अथ मासदानानि
तत्र विष्णुः
१४.२.१ आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदायाश्विनौ प्रीणयित्वा रूपभाग् भवति ।
१४.२.२ तस्मिन्न् एव मासि प्रत्यहं गोरसैर् ब्राह्मणान् भोजयित्वा आरोग्यभाग् भवति । [विध् ९०.२४–२५, हेम् ८८८]
तथा
१४.२.३ माघे मास्य् अग्निं प्रत्यहं तिलैर् हुत्वा घृतकुल्माषं ब्राह्मणान् भोजयित्वा दीप्ताग्नित्वम् आप्नोति । [विध् ९०.२७, हेम् ८८८]
कुल्माष ईषत्स्विन्ना माषाः ।
यमः
१४.२.४ कृशरं भोजयित्वा तु स्वशक्त्या शिशिरे द्विजान् ।
दीप्ताग्नित्वम् अवाप्नोति स्वर्गलोकं च गच्छति ॥ [हेम् ८८९]
तथा
१४.२.५ घृतम् आश्वयुजे मासि नित्यं दद्याद् द्विजातये ।
प्रीणयित्वाश्विनौ देवौ रूपभाग् अभिजायते ॥ [हेम् ८८८]
१४.२.६ तिलप्रदः प्रजाम् इष्टां पुरुषः खलु विन्दति ।
माघे मासि विशेषेण तत्तमिस्रे विशेषतः ॥ [हेम् ८८८]
आदित्यपुराणे
१४.२.७ ज्यैष्ठे मासि तिलान् दत्त्वा पौर्णमास्यां विशेषतः ।
अश्वमेधस्य यत् पुण्यं तत् प्राप्नोति न संशयः ॥ [हेम् ८८७]
देवीपुराणे
१४.२.८ धेनुं तिलमयीं माघ्यां दद्याद् यश् चोत्तरायणे ।
सर्वान् कामान् अवाप्नोति ज्यैष्ठे जलमयीं तथा ॥ [हेम् ८८७]
१४.२.९ पौषे घृतमयीं दद्याच् छ्रेष्ठाहे विधिना मुने ।
ईहितान् लभते लोकान् स्थानेषु विविधेषु च ॥ [हेम् ८८७]
तथा
१४.२.१० मार्गे रसोत्तमं दद्याद् घृतं पौषे महाफलम् । [द्प् १०४.१, हेम् ८८६]
रसोत्तमं लवणम् ।
१४.२.११ तिलान् माघे मुनिश्रेष्ठ सप्त धान्यानि फाल्गुने ॥ [द्प् १०४.१, हेम् ८८६]
१४.२.१२ विचित्राणि च वस्त्राणि चैत्रे दद्याद् द्विजोत्तमे ।
वैशाखे द्विज गोधूमान् ज्यैष्ठे तोयभृतं घटम् ॥ [द्प् १०४.२, हेम् ८८६–८७]
१४.२.१३ आषाढे चन्दनं देयं सकर्पूरं महाफलम् ।
नवनीतं नभोमासि छत्त्रं प्रौष्ठपदे मतम् ॥ [द्प् १०४.३, हेम् ८८७]
१४.२.१४ गुडशर्करवर्णाढ्यान् लड्डुकान् आश्विने मुने ।
दीपदानं महापुण्यं कार्त्तिके यः प्रयच्छति ।
सर्वान् कामान् अवाप्नोति क्रमेणैवम् उदाहृतम् ॥ [द्प् १०४.४–५, हेम् ८८७]
१४.२.१५ व्रतान्ते गां शुभां दद्यात् सवत्सां कांस्यदोहनाम् ।
सयुगां सस्रजं वत्स दापयेद् विधिनामुना ॥ [द्प् १०४.८, हेम् ८८७]
१४.२.१६ देवीं विरिञ्चिनं सूर्यं विष्णुं वाथ यथाविधि ।
स्वभावशुद्धौ विधिवत् पूजयित्वा द्विजोत्तमे ॥ [द्प् १०४.८–९, हेम् ८८७]
१४.२.१७ दातव्या वीतरागे तु कामक्रोधविवर्जिते ।
अयाचके सदाचारे विनीते नियमान्विते ॥ [द्प् १०४.९–१०, हेम् ८८७]
१४.२.१८ गोदानाल् लभते कामान् गोलोके सुमनोरमान् ॥ [द्प् १०४.१०, हेम् ८८७]
व्रतान्ते मासदानाख्यनियमसमाप्तौ ।
तथा
१४.२.१९ आषाढे तोयधेनुं च घृतं भाद्रपदे तथा ।
माघे तु तिलधेनुः स्याद् यां दत्त्वा लभते हितान् ॥ [द्प् १०२.१, हेम् ८८७]
महाभारते
१४.२.२० माघे मासि तिलान् यस् तु ब्राह्मणेभ्यः प्रयच्छति ।
सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति ॥ [म्भ् १३.६५.७, हेम् ८८८]
यमः
१४.२.२१ सर्वपातकसंघातः कामतो वाप्य् अकामतः ।
शुद्धिं तस्य प्रवक्ष्यामि स्वर्गसाधनम् एव च ॥
१४.२.२२ शुक्लैः कृष्णैर् यथालब्धैर् द्वात्रिंशदङ्गुलोच्छ्रितः ।
राशिस् तिलैः समे देशे कर्तव्यः पुरुषायतः ॥
१४.२.२३ प्रतिमाष्टाङ्गुलोत्क्षेप्या सौवर्णा विभवे सति ।
क्षौद्रेण पयसा दध्ना घृतेनापूरयेद् घटान् ॥
१४.२.२४ यथाविभवविस्तारं ब्राह्मणे श्रोत्रिये ऽर्थिनि ।
दद्यान् माघे च वैशाखे विषुवे चोत्तरायणे ।
यावज् जीवकृतं पापं तत् क्षणाद् एव नश्यति ॥
वामनपुराणे
१४.२.२५ माघे मासि तिलाः शस्तास् तिलधेनुश् च दानव ।
इध्मेन्धनादयश् चान्ये माधवप्रीणनाय तु ॥ [वाम्प् ६८.२३, हेम् ८८५]
१४.२.२६ फाल्गुने व्रीहयो गावो वस्त्रं कृष्णाजिनान्वितम् ।
गोविन्दप्रीणनार्थाय दातव्यं पुरुषर्षभैः ॥ [वाम्प् ६८.२४, हेम् ८८५]
१४.२.२७ चैत्रे विचित्रवस्त्राणि शयनान्य् आसनानि च ।
विष्णोः प्रीत्यर्थम् एतानि देयानि ब्राह्मणेष्व् अथ ॥ [वाम्प् ६८.२५, हेम् ८८५]
१४.२.२८ गन्धाश् च माल्यानि तथा वैशाखे सुरभीणि च ।
देयानि द्विजमुख्येभ्यो मधुसूदनतुष्टये ॥ [वाम्प् ६८.२६, हेम् ८८५]
१४.२.२९ उदकुम्भाम्बुधेनुं च तालवृन्तं सचन्दनम् ।
त्रिविक्रमस्य प्रीत्यर्थं दातव्यं साधुभिः सदा ॥ [वाम्प् ६८.२७, हेम् ८८५]
तालवृन्तं तालव्यजनम् ।
१४.२.३० उपानद्युगलं छत्त्रं लवणामलकानि च ।
आषाढे वामनप्रीत्यै दातव्यानि च भक्तितः ॥ [वाम्प् ६८.२८, हेम् ८८५]
१४.२.३१ घृतं च क्षीरकुम्भाश् च घृतधेनुः फलानि च ।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता ॥ [वाम्प् ६८.२९, हेम् ८८६]
१४.२.३२ मासि भाद्रपदे दद्यात् पायसं मधुसर्पिषी ।
हृषीकेशप्रीणनार्थं लवणं सगुडौदनम् ॥ [वाम्प् ६८.३०, हेम् ८८६]
१४.२.३३ तिलास् तुरंगवृषभं दधि ताम्रायसादिकम् ।
प्रीत्यर्थं पद्मनाभस्य देयम् आश्वयुजे नरैः ॥ [वाम्प् ६८.३१, हेम् ८८६]
१४.२.३४ रजतं कनकं दीपान् मणिमुक्ताफलादिकम् ।
दामोदरस्य प्रीत्यर्थं प्रदद्यात् कार्त्तिके नरः ॥ [वाम्प् ६८.३२, हेम् ८८६]
१४.२.३५ खरोष्ट्राश्वतरो नागाः शकटोक्षम् अजाविकम् ।
दातव्यं केशवप्रीत्यै मासि मार्गशिरे नरैः ॥ [वाम्प् ६८.३३, हेम् ८८६]
१४.२.३६ प्रासादनगरादीनि गृहप्रावरणानि च ।
नारायणस्य तुष्ट्यर्थं पौषे देयानि यत्नतः ॥ [वाम्प् ६८.३४, हेम् ८८६]
१४.२.३७ दासीदासम् अलंकारम् अन्नं षड्रससंयुतम् ।
पुरुषोत्तमस्य तुष्ट्यर्थं प्रदेयं सार्वकालिकम् ॥ [वाम्प् ६८.३५, हेम् ८८६]
१४.२.३८ यद् यद् इष्टतमं किंचिद् यच् चाप्य् अस्ति गृहे शुचि ।
तत् तद् धि देयं प्रीत्यर्थं देवदेवस्य चक्रिणः ॥ [वाम्प् ६८.३६, हेम् ८८६]