अथ विद्यादानम्
तत्रादित्यपुराणे
१२.१ त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च ।
सर्वकामदुघा धेनुर् गावः पृथ्वी सरस्वती ॥ [हेम् ५११]
मनुः
१२.२ सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते ।
वार्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम् ॥ [म्ध् ४.२३३, हेम् ५१७]
ब्रह्मदानं वेददानम् ।
याज्ञवल्क्यः
१२.३ सर्वदानमयं ब्रह्म दानेभ्यो ऽभ्यधिकं यतः ।
तद् ददत् समवाप्नोति ब्रह्मलोकम् अविच्युतम् ॥ [य्ध् १.२१२, हेम् ५१७]
दानेभ्यो ऽन्येभ्य इति शेषः ।
यमः
१२.४ य इमां पृथिवीं दद्यात् सर्वरत्नोपशोभिताम् ।
दद्याच् छास्त्रं च विप्राणां तच् च तानि च तत्समम् ॥ [हेम् ५२६]
तच् च सर्वरत्नोपशोभितपृथिवीदानम् । तानि पूर्वोक्तानि दानानि । तदुभयं विद्यादानसमम् ।
देवीपुराणे
१२.५ विद्यादानं प्रवक्ष्यामि येन तुष्यन्ति मातरः ।
लिख्यते दीयते येन विधिना तच् छृणुष्व मे ॥ [द्प् ९१.१२, हेम् ५४४]
१२.६ सिद्धान्तमोक्षशास्त्राणि वेदाः स्वर्गादिसाधकाः ।
वेदाङ्गानीतिहासाश् च देया धर्मविवृद्धये ॥ [द्प् ९१.१३, हेम् ५१३]
१२.७ गारुडं बालतन्त्रं च भूततन्त्राणि भैरवम् ।
शास्त्राणां पठनाद् दानान् मातरः फलदा नृणाम् ॥ [द्प् ९१.१४, हेम् ५१३]
१२.८ ज्योतिषं वैद्यशास्त्राणि कलाः काव्यं शुभागमाः ।
दानाद् आरोग्यम् आप्नोति गान्धर्वं लभते पदम् ॥ [द्प् ९१.१५, हेम् ५१३]
१२.९ विद्यया वर्तते लोको धर्माधर्मं च विन्दति ।
तस्माद् विद्या सदा देया दृष्टादृष्टफलार्थिभिः ॥ [द्प् ९१.१६, हेम् ५१३]
तथा
१२.१० शृण्वतां जायते भक्तिस् ततो गुरुम् उपासते ।
स च विद्यागमान् वक्ति विद्या पुस्ताश्रिता नृप ॥ [द्प् ९१.२३, हेम् ५४४]
१२.११ विद्याविवेकबोधेन शुभाशुभविचारणात् ।
विन्दते सर्वकामाप्तिं तस्माद् विद्या परा मता ॥ [द्प् ९१.२४, हेम् ५१३]
१२.१२ विद्यादानात् परं दानं न भूतं न भविष्यति ।
येन दत्तेन चाप्नोति शिवं परमकारणम् ॥ [द्प् ९१.२५, हेम् ५१३]
१२.१३ श्रीताडिपत्रके सञ्चे समे तत्र सुसंचिते ।
विचित्रकञ्चिकापार्श्वे चर्मणा संपुटीकृते ॥ [द्प् ९१.३७, हेम् ५४४]
१२.१४ रक्तेन वाथ कृष्णेन मृदुना रङ्गितेन वा ।
दृढसूत्रनिबद्धेन एवं विधिकृतेन च ॥ [द्प् ९१.३८, हेम् ५४४]
१२.१५ यस् तु द्वादशसाहस्रीं संहिताम् उपलेखयेत् ।
ददाति चाभियुक्ताय स याति परमां गतिम् ॥ [द्प् ९१.३९, हेम् ५४४]
१२.१६ पूर्वोत्तरप्लवे देशे सर्वबाधाविवर्जिते ।
गोमयेन शुभेनैव कुर्यान् मण्डलकं बुधः ॥ [द्प् ९१.४०, हेम् ५४४]
१२.१७ धनुर्हस्तप्रमाणेन शुभं च चतुरश्रकम् ।
तस्य मध्ये लिखेत् पद्मं सितरक्तासितादिभिः ॥ [द्प् ९१.४१, हेम् ५४४]
१२.१८ सर्वर्तुकमयैः पुष्पैर् भूषयेत् सर्वतो दिशम् ।
वितानं दापयेन् मूर्ध्नि शुभं चित्रविचित्रितम् ॥ [द्प् ९१.४२, हेम् ५४४]
१२.१९ पार्श्वतः सितवस्त्रैस् तु सम्यक् शोभां प्रकल्पयेत् ।
कन्दुकैर् अर्धचन्द्रैश् च दर्पणैश् चामरैस् तथा ॥ [द्प् ९१.४३, हेम् ५४४]
१२.२० घण्टाकिङ्किणिशब्दैश् च सर्वतश् चोपकल्पयेत् ।
तस्य मध्ये न्यसेद् यन्त्रं नागदन्तमयं शुभम् ॥ [द्प् ९१.४४, हेम् ५४४]
१२.२१ अधः किंचिन् निबद्धं तु ऊर्ध्वतो ऽपि सुसंयुतम् ।
शोभितं दृढबन्धेन बद्धं सूत्रेण बुद्धिमान् ॥ [द्प् ९१.४५, हेम् ५४४]
१२.२२ तस्योर्ध्वं विन्यसेद् विद्वान् पुस्तकं लिखितं शुभम् ।
आलेख्यम् अपि तत्रैव पूजयेद् विधिना ततः ॥ [द्प् ९१.४६, हेम् ५४५]
१२.२३ निरुदकैस् तथा पुष्पैः कृमिकीटविवर्जितैः ।
चन्दनेन सदर्पेण भस्मना चावधूनयेत् ॥ [द्प् ९१.४७, हेम् ५४५]
इसदर्पेण मृगमदसहितेन ।
१२.२४ धूपश् च गुग्गुलुर् देयस् तुरुष्कागुरुमिश्रितः ।
दीपमाला तथा चाग्रे नैवेद्यं विविधं पुनः ॥ [द्प् ९१.४८, हेम् ५४५]
१२.२५ खाद्यं पेयं शितं लेह्यं चोष्यं च विनिवेदयेत् ।
पूजयेच् च दिशां पालान् लोकपालान् यथाक्रमम् ॥ [द्प् ९१.४९, हेम् ५४५]
१२.२६ कन्याः स्त्रियश् च संपूज्य मातरः कल्पयेच् च ताः ॥ [द्प् ९१.५०, हेम् ५४५]
१२.२७ पुस्तकं देवदेवी च विप्राणां दक्षिणा तथा ।
स्वशक्त्या चैव दातव्या नृपपौरांश् च पूजयेत् ॥ [द्प् ९१.५०–५१, हेम् ५४५]
१२.२ तथा संपूजयेद् वत्स लेखकं शास्त्रपारगम् ।
छन्दोलक्षणतत्त्वज्ञं सत्कविं मधुरस्वरम् ।
प्रणष्टं स्मरति ग्रन्थं श्रेष्ठं पुस्तकलेखने ॥ [द्प् ९१.५१–५२, हेम् ५४५]
१२.२९ नातिसंततविछिन्नैर् न श्लक्ष्णैर् न च कर्कशैः ।
नन्दिनागरकैर् वर्णैर् लेखयेच् छिवपुस्तकम् ॥ [द्प् ९१.५३, हेम् ५४५]
१२.३० प्रारम्भे पञ्च वै श्लोकान् पुनः शान्तिं तु कारयेत् ।
रात्रौ जागरणं कुर्यात् सर्वप्रेक्षां प्रकल्पयेत् ॥ [द्प् ९१.५४, हेम् ५४५]
१२.३१ नटचारणनग्नैश् च देव्याः कथनसंभवैः । [द्प् ९१.५५, हेम् ५४५]
सर्वप्रेक्षां सर्वप्रकारं प्रेक्षणकम् ।
१२.३२ प्रत्यूषे पूजयेल् लोकांस् ततः सर्वान् विसर्जयेत् ॥ [द्प् ९१.५५, हेम् ५४५]
१२.३३ एकान्ते सुमनस्केन विशुद्धेन दिने दिने ।
निष्पाद्य विधिनानेन स्वर्क्षे च शुभवासरे । [द्प् ९१.५६, हेम् ५४६]
स्वर्क्षे शुभनक्षत्रे ।
१२.३४ ततः पूर्वोक्तविधिना पुनः पूजां प्रकारयेत् ॥ [द्प् ९१.५७, हेम् ५४६]
१२.३५ तथा विद्याविमानं तु सप्तपञ्चत्रिभूमिकम् ।
विचित्रवस्त्रशोभाढ्यं शुभलक्षणलक्षितम् ॥ [द्प् ९१.५७–५८, हेम् ५४६]
१२.३६ कारयेत् सर्वतो भद्रं किङ्किणीरवकान्वितम् ।
दर्पणैर् अर्धचन्द्रैश् च घण्टाचामरमण्डितम् ॥ [द्प् ९१.५८–५९, हेम् ५४६]
१२.३७ तस्मिन् धूपं समुत्क्षिप्य सुगन्धं चन्दनागुरुम् ।
तुरुष्कं गुग्गुलुं वत्स शर्करामधुमिश्रितम् ॥ [द्प् ९१.५९–६०, हेम् ५४६]
१२.३८ पूजयेत् पूर्ववत् सर्वान् कन्यास्त्रीद्विजदुःखितान् ।
तथा तत् पुस्तकं वत्स विन्यसेद् विधिपूर्वकम् ॥ [द्प् ९१.६०–६१, हेम् ५४६]
१२.३९ एवं कृत्वा तथा चिन्त्याः प्रीयन्तां मातरो मम ।
यस्यैव सक्तं तच् छास्त्रं पुस्तकं परिकल्पयेत् ॥ [द्प् ९१.६१–६२, हेम् ५४६]
यस्यैव सक्तं यस्य देवस्य सक्तं संबन्धितम् । पुस्तकं परिकल्पयेत् पुस्तकं तं देवं परिकल्पयेद् भावयेद् इत्य् अर्थः ।
१२.४० तथा तपस्विनः पूज्याः सर्वशास्त्रार्थपारगाः ।
शिवव्रतचरा मुख्या विष्णुधर्मपरायणाः ॥ [द्प् ९१.६२–६३, हेम् ५४६]
१२.४१ महता जनसङ्घेन रथस्थं दृढवाहनैः ।
युवभिश् चापि तन् नेयं यस्य देवस्य चागमम् ।
सामान्यं शिवतीर्थेषु मातॄणां भवनेषु च ॥ [द्प् ९१.६३–६४, हेम् ५४६–४७]
१२.४२ तस्मिन् पूजां तथा कृत्वा देवदेवस्य शूलिनः ।
समर्चयेत् प्रणम्येशं प्रीयन्तां मातरो मम ॥ [द्प् ९१.६५, हेम् ५४७]
१२.४३ सदाध्ययनयुक्ताय विद्यादानरताय च ।
विद्यासंग्रहयुक्ताय कृतशास्त्रश्रमाय च ॥ [द्प् ९१.६६, हेम् ५४७]
१२.४४ तेनैव वर्तते यस् तु तस्य तं विनिवेदयेत् ।
जगद्धिताय वै शान्तिं संध्यायां वाचयेत् तथा ॥ [द्प् ९१.६७, हेम् ५४७]
१२.४५ तेन तोयेन दातारं मूर्ध्नि सम्यङ् निषेचयेत् ।
शैवं वदेत् ततः शब्दम् उच्चार्य जगतस् तथा ॥ [द्प् ९१.६८, हेम् ५४७]
१२.४६ एवंकृते महाशान्तिर् देशस्य नगरस्य च ।
जायते नात्र संदेहः सर्वबाधाः शमन्ति च ॥ [द्प् ९१.६९, हेम् ५४७]
१२.४७ अनेन विधिना यस् तु विद्यादानं प्रयच्छति ।
स भवेत् सर्वलोकानां दर्शनाद् अघनाशनः ।
मृतो ऽपि गच्छति स्थानं ब्रह्मविष्णुनमस्कृतम् ॥ [द्प् ९१.७०–७१, हेम् ५४७]
१२.४८ सप्त पूर्वान् परान् अन्यान् आत्मनः सप्त एव हि ।
उद्धृत्य पापकलिलाद् विष्णुलोके महीयते ॥ [द्प् ९१.७१–७२, हेम् ५४७]
१२.४९ यावन्ति पत्रसंस्थानि अक्षराणि भवन्ति च ।
तावत् स विष्णुलोकेषु क्रीडते विविधैः सुखैः ।
ततः क्षितिं समायातो देव्यां भक्तिपरो भवेत् ॥ [द्प् ९१.७२–७३, हेम् ५४७]
१२.५० समस्तभोगसंपन्नो विदुषां जायते कुले ।
विद्यादानप्रभावेन योगशास्त्रं ददेद् यदि ॥ [द्प् ९१.७४, हेम् ५४७]
१२.५१ आत्मवित्तानुरूपेण यः प्रयच्छति मानवः ।
असाध्यं फलम् आप्नोति आढ्यतुल्यं न संशयः ॥ [द्प् ९१.७५, हेम् ५५८]
१२.५२ स्त्री चैवानेन विधिना विद्यादानफलं लभेत् ।
भर्त्रा चैवाभ्यनुज्ञाता विधवा वा तम् उद्दिशेत् ॥ [द्प् ९१.७६, हेम् ५५८]
१२.५३ विद्यार्थिने सदा दद्याद् वस्त्रम् अभ्यङ्गभोजनम् ।
छत्त्रिकाम् उदकं दीपं यस्मात् तेन विना न हि ॥ [द्प् ९१.७७, हेम् ५५८]
१२.५४ लेखनीघटनं तीक्ष्णं मसीपात्रं तु लेखनीम् ।
दत्त्वा तु लभते वत्स विद्यादानम् अनुत्तमम् ॥ [द्प् ९१.७८, हेम् ५५८]
१२.५५ पुस्तकास्तरणं दत्त्वा सुप्रमाणं सुशोभनम् ।
विद्यादानम् अवाप्नोति सूत्रबन्धं तु बुद्धिमान् ॥ [द्प् ९१.७९, हेम् ५५८]
१२.५६ यन्त्रकक्षासनं चैव दण्डासनम् अथापि वा ।
विद्यावाचनशीलाय दत्तं भवति राज्यदम् ॥ [द्प् ९१.८०, हेम् ५५८]
१२.५७ अञ्जनं नेत्रपादानां दत्तं विद्यापरायणे ।
भूमिर् गृहं च क्षेत्रं च स्वर्गराज्यफलप्रदम् ॥ [द्प् ९१.८१, हेम् ५५८]
१२.५८ यस्य भूम्यां स्थितो नित्यं विद्यादानं प्रवर्तयेत् ।
तस्यापि भवति स्वर्गस् तत्प्रसादान् नराधिप ॥ [द्प् ९१.८२, हेम् ५५८]
१२.५९ तस्मात् सर्वप्रयत्नेन विद्या देया सदा नरैः ।
इहैव कीर्तिम् आप्नोति मृतो याति परां गतिम् ॥ [द्प् ९१.८३, हेम् ५६१]
१२.६० यस् तु देव्या गृहे नित्यं विद्यादानं प्रवर्तते ।
स भवेत् सर्वलोकानां पूज्यः पूज्यपदं व्रजेत् ॥ [द्प् ९१.९, हेम् ५६१]
महाभारते
१२.६१ यो ब्रूयाच् चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् ।
पृथिवीगोप्रदानाभ्यां स तुल्यं फलम् अश्नुते ॥ [म्भ् १३.६८.५, हेम् ५१७]
ब्राह्मी वेदार्थानुगता ।
१२.६२ अधीत्यापि हि यो वेदान् न्यायविद्भ्यः प्रयच्छति ।
गुरुकर्मप्रशंस्ता च सो ऽपि स्वर्गे महीयते ॥ [म्भ् १३.७४.१९, हेम् ५१७]
नन्दिपुराणे
१२.६३ शास्त्रे यस्माज् जगत् सर्वं संस्थितं च शुभाशुभम् ।
तस्माच् छास्त्रं प्रयत्नेन दातव्यं शुभकर्मणा ॥ [हेम् ५२६]
१२.६४ विद्याश् चतुर्दश प्रोक्ताः क्रमेण तु यथास्थितेः ।
षडङ्गाश् चतुरो वेदा धर्मशास्त्रं पुरातनम् ।
मीमांसा तर्कम् अपि च एता विद्याः प्रकीर्तिताः ॥ [हेम् ५१३–१४]
पुरातनं पुराणम् ।
१२.६५ आसाम् एवान्तरोत्पन्नाः परा विद्याः सहस्रशः ।
आयुर्वेदः सस्यवेदो बहुभेदः प्रकीर्तितः ॥ [हेम् ५१४]
सस्यवेदः कृषिशास्त्रम् ।
१२.६६ सर्वोत्तरा चात्मविद्या संसारभयनाशिनी ।
सर्वदुःखान्तकरणी सर्वपापविनाशिनी ॥ [हेम् ५१४]
१२.६७ एता विद्याः समाख्याता बहुभेदोपभेदजाः ।
कलाविद्यास् तथा चान्याः शिल्पविद्यास् तथा पराः ॥ [हेम् ५१४]
शिल्पविद्या प्रतिमादिनिर्माणशास्त्रम् ।
१२.६८ सर्वा एव महाभागाः सर्वाः सर्वार्थसाधकाः ।
स्थिताश् च तारतम्येन विशिष्टफलसाधिकाः ॥ [हेम् ५१४]
१२.६९ आत्मविद्या प्रधाना तु तथायुर्वेदसंज्ञिता ।
धर्माधर्मप्रणयिनी कलाः शिल्पार्थसाधिकाः ॥ [हेम् ५१४]
१२.७० सस्यविद्या च वितता एता विद्या महाफलाः ।
धर्माधर्मप्रणयिनी धर्माधर्मज्ञापिका ॥ [हेम् ५१४]
१२.७१ ययैको जीवति प्राणी कयापि किल कुत्रचित् ।
अप्रधानापि सा विद्या कुलानां शतम् उद्धरेत् ॥ [हेम् ५१४]
अप्रधानावान्तरविद्या ।
१२.७२ यापि साप्य् अवबोधत्वाद् विद्या वै यत्र कुत्रचित् ।
प्रयास्यत्य् अक्षयांल् लोकान् विधिना वाविधानतः ॥ [हेम् ५१५]
अवबोधत्वाद् अवबोधहेतुत्वात् । प्रयास्यतीत्य् अन्तर्भावितो ण्यर्थः । तेन प्रापयिष्यतीत्य् अर्थः ।
१२.७३ शिल्पविद्यां नरो दत्त्वा याति वै ब्रह्मणो ऽन्तिकम् ।
कलाविद्यां नरो दत्त्वा वैष्णवं लोकम् आप्नुयात् ।
कल्पम् एकं न संदेहः स्वर्गभोगसमन्वितः ॥ [हेम् ५१५]
१२.७४ सस्यविद्यां नरो दत्त्वा तृप्तिमान् कामसंयुतः ।
प्रजापतिपुरं गच्छेन् नरकात् तारयेत् पितॄन् ॥ [हेम् ५१५]
१२.७५ आयुर्वेदं नरो दत्त्वा लोकान् आप्नोति निर्मलान् ।
अश्विनोर् दिव्यकामाढ्यान् दिव्यं मन्वन्तरं नरः ॥ [हेम् ५१५]
१२.७६ तर्कविद्यां नरो दत्त्वा वारुणं लोकम् आश्नुते ।
मीमांसां तु बुधे दत्त्वा शास्त्रम् इन्द्रपुरे वसेत् ॥ [हेम् ५१५]
१२.७७ धर्मशास्त्रं नरो दत्त्वा स्वर्गलोके महीयते ।
दश मन्वन्तरान् मर्त्यस् तारयेन् नरकात् पितॄन् ॥ [हेम् ५१५, ५२७]
१२.७८ वेदविद्यां नरो दत्त्वा स्वर्गे कल्पत्रयं वसेत् ।
आत्मविद्यां तु यो दद्यात् तस्य संख्या न विद्यते ।
पुण्यस्य गदितुं सम्यग् अपि वर्षशतायुतैः ॥ [हेम् ५१५]
१२.७९ एतावच् छक्यते वक्तुं यत् कल्पायुतम् उत्तमम् ।
सत्यलोके वसेन् मर्त्यो यत्र ब्रह्मा वसेत् प्रभुः ॥ [हेम् ५१५]
१२.८० अप्य् एकं नीरुजीकृत्य जन्तुं यादृशतादृशम् ।
आयुर्वेदप्रभावेण किं न दत्तं भवेद् भुवि ॥ [हेम् ५१६]
१२.८१ सस्यवेदप्रसादेन संपन्ना यस्य शालयः ।
किं न नाम कृतं तस्य पुण्यं भवति शाश्वतम् ॥ [हेम् ५१६]
१२.८२ मीमांसाशास्त्रमाहात्म्याद् बुद्ध्वा वै वेदनिर्णयम् ।
किं न नाम शुभं दातुर् यज्ञकर्मप्रवर्तनात् ॥ [हेम् ५१६]
१२.८३ आत्मविद्या च पौराणी धर्मशास्त्रात्मिका च या ।
एता विद्यास् त्रयो मुख्याः सर्वदानक्रियाफलैः ॥ [हेम् ५१६, ५२७]
१२.८४ धर्मशास्त्रं नरो बुद्ध्वा यत् किंचिद् धर्मम् आश्रयेत् ।
तस्य धर्मं शतगुणं धर्मशास्त्रप्रदस्य च ॥ [हेम् ५१६, ५२७]
१२.८५ पुराणाख्यानविद्वांसः पितृदेवार्चने रताः ।
लोकान् सर्वकामपूर्णान् यान्ति सर्वशुभोदयात् ॥ [हेम् ५१६]
१२.८६ पुराणविद्यादातारस् त्व् अनन्तफलभागिनः ।
आत्मविद्याप्रदातारो नरा भाग्यसमाश्रयाः ॥ [हेम् ५१६]
१२.८७ न पुनर् योनिनिरयं प्रविशन्ति दुरत्ययम् ।
उत्तीर्णाः सर्वपापेभ्यः सपुत्रपशुबान्धवाः ।
मुच्यन्ते निरयैर् घोरैर् असंख्यैर् यातनात्मकैः ॥ [हेम् ५१६]
तथा
१२.८८ श्लोकं प्रहेलिकां गाथाम् अथान्यद् वा सुभाषितम् ।
दत्त्वा प्रीतिकरं याति लोकम् अप्सरसां शुभम् ॥ [हेम् ५१६]
तथा
१२.८९ यद् एतत् पुण्यम् आख्यातं विद्यादानस्य सांप्रतम् ॥ [हेम् ५४७]
१२.९० देशकालविधिश्रद्धापात्रयोगात् तथा बुधः ।
प्राप्नोति कोटिगुणितं फलं विद्याप्रदानतः ॥ [हेम् ५४८]
१२.९१ यस् तु पुण्यपरो मर्त्यो जिगीषुः कीर्तिसाधकः ।
स विधानेन वै दद्याद् विद्यां विविधकामदाम् ॥ [हेम् ५११]
१२.९२ एवं विद्याप्रदानं वै सर्वकामगुणाधिकम् ।
यतेत पात्रे संत्यक्तुं रहस्यं चैतद् उत्तमम् ॥ [हेम् ५११]
१२.९३ उद्दिश्य देवतां दत्तं प्रदानं यत्र कुत्रचित् ।
तस्यासमाप्तपुण्यस्य केन पुण्यं निरूप्यते ॥ [हेम् ५११]
१२.९४ गुरुम् आराध्य यत्नेन विद्याव्याख्यानपारगम् ।
शक्त्या भक्त्या प्रणामेन धनैः सर्वगुणैस् तथा ॥ [हेम् ५४८]
गुरुम् आराध्य विद्यादानं दातव्यम् इति तात्पर्यार्थः ।
१२.९५ यथा घटप्रतिछन्ना रत्नराजमहाप्रभाः ।
अकिंचित्करतां प्राप्तास् तद्वद् विद्याश् चतुर्दश ॥
१२.९६ विना तु गुरुणा सम्यग् बोधकेन विपश्चिता ।
नैव विद्याफलप्राप्तिर् गुरुं तस्मात् प्रपूजयेत् ॥
स्रग्वासोभूषणैर् नित्यं यथा देवं पिनाकिनम् ॥
१२.९७ यो गुरुं पूजयेन् नित्यं स्थितं वा प्रस्थितं च वा ।
तत्प्रसादेन यस्माच् च प्राप्नुते सर्वसंपदः ॥
१२.९८ तस्माद् गुरुं प्रयत्नेन महादेववद् अर्चयेत् ।
भक्त्या प्रीत्या प्रयत्नेन श्रद्धया च सदैव हि ॥
१२.९९ एष माता पिता ह्य् एष एष एव हि बान्धवः ।
एष चिन्तामणिः स्फीत एष एव च मे सुहृत् ॥
१२.१०० एवं श्रद्धापरो नित्यं गुरुम् आराधयेद् बुधः ।
अज्ञानदुःखशमनं नरकोद्धरणं तथा ॥
१२.१०१ कुतो माता पिता वापि बान्धवो वा महागुणः ।
तादृगभ्युदयं कुर्याद् यत् कुर्यात् तु गुरुर् महत् ॥
१२.१०२ को ऽन्यो ह्य् अज्ञानदुःखौघाद् उद्धरेद् भवबन्धनात् ।
सम्यक् शास्त्रार्थबोद्धारं महादेववद् अर्चयेत् ॥
१२.१०३ वस्तुमात्रेण यो ज्ञानं शास्त्ररूपम् उपन्यसेत् ।
स तावच् छिववत् पूज्यो भक्त्या भवभयापहः ॥
१२.१०४ यस् तु शास्त्रविवक्षाख्यं विशेषार्थं प्रबोधयेत् ।
पदवाक्यार्थबोधेन सम्यक् शास्त्रप्रवर्तनम् ॥
शास्त्रविवक्षाख्यो ऽर्थः शास्त्रतात्पर्यविषयः ।
१२.१०५ पूर्वोत्तरार्थसंगत्या समुदायार्थनिश्चयैः ।
स्वशास्त्राभिमता वाचः सम्यग् यो वेत्ति तत्त्वतः ॥
१२.१०६ स तु साक्षान् महाबुद्धिर् भगवान् एव शङ्करः ।
तं भजेत् सर्वभावेन भक्तियोगेन सर्वदा ॥
१२.१०७ आदित्येन विना यद्वज् जगद् अन्धं विभाव्यते ।
गुरुवाक्यैर् विना सर्वं तथैव हि तमोमयम् ॥
१२.१०८ तस्माद् यथा महादेवं तद्वद् एव गुरुं सदा ।
यः पश्यति स पुरुषः सर्वधर्मान् अवाप्नुयात् ॥
१२.१०९ विद्या च मुख्यं दानानां गुरुतो ऽस्य विधिं बुधः ।
श्रुत्वा विधेयं विधिवच् छ्रद्धया भावितात्मना ॥ [हेम् ५४८]
१२.११० सत्पात्रेभ्यस् तु तां दद्याद् विशेषाद् गुणशालिषु ।
उपयोग्यं तु यद् यस्य तत् तस्य प्रतिपादयेत् ॥ [हेम् ५४८]
१२.१११ सुरालयेषु सिद्धेषु यथा विभवविस्तरैः ।
दातव्यास् तु प्रयत्नेन महापुण्यफलार्थिभिः ॥ [हेम् ५४८]
१२.११२ शुभे नक्षत्रदिवसे शुभे चापि दिनग्रहे ।
लेखयेत् पूज्य देवेशान् रुद्रब्रह्मजनार्दनान् ।
पूर्वदिग्वदनो भूत्वा लिपिज्ञो लेखकोत्तमः ॥ [हेम् ५४८]
१२.११३ निरोधो हस्तबाह्वोश् च मसीपात्रावधारणा ।
एकान्तस्योपकरणं यस्यासौ लेखकोत्तमः ॥ [हेम् ५४८]
१२.११४ विद्याधारं प्रकुर्वीत हेमरूप्यमयं शुभम् ।
नागदन्तमयं वापि शुभदारुमयं तथा ॥ [हेम् ५४८]
१२.११५ मनोज्ञम् अगुरुं रम्यं श्लक्ष्णं चन्द्रप्रयोगजम् ।
संकोचयन्त्रसंयुक्तं विकाशेन समन्वितम् ॥ [हेम् ५४८]
नागदन्तमयं हस्तिदन्तनिर्मितम् ।
१२.११६ तत्र विद्यां विनिहितां कुर्यात् पुस्तकसंस्थिताम् ॥ [हेम् ५४८]
१२.११७ कुर्याच् च पुस्तकं तस्य लिखेद् ध्य् अङ्गुलविस्तृतम् ।
सूक्ष्माक्षरं च रम्यं च कृष्णं मेचकितं तु वा ॥ [हेम् ५४८]
१२.११८ अथ वा रक्तपद्माभं मेचकालंकृतं शुभम् ।
कर्पाससूत्रग्रथितं नानागन्धाधिवासितम् ॥ [हेम् ५४९]
मेचकालंकृतं मयूरार्धचन्द्रालंकृतम् ।
१२.११९ मसीभिश् चाप्य् अनेकाभिश् चतुर्वर्णाभिर् एव च ।
दृढस्तम्भनयुक्ताभिर् मेचकैश् चाप्य् अनेकशः ॥ [हेम् ५४९]
स्तम्भनं मसीस्थैर्यहेतुः ।
१२.१२० लेखनीभिश् च दिव्याभिर् हेमचित्राभिर् एव च ।
बहिश् च वर्णं कुर्वीत पुस्तकस्य मनोरमम् ॥ [हेम् ५४९]
१२.१२१ पीतरक्तकषायैर् वा सुनिबद्धं सुचित्रितम् ।
रम्यं लघु सुविस्तीर्णं निर्ग्रन्थि ग्रन्थिसंयुतम् ॥ [हेम् ५४९]
१२.१२२ विद्याधरैस् ततो यन्त्रसंस्थितं पूर्वपुस्तकम् ॥ [हेम् ५४९]
इपूर्वपुस्तकम् आदर्शपुस्तकम् ।
१२.१२३ गृहे मनोरमे गुप्ते सुधालेपितभित्तिके ।
नानारागाङ्गनोपेते सुरबिम्बमनोरमे ।
धूपामोदमनोज्ञे तु वितानकपरिष्कृते ॥ [हेम् ५४९]
१२.१२४ लेखको बुद्धिमान् स्नातः शुक्लपुष्पाम्बरोज्ज्वलः ।
सुवर्णमुक्ताकेयूरो मुद्रिकाशोभिताङ्गुलिः ॥ [हेम् ५४९]
१२.१२५ सुसमिद्धे मसीभाङ्डे लेखनीशास्त्रसंयुते ।
प्रारभेत् तूर्यघोषेण पूज्य देवान् पितॄंस् तथा ॥ [हेम् ५४९]
१२.१२६ ब्राह्मणान् स्वस्ति वाच्यादौ शास्त्रं संचारयेद् बुधः ।
श्लोकपञ्चकम् आदौ तु दशकं वापि लेखयेत् ॥ [हेम् ५४९]
१२.१२७ ततो नक्षत्रयोगेन द्वितीये ऽहनि तल् लिखेत् ।
तादृशेनैव विधिना पुण्याहैः शुभसंयुतैः ॥ [हेम् ५४९]
१२.१२८ ततः समाप्ते शास्त्रे तु पुनः पुण्याहसंयुतम् ।
कुर्यात् तद् अहर् अग्र्यैश् च पानभोजनवस्तुभिः ॥ [हेम् ५४९–५०]
१२.१२९ उभयं वापि तल् लेख्यं समीकुर्याच् च वाचयेत् ।
ऊनाधिकैश् च संयुक्तं वर्णैर् मात्रादिभिस् तथा ॥ [हेम् ५५०]
१२.१३० अनुस्वारविसर्गैश् च युक्तायुक्तैर् विचारयेत् ।
शास्त्रस्य प्रक्रियायुक्त्या पुनर् उक्त्या च शोधयेत् ॥ [हेम् ५५०]
१२.१३१ ऊनार्थोक्त्या प्रसङ्गस्य शब्दयोग्यतया तथा ।
सूत्रान्तरार्थबोधेन प्रश्नोत्तरविवेकतः ॥ [हेम् ५५०]
१२.१३२ असूत्रत्वाच् च शास्त्रस्य समुदायार्थबोधतः ।
प्रक्रान्तसूचनोद्देशैर् गदितैश् चोदितैर् अपि ॥ [हेम् ५५०]
१२.१३३ बह्वर्थानां च शब्दानां योग्यासन्नं परीक्ष्य तु ।
सर्वशास्त्रावबोधेन कारकाद्यैर् अविप्लुतैः ॥ [हेम् ५५०]
१२.१३४ क्वचिच् च शब्दवच् चैव प्रकृतार्थं निरूपयेत् ।
छन्दसा वापि बुध्येत वृत्तसंयोगम् ईप्सितम् ॥ [हेम् ५५०]
१२.१३५ एवं विद्यां तु मेधावी शास्त्रं सत्कृत्य कृत्स्नशः ।
प्रदद्याद् विभवैर् दिव्यैः सुरायतनवेश्मसु ॥ [हेम् ५५०]
१२.१३६ व्यक्तदेशलिपिन्यासं मुख्यं नागरम् उच्यते ॥ [हेम् ५५०]
व्यक्तदेशलिपिन्यासं व्यक्ता तद्देशानुसारिणी लिपिर् यत्र न्यासे ऽक्षरनिर्माणे स तथा ।
१२.१३७ आरोप्य याने रत्नाढ्ये शुभवस्त्रपरिष्कृते ।
घण्टाचामरशोभाढ्ये रत्नदण्डातपत्रिणि ॥ [हेम् ५५०]
१२.१३८ गजवाजिरथस्थं वा महाशोभासमन्वितम् ।
पुरतो नृत्यगीतेन नानावाद्यरवेण च ।
मङ्गलैर् वेदघोषैश् च देवाय विनिवेदयेत् ॥ [हेम् ५५०–५१]
१२.१३९ नानापुष्पोपहारैश् च संपूज्य त्रिदिवौकसः ।
दत्त्वा च पुस्तकं तत्र पितॄणां धर्मम् उद्दिशेत् ।
बान्धवानां च हृद्यानाम् अनन्तं फलम् इच्छताम् ॥ [हेम् ५५१]
१२.१४० ततो दत्त्वा विधानेन तां विद्यां शिवमन्दिरे ।
ततश् च दक्षयेद् विप्रान् रुद्रभक्तांश् च मानवान् ॥ [हेम् ५५१]
१२.१४१ यथाशक्ति च कर्तव्या उत्सवाः स्वेषु वेश्मसु ।
राज्ञा तु नगरे कार्यो ग्रामे ग्रामाधिपैस् तथा ।
गृहे गृहस्थैः कर्तव्य उत्सवो बन्धुभिः सह ॥ [हेम् ५५१]
१२.१४२ स्नातैः शुक्लैः समालब्धैः सुखिभिः सुसमाहितैः ।
प्रीतियुक्तैस् ततः श्राव्यं शास्त्रं श्रद्धासमन्वितैः ॥ [हेम् ५५१]
१२.१४३ वाचकं दक्षयेत् तत्र यथाविभववित्ततः ।
गुरुं च भक्त्या मतिमान् यथाशक्तिर् अमायया ।
ततः पुष्पैश् च धूपैश् च श्रावकान् संप्रपूजयेत् ॥ [हेम् ५५१]
१२.१४४ वाचको ब्राह्मणः प्राज्ञः श्रुतशास्त्रो महामनाः ।
अभ्यस्ताक्षरविन्यासो वृत्तशास्त्रे विशारदः ॥ [हेम् ५५१]
१२.१४५ शब्दार्थवित् प्रगल्भश् च विनीतो मेधया युतः ।
गीतज्ञो वाक्पटुः श्राव्यस्वरो ऽनाविलभाषकः ॥ [हेम् ५५१]
१२.१४६ गुरुश् च धर्मवान् प्राज्ञः श्रुतशास्त्रो विमत्सरः ।
विप्रः प्रकृतिसंशुद्धः शुचिः स्मितमुखः सदा ॥ [हेम् ५५१]
१२.१४७ सुवृत्तो वृत्तशास्त्रज्ञः शब्दशास्त्रविशारदः ।
अभ्यस्तशास्त्रसंदोहः प्रकृतार्थप्रवर्तकः॥ [हेम् ५५१–५२]
वृत्तशास्त्रज्ञश् छन्दःशास्त्रवित् । प्रकृतार्थप्रवर्तकः प्रस्तुतार्थाभिधायी ।
१२.१४८ नाप्रक्रमकृतव्याख्यः पौर्वापर्यनिविष्टधीः ।
अध्यायसर्गविछेदविभक्तार्थप्रयोजकः ।
शास्त्रार्थपदविद् धीमान् पदश्लोकार्थबोधकः ॥ [हेम् ५५२]
१२.१४९ समुदायप्रकीर्णार्थमुख्यशाख्यनुषङ्गजम् ।
अनक्षरं च हृद्वस्तु व्यपदिश्यार्थबोधकः ॥ [हेम् ५५२]
१२.१५० प्रक्रान्तादिस्वशास्त्रार्थविभागपरिनिष्ठितः ।
कष्टाभिधानगूढार्थभङ्गेन तु विरोधकः ।
श्रद्धेयवाग् अनालस्यः श्रोतृचित्तावबोधकः ॥ [हेम् ५५२]
१२.१५१ संस्कारैः संस्कृतां विद्यां प्राकृतां प्राकृतैर् अपि ।
आलापमात्रैर् व्याख्यानैर् यश् च शिष्यान् प्रबोधयेत् ॥ [हेम् ५५२]
१२.१५२ देशाभिधानविन्यासैर् बोधयेच् चापि यो गुरुः ।
स गुरुः स पिता माता स तु चिन्तामणिः स्मृतः ॥ [हेम् ५५२]
१२.१५३ यः शास्त्रोपायम् आख्याय नरकेभ्यः समुद्धरेत् ।
कस् तेन सदृशो लोके बान्धवो भुवि विद्यते ॥ [हेम् ५५२]
१२.१५४ यस्य वाग्रश्मिवृन्देन हृदयान् नश्यते तमः ।
महासंसारजननं भवेत् सो ऽर्को महाद्युतिः ॥ [हेम् ५५२]
१२.१५५ नोद्विजेत् तस्य पारुष्ये न च वैलोम्यम् इच्छतः ।
न चास्य व्याधिदुःखेषु मलानां चाप्रियो भवेत् ॥ [हेम् ५५२]
१२.१५६ प्रसादयेत् तु कुपितं दुःखमग्नं समुद्धरेत् ।
रोगेभ्यश् चापि यत्नेन परित्यागेन चोद्धरेत् ॥ [हेम् ५५२–५३]
१२.१५७ एवं व्याख्यां शुभां श्रुत्वा गुरुवक्त्रान् नरोत्तमः ।
विधेयं चिन्तयेद् यत्नात् परत्र हितकारणात् ॥ [हेम् ५५३]
१२.१५८ शृणुयाच् छ्रद्धया युक्तः प्रणतो ऽभिमुखे गुरोः ।
अनन्यसत्कथाक्षेपी निष्प्रमादो ह्य् अतन्द्रितः ॥ [हेम् ५५३]
१२.१५९ मृदुं च संशये जाते पृच्छेद् वाक्यम् उदीरयेत् ।
गुरुणा चोक्तम् एकान्ते श्रद्धावान् वाक्यम् आश्रयेत् ।
न पुरो गुरुवाक्यानि गुरूक्तं परिपालयेत् ॥ [हेम् ५५३]
१२.१६० भिषजां वचनं कार्यं गुरूणां च महात्मनाम् ।
न तत्कृतं स्वयं कुर्यात् ते समिद्धानलत्विषः ॥ [हेम् ५५३]
तत्कृतं गुरुचेष्टितम् ।
१२.१६१ अप्रस्तुतकथाक्षेपं यः कुर्याद् अग्रतो गुरोः ।
स ब्रह्महत्याम् आप्नोति गुरुवाक्येष्व् अनिश्चयः ॥ [हेम् ५५३]
गुरुवाक्येष्व् अनिश्चयः गुरुवाक्येषु संशयवान् ।
१२.१६२ यस् तु श्रुत्वान्यतः शास्त्रं संस्कारं वाप्य वाशुभम् ।
अन्यस्य जनयेत् कीर्तिं स गुरोर् ब्रह्महा भवेत् ॥ [हेम् ५५३]
१२.१६३ विस्मारयेच् च वा मोहाद् यो ऽपि शास्त्रार्थम् उत्तमम् ।
स याति नरकं घोरम् अक्षयं भीमदर्शनम् ॥ [हेम् ५५३]
१२.१६४ यस् तु बुद्ध्वा नरः शास्त्रं किंचित् कुर्याच् छुभाशुभम् ।
भवेच् छतगुणं तद् वै विज्ञानेभ्यो रतस्य च ॥ [हेम् ५५३]
१२.१६५ एवं विधानतो वाच्यं वाचकेन विपश्चिता ।
तपःसमात्मकं सर्वं स्वर्गादिफलसाधकम् ॥ [हेम् ५५३]
१२.१६६ शनैर् विबोध्य वै वाच्यम् अध्यात्मादि च यद् भवेत् ।
क्रुद्धोक्तियुद्धसंक्षोभं धारावर्तेन वाचयेत् ॥ [हेम् ५५३]
धारावर्तेन वेगेन ।
१२.१६७ सरागं ललितैर् वाक्यैर् वाचयेद् वृद्धसंगमे ।
नानावृत्तानुरूपेण लालित्येन च वाचयेत् ॥ [हेम् ५५४]
१२.१६८ सर्गाध्यायसमाप्तौ च कथापर्यन्त एव वा ।
प्रशस्तशब्दसंयोगे कुर्याद् इति विरामणम् ॥ [हेम् ५५४]
१२.१६९ समाप्ते वाचने ऽभीष्टं स्तुयाद् देवं विचक्षणः ।
अवधार्य जगच्छान्तिम् अन्ते शान्त्युदकं सृजेत् ॥ [हेम् ५५४]
१२.१७० सुश्रुतं सुश्रुतं ब्रूयाद् अस्तु व्याख्यात्र नित्यदा ।
लोकः प्रवर्ततां धर्मे राजा चास्तु सदा जयी ॥ [हेम् ५५४]
१२.१७१ धर्मवान् धनसंपन्नो गुरुश् चास्तु निरामयः ।
इति प्रोच्य यथायातं गन्तव्यं च विभावितैः ॥ [हेम् ५५४]
१२.१७२ शिष्यैः परस्परं शास्त्रं चिन्तनीयं विचक्षणैः ।
कथावस्तुप्रसङ्गेन नानाव्याख्यानभावनैः ॥ [हेम् ५५४]
१२.१७३ युक्तिभिश् च स्मरेद् व्याख्यां चिह्नैश् चापि स्वयं कृतैः ।
एवं दिने दिने व्याख्यां शृणुयान् नियतो नरः ॥ [हेम् ५५४]
१२.१७४ समग्रशास्त्रश्रवणेन पुंसः श्रद्धाप्रधानं भवतीति चेतः ।
रागं च शास्त्रात्मकम् अभ्युपैति दोषाश् च नाशं निखिलेन यान्ति ॥ [हेम् ५५४]
१२.१७५ यथा कथंचिच् छृणुयान् न शास्त्रम् अश्रद्धया वोज्झितधर्मसङ्गः ॥
[हेम् ५५४]
१२.१७६ ततः समाप्ताव् अथ शास्त्रसङ्गे कथोदये चापि विनीतबुद्धिः ।
शक्त्यार्चयेद् वाचकम् अग्र्यम् एव गुरुं च भक्त्या पितृवत् त्रिकार्थी ॥
[हेम् ५५४–५५]
१२.१७७ एष विद्याप्रदानस्य प्रधानो विधिर् उच्यते ।
अनेनैव विधानेन ब्राह्मणे शीलशालिनि ॥ [हेम् ५५५]
१२.१७८ प्रबोधयति धीयुक्ते युक्तिज्ञे वेदवादिनि ।
विन्यसेत शुभं शास्त्रं महापुण्यजिगीषया ॥ [हेम् ५५५]
१२.१७९ धनैर् वा विपुलैर् दक्षेद् गुरुं कृत्वा सुतर्पितम् ।
अध्यापयेच् छुभान् शिष्यान् अभिजातान् सुमेधसः ॥ [हेम् ५५५]
१२.१८० एवं विद्याप्रदानं तु सर्वदानोत्तमं स्मृतम् ।
सर्वदा सर्ववर्णानां नरकप्लवम् उत्तमम् ॥ [हेम् ५५५]
१२.१८१ अनेन विधिना दत्त्वा विद्यां पुण्यपरो नरः ।
यत् फलं त्व् अश्वमेधानां शतस्य सुकृतस्य तु ॥ [हेम् ५५५]
१२.१८२ राजसूयसहस्रस्य सम्यग् इष्टस्य यत् फलम् ।
तत् फलं लभते मर्त्यो विद्यादानेन भाग्यवान् ॥ [हेम् ५५५]
१२.१८३ सर्वसस्यसुसंपूर्णां सर्वरत्नोपशोभिताम् ।
ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे चन्द्रसूर्ययोः ।
यत् फलं लभते मर्त्यो विद्यादानेन तत् फलम् ॥ [हेम् ५५५]
१२.१८४ यावद् अक्षरसंख्यानं विद्यते शास्त्रसंश्रये ।
तावद् वर्षसहस्राणि स्वर्गे विद्याप्रदो भवेत् ॥ [हेम् ५५५]
१२.१८५ यावन्त्यः पङ्क्तयस् तत्र पुस्तके ऽक्षरसंश्रिताः ।
तावतो नरकात् कुल्यान् उद्धृत्य नयते दिवि ॥ [हेम् ५५५]
१२.१८६ यावच् च पत्रसंख्यानं पुस्तके विद्यते शुभे ।
तावद् युगसहस्राणि सकुलो मोदते दिवि ॥ [हेम् ५५५]
१२.१८७ यावच् च पातकं तेन कृतं जन्मशतैर् अपि ।
तत् सर्वं नश्यते तस्य विद्यादानेन देहिनः ।
स जातो मनुजो लोके स धन्यः स च कीर्तिमान् ॥ [हेम् ५५६]
१२.१८८ यो विद्यादानसंपर्कप्रसक्तः पुरुषोत्तमः ।
यथाविभवतो दद्याद् विद्यां शाठ्यविवर्जितः ।
याति पुण्यमयान् लोकान् अक्षयान् भोगभूषितान् ॥ [हेम् ५५६]
१२.१८९ ये ऽपि पत्त्रमषीपात्रलेखनीसंपुटादिकम् ।
दद्युः शास्त्राभियुक्ताय ते ऽपि विद्याप्रदायिनाम् ।
यान्ति लोकान् शुभान् मर्त्याः पुण्यभाजो महाधियः ॥ [हेम् ५५९]
१२.१९० इति विद्याप्रदानस्य महाभाग्यं प्रकीर्तितम् ।
श्रुत्वैतत् पातकैर् मुच्येन् नियतं सप्तजन्मजैः ॥ [हेम् ५६१]
मत्स्यपुराणे
१२.१९१ पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् ।
अनन्तरं च वक्त्रेभ्यो वेदास् तस्य विनिर्गताः ॥ [म्प् ५३.३, हेम् ५३०]
१२.१९२ पुराणम् एकम् एवासीत् तस्मिन् कल्पान्तरे ऽनघ ।
त्रिवर्गसाधनं पुण्यं शतकोटिसुविस्तरम् ॥ [म्प् ५३.४, हेम् ५३०]
तथा
१२.१९३ तदर्थो ऽत्र चतुर्लक्षे संक्षेपेण प्रदर्शितः ।
पुराणानि दशाष्टौ च सांप्रतं तद् इहोच्यते ।
नामतस् तानि वक्ष्यामि शृणुध्वम् ऋषिसत्तमाः ॥ [म्प् ५३.११–१२, हेम् ५३०, ५३५]
१२.१९४ ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये ।
ब्राह्मं तद् दशसाहस्रं पुराणं परिकीर्त्यते ॥ [म्प् ५३.१२–१३, हेम् ५३५]
१२.१९५ लिखित्वा तच् च यो दद्याज् जलधेनुसमन्वितम् ।
वैशाखपौर्णमास्यां स ब्रह्मलोके महीयते ॥ [म्प् ५३.१३, हेम् ५३५]
१२.१९६ एतद् एव यदा पद्मम् अभूद् धैरण्मयं जगत् ।
तत्कथान्ताश्रयं तद्वत् पाद्मम् इत्य् उच्यते बुधैः ।
पाद्मं तत् पञ्चपञ्चाशत् सहस्राणीह पठ्यते ॥ [म्प् ५३.१४, हेम् ५३५]
१२.१९७ तत् पुराणं च यो दद्यात् सुवर्णकमलान्वितम् ।
ज्यैष्ठे मासि तिलैर् युक्तं सो ऽश्वमेधफलं लभेत् ॥ [म्प् ५३.१५, हेम् ५३५]
१२.१९८ वाराहकल्पवृत्तान्तम् अधिकृत्य पराशरः ।
यान् प्राह धर्मान् अखिलान् वैष्णवं परमं विदुः ॥ [म्प् ५३.१६, हेम् ५३५]
१२.१९९ तद् आषाढे तु यो दद्याद् घृतधेनुसमन्वितम् ।
पौर्णमास्यां विपूतात्मा स पदं याति वारुणम् ।
त्रयोविंशतिसाहस्रं तत् पुराणं विदुर् बुधाः ॥ [म्प् ५३.१७, हेम् ५३५]
१२.२०० श्वेतकल्पप्रसङ्गेन धर्मान् वायुर् इहाब्रवीत् ।
यत्र तद् वायवीयं स्याद् रुद्रमाहात्म्यसंयुतम् ।
चतुर्विंशत् सहस्राणि पुराणं तद् इहोच्यते ॥ [म्प् ५३.१८, हेम् ५३५]
१२.२०१ श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम् ।
यो दद्याद् विधिसंयुक्तं ब्राह्मणाय कुटुम्बिने ।
शिवलोके स पूतात्मा कल्पम् एकं वसेन् नरः ॥ [म्प् ५३.१९, हेम् ५३५]
१२.२०२ यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः ।
वृत्रासुरवधोपेतं तद् भागवतम् उच्यते ॥ [म्प् ५३.२०, हेम् ५३५–३६]
१२.२०३ लिखित्वा तच् च यो दद्याद् धेमसिंहसमन्वितम् ।
पौर्णमास्यां प्रौष्ठपद्यां स याति परमं पदम् ।
अष्टादशसहस्राणि पुराणं तत् प्रकीर्तितम् ॥ [म्प् ५३.२२, हेम् ५३६]
१२.२०४ यत्राह नारदो धर्मान् बृहत्कल्पाश्रयांस् त्व् इह ।
पञ्चविंशतिसाहस्रं नारदीयं तद् उच्यते ॥ [म्प् ५३.२३, हेम् ५३६]
१२.२०५ तद् इषे पञ्चदश्यां तु यो दद्याद् धेनुसंयुतम् ।
परमां सिद्धिम् आप्नोति पुनरावृत्तिदुर्लभाम् ॥ [म्प् ५३.२४, हेम् ५३६]
इषे आश्वयुजे ।
१२.२०६ यत्राधिकृत्य शकुनीन् धर्माधर्मविचारणम् ।
पुराणं नवसाहस्रं मार्कण्डेयम् इहोच्यते ॥ [म्प् ५३.२५–२६, हेम् ५३६]
१२.२०७ परिलेख्य च यो दद्यात् सौवर्णकरिसंयुतम् ।
कार्त्तिक्यां पुण्डरीकस्य यज्ञस्य फलभाग् भवेत् ॥ [म्प् ५३.२७, हेम् ५३६]
१२.२०८ यत् तद् ईशानकल्पस्य वृत्तान्तम् अधिकृत्य च ।
वसिष्ठायाग्निना प्रोक्तम् आग्नेयं तत् प्रचक्षते ॥ [म्प् ५३.२८, हेम् ५३६]
१२.२०९ लेखयित्वा तु यो दद्याद् धेमपद्मसमन्वितम् ।
मार्गशीर्ष्यां विधानेन तिलधेनुयुतं तथा ।
तच् च षोडशसाहस्रं सर्वक्रतुफलप्रदम् ॥ [म्प् ५३.२९–३०, हेम् ५३६]
१२.२१० यत्राधिकृत्य माहात्म्यम् आदित्यस्य चतुर्मुखः ।
अघोरकल्पवृत्तान्तप्रसङ्गेन जगत्स्थितिम् ।
मनवे कथयामास भूतग्रामस्य लक्षणम् ॥ [म्प् ५३.३१, हेम् ५३६–३७]
१२.२११ चतुर्दशसहस्राणि तथा पञ्चशतानि च ।
भविष्यचरितप्रायं भविष्यं तद् इहोच्यते ॥ [म्प् ५३.३२, हेम् ५३७]
१२.२१२ तत् पौषे मासि यो दद्यात् पौर्णमास्यां विशेषतः ।
भविष्यचरितप्रायं आदित्यचरितं बहु ।
गुडकुम्भसमायुक्तम् अग्निष्टोमफलं लभेत् ॥ [म्प् ५३.३३, हेम् ५३७]
१२.२१३ रथन्तरस्य कल्पस्य वृत्तान्तम् अधिकृत्य च ।
सावर्णिर् नारदायाह कृष्णमाहात्म्यम् उत्तमम् ॥ [म्प् ५३.३४, हेम् ५३७]
१२.२१४ यत्र ब्रह्मवराहस्य चरितं वर्ण्यते मुहुः ।
तद् अष्टादशसाहस्रं ब्रह्मवैवर्तम् उच्यते ॥ [म्प् ५३.३५, हेम् ५३७]
१२.२१५ पुराणं ब्रह्मवैवर्तं यो दद्यान् माघमासि च ।
पौर्णमास्यां सभवनं ब्रह्मलोके महीयते ॥ [म्प् ५३.३६, हेम् ५३७]
भवनं गृहम् ।
१२.२१६ यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः ।
धर्मार्थकाममोक्षार्थम् आग्नेयम् अधिकृत्य च ।
कल्पं तल् लिङ्गम् इत्य् उक्तं पुराणं ब्रह्मणा स्वयम् ॥ [म्प् ५३.३७–३८, हेम् ५३७]
१२.२१७ तद् एकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति ।
तिलधेनुसमायुक्तं स याति शिवसात्मताम् ॥ [म्प् ५३.३८, हेम् ५३७]
१२.२१८ महावराहस्य पुनर् माहात्म्यम् अधिकृत्य च ।
विष्णुनाभिहितं क्षोण्यै तद् वाराहम् इहोच्यते ॥ [म्प् ५३.३९, हेम् ५३७]
१२.२१९ मानसस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः ।
चतुर्विंशतिसाहस्रं तत् पुराणम् इहोच्यते ॥ [म्प् ५३.४०, हेम् ५३७]
१२.२२० काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम् ।
पौर्णमास्यां च यो दद्याद् ब्राह्मणाय कुटुम्बिने ।
वराहस्य प्रसादेन पदम् आप्नोति वैष्णवम् ॥ [म्प् ५३.४१, हेम् ५३७–३८]
१२.२२१ यत्र माहेश्वरं धर्मम् अधिकृत्य च षण्मुखः ।
कल्पे तात्पुरुषे वृत्तचरितैर् उपशोभितम् ॥ [म्प् ५३.४२, हेम् ५३८]
१२.२२२ स्कान्दं नाम पुराणं तद् एकाशीतिर् निगद्यते ।
सहस्राणि शतं चैकम् इति यत्नेन पठ्यते ॥ [म्प् ५३.४३, हेम् ५३८]
१२.२२३ परिलेख्य च यो दद्याद् धेमशूलसमन्वितम् ।
शैवं पदम् अवाप्नोति मीने चोपगते रवौ ॥ [म्प् ५३.४४, हेम् ५३८]
तात्पुरुषे तत्पुरुषकल्पे ।
१२.२२४ त्रिविक्रमस्य माहात्म्यम् अधिकृत्य चतुर्मुखः ।
त्रिवर्गम् अभ्यधाद् यत्र वामनं परिकीर्त्यते ॥ [म्प् ५३.४५, हेम् ५३८]
१२.२२५ पुराणं दशसाहस्रं ख्यातं कल्पानुगं शिवम् ।
यः शरद्विषुवे दद्याद् वैष्णवं यात्य् असौ पदम् ॥ [म्प् ५३.४६, हेम् ५३८]
१२.२२६ यत्र धर्मार्थकामानां मोक्षस्य च रसातले ।
माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ॥ [म्प् ५३.४७, हेम् ५३८]
१२.२२७ इन्द्रद्युम्नप्रसङ्गेन ऋषीणां शक्रसंनिधौ ।
सप्तदश सहस्राणि लक्ष्मीकल्पानुषङ्गिकम् ॥ [म्प् ५३.४८, हेम् ५३८]
१२.२२८ यो दद्याद् अयने कौर्मं हेमकूर्मसमन्वितम् ।
गोसहस्रप्रदानस्य स फलं प्राप्नुयान् नरः ॥ [म्प् ५३.४९, हेम् ५३८]
१२.२२९ श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः ।
मत्स्यरूपी च मनवे नरसिंहोपवर्णनम् ॥ [म्प् ५३.५०, हेम् ५३८]
१२.२३० अधिकृत्याब्रवीत् सप्तकल्पवृत्तमुनिव्रतम् ।
तन् मात्स्यम् इति जानीध्वं सहस्राणि त्रयोदश ॥ [म्प् ५३.५१, हेम् ५३८]
१२.२३१ विषुवे हेममत्स्येन धेन्वा चैव समन्वितम् ।
यो दद्यात् पृथिवी तेन दत्ता भवति वाखिला ॥ [म्प् ५३.५२, हेम् ५३८–३९]
१२.२३२ यदा च गारुडे कल्पे विश्वाण्डे गरुडो ऽभवत् ।
अधिकृत्याब्रवीत् कृष्णो गारुडं तद् इहोच्यते ।
तद् अष्टादश चैकं च सहस्राणीह पठ्यते ॥ [म्प् ५३.५३–५४, हेम् ५३९]
१२.२३३ सौवर्णहंससंयुक्तं यो ददाति पुमान् इह ।
स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम् ॥ [म्प् ५३.५४, हेम् ५३९]
१२.२३४ ब्रह्मा ब्रह्माण्डमाहात्म्यम् अधिकृत्याब्रवीत् पुनः ।
तच् च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् ॥ [म्प् ५३.५५, हेम् ५३९]
१२.२३५ भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः ।
तद् ब्रह्माण्डपुराणं तु ब्रह्मणा समुदाहृतम् ॥ [म्प् ५३.५६, हेम् ५३९]
१२.२३६ यो दद्यात् तद् व्यतीपाते पत्रोर्णयुगसंयुतम् ।
राजसूयसहस्रस्य फलम् आप्नोति मानवः ॥ [म्प् ५३.५७, हेम् ५३९]
इति विद्यादानम् ॥