अथ कल्पदानम्
तत्र मत्स्यपुराणे
१३.१ कल्पानुकीर्तनं वक्ष्ये सर्वपापप्रणाशनम् ।
यस्यानुकीर्तनाद् एव वेदपुण्येन युज्यते ॥ [म्प् २९०.२, हेम् ८४६]
१३.२ प्रथमः श्वेतकल्पस् तु द्वितीयो नीललोहितः ।
वामदेवस् तृतीयस् तु ततो राथन्तरो ऽपरः ॥ [म्प् २९०.३, हेम् ८४६]
१३.३ रौरवः पञ्चमः प्रोक्तः षष्ठः प्राण इति स्मृतः ।
सप्तमो ऽथ बृहत्कल्पः कन्दर्पो ऽष्टम उच्यते ॥ [म्प् २९०.४, हेम् ८४६]
१३.४ सद्यो ऽथ नवमः प्रोक्त ईशानो दशमः स्मृतः ।
व्यान एकादशः प्रोक्तस् तथा सारस्वतो ऽपरः ॥ [म्प् २९०.५, हेम् ८४६–४७]
१३.५ त्रयोदश उदानस् तु गारुडो ऽथ चतुर्दशः ।
कौर्मः पञ्चदशो ज्ञेयः पौर्णमासी प्रजापतेः ॥ [म्प् २९०.६, हेम् ८४७]
१३.६ षोडशो नारसिंहस् तु समानस् तु ततो ऽपरः ।
आग्नेयो ऽष्टादशः प्रोक्तः सोमकल्पस् तथापरः ॥ [म्प् २९०.७, हेम् ८४७]
१३.७ मानवो विंशतिः प्रोक्तस् तत्पुमान् इति चापरः ।
वैकुण्ठश् चापरस् तद्वल् लक्ष्मीकल्पस् तथापरः ॥ [म्प् २९०.८, हेम् ८४७]
१३.८ चतुर्विंशस् तथा प्रोक्तः सावित्रीकल्पसंज्ञकः ।
पञ्चविंशतिमो ऽघोरो वाराहस् तु ततो ऽपरः ॥ [म्प् २९०.९, हेम् ८४७]
१३.९ सप्तविंशो ऽथ वैराजो गौरीकल्पस् तथापरः ।
माहेश्वरस् ततः प्रोक्तस् त्रिपुरं यत्र घातितम् ॥ [म्प् २९०.१०, हेम् ८४७]
१३.१० पितृकल्पस् तथान्ते तु या कुहूर् ब्रह्मणः स्मृता ।
इत्य् एवं ब्रह्मणो मासः सर्वपापप्रणाशनः ॥ [म्प् २९०.११, हेम् ८४७]
१३.११ आदाव् एव हि माहात्म्यं यस्मिन् यस्य विधीयते ।
तस्य कल्पस्य तन् नाम विहितं ब्रह्मणा पुरा ॥ [म्प् २९०.१२, हेम् ८४७]
१३.१२ यस् तु दद्याद् इमान् कृत्वा हैमान् पर्वणि पर्वणि ।
ब्रह्मविष्णुपुरे कल्पं मुनिभिः पूज्यते दिवि ॥ [म्प् २९०.१८, हेम् ८४७]
१३.१३ सर्वपापक्षयकरं कल्पदानं यतो भवेत् ।
मुनिरूपांस् ततः कृत्वा दद्यात् कल्पान् विचक्षणः ॥ [म्प् २९०.१९, हेम् ८४७]
मुनिरूपान् मुन्याकारान् जटादिधरान् ।