२० वापीकूपतडागादिविधिः

अथ वापीकूपतडागादिविधिः

तत्र यमः

२०.१कूपारामप्रपाकारस् तथा वृक्षावरोपकः ।
कन्याप्रदः सेतुकारी स्वर्गम् आप्नोत्य् असंशयम् ॥ [हेम् ९९७]

२०.२ तडागे यस्य पानीयं सततं खलु तिष्ठति ।
स्वर्गलोके गतिस् तस्य नात्र कार्या विचारणा ॥ [हेम् १००५]

२०.३ येषां तडागानि शुभाः प्रपाश् च आरामकूपाश् च प्रतिश्रयाश् च ।
अन्नप्रदानं मधुरा च वाणी तेषाम् अयं चैव परश् च लोकः ॥ [हेम् ९९७]

आदित्यपुराणे

२०.४ सेतुबन्धरता ये च तीर्थशौचरताश् च ये ।
तडागकूपकर्तारो मुच्यन्ते ते तृषाभयात् ॥ [हेम् १००२]

तीर्थशौचरता जलावतरणमार्गसंस्कर्तारः ।

विष्णुः

२०.५ अथ कूपकर्तुस् तत्प्रवृत्ते पानीये दुष्कृतार्धं विनश्यति । [विध् ९१.१, हेम् १००२]
इतत्प्रवृत्ते तस्मात् कूपात् प्रवृत्ते ।

२०.६ तडागकृन् नित्यतृप्तो वारुणं लोकम् अश्नुते ।
२०.७ जलप्रदः सदा तृप्तो भवति ।
२०.८ वृक्षारोपयितुर् वृक्षाः परलोके पुत्रा भवन्ति ।
२०.९ वृक्षप्रदस्य वृक्षाः प्रसूनैर् देवान् प्रीणयन्ति ।
२०.१० फलैश् चातिथीन् ।
२०.११ छाययाभ्यागतान् ।
२०.१२ देवे वर्षत्य् उदकेन पितॄन् ।
२०.१३ सेतुकृत् स्वर्गम् आप्नोति । [विध् ९०.२–९, हेम् १००२, १०३०]
तथा

२०.१४ कूपारामतडागेषु देवतायतनेषु च ।
पुनः संस्कारकर्ता च लभते मौलिकं फलम् ॥ [विध् ९०.१९, हेम् १००३]

नन्दिपुराणे

२०.१५ यो वापीम् अथ वा कूपं देशे तोयविवर्जिते ।
खानयेत् स नरो याति बिन्दौ बिन्दौ शतं समाः ।

देवैर् एकत्वम् अतुलं तृष्णाक्षुद्वर्जितस् तथा ॥ [हेम् १००२]

२०.१६ तडागकर्ता वसते स्वर्गे युगचतुष्टयम् ।
यत्र विप्रो ऽथ गौर् एका पायिनी सलिलं क्वचित् ।

तडागं तादृशं कृत्वा स्वर्गे दश युगान् वसेत् ॥ [हेम् १००५]

तथा

२०.१७ यो वापीम् अग्निसाक्ष्येण विधिवत् प्रतिपादयेत् ।
कोणेषूदककुम्भस्थान् समुद्रान् अर्च्य श्रद्धया ।

चतुरश् चतुरन्ता च तेन दत्ता मही भवेत् ॥ [हेम् १००४]

२०.१८ तत्संनिधौ द्विजान् अर्च्य विधिवत् पानभोजनैः ।
स याति वारुणं लोकं दिव्यकामसमन्वितम् ॥ [हेम् १००४–०५]

२०.१९ वाप्यास् तीरे तु यः कुर्यात् सच्छायं तरुपुत्रकम् ।
तरुदानाद् दशगुणं वापीदानाच् चतुर्गुणम् ।

संयोगदानेन फलं लभते पुरुषः स वै ॥

स्कन्दपुराणे

२०.२० अवटं यो नरः कुर्याद् अपां पूर्णं सुशोभनम् ।
दद्याच् च ब्राह्मणेभ्यस् तं भोजयित्वा यथाविधि ।

अष्टाभिः सुविचित्राभिः पताकाभिर् अलंकृतम् ॥ [हेम् १००२]

२०.२१ पितॄंस् तारयते पश्चात् तं दत्त्वा स नरोत्तमः ।
यात्य् अप्सरःसुगीतेन वरुणस्य सलोकताम् ॥ [हेम् १००२]

अवटो ऽत्र कूपः ।

मत्स्यपुराणे

मत्स्य उवाच

२०.२२ शृणु राजन् महाबाहो तडागादिषु यो विधिः ।
प्राप्य पक्षं शुभं शुक्लम् अतीते चोत्तरायणे ।

पुण्ये ऽह्नि विप्रैः कथिते कृत्वा ब्राह्मणवाचनम् ॥ [म्प् ५८.४–५, हेम् १०१४–१५]

२०.२३ प्रागुदक्प्रवणे देशे तडागस्य समीपतः ।
चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखीम् ॥ [म्प् ५८.६, हेम् १०१५]

२०.२४ तथा षोडशहस्तः स्यान् मण्डपश् च चतुर्मुखः ।
वेद्याश् च परितो गर्ता रत्निमात्रास् त्रिमेखलाः ।

नव सप्ताथ वा पञ्च योनिवक्त्रा नृपात्मज ॥ [म्प् ५८.७–८, हेम् १०१५]

२०.२५ वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुलविस्तृता ।
गर्ताश् च तत्र सप्त स्युस् त्रिपर्वोच्छ्रितमेखलाः ।

सर्वतः सर्ववर्णाः स्युः पताका ध्वजसंयुताः ॥ [म्प् ५८.८–९, हेम् १०१५]

२०.२६ अश्वत्थोदुम्बरप्लक्षवटशाखाकृतानि तु ।
मण्डपस्य प्रतिदिशं द्वाराण्य् एतानि कारयेत् ॥ [म्प् ५८.१०, हेम् १०१५]

२०.२७ शुभास् तत्राष्ट होतारो द्वारपालास् तथाष्ट वै ।
अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः ॥ [म्प् ५८.११, हेम् १०१५]

२०.२८ सर्वलक्षणसंपूर्णा मन्त्रवन्तो जितेन्द्रियाः ।
कुलशीलसमायुक्तः स्थापकः स्याद् द्विजोत्तमः ॥ [म्प् ५८.१२, हेम् १०१५]

गर्तादिपरिमाणम् ऋत्विजां च सर्वलक्षणानि तुलापुरुषे ऽभिहितानि । स्थापक आचार्यः ।

२०.२९ प्रतिगर्ते तु कलशा यज्ञोपकरणानि च ।
व्यञ्जनं चासनं शुद्धे ताम्रपात्रे सुविस्तरे ॥ [म्प् ५८.१३, हेम् १०१६]

२०.३० ततस् त्व् अनेकवर्णाः स्युर् बलयः प्रतिदैवताः ।
आचार्यः प्रक्षिपेद् भूमाव् अनुमन्त्र्य विचक्षणः ॥ [म्प् ५८.१४, हेम् १०१६]

२०.३१ अरत्निमात्रो यूपः स्यात् क्षीरवृक्षविनिर्मितः ।
यजमानप्रमाणो वा संस्थाप्यो भूतिम् इच्छता ॥ [म्प् ५८.१५, हेम् १०१६–१७]

२०.३२ हेमालंकारिणः कार्याः पञ्चविंशति ऋत्विजः ।
कुण्डलानि च हैमानि केयूरकटकानि च ।

तथाङ्गुलीपवित्राणि वासांसि विविधानि च ॥ [म्प् ५८.१६–१७, हेम् १०१७]

२०.३३ दक्षयेच् च समं सर्वान् आचार्ये द्विगुणं पुनः ।
दद्याच् छयनसंयुक्तम् आत्मनश् चापि यत् प्रियम् ॥ [म्प् ५८.१७, हेम् १०१७]

२०.३४ सौवर्णौ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ ।
ताम्रौ कुलीरमण्डूकाव् आयसः शिशुमारकः ॥ [म्प् ५८.१८, हेम् १०१७]

२०.३५ एवम् आसाद्य तान् सर्वान् आदाव् एव विशांपते । [म्प् ५८.१८, हेम् १०१७]
आदौ प्रथमतः ।

२०.३६ शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ।
सर्वौषध्युदकस्नानस्नापितो वेदपुंगवैः ॥ [म्प् ५८.१९, हेम् १०१७]

२०.३७ यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः ।
पश्चिमं द्वारम् आश्रित्य प्रविशेद् यागमण्डपम् ॥ [म्प् ५८.२०, हेम् १०१७]

२०.३८ ततो मङ्गलशब्देन भेरीणां निःस्वनेन च ।
रजसा मण्डलं कुर्यात् पञ्चवर्णेन तत्त्ववित् ॥ [म्प् ५८.२१, हेम् १०१७–१८]

२०.३९ षोडशारं ततश् चक्रं पद्मगर्भं चतुर्मुखम् ।
चतुरस्रं च परितो वृत्तं मध्ये सुशोभनम् ॥ [म्प् ५८.२२, हेम् १०१८]

२०.४० वेद्याश् चोपरि तत् कृत्वा ग्रहांल् लोकपतींस् ततः ।
विन्यसेन् मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः ॥ [म्प् ५८.२३, हेम् १०१८]

२०.४१ झषादीन् स्थापयेन् मध्ये वारुणं मन्त्रम् आश्रितः । [म्प् ५८.२४, हेम् १०१८]
झषादीन् मकरादीन् ।

२०.४२ ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद् बुधः ॥ [म्प् ५८.२४, हेम् १०१८]
२०.४३ विनायकं च विन्यस्य कमलाम् अम्बिकां तथा ।
शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत् ततः ।

पुष्पभक्ष्यफलैर् युक्तम् एवं कृत्वाधिवासयेत् ॥ [म्प् ५८.२५–२६, हेम् १०१८]

२०.४४ कुम्भांश् च रत्नगर्भांस् तान् वासोभिर् अभिवेष्ट्य च ।
पुष्पगन्धैर् अलंकृत्य द्वारपालान् समन्ततः ।

यजध्वम् इति तान् ब्रूयाद् आचार्यस् त्व् अभिपूज्य च ॥ [म्प् ५८.२६–२७, हेम् १०१८]

२०.४५ बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ ।
सामगौ पश्चिमे स्थाप्याव् उत्तरेण त्व् अथर्वणौ ॥ [म्प् ५८.२८, हेम् १०१८]

२०.४६ उदङ्मुखो दक्षिणतो यजमान उपाविशेत् ।
यजध्वम् इति तान् ब्रूयाद् धोतृकान् पुनर् एव च ॥ [म्प् ५८.२९, हेम् १०१८–१९]

२०.४७ उत्कृष्टमन्त्रजप्येन तिष्ठध्वम् इति जापकान् ।
एवम् आदिश्य तान् सर्वान् पर्युक्ष्याग्निं स मन्त्रवित् ॥ [म्प् ५८.३०, हेम् १०१९]

२०.४८ जुहुयाद् वारुणैर् मन्त्रैर् आज्यं च समिधस् तथा ।
ऋत्विग्भिश् चैव होतव्या वारुणैर् एव सर्वशः ॥ [म्प् ५८.३१, हेम् १०१९]

२०.४९ ग्रहेभ्यो विधिवद् धुत्वा तथेन्द्रायेश्वराय च ।
मरुद्भ्यो लोकपालेभ्यो विधिवद् विश्वकर्मणे ॥ [म्प् ५८.३२, हेम् १०१९]

२०.५० रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम् ।
जपेरन् पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक् ॥ [म्प् ५८.३३, हेम् १०२०]

रात्रिसूक्तं रात्री व्यख्यद् आयतीत्य् आदि । रौद्रं सूक्तं इमा रुद्रायेत्य् आदि । पावमानं स्वादिष्ठयेत्य् आदि । सुमङ्गलं सूक्तं कनिक्रदज् जनुषम् इत्य् आदि । पौरुषं सहस्रशीर्षेत्य् आदि ।

२०.५१ शाक्रं रौद्रं च सौम्यं च कौष्माण्डं जातवेदसम् ।
सौरसूक्तं जपेरंस् ते दक्षिणेन यजुर्विदः ॥ [म्प् ५८.३४, हेम् १०२०]

शाक्रसूक्तम् इन्द्रं वो विश्वतस्परीत्य् अनुवाकोद्भवे तु शक्रम् इति शक्रलिङ्गकः । रौद्रसूक्तम् इमा रुद्राय स्थिरधन्वन इति षड् ऋचः । सौम्यसूक्तं सोमो धेनुम् इति षड् ऋचः । कौष्माण्डसूक्तं यद् देवा देवहेडनम् इति चत्वारो ऽनुवाकाः । जातवेदससूक्तं यस् त्वा हृदा कीरिणेत्य् अनुवाकः । सौरसूक्तं सूर्यो देवीम् इति षड् ऋचः । एतानि सूक्तानि तैत्तिरीयाणां प्रसिद्धानि ।

२०.५२ वैराजं पौरुषं सूक्तं सौपर्णं रुद्रसंहिताम् ।
शैशवं पञ्चनिधनं गायत्रं ज्येष्ठसाम च ॥ [म्प् ५८.३५, हेम् १०२०]

२०.५३ वामदेव्यं बृहत् सौम्यं रौरवं सरथन्तरम् ।
गवां व्रतं विकर्णं च रक्षोघ्नं च यशस् तथा ।

गायन्ति सामगा राजन् पश्चिमद्वारम् आश्रिताः ॥ [म्प् ५८.३६, हेम् १०२०–२१]

वैराजं पिबा सोमम् इन्द्रेति प्रसिद्धम् । सौपर्णम् उद् घेद् अभि श्रुतामघम् इत्य् अत्र त्रीणि सामानि । रुद्रसंहिता सोमं राजानम् इत्य् आदि प्रसिद्धा । शैशवं उच्चा ते जातम् अन्धस इति । पञ्चनिधनं वामदेव्यं कया नश् चित्र इति प्रसिद्धम् । इज्येष्ठसाम त्रीण्य् आज्यदोहानि । वामदेव्यं ग्रामगेयम् । बृहत् त्वाम् इद् धि हवामह इति प्रसिद्धम् । सौम्यं सोमव्रतं सं ते पयांसीति । रौरवं पुनानः सोमेत्य् अत्र प्रसिद्धम् । गवां व्रतं ते मन्वत प्रथमम् इति द्वे सामनी । विकर्णं विभ्राड् इत्य् अत्र प्रसिद्धम् । रक्षोघ्नम् अग्ने युक्ष्वा हीत्य् आदि । यशः बृहद् इन्द्रायेत्य् अत्र प्रसिद्धम् ।

२०.५४ अथर्वाणश् चोत्तरतः शान्तिकं पौष्टिकं तथा ।
जपेरन् मनसा देवम् आश्रिता वरुणं प्रभुम् ॥ [म्प् ५८.३७, हेम् १०२१]

२०.५५ पूर्वेद्युर् अभितो रात्राव् एवं कृत्वाधिवासनम् ।
गजाश्वरथ्यावल्मीकसंगमाद् ध्रदगोकुलात् ॥ [म्प् ५८.३८, हेम् १०२१]

२०.५६ मृदम् आदाय कुम्भेषु प्रक्षिपेच् चत्वरात् तथा ।
रोचनां च ससिद्धार्थां गन्धान् गुग्गुलुम् एव च ॥ [म्प् ५८.३८–३९, हेम् १०२१]

२०.५७ स्नपनं तस्य कर्तव्यं पञ्चभङ्गसमन्वितैः ।
पूर्तकर्तुर् महामन्त्रैर् एवं कृत्वा विधानतः ॥ [म्प् ५८.३९–४०, हेम् १०२२]

पञ्च भङ्गा अश्वत्थोदुम्बरप्लक्षवटवेतसपल्लवाः ।

२०.५८ एवं क्षपाम् अतिवाह्य विधियुक्तेन कर्मणा ।
ततः प्रभाते विमले संजाते च शतं गवाम् ॥ [म्प् ५८.४०–४१, हेम् १०२३]

२०.५९ ब्राह्मणेभ्यः प्रदातव्यम् अष्टषष्ट्य् अथ वा पुनः ।
पञ्चाशद् वाथ षड्विंशत् पञ्चविंशति वा पुनः ॥ [म्प् ५८.४१, हेम् १०२३]

२०.६० ततः सांवत्सरैः प्रोक्ते शुद्धे लग्ने सुशोभने ।
वेदशब्दैः सगान्धर्वैर् वाद्यैश् च विविधैः शुभैः ॥ [म्प् ५८.४२, हेम् १०२३]

२०.६१ कनकालंकृतां तत्र कृत्वा गाम् अवतारयेत् ।
सामगाय च सा देया ब्राह्मणाय विशांपते ॥ [म्प् ५८.४३, हेम् १०२३]

२०.६२ पात्रीम् आदाय सौवर्णीं पञ्चरत्नसमन्विताम् ।
ततो निक्षिप्य मकरमत्स्यादींस् तांश् च सर्वशः ॥ [म्प् ५८.४४, हेम् १०२४]

२०.६३ धृतां चतुर्भिर् विप्रैस् तु वेदवेदाङ्गपारगैः ।
महानदीजलोपेतां दध्यक्षतविभूषिताम् ।

उत्तराभिमुखो न्युब्जां जलमध्ये तु कारयेत् ॥ [म्प् ५८.४४–४५, हेम् १०२४]

२०.६४ आथर्वणेन साम्नाथ पुनर् माम् इत्य् ऋचेति च ।
आपो हि ष्ठेति मन्त्रेण क्षिप्त्वागत्य च मण्डपम् ॥ [म्प् ५८.४६, हेम् १०२४]

आथर्वणं साम शं नो देवीर् अभिष्टय इत्य् अत्र प्रसिद्धम् अरण्ये गेयम् ।

२०.६५ पूजयित्वा सदस्यांस् तु बलिं दद्यात् समन्ततः ।
पुनर् दिनानि होतव्यं चत्वारि मुनिसत्तमाः ॥ [म्प् ५८.४७, हेम् १०२४]

२०.६६ चतुर्थीकर्म कर्तव्यं देया तत्रापि शक्तितः ।
दक्षिणा राजशार्दूल वरुणं संस्मरंस् ततः ॥ [म्प् ५८.४८, हेम् १०२४]

२०.६७ कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च ।
ऋत्विग्भ्यस् तु समं दत्त्वा मण्डपं विभजेत् पुनः ।

हेमपात्रीं च शय्यां च स्थापकाय निवेदयेत् ॥ [म्प् ५८.४९, हेम् १०२४]

२०.६८ ततः सहस्रं विप्राणाम् अथ वाष्टशतं तथा ।
भोजयेच् च यथाशक्त्या पञ्चाशद् वाथ विंशतिम् ।

एवम् एषु पुराणेषु तडागविधिर् उच्यते ॥ [म्प् ५८.५०, हेम् १०२४]

२०.६९ कूपवापीषु सर्वासु तथा पुष्करिणीषु च ।
एष एव विधिर् दृष्टः प्रतिष्ठासु तथैव च ।

मन्त्रतस् तु विशेषः स्यात् प्रासादोद्यानभूमिषु ॥ [म्प् ५८.५१–५२, हेम् १०२४]

२०.७० अयं त्व् अशक्ताव् अर्धेन विधिर् दृष्टः स्वयंभुवा ।
स्वल्पेष्व् एकाग्निवत् कार्यं वित्तशाठ्याद् ऋते नृभिः ॥ [म्प् ५८.५२, हेम् १०२५]

२०.७१ प्रावृट्कालस्थितं तोयम् अग्निष्टोमसमं स्मृतम् ।
शरत्कालस्थितं यत् स्यात् तद् उक्तफलदायकम् ।

वाजपेयातिरात्राभ्यां हेमन्तशिशिरस्थितम् ॥ [म्प् ५८.५३, हेम् १०२५]

२०.७२ अश्वमेधसमं प्राहुर् वसन्तसमये स्थितम् ।
ग्रीष्मे ऽपि यत् स्थितं तोयं राजसूयाद् विशिष्यते ॥ [म्प् ५८.५४, हेम् १०२५]

२०.७३ एतान् महाराज विशेषधर्मान् करोति यो ऽर्थ्यान् अथ शुद्धबुद्धिः ।
स याति रुद्रालयम् आशु पूतः कल्पान् अनेकान् दिवि मोदते च ॥ [म्प् ५८.५५, हेम् १०२५]

२०.७४ अनेन लोकान् स महस्तपादीन् भुक्त्वा परार्धद्वयम् अङ्गनाभिः ।
सहैव विष्णोः परमं पदं यत् प्राप्नोति तद् योगबलेन भूयः ॥

[म्प् ५८.५६, हेम् १०२५]

बह्वृचगृह्यपरिशिष्टम्

२०.७५ अथातो वारुणविधिः ।
२०.७६ वापीकूपतडागयज्ञं व्याख्यास्यामः ।
२०.७७ पुण्ये तिथि-करणे शुभे नक्षत्रे च प्राचीं दिशम् आस्थाय प्राक्प्रवण उदक्प्रवणे वा उदकसमीपे ऽग्निम् उपसमाधाय वारुणं चरुं श्रपयित्वा आज्यभागान्तं कृत्वा आज्याहुतीर् जुहुयात् समुद्रज्येष्ठा इति प्रत्य् ऋचम् ।
२०.७८ ततो हविषाष्टाभिर् जुहुयात् ।
२०.७९ तत् त्वा यामि ब्रह्मणा वन्दमान इति पञ्च ।
२०.८० त्वं नो अग्ने वरुणस्य विद्वान् इति द्वे ।
२०.८१ इमं मे वरुण श्रुधीति च ।
२०.८२ तदा स्विष्टकृतं च नवमम् ।
२०.८३ नव वै प्राणाः प्राणा वा आपः ।
२०.८४ तस्माद् आपो नवभिर् जुहोति ।
२०.८५ मार्जनान्ते धेनुं तारयेत् ।
२०.८६ अवतीर्यमाणाम् अनुमन्त्रयेत् ।
२०.८७ इदं सलिलं पवित्रं कुरुष्व शुद्धाः पूता अमृतः सन्तु नित्यम् ।
तारयन्ती सर्वतीर्थाभिषिक्तं लोकाल् लोकं तरते तीर्यते चेति ॥

२०.८८ पुच्छाग्रे स्वयं लग्नो ऽन्वारब्ध उत्तीर्यापो ऽस्मान् मातरः शुन्धयन्त्व् इत्य् अनयापराजितायां दिश्य् उत्थापयेत् सूयवसा भगवती हि भूया इति ।
२०.८९ हिंकृतं चेद् धिंकृण्वती वसुमती वसूनाम् इति ।
२०.९० सचेलकण्ठां काञ्चनशृङ्गीं वृषप्रजां रौप्यखुरां कांस्योपदोहां विप्राय दद्याद् इतरां वा ।
२०.९१ यथाशक्त्या दक्षिणा ।
२०.९२ तत उत्सर्गं कुर्यात् ।
२०.९३ देवपितृमनुष्याः प्रीयन्ताम् इत्य् उत्सृजेत् इत्य् आह शौनकः ।
२०.९४ ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयेत् । [हेम् १०२८–२९]
देवीपुराणे

ब्रह्मोवाच

२०.९५ देव्यः शस्ताः सुरश्रेष्ठ सर्वकामप्रसाधिकाः ।
तासां समुपभोगार्थं जलपात्राणि कारयेत् ॥ [हेम् १००७]

२०.९६ द्वारीबन्धादिकाः शक्र कूपारूढानुगाः शुभाः ।
तलखातं तडागं तु विपाली विश्वकी मता ॥ [हेम् १००७]

२०.९७ शोभाढ्या दीर्घिका प्रोक्ता चतुरश्रा तु वापिका ।
कूपाः पादविहीनाश् च सपादास् तोरणान्विताः ॥ [हेम् १००७]

२०.९८ संक्रमा बन्धवरणा सरन्ती मातृका मता ।
गिरेर् अन्तर्गता द्वारी संस्फोटं हरकं तथा ॥ [हेम् १००७]

२०.९९ चक्रमन्दं सचलको अर्गला चेति चान्तिमा ।
वज्रनागमधोगामी न सिध्यन्ति कदाचन ॥ [हेम् १००७–०८]

२०.१०० हेलात्मा च तथा चक्रं सुखसाध्या प्रकीर्तिता ।
उत्तमाधममध्यामाः स्वल्पबद्धा सुखप्रदा ॥ [हेम् १००८]

२०.१०१ दीर्घोच्चबन्धना याथा साधमा परिकीर्तिता ।
शतसाहस्रपर्यन्ता द्विदण्डाष्टद्विदण्डिका ॥ [हेम् १००८]

२०.१०२ द्वारी श्रेष्ठाधमा तात बहुबन्धा च या भवेत् ।
सिकतापङ्कसच्छिद्रां सप्रजां परिवर्जयेत् ॥ [हेम् १००८]

२०.१०३ शुभाहे दैर्घ्यविस्तारं मित्वा बन्धं समाचरेत् ।
त्रिपञ्चाष्टकपर्यन्तं श्रेष्ठो बन्धः प्रकीर्तितः ॥ [हेम् १००८]

२०.१०४ शतद्वयं शुभा पाली कराणां सप्त चाधमा ।
विस्तारः कथितः शास्त्रे पालीबन्धस्य पण्डितैः ॥ [हेम् १००८]

२०.१०५ प्राकारकूटनलिकापुटकापृष्ठसंचयम् ।
पृष्ठम् अग्रे भवेद् बन्धम् अर्धचन्द्रं सकम्बलम् ॥ [हेम् १००८]

२०.१०६ भ्रूजिह्वा ललने शक्र सास्थानं तोयसंगमम् ।
पाषाणघटितं बद्धम् अघटं चेष्टकाष्ठजम् ॥ [हेम् १००८]

२०.१०७ शिलास्तम्भनिबद्धं तु पृथुविस्तीर्णसंचितम् ।
वज्रसंस्थानसंयोगं समं वा दन्तकं परम् ॥ [हेम् १००८]

२०.१०८ यथा कालसहं विद्वान् कुक्षिघातं तु कारयेत् ।
न मध्यहृदये खातं कम्बले वापि दापयेत् ॥ [हेम् १००८]

२०.१०९ महादोषकरं तत् तु द्वारीकर्तुर् भयप्रदम् ।
प्रयत्नः कुट्टने कार्यो मृत्तिकाकूर्चनादिकम् ॥ [हेम् १००८]

२०.११० नलिकासु प्रदातव्यं लोहं मुसलघट्टितम् ।
समाप्तिपर्ययं यावद् उपलान् पातयेन् नृप ॥ [हेम् १००८]

२०.१११ अन्यथा न भवेद् गाढा स्रावदोषकरी भवेत् ।
पालीं तस्यां दृढां कुर्याद् अग्रपृष्ठान्तघट्टिताम् ॥ [हेम् १००९]

२०.११२ कूर्मं वृषभमत्स्यादि हेमं चादौ विनिक्षिपेत् ।
प्रारम्भादौ महापूजां श्येनकादिषु कारयेत् ॥ [हेम् १००९]

२०.११३ वारुणं नागदेवं तु यागमन्त्रजपं सदा ।
आनिष्पत्ति तु कर्तव्यम् अन्यथा भयदं भवेत् ।

कर्तू राष्ट्रे जले शक्र द्वारी च न दृढा भवेत् ॥ [हेम् १००९]

२०.११४ दृढार्थं प्रतिरूपाणि नन्दालिङ्गं विनायकम् ।
शक्तिपूर्वाणि कुर्वीत महालक्ष्मीर् यथा पुरे ।

शुभदा भवने लोके नन्दा तोयं शिवं तथा ॥ [हेम् १००९]

२०.११५ आरामं तोरणं वापी कूपं वा समहोरगम् ।
द्वारीबन्धेषु कर्तव्यम् उत्सर्गे गोप्रदानिकम् ॥ [हेम् १००९]

२०.११६ गोसहस्रं शुभं देयं मही हेम च दक्षिणा ।
श्येनकं नागयज्ञं च द्वारीबन्धे सदा शुभम् ॥ [हेम् १००९]

२०.११७ चतुस्तोरणसंयुक्तं पताकादिविभूषितम् ।
उत्सर्गं विहितं द्वार्याम् अन्यथा शतशोदकम् ॥ [हेम् १००९]

२०.११८ शकटेन बलिर् देयः पशुघातपुरःसरम् ।
स्फुरन्तं नागहृदयं मन्त्रं तत्र प्रयोजयेत् ।

संपूर्णं जायते सर्वं न्यूनाधिककृतं च यत् ॥ [हेम् १००९]

२०.११९ फलं च हयमेधस्य यत् कृतस्य भवेद् इह ।
समग्रं तद् भवेत् तस्य द्वारीबन्धे कृते सति ॥ [हेम् १००९]

२०.१२० इह कीर्तिः शुभं सर्वं विशत्रुश् च भवेन् नृप ।
द्वारीबन्धप्रकर्तारो नन्दन्ति प्रजया सह ॥ [हेम् १००९]

२०.१२१ तडागं नलकोपेतं परीवाहसमन्वितम् ।
देवतारामसंयुक्तं सर्वकामप्रदायकम् ॥ [हेम् १०१०]

२०.१२२ द्वारीबन्धे सुविस्तीर्णे परिवाहः सदा शुभः ।
अन्यथा न भवेच् छक्र दृढत्वं पालिबन्धने ॥ [हेम् १०१०]

२०.१२३ मध्ये पाल्याः सुविन्यासं जलमार्गं जलावहम् ।
शैलं पक्वेष्टकं वापि कार्यं क्रीडाय भूभृताम् ।

शालीक्षुरोपणे कुर्यान् नलकं शोभनं तथा ॥ [हेम् १०१०]

२०.१२४ सोपानपालिका कार्या विस्तीर्णा स्नानभोजने ।
शोभाधिक्येन संयुक्ता ऊर्ध्वे कार्या यथाविधि ॥ [हेम् १०१०]

२०.१२५ बन्धपृष्ठे दृढो बन्धः कार्यः कालसहस् तथा ।
एवं पुण्यम् अवाप्नोति स्थैर्ये कालवशात् कृते ॥ [हेम् १०१०]

२०.१२६ वाजिमेधः क्रतुर् यद्वत् सोपायः पुण्यदो भवेत् ।
द्वारीबन्धस् तथा तात पुण्यदो जायते नृणाम् ।

पुण्यात् संसिध्यते तच् च नन्दादीनां निवेशनात् ॥ [हेम् १०१०]

२०.१२७ जयन्तादितडागानि अष्टौ पापहराणि च ।
तेषु द्वारी भवेच् छ्रेष्ठा देवारामसमन्विता ।

कूपवापीजलोपेता पुत्रायुःकीर्तिदा सदा ॥ [हेम् १०१०]

२०.१२८ सा परिग्रहसंस्थानं भूपतेर् नामकल्पिता ।
पुरपत्तनदेवानां सिद्ध्यर्थं जायते शुभा ॥ [हेम् १०१०]

२०.१२९ सरित्सिद्धालयैः शैलैर् या न क्रान्ता वसुंधरा ।
सौभाग्यं द्वारिबन्धस्य जलवेष्टाष्टकल्पना ॥ [हेम् १०१०]

२०.१३० पितृदेवमनुष्याणां तज् जलं त्व् अभिनन्दितम् ।
पावनं जायते शक्र अन्यथा निष्फलं मतम् ॥ [हेम् १०१०]

२०.१३१ अनुत्सर्गितद्वारीषु अपेयं सलिलं भवेत् ।
तस्माच् चोत्सर्गितं पेयं वर्षासूत्सर्जनं शुभम् ॥ [हेम् १०१०]

२०.१३२ तडागाश् चोत्तरे संस्था ऐशान्यां पूर्वगापि वा ।
दक्षिणे चैव लिङ्गं तु शिवा स्याच् छुभदा सदा ॥ [हेम् १०११]

२०.१३३ पश्चिमे सुभगारामं वायव्योत्तरतस् तथा ।
न कुर्युर् याम्यनैरृत्याम् आग्नेय्यां च शुभार्थिनः ॥ [हेम् १०११]

२०.१३४ प्रदक्षिणेन पूर्वस्यां रोपितव्यं सदा शुभम् ।
अन्यथा कलहोद्वेगं मृत्युं वा लभते कृती ॥ [हेम् १०११]

२०.१३५ तस्माद् राज्यायुःशुभदं पुत्रसंततिवर्धनम् ।
पश्चिमोत्तरपूर्वेण आरामं जायते कृतम् ॥ [हेम् १०११]

२०.१३६ द्वारीबन्धं शिवोपेतं शक्तिभिर् नायकैर् युतम् ।
नन्दा कूपजलारामभूषितं सर्वकामदम् ॥ [हेम् १०११]

२०.१३७ एवंविधं पुरोपेतं ब्रह्मपुर्या समन्वितम् ।
कुर्याद् यः सुरशार्दूल स लभेद् ईप्सितं फलम् ।

इह कीर्तिं शुभान् पुत्रान् अन्यत्र परमां गतिम् ॥ [हेम् १०११]

२०.१३८ द्वारीबन्धात् फलं ब्रह्मन् हयमेधसमं भवेत् ।
समस्तपातकोच्छित्तिः कृते भवति देववत् ॥ [हेम् १०११]

२०.१३९ तस्मान् नृपेण कर्तव्यं विधिना द्वारिगं जलम् ।
समस्तशास्त्रदृष्टेन कर्मणा सफलं भवेत् ॥ [हेम् १०११]

२०.१४० श्येनकादेस् तथा पूजा नागाङ्कहृदयं जपेत् ।
द्वारीबन्धप्रसिद्ध्यर्थम् अन्यथा न लभेत् कृतम् ॥ [हेम् १०११]

२०.१४१ यतः पुण्यैस् तु सिध्येत द्वारीबन्धः सुरोत्तम ।
अतः पुण्यविधिः कार्यो जपहोमव्रतादिकः ॥ [हेम् १०११]

२०.१४२ दशोरगौकसं कार्यं शिवस्यावेशनं शुभम् ।
नागानां द्वारिसिद्ध्यर्थं नन्दाकूपं कृतं भवेत् ॥ [हेम् १०१२]

२०.१४३ महापुण्या भवेद् द्वारी किंतु संदेहसाधना ।
कृता विशीर्यते कालात् तस्मात् कार्या दृढा सदा ॥ [हेम् १०१२]

२०.१४४ द्वेषं पश्चिमयाम्यस्थं तत् कर्तुर् मृत्युदं भवेत् ।
जयं पश्चिमपूर्वेण रतिपुत्रधनप्रदम् ॥ [हेम् १०१२]

२०.१४५ याम्यसौम्यगतं दण्डं पत्नीधनविनाशनम् ।
यक्षवारुणगं भद्रं राज्यायुःपुत्रदं धनम् ॥ [हेम् १०१२]

२०.१४६ पूर्वोत्तरगतं देवं सुखदं धनदं वरम् ।
पश्चिमे संगतं नन्दं नन्दनं कोशवर्धनम् ॥ [हेम् १०१२]

२०.१४७ जलवायुगतं हैमं हेमदं च भवेद् धनम् ।
रक्षोवायुगतं काकम् उच्चाटं कुरुते धनम् ॥ [हेम् १०१२]

२०.१४८ अग्निवायुगतं दाहं दहनं कीर्तिवर्धनम् ।
ईशदाहगतं पापं धनं तापकरं तथा ।

वायुदाहगतं तेजो रत्नहेमगजापहम् ॥ [हेम् १०१२]

२०.१४९ एवं लक्षणम् आश्रित्य कर्तव्यारामवाटिका ।
शुभावहा सदा कर्तू राज्यायुःसुखकीर्तिदा ॥ [हेम् १०१२]

२०.१५० वैपरीत्ये सदा लोके बलं कर्तुर् भयापहम् ।
नृपे राष्ट्रे जने दोषान् निहन्याद् विधिना शुभम् ॥ [हेम् १०१२]

२०.१५१ सरुद्रां कारयेद् द्वारीं गणनागसमन्विताम् ।
जयं च विजयं कार्यं सुष्ठु कुर्यात् कुलाष्टकम् ॥ [हेम् १०१२]

२०.१५२ नागाख्यं हृदयं जप्त्वा प्रस्फुरत् स्थापने शुभम् ।
श्येनाः शिवादिदेव्यश् च तर्पितव्याः पयःस्रजैः ।

वस्त्रैर् नानाविधैर् गन्धैः फलधूपगुडादिभिः ॥ [हेम् १०१२–१३]

२०.१५३ कार्यो महोत्सवो द्वार्यां पालीबन्धदृढार्थिभिः ।
दानं देयं सदा शक्र नृपराष्ट्रसुखावहम् ॥ [हेम् १०१३]

२०.१५४ गोदानं भूमिदानं च कन्यादानं सुरोत्तम ।
द्वारीबन्धे प्रदातव्यम् एकं कोटिगुणं भवेत् ॥ [हेम् १०१३]

२०.१५५ गजाश्वरथदानं च अन्नदानं प्रयत्नतः ।
द्वारीबन्धे प्रदातव्यं सर्वं कोटिगुणं भवेत् ॥ [हेम् १०१३]

२०.१५६ गोमेधे नरमेधे च हयमेधे तथा मखे ।
पुण्यं यज् जायते शक्र द्वारीबन्धे ततो ऽधिकम् ॥ [हेम् १०१३]

२०.१५७ वापीकूपतडागानि देवतायतनानि च ।
एतानि पूर्तधर्मेषु शुभानि फलदानि च ॥ [हेम् १०१३]

२०.१५८ दीनान्धमूकभीरूणां दानं देयं यथाविधि ।
एकं कोटिगुणं पुण्यं जायते नात्र संशयः ॥ [हेम् १०१३]

२०.१५९ एतत् ते कथितं शक्र द्वारीबन्धस्य यत् फलम् ।
प्रादुर्भावं तु देवीनां क्षेपान् माहात्म्यकीर्तनात् ॥ [हेम् १०१३]

२०.१६० शिवदूत्यास् तथा सम्यक् प्रादुर्भावं च मङ्गलम् ।
यः शृणोति नरः सम्यक् सर्वपुण्यफलं लभेत् ॥ [हेम् १०१३]

२०.१६१ कूपारामतडागादि प्रपाद्य् अग्निप्रतिश्रयम् ।
सर्वेशाधिष्ठितं वत्स अनन्तफलदायकम् ॥ [हेम् १०१३]

२०.१६२ यः कुर्याद् द्वारिबन्धानां तडागानां शतं तथा ।
सर्वेश्वरजलं कृत्वा लभेत् पुण्यं ततो ऽधिकम् ॥ [हेम् १०१३]

२०.१६३ शिवः सूर्यहरिब्रह्मसंयुक्तः सर्वकामदः ।
आद्या मूर्तिः परा ह्य् एषा व्यापिनी मन्त्रतन्त्रगा ॥ [हेम् १०१३]

२०.१६४ सर्वेशं सर्वदैवत्यं ब्रह्माद्यैः परिवारितम् ।
स्थापितं जायते शक्र सर्वाघभयनाशनम् ॥ [हेम् १०१४]

तथा

२०.१६५ विजलं नैव कर्तव्यं मठारामविवर्जितम् ।
सर्वेशं विघ्नदं कर्तुं नृपलोकभयावहम् ॥ [हेम् ६६८]

२०.१६६ तस्माच् चादौ जलं कार्यम् आरामं वाटिका तथा ।
मठं देवालयं पश्चाद् याम्यरक्षोगतं शुभम् ।

कूपारामं यथाशस्तं कर्तुर् लोके प्रजायते ॥ [हेम् १००३]

२०.१६७ तथा कुर्यात् सुरश्रेष्ठ यथा शोभा दृढा भवेत् ।
पूर्वाम् आश्रित्य कर्तव्यं तस्योत्तरपदे ऽपि वा ॥ [हेम् १००३]

तथा

२०.१६८ न पूर्वाद् व्यत्ययं कुर्यान् मठं देवालयं गृहात् ।
कृतं भयप्रदं लोके यथा रक्षोग्निगं जलम् ।

वायव्यं चापि देवस्य भयदं भवते कृतम् ॥ [हेम् १००३]

२०.१६९ कूपं पञ्चकराद् ऊर्ध्वं यावद् वर्गं तदुद्भवम् ।
वापी दण्डद्वयाद् ऊर्ध्वं दशवर्गा नृपोत्तमैः ।

कर्तव्या सर्वतोत्तारा द्वित्रिश् चैकपथाथ वा ॥ [हेम् १००४]

२०.१७० विन्यासं भद्रकं चान्यैर् वृत्ता वा चायता तथा ।
त्र्यश्रा वा चार्धचन्द्रा वा धनुषा वा ध्रुवाकृती ॥ [हेम् १००४]

२०.१७१ कर्तव्या द्रव्यकारा तु गोपथा सर्वकामदा ।
वेदाष्टमध्यगोत्सारा करसार्धा यथा भवेत् ॥ [हेम् १००४]

२०.१७२ कूपो वा शैलयष्टी वा देया नेमी यथा दृढा ।
भवने काष्ठपाषाण ऊर्ध्वपीठसमुच्छ्रया ॥ [हेम् १००४]

२०.१७३ सुबद्धा तोरणोपेता गणनाथगृहान्विता ।
नागयक्षगृहैर् देव्या भूषिता क्रीडनाकुला ।

वापी भद्रा सुरश्रेष्ठ सर्वकामप्रदा नृणाम् ॥ [हेम् १००४]

२०.१७४ भद्रा पद्मा श्रिता कान्ता विजया मङ्गला तथा ।
प्रपायोक्त्री भवेद् वापी नृपादीनां शुभावहा ॥ [हेम् १००४]

२०.१७५ वृत्तायताश् चतुरस्रा वाप्यः साधारणा मताः ।
शेषा काम्याधिकारेण कूपो वृत्तः सुखावहः ॥ [हेम् १००४]

२०.१७६ प्रतिपादकरैर् देया उत्साराश् चाङ्गुलैः शुभाः ।
न देवाद् अधिकं कूपं कुर्याच् छक्र कदाचन ॥

तथा

२०.१७७ सप्त गङ्गा हि वरदं शूलोद्यतकरं वरं ।
याम्ये कल्पतरुर् ब्रह्मा वामतस् तु जनार्दनः ॥

२०.१७८ सूर्यश् चाग्रे स्फुरत्तेजाः पादान्तस्थित ऊर्ध्वगः ।
स्वरूपाकृतिभागस्थां कृत्वा जपति वै हरिम् ॥

२०.१७९ तदा पापेन संत्यक्तो दिवं भोक्ष्यति चामृतम् ।
तच् च रूपं सुरेन्द्राद्या नागा यक्षा ग्रहोरगाः ।

पूजयन्तो भविष्यन्ति विगताघगदा नराः ॥

२०.१८० प्रासादमण्डपगृहे मठे चित्रशिलातले ।
मण्डपे पट्टशालायां सर्वेशं पूजयन्ति ये ॥ [हेम् ६६८]

२०.१८१ सारामं तु जलोपेतं मठं भूमित्रयोच्छ्रितम् ।
शान्तिधामाग्निव्याख्यानविद्याकोशजपादिभिः ।

युक्तं देवाय दातव्यं सर्वकामप्रदायकम् ॥ [हेम् ६६८]

२०.१८२ महापापादिरोगादिशमनं भूमलापहम् ।
राज्यायुःशुभसौभाग्यवर्धनं कीर्तिवर्धनम् ॥ [हेम् ६६८]

तथा

२०.१८३ विजलं नैव कुर्वीत मठारामविवर्जितम् ।
सर्वेशं विघ्नदं कर्तुर् नृपलोकभयप्रदम् ॥ [हेम् ६६८]

तथा

२०.१८४ देवायतनकोटिं यः कुर्याद् धेमाण्डभूषणम् ।
एकं सर्वेश्वरं धाम कृतं तस्याधिकं फलम् ॥ [हेम् ६६८]

२०.१८५ गङ्गोदकेन यत् पुण्यं स्नापनात् परिकीर्तितम् ।
तत् पुण्यं तैर् जलैः स्नाप्य तम् ऐशानीं गतिं लभेत् ॥ [हेम् ६६८]