अथ अभयदानम्
१८.१ अथाभयदानम्
तत्र विष्णुः
१८.१.१ सर्वदानाधिकम् अभयप्रदानम् ।
१८.१.२ तत्प्रदानेनाभीष्टं लोकम् आप्नोति ।
[विध् ९२.१–२, हेम् ९४६]
संवर्त्तः
१८.१.३ भूताभयप्रदानेन सर्वान् कामान् अवाप्नुयात् ।
दीर्घम् आयुश् च लभते सदा च सुखितो भवेत् ॥ [हेम् ९४६]
नन्दिपुराणे
१८.१.४ महतां सूक्ष्मदेहानां तथा च व्याधितात्मनाम् ।
हिंस्राणां सौम्यमूर्तीनां सर्वथा ह्य् अभयात् फलम् ॥ [हेम् ९४६]
१८.१.५ वरम् एकस्य सत्त्वस्य जीविताभयरक्षणम् ।
न तु विप्रसहस्रस्य गोसहस्रं सदक्षिणम् ॥ [हेम् ९४६]
मार्कण्डेयपुराणे
१८.१.६ धिक् तस्य जीवितं पुंसः शरणार्थिनम् आतुरम् ।
यो नार्तम् अनुगृह्णाति वैरिपक्षम् अपि ध्रुवम् ॥ [मार्प् १५.६१.१२८.२५, हेम् ९४७]
१८.१.७ यज्ञदानतपांसीह परत्र च न भूतये ।
भवन्ति तस्य यस्यार्थिपरित्राणे न मानसम् ॥ [मार्प् १५.६२, हेम् ९४७]
महाभारते
१८.१.८ लोभाद् द्वेषाद् भयाद् वापि यस् त्यजेच् छरणागतम् ।
ब्रह्महत्यासमं तस्य पापम् आहुर् मनीषिणः ॥ [हेम् ९४७]
तथा
१८.१.९ प्राणिनं वध्यमानं हि यः शक्तः समुपेक्षते ।
स याति नरकं घोरम् इति प्राहुर् मणीषिणः ॥ [हेम् ९४७]
१८.१.१० चतुःसागरपर्यन्तां यो दद्यात् पृथिवीम् इमाम् ।
सत्त्वेभ्यो ह्य् अभयं यस्य तयोर् अभयदो ऽधिकः ॥ [हेम् ९४७]
रामायणे
१८.१.११ बद्धाञ्जलिपुटं दीनं याचन्तम् अपराधिनम् ।
न हन्याच् छरणं प्राप्तं सतां धर्मम् अनुस्मरन् ॥ [राम् ६.१२.१४, हेम् ९४७]
१८.१.१२ आर्तो वा यदि वा त्रस्तः परेषां शरणागतः ।
अपि प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥ [राम् ६.१२.१५, हेम् ९४७]
१८.१.१३ स चेद् भयाद् वा मोहाद् वा कामाद् वा तं न रक्षति ।
स्वयं शक्त्या यथान्यायं तत् पापं लोकगर्हितम् ॥ [राम् ६.१२.१६, हेम् ९४८]
१८.१.१४ विनष्टः पश्यतो यस्य रक्षिणः शरणागतः ।
आदाय सुकृतं तस्मात् सर्वं गच्छत्य् अरक्षितः ॥ [राम् ६.१२.१७, हेम् ९४८]
१८.१.१५ सुपर्याप्तनिसृष्टस्य नाश्वमेधस्य तत् फलम् ।
यत् फलं जातसंत्रासे रक्षिते शरणागते ॥ [राम् ६.२१०*, हेम् ९४८]
सुपर्याप्तनिसृष्टस्य सुपर्याप्तं सुपूर्णं निसृष्टं दानं यत्र तस्य ।