१४ १ तिथिदानानि

अथ तिथिदानानि

तत्र विष्णुः

१४.१.१ मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरसा युक्तायां चूर्णितलवणस्य सुवर्ण-नाभं प्रस्थम् एकं चन्द्रोदये ब्राह्मणाय प्रतिपादयेत् ।
१४.१.२ अनेन कर्मणा रूपसौभाग्यवान् अभिजायते ।
१४.१.३ पौषी चेत् पुष्ययुक्ता स्यात् तस्यां गौरसर्षप-कल्केनोत्सादितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधिभिः सर्व-गन्धैः सर्वबीजैश् च स्नातो घृतेन च भगवन्तं वासुदेवं स्नापयित्वा पुष्पगन्धधूपनैवेद्यादिभिश् चाभ्यर्च्य वैष्णवैः सूक्तैर् बार्हस्पत्यैश् च मन्त्रैः पावकं हुत्वा सुवर्णेन घृतेन ब्राह्मणं स्वस्ति वाचयेत् ।
१४.१.४ वासो-युगं तत्कर्त्रे दद्यात् ।
१४.१.५ अनेन कर्मणा पुष्यते ।
१४.१.६ माघी मघायुक्ता चेत् तस्यां तिलैः श्राद्धं कृत्वा पूतो भवति । [विध् ९०.१–६, हेम् ८६६]
तिलैः श्राद्धं कृत्वा भोजनार्थं श्राद्धे तिलान् दत्त्वा ।

१४.१.७ फाल्गुनी फल्गुनीभिर् युक्ता चेत् तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनोज्ञां पक्षवतीं द्रविणवतीं चाप्नोति ।
१४.१.८ नार्य् अपि भर्तारम् । [विध् ९०.७–८, हेम् ८६६]
पक्षवती बहुतरज्ञातिबन्धुः ।

१४.१.९ चैत्री चित्रायुक्ता चेत् तस्यां चित्रवस्त्रप्रदानेन सौभाग्यम् आप्नोति । [विध् ९०.९, हेम् ८६६]
चित्रं मनोज्ञं नानावर्णम् ।

१४.१.१० वैशाख्यां पौर्णमास्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस् तिलैः संतर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति ।
१४.१.११ ज्यैष्ठी ज्येष्ठायुक्ता चेत् तस्यां छत्त्रोपानहप्रदानेन नगराधिपत्यम् आप्नोति ।
१४.१.१२ आषाढ्याम् आषाढा-युक्तायाम् अन्नपानदानेन तद् एवाक्षयम् आप्नोति ।
१४.१.१३ श्रावण्यां श्रवणयुक्तायां जलधेनुं सान्नां वासोयुगाछादितां दत्त्वा स्वर्गलोकम् आप्नोति ।
१४.१.१४ प्रौष्ठ-पद्यां तद्-युक्तायां गोदानेन सर्वपापविनिर्मुक्तो भवति ।
१४.१.१५ आश्वयुज्याम् अश्विनीगते चन्द्र-मसि घृतपूर्णभाजनं सुवर्णयुतं विप्राय दत्त्वा दीप्ताग्निर् भवति ।
१४.१.१६ कार्त्तिकी चेत् कृत्तिकायुक्ता स्यात् तस्यां सितम् उक्षाणम् अन्यवर्णं वा शशाङ्कोदये सर्वसस्यरत्नगन्धोपेतं द्वीपमध्ये ब्राह्मणाय दद्यात् कान्तारभयं न पश्यति ।
१४.१.१७ वैशाखमासे तृतीयायाम् उपोषितो ऽक्षतैर् वासुदेवम् अभ्यर्च्य तान् एव हुत्वा सर्वपापेभ्यः पूतो भवति ।
१४.१.१८ यच् च तस्मिन्न् अहनि प्रयच्छति तद् अक्षयम् आप्नोति ।
१४.१.१९ पौष्यां समतीतायां कृष्णपक्षद्वादश्यां सोपवासस् तिलैः स्नातस् तिलोदकं दत्त्वा तिलैर् वासुदेवम् अभ्यर्च्य तान् एव हुत्वा भुक्त्वा च सर्वपापेभ्यः पूतो भवति ।
१४.१.२० माघ्यां समतीतायां कृष्णद्वादशीं सश्रवणां प्राप्य वासुदेवाग्रतो महावर्तिद्वयेन दीपद्वयं दद्यात् ।
१४.१.२१ दक्षिणपार्श्वे महारजनरक्तेन समग्रेण वाससा घृततुलाम् अष्टाधिकां दत्त्वा ।
१४.१.२२ वामपार्श्वे तैलतुलां साष्टां दत्त्वा श्वेतेन समग्रेण वाससा ।
१४.१.२३ एतत् कृत्वा यस्मिन् राष्टृए ऽभिजायते यस्मिन् देशे यस्मिन् कुले च तत्रोज्ज्वलो भवति । [विध् ९०.१०–२३, हेम् ८६७, ८५२, ८६०]
महारजनरक्तेन कुसुम्भरक्तेन । तुला पलशतम् ।

यमः

१४.१.२४ वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।
क्षौद्रयुक्तैस् तिलैः कृष्णैर् वाचयेद् यदि वेतरैः ॥ [हेम् ८६२]

१४.१.२५ प्रीयतां धर्मराजेति यद् वा मनसि वर्तते ।
यावज् जीवकृतं पापं तत् क्षणाद् एव नश्यति ॥ [हेम् ८६२]

तथा

१४.१.२६ वैशाख्याम् एव विधिवद् भोजयेद् ब्राह्मणान् दश ।
त्रिरात्रम् उषितः स्नात्वा कृशरं प्रयतः शुचिः ॥ [हेम् ८६३]

१४.१.२७ गौरान् वा यदि वा कृष्णांस् तिलान् क्षौद्रेण संयुतान् ।
दत्त्वा दशसु विप्रेषु तान् एव स्वस्ति वाचयेत् ॥ [हेम् ८६३]

१४.१.२८ प्रीयतां धर्मराजेति पितॄन् देवांश् च तर्पयेत् ।
यावज् जीवकृतं पापं तत् क्षणाद् एव मुञ्चति ॥ [हेम् ८६३]

१४.१.२९ अयुतायुतं च तिष्ठेत् स्वर्गलोके न संशयः ।
माम् एव तु न पश्येत् तु न च पापेन लिप्यते ॥ [हेम् ८६३]

जाबालः

१४.१.३० शृतान्नम् उदकुम्भं च वैशाख्यां तु विशेषतः ।
निर्दिश्य धर्मराजाय गोदानफलम् आप्नुयात् ॥ [हेम् ८६३]

१४.१.३१ सुवर्णतिलयुक्तैस् तु ब्राह्मणान् सप्त पञ्च च ।
तर्पयेद् उदपात्रैस् तु ब्रह्महत्यां व्यपोहति ॥ [हेम् ८६३]

महाभारते

१४.१.३२ वैशाख्यां पौर्णमास्यां च तिलान् दद्याद् द्विजातिषु ।
तिला भक्षयितव्यास् तु सदा त्व् आलम्भनं च तैः ।

कार्यं सततम् इच्छद्भिः श्रेयः सर्वात्मना गृहे ॥ [म्भ् १३.६७.१७*–१८, हेम् ८६४]

यमः

१४.१.३३ कार्त्तिकस्य तमिस्रे तु मघासु नवमे तिथौ ।
अहोरात्रोषितः स्नात्वा धर्मराजाय भोजयेत् ।

विधिवद् ब्राह्मणाञ् छक्त्या स्वर्गलोके महीयते ॥

१४.१.३४ तिलान् कृष्णाजिने कृत्वा सुवर्णं मधुसर्पिषी ।
दत्त्वा तु ब्राह्मणायाशु सर्वं तरति दुष्कृतम् ।

धेनुं दत्त्वोभयमुखीं भूदानफलम् आप्नुयात् ॥

१४.१.३५ माघान्धकारद्वादश्यां तिलैर् हुत्वा हुताशनम् ।
तिलान् दत्त्वा च विप्रेभ्यः सर्वपापैः प्रमुच्यते ॥ [हेम् ८६०]

१४.१.३६ आदित्यवारे विप्राय सहिरण्यं सदैव तु ।
यः प्रयच्छत्य् अपूपं च तस्य तुष्यति वै यमः ॥ [हेम् ८७८]

स्कन्दपुराणे

१४.१.३७ तिलपात्राणि यो दद्याद् विप्रेभ्यः शुद्धमानसः ।
अमावास्यां समासाद्य कृष्णानां सुसमाहितः ॥ [हेम् ८६८]

१४.१.३८ स्वपितॄंस् तर्पयित्वा तु अक्षयं नरपुंगवः ।
पितृलोकं समाप्नोति चिरं ससुखम् एधते ॥ [हेम् ८६८]

कृष्णानां तिलानाम् इति शेषः ।