अथ शर्कराचलदानम्
तत्र मत्स्यपुराणे
५.१०.१ अथातः संप्रवक्ष्यामि शर्कराचलम् उत्तमम् ।
यस्य प्रदानाद् विष्ण्वर्करुद्रास् तुष्यन्ति सर्वदा ॥ [म्प् ९२.१, हेम् ३८२]
५.१०.२ अष्टभिः शर्कराभारैर् उत्तमः स्यान् महाचलः ।
चतुर्भिर् मध्यमः प्रोक्तो भाराभ्याम् अवरः स्मृतः ॥ [म्प् ९२.२, हेम् ३८२]
५.१०.३ भारेण चार्धभारेण कुर्याद् यः स्वल्पवित्तवान् ।
विष्कम्भपर्वतान् कुर्यात् तुरीयांशेन मानवः ॥ [म्प् ९२.३, हेम् ३८२]
५.१०.४ धान्यपर्वतवत् सर्वम् आसाद्यामरसंयुतम् ।
मेरोर् उपरि तद्वच् च स्थाप्यं हेमतरुत्रयम् ॥ [म्प् ९२.४, हेम् ३८२]
५.१०.५ मन्दारः पारिजातश् च तृतीयः कल्पपादपः ।
एतद् वृक्षत्रयं मूर्ध्नि सर्वेष्व् अपि निवेदयेत् ॥ [म्प् ९२.५, हेम् ३८२]
५.१०.६ हरिचन्दनसंतानौ पूर्वपश्चिमभागयोः ।
निवेश्यौ सर्वशैलेषु विशेषाच् छर्कराचले ॥ [म्प् ९२.६, हेम् ३८२]
५.१०.७ मन्दारे कामदेवश् च प्रत्यग्वक्त्रः सदा भवेत् ।
गन्धमादनशृङ्गे तु धनदः स्याद् उदङ्मुखः ॥ [म्प् ९२.७, हेम् ३८२]
५.१०.८ प्राङ्मुखो वेदमूर्तिश् च हंसः स्याद् विपुलाचले ।
हैमी सुपार्श्वे सुरभी दक्षिणाभिमुखी भवेत् ॥ [म्प् ९२.८, हेम् ३८२]
५.१०.९ धान्यपर्वतवत् सर्वम् आवाहनम् अथाधिकम् ।
कृत्वाथ गुरवे दद्यान् मध्यमं पर्वतोत्तमम् ।
ऋत्विग्भ्यश् चतुरः शैलान् इमान् मन्त्रान् उदीरयेत् ॥ [म्प् ९२.९, हेम् ३८२–८३]
५.१०.१० सौभाग्यामृतसारो ऽयं परमः शर्करा यतः ।
तन् ममानन्दकारी त्वं भव शैलेन्द्र सर्वदा ॥ [म्प् ९२.१०, हेम् ३८३]
५.१०.११ अमृतं पिबतां ये तु निपेतुर् भुवि शीकराः ।
देवानां तत्समुत्थो ऽयं पाहि नः शर्कराचल ॥ [म्प् ९२.११, हेम् ३८३]
५.१०.१२ मनोभवधनुर्मध्याद् उद्गता शर्करा यतः ।
तन्मयो ऽसि महाशैल पाहि संसारसागरात् ॥ [म्प् ९२.१२, हेम् ३८३]
५.१०.१३ यो दद्याच् छर्कराशैलम् अनेन विधिना नरः ।
सर्वपापविनिर्मुक्तः प्रयाति शिवमन्दिरम् ॥ [म्प् ९२.१३, हेम् ३८३]
५.१०.१४ चन्द्रादित्यप्रतीकाशम् अधिरुह्यानुजीविभिः ।
सहैव यानम् आतिष्ठेत् ततो विष्णुपुरं व्रजेत् ॥ [म्प् ९२.१४, हेम् ३८३]
५.१०.१५ ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ।
आयुरारोग्यसंपन्नो यावज् जन्मार्बुदत्रयम् ॥ [म्प् ९२.१५, हेम् ३८३]
५.१०.१६ भोजनं शक्तितः कुर्यात् सर्वशैलेष्व् अमत्सरः ।
सर्वत्राक्षारलवणम् अश्नीयात् तदनुज्ञया ।
पर्वतोपस्करान् सर्वान् प्रापयेद् ब्राह्मणालयम् ॥ [म्प् ९२.१६, हेम् ३८३]
तथा
५.१०.१७ पश्येद् इमान् अप्य् अधनो ऽपि भक्त्या स्पृशेन् मनुष्यैर् इह दीयमानान् ।
शृणोति भक्याथ मतिं ददाति निष्कल्मषः सो ऽपि दिवं प्रयाति ॥
[म्प् ९२.३४, हेम् ३८३]
५.१०.१८ दुःस्वप्नप्रशमम् उपैति पठ्यमानैः
शैलेन्द्रैर् भवभयभेदनैर् मनुष्यः ।
यः कुर्यात् किम् उ मुनिपुंगवेह संयक्
सन्नात्मा सकलगिरीन्द्रसंप्रदानम् ॥ [म्प् ९२.३५, हेम् ३८४]
इति श्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ दानकाण्डे पर्वतदानानि ॥