अथ आरोग्यदानम्
१७। अथारोग्यदानम्
तत्र नन्दिपुराणे
१७.१ धर्मार्थकाममोक्षाणाम् आरोग्यं साधनं यतः ।
अतस् त्व् आरोग्यदानेन नरो भवति सर्वदः ॥ [हेम् ८९३]
१७.२ आरोग्यशालां कुरुते महौषधपरिच्छदाम् ।
विदग्धवैद्यसंयुक्तां भृत्यावसथसंयुताम् ॥ [हेम् ८९३]
१७.३ वैद्यस् तु शास्त्रवित् प्राज्ञो दृष्टौषधपराक्रमः ।
औषधीमूलपर्णज्ञः समुद्धरणकालवित् ॥ [हेम् ८९३]
१७.४ रसवीर्यविपाकज्ञः शालिमांसौषधीगणे ।
योगविद् देहिनां देहं यो धिया प्रविशेद् बुधः ॥ [हेम् ८९३]
१७.५ धातुपथ्यामयज्ञश् च निदानविद् अतन्द्रितः ।
व्याधीनां पूर्वलिङ्गज्ञस् तदुत्तरविधानवित् ॥ [हेम् ८९३]
१७.६ देशकालविधानज्ञश् चिकित्साशास्त्रवित् तथा ।
अष्टाङ्गायुर्वेदवेत्ता मुष्टियोगविधानवित् ॥ [हेम् ८९३]
अष्टाव् अङ्गान्य् आयुर्वेदस्य तद् यथा शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यम् अगदतन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रम् इति सुश्रुतोक्तानि । [सुस् १.७, हेम् ८९३]
१७.७ एवंविधः शुभो वैद्यो भवेद् यत्राभियोजितः ।
आरोग्यशालाम् एवं तु कुर्याद् यो धर्मसंश्रयः ।
स पुमान् धार्मिको लोके स कृतार्थः स बुद्धिमान् ॥ [हेम् ८९३]
१७.८ सम्यगारोग्यशालायाम् औषधैः स्नेहपाचनैः ।
व्याधितं निरुजीकृत्य अप्य् एकं करुणायुतः ।
प्रयाति ब्रह्मसदनं कुलसप्तकसंयुतः ॥ [हेम् ८९३]
१७.९ आढ्यो वित्तानुसारेण दरिद्रः फलभाग् भवेत् ।
दरिद्रस्य कुतः शाला आरोग्याय भिषक् क्व वा ॥ [हेम् ८९४]
१७.१० अपि मूलेन केनापि मर्दनाद्यैर् अथापि वा ।
स्वस्थीकृते लभेन् मर्त्यो पूर्वोक्तं लोकम् अव्ययम् ॥ [हेम् ८९४]
१७.११ वातपित्तकफाद्यानां चयापचयभेदिनाम् ।
यस् तु स्वल्पाभ्युपायेन मोक्षयेद् व्याधिपीडितान् ।
सो ऽपि याति शुभान् लोकान् अवाप्यान् यज्ञयाजिभिः ॥ [हेम् ८९४]