३ फलपुष्पविशुद्धस्य विशुद्धं सर्वसंस्कृतम् ।
धर्मकामार्थमोक्षादिसाधने हन्यते ऽन्यथा ॥ [हेम् १०४५]
२१.४ विधिव्यत्ययबीजादिदूषिते भूपरिग्रहे ।
कूलादिभिः सुरश्रेष्ठ यजमानो विनश्यति ॥ [हेम् १०४५]
पात्रं बीजवापेय आचार्यः । बीजक्रियाविधिः अङ्कुरजननसमर्थबीजकरण-प्रकारः । विधिव्यत्ययो विधेर् अन्यथाकरणम् । कूलादिभिर् नदीकूलादिभिः ।
२१.५ आरामं सहकारादेर् न शुद्धं कारयेत् क्वचित् ।
चिताज्वलनसंलग्ने चितिवल्मीकदूषिते ।
सहकारवनं कृत्वा याति कर्ता यमालयम् ॥ [हेम् १०४५]
२१.६ गृहात् पुरो ऽथ वा तात स्थिते संरोपिते तथा ।
प्रतिपक्षं भवेत् तत्र छिन्द्याद् वा हितम् इच्छता ॥ [हेम् १०४५]
२१.७ अश्वत्थवटप्लक्षादि औदुम्बर्यो विदिक्स्थिताः ।
जगतो भयदा यस्मात् तस्मात् तांश् छेदयेन् मुने ॥ [हेम् १०४५]
२१.८ रोपयेद् बिल्ववीराम्रकपित्थकपिलार्जुनान् ।
दाडिमीबीजपूरं च उदगाद्यां द्रुमान् पुरे ॥ [हेम् १०४५]
२१.९ प्लक्षाः प्राच्यां सदा रोप्याः शाकाशनसधन्वनाः ।
कदम्बो वायवे तालो बिल्वाशोकौ च सर्वगौ ॥ [हेम् १०४५]
वीरो भल्लातकवृक्षः । कपिला शिंशपा । कपित्थः प्रसिद्धः दाडिमी च । आशनो बीजकः । वायवे वायुदिग्भागे ।
२१.१० मयन्दीमाधवीरम्भाः क्रीडास्थाने निवेशयेत् ।
जातीनेपालिकाकुन्दतगरा गन्धमल्लिकाः ।
शुभाय कथितास् तात व्यत्ययाद् भयदा यतः ॥ [हेम् १०४६]
२१.११ पूर्वेण शुभम् आरामं तथा चोत्तरतो ऽथ वा ।
पश्चिमे धनदं प्रोक्तं वायव्यां कीर्तिवर्धनम् ॥ [हेम् १०४६]
२१.१२ न कुर्युर् याम्यनैरृत्ये आग्नेये च शुभार्थिनः ।
अन्यथा कलहोद्वेगं मृत्युं वा लभते कृते ॥ [हेम् १०४६]
२१.१३ तस्माद् राज्यायुःशुभदं पुत्रसंततिवर्धनम् ।
पश्चिमोत्तरपूर्वेण आरामं जायते शुभम् ॥ [हेम् १०४६]
२१.१४ अथ वारामजान् दोषान् चामुण्डा शमयेत् कृतान् ।
महाभयं महालक्ष्मीर् ग्रहकृत्यं यथोत्थितम् ॥ [हेम् १०४६]
ग्रहकृत्यं ग्रहपीडा ।
२१.१५ पुष्पपत्त्रफलानां च रजोरेणुसमाः समाः ।
कर्ता देवसभावासं विधौ यात्य् अविधाव् अधः ॥ [हेम् १०४६]
अथ वृक्षरोपणविधिः
२१.१६ एवं यथोदितां भूमिं शुद्धां प्लवसमोदिताम् ।
परिगृह्य यजेद् देवं धनपालं शिखिध्वजम् ।
सोमं च नागराजं च ततः कुर्यात् परिग्रहम् ॥ [हेम् १०४६]
२१.१७ यद् बीजं मन्त्ररहितं गर्भाधानादिवर्जितम् ।
वापितं सहकारादि यद् बीजं मन्त्रवर्जितम् ।
तज् जातं चापकाराय यथा जायेत वै क्रतुः ॥ [हेम् १०४६]
२१.१८ शङ्करायेति मन्त्रेण इन्द्र एहीति मन्त्रवित् ।
त्र्यम्बकेन तु राजेन्द्र बीजं भवति शोभनम् ॥ [हेम् १०४६–४७]
२१.१९ अविधौ कूपवाप्यादिखननोत्सर्गणं च यत् ।
कुर्वन्ति सहकारादिरोपणं तु नराधमाः ।
फलं तेषां लभन्ते न इह चान्ते अधोगतिम् ॥ [हेम् १०४७]
२१.२० ये शूद्राः शूद्रविधिना कुर्वन्ति च न रोपणम् ।
त आत्मनृपलोकानां महासंशयकारकाः ॥ [हेम् १०४७]
२१.२१ कूपारामतडागादि प्रपावापीप्रतिश्रयम् ।
सर्वेशाधिष्ठितं वत्स अनन्तफलदायकम् ।
वृक्षान् पञ्च समारोप्य शिवधाम प्रपद्यते ॥ [हेम् १०४७]
२१.२२ ये च पापा दुराचाराः श्रीतरुछेदकारिणः ।
ते ऽप्य् अवीच्यादिनरके पच्यन्ते ब्रह्मणो दिनम् ।
मृतास् ते जीवमानास् तु ब्रह्मघ्नाः कीर्तिता भुवि ॥ [हेम् १०४७]
२१.२३ तस्मिन् देशे भयं नित्यं राजानो न चिरायुषः ।
न च नन्दत्य् अयं लोको यत्र श्रीवृक्षछेदनम् ॥ [हेम् १०४७]
नन्दिपुराणे
२१.२४ क्रीडारामं तु यः कुर्याद् उद्यानं पुष्पसंकुलम् ।
तोयाश्रयसमायुक्तं गुप्तं फलसमृद्धिमत् ।
स गच्छेच् छङ्करपुरं वसेत् तत्र युगत्रयम् ॥ [हेम् १०४१]
२१.२५ मार्गे वृक्षं तु यो दद्याच् छायाविटपसंकुलम् ।
स कल्पतरुखण्डेषु महेन्द्रोद्यानवेश्मसु ।
विनोद्यते ऽप्सरोबृन्दैर् देववच् च युगार्बुदम् ॥ [हेम् १०३३]
२१.२६ फलवृक्षं च यो दद्याद् धर्मम् उद्दिश्य मानवः ।
स सर्वकामतृप्तात्मा गच्छेद् वरुणमन्दिरम् ॥ [हेम् १०३४]
स्कन्दपुराणे
२१.२७ यस् तु वृक्षं प्रकुरुते छायापुष्पफलोपगम् ।
पथि देव्या नरः पापात् संतारयति वै पितॄन् ॥ [हेम् १०३३]
२१.२८ तथैव दत्त्वा विप्रेभ्यो निष्क्रीणाति च तत् पुनः ।
यावत् फलानि पुष्पाणि उपयुञ्जन्ति देहिनः ।
तावद् वर्षसहस्राणि संतारयति वै पितॄन् ॥
महाभारते
२१.२९ स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः ।
वृक्षगुल्मलतावल्ल्यस् त्वक्सारास् तृणजातयः ॥ [म्भ् १३.९९.२३, हेम् १०२९]
२१.३० एतास् तु जात्यो वृक्षाणां तथारोपे गुणास् त्व् इमे ।
कीर्तिश् च मानुषे लोके प्रेत्य चैव शुभं फलम् ॥ [म्भ् १३.९९.२४, हेम् १०२९–३०]
२१.३१ अतीतानागतौ चोभौ पितृवंशौ च भारत ।
तारयेद् वृक्षरोपी च तस्माद् वृक्षान् प्ररोपयेत् ॥ [म्भ् १३.९९.२६, हेम् १०३०]
मत्स्यपुराणे
सूत उवाच
२१.३२ पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु ।
तडागविधिवत् सर्वम् आसाद्य जगतीश्वर ॥ [म्प् ५९.३, हेम् १०४८]
२१.३३ ऋत्विङ्मण्डपसंभारम् आचार्यश् चापि तादृशः ।
पूजयेद् ब्राह्मणांस् तद्वद् धेमवस्त्रानुलेपनैः ॥ [म्प् ५९.४, हेम् १०४८]
२१.३४ सर्वौषध्युदकैः सिक्तान् पिष्टातकविभूषितान् ।
वृक्षान् माल्यैर् अलंकृत्य वासोभिर् अभिवेष्टयेत् ॥ [म्प् ५९.५, हेम् १०४८]
२१.३५ सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् ।
अञ्जनं चापि दातव्यं तद्वद् धेमशलाकया ॥ [म्प् ५९.६, हेम् १०४८]
२१.३६ फलानि सप्त चाष्टौ वा कालधौतानि कारयेत् ।
प्रत्येकं सर्ववृक्षाणां वेद्यां तान्य् अधिवासयेत् ॥ [म्प् ५९.७, हेम् १०४८]
२१.३७ धूपो ऽत्र गुग्गुलुः श्रेष्ठस् ताम्रपात्रैर् अलंकृतान् ।
सर्वधान्यस्थितान् कृत्वा वस्त्रगन्धानुलेपनैः ॥ [म्प् ५९.८, हेम् १०४८]
३८कुम्भान् सर्वेषु वृक्षेषु स्थापयित्वा नरेश्वरः ।
सहिरण्यान् अशेषांस् तान् कृत्वा बलिनिवेदनम् ॥ [म्प् ५९.९, हेम् १०४८]
२१.३९ यथावल् लोकपालानाम् इन्द्रादीनां विधानतः ।
वनस्पतेश् च विद्वद्भिर् होमः कार्यो द्विजातिभिः ॥ [म्प् ५९.१०, हेम् १०४८]
२१.४० ततः शुक्लाम्बरधरां सौवर्णकृतभूषणाम् ।
सकांस्यदोहां सौवर्णशृङ्गाभ्याम् अतिशालिनीम् ।
पयस्विनीं वृक्षमध्याद् उत्सृजेद् गाम् उदङ्मुखीम् ॥ [म्प् ५९.११, हेम् १०४८]
२१.४१ ततो ऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः ।
ऋग्यजुःसाममन्त्रैश् च वारुणैर् अभितस् तदा ।
तैर् एव कुम्भैः स्नपनं कुर्युर् ब्राह्मणपुंगवाः ॥ [म्प् ५९.१२, हेम् १०४९]
२१.४२ स्नातः शुक्लाम्बरधरो यजमानो ऽपि पूजयेत् ।
गोभिर् विभवतः सर्वान् ऋत्विजस् तान् समाहितः ॥ [म्प् ५९.१३, हेम् १०४९]
२१.४३ हेमसूत्रैः सकटकैर् अङ्गुलीयैः पवित्रकैः ।
वासोभिः शयनीयैश् च तथोपस्करपादुकैः ॥ [म्प् ५९.१४, हेम् १०४९]
२१.४४ क्षीराभिषेचनं दद्युर् यावद् दिनचतुष्टयम् ।
होमश् च सर्पिषा कार्यो यवैः कृष्णतिलैस् तथा ॥ [म्प् ५९.१४–१५, हेम् १०४९]
२१.४५ पलाशसमिधः शस्ताश् चतुर्थे ऽह्नि तथोत्सवः ।
दक्षिणा च पुनस् तद्वद् देया तत्रापि शक्तितः ॥ [म्प् ५९.१५, हेम् १०४९]
२१.४६ यद् यद् इष्टतमं किंचित् तत् तद् दद्याद् अमत्सरः ।
आचार्ये द्विगुणं दत्त्वा प्रणिपत्य विसर्जयेत् ॥ [म्प् ५९.१६, हेम् १०४९]
२१.४७ अनेन विधिना यस् तु कुर्याद् वृक्षोत्सवं बुधः ।
सर्वान् कामान् अवाप्नोति पदं चानन्तम् अश्नुते ॥ [म्प् ५९.१७, हेम् १०४९]
२१.४८ यश् चैकम् अपि राजेन्द्र वृक्षं संस्थापयेन् नरः ।
सो ऽपि स्वर्गे वसेद् राजन् यावद् इन्द्रायुतत्रयम् ॥ [म्प् ५९.१८, हेम् १०४९]
२१.४९ भूतान् भव्यांश् च मनुजांस् तारयेद् रोमसंमितान् ।
परमां सिद्धिम् आप्नोति पुनरावृत्तिदुर्लभाम् ॥ [म्प् ५९.१९, हेम् १०४९]
पद्मपुराणे
२१.५० अपुत्रस्य च पुत्रत्वं पादपा इह कुर्वते ।
यच्छन्ति रोपकेभ्यस् ते सत्तीर्थे तर्पणादिकम् ॥ [प्प् २८.२२–२३, हेम् १०३०]
सत्तीर्थे तर्पणादिकं सत्तीर्थे पुत्रकृततर्पणादिजन्यं तृप्त्यादिफलं रोपकस्य प्रयच्छन्तीत्य् अर्थः ।
२१.५१ प्रयत्नेनापि राजेन्द्र पिप्पलारोपणं कुरु ।
स ते पुत्रसहस्राणाम् एक एव करिष्यति ॥ [प्प् २८.२३–२४, हेम् १०३०]
पुत्रसहस्राणां कर्तव्यम् इति शेषः ।
२१.५२ धनी चाश्वत्थवृक्षेण ह्य् अशोकः शोकनाशनः ।
प्लक्षो यज्ञप्रदः प्रोक्तश् चिञ्चा त्व् आयुःप्रदा स्मृता ॥ [प्प् २८.२४–२५, हेम् १०३१]
२१.५३ जम्बुकी कन्यदा प्रोक्ता भार्यादा दाडिमी तथा । [प्प् २८.२५, हेम् १०३१]
चिञ्चा अम्लिका ।
२१.५४ अरलू रोगनाशाय पलाशो ब्रह्मदस् तथा ॥ [प्प् २८.२६, हेम् १०३१]
२१.५५ प्रेतत्वं जायते पुंसो रोपयेद् यो विभीतकम् ।
अङ्कोल्ले कुलवृद्धिः स्यात् खदिरे चाप्य् अरोगता ॥ [प्प् २८.२६–२७, हेम् १०३१]
२१.५६ निम्बप्ररोपको यस् तु तस्य तुष्टो दिवाकरः ।
श्रीवृक्षे शङ्करो देवः पाटलायां तु पार्वती ॥ [प्प् २८.२७–२८, हेम् १०३१]
२१.५७ शिंशपायाम् अप्सरसः कुन्दे गन्धर्वसत्तमाः ।
तिन्तिडीके दासवर्गो बकुलो दस्युदस् तथा ॥ [प्प् २८.२८–२९, हेम् १०३१]
श्रीवृक्षो बिल्वः । तिन्तिडीको वृक्षाम्लः ।
२१.५८ पण्यस्त्रीदायकश् चैव चन्दनः पनसस् तथा ।
सौभाग्यदश् चम्पकश् च करीरः पारदारिकः ॥ [प्प् २८.२९–३०, हेम् १०३१]
२१.५९ अपत्यनाशकस् तालो नान्दीशः कुलवर्धनः ।
बहुभार्या नारिकेली द्राक्षा सर्वाङ्गसुन्दरी ।
रतिप्रदा तथा कोली मोचकी शत्रुनाशिनी ॥ [प्प् २८.३०–३१, हेम् १०३१]
मोचकी शाल्मलिः ।
२१.६० इत्य् आदयस् तथान्ये च ये नोक्तास् ते ऽपि दायकाः ।
प्रतिष्ठां ते गमिष्यन्ति ये नरा वृक्षदायकाः ॥ [प्प् २८.३२, हेम् १०३१]
नन्दिपुराणे
२१.६ १तरुपुत्रं तु यः कुर्याद् विधिवद् वह्निसंनिधौ ।
स महापातकैर् युक्तः समुद्धृत्य कुलत्रयम् ।
नरकेभ्यो नरो याति प्रजापतिपुरं शुभम् ॥ [हेम् १०५०]
स्कन्दपुराणे
२१.६२ महादेवो महादेवीम् इदं वचनम् अब्रवीत् ।
शृणुष्व येन विधिना गृह्यते ऽवनिजः सुतः ॥ [हेम् १०५०]
अवनिजो वृक्षः ।
२१.६३ स्वपुत्रार्थं भूमिरुहं ग्रहीष्यामीति पार्वति ।
सोपवासा भवेन् नारी शुचिचित्ता शुचिव्रता ॥ [हेम् १०५०]
२१.६४ ततः शतसहस्रांशाव् अस्तशृङ्गगते रवौ ।
विप्रान् आमन्त्रयेद् रात्रौ पावनान् वेदवादिनः ॥ [हेम् १०५०]
२१.६५ विप्रान् आमन्त्रयित्वा तु शुचिवस्त्रा शुचिव्रता ।
शयीत सनमस्कारा सदर्भां भूमिम् आश्रिता ॥ [हेम् १०५१]
२१.६६ गमयित्वा तथा रात्रिं सवितर्य् उदिते ऽपि च ।
भक्ष्यभोज्यं समादाय व्रजेद् यत्र भवेत् तरुः ॥ [हेम् १०५१]
२१.६७ ततस् तं स्थापयित्वा तु सातपत्रं सभूषणम् ।
तरुं तं तरुणीकृत्य ततश् छायानुगामिनम् ॥ [हेम् १०५१]
२१.६८ यथोपपन्नम् अन्नं तान् भोजयित्वा द्विजोत्तमान् ।
पुण्याहं कारयित्वा तु ऋत्विजाप्य् अथ वात्मना ॥ [हेम् १०५१]
२१.६९ तृप्तानां ब्राह्मणानां वै तत्त्वेनाकृतम् आत्मना ।
निवेद्य कृतम् उद्दिश्य सद्भावेन परेण हि ॥ [हेम् १०५१]
२१.७० अपुत्राणं हि भगवन् पुत्रप्रकृतकं तरुम् ।
ग्रहीष्यामि महामात्रं कर्तुम् अर्हत सत्तमाः ॥ [हेम् १०५१]
पुत्रप्रकृतकं पुत्रसदृशम् ।
२१.७१ ततस् तैर् अप्य् अनुज्ञातं तं तरुं तरुणायुषि ।
भूमिदेवसमक्षं वै गृह्णीयात् तनयं प्रिये ॥ [हेम् १०५१]
तरुणायुषि वर्तमानम् इति शेषः । भूमिदेवसमक्षं ब्राह्मणाग्रतः ।
२१.७२ गृहीतो विधिनानेन सुभ्रु भूमिरुहात्मजः ।
सुभगे सुखाय भवति विपरीते तु दुःखदः ॥ [हेम् १०५१]
२१.७३ सत्पुत्राणां शतं चापि पीनश्रोणिपयोधरे ।
एको ऽपि भूरुहः श्रेष्ठः पुत्रत्वे कल्पितः शुभः ॥ [हेम् १०५१]
मत्स्यपुराणे
२१.७४ दशकूपसमा वापी दशवापीसमो ह्रदः ।
दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः ॥ [म्प् १५४.५१२, हेम् १०५०]