०७ हेमगवीदानम्

अथ हेमगवीदानम्

तत्र देवीपुराणे

७.१ शुभां हेममयीं गां च कारयेद् राजतान् खुरान् ।
तां वस्त्रप्रावृतां कृत्वा प्राप्नुयाल् लोकम् उत्तमम् ॥ [द्प् १०३.८, हेम् ४३७]

७.२ विचित्रचित्रपुष्पैश् च गन्धधूपनिवेदनैः ।
तथा क्षमापयेद् देवीं तां गां तत्र समर्पयेत् ॥ [द्प् १०३.९, हेम् ४३८]

७.३ देवि त्वदीयाद् आदेशात् तव भक्तेषु दीयते ।
पुनस् तां विप्रराजाय दापयेच् छिवभाविने ॥ [द्प् १०३.१०, हेम् ४३८]

७.४ अक्षयफलकामेन प्रायश्चित्तविशुद्धये ।
मनुना चीर्णम् एतद् वै संयतेन पुरा किल ॥ [द्प् १०३.११, हेम् ४३८]

७.५ सप्त पूर्वान् परान् वंश्यान् रौद्रकिल्बिषसंस्थितान् ।
उद्धृत्य तारयेद् वत्स देवीलोकम् अनुत्तमम् ॥ [द्प् १०३.१२, हेम् ४३८]

शुभा शुद्धहेम्ना सुघटिता । देवी दुर्गा । शिवभाविने शिवध्यायिने ।

इति हेमगवीदानम् ॥