अथ कर्पासाचलदानम्
तत्र मत्स्यपुराणे
५.६.१ अथातः संप्रवक्ष्यामि कर्पासाचलम् उत्तमम् ।
यत्प्रदानान् नरः श्रीमान् प्राप्नोति परमं पदम् ॥ [म्प् ८८.१]
५.६.२ कर्पासपर्वतस् तद्वद् विंशद्भारैर् इहोत्तमः ।
दशभिर् मध्यमः प्रोक्तः कनिष्ठः पञ्चभिः स्मृतः ॥ [म्प् ८८.२, हेम् ३७६]
५.६.३ भारेणाल्पधनो दद्याद् वित्तशाठ्यविवर्जितः ॥ [म्प् ८८.२, हेम् ३७६]
५.६.४ धान्यपर्वतवत् सर्वम् आसाद्य मुनिपुंगव ।
प्रभातायां तु शर्वर्यां दद्याद् इदम् उदीरयन् ॥ [म्प् ८८.३, हेम् ३७६]
५.६.५ त्वम् एवावरणं यस्माल् लोकानाम् इह सर्वदा ।
कर्पासाद्रे नमस् तुभ्यम् अघौघध्वंसनो भव ॥ [म्प् ८८.४, हेम् ३७६]
५.६.६ इति कर्पासशैलं यो दद्यात् पर्वतसंनिधौ ।
रुद्रलोके वसेत् कल्पं ततो राजा भवेद् इह ॥ [म्प् ८८.५, हेम् ३७६]
इति कर्पासपर्वतदानम् ॥