१६ अन्नदानम्

अथ अन्नदानम्

१६। अथान्नदानम्

तत्र बृहस्पतिः

१६.१ अन्नदानं गुणकरं सर्वदानाधिकं स्मृतम् ।
अन्नात् प्राणप्रजननं नॄणां संजायते सदा ॥ [हेम् ९७९]

१६.२ प्राणाप्यायनमात्रं तु यो विप्राय प्रयच्छति ।
दुर्भिक्षे तु विशेषेण स लभेताक्षयां दिवम् ॥ [हेम् ९७९]

१६.३ हेमरत्नाम्बरयुतो ऽभुञ्जानो म्रियते नरः ।
अश्नन् विनाप्य् अलंकारैर् जीर्णवस्त्रो ऽपि जीवति ॥

१६.४ तस्मात् प्रदद्याद् विप्रेभ्यः संस्कृतान्नं सदक्षिणम् ।
तेनेह कीर्तिम् आप्नोति स्वर्गं चानन्तकं तथा ॥

देवलः

१६.५ सर्वेषाम् एव दानानाम् अन्नदानम् अनुत्तमम् ।
को ऽन्यो ऽस्ति प्राणदाद् अस्माद् विशिष्टो ह्य् अन्नदात् परः ॥

तथा

१६.६ कृत्वापि पातकं कर्म यो दद्याद् अन्नम् ईप्सितम् ।
ब्राह्मणानां विशेषेण स निहन्त्य् आत्मनस् तमः ॥ [हेम् ९७९]

यमः

१६.७ आदरेण च भक्त्या च यद् अन्नम् उपदीयते ।
तत् प्रीणयति गात्राणि नामृतं मानवर्जितम् ॥ [हेम् ९७९]

१६.८ दुर्लभस् तु मुदा दाता भोक्ता चैव सुदुर्लभः ।
मुदा दाता च भोक्ता च ताव् उभौ स्वर्गगामिनौ ॥ [हेम् ९८०]

१६.९ यो ऽन्नं बहुमतं भुङ्क्ते यश् चान्नं नावमन्यते ।
यश् चान्नं प्रीतितो दद्यात् तस्यान्नम् उपतिष्ठति ॥ [हेम् ९८०]

१६.१० प्रीतितो ऽन्नं च यो दद्याद् गृह्णीयाद् यो ऽभिपूज्य च ।
प्रीतितो ऽक्षयम् अश्नाति पूजितः स्वर्गम् अश्नुते ॥ [हेम् ९८०]

१६.११ यो दद्याद् अप्रियेणान्नं यश् चान्नं नाभिनन्दति ।
ताव् उभौ नरके मग्नौ वसेतां शरदः शतम् ॥ [हेम् ९८०]

महाभारते

१६.१२ यस्य ह्य् अन्नम् उपाश्नन्ति ब्राह्मणानां शतं शतम् ।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर् भवेत् ॥ [म्भ् १३.११३.११, हेम् ९८३]

१६.१३ ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ ।
नरो ऽधर्मात् प्रमुच्येत पापेष्व् अभिरतः सदा ॥ [म्भ् १३.११३.१२, हेम् ९८३]

१६.१४ भोजयित्वा दशशतं नरो वेदविदां नृप ।
न्यायविद्धर्मविदुषां स्मृतिभाष्यविदां तथा ॥ [म्भ् १३.११३.२५, हेम् ९८३]

१६.१५ न याति नरकं घोरं संसारांश् च न सेवते ॥ [म्भ् १३.११३.२६, हेम् ९८४]
१६.१६ यतेद् ब्राह्मणपूर्वं तु भोक्तुम् अन्नं सदा गृही ।
अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः ॥ [म्भ् १३.११३.२४, हेम् ९८४]

१६.१७ भैक्षेणान्नं समाहृत्य विप्रेभ्यो यः प्रयच्छति ।
स्वाध्यायनिरतो विप्रो दत्त्वेह सुखम् एधते ॥ [म्भ् १३.११३.१३, हेम् ९८४]

१६.१८ सर्वावस्थं मनुष्येण न्यायेनान्नम् उपार्जितम् ।
कार्यं पात्रगतं नित्यम् अन्नं हि परमा गतिः ॥ [म्भ् १३.११३.२२, हेम् ९८४]

तथा

१६.१९ कौमुदे शुक्लपक्षे तु यो ऽन्नदानं करोत्य् उत ।
स संतरति दुर्गाणि प्रेत्य चानन्त्यम् अश्नुते ॥ [म्भ् १३.६५.६०, हेम् ९८४]

१६.२० कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने ।
दातव्यं भिक्षितेनान्नम् आत्मनो भूतिम् इच्छता ॥ [म्भ् १३.६२.९, हेम् ४५, ९७४]

नन्दिपुराणे

१६.२१ अन्नाद् भूतानि जातानि देवा ह्य् अन्नादिकाङ्क्षिणः ।
न तस्य पात्रादिविधिर् विना श्राद्धं प्रकीर्तितः ॥ [हेम् ९८४]

तथा

१६.२२ अपि कीटपतङ्गानां शुनां चाण्डालयोनिनाम् ।
दत्त्वान्नं लोकम् आप्नोति प्राजापत्यं समाः शतम् ॥ [हेम् ९८४]

१६.२३ बान्धवेभ्यो ऽतिथिभ्यो ऽन्नं पुत्रेभ्यो ऽन्नं प्रयच्छति ।
दीनान्धकृपणानां च स्वर्गः स्याद् अन्नदायिनाम् ॥ [हेम् ९८४]

१६.२४ ग्रासमात्रं नरो दत्त्वा त्व् अन्नानाम् अन्नगृध्नवे ।
स्वर्गे वसेत् समानां तु शतं भोगैर् मनोरमैः ॥ [हेम् ९८४]

१६.२५ ग्रासे ग्रासे फलं ह्य् एतद् विधिवत् परिकीर्तितम् ।
एतद् एवायने प्रोक्तं द्विगुणं पुण्यगौरवम् ॥ [हेम् ९८४–८५]

१६.२६ अन्नं विना कृशाङ्गस्य दत्त्वान्नं देशकालतः ।
फलं पञ्चगुणं प्रोक्तं सर्वभावसमन्वितम् ॥ [हेम् ९८५]

सर्वभावसमन्वितं राजसादिभावसमन्वितम् ।

१६.२७ देवतानां च यो दद्याद् अन्नाद्यं श्रद्धयान्वितः ।
सिक्थात् सिक्थाद् वसेल् लक्षं समानाम् अमरैः सह ॥ [हेम् ९८५]

१६.२८ एतद् दशगुणं पुण्यम् अन्ने व्यञ्जनसंयुते ।
तथेष्टदेवतादत्ताद् एतत् पुण्यं प्रकीर्तितम् ॥ [हेम् ९८५]

१६.२९ यो दद्याद् ब्रह्मणे ऽन्नानि तस्य द्विगुणितं फलम् ।
तस्माद् विष्णौ तु दत्त्वान्नं द्विगुणं फलम् अश्नुते ॥ [हेम् ९८५]

१६.३० रुद्रायान्नप्रदानेन फलम् एतच् चतुर्गुणम् ।
श्रद्धाकालसमायोगाद् व्यञ्जनानां च योगतः ।

शतसंख्यं भवेत् पुण्यं सम्यग् अन्नप्रदायिनाम् ॥ [हेम् ९८५]