१० भूमिदानम्

अथ भूमिदानम्

तत्र दानबृहस्पतिः

१०.१ सुवर्णं रजतं वस्त्रं मणिरत्नवसूनि च ।
सर्वम् एतद् भवेद् दत्तं वसुधां यः प्रयच्छति ॥ [हेम् ४९६]

१०.२ फालकृष्टां महीं दत्त्वा सबीजां सस्यशालिनीम् ।
यावत् सूर्यकृता लोकास् तावत् स्वर्गे महीयते ॥ [हेम् ४९६]

१०.३ यत् किंचित् कुरुते पापं पुरुषो लोभमोहितः ।
तत् सर्वं भूमिदानेन क्षिप्रम् एव प्रणश्यति ॥ [हेम् ५०५]

१०.४ अपि गोचर्ममात्रेण सम्यग् दत्तेन मानवः ।
धौतपापो विशुद्धात्मा स्वर्गलोके महीयते ॥ [हेम् ५०५]

१०.५ दशहस्तेन दण्डेन त्रिंशद् दण्डा निवर्तनम् ।
दश तान्य् एव गोचर्म ब्राह्मणेभ्यो ददाति यः ॥ [हेम् ५०५]

१०.६ विप्राय दद्यात् सुगुणान्विताय तपोभिजुष्टाय जितेन्द्रियाय ।
यावन् मही तिष्ठति सागरान्ता तावत् तपस् तस्य भवेद् अतुल्यम् ॥

१०.७ यथाप्सु पतितः शक्र तैलबिन्दुः प्रसर्पति ।
एवं भूमिकृतं दानं सस्ये सस्ये प्ररोहति ॥ [हेम् ५००–०१]

१०.८ शङ्खं भद्रासनं छत्त्रं वराश्वा वरवारणाः ।
भूमिदानस्य पुष्पाणि फलम् एतत् पुरंदर ॥ [हेम् ५०१]

१०.९ आदित्यो वरुणो विष्णुर् ब्रह्मा सोमो हुताशनः ।
शूलपाणिश् च भगवान् अभिनन्दति भूमिदम् ॥ [हेम् ४९८]

१०.१० सौवर्णा यत्र प्रासादा वसोर् धारा च कामदा ।
गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति भूमिदाः ॥ [हेम् ४९८]

तथा

१०.११ बहुभिर् वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस् तस्य तस्य तदा फलम् ॥

१०.१२ षडशीतिसहस्राणि योजनानां वसुंधरा ।
दत्ता स्वल्पापि देवेन्द्र सर्वकामप्रदायिनी ॥

१०.१३ भूमिं यः प्रतिगृह्णाति यश् च भूमिं प्रयच्छति ।
उभौ तौ पुण्यकर्माणौ नियतं स्वर्गगामिनौ ॥

१०.१४ यस् तु दद्यान् महीं राजन् ब्राह्मणायाग्निहोत्रिणे ।
स याति परमं स्थानं गृह्णानश् च न संशयः ॥

१०.१५ इक्षुभिः संततां भूमिं यवगोधूमशालिनीम् ।
यो ददाति सुरश्रेष्ठ पुनर् आवर्तते न सः ॥

१०.१६ श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।
वृत्तस्थाय दरिद्राय सर्वभूतहिताय च ॥

१०.१७ ईदृशाय सुशुद्धाय दत्ता स्वल्पापि वासव ।
कुलानि तारयेद् वीर सप्त सप्त च सप्त च ॥

१०.१८ सहस्रम् एव धेनूनां शतं चानडुहां समम् ।
दशानडुत्समं यानं दशयानसमो हयः ॥ [हेम् ५१२]

१०.१९ दशवाजिसमा कन्या भूमिदानं च तत्समम् ।
भूमिदानात् परं नास्ति विद्यादानं ततो ऽधिकम् ॥ [हेम् ५१२]

वृद्धवसिष्ठः

१०.२० यत् किंचित् कुरुते पापं जन्मप्रभृति मानवः ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥ [हेम् ५०६]

१०.२१ गवां शतं वृषश् चैको यत्र तिष्ठेद् अयन्त्रितः ।
तद् वै गोचर्ममात्रं तु प्राहुर् वेदविदो जनाः ॥ [हेम् ५०६]

तथा

१०.२२ दशहस्तेन वंशेन दश वंशान् समन्ततः ।
पञ्च चाभ्यधिकान् दद्याद् एतद् गोचर्म उच्यते ॥ [हेम् ५०५]

पञ्चलाङ्गलप्रस्तावे मत्स्यपुराणे

१०.२३ दण्डेन सप्तहस्तेन त्रिंशद्दण्डा निवर्तनम् ।
त्रिभागहीनं गोचर्म मानम् आह प्रजापतिः ॥ [म्प् २८३.१४–१५, हेम् ५०५]

१०.२४ मानेनानेन यो दद्यान् निवर्तनशतं बुधः ।
विधिनानेन तस्याशु क्षीयते पापसंहतिः ॥ [म्प् २८३.१५, हेम् ५०५]

१०.२५ तदर्धम् अपि यो दद्याद् अपि गोचर्ममात्रकम् ।
भवनस्थानमात्रं वा सो ऽपि पापैः प्रमुच्यते ॥ [म्प् २८३.१६, हेम् ५०५–०६]

संवर्त्तः

१०.२६ सर्वेषाम् एव दानानाम् एकजन्मानुगं फलम् ।
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥

प्रकरणाद् गौर्यो ऽत्र गावः । वेदे मध्वः पिबन्ति गौर्य इति गोषु प्रयोग-दर्शनात् ।

तथा

१०.२७ अग्नेर् अपत्यं प्रथमं सुवर्णं भूर् वैष्णवी सूर्यसुताश् च गावः ।
तेषाम् अनन्तं फलम् अश्नुवीत यः काञ्चनं गां च महीं च दद्यात् ॥ [हेम् ५६७]

श्रीरामायणे विश्वरूपं कपिलं प्रति

१०.२८ गोदानानि पवित्राणि भूमिदानानि यानि च ।
सुवर्णदानानि तथा यावल्लोमानुगानि च ॥ [राम् ७।अप्प्-२.३७]

बृहस्पतिः

१०.२९ आस्फोटयन्ति पितरः प्रवदन्ति पितामहाः ।
भूमिदो ऽस्मत्कुले जातः सो ऽस्मान् संतारयिष्यति ॥ [हेम् ५०७]

नन्दिपुराणे

१०.३० दत्त्वा तु भूमिं पुरुषः साश्रयां सस्यदायिनीम् ।
सुमेध्यां रम्यसंस्थानां फलवृक्षमनोरमाम् ॥ [हेम् ५०७]

१०.३१ अनूषराम् अनाबाधां पात्रे बहुगुणान्विते ।
अप्य् एकपुरुषाधारां दत्त्वा भूमिं महामनाः ।

दश कल्पान् निवसति स्वर्गे विगतपातकः ॥ [हेम् ५०७]

आदित्यपुराणे

१०.३२ यस् तु गोचर्ममात्रां वै प्रयच्छति वसुंधराम् ।
विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥

१०.३३ षष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः ।
आछेत्ता चानुमन्ता च तान्य् एव नरके वसेत् ॥ [हेम् ५०४]

१०.३४ स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ।
स विष्ठायां कृमिर् भूत्वा पितृभिः सह मज्जति ॥ [हेम् ५०८]

तथा

१०.३५ अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः ।
पृथिवीं नान्यद् इच्छन्ति पावनं ह्य् एतद् उत्तमम् ॥ [हेम् ५५, ४९५]

१०.३६ नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् ।
दानं वाप्य् अथ वा ज्ञानं नाम्नास्याः परमं प्रियम् ॥ [हेम् ४९५]

१०.३७ संग्रामे वा तनुं जह्याद् दद्याद् वा पृथिवीम् इमाम् ।
इत्य् एतां क्षत्रबन्धूनां वदन्ति परमाशिषम् ॥ [हेम् ४९५]

१०.३८ य एतां दक्षिणां दद्यात् पृथिवीं पृथिवीपतिः ।
पुनश् च जननं प्राप्य भवेत् स पृथिवीपतिः ।

ये चान्ये भूमिम् इच्छेयुः कुर्युर् एव न संशयः ॥ [हेम् ४९५]

१०.३९ रत्नोपकीर्णां वसुधां यो ददाति द्विजातिषु ।
स मुक्तः सर्वकलुषै रुद्रलोके महीयते ॥ [हेम् ४९९]

१०.४० इक्षुभिः संततां भूमिं यवगोधूमसंकुलाम् ।
गोष्ठमातङ्गसंपूर्णां बहुवीर्यसमन्विताम् ॥ [हेम् ५००]

१०.४१ निधिगर्भां ददद् भूमिं सर्वरत्नपरिछदाम् ।
अक्षयान् लभते लोकान् भूमिरत्नं हि तस्य तत् ॥ [हेम् ५००]

१०.४२ विधूय कलुषं सर्वं विरजाः संमतः सताम् ।
लोके महीयते शम्भोर् यो ददाति वसुंधराम् ॥ [हेम् ५००]

दानबृहस्पतिः

१०.४३ सुवर्णदानं गोदानं भूमिदानं च वासव ।
एतत् प्रयच्छमानो हि सर्वपापैः प्रमुच्यते ॥

महाभारते

१०.४४ शीतवातातपसहां गृहभूमिं सुसंस्कृताम् ।
प्रदाय सुरलोकस्थः पुण्यान्ते ऽपि न चाल्यते ॥ [म्भ् १३.६५.२६, हेम् ५०७]

१०.४५ न चोषरां न निर्दग्धां महीं दद्यात् कथंचन ।
न श्मशानपरीतां च न च पापनिषेविताम् ॥ [म्भ् १३.६५.३१, हेम् ५२–५३]

इति भूमिदानम् ॥