०५ ०९ रूप्याचलदानम्

अथ रूप्याचलदानम्

तत्र मत्स्यपुराणे

५.९.१ अतः परं प्रवक्ष्यामि रूप्याचलम् अनुत्तमम् ।
यत्प्रदानान् नरो याति सोमलोकं द्विजोत्तम ॥ [म्प् ९१.१, हेम् ३८१]

५.९.२ दशभिः पलसाहस्रैर् उत्तमो रजताचलः ।
पञ्चभिर् मध्यमः प्रोक्तस् तदर्धेनावरः स्मृतः ॥ [म्प् ९१.२, हेम् ३८१]

५.९.३ अशक्तो विंशतेर् ऊर्ध्वं कारयेच् छक्तितः सदा ।
विष्कम्भपर्वतांस् तद्वत् तुरीयांशेन कल्पयेत् ॥ [म्प् ९१.३, हेम् ३८१]

५.९.४ पूर्ववद् राजतान् कुर्यान् मन्दरादीन् विधानतः ।
कलधौतमयांस् तद्वल् लोकेशान् अर्चयेद् बुधः ॥ [म्प् ९१.४, हेम् ३८१]

कलधौतं काञ्चनम् ।

५.९.५ ब्रह्मविष्ण्वर्कवान् कार्यो नितम्बो ऽत्र हिरण्मयः ।
राजतं स्याद् यद् अन्येषां कार्यं तद् इह काञ्चनम् ॥ [म्प् ९१.५, हेम् ३८१]

५.९.६ शेषं च पूर्ववत् कुर्याद् धोमजागरणादिकम् ।
दद्यात् तद्वत् प्रभाते तु गुरवे रौप्यपर्वतम् ॥ [म्प् ९१.६, हेम् ३८१]

५.९.७ विष्कम्भशैलान् ऋत्विग्भ्यः पूज्य वस्त्रविभूषणैः ।
इमं मन्त्रं पठन् दद्याद् दर्भपाणिर् विमत्सरः ॥ [म्प् ९१.७, हेम् ३८१]

५.९.८ पितॄणां वल्लभं यस्माद् धरीन्द्राणां शिवस्य च ।
रजतं पाहि तस्मान् नः शोकसंसारसागरात् ॥ [म्प् ९१.८, हेम् ३८१]

५.९.९ इत्थं निवेश्य यो दद्याद् रजताचलम् उत्तमम् ।
गवाम् अयुतदानस्य फलं प्राप्नोति मानवः ॥ [म्प् ९१.९, हेम् ३८१–८२]

५.९.१० सोमलोके स गन्धर्वैः किंनराप्सरसां गणैः ।
पूज्यमानो वसेद् धीमान् यावद् आहूतसंप्लवम् ॥ [म्प् ९१.१०, हेम् ३८२]

इति रजताचलदानम् ॥