अथ घृताचलदानम्
तत्र मत्स्यपुराणे
५.७.१ अथातः संप्रवक्ष्यामि घृताचलम् अनुत्तमम् ।
तेजोमृतमयं सर्वं महापातकनाशनम् ॥ [म्प् ८९.१, हेम् ३७८]
५.७.२ विंशत्या घृतकुम्भानाम् उत्तमः स्याद् घृताचलः ।
दशभिर् मध्यमः प्रोक्तः पञ्चभिस् त्व् अधमः स्मृतः ॥ [म्प् ८९.२, हेम् ३७८]
५.७.३ अल्पवित्तो ऽपि यो दद्याद् द्वाभ्याम् इह विधानतः ।
विष्कम्भपर्वतांस् तद्वच् चतुर्थांशेन कल्पयेत् ॥ [म्प् ८९.३, हेम् ३७८]
५.७.४शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत् ।
कारयेत् संहतान् उच्चान् यथाशोभं विधानतः ॥ [म्प् ८९.४, हेम् ३७८]
५.७.५ वेष्टयेच् छुक्लवासोभिर् इक्षुदण्डफलादिकैः ।
धान्यपर्वतवच् छेषं विधानम् इह पठ्यते ॥ [म्प् ८९.५, हेम् ३७८]
५.७.६ अधिवासनपूर्वं तु तद्वद् धोमसुरार्चनम् ॥ [म्प् ८९.६, हेम् ३७९]
५.७.७ प्रभातायां तु शर्वर्यां गुरवे विनिवेदयेत् ।
विष्कम्भपर्वतांस् तद्वद् ऋत्विग्भ्यः शान्तमानसः ॥ [म्प् ८९.६, हेम् ३७९]
५.७.८ संयोगाद् घृतम् उत्पन्नं यस्माद् अमृततेजसोः ।
तस्माद् घृतार्चिर् विश्वात्मा प्रीयताम् अत्र शंकरः ॥ [म्प् ८९.७, हेम् ३७९]
५.७.९ यस्मात् तेजोमयं ब्रह्म घृते तच् च व्यवस्थितम् ।
घृतपर्वतरूपेण तस्मान् नः पाहि भूधरः ॥ [म्प् ८९.८, हेम् ३७९]
५.७.१० अनेन विधिना दद्याद् घृताचलम् अनुत्तमम् ।
महापातकयुक्तो ऽपि लोकम् आयाति शांकरम् ॥ [म्प् ८९.९, हेम् ३७९]
५.७.११ हंससारसयुक्तेन किङ्किणीजालमालिना ।
विमानेनाप्सरोभिश् च सिद्धविद्याधरैर् वृतः ॥ [म्प् ८९.१०, हेम् ३७९]
५.७.१२ विचरेत् पितृभिः सार्धं यावद् आहूतसंप्लवम् ॥ [म्प् ८९.११, हेम् ३७९]
इति घृतपर्वतदानम् ॥