अथ नक्षत्रदानानि
तत्र विष्णुः
१५.१ प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतं परमान्नं ब्राह्मणान् भोजयित्वा रेवतीं प्रीणयित्वा रूपभाग् भवति । [विध् ९०.२६, हेम् ८८१]
परमान्नं पायसम् ।
यमः
१५.२ मासि मासि च रेवत्यां ब्राह्मणान् घृतपायसम् ।
सदक्षिणं भोजयित्वा रूपभाग् अभिजायते ॥ [हेम् ८८१]
महाभारते
१५.३ कृत्तिकासु महाभागे पायसेन ससर्पिषा ।
संतर्प्य ब्राह्मणान् साधून् लोकान् आप्नोत्य् अनुत्तमान् ॥ [म्भ् १३.६३.५, हेम् ८७६]
१५.४ रोहिण्यां प्रथितैर् मार्गैर् माषैर् यत्नेन सर्पिषा ।
पयो ऽनुपानं दातव्यम् आनृण्यार्थं द्विजातये ॥ [म्भ् १३.६३.६, हेम् ८७६]
प्रथितैः प्रसिद्धैः । मार्गैर् मृगमांसैः ।
१५.५ दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते ।
गच्छते मानुषाल् लोकात् स्वर्गवासम् अनुत्तमम् ॥ [म्भ् १३.६३.७, हेम् ८७६]
१५.६ आर्द्रायां कृशरं दत्त्वा तैलमिश्रम् उपोषितः ।
नरस् तरति दुर्गाणि क्षुरधारांश् च पर्वतान् ॥ [म्भ् १३.६३.८, हेम् ८७६]
१५.७ पूपान् पुनर्वसौ दत्त्वा तथैवान्नानि शोभने ।
यशस्वी रूपसंपन्नो बहुले जायते कुले ॥ [म्भ् १३.६३.९, हेम् ८७६]
१५.८ पुष्ये तु कनकं दत्त्वा कृतं वाकृतम् एव वा ।
अनालोकेषु लोकेषु सोमवत् स विराजते ॥ [म्भ् १३.६३.१०, हेम् ८७६]
कृतं घटितम् ।
१५.९ अश्लेषासु च गोरूपं वृषभं वा प्रयच्छति ।
स सर्वभयनिर्मुक्तः शास्त्रवान् अभितिष्ठति ॥ [म्भ् १३.६३.११, हेम् ८७७]
१५.१० मघासु तिलपूर्णानि वर्धमानानि मानवः ।
प्रदाय पुत्रपशुमान् इह प्रेत्य च मोदते ॥ [म्भ् १३.६३.१२, हेम् ८७७]
१५.११ फाल्गुनीपूर्वसमये ब्राह्मणानाम् उपोषितः ।
भक्ष्यान् फाणितसंयुक्तान् दत्त्वा सौभाग्यम् ऋच्छति ॥ [म्भ् १३.६३.१३, हेम् ८७७]
फाल्गुनीपूर्वसमये पूर्वफल्गुनीसमये । फाणितं गुडविकारः ।
१५.१२ घृतक्षीरसमायुक्तं विधिवत् षष्टिकौदनम् ।
उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥ [म्भ् १३.६३.१४, हेम् ८७७]
उत्तराविषये उत्तरफाल्गुनीसमये ।
१५.१३ यद् यत् प्रदीयते दानम् उत्तराविषये नरैः ।
महाफलम् अनन्तं च भवतीति विनिश्चयः ॥ [म्भ् १३.६३.१५, हेम् ८७७]
१५.१४ हस्ते हस्तिरथं दत्त्वा चतुर्युक्तम् उपोषितः ।
नरस् तरति दुर्गाणि क्षुरधारांश् च पर्वतान् ॥ [म्भ् १३.६३.१६, हेम् ८७७]
चतुर्युक्तं चतुर्भिर् हस्तिभिर् युक्तम् ।
१५.१५ चित्रायां वृषभं दत्त्वा पुण्यान् गन्धांश् च भारत ।
चरत्य् अप्सरसां लोके रमते नन्दते तथा ॥ [म्भ् १३.६३.१७, हेम् ८७७]
१५.१६ स्वाताव् अथ धनं दत्त्वा यद् इष्टतमम् आत्मनः ।
प्राप्नोति लोकान् स शुभान् इह चैव महद् यशः ॥ [म्भ् १३.६३.१८, हेम् ८७८]
१५.१७ विशाखायाम् अनड्वाहं धेनुं दत्त्वा च दुग्धदाम् ।
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ॥ [म्भ् १३.६३.१९, हेम् ८७८]
१५.१८ पितॄन् देवांश् च प्रीणाति प्रेत्य चानन्त्यम् अश्नुते ।
न च दुर्गाण्य् अवाप्नोति स्वर्गलोकं च गच्छति ॥ [म्भ् १३.६३.२०, हेम् ८७८]
प्रासङ्गं द्वितीयं युगकाष्ठम् ।
१५.१९ अनुराधासु प्रावारं वस्त्रोत्तरम् उपोषितः ।
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥ [म्भ् १३.६३.२२, हेम् ८७८]
प्रावारः प्रछदपटः । वस्त्रोत्तरं परिधानवस्त्रादिकम् ।
१५.२० कालशाकं च विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ।
ज्येष्ठायाम् ऋद्धिम् इष्टां वै गतिम् इष्टां च गच्छति ॥ [म्भ् १३.६३.२३, हेम् ८७८]
१५.२१ मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः ।
पितॄन् संप्रीणयति गतिम् इष्टां च गच्छति ॥ [म्भ् १३.६३.२४, हेम् ८७८]
१५.२२ अथ पूर्वास्व् आषाढासु दधिपात्राण्य् उपोषितः ।
कुलवृत्तोपसंपन्ने ब्राह्मणे वेदपारगे ।
प्रदाय जायते प्रेत्य कुले स बहुगोकुले ॥ [म्भ् १३.६३.२५, हेम् ८७८]
१५.२३ उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् ।
दत्त्वोत्तरास्व् अषाढासु सर्वलोकान् अवाप्नुयात् ॥ [म्भ् १३.६३.२६, हेम् ८७८]
उदमन्थः उदकमिश्राः सक्तवः ।
१५.२४ दुग्धं त्व् अभिजितो योगे दत्त्वा मधुघृतप्लुतम् ।
धर्मविद्भ्यो मनीषिभ्यः स्वर्गलोके महीयते ॥ [म्भ् १३.६३.२७, हेम् ८७९]
१५.२५ श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितम् एव च ।
श्वेतेन याति यानेन स्वर्गलोकान् सुसंवृतान् ॥ [म्भ् १३.६३.२८, हेम् ८७९]
१५.२६ गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः ।
वस्त्ररश्मिधरं सद्यः प्रेतो राज्यं समश्नुते ॥ [म्भ् १३.६३.२९, हेम् ८७९]
वस्त्ररश्मिः वस्त्रघटितरज्जुः ।
१५.२७ गन्धाञ् शतभिषायोगे दत्त्वा सागुरुचन्दनान् ।
प्राप्नोत्य् अप्सरसां लोकान् प्रेत्य गन्धांश् च शाश्वतान् ॥ [म्भ् १३.६३.३०, हेम् ८७९]
१५.२८ पूर्वभाद्रपदायोगे राजमाषान् प्रदापयेत् ।
सर्वभक्ष्यफलोपेतः स वै प्रेत्य सुखी भवेत् ॥ [म्भ् १३.६३.३१, हेम् ८७९]
१५.२९ औरभ्रम् उत्तरायोगे यस् तु मांसं प्रयच्छति ।
पितॄन् प्रीणयति प्रेत्य फलं चानन्त्यम् अश्नुते ॥ [म्भ् १३.६३.३२, हेम् ८७९]
१५.३० कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति ।
सा प्रेत्य कामान् आदाय दातारम् उपतिष्ठति ॥ [म्भ् १३.६३.३३, हेम् ८७९]
१५.३१ रथम् अश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः ।
हस्त्यश्वरथसंपन्ने धर्मिष्ठे जायते कुले ॥ [म्भ् १३.६३.३४, हेम् ८७९]
१५.३२ भरणीषु द्विजातिभ्यस् तिलधेनुं प्रदापयेत् ।
गाश् च प्रभूताः प्राप्नोति नरः प्रेत्य यशस् तथा ॥ [म्भ् १३.६३.३५, हेम् ८८०]
इति नक्षत्रदानानि ॥