अथ गुडधेन्वादिदानानि
तत्र मत्स्यपुराणे
६.१.१ गुडधेनुविधानस्य यद् रूपम् इह यत् फलम् ।
तद् इदानीं प्रवक्ष्यामि सर्वपापप्रणाशनम् ॥ [म्प् ८२.२, हेम् ३९८]
६.१.२ कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद् भुवि ।
गोमयेनोपलिप्तायां दर्भान् आस्तीर्य यत्नतः ॥ [म्प् ८२.३, हेम् ३९८]
६.१.३ लघ्वेणकाजिनं तद्वद् वत्सस्य परिकल्पयेत् ।
प्राङ्मुखीं कल्पयेद् धेनुम् उदक्पादां सवत्सकाम् ॥ [म्प् ८२.४, हेम् ३९८]
६.१.४ उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयम् ।
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता ॥ [म्प् ८२.५, हेम् ३९८]
६.१.५ अर्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु ।
चतुर्थांशेन वत्सः स्याद् गृहवित्तानुसारतः ॥ [म्प् ८२.६, हेम् ३९८]
६.१.६ धेनुवत्सौ घृतास्यौ तौ सितसूक्ष्माम्बरावृतौ ।
शुक्तिकर्णाव् इक्षुपादौ शुचिमुक्ताफलेक्षणौ ॥ [म्प् ८२.७, हेम् ३९९]
६.१.७ सितसूत्रशिरालौ तौ सितकम्बलकम्बलौ ।
ताम्रगडुकपृष्ठौ तौ सितचामररोमकौ ॥ [म्प् ८२.८, हेम् ३९९]
६.१.८ विद्रुमभ्रूयुगोपेतौ नवनीतस्तनान्वितौ ।
क्षौमपुच्छौ कांस्यदोहाव् इन्द्रनीलकतारकौ ॥ [म्प् ८२.९, हेम् ३९९]
६.१.९ सुवर्णशृङ्गाभरणौ राजतखुरसंयुतौ ।
नानाफलसमायुक्तौ घ्राणगन्धकरण्डकौ ॥ [म्प् ८२.१०, हेम् ३९९]
गन्धकरण्डकः सुरभिगन्धाढ्यद्रव्यं कर्पूरादि ।
६.१.१० इत्य् एवं रचयित्वा तु दीपधूपैर् अथार्चयेत् ॥ [म्प् ८२.१०, हेम् ३९९]
६.१.११या लक्ष्मीः सर्वभूतानां या च देवेष्व् अवस्थिता ।
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ॥ [म्प् ८२.११, हेम् ३९९]
६.१.१२ देहस्था या च रुद्राणी शंकरस्य सदा प्रिया ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ [म्प् ८२.१२, हेम् ३९९]
६.१.१३ विष्णोर् वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ।
चन्द्रार्कशक्रशक्तिर् या धेनुरूपास्तु सा श्रिये ॥ [म्प् ८२.१३, हेम् ३९९]
६.१.१४ चतुर्मुखस्य या लक्ष्मीर् लक्ष्मीर् या धनदस्य च ।
लक्ष्मीर् या लोकपालानां सा धेनुर् वरदास्तु मे ॥ [म्प् ८२.१४, हेम् ४००]
६.१.१५ स्वधा या पितृमुख्यानां स्वाहा यज्ञभुजां च या ।
सर्वपापहरा धेनुस् तस्माच् छान्तिं प्रयच्छ मे ॥ [म्प् ८२.१५, हेम् ४००]
६.१.१६ एवम् आमन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत् ।
विधानम् एतद् धेनूनां सर्वासाम् इह पठ्यते ॥ [म्प् ८२.१६, हेम् ४००]
६.१.१७ यास् तु पापविनाशिन्यः पठ्यन्ते दश धेनवः ।
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप ॥ [म्प् ८२.१७, हेम् ३९७]
६.१.१८ प्रथमा गुडधेनुः स्याद् घृतधेनुस् तथा परा ।
तिलधेनुस् तृतीया च चतुर्थी जलसंज्ञिता ॥ [म्प् ८२.१८, हेम् ३९८]
६.१.१९ क्षीरधेनुश् च विख्याता मधुधेनुस् तथा परा ।
सप्तमी शर्कराधेनुर् दधिधेनुस् तथाष्टमी ॥ [म्प् ८२.१९, हेम् ३९८]
६.१.२० रसधेनुश् च नवमी दशमी स्यात् स्वरूपतः ।
कुम्भाः स्युर् द्रवधेनूनाम् इतरासां तु राशयः ॥ [म्प् ८२.१९–२०, हेम् ३९८, ४०१]
६.१.२१ सुवर्णधेनुम् अप्य् अत्र केचिद् इच्छन्ति मानवाः ।
नवमी तेन तैलेन तथान्ये ऽपि महर्षयः ॥ [म्प् ८२.२०–२१]
६.१.२२ एतद् एव विधानं स्यात् त एवोपस्कराः स्मृताः ।
मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि ॥ [म्प् ८२.२१–२२, हेम् ४००]
६.१.२३ यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ।
अमेययज्ञफलदाः सर्वपापहराः शुभाः ॥ [म्प् ८२.२२–२३, हेम् ४००]
६.१.२४ अयने विषुवे पुण्ये व्यतीपाते ऽथ वा पुनः ।
गुडधेन्वादयो देया उपरागादिपर्वसु ॥ [म्प् ८२.२५, हेम् ४००]
अत्र च घृतादिधेनुद्रव्यपरिमाणम् अपि गुडधेनूक्तम् एव विधानम् एतद् धेनूनां सर्वासाम् अपि पठ्यत इति सामान्येनातिदेशात् । कुम्भाः स्युर् द्रवधेनूनाम् इतरासां तु राशय इति भारचतुष्टयादिपरिमितद्रव्यस्यावस्थापन-प्रकारकथनम् । यत् तु पद्मपुराणादाव् एकेनैव घटेन घृतादिधेनुकथनं द्रोणमात्रेण च तिलधेनुकथनं तद् एतद्धेनुप्रकारात् प्रकारान्तराभिप्रायेण ।
महाभारते
६.१.२५ गोमत्या विद्यया धेनुं तिलानाम् अभिमन्त्र्य यः ।
रसरत्नमयीं दद्यान् न स शोचेत् कृताकृते ॥ [म्भ् १३.७७.२१, हेम् ४०५]
इगोमती विद्या
६.१.२६ गावो माम् उपतिष्ठन्तु हेमशृङ्ग्यः पयोमुचः ।
सुरभ्यः सौरभेयाश् च सरितः सागरं यथा ॥ [म्भ् १३.७७.२२, हेम् ४०५]
६.१.२७ गा वै पश्यामहे नित्यं गावः पश्यन्तु मां सदा ।
गावो ऽस्माकं वयं तासां यतो गावस् ततो वयम् ॥ [म्भ् १३.७७.२३, हेम् ४०५]
६.१.२८ इत्य् एषा गोमती विद्या कीर्तिता ते मयानघ ॥
६.१.२९ एवं रात्रौ दिवा वापि समेषु विषमेषु च ।
महाभयेषु च नरः कीर्तयन् मुच्यते भयात् ॥ [म्भ् १३.७७.२४, हेम् ४०५]
इति गोवधप्रायश्चित्ते वक्ष्यते ।
पद्मपुराणे
६.१.३० विधानं तिलधेनोर् यत् तच् छृणुष्व नराधिप ।
षोडशाढमयी धेनुश् चतुर्भिर् वत्सको भवेत् ॥ [प्प् ३४.३६४–६५, हेम् ४०६]
६.१.३१ इक्षुदण्डमयाः पादा दन्ताः पुष्पमयाः शुभाः ।
नासा गन्धमयी तस्या जिह्वा गुडमयी तथा ॥ [प्प् ३४.३६५–६६, हेम् ४०६]
६.१.३२ पृष्ठे तु कल्पनीया स्याद् घण्टाभरणभूषिता ।
ईदृशीं कल्पयित्वा तु स्वर्णशृङ्गीं प्रकल्पयेत् ॥ [प्प् ३४.३६६–६७, हेम् ४०६]
६.१.३३ रौप्यखुरां कांस्यदोहां पूर्वधेनुविधानतः ।
एवंविधानां तां कृत्वा ब्राह्मणाय तु दापयेत् ॥ [प्प् ३४.३६७–६८, हेम् ४०६]
६.१.३४ कृष्णाजिनस्थितां धेनुं वासोभिर् भूषितां शुभाम् ।
सूत्रेण सूत्रितां कृत्वा पञ्चरत्नसमन्विताम् ।
सर्वौषधिसमायुक्तां मन्त्रपूतां तु दापयेत् ॥ [प्प् ३४.३६८–६९, हेम् ४०६]
६.१.३५ अन्नं मे जायतां सद्यः पानं सर्वरसास् तथा ।
कामान् संपादयास्माकं तिलधेनो द्विजार्पिते ॥ [प्प् ३४.३७०, हेम् ४०६]
६.१.३६ गृह्णामि देवि त्वां भक्त्या कुटुम्बार्थे विशेषतः ।
भरस्व कामैर् मां सर्वैस् तिलधेनो नमो ऽस्तु ते ॥ [प्प् ३४.३७१, हेम् ४०७]
६.१.३७ एवं विधानतो दत्ता तिलधेनुर् नृपोत्तम ।
सर्वकामसमावाप्तिं कुरुते नात्र संशयः ॥ [प्प् ३४.३७२, हेम् ४०७]
६.१.३८ जलधेनुस् तथैवेह कुम्भधेनुः प्रकल्पिता ।
दत्ता तु विधिना कामान् सद्यः सर्वान् प्रयच्छति ॥ [प्प् ३४.३७३, हेम् ४०७]
६.१.३९ धेनुश् च तत्त्वतो दत्ता पौर्णमास्यां नराधिप ।
सा पितॄंस् तारयेद् दुर्गान् नरकात् कामदा भवेत् ॥ [प्प् ३४.३७४, हेम् ४०७]
६.१.४० घृतधेनुस् तथा दत्ता विधानेन विचक्षणैः ।
सर्वकामसमावाप्तिं कुरुते कान्तिदा भवेत् ॥ [प्प् ३४.३७५, हेम् ४०७]
६.१.४१ रसधेनुं तथा दत्त्वा कार्त्तिके मासि पार्थिव ।
सर्वान् कामान् अवाप्नोति नित्यं सुगतिभाग् भवेत् ॥ [प्प् ३४.३७६, हेम् ४०७]
इति पञ्चधेनुदानम् ॥
वराहपुराणे
६.१.४२ चतुर्भिः सेतिकाभिस् तु प्रस्थ एकः प्रकीर्तितः ।
ते षोडश भवेद् धेनुश् चतुर्भिर् वत्सको भवेत् ॥ [वर्प् ९८.९०, हेम् ४०४]
६.१.४३ इक्षुदण्डमयाः पादा दन्ताः पुष्पमयाः शुभाः ।
नासा गन्धमयी तस्या जिह्वा गुडमयी तथा ॥ [वर्प् ९८.९१, हेम् ४०४]
६.१.४४ पुच्छे स्रक् कल्पनीया स्याद् घण्टाभरणभूषिता ।
ईदृशीं कल्पयित्वा तु स्वर्णशृङ्गीं प्रकल्पयेत् ॥ [वर्प् ९८.९२, हेम् ४०४]
६.१.४५ कांस्यदोहां रौप्यखुरां पूर्वधेनुविधानतः ।
तिलधेनुं ततो दत्त्वा द्वादश्यां नियतः शुचिः ।
आत्मानं तारयेद् दुर्गान् नरकात् कामभाग् भवेत् ॥ [वर्प् ९८.९३, हेम् ४०४–०५]
सेतिका कुडवः । स च द्वादशप्रसृतिपरिमितः ।
देवीपुराणे
६.१.४६ तिलधेनुं प्रवक्ष्यामि दुर्गा येन प्रसीदति ।
अपि दुष्कृतकर्मापि यां दत्त्वा निरृणो भवेत् ॥ [द्प् १०४.११, हेम् ४०७]
६.१.४७ प्रत्यक्षा येन देवी स्याद् राज्यपुत्रसुखावहा ।
भवते अचिरेणैव तां शृणुष्व नृपोत्तम ॥ [द्प् १०४.१२, हेम् ४०७]
६.१.४८ देवदेवीम् अनुज्ञाप्य स्नातो वै विजितेन्द्रियः ।
पूजयेत् पुष्पगन्धान्नदीपधूपविचित्रकैः ॥ [द्प् १०४.१३, हेम् ४०७]
६.१.४९ हुत्वा हुताशने देवीं तथा द्रोणमयीं कुरु ॥ [द्प् १०४.१४, हेम् ४०७]
हुत्वा हुताशने देवीम् इति देवीपूजोक्तहोमप्रकारेण देवीं प्रीणयित्वा ।
६.१.५० आढकेन भवेद् वत्सः सर्वरत्नविभूषितः ।
हैमशृङ्गी रौप्यखुरा गन्धघ्राणा सुशोभना ॥ [द्प् १०४.१४–१५, हेम् ४०७–०८]
६.१.५१ मुखं गुडमयं कार्यं जिह्वा चान्नमयी तथा ।
कम्बलः सूक्ष्मसूत्रं तु पादा इक्षुमयास् तथा ॥ [द्प् १०४.१५–१६, हेम् ४०८]
६.१.५२ ताम्रं पृष्ठं भवेत् तस्या ईक्षणे मणिमौक्तिके ।
चारुपत्रमयौ कर्णौ दन्ताः फलमयास् तथा ॥ [द्प् १०४.१६–१७, हेम् ४०८]
६.१.५३ नवनीतस्तनां कुर्यात् पुष्पमालामयीं कुरु ।
पुच्छं तु मणिमुक्ताभिः फलैस् तां च समर्चयेत् ॥ [द्प् १०४.१७–१८, हेम् ४०८]
६.१.५४ शुभवस्त्रयुगछन्नां चारुवस्त्रविभूषिताम् ।
ईदृक्संस्थानसंपन्नां कृत्वा श्रद्धासमन्वितः ॥ [द्प् १०४.१८–१९, हेम् ४०८]
६.१.५५ कांस्योपदोहनां दद्याद् देवी मे प्रीयताम् इति ।
मन्त्राभिमन्त्रितां कृत्वा तद्भक्ताय निवेदयेत् ॥ [द्प् १०४.१९–२०, हेम् ४०८]
६.१.५६ यावान्ति तिलवस्त्राणां धातुमूलफलस्य च ।
विद्यन्ते रजोबिन्दूनि तावत् स्वर्गे वसेन् नरः ॥ [द्प् १०४.२०–२१, हेम् ४०८]
६.१.५७ पितॄन् विगतपापांस् तु कृत्वाधस्ताद् गतान् अपि ।
प्राप्य देव्याः शुभान् लोकान् स्थापयेद् अविचारणात् ॥ [द्प् १०४.२१–२२, हेम् ४०८]
६.१.५८ तस्मिन् स रमते वत्स यावच् चन्द्रार्कतारकम् ।
तथा कालाद् इहायातो जायते पृथिवीपतिः ॥ [द्प् १०४.२२–२३, हेम् ४०८]
६.१.५९ इहैव तेजसा युक्तो बहुपुत्रः सुखान्वितः ।
पुनर् देव्यां रतो नित्यं पूजयेद् विधिना च ताम् ॥ [द्प् १०४.२३–२४, हेम् ४०८]
६.१.६० प्राप्यं योगसहस्रैर् यत् प्राप्नोति परमं पदम् ॥ [द्प् १०४.२४, हेम् ४०८]
इति तिलधेनुदानम् ॥
६.१.६१ तिलाभावे प्रदातव्या सर्पिर्धेनुर् विजानता ।
स्नापयित्वा भवानीं तु घृतक्षीरैर् यथाविधि ॥ [द्प् १०५.१, हेम् ४१५]
६.१.६२ पूजयेत् स्रजमालाभिर् नैवेद्यैः सुमनोहरैः ।
आहरेत् सर्वद्रव्याणि उपकल्पेत तत्र ताम् ॥ [द्प् १०५.२, हेम् ४१५]
६.१.६३ गव्यस्य सर्पिषः कुम्भे पुष्पमालाविभूषिते ।
कांस्यपात्र्यां तथा वस्त्रैश् छादयीत विधाय ताम् ॥ [द्प् १०५.३, हेम् ४१५]
६.१.६४ हिरण्यगर्भसहितां मणिविद्रुममौक्तिकैः ।
पादान् इक्षुमयान् कुर्यात् तथा रौप्यमयान् शफान् ॥ [द्प् १०५.४, हेम् ४१५]
६.१.६५ हेमचक्षुस् तथा शृङ्गे कृष्णागुरुमये शुभे ।
सप्तधान्यैश् च तत्पार्श्वे पत्त्रोर्णेन च कम्बलम् ॥ [द्प् १०५.५, हेम् ४१५]
पार्श्वे कुक्षिसंनिहितौ देहभागौ ।
६.१.६६ घ्राणं त्व् अगुरुकर्पूरैः स्तनाः फलमयाः शुभाः ।
मुखं च गुडक्षीरेण सितां जिह्वां प्रकल्पयेत् ॥ [द्प् १०५.६, हेम् ४१५]
सिता शर्करा ।
६.१.६७ पुच्छं क्षौममयं कार्यं रोमाणि सितसर्षपैः ।
ताम्रपृष्ठं विचित्रं तु ईदृग्रूपां मनोरमाम् ।
विधिना घृतवत्सं च कुर्याल् लक्षणलक्षितम् ॥ [द्प् १०५.७–८, हेम् ४१५]
६.१.६८ एतैः कृत्वा तथा नत्वा पूजयित्वा विधानतः ।
तद्भक्ताय प्रदातव्या मङ्गला शास्त्रपारगे ॥ [द्प् १०५.८–९, हेम् ४१५]
६.१.६९ इमां ममोपकाराय गृह्णीष्व मदनुग्रहात् ।
प्रीयतां नन्दिनी देवी मङ्गला चर्चिका उमा ॥ [द्प् १०५.९–१०, हेम् ४१५]
६.१.७० इत्य् उक्त्वा चार्चयेद् धेनुं कृत्वा नन्दां मनोनुगाम् ।
अनेन विधिना देया सर्पिषो धेनुर् उत्तमा ॥ [द्प् १०५.१०–११, हेम् ४१५]
६.१.७१ हिरण्यरत्नधेनुश् च प्रदेया विधिनामुना ।
मुच्यते सर्वपापेभ्यः सर्वान् कामान् अवाप्नुयात् ॥ [द्प् १०५.११–१२, हेम् ४१५]
६.१.७२ यत्र क्षीरवहा नद्यो यत्र सर्पिर्वहा ह्रदाः ।
पायसाः कर्दमा यत्र तस्मिंल् लोके महीयते ।
तेषां स्वामित्वम् आप्नोति मुदा परमया युतः ॥ [द्प् १०५.१२–१३, हेम् ४१६]
६.१.७३ दश पूर्वापरांस् तार्य आत्मानं त्व् एकविंशकम् ।
भूयः पृथ्वीशतां याति इह लोके स मानवः ॥ [द्प् १०५.१४, हेम् ४१६]
६.१.७४ सकामानाम् इयं व्युष्टिर् धेनोस् तावद् उदाहृता ।
देव्या लोकम् अवाप्नोति निष्कामो घृतधेनुदः ॥ [द्प् १०५.१५, हेम् ४१६]
इति घृतधेनुदानम् ॥
६.१.७५ तोयधेनुं शृणु वत्स यथा देवी प्रसीदति ।
कुम्भं तोयसुसंपूर्णं रत्नवस्त्रयुगान्वितम् ॥ [द्प् १०६.१, हेम् ४२१]
६.१.७६ समस्तबीजसंयुक्तं दूर्वापल्लवशोभितम् ।
दूर्वाक्षतदधिशङ्खकुष्ठामलकचन्दनैः ॥ [द्प् १०६.२, हेम् ४२१]
समस्तबीजं सर्वधान्यम् ।
६.१.७७ माल्यछत्त्रसमायुक्तं तिलपात्रैश् च संयुतम् ।
दधिक्षीरघृतं पात्रं विधानेनोपकल्पयेत् ॥ [द्प् १०६.३, हेम् ४२१]
६.१.७८ वत्सकं कल्पयेत् तत्र तद्वत् तोयमयं बुधः ॥ [द्प् १०६.४, हेम् ४२१]
६.१.७९ देवीम् अभ्यर्च्य विधिवत् सोपवासो ऽथ नक्तवान् ।
देवीभक्ते प्रदद्याद् यः सर्वान् कामान् अवाप्नुयात् ॥ [द्प् १०६.४–५, हेम् ४२१]
६.१.८० जयारिसूदनी देवी देवानां भयनाशिनी ।
वेदमातर् वरे दुर्गे सर्वगे शुभदे नमः ॥ [द्प् १०६.५–६, हेम् ४२१]
६.१.८१ अनेन वत्स मन्त्रेण नन्दानाम्नाभिमन्त्रयेत् ।
देवी मे प्रीयतां नित्यं यथोदितफला शिवा ॥ [द्प् १०६.७, हेम् ४२२]
इति तोयधेनुदानम् ॥
स्कन्दपुराणे
६.१.८२ जलधेनुं च यो दद्यात् तस्य दानफलं शृणु ॥ [हेम् ४२२]
६.१.८३ प्रपां सभां तडागं वा कूपं वापि सुपुष्कलम् ।
कृत्वा कुम्भान् सुवर्णांश् च गन्धमाल्यैर् अलंकृतान् ॥ [हेम् ४२२]
प्रपा पानीयसत्त्रशाला । सभा जनसमाश्रयः । सुवर्णान् शोभनवर्णान् ।
६.१.८४ पुष्पैश् च विविधाकारैर् अभ्यर्च्य द्विजसत्तमान् ।
भक्ष्यभोज्यैः सुतृप्तानां तिलपात्राणि दापयेत् ॥ [हेम् ४२२]
६.१.८५ दक्षिणां पुष्कलां दद्याद् एभ्यस् त्व् आशंसयेत् ततः ॥ [हेम् ४२२]
एभ्यो द्विजेभ्यः ।
६.१.८६ आपः शिवाश् च सौम्याश् च तर्पयन्तु पितॄन् मम ।
कामदाः कामदानाय भवन्त्व् इति च वै वदेत् ॥ [हेम् ४२२]
६.१.८७ एवं दत्त्वा तु तां धेनुं पुनः क्रीत्वा च वै तदा ।
वाहयेत् तु प्रपां देवीं ब्रह्मलोकसमर्पिणीम् ॥ [हेम् ४२२]
६.१.८८ तिलपात्राणि दत्त्वा च तथा वस्त्रयुगं शुभम् ।
सुवर्णस्य च सांनिध्यं फलानि विविधानि च ।
ततो दद्याच् छुचिः स्नातो ब्राह्मणेभ्यो यथाविधि ॥ [हेम् ४२२]
६.१.८९ घृतं गावः प्रसूयन्ते घृतं भूम्यां प्रतिष्ठितम् ।
घृतम् अग्निश् च देवाश् च घृतं सम्यक् प्रदीयताम् ॥ [हेम् ४१४]
६.१.९० एवं विधानतो दद्याद् ब्रह्मलोके महीयते ॥ [हेम् ४२२]
इति जलधेनुदानम् ॥
आदित्यपुराणे
६.१.९१ दरिद्रः खलु यो दद्यात् तिलधेनुं विधानतः ।
गोमयेनोपलिप्याथ तत्र धेनुं समालिखेत् ॥ [हेम् ४०५]
६.१.९२ तिलैर् आकीर्य सर्वाङ्गं तिलधेनुं प्रकल्प्य च ।
खुरेषु चैव शृङ्गेषु देयं कनकम् एव च ।
सतिलां दक्षिणां चैव ब्राह्मणाय निवेदयेत् ॥ [हेम् ४०६]
६.१.९३ तिलधेनुं प्रयच्छेद् यः स्वर्गलोकं च गच्छति ।
ऋणैः सर्वैः प्रमुच्येत कर्मणा मनसा कृतैः ॥ [हेम् ४०६]
६.१.९४ तिलसंख्या च यावद् वै तावत् कोटिशतानि च ।
मोदते तत्र वर्षाणां वसुलोके न संशयः ॥ [हेम् ४०६]
६.१.९५ अथ मानुष्यम् आयाति कदाचित् कालपर्ययात् ।
धनधान्यसमृद्धे वै जायते महतां कुले ॥ [हेम् ४०६]
महाभारते
६.१.९६ सुदक्षिणां काञ्चनचारुशृङ्गीं कांस्योपदोहां द्रविणोत्तरीयाम् ।
धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥
[म्भ् १३.५७.३०, हेम् ४०५]
तथा
६.१.९७ धेन्वाः प्रमाणेन समप्रमाणां धेनुं तिलानाम् अपि च प्रदाय ।
पानीयवापीं च यमस्य लोके न यातनां कांचिद् उपैति मर्त्यः ॥
[म्भ् १३.७९.९, हेम् ४०५]
इति तिलधेनुदानम् ॥
आदित्यपुराणे
६.१.९८ गवाभावे तथा दद्याद् घृतधेनुं यतव्रतः ।
येन कार्या विधानेन तद् इहैकमनाः शृणु ॥ [हेम् ४१६]
६.१.९९ आदित्यं तु जगन्नाथं घृतक्षीराभिषेचनैः ।
संपूज्य पूर्ववत् पुष्पैर् गन्धधूपादिभिर् नरः ॥ [हेम् ४१६]
६.१.१०० अहोरात्रोषितो भूत्वा अभिष्टुत्य घृतार्चिषम् ।
गव्यस्य सर्पिषः कुम्भं पुष्पमालाविभूषितम् ॥ [हेम् ४१६]
६.१.१०१ कांस्योपधानसंयुक्तं सितवस्त्रयुगेन च । [हेम् ४१६]
कांस्योपधानसंयुक्तं कांस्यपात्रपिहितम् ।
६.१.१०२ हिरण्यगर्भसहितं मणिविद्रुममौक्तिकैः ॥ [हेम् ४१६]
६.१.१०३ इक्षुयष्तिमयाः पादाः खुरा रूप्यमयास् तथा ।
सौवर्णे चाक्षिणी कुर्याच् छृङ्गे चागुरुकाष्ठजे ॥ [हेम् ४१६]
६.१.१०४ सप्तधान्यमये पार्श्वे पत्रोर्णेन च कम्बलम् । [हेम् ४१६]
पत्रोर्णं कौशेयविशेषः ।
६.१.१०५ कुर्यात् तुरुष्ककर्पूरं घ्राणं फलमयान् स्तनान् ॥ [हेम् ४१६]
६.१.१०६ तद्वच् छर्करया जिह्वां गुडक्षीरमयं मुखम् ।
क्षौमसूत्रेण लाङ्गूलं रोमाणि सितसर्षपैः ।
ताम्रपात्रमयं पृष्ठं कुर्याच् छ्रद्धासमन्वितः ॥ [हेम् ४१६]
६.१.१०७ ईदृक्स्वरूपां संकल्प्य घृतधेनुं नराधिपः ।
तद्वत् कल्पनया धेनोर् घृतवत्सं प्रकल्पयेत् ॥ [हेम् ४१७]
तद्वत् कल्पनया धेनुवद् अवयवकल्पनाप्रकारेण ।
६.१.१०८ तं च विप्रं महाभागं मनसैव घृतार्चिषम् ।
कल्पयित्वा ततस् तस्मै प्रयतः प्रतिपादयेत् ॥ [हेम् ४१७]
६.१.१०९ इमां ममोपकाराय गृह्णीष्व त्वं द्विजोत्तम ।
प्रीयतां मम देवेशो घृतार्चिर् मिहिरोत्तमः ॥ [हेम् ४१७]
६.१.११० इत्य् उदाहृत्य विप्राय दद्याद् धेनुं नरोत्तम ।
दत्त्वैकरात्रं स्थित्वा च घृताहारो नराधिपः ॥ [हेम् ४१७]
६.१.१११ मुच्यते सर्वपापेभ्यस् तस्य दानफलं शृणु ।
घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः ॥ [हेम् ४१७]
६.१.११२ तेषु लोकेषु नित्यं स सुपुण्येषु प्रमोदते ।
पितुर् ऊर्ध्वं नयेत् सप्त पुरुषांस् तस्य ये ऽप्य् अधः ॥ [हेम् ४१७]
इति घृतधेनुदानम् ॥
६.१.११३ उपोषितः समभ्यर्च्य आदित्यं परमेश्वरम् ।
पुष्पधूपोपहारैश् च यथाविभवम् आदृतः ॥ [हेम् ४१९]
६.१.११४ संकल्प्य जलधेनुं च कुम्भे तम् अभिपूज्य च ।
पूजयेद् वत्सकं तद्वत् कृतं जलमयं बुधः ॥ [हेम् ४१९]
६.१.११५ एवं संपूज्य आदित्यं जलधेनुं सवत्सकाम् ।
सितवस्त्रधरः शान्तो वीतरागो विमत्सरः ॥ [हेम् ४२०, ४१९]
६.१.११६ दद्याद् द्विजाय देवाग्रे प्रीत्यर्थं मिहिरस्य तु ।
आदित्यस्य जगद्योनिः प्रीयतां मिहिरः सदा ॥ [हेम् ४२०]
६.१.११७ इति चोच्चार्य तां गां तु विप्राय प्रतिपादयेत् ।
अपराधान् निशास्ते ऽयम् अयं चात्ति न संशयः ॥ [हेम् ४२०]
६.१.११८ अनेन विधिना दत्त्वा जलधेनुं महामुने ।
सर्वाह्लादान् अवाप्नोति यांश् च ध्यायेत मानुषः ॥ [हेम् ४२०]
६.१.११९ शरीरारोग्यम् आबाधाप्रशमः सर्वकामकाः ।
नॄणां भवन्ति दत्तायां जलधेन्वां न संशयः ॥ [हेम् ४२१]
६.१.१२० सर्वपापविनिर्मुक्तः पितरं सपितामहम् ।
प्रपितामहं यथापूर्वं पुरुषाणां चतुष्टयम् ॥ [हेम् ४२१]
६.१.१२१ आत्मानं तनयं पौत्रं तद् अधस्ताच् चतुष्टयम् ।
तारयेत् स मुनीन्द्रेह जलधेनुप्रदो नरः ॥ [हेम् ४२१]
६.१.१२२ यश् च गृह्णाति विधिवत् तस्याप्य् एवंविधाः कुले ।
चतुर्दश तथा चैव ददतश् चानुमोदतः ॥ [हेम् ४२१]
६.१.१२३ दीयमानां प्रपश्यन्ति जलधेनुं च ये नराः ।
ते ऽप्य् अशेषाघनिर्मुक्ताः प्रयान्ति परमां गतिम् ॥ [हेम् ४२१]
इति जलधेनुदानम् ॥
आदित्यपुराणे
भानुर् उवाच
६.१.१२४ जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया ।
देवदेवो मयूखेशः सर्वगः सर्वभावनः ॥ [हेम् ४१८]
६.१.१२५ जलकुम्भं मुनीन्द्रेह सुवर्णरजतान्वितम् ।
रत्नगर्भम् अशेषैस् तु ग्राम्यैर् धान्यैः समन्वितम् ॥ [हेम् ४१८]
६.१.१२६ सितवस्त्रयुगछन्नं दूर्वापल्लवशोभितम् ।
कुष्ठं मांसीम् उशीरं च वालकामलकैर् युतम् ॥ [हेम् ४१९]
६.१.१२७ प्रियङ्गुपात्रसहितं सितवस्त्रोपवीतिनम् ।
सछत्त्रं सोपानत्कं च दर्भविष्टरसंस्थितम् ॥ [हेम् ४१९]
६.१.१२८ चतुर्दिशं वृतं धूपैस् तिलपात्रैश् चतुर्दिशम् ।
स्थगितं हविःपात्रेण घृतक्षौद्रवता मुखे ॥ [हेम् ४१९]
६.१.१२९ सर्वक्लेशं परित्यज्य विष्णुम् आश्रयते सदा ।
पूज्यमानश् च विबुधैः स गच्छेत् परमं पदम् ॥
६.१.१३० यस् तु स्थापयते सर्वं स मोक्षं व्रजते नरः ॥
इति जलधेनुदानम् ॥