०६ २ स्वरूपतो गोदानम्

अथ स्वरूपतो गोदानम्

तत्र याज्ञवल्क्यः

६.२.१ हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ [य्ध् १.२०४, हेम् ४६१]

६.२.२ दातास्याः स्वर्गम् आप्नोति वत्सरान् रोमसंमितान् ।
कपिला चेत् तारयति भूयस् त्व् आसप्तमं कुलम् ॥ [य्ध् १.२०५, हेम् ४६१]

६.२.३ सवत्सरोमतुल्यानि युगान्य् उभयतोमुखीम् ।
दातास्याः स्वर्गम् आप्नोति पूर्वेण विधिना ददत् ॥ [य्ध् १.२०६, हेम् ४७७]

६.२.४ यावद् वत्सस्य पादौ द्वौ मुखं योनौ प्रदृश्यते ।
तावद् गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥ [य्ध् १.२०७]

संवर्त्तः

६.२.५ यो ददाति शफै रौप्यैर् हेमशृङ्गीम् अरोगिनीम् ।
सवत्सां वस्त्रसंयुक्तां सुशीलां गां पयस्विनीम् ॥ [हेम् ४५५]

६.२.६ यावन्ति तस्या रोमाणि सवत्साया दिवं गतः ।
तावतो वत्सरान् आस्ते स नरो ब्रह्मणो ऽन्तिके ॥ [हेम् ४५५]

६.२.७ यो ददाति बलीवर्दम् उक्तेन विधिना शुभम् ।
अव्यङ्गं गोप्रदानात् तु भुङ्क्ते दशगुणं फलम् ॥ [हेम् ४८३]

यमः

६.२.८ रुक्मशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलभूषिताम् ।
कांस्योपदोहनां धेनुं वस्त्रछन्नाम् अलंकृताम् ।

दत्त्वा द्विजेन्द्राय नरः स्वर्गलोके महीयते ॥ [हेम् ४६१]

६.२.९ दशधेनुप्रदानेन तुल्यैका कपिला मता ।
दान्तं धुरंधरं दत्त्वा दशधेनुप्रदो भवेत् ॥ [हेम् ४६१, ४८३]

दान्तः कृतदमनः ।

बृहस्पतिः

६.२.१० हेमशृङ्गीं रौप्यखुरां वस्त्रकांस्याज्यसंयुताम् ।
सवत्सां कपिलां दत्त्वा वंशान् सप्त समुद्धरेत् ॥ [हेम् ४६१–६२]

विष्णुः

६.२.११ गोप्रदानेन स्वर्गम् आप्नोति ।
६.२.१२ दशधेनुप्रदो गोलोकम् ।
६.२.१३ शतधेनुप्रदश् च ब्रह्मलोकम् । [विध् ९२.५–७, हेम् ४५०]
जाबालः

६.२.१४ होमार्थम् अग्निहोत्रस्य यो गां दद्याद् अयाचिताम् ।
त्रिर् वित्तपूर्णा पृथिवी तेन दत्ता न संशयः ॥ [हेम् ४५०]

देवीपुराणे

६.२.१५ नीलां वा यदि वा श्वेतां पाटलां कपिलाम् अपि ।
सदुग्धां वत्सलां चैव सुखदोहां सुगां नृप ॥ [द्प् १०३.२, हेम् ४६३]

६.२.१६ आदाय विधिवद् देवीं पूजयेच् छुभपङ्कजैः ।
धूपं च पञ्चनिर्यासं तुरुष्कागुरुचन्दनम् ॥ [द्प् १०३.३, हेम् ४६३]

६.२.१७ दत्त्वा च मन्त्रपूर्वं तु नैवेद्यम् उपकल्पयेत् ।
पायसं घृतसंयुक्तं क्षामयेच् च तथा तु ताम् ॥ [द्प् १०३.४, हेम् ४६३]

६.२.१८ द्विजाय शिवभक्ताय सवत्सां गां निवेदयेत् ।
सहेमवस्त्रकांस्यां च महापुण्यम् अवाप्नुयात् ॥ [द्प् १०३.५, हेम् ४६३]

६.२.१९ यावत् तद्रोमसंख्यानं तावद् देव्याः पुरे वसेत् ।
इहैव गतपापो ऽसौ जायते नृपसत्तमः ॥ [द्प् १०३.६, हेम् ४६४]

नन्दिपुराणे

६.२.२० यो गां सुपरिपूर्णाङ्गीं हेमशृङ्गीम् अकोपनाम् ।
सुशीलां राजतैः पादैश् चित्रवस्त्रसुसंवृताम् ॥ [हेम् ४५६]

६.२.२१ सलोहपात्रां कुतपे निविष्टचरणां तथा । [हेम् ४५६]
कुतपे नेपालकम्बले ।

६.२.२२ सदक्षिणां प्रदद्याद् गां सो ऽक्षयं स्वर्गम् आप्नुयात् ॥ [हेम् ४५६]
६.२.२३ गवि रोमानि यावन्ति सप्रसूतिकुलस्थितौ ।
तावन्त्य् अब्दानि वसति स्वर्गे दाता न संशयः ॥ [हेम् ४५६]

६.२.२४ एतच्छतगुणं पुण्यं कपिलादानतः स्मृतम् ॥ [हेम् ४५६]
सप्रसूतिकुलस्थितौ प्रसूतिसंतानसहितायाम् ।

आदित्यपुराणे

६.२.२५ कपिलां ये प्रयच्छन्ति चेलछन्नां स्वलंकृताम् ।
स्वर्णशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलभूषिताम् ।

श्वेतवस्त्रयुगछन्नां घण्टास्वनरवैर् युताम् ॥ [हेम् ४६१]

घण्टास्वनरवैर् घण्टाशब्दकोलाहलैः ।

६.२.२६ सहस्रं यो गवां दद्यात् कपिलां वापि सुव्रत ।
समम् एव पुरा प्राह ब्रह्मा ब्रह्मविदां वरः ॥ [हेम् ४६१]

६.२.२७ यावन्ति रोमकूपानि कपिलाङ्गे भवन्ति हि ।
तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते ॥ [हेम् ४६१]

६.२.२८ कृष्णां गां ददते यस् तु पटछन्नां स्वलंकृताम् ।
विधिवच् च द्विजातिभ्यो यमलोकं न पश्यति ॥ [हेम् ४५७]

६.२.२९ आयुर् आरोग्यम् ऐश्वर्यं दाता कामांश् च मानसान् ।
श्वेतां गां ददते यस् तु दिव्यै रत्नैर् अलंकृतां ॥ [हेम् ४५७]

६.२.३० घण्टामालाकुलां कृत्वा पुष्पैश् चैवाप्य् अलंकृताम् ।
मुखे धूपः प्रदातव्यो घृतेनास्यं च पूरयेत् ॥ [हेम् ४५७]

६.२.३१ सुवर्णशृङ्गाभरणा तथा रूप्यखुरा शुभा ।
पटछन्ना शुभा चैव दातव्या ध्यानयोगिने ॥ [हेम् ४५७–५८]

६.२.३२ यस् तु दद्याच् च गां श्वेतां तस्य पुण्यफलं शृणु ।
जन्मप्रभृति यत् पापं मातृकं पैतृकं च यत् ॥ [हेम् ४५८]

६.२.३३ जलोद्धृतस्य हस्तस्य तत् क्षणाद् एव नश्यति ।
गां ददानीह इत्य् एव वाचा पूयेत सर्वशः ॥ [हेम् ४५८]

६.२.३४ पिता पितामहश् चैव तथैव प्रपितामहः ।
नरकस्था विमुच्यन्ते सोमलोकं व्रजन्ति ते ॥ [हेम् ४५८]

६.२.३५ गौरीं चैव प्रयच्छेत् तु यस् तु गां वै नरः शुचिः ।
अहोरात्रोषितश् चैव कृतशौचो नरः सदा ॥ [हेम् ४५८]

६.२.३६ स्वर्णशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलभुषिताम् ।
घण्टामालाकुलां चैव गन्धपुष्पैर् अलंकृताम् ॥ [हेम् ४५८]

६.२.३७ कुतपं चास्तरेत् प्राज्ञो मुखे धूपं प्रदापयेत् ।
भक्ष्यभोज्यान्नपानेन ब्राह्मणान् भोजयेच् छुभान् ॥ [हेम् ४५८]

६.२.३८ गां ददानीह इत्य् एवं वाचा पूयेत सर्वशः ।
मातृकं पैतृकं चैव यच् चान्यदुष्कृतं कृतम् ॥ [हेम् ४५८]

६.२.३९ पापं च तस्य तत् सर्वं दहत्य् अग्निर् इवेन्धनम् ।
वर्षकोटिसहस्रं तु पुमान् स दिवि मोदते ॥ [हेम् ४५८]

६.२.४० दासीदासैर् अलंकारैः स्तूयते सर्वजन्तुभिः ।
अरोगश् चैव जायेत तेजस्वी च भवेन् नरः ॥ [हेम् ४५८]

६.२.४१ नीलवर्णां च गां दद्याद् दोग्ध्रीं शीलगुणान्विताम् ।
स्वर्णशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलभूषिताम् ॥ [हेम् ४५८]

६.२.४२ पटछन्नां शुभां सौम्यां घण्टादामैर् अलंकृताम् ।
पञ्चरङ्गेण सूत्रेण गलावेष्टनसंयुताम् ॥ [हेम् ४५८]

६.२.४३ रुद्रस्य प्रमुखे देया विष्णोश् च ब्रह्मणश् च ह ।
गां ददानीह इत्य् एव वाचा पूयेत सर्वशः ॥ [हेम् ४५९]

६.२.४४ पिता पितामहश् चैव तथैव प्रपितामहः ।
नरकस्था विमुच्यन्ते नीलां गां ददते तु यः ॥ [हेम् ४५९]

६.२.४५ वर्षकोटिसहस्राणि लोके तिष्ठति वारुणे ।
दधिक्षीरवहा नद्यो वर्तन्ते सर्वतः सदा ॥ [हेम् ४५९]

६.२.४६ घृतशैलाः प्रपद्यन्ते नवनीतस्य पर्वताः ।
कृषिभागी बहुधनो दुर्भिक्षं च न पश्यति ॥ [हेम् ४५९]

इति कपिलादिगोदानमाहात्म्यम् ॥

महाभारते

६.२.४७ समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥ [म्भ् १३.७८.८, हेम् ४५९]

समानवत्सां समानवर्णवत्साम् ।

६.२.४८ समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीताम् इन्द्रलोके महीयते ॥ [म्भ् १३.७८.११, हेम् ४५९]

६.२.४९ समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां सोमलोके महीयते ॥ [म्भ् १३.७८.१०, हेम् ४५९]

शबला कर्बुरा ।

६.२.५० समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीताम् अग्निलोके महीयते ॥ [म्भ् १३.७८.१२, हेम् ४५९]

६.२.५१ वातरेणुसवर्णां तु सवत्सां कामदोहिनीम् ।
प्रदाय वस्त्रसंयुक्तां वायुलोके महीयते ॥ [म्भ् १३.७८.१५, हेम् ४५९]

वातरेणुसवर्णा धूसरवर्णा ।

६.२.५२ समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां यमलोके महीयते ॥ [म्भ् १३.७८.१३, हेम् ४६०]

६.२.५३ अघ्न्यां हेमसवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां वारुणं लोकम् अश्नुते ॥ [म्भ् १३.७८.१४, हेम् ४६०]

अघ्न्या गौः । कामदोहना अनायासदोह्या ।

६.२.५४ हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कामदोहनाम् ।
प्रदाय वस्त्रसंवीतां कौबेरं लोकम् अश्नुते ॥ [म्भ् १३.७८.१६, हेम् ४६०]

६.२.५५ पलालधूमवर्णां तु सवत्सां कामदोहनाम् ।
प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥ [म्भ् १३.७८.१७, हेम् ४६०]

६.२.५६ सवत्सां पीवरीं दत्त्वा शितिकण्ठीम् अलंकृताम् ।
वैश्वदेवम् असंबाधं स्थानं श्रेष्ठं प्रपद्यते ॥ [म्भ् १३.७८.१८, हेम् ४६०]

शितिकण्ठीं कृष्णगलाम् ।

६.२.५७ समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां वसूनां लोकम् अश्नुते ॥ [म्भ् १३.७८.१९, हेम् ४६०]

६.२.५८ पाण्डुकम्बलवर्णां तु सवत्सां कामदोहनाम् ।
प्रदाय वस्त्रसंवीतां साध्यानां लोकम् अश्नुते ॥ [म्भ् १३.७८.२०, हेम् ४६०]

६.२.५९ वत्सोपपन्नां नीलाङ्गीं सर्वरत्नसमन्विताम् ।
गन्धर्वाप्सरसां लोकान् दत्त्वा प्राप्नोति मानवः ॥ [म्भ् १३.७८.२२, हेम् ४६०]

६.२.६० गोप्रदानरतो याति भित्त्वा जलदसंचयान् ।
विमानेनार्कवर्णेन दिवि राजन् विराजते ॥ [म्भ् १३.७८.२४, हेम् ४६०]

६.२.६१ तं चारुवेषाः सुश्रोण्यः सहस्रं सुरयोषितः ।
रमयन्ति नरश्रेष्ठं गोप्रदानरतं नरम् ॥ [म्भ् १३.७८.२५, हेम् ४६१]

स्कन्दपुराणे

६.२.६२ यो नरो गां प्रयच्छेत सवत्सां कांस्यदोहनाम् ।
हेमशृङ्गीं रौप्यखुरां दुकूलक्षौमवासिताम् ॥ [हेम् ४५४]

६.२.६३ शय्यास्तरणसंपन्नां बहुपुष्पफलैर् युताम् ।
ब्राह्मनांस् तर्पयित्वा तु गन्धमाल्यैर् अलंकृताम् ॥ [हेम् ४५४]

६.२.६४ देवैर् अध्यासितां तां तु सर्वैर् हस्तद्वयेन तु ।
मृदुबन्धेन बध्नीयाद् अन्तःश्लक्ष्णेन रज्जुना ॥ [हेम् ४५४]

६.२.६५ कुशाः सुवर्णं बीजानि तिलाः सिद्धार्थकास् तथा ।
प्रदद्यात् तां ततो ऽद्भिश् च मन्त्रेणानेन सुव्रत ॥ [हेम् ४५४]

६.२.६६ सर्वदेवमयीं दोग्ध्रीं सर्वलोकमयीं तथा ।
सर्वलोकनिमित्तां गां सर्वदेवनमस्कृताम् ॥ [हेम् ४५४]

६.२.६७ प्रयच्छामि महासत्त्वाम् अक्षयाय शुभाम् इति ।
एवं स दत्त्वा तां गां तु यत्र यत्र प्रजायते ॥ [हेम् ४५४–५५]

६.२.६८ तत्र तत्र गता सा तु जन्तुं तारयते भयात् ।
सर्वलोकान्तरे गत्वा रमते च यथामरः ॥ [हेम् ४५५]

६.२.६९ स तथा मानुषे जातो गोसहस्री महाबलः ।
रूपवान् धनवांश् चैव बहुपुत्रश् च जायते ॥ [हेम् ४५५]