०९ कृष्णाजिनदानम्

अथ कृष्णाजिनदानम्

तत्र विष्णुः

९.१अथ वैशाख्यां पौर्णमास्यां कृष्णमृगाजिनं सखुरं सशृङ्गं सुवर्ण-शृङ्गं रौप्यखुरं मुक्तालाङ्गूलभूषितं कृत्वा आविके वस्त्रे प्रसारिते प्रसारयेत् ।
९.२ ततस् तिलैः प्रच्छादयेत् ।
९.३ सुवर्णनाभं च कुर्यात् ।
९.४ अहतेन वासोयुगेन प्रच्छादयेत् ।
९.५ सर्वरत्नगन्धैश् चालंकुर्यात् ।
९.६ चतसृषु च दिक्षु चत्वारि तैजसानि पात्राणि क्षीरदधिमधुसर्पिःपूर्णानि निधायाहिताग्नये ब्राह्मणाय वासोयुग-प्रछादिताय दद्यात् ।
९.७ अत्र च गाथा भवन्ति । [विध् ८७.१–७, हेम् ६९५]
९.८ यस् तु कृष्णाजिनं दद्यात् सखुरं शृङ्गसंयुतम् ।
तिलैः प्रछाद्य वासोभिः सर्वरत्नैर् अलंकृतम् ॥ [विध् ८७.८, हेम् ६९५]

९.९ ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद् दत्ता पृथिवी नात्र संशयः ॥ [विध् ८७.९, हेम् ६९५]

वैशाख्यधिकारे वसिष्ठः

९.१० सुवर्णनाभं कृत्वा तु सखुरं कृष्णमार्गकम् ।
तिलैः प्रछादयेद् यत्नात् तस्य पुण्यफलं शृणु ॥ [वध् २८.२०]

९.११ ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद् दत्ता पृथिवी नात्र संशयः ॥ [वध् २८.२१]

९.१२ कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति यस् तु विप्राय सर्वं तरति दुष्कृतम् ॥ [वध् २८.२२, हेम् ६९५]

मत्स्यपुराणे

मनुर् उवाच

९.१३ कृष्णाजिनप्रदानस्य विधिं कालं ममानघ ।
ब्राह्मणं च समाचक्ष्व तत्र मे संशयो महान् ॥ [म्प् २०६.१, हेम् ६९५]

मत्स्य उवाच

९.१४ वैशाखी पौर्णमासी तु ग्रहणं शशिसूर्ययोः ।
पौर्णमासी तथा माघी आषाढी कार्त्तिकी तथा ।

उत्तरायणे द्वादश्यां तस्यां दत्तं महाफलम् ॥ [म्प् २०६.२–३, हेम् ६९६]

९.१५ आहिताग्निर् द्विजो यश् च तद् देयं तस्य पार्थिव ।
यथा येन विधानेन तन् मे निगदतः शृणु ॥ [म्प् २०६.३–४, हेम् ६९६]

९.१६ गोमयेनोपलिप्ते तु शुचौ देशे नराधिप ।
आदाव् एव समास्तीर्य शोभनं वस्त्रम् आविकम् ।

ततः सशृङ्गं सखुरम् आस्तरेत् कृष्णमार्गकम् ॥ [म्प् २०६.४–५, हेम् ६९६]

९.१७ कर्तव्यं रुक्मशृङ्गं तद् रूप्यदन्तं तथैव च ।
लाङ्गूलं मौक्तिकैर् युक्तं तिलछन्नं तथैव च ॥ [म्प् २०६.६, हेम् ६९६]

९.१८ तिलैर् आत्मसमं कृत्वा वाससाछादयेद् बुधः ।
सुवर्णनाभं तत् कुर्याद् अलंकुर्याद् विशेषतः ॥ [म्प् २०६.७, हेम् ६९६]

९.१९ रत्नैर् गन्धैर् यथाशक्त्या तस्य दिक्षु च विन्यसेत् ।
कांस्यपात्राणि चत्वारि दिक्षु दद्याद् यथाक्रमम् ॥ [म्प् २०६.८, हेम् ६९६]

९.२० मृण्मयेषु च पात्रेषु पूर्वादिषु क्रमेण तु ।
घृतं क्षीरं दधि क्षौद्रम् एवं दत्त्वा यथाविधि ॥ [म्प् २०६.९, हेम् ६९६]

९.२१ चम्पकस्य तथा शाखाम् अव्रणं कुम्भम् एव च ।
बाह्योपस्थानकं कृत्वा शुभचित्तो निवेशयेत् ॥ [म्प् २०६.१०, हेम् ६९६–६७]

९.२२ जीर्णवस्त्रेण पीतेन सर्वाङ्गानि च मार्जयेत् । [म्प् २०६.११, हेम् ६९७]
कांस्यपात्राणीति चत्वारि कांस्यपात्राणि अन्यानि च मृण्मयानि पात्राणि घृतक्षीरदधि-क्षौद्रपूर्णानि यथाक्रमं पूर्वादिदिक्षु स्थापनीयानीत्य् अर्थः । बाह्यो-पस्थानकं दानप्रदेशाद् बाह्यसमीप एव स्थानं यस्य स तथा । मार्जयेत् दानानन्तरं स्नात्वेति शेषः ।

९.२३ धातुमयानि पात्राणि पादेष्व् अस्य प्रदापयेत् ॥ [म्प् २०६.११, हेम् ६९७]
९.२४ यानि काम्यानि पापानि मया लोभात् कृतानि वै ।
लोहपात्रप्रदानेन प्रणश्यन्तु ममाशु वै ।

तिलपूर्णं तु तत् कृत्वा वामपादे निवेशयेत् ॥ [म्प् २०६.१२–१३, हेम् ६९७]

९.२५ यानि पापान्य् अकाम्यानि कर्मोत्थानि कृतानि वै ।
कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ।

मधुपूर्णं तु तत् कृत्वा पादे वै दक्षिणे न्यसेत् ॥ [म्प् २०६.१३–१४, हेम् ६९७]

९.२६ परापवादपैशुन्यात् पृष्ठमांसस्य भक्षणात् ।
तत्रोत्थितं च मे पापं ताम्रपात्रात् प्रणश्यतु ॥ [म्प् २०६.१५, हेम् ६९७]

९.२७ कन्यानृतं गवां चैव परदारप्रधर्षणम् ।
रौप्यपात्रप्रदानाच् च क्षिप्रं नाशं प्रयातु मे ।

ऊर्ध्वपादे त्व् इमे कार्ये ताम्रस्य रजतस्य च ॥ [म्प् २०६.१६–१७, हेम् ६९७]

९.२८ जन्मजन्मसहस्रेषु कृतं पापं कुबुद्धिना ।
सुवर्णपात्रदानात् तु नाशयाशु जनार्दन ॥ [म्प् २०६.१७–१८, हेम् ६९७]

ऊर्ध्वपादे ऽग्रपादयोः । एकवचनम् अत्राविवक्षितम् ।

९.२९ हेममुक्ताविद्रुमं च दाडिमं बीजपूरकम् ।
प्रशस्तपात्रं श्रवणे खुरे शृङ्गाटकानि च ।

एवं कृत्वा यथोक्तेन सर्वशाकफलानि च ॥ [म्प् २०६.१८–१९, हेम् ६९८]

९.३० तत्प्रतिग्रहविद् विद्वान् आहिताग्निर् द्विजोत्तमः ।
स्नातो वस्त्रयुगछन्नः स्वशक्त्या चाप्य् अलंकृतः ॥ [म्प् २०६.२०, हेम् ६९८]

९.३१ प्रतिग्रहश् च तस्योक्तः पुच्छदेशे महीयते ।
तत एवं समीपे तु मन्त्रम् एनम् उदीरयेत् ॥ [म्प् २०६.२१, हेम् ६९८]

९.३२ कृष्णः कृष्णाचलो देवः कृष्णाजिनधरस् तथा ।
त्वद्दानाद् धृतपापस्य प्रीयतां मे नमो नमः ॥ [म्प् २०६.२२]

९.३३ त्रयस्त्रिंशत्सुराणां त्वम् आधारत्वे व्यवस्थितः ।
कृष्णो ऽसि मूर्तिमान् साक्षात् कृष्णाजिन नमो ऽस्तु ते ॥

९.३४ सुवर्णनाभिकं दद्यात् प्रीयतां वृषभध्वजः ।
अनेन विधिना दद्याद् यथावत् कृष्णमार्गकम् ॥ [म्प् २०६.२३, हेम् ६९८]

९.३५ न स्पृश्यः स द्विजो राजंश् चितियूपसमो हि सः ।
दाने च श्राद्धकाले च दूरतः परिवर्जयेत् ॥ [म्प् २०६.२३–२४, हेम् ६९८]

९.३६ स्वगृहात् प्रेष्य तं विप्रं मण्डले स्नानम् आचरेत् ।
पूर्णकुम्भेन राजेन्द्र शाखया चम्पकस्य च ॥ [म्प् २०६.२४–२५, हेम् ६९८]

९.३७ कृत्वा चाचार्यः कलशं मन्त्रेणानेन मूर्धनि ।
आप्यायस्व समुद्रज्येष्ठा ऋचो जप्यास् तु षोडश ॥ [म्प् २०६.२५–२६]

आप्यायस्व समेतु त इत्य् अष्टौ समुद्रज्येष्ठा इत्य् अष्टौ एवं षोडश ।

९.३८ अहते वाससी वीतः स्वाचान्तः शुचिताम् इयात् ।
तद् वस्त्रं कुम्भसहितं नीत्वा क्षेप्यं चतुष्पथे ॥ [म्प् २०६.२६–२७, हेम् ६९८]

वीतः परिहितवान् ।

९.३९ कृतेनानेन या तुष्टिर् न सा शक्यामरैर् अपि ।
वक्तुं च नृपतिश्रेष्ठ तथाप्य् उद्देशतः शृणु ॥ [म्प् २०६.२७–२८, हेम् ६९९]

९.४० समग्रभूमिदानस्य फलं प्राप्नोत्य् असंशयम् ।
सर्वांश् च लोकाञ् जयति कामचारी विहंगमः ॥ [म्प् २०६.२८–२९, हेम् ६९९]

९.४१ आहूतसंप्लवं यावत् स्वर्गं प्राप्नोत्य् असंशयः ।
न पितृपुत्रमरणं वियोगं भार्यया सह ।

धनधान्यपरित्यागं नैव चेहाप्नुयात् क्वचित् ॥ [म्प् २०६.२९–३०, हेम् ६९९]

९.४२ कृष्णाक्षतं कृष्णमृगस्य चर्म दत्त्वा द्विजेन्द्राय समाहिताय ।
यथोक्तम् एतन् मरणं न शोचेत् प्राप्नोत्य् अभीष्टं मनसः फलं तत् ॥

[म्प् २०६.३१, हेम् ६९९]

वैष्णवपदाधिकारे कालिकापुराणे

९.४३ ये तु रुक्मादि पात्रे च हुत्वा वह्निं ददन्ति वै ।
तिलद्रोणसमायुक्तं वस्त्रयुग्माभिवेष्टितम् ॥ [हेम् ६९९]

९.४४ पलार्धार्धम् अथार्धं वा विभवाद् धेमसंयुतम् ।
सूक्ष्मवस्त्रेण युग्मेन अन्येनाछादयेद् द्विजम् ॥ [हेम् ७००]

९.४५ सोदकं चापरं रुक्मं सतिलं न्यस्य तत्करे ।
ततः कृष्णाजिनं दद्यात् तिलद्रोणान्वितं च यत् ।

दत्त्वा तु भोजयेत् तत्र नत्वा चैव विसर्जयेत् ॥ [हेम् ७००]

९.४६ अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा ।
युगादौ वा प्रयच्छन्ति विधिना ये तु वै द्विजे ॥ [हेम् ७००]

९.४७ ते ऽपि तत् पदम् आसाद्य दशांशं ब्रह्म आयुषः ।
क्रीडन्ति विविधैर् भोगैः कलारूपगुणान्विताः ॥ [हेम् ७००]

९.४८ अनेन च विधानेन दशद्रोणप्रदायकः ।
आब्रह्माण्डभवं कालं मोदते स पुरोत्तमे ॥ [हेम् ७००]

९.४९ यो घटं पयसा पूर्णं हेमपद्मनियोजितम् ।
संपूज्य वस्त्रयुग्मेन दद्यात् सो ऽपि व्रजेद् ध्रुवम् ॥ [हेम् ७००]

मरीचिः

९.५० कृष्णाजिनोभयमुखीं यो दद्याद् आहिताग्नये ।
सप्तजन्मकृतं पापं तत्क्षणाद् एव नश्यति ॥ [हेम् ६९३]

इति कृष्णाजिनदानम् ॥