अथ सुवर्णदानम्
तत्र बृहस्पतिः
११.१ गृहादिके पुण्यफलं भवेन् मूल्यानुसारतः ।
तस्मात् सर्वप्रदानानां हिरण्यम् अधिकं स्मृतम् ॥ [हेम् ५६७]
११.२ यथा संतानकादीनां हेम्ना संपद्यते क्रिया ।
न तथा गृहदानेन हिरण्यम् अधिकं ततः ॥ [हेम् ५६७]
नन्दिपुराणे
११.३ कृष्णलाः पञ्च माषस् तु माषैः षोडशभिः स्मृतम् ।
सुवर्णम् एकं तद्दानाद् दाता स्वर्गम् अवाप्नुयात् ॥ [हेम् ५७१]
तथा
११.४ तस्मात् सर्वात्मना पात्रे दद्यात् कनकदक्षिणाम् ।
अपात्रे पातयेद् दत्तं सुवर्णं नरकार्णवे ॥ [हेम् ५७१]
११.५ प्रमादतस् तु तन् नष्टं तावन्मात्रं नियोजयेत् ।
अन्यथा स्तेययुक्तः स्याद् धेम्न्य् अदत्ते विनाशिनि ॥ [हेम् ५७१]
११.६ दानार्थम् एव तत् सृष्टं ह्य् अक्लिष्टं स्वर्गसाधनम् ।
दानात् परं सुवर्णस्य विधिर् एव न विद्यते ॥ [हेम् ५७१]
सुवर्णम् इत्य् अनुवृत्तौ कालिकापुराणे
११.७ पूतम् एतत् परं पुण्यं सुराः कार्येषु नित्यशः ।
धारयन्ति यतः सर्वे अमलार्थं मलोज्झितम् ॥ [हेम् ५६८]
११.८ अतः पापानि सर्वाणि पात्रेभ्यो विधिपूर्वकम् ।
दत्तं पुनाति काले च देशे च हरसंनिधौ ॥ [हेम् ५६८]
११.९ श्रूयतां येन रामेण विधिना प्राक् तपोधन ।
प्रदत्तं काञ्चनं पूर्णं रैचीक्येन महात्मना ॥ [हेम् ५६८]
११.१० सर्वहेममयं यज्ञम् इष्ट्वा विप्राः प्रतर्पिताः ।
हैमैर् आभरणैः पूज्य दत्तं पलशतं तथा ॥ [हेम् ५६८]
११.११ भूय एव तुलां तेन स्वम् आरोप्य प्रयत्नतः ।
हेम द्वितीयपार्श्वे च द्विजातिभ्यो ददौ स्वयम् ॥ [हेम् ५६८]
११.१२ भूयो ऽपि तन्मयान्य् एव पूर्य पात्राणि तेन च ।
प्रभासादिषु तीर्थेषु ब्राह्मणेभ्यो ददौ तदा ॥ [हेम् ५६८–६९]
११.१३ गवां च दशवर्णानां विप्रे कृत्वा पृथक् पृथक् ।
सहस्रं च गवां चापि सवत्सानां स्वरूपिणाम् ॥ [हेम् ५६९]
११.१४ बद्ध्वा कम्बलम् आक्रम्य पलान्य् एकादशैव तु ।
एकैकस्य पृथक्त्वेन दत्तं हेम तु तेन वै ॥ [हेम् ५६९]
११.१५ कारयित्वा सुपद्मानि जातरूपमयानि च ।
भ्रमता तीर्थलिङ्गानां मूर्ध्नि दत्तानि तेन वै ॥ [हेम् ५६९]
११.१६ तन्मयाभरणैः पूज्य शतशो ऽथ सहस्रशः ।
संपूज्य तर्पिता विप्रा भूयस् तेनैव मानद ॥ [हेम् ५६९]
११.१७ पटाश् चैव पताकाश् च मालाश् चैव विशेषतः ।
रुद्रादीनां नियुक्तास् तु कारयित्वा गृहे गृहे ॥ [हेम् ५६९]
११.१८ उपवीतं च यष्टिश् च मेखला पादुके तथा ।
लेखनी मसिपात्रं च दत्तं विप्रेषु तेन वै ॥ [हेम् ५६९]
११.१९ मानसोपस्करं कृत्स्नम् आसनं धाम तन्मयम् ।
द्विजेभ्यश् च प्रदत्तानि कारयित्वा सहस्रशः ॥ [हेम् ५६९]
११.२० ग्रहाणां देवतानां च कृत्वा रूपाणि भूयशः ।
न्यस्तानि विधिवत् पूज्य द्विजानां चैव मन्दिरे ॥ [हेम् ५६९]
११.२१ काञ्चनीं रोदसीं सृष्ट्वा नगोदधिसुरत्निकाम् ।
पुण्यौषधिवनैर् युक्तां ददौ विप्रेभ्य एव सः ॥ [हेम् ५६९]
११.२२ एवमाद्यैर् अनेकैश् च प्रकारैः कनकं पुरा ।
पापापनुत्तये दत्तं पात्रम् आसाद्य भूयसः ॥ [हेम् ५६९]
आदित्यपुराणे
११.२३ आदित्योदयसंप्राप्तौ विधिमन्त्रपुरस्कृतम् ।
ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः ॥ [हेम् ५७३]
११.२४ ददात्य् उदितमात्रे यस् तस्य पाप्मा विलीयते ।
मध्याह्ने ददतो रुक्मं हन्ति पापम् अनागतम् ॥ [हेम् ५७३]
११.२५ ददाति पश्चिमां संध्यां यः सुवर्णं धृतव्रतः ।
ब्रह्मवाय्वग्निसोमानां सालोक्यम् उपयाति सः ॥ [हेम् ५७४]
११.२६ सुवर्णम् अक्षयं दत्त्वा लोकांश् चाप्नोति पुष्कलान् ॥ [हेम् ५७४]
११.२७ यस् तु संजनयत्य् अग्निम् आदित्योदयनं प्रति ।
दद्याद् वै व्रतम् उद्दिश्य सर्वान् कामान् समश्नुते ॥ [हेम् ५७४]
११.२८ यं देवम् अर्चयेत् तेन यस्य चैव प्रयच्छति ।
तस्य लोके निवसति नित्यं चैव ददाति यः ॥ [हेम् ५७४]
महाभारते पिण्डप्रदानपरितुष्टस्वप्नदृष्टस्वपितृदत्तोपदेशकथने युधिष्ठिरं प्रति भीष्मवाक्यानि
११.२९ वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा ।
सर्वक्रतुषु चोद्दिष्टा भूमिर् गावो ऽथ काञ्चनम् ॥ [म्भ् १३.८३.५, हेम् ५७०]
११.३० ततः श्रुतिस् तु परमा सुवर्णं दक्षिणेति वै ॥ [म्भ् १३.८३.६, हेम् ५७०]
११.३१ तद् इदं सम्यग् आरब्धं त्वयाद्य भरतर्षभ ।
किं तु भूमेर् गवां चार्थे सुवर्णं दीयताम् इति ॥ [म्भ् १३.८३.२५, हेम् ५७०]
११.३२ एवं वयं च धर्मज्ञ सर्वे चास्मत्पितामहाः ।
तारिता वै भविष्यन्ति पावनं परमं हि तत् ॥ [म्भ् १३.८३.२६, हेम् ५७०]
११.३३ दश पूर्वान् दशैवान्यांस् तथा संतारयन्ति ते ।
सुवर्णं ये प्रयच्छन्तीत्य् एवं मां पितरो ऽब्रुवन् ॥ [म्भ् १३.८३.२७, हेम् ५७०]
श्रीरामायणे रामं प्रति वसिष्ठवाक्यानि
११.३४ सर्वरत्नानि निर्मथ्य तेजोराशिसमुत्थितम् ।
सुवर्णम् एभ्यो विप्रेन्द्र रत्नं परमम् उत्तमम् ॥
[म्भ् १३.३८९*।२६-२७, हेम् ५७०]
११.३५ एतस्मात् कारणाद् एव गन्धर्वोरगराक्षसाः ।
मनुष्याश् च पिशाचाश् च प्रयता धारयन्ति तत् ॥ [म्भ् १३.३८९*।२८-२९, हेम् ५७०]
११.३६ मुकुटैर् अङ्गदयुतैर् अलंकारैः पृथग्विधैः ।
सुवर्णे विधृते तत्र विराजन्ते भृगूत्तमाः ॥ [म्भ् १३.३८९*।३०-३१, हेम् ५७०]
११.३७ तस्मात् सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम् ॥ [म्भ् १३.३८९*।३२, हेम् ५७०]
११.३८ पृथिवीं गां च दत्त्वेह तथान्यद् अपि किंचन ।
विशिष्यते सुवर्णस्य दानं परमकं विभो ॥ [म्भ् १३.३८९*।३४-३५, हेम् ५७०]
११.३९ अक्षयं पावनं चैव सुवर्णम् अमरद्युते ।
प्रयच्छ द्विजमुख्येभ्यः पावनं ह्य् एतद् उत्तमम् ॥
[म्भ् १३.३८९*।३६-३७, हेम् ५७०]
११.४० सुवर्णम् एव सर्वत्र दक्षिणासु विधीयते ।
सुवर्णं ये प्रयच्छन्ति सर्वदास् ते भवन्त्य् उत ॥ [म्भ् १३.३८९*।३८-३९, हेम् ५७१]
११.४१ अग्निर् हि देवताः सर्वाः सुवर्णं च तदात्मकम् ।
तस्मात् सुवर्णं ददता दत्ताः स्युः सर्वदेवताः ॥ [म्भ् १३.८३.३६-३७, हेम् ५७१]
इति सुवर्णदानम् ॥