१८ २ द्विजस्थापनम्

अथ द्विजस्थापनम्

तत्र कालिकापुराणे

१८.२.१ कारयित्वा तथोद्वाहं श्रोत्रियाणां कुलेषु च ।
वेदविच्छीलवृत्तेषु द्विजेष्व् एकादशेष्व् अथ ॥ [हेम् ६९०]

१८.२.२ ततो गृहाणि रम्याणि कुर्याद् एकादशैव तु ।
कारयित्वा तु धान्यैश् च विविधैश् च प्रपूरयेत् ॥ [हेम् ६९०]

१८.२.३ दासीगोमहिषीश् चापि शयनासनपादुकाः ।
भाजनानि विचित्राणि ताम्रमृण्मयकानि च ।

पात्राणि भोजनार्थे च कृत्स्नं चोपस्करं च यत् ॥ [हेम् ६९०]

१८.२.४ लोहं च कनकं चैव वस्त्राणि तु विशेषतः ।
संभृत्यैतं सुसंभारं तद्गृहेषु नियोजयेत् ॥ [हेम् ६९०]

१८.२.५ योजयेच् चैव वृत्त्यर्थं शक्तितो वा शतं शतम् ।
पृथक् पृथक् लाङ्गलानां निवर्तनशतार्धतः ॥ [हेम् ६९०]

१८.२.६ विषयं कर्वटं खेटं ग्रामं ग्रामार्धम् एव वा ।
योजयेत् सोममूर्तिं च चिन्त्य तेषु द्विजेषु च ॥ [हेम् ६९०–९१]

१८.२.७ एकादशैव तास् तत्र दम्पत्योमाहरात्मकाः ।
विचिन्त्य परया भक्त्या तद्गृहेषु प्रवेशयेत् ॥ [हेम् ६९१]

१८.२.८ ग्राहयेद् अग्निहोत्राणि प्रवेश्यैतान् द्विजोत्तमान् ।
विधिपूर्वं यथान्यायम् आत्मनः श्रेयसे नरः ॥ [हेम् ६९१]

१८.२.९ अदुष्टकुलजानां च विधिर् एष चिरन्तनः ।
शिवशक्त्योश् च भक्तानां द्विजानां कारयेत् सदा ॥ [हेम् ६९१]

१८.२.१० यश् च प्रेष्यान् द्विजान् मूढो योजयेद् धव्यकव्ययोः ।
न भवेत् तत् फलं तस्य वैदिकीयं श्रुतिर् ध्रुवा ॥ [हेम् ३६, ६९१]

१८.२.११ यज्ञदानव्रताद्यं च तीर्थयात्रादिकं च यत् ।
यस् त्व् एवं कारयेज् जन्तुस् तेन सर्वम् अनुष्ठितम् ॥ [हेम् ६९१]

एवं यथा विवाहादि कारयतः फलविशेषस् तथा धनं दत्त्वा यज्ञदानव्रत-तीर्थयात्रादि कारयतो ऽपि ।

१८.२.१२ स यात्य् अर्कसमानाभं विमानं रत्नमालिनम् ।
आरुह्य तत् पदं पुण्यं सुरस्त्रीभिर् अलंकृतम् ॥ [हेम् ६९१]

१८.२.१३ विमानैश् चापरैर् दिव्यैः सहस्रैः परिवारितम् ।
सर्वलोकगतान् भोगान् भुक्त्वा तस्मिन् प्रपद्यते ॥ [हेम् ६९१]

१८.२.१४ ज्ञात्वा स्ववित्तसामर्थ्यम् एकं चोद्वाहयेद् द्विजम् ।
तेन प्राप्नोति तत् स्थानं शिवभक्तो नरो ध्रुवम् ।

स्थानेन स्थानसंप्राप्तिर् विधिदत्तेन जायते ॥ [हेम् ६९१]

दक्षः

१८.२.१५ मातापितृविहीनं तु संस्कारोद्वाहनादिभिः ।
यः स्थापयति तस्येह पुण्यसंख्या न विद्यते ॥ [हेम् ६९०]

आदित्यपुराणे

१८.२.१६ भूमिपालं च्युतं राज्याद् यस् तु संस्थापयेद् बुधः ।
तस्य वासो मुनीन्द्रेह नाकपृष्ठे न संशयः ॥ [हेम् ६९१]