०६ ३ उभयतोमुखदानम्

**६.३ अथोभयतोमुखदानम् **

तत्र स्कन्दपुराणे

६.३.१ प्रसूयमानां यो गां च दद्याद् उभयतोमुखीम् ।
यथोक्तेन विधानेन स जातिस्मरतां लभेत् ॥ [हेम् ४७६]

नन्दिपुराणे

६.३.२ यश् चोभयमुखीं दद्याद् गां विप्रे वेदवादिनि ।
देवाय चाप्य् अभीष्टाय स कुलान्य् एकविंशतिम् ॥ [हेम् ४७७]

६.३.३ समुद्धृत्य नरस् तिष्ठेन् नरकाद् ब्रह्मणो ऽन्तिके ।
युगानि लोमतुल्यानि यदि श्रद्धापरो नरः ॥ [हेम् ४७७]

मत्स्यपुराणे

६.३.४ रुक्मशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलभूषिताम् ।
कांस्योपदोहनां राजन् सवत्सां द्विजपुंगवे ।

प्रसूयमानां यो दद्याद् धेनुं द्रविणसंयुताम् ॥ [म्प् २०५.२–३, हेम् ४७८]

६.३.५ यावद् वत्सो योनिगतो यावद् गर्भं न मुञ्चति ।
तावद् गौः पृथिवी ज्ञेया सशैलवनकानना ॥ [म्प् २०५.३–४, हेम् ४७८]

द्रविणसंयुताम् इति दक्षिणारूपद्रव्यसंयुता भूरिदक्षिण इत्य् अग्रे ऽभिधानात् ।

६.३.६ ससमुद्रगुहा भूमिः सशैलवनकानना ।
चतुरन्ता भवेद् दत्ता पृथिवी नात्र संशयः ॥ [म्प् २०५.५, हेम् ४७८]

६.३.७ यावन्ति धेनुरोमाणि वत्सस्य च नराधिप ।
तावत्संख्यान् युगगणान् देवलोके महीयते ॥ [म्प् २०५.६, हेम् ४७८]

६.३.८ पितॄन् पितामहांश् चैव तथैव प्रपितामहान् ।
उद्धरिष्यत्य् असंदेहो नरकाद् भूरिदक्षिणः ॥ [म्प् २०५.७, हेम् ४७८]

६.३.९ घृतक्षीरवहाः कुल्या दधिपायसकर्दमाः ।
यत्र यत्र गतिस् तस्य भवेच् चेप्सितकामदा ।

गोलोकः सुलभस् तस्य ब्रह्मलोकश् च पार्थिव ॥ [म्प् २०५.८, हेम् ४७८]

६.३.१० स्त्रियश् च तं चन्द्रसमानवक्त्राः प्रतप्तजाम्बूनदतुल्यरूपाः ।
महानितम्बस्तनमध्यवृत्ताः सेवन्त्य् अजस्रं नलिनाभनेत्राः ॥

[म्प् २०५.९, हेम् ४७८–७९]

ब्रह्मपुराणे

६.३.११ गां दद्याद् वेदपूर्णाय विप्राय गृहमेधिने ।
सुवर्णालंकृतशृङ्गीं वस्त्रघण्टाविभूषिताम् ।

प्रत्यग्रां त्रिसमृद्धां च ललाटतटदर्पणाम् ॥ [हेम् ४५६–५७]

६.३.१२ रजतछन्नचरणां मुक्तालाङ्गूलशोभिताम् ।
कांस्योपदोहां तृप्तां च लवणादितृणोदकैः ॥ [हेम् ४५७]

प्रत्यग्रा नववयस्का । त्रिसमृद्धा शीलक्षीरप्रसवगुणयुक्ता । तृप्ता लवणादि-तृणोदकैः सर्वदा लवणादिपुष्टा ।

६.३.१३ गवां पुच्छं गृहीत्वा तु ससुवर्णेन पाणिना ।
गृहस्थो वेदविद् विप्रो वाचयेत् तत्प्रतिग्रहम् ॥ [हेम् ४५७]

६.३.१४ भोगसौख्यप्रदा श्वेता धूमाभा पापनाशिनी ।
कृष्णा स्वर्गप्रदा ज्ञेया गौरी च कुलवर्धिनी ।

रक्ता रूपप्रदा ज्ञेया पीता दारिद्र्यघातिनी ॥ [हेम् ४५७]

६.३.१५ पुत्रप्रदा कृष्णसारी नीला धर्मविवर्धिनी ।
कपिला सर्वपापघ्नी नानावर्णा च मोक्षदा ॥ [हेम् ४५७]

कृष्णसारी कृष्णश्वेतवर्णा ।

तथा

६.३.१६ पीतोदकां जग्धतृणां दुग्धचोषां निरिन्द्रियाम् ।
उन्मत्ताम् अङ्गहीनां च मृतवत्सां महाशनाम् ॥ [हेम् ४४८]

६.३.१७ केशचेलपुरीषास्थिक्रव्यादां संधिनीं खलाम् ।
पुटधेनुं यमलसूं नित्यं प्रगलितस्तनीम् ।

न दद्याद् ब्राह्मणेभ्यश् च सदोषं वृषभं तथा ॥ [हेम् ४४८]

दुग्धचोषा स्वकीयस्तनपायिनी । महाशना बहुभक्षा । पुटधेनुर् बालवत्सैव या गर्भिणी ।

महाभारते

६.३.१८ न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा ।
न व्यङ्गां न परिश्रान्तां दद्याद् गां ब्राह्मणाय वै ॥ [म्भ् १३.६५.५१, हेम् ४४८]

यमः

६.३.१९ यो दद्याद् उपयुक्तार्थां जीर्णां वन्ध्यां च निष्फलाम् ।
तमः संप्रविशेद् दाता द्विजं क्लेशेन योजयेत् ॥ [हेम् ४४८]

याज्ञवल्क्यः

६.३.२० यथा कथंचिद् दत्त्वा गां धेनुं वाधेनुम् एव वा ।
अरोगाम् अपरिक्लिष्टां दाता स्वर्गे महीयते ॥ [य्ध् १.२०८, हेम् ४५०]

अङ्गिराः

६.३.२१ गौर् एकस्यैव दातव्या श्रोत्रियस्य विशेषतः ।
सा हि तारयते पूर्वान् सप्त सप्त च सप्त च ॥ [हेम् ४५०]

नन्दिपुराणे

६.३.२२ अपात्रे सा तु गौर् दत्ता दातारं नरकं नयेत् ।
कुलैकविंशत्या युक्तं ग्रहीतारं च पातयेत् ॥ [हेम् ४५०]

६.३.२३ विधिना तु यदा दत्ता पात्रे धेनुः सदक्षिणा ।
तदा तारयते जन्तून् कुलानाम् अयुतैः शतैः ॥ [हेम् ४५०]

६.३.२४ पात्राण्य् आध्यात्मिका मुख्याः सुशुद्धाश् चाग्निहोत्रिणः ।
देवताश् च तथा मुख्या गोदाने ह्य् एतद् उत्तमम् ॥ [हेम् ४५०]

महाभारते

६.३.२५ वृत्तिग्लाने सीदति चातिमात्रं कृष्यर्थं वा होमहेतोः प्रसुत्याम् ।
गुर्वर्थं वा बालसमृद्धये वा धेनुं दद्याद् एष कालो विशिष्टः ॥ [म्भ् १३.७२.३८, हेम् ४५०]

प्रसुत्यां सोमयागे ।

तथा

६.३.२६ न वधार्थं प्रदातव्या न कीनाशे न नास्तिके ।
गोजीवे न च दातव्या तथा गौः पुरुषर्षभ ॥ [म्भ् १३.६५.४९, हेम् ४५०]

कीनाशो हलवाहकः ।

६.३.२७ ददात्य् एतादृशानां वै नरो गाः पापकर्मणाम् ।
अक्षयं नरकं यातीत्य् एवम् आहुर् महर्षयः ॥ [म्भ् १३.६५.५०]

६.३.२८ एकां च दशगुर् दद्याद् दश दद्याच् च गोशती ।
शतं सहस्रगुर् दद्यात् सर्वे तुल्यफला हि ते ॥ [म्भ् १३.७७.१०, हेम् ४५]

६.३.२९ यश् चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति ।
यावतीः स्पर्शयेद् गाश् च स तावत् फलम् अश्नुते ॥ [म्भ् १३.७२.३३, हेम् ४४७]

तावत् फलं तावद् गोरोमसंमितं स्वर्गरूपं फलम् ।

तथा

६.३.३० संग्रामे अर्जयित्वा तु यो वै गाः संप्रयच्छति ।
आत्मविक्रयतुल्यास् ताः शाश्वतीर् विद्धि कौशिक ॥ [म्भ् १३.७२.३४, हेम् ४४७]

६.३.३१ यो वै द्यूते धनं जित्वा गाः क्रीत्वा संप्रयच्छति ।
स दिव्यम् अयुतं शक्र वर्षाणां फलम् अश्नुते ॥ [म्भ् १३.७२.१७, हेम् ४४७]

६.३.३२ अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीता निर्जिताश् चौकजाश् च ।
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश् च द्वारैर् एतैर् गोविशेषाः प्रशस्ताः ॥ [म्भ् १३.७२.३९, हेम् ४४७–४८]

अन्तर्जाता गर्भिण्य इति भारतपदप्रकाशिकाकारः । सुक्रयलब्धा यथामूल्यक्रय-लब्धाः । ज्ञानलब्धा विद्यालब्धाः । प्राणक्रीता भृतिलब्धाः । निर्जिता युद्धादिना । ओकजाः गृहजाः । कृच्छ्रोत्सृष्टाः पोषणाभ्यागता व्याध्यादिकृच्छ्राक्रान्ताः सत्यः स्वामिना यास् त्यक्ताः स्वयं च पोषणं कृत्वा लब्धाः ।

६.३.३३ नष्टा दुष्टा दुर्बला व्याधिता वा नो दातव्या या च मूल्यैर् अदत्तैः ।
क्लेशैर् विप्रं यो ऽफलैः संयुनक्ति तस्यावीर्याश् चाफलाश् चापि लोकाः ॥ [म्भ् १३.७६.७, हेम् ४४८]

मूल्यैर् अदत्तैः स्वीकृतेति शेषः ।

तथा

६.३.३४ तिस्रो रात्रीस् त्व् अद्भिर् उपोष्य भूमौ तृप्ता गावस् तर्पितेभ्यः प्रदेयाः ।
वत्सैः प्रीताः सुप्रजाः सोपचारास् त्र्यहं दत्त्वा गोरसैर् वर्तितव्यम् ॥ [म्भ् १३.७०.३१, हेम् ४६९]

तथा

६.३.३५ द्विजातिम् अभिसत्कृत्य श्वः कल्यम् उपवेद्य च ।
प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः ॥ [म्भ् १३.७५.५, हेम् ४६९]

श्वः कल्यम् उपवेद्य च प्रातःकालम् उपस्थानं कर्तव्यम् इति ज्ञापयित्वा ।

६.३.३६ आह्वानं च प्रयुञ्जीत सबले बहुलेति च ।
प्रविश्य च गवां मध्यम् इमां श्रुतिम् उदाहरेत् ॥ [म्भ् १३.७५.६, हेम् ४६९]

६.३.३७ गौर् मे माता गोवृषभः पिता मे दिवं मे शर्म जगती प्रतिष्ठा ।
प्रपद्ये कां शर्वरीं मुख्यगोषु मुनिर् वाणीम् उत्सृजेद् गोप्रदाने ॥

[म्भ् १३.७५.७, हेम् ४६९]

६.३.३८ समताम् एति वै गोभिः समसंख्यः समव्रतः ।
ऐकात्म्यगमनात् सद्यः कल्मषाद् विप्रमुच्यते ॥ [म्भ् १३.७५.८, हेम् ४६९]

६.३.३९ उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने । [म्भ् १३.७५.९, हेम् ४६९]
इउत्सृष्टवृषवत्सा उत्सृष्टौ त्यक्तौ वृषभवत्सौ यया सा तथा ।

६.३.४० त्रिविधं प्रतिपत्तव्यम् अर्थवादाशिषः स्तवः ॥ [म्भ् १३.७५.९]
त्रिविधं प्रतिपत्तव्यं वक्ष्यमाणार्थवादादिप्रकारत्रयं गोप्रदानप्रवृत्तेन बोद्धव्यम् ।

६.३.४१ ऊर्जस्विन्य ऊर्जमेधाश् च यज्ञे गर्भो ऽमृतस्य प्रतिष्ठा ।
क्षिताव् ऋक्संप्रवाहाः पुण्यभावाः प्राजापत्याः सर्वम् इत्य् अर्थवादः ॥

[म्भ् १३.७५.१०, हेम् ४६९]

ऊर्जस्विन्यः बलोत्साहवत्यः । ऊर्जमेधास् तेजोयुतप्रज्ञाः प्रकृष्टबुद्धय इति यावत् । यज्ञे गर्भः यज्ञस्यैतासाम् आज्यादिभिर् निष्पत्तेः । अमृतस्य प्रतिष्ठा क्षीरस्य प्रतिष्ठा स्थानम् । क्षिताव् ऋक्संप्रवाहाः ऋग् इति नदीनाम नदीवत् पृथिव्यां वहन्तीत्य् अर्थः । पुण्यभावाः पुण्याश्रयाः ।

६.३.४२ गावो ममैनः प्रणुदन्तु सौर्यास् तथा सौम्याः स्वर्गयानाय सन्तु ।
आहूता मे ददतेत्य् आश्रयन्तु तथानुक्ताः सन्तु सर्वाशिषो मे ॥

[म्भ् १३.७५.११, हेम् ४६९–७०]

६.३.४३ शेषोत्सर्गे कर्मभिर् देहमोक्षे सरस्वत्यः श्रेयसि संप्रवृत्ताः ।
यूयं नित्यं पुण्यकर्मोपवाह्या दिशध्वं मे गतिम् इष्टां प्रपन्नाः ॥ [म्भ् १३.७५.१२, हेम् ४७०]

६.३.४४ या वै यूयं सो ऽहम् अद्यैकभावो युष्मान् दत्त्वा चाहम् आत्मप्रदाता ।
[म्भ् १३.७५.१३, हेम् ४७०]

सौर्याः सूर्यप्रसूताः । शेषोत्सर्गे कर्मभिर् देहमोक्ष इति कर्मवशेन देहत्यागे सति शेषोत्सर्गे जन्मान्तरे दानार्थं सन्त्व् इत्य् अर्थः । पुण्यकर्मोपवाह्या सुकृत-प्राप्याः ।

६.३.४५ मनश्च्युता मन एवोपपन्नाः संरक्षध्वं सौम्यरूपोग्ररूपाः ॥
[म्भ् १३.७५.१३, हेम् ४७०]

६.३.४६ एवं तस्याग्रे पूर्वम् अर्धं वदेत गवां दाता विधिवत् पूर्वदृष्टम् ।
प्रतिब्रूयाच् छेषम् अर्धं द्विजातिः प्रतिगृह्णन् गोप्रदाने विधिज्ञः ॥

[म्भ् १३.७५.१४, हेम् ४७०]

पूर्वम् अर्धं या वै यूयम् इत्य् आदिकम् । शेषम् अर्धं मनश्च्युता इत्य् आदिकम् ।

६.३.४७ गां ददानीति वक्तव्यम् अर्घ्यम् उस्रावसु प्रदत् ।
ऊधस्या नमितव्या च वैष्णवीति च चोदनात् ॥ [म्भ् १३.७५.१५, हेम् ४७०]

अर्घ्यम् अर्घ्यार्हम् । उस्रावसु गोधनम् । प्रदत् प्रददत् । ऊधस्या ऊधस्यं क्षीरम् तद्युक्ता ।

६.३.४८ नाम संकीर्तयेत् तस्या यथासंख्यं यथोत्तरम् ।
फलं षड्विंशद् अष्टौ च सहस्राणि च विंशतिः ॥ [म्भ् १३.७५.१६, हेम् ४७०]

विंशतिः सहस्राणाम् ।

६.३.४९ एवम् एतान् गुणान् बुद्ध्वा गवादीनां यथाक्रमम् ।
गोप्रदाता समाप्नोति समस्तान् अष्टमे क्रमे ॥ [म्भ् १३.७५.१७, हेम् ४७०]

अष्टमे क्रमे गवि दत्तायां गच्छन्त्याम् अष्टमे पदे ।

६.३.५० गोदः शीली निर्भयश् चार्घदाता नस्योतदो वसुदाता च कामी ।
उषस्योढा भारत यश् च विद्वान् व्याख्यातास् ते वैष्णवाश् चन्द्रलोकाः ॥

[म्भ् १३.७५.१८, हेम् ४७१]

नस्योतो दान्तवृषः । वसु धनम् । कामी काम्यफलवान् । उषस्योढा उषसि ऊढा आवाहयिता गायत्र्या इत्य् अर्थः ।

६.३.५१ गां वै दत्त्वा गोव्रती स्यात् त्रिरात्रं निशां चैकां संवसेतेह ताभिः ।
काम्याष्टम्यां वर्तितव्यं त्रिरात्रं गवां रसैर् वा शकृता प्रस्रवैर् वा ॥ [म्भ् १३.७५.१९, हेम् ४७१]

काम्याष्टमी रोहिणीयुक्ताष्टमी । रसैर् दध्यादिभिः । प्रस्रवैः क्षीरैः ।

६.३.५२ वेदव्रती स्याद् वृषभप्रदाने वेदावाप्तिर् गोयुगस्य प्रदाने ।
तथा गवां विधिम् आसाद्य यज्वा लोकान् अग्र्यान् विन्दते नाविधिज्ञः ॥

[म्भ् १३.७५.२०, हेम् ४७१]

वेदव्रती वेदव्रतफलवान् । यज्वा गोप्रदाता ।

६.३.५३ कामान् सर्वान् पार्थिवान् एकसंस्थान् यो वै दद्यात् कामदुघां च धेनुम् ।
सम्यक् ताः स्युर् हव्यकव्यौघवत्यस् तासाम् उक्ष्णां ज्यायसं संप्रदानम् ॥ [म्भ् १३.७५.२१, हेम् ४७१–७२]

६.३.५४ न चाशिष्यायाव्रतायोपकुर्यान् नाश्रद्दधानाय न वक्रबुद्धये ।
गुह्यो ह्य् अयं सर्वलोकस्य धर्मो नेमान् धर्मान् यत्र तत्र प्रकल्पयेत् ॥ [म्भ् १३.७५.२२, हेम् ४७२]