अथ वृषभदानम्
तत्रादित्यपुराणे
८.१ यो ददाति अनड्वाहं सुशीलं साधुवाहनम् ।
उभयोः पार्श्वयोर् दत्त्वा छत्त्रोपानहकम्बलम् ॥ [हेम् ४८२]
८.२ शीलवेदाङ्गसंपन्न इष्टे शिष्टे द्विजे नरः ।
पुष्ये वा जन्मनक्षत्रे अयने विषुवेषु च ॥ [हेम् ४८२]
८.३ दत्त्वा तस्य अनड्वाहं तस्मिन् स्थाने महामुने ।
क्षुत्पिपासार्दितस्यापि अग्रतः प्रतिपद्यते ॥ [हेम् ४८२]
महाभारते
८.४ युवानम् इन्द्रियोपेतं शतेन सह यूथपम् ।
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गम् अलंकृतम् ॥ [म्भ् १३.७७.१३, हेम् ४८३]
८.५ वृषभं ये प्रयच्छन्ति श्रोत्रियाय परंतप ।
ऐश्वर्यं ते ऽभिजायन्ते जायमानाः पुनः पुनः ॥ [म्भ् १३.७७.१४, हेम् ४८३]
शतेन स्त्रीगवीनाम् इति शेषः । भूरिशृङ्गं सुवर्णशृङ्गम् । ऐश्वर्यं ते ऽभिजायन्ते ऐश्वर्यार्थम् इति यावत् ।
८.६ दृतिकण्ठम् अनड्वाहं सर्वरत्नैर् अलंकृतम् ।
दत्त्वा प्रजापतेर् लोकान् विशोकः प्रतिपद्यते ॥ [म्भ् १३.७८.२३, हेम् ४८२]
दृतिकण्ठं प्रलम्बगलकम्बलम् ।
तथा
८.७ अनड्वाहं ब्राह्मणायाथ धुर्यं दत्त्वा युवानं बलिनं विनीतम् ।
हलस्य वोढारम् अनन्तवीर्यं प्राप्नोति लोकान् दशधेनुदस्य ॥
[म्भ् १३.७२.४३, हेम् ४८२]
इति वृषभदानम् ॥