१९ प्रकीर्णदानानि

अथ प्रकीर्णदानानि

तत्र मनुः

१९.१ वारिदस् तृप्तिम् आप्नोति सुखम् अक्षयम् अन्नदः ।
तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥ [म्ध् ४.२२९, हेम् १५२]

१९.२ भूमिदः सर्वम् आप्नोति दीर्घम् आयुर् हिरण्यदः ।
गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम् ॥ [म्ध् ४.२३०, हेम् १५२]

१९.३ वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः ।
अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य पिष्टपम् ॥ [म्ध् ४.२३१, हेम् १५२]

१९.४ यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ [म्ध् ४.२३२, हेम् १५२]

ब्रह्मसार्ष्टितां ब्रह्मसमानगतित्वम् ।

याज्ञवल्क्यः

१९.५ भूदीपाश्वान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकं स्वर्णधुर्यान् दत्त्वा स्वर्गे महीयते ॥ [य्ध् १.२१०, हेम् १५२]

१९.६ गृहधान्याभयोपानच्छत्त्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥ [य्ध् १.२११, हेम् १५२]

प्रतिश्रयः प्रवासिनाम् आश्रयः । नैवेशिकं विवाहप्रयोजनकं द्रव्यम् ।

बृहस्पतिः

१९.७ रसान्नोपस्करयुतं गृहं विप्राय यो ऽर्पयेत् ।
तस्य न क्षीयते वंशः स्वर्गं प्राप्नोत्य् अनुत्तमम् ॥ [हेम् ६४६]

महाभारते

१९.८ बीजैर् उपेतं शयनैर् उपेतं दद्याद् गृहं यः पुरुषो द्विजाय ।
सुखाभिरामं बहुरत्नपूर्णं लभेद् अधिष्ठानवरं स राजन् ॥ [म्भ् १३.५७.३९, हेम् ६४७]

तथा

१९.९ तिला नित्यं प्रदातव्या यथाशक्ति द्विजर्षभ ।
नित्यदानात् सर्वकामांस् तिला निर्वर्तयन्त्य् उत ॥ [म्भ् १३.६७.१६, हेम् ५९८]

यमः

१९.१० दत्त्वा प्रतिश्रयं लोके तथा दत्त्वैव चाभयम् ।
तथा दत्त्वा क्षितिं विप्रे ब्रह्मलोके महीयते ॥ [हेम् १५२]

१९.११ छत्त्रदो गृहम् आप्नोति गृहदो नगरं तथा ।
उपानहप्रदानेन रथम् आप्नोत्य् अनुत्तमम् ॥ [हेम् १५२, ९२७]

१९.१२ इन्धनानां प्रदानेन दीप्ताग्निर् भुवि जायते ।
गवां घासप्रदानेन सर्वपापैः प्रमुच्यते ॥ [हेम् १५२, ९३९]

१९.१३ रुक्मदः सर्वम् आप्नोति रूप्यदो रूपम् उत्तमम् ।
वासोदश् चन्द्रसालोक्यं सूर्यसालोक्यम् अश्वदः ॥ [हेम् १५३]

१९.१४ राजोपकरणं दत्त्वा रत्नानि विविधानि च ।
नगरं च तथा दत्त्वा राजा भवति भूतले ॥ [हेम् १५३]

तथा

१९.१५ यस् तु संभृत्य संभारं ब्राह्मणेभ्यः प्रयच्छति ।
तस्य पुण्यकृता लोका न तस्य प्रभवाम्य् अहम् ॥ [हेम् १५३]

संभृत्य संभारं यज्ञविवाहाद्युपकरणानि द्रव्याणि मेलयित्वा ।

तथा

१९.१६ गोरसानां प्रदानेन तृप्तिम् आप्नोत्य् अनुत्तमाम् ।
घृतप्रदानेन तथा दीर्घं विन्दति जीवितम् ॥ [हेम् ९८२]

संवर्त्तः

१९.१७ नानाविधानि द्रव्याणि धनानि विविधानि च ।
आयुःकामेन देयानि स्वर्गम् अक्षयम् इच्छता ॥

द्रव्याणि भक्ष्यभोज्यानि । धनानि हिरण्यादीनि ।

१९.१८ वस्त्रदाता सुवेषः स्याद् रूप्यदो रूपम् उत्तमम् ।
हिरण्यदो महावृद्धिं दीर्घम् आयुश् च विन्दति ॥

१९.१९ फलमूलानि पानानि शाकानि विविधानि च ।
यानानि दत्त्वा विप्रेभ्यो मुदा युक्तः सदा भवेत् ॥ [हेम् १५३]

१९.२० औषधं स्नेहम् आहारं रोगिणे रोगशान्तये ।
ददानो रोगरहितः सुखी दीर्घायुर् एव च ॥ [हेम् ८९२]

१९.२१ इन्धनानि च यो दद्याद् विप्रेभ्यः शिशिरागमे ।
स सुखी दीप्तकायाग्निः सुभगश् चैव जायते ॥ [हेम् ९३९]

१९.२२ गृहदाता सुखी प्राज्ञो वितृष्णः सर्ववस्तुषु ।
अन्नदस् तु भवेच् छ्रीमान् सुतृप्तः कीर्तिमान् अपि ॥ [हेम् ६४६, १५३]

१९.२३ तैलम् आमलकं यच्छन् पादाभ्यङ्गं तथैव च ।
नरः सुतृप्तस् तेजस्वी सुखवांश् चैव जायते ॥ [हेम् १५३]

तथा

१९.२४ ताम्बूलं चैव यो दद्याद् ब्राह्मणेभ्यो विचक्षणः ।
मेधावी सुभगः प्राज्ञो दर्शनीयश् च जायते ॥

१९.२५ गुडम् इक्षुरसं चैव लवणं व्यञ्जनानि च ।
सुरभीणि च पानानि दत्त्वात्यन्तं सुखी भवेत् ॥

वायुपुराणे

१९.२६ चन्दनानां प्रदातारः शङ्खानां मौक्तिकस्य च ।
पापकर्तॄन् अपि पितॄंस् तारयन्ति यथाश्रुति ॥ [वाय्प् ७७.२७, हेम् १५४]

बृहस्पतिः

१९.२७ असिपत्त्रवनं मार्गं क्षुरधारासमन्वितम् ।
तीक्ष्णातपं च तरति छत्त्रोपानत्प्रदो नरः ॥ [हेम् ९२४]

हारीतः

१९.२८ अपो ददत् तृषम् अभिजयत्य् आत्मानं च निष्क्रीणाति ।
१९.२९ अन्नप्रदानाद् असून् निष्क्रीणात्य् अन्नवान् अन्नदो ऽन्नपतिश् च भवति ।
१९.३० वस्त्रप्रदानाद् वचो निष्क्रीणाति सुरूपो ऽनग्नो वस्त्रभाग् भवति ।
१९.३१ हिरण्यप्रदानात् तेजो निष्क्रीणाति सुतेजाः श्रीमान् हिरण्यभाग् भवति ।
१९.३२ गोप्रदानाद् वाचो निष्क्रीणाति सुवाग् विपाप्मा गोभाग् भवति ।
१९.३३ अनडुत्प्रदानाच् छ्रियं निष्क्रीणात्य् अरोगो बलवान् अनडुद्भाग् भवति ।
१९.३४ रथ-प्रदानाच् छरीरं निष्क्रीणाति भृत्यविविधविमानभाग् भवति ।
१९.३५ शय्याप्रदानात् सुखं निष्क्रीणाति यानशयनासनविविधसुखस्त्रीभाग् भवति ।
१९.३६ अपरिमित-प्रदानाद् अपरिमितपोषं पुष्णात्य् अपरिमितान् कामान् अवाप्नोति ।
१९.३७ तद् द्विविधं भवति अविज्ञानदानं विज्ञानदानं च ।
१९.३८ यद् अविद्वान् अविदुषे ददाति तद् अविज्ञानदानम् ।
१९.३९ अथ यद् विद्वान् विदुषे सब्रह्मचारिणे वैश्वानरम् आददानं चेद् ददाति प्रतिगृह्णाति वा तद् विज्ञानदानम् ।
१९.४० तद् अप्य् एतद् यजुषोक्तं क इदं कस्मा अदाद् इति । [हेम् १५०–५१]
आत्मानं निष्क्रीणाति आत्मानम् एव ददातीत्य् अर्थः । अनेन प्रकारेण जलादिदानम् एव स्तूयते ।

विष्णुः

१९.४१ तैजसानां पात्राणां प्रदानेन पात्रीभवति कामानाम् ।
१९.४२ मधुघृततैलदानेना-रोग्यम् ।
१९.४३ औषधप्रदानेन च ।
१९.४४ लवणप्रदानेन लावण्यम् ।
१९.४५ धान्यप्रदानेन तृप्तिम् ।
१९.४६ सस्यप्रदानेन च । [विध् ९२.१५–२०, हेम् १५१]
तथा

१९.४७ इन्धनप्रदानेन दीप्ताग्निर् भवति ।
१९.४८ संग्रामे च शश्वज्जयम् आप्नोति ।
१९.४९ आसन-दानेन स्थानम् ।
१९.५० शय्यादानेन भार्याम् ।
१९.५१ उपानत्प्रदानेनाश्वतरीयुतं रथम् ।
१९.५२ छत्त्रप्रदानेन स्वर्गम् ।
१९.५३ तालवृन्तचामरप्रदानेनादुःखित्वम् ।
१९.५४ पुष्प-प्रदानेन श्रीमान् भवति ।
१९.५५ अनुलेपनप्रदानेन कीर्तिमान् भवति ।
१९.५६ धूप-प्रदानेनोर्ध्वगतिर् भवति । [विध् ९२.२४–३०, ९१.१३–१४, हेम् १५१]
यमः

१९.५७ देवतापुष्पदानेन जायते श्रीसमन्वितः ।
ऊर्ध्वां गतिम् अवाप्नोति यश् च धूपप्रदो नरः ॥ [हेम् ९२३]

१९.५८ लोके प्रकाशो भवति चक्षुष्मान् अपि दीपदः ।
गन्धौषधिम् अथाभ्यङ्गं माक्षिकं लवणं तथा ।

यः प्रयच्छति विप्राय सौभाग्यं स तु विन्दति ॥ [हेम् ९४१, १५४]

महाभारते

१९.५९ पुष्पोपगं वाथ फलोपगं वा यः पादपं स्पर्शयते द्विजाय ।
स स्त्रीसमृद्धं बहुरत्नपूर्णं लभत्य् अयत्नोपगतं गृहं वै ॥ [म्भ् १३.५७.३६, हेम् १०३४]

१९.६० प्रपाश् च कार्याः पानार्थं नित्यं तु द्विजसत्तम ।
भुक्ते ऽप्य् अथ प्रदेयं तु पानीयं वै विशेषतः ॥ [म्भ् १३.६७.२१, हेम् ९९८]

१९.६१ निदाघकाले पानीयं यस्य तिष्ठत्य् अवारितम् ।
स दुर्गविषमं कृच्छ्रं न कदाचिद् अवाप्नुते ॥ [म्भ् १३.६४.६, हेम् ९९८]

स्कन्दपुराणे

१९.६२ सुगन्धाः शीतलाश् चापो रसैर् दिव्यैः समन्विताः ।
यः प्रयच्छति विप्रेभ्यस् तस्य दानफलं शृणु ॥ [हेम् ९८९]

१९.६३ विमानं सूर्यसंकाशम् अप्सरोगणसेवितम् ।
सो ऽधिरुह्य दिवं याति वरुणस्य सलोकताम् ॥ [हेम् ९८९]

१९.६४ भाजनं यः प्रयच्छेत् तु हैमं रत्नविभूषितम् ।
सो ऽप्सरःशतसंकीर्णे विमाने दिवि मोदते ॥ [हेम् ९२७–२८]

१९.६५ राजतं यः प्रयच्छेत् तु विप्रेभ्यो भाजनं शुभम् ।
स गन्धर्वपदं प्राप्य उर्वश्या सह मोदते ॥ [हेम् ९२८]

१९.६६ ताम्रं यो भाजनं दद्याद् ब्राह्मणेभ्यो विशेषतः ।
स भवेद् यक्षराजस्य यक्षो बलसमन्वितः ॥ [हेम् ९२८]

१९.६७ आसनं यः प्रयच्छेत् तु संवीतं ब्राह्मणाय वै ।
स राज्यस्थानम् आप्नोति स्वर्गं प्राप्नोति विज्वरः ॥ [हेम् ९१६]

संवीतं वस्त्रादिवेष्टितम् ।

१९.६८ अश्वं यस् तु प्रयच्छेत् तु हेमचित्रं सुलक्षणम् ।
स तेन कर्मणा देवि गान्धर्वं लोकम् अश्नुते ॥ [हेम् ५८९]

हेमचित्रं सुवर्णतिलकोपेतम् ।

१९.६९ रथम् अश्वं गजं दासीं कन्यां गृहम् अथापि वा ।
भूमिं च यः प्रयच्छेत् तु स राजा भुवि जायते ॥

कालिकापुराणे

१९.७० शिवादिदेवतागारे यतीनाम् आश्रमेषु च ।
अग्निहोत्रक्षये चैव तथैव च प्रतिश्रये ॥ [हेम् ९४०]

१९.७१ सर्वत्र शङ्करः साक्षाद् वसतीति विचिन्त्य च ।
सततं दीपकान् दद्याच् छ्रोत्रियाणां गृहेषु च ॥ [हेम् ९४०–४१]

१९.७२ अभ्यङ्गम् इन्धनं नीरं शयनासनम् एव च ।
दद्याद् गवाह्निकं चैव तम् उद्दिश्य दिने दिने ॥ [हेम् १५६]

१९.७३ कायिनाम् अन्नदानं तु तम् उद्दिश्य निवेदयेत् ।
अथ वा किं प्रलापेन यत् किंचित् सुकृतं भुवि ।

कुर्वंस् तत्पदम् आप्नोति शिवम् उद्दिश्य लीलया ॥ [हेम् १५६]

क्षये गृहे । तं शङ्करम् । कायिनां शरीरिणाम् ।

देवीपुराणे

विद्याधर उवाच

१९.७४ कानि दानानि देव्या वै देयानि मुनिसत्तम ।
कानि पात्राणि देशश् च कालो द्रव्यं विधिश् च कः ।

तान्य् अहं श्रोतुम् इच्छामि कथयस्व प्रसादतः ॥ [द्प् १०२.२–३]

मुनिर् उवाच

१९.७५ न्यायतो यानि प्राप्तानि शाकान्य् अपि नृपोत्तम ।
तानि देयानि देव्यास् तु कन्यकायोषितां सदा ॥ [द्प् १०२.३–४, हेम् ४१]

१९.७६ तद्भुक्तेषु च विप्रेषु अपरेषु च नित्यशः ।
विप्रेषु प्रावृषे वत्स देवी कामान् प्रयच्छति ॥ [द्प् १०२.४–५, हेम् ४१]

१९.७७ देशो नन्दा गयाशैलं गङ्गा नर्मदपुष्करम् ।
वाराणसी कुरुक्षेत्रं प्रयागं जम्बुकेश्वरम् ॥ [द्प् १०२.५–६]

१९.७८ केदारं भीमनादं च दण्डकं पुष्कराह्वयम् ।
सोमेश्वरं महापुण्यं तथा चामरकण्टकम् ॥ [द्प् १०२.६–७]

१९.७९ कालिञ्जरं तथा विन्ध्यं यत्र वासो गुहस्य च ।
द्रव्यं भूहेमगोधान्यं तिलवस्त्रघृतादिकम् ॥ [द्प् १०२.७–८, हेम् १५६]

१९.८० विधिना चोपवासेन एकान्नान् नक्तभोजनात् ।
शुचिना भावपूतेन क्षान्त्या सत्यव्रतादिना ।

अपि सर्षपमात्रस्य दातारं तारयेन् नृप ॥ [द्प् १०२.८–९, हेम् १५६]

१९.८१ यः पुनर् विधिना वत्स देवीम् उद्दिश्य प्रावृषि ।
विप्रेषु विप्रकन्यासु तिलाज्यं संप्रयच्छति ।

तस्यापि तुष्यते देवी अचिरेण नराधिप ॥ [द्प् १०२.१०–११, हेम् ८८९]

आदित्यपुराणे

१९.८२ सुगन्धिचित्राभरणोपशोभितं यस् त्व् आसनं वेदविदे प्रदद्यात् ।
ग्रामाधिपत्यं लभते स शीघ्रं कुले महत्त्वं लभते समग्रम् ॥ [हेम् ८८९]

१९.८३ वस्त्रवह्निप्रदानेन ब्रह्मलोकं प्रपद्यते ।
धर्मशास्त्रप्रदातारः सत्त्रदानरताश् च ये ।

तीर्थे तडागकूपादिनौकासेतुप्रदाश् च ये ॥ [हेम् १५५]

१९.८४ स्कन्धेन तारयेद् यस् तु तृषार्तानां जलप्रदः ।
पक्वान् ददाति केदारान् सफलांश् चैव पादपान् ॥ [हेम् १५५]

१९.८५ षष्टिं कोटिसहस्राणि अर्बुदानां च वै त्रयम् ।
क्रीडन्ति ते स्वर्गपुरे एतद् उक्तं द्विजोत्तम ॥ [हेम् १५५]

१९.८६ यष्टिं ये तु प्रयच्छन्ति नेत्रहीने तु दुर्बले ।
तेषां तु विपुलः पन्थाः फलमूलोपशोभितः ॥

१९.८७ निदाघकाले वर्षासु यश् छत्त्रं संप्रयच्छति ।
नास्य कश्चिन् मनोदाहः कदाचिद् अपि जायते ॥ [हेम् ९२४]

१९.८८ यो ददाति घटीपात्रं कुण्डिकां करकं तथा ।
तृषार्तस्य तथा धर्मे लभते शीतलं जलम् ॥ [हेम् ९९२]

१९.८९ योगिनां च दरिद्राणां ये तु वस्त्रप्रदा नराः ।
तेषां दिव्यानि वस्त्राणि सुगन्धीनि मृदूनि च ।

वाताश् चैव प्रवहन्ति सुगन्धा ह्य् अमृतोपमाः ॥ [हेम् ९०४]

१९.९० अश्वं वा यदि वा युग्यं शोभने वाथ पादुके ।
ददाति यः प्रदानं वै ब्राह्मणेभ्यः सुसंयतः ॥ [हेम् १५५]

१९.९१ तेषां दिव्यानि यानानि रथा ध्वजपताकिनः ।
दुष्टः पन्था न चैवेह भविष्यति कथंचन ॥ [हेम् १५५]

१९.९२ क्षौमजं वाथ कार्पासं पट्टसूत्रम् अथापि वा ।
दद्याद् यज्ञोपवीतं यस् तं न हिंसन्ति वायसाः ॥ [हेम् ९५८]

१९.९३ अन्नपानाश्वगोवस्त्रशय्याछत्त्रासनानि च ।
प्रेतलोके प्रशस्तानि दानान्य् अष्टौ विशेषतः ॥ [हेम् १५६]

महाभारते

१९.९४ प्रदानं सर्वदानेभ्यः शकटस्य विशिष्यते ।
एवम् आह महाभागः शाण्डिल्यो भगवान् ऋषिः ॥ [म्भ् १३.६४.१९, हेम् ६४४]

१९.९५ उपानहौ प्रयत्नाद् यो ब्राह्मणेभ्यः प्रयच्छति ।
मर्दते कण्टकान् सर्वान् विषमान् संतरत्य् अपि ॥ [म्भ् १३.६५.२, हेम् ९२४]

१९.९६ शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥ [म्भ् १३.६५.३, हेम् ९२४]
कण्टकान् द्वेषिणः ।

नन्दिपुराणे

१९.९७ अलंकारं तु यो दद्याद् विप्रायाथ सुराय च ।
स गच्छेद् वारुणं लोकं नानाभरणभूषितः ।

जातः पृथिव्यां कालेन भवेद् द्वीपपतिर् नृपः ॥

१९.९८ यज्ञोपवीतदानेन सुरेभ्यो ब्राह्मणाय च ।
भवेद् विप्रश् चतुर्वेदः शुद्धधीर् नात्र संशयः ॥ [हेम् ९५७]

१९.९९ उष्णीषदायी यो मर्त्यो जायते मुकुटोत्कटः ।
विस्तीर्णे राजवंशे तु सितछत्त्रः स लक्ष्मिवान् ॥ [हेम् ९१०]

१९.१०० यो गीतवाद्यं दद्यात् तु ब्राह्मणाय सुबुद्धिमान् ।
स गन्धर्वपुरं गच्छेद् वसेत् तत्र युगत्रयम् ॥ [हेम् ९२३]

तथा

१९.१०१ यो ऽपि कश्चित् तृषार्ताय जलपानं प्रयच्छति ।
स नित्यतृप्तो वसति स्वर्गे युगशतं नरः ॥ [हेम् ९८९]

याज्ञवल्क्यः

१९.१०२ यस्य यस्य भवेद् अर्थी तस्य तस्य प्रदानतः ।
तृणकाष्ठसमे ऽप्य् अर्थे गोप्रदानफलं लभेत् ॥

विष्णुः

१९.१०३ यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे ।
तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता ॥ [विध् ९२.३२, हेम् ४१]

नरसिंहपुराणे

१९.१०४ एकविंशत्य् अमी स्वर्गा निविष्टा मेरुमूर्धनि ।
अहिंसादानकर्तारो यज्ञानां तपसां तथा ।

एतेषु निवसन्ति स्म जनाः क्रोधविवर्जिताः ॥ [न्प् ३०.२८–२९, हेम् १६४]

एकविंशतिस्वर्गा अनन्तरम् एव वक्ष्यमाणा आनन्दप्रभृतयः ।

१९.१०५ जलप्रवेशी चानन्दं प्रमोदं वह्निसाहसे ।
भृगुप्रपाते सौख्यं तु रणे चैवातिनिर्मलम् ॥ [न्प् ३०.३०, हेम् १६४]

१९.१०६ अनशने तु संन्यासे मृतो गच्छेत् त्रिपिष्टपम् ।
क्रतुयाजी नाकपृष्ठम् अग्निहोत्री च निर्वृतिम् ॥ [न्प् ३०.३१, हेम् १६४]

क्रतुयाजी सोमयागकर्ता ।

१९.१०७ तडागकूपकर्ता च लभते पौष्टिकं द्विज ।
सुवर्णदायी सौभाग्यं लभते सुमहातपाः ॥ [न्प् ३०.३२, हेम् १६४]

१९.१०८ शीतकाले महावह्निं प्रज्वालयति यो नरः ।
सर्वसत्त्वहितार्थाय स स्वर्गं चाप्सरं लभेत् ॥ [न्प् ३०.३३, हेम् १६४]

१९.१०९ हिरण्यगोप्रदानेन निरहंकारम् आप्नुयात् ।
भूदानेन तु शुद्धेन लभते शान्तिकं पदम् ॥ [न्प् ३०.३४, हेम् १६४]

१९.११० गोप्रदानेन स्वर्गं तु निर्मलं लभते नरः ।
अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम् ॥ [न्प् ३०.३५, हेम् १६४]

१९.१११ द्विजेभ्यस् तर्पणं कृत्वा दत्त्वा वस्त्राणि भक्तितः ।
श्वेतं तु लभते स्वर्गं यत्र गत्वा न शोचति ॥ [न्प् ३०.३६, हेम् १६४]

१९.११२ कपिलागोप्रदानेन परमार्थे महीयते ।
एकान्नभोजी यो मर्त्यो नक्तभोजी च नित्यशः ।

उपवासी त्रिरात्राद्यैः श्रान्तः स्वर्गे सुखं लभेत् ॥ [न्प् ३०.३७, ४०, हेम् १६४]

एकान्नभोजी एकभक्तव्रतः ।

१९.११३ सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढव्रतः ।
निर्मलं स्वर्गम् आप्नोति तथा भूतहिते रतः ।

विद्यादानेन मेधावी निरहंकारम् आप्नुयात् ॥ [न्प् ३०.४१, हेम् १६५]

१९.११४ येन येन हि भावेन यद् यद् दानं प्रयच्छति ।
तत् तत् स्वर्गम् अवाप्नोति यद् यद् इच्छति मानवः ॥ [न्प् ३०.४२]

१९.११५ यस् तु सर्वाणि दानानि ब्राह्मणेभ्यः प्रयच्छति ।
स प्राप्य न निवर्तेत दिवं शान्तम् अनामयम् ॥ [न्प् ३०.४४, हेम् १६५]

महाभारते

१९.११६ याज्यतः शिष्यतो वापि कन्यया वा धनं सह ।
यद्य् आगच्छेद् यजेद् दद्यान् नैको ऽश्नीयात् कथंचन ॥ [म्भ् १२.२२६.१२]

१९.११७ गृहम् आवसतो ह्य् अस्य नान्यत् तीर्थं परिग्रहे ।
देवर्षिपितृगुर्वन्धवृद्धातुरबुभुक्षितात् ॥ [म्भ् १२.२२६.१३]

नान्यत् तीर्थम् इति वक्ष्यमाणदेवर्षिपितृगुर्वादिभ्यो नान्यत् प्रकृष्टं दानपात्रम् इत्य् अर्थः । परिग्रहे धनार्जने ।

१९.११८ अन्तर्हिताभितृष्णानां यथाशक्ति बुभूषताम् ।
द्रव्याणाम् अतिशक्त्यापि देयम् एषां कृतात्मनाम् ॥ [म्भ् १२.२२६.१४]

१९.११९ अर्हताम् अनुरूपाणां नादेयं ह्य् अस्ति किंचन ।
उच्चैःश्रवसम् अप्य् अश्वं प्रापणीयं सतां विदुः ॥ [म्भ् १२.२२६.१५, हेम् १०]

अन्तर्हिताभितृष्णानाम् अविभाविताभिलाषाणाम् ।

१९.१२० अनुनीय यथाकामं सत्यसंधो महाव्रतः ।
स्वैः प्राणैर् ब्राह्मणप्राणान् परित्राय दिवं गतः ॥ [म्भ् १२.२२६.१६, हेम् १०]

१९.१२१ रन्तिदेवश् च सांकृत्यो वसिष्ठाय महात्मने ।
अपः प्रदाय शीतोष्णा नाकपृष्ठम् इतो गतः ॥ [म्भ् १२.२२६.१७, हेम् १०]

१९.१२२ आत्रेयश् चन्द्रदमयोर् अर्हतोर् विविधं धनम् ।
दत्त्वा लोकान् ययौ धीमान् अनन्तान् स महीपतिः ॥ [म्भ् १२.२२६.१८, हेम् १०]

१९.१२३ शिबिर् औशीनरो ऽङ्गानि पुत्रं च प्रियम् औरसम् ।
ब्राह्मणार्थम् उपाकृत्य नाकपृष्ठम् उपागतः ॥ [म्भ् १२.२२६.१९, हेम् १०]

१९.१२४ प्रतर्दनः काशिपतिः प्रदाय नयने स्वके ।
ब्राह्मणायातुलां कीर्तिम् इह चामुत्र चाश्नुते ॥ [म्भ् १२.२२६.२०, हेम् ११]

१९.१२५ दिव्यं मृष्टशलाकं च सौवर्णं परमर्द्धिमत् ।
छत्त्रं देवामृधो दत्त्वा सराष्ट्रो ऽभ्यपतद् दिवम् ॥ [म्भ् १२.२२६.२१, हेम् ११]

मृष्टशलाकम् उज्ज्वलपञ्जरम् ।

१९.१२६ संकृतिश् च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् ।
उपदिश्य महातेजा गतो लोकान् अनुत्तमान् ॥ [म्भ् १२.२२६.२२, हेम् ११]

१९.१२७ अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् ।
अर्बुदानि दशैकं च सराष्त्रो ऽभ्यपतद् दिवम् ॥ [म्भ् १२.२२६.२३, हेम् ११, ४४९]

१९.१२८ सावित्री कुण्डले दिव्ये शरीरं जनमेजयः ।
ब्राह्मणार्थे परित्यज्य जग्मतुर् लोकम् उत्तमम् ॥ [म्भ् १२.२२६.२४, हेम् ११]

१९.१२९ सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः ।
रम्यम् आवसथं चैव दत्त्वा स्वर्लोकम् आस्थितः ॥ [म्भ् १२.२२६.२५, हेम् ११]

१९.१३० निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् ।
ब्राह्मणेभ्यो ददौ चापि गयश् चोर्वीं सपत्तनाम् ॥ [म्भ् १२.२२६.२६, हेम् ११]

१९.१३१ अवर्षति च पर्जन्ये सर्वभूतानि चासकृत् ।
वसिष्ठो जीवयामास प्रजापतिर् इव प्रजाः ॥ [म्भ् १२.२२६.२७, हेम् ११]

१९.१३२ करंधमस्य पुत्रस् तु मरुत्तो नृपतिस् तथा ।
कन्याम् अङ्गिरसे दत्त्वा दिवम् आशु जगाम ह ॥ [म्भ् १२.२२६.२८]

१९.१३३ ब्रह्मदत्तश् च पाञ्चाल्यो राजा बुद्धिमतां वरः ।
निधिं शङ्खं द्विजाग्रेभ्यो दत्त्वा लोकान् अवाप्तवान् ॥ [म्भ् १२.२२६.२९]

१९.१३४ राजा मित्रसहश् चापि वसिष्ठाय महात्मने ।
मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः ॥ [म्भ् १२.२२६.३०, हेम् ११]

१९.१३५ सहस्रजिच् च राजर्षिः प्राणान् इष्टान् महायशाः ।
ब्राह्मणार्थे परित्यज्य गतो लोकान् अनुत्तमान् ॥ [म्भ् १२.२२६.३१, हेम् ११]

१९.१३६ सर्वकामैश् च संपूर्णं दत्त्वा वेश्म हिरण्मयम् ।
मुद्गलाय गतः स्वर्गं शतद्युम्नो महामतिः ॥ [म्भ् १२.२२६.३२, हेम् ११]

१९.१३७ नाम्ना च द्युतिमान् नाम शाल्वराजः प्रतापवान् ।
दत्त्वा राज्यम् ऋचीकाय गतो लोकान् अनुत्तमान् ॥ [म्भ् १२.२२६.३३, हेम् १२]

१९.१३८ मदिराश्वश् च राजर्षिर् दत्त्वा कन्यां सुमध्यमाम् ।
सुवर्णहस्ताय गतो लोकान् देवैर् अभिष्टुतान् ॥ [म्भ् १२.२२६.३४, हेम् १२]

१९.१३९ लोमपादस् तु राजर्षिः शान्तां दत्त्वा सुतां प्रभुः ।
ऋष्यशृङ्गाय विपुलैः सर्वकामैर् अयुज्यत ॥ [म्भ् १२.२२६.३५, हेम् १२]

१९.१४० दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् ।
सवत्सानां महातेजा गतो लोकान् अनुत्तमान् ॥ [म्भ् १२.२२६.३६, हेम् १२, ४४९]

१९.१४१ एते चान्ये च बहवो दानेन तपसा सह ।
महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः ॥ [म्भ् १२.२२६.३७, हेम् १२]

१९.१४२ तेषां प्रतिष्ठिता कीर्तिर् यावत् स्थास्यति मेदिनी ।
दानयज्ञप्रजासर्गैर् एके हि दिवम् आप्नुवन् ॥ [म्भ् १२.२२६.३८, हेम् १२]

तथा

१९.१४३ वस्त्राभरणदातारो भक्तपानान्नदास् तथा ।
कुटुम्बानां प्रदातारः पुरुषाः स्वर्गगामिनः ॥ [म्भ् १३.२४.८९, हेम् १६३]

१९.१४४ सहस्रपरिवेष्टारस् तथैव च सहस्रदाः ।
त्रातारश् च सहस्राणां ते नराः स्वर्गगामिनः ॥ [म्भ् १३.२४.९४, हेम् १६३]

१९.१४५ सुवर्णस्य च दातारो गवां च भरतर्षभ ।
यानानां च प्रदातारः पुरुषाः स्वर्गगामिनः ॥ [म्भ् १३.२४.९५, हेम् १६३]

१९.१४६ वैवाहिकानां प्रेष्याणां वसूनां च युधिष्ठिर ।
दातारो वाससां चैव पुरुषाः स्वर्गगामिनः ॥ [म्भ् १३.२४.९६, हेम् १६३]

१९.१४७ विहारावसथोद्यानकूपारामसभाप्रदाः ।
प्रपाणां चैव कर्तारस् ते नराः स्वर्गगामिनः ॥ [म्भ् १३.२४.९७, हेम् १६३]

१९.१४८ शुश्रूषाभिस् तपोभिश् च शुभम् आदाय भारत ।
ये प्रतिग्रहनिःस्नेहास् ते नराः स्वर्गगामिनः ॥ [म्भ् १३.२४.८४, हेम् १६३]

१९.१४९ भयात् पापात् तथा बाधाद् दारिद्र्याद् व्याधिधर्षणात् ।
यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः ॥ [म्भ् १३.२४.८५, हेम् १६३]

१९.१५० सर्वहिंसानिवृत्ताश् च नराः सर्वसहाश् च ये ।
सर्वस्याश्रयभूताश् च ते नराः स्वर्गगामिनः ॥ [म्भ् १३.२४.९०, हेम् १६३]

१९.१५१ आढ्याश् च बलवन्तश् च यौवनस्थाश् च भारत ।
ये वै जितेन्द्रिया धीरास् ते नराः स्वर्गगामिनः ॥ [म्भ् १३.२४.९२, हेम् १६३]

१९.१५२ उपकारिषु सस्नेहा मृदवो ऽस्नेहवत्सलाः ।
स्वाराधाः सुप्रसादाश् च ते नराः स्वर्गगामिनः ॥ [म्भ् १३.२४.९३]

इति भट्टहृदयधरात्मजमहासांधिविग्रहिकभट्टश्रीलक्ष्मीधरविरचिते कृत्यकल्पतरौ दानकाण्डे प्रकीर्णकदानानि ।