०५ ०५ तिलशैलदानम्

अथ तिलशैलदानम्

तत्र मत्स्यपुराणे

५.५.१ अथातः संप्रवक्ष्यामि तिलशैलं विधानतः ।
यत्प्रदानान् नरो याति विष्णुलोकम् अनुत्तमम् ॥ [म्प् ८७.१, हेम् ३६६]

५.५.२ उत्तमो दशभिर् द्रोणैर् मध्यमः पञ्चभिर् मतः ।
त्रिभिः कनिष्ठो विप्रेन्द्र तिलशैलः प्रकीर्तितः ॥ [म्प् ८७.२, हेम् ३६६]

५.५.३ पूर्ववच् चापरं सर्वं विष्कम्भपर्वतादिकम् ।
दानमन्त्रं प्रवक्ष्यामि यथावन् मुनिपुंगव ॥ [म्प् ८७.३, हेम् ३६६]

५.५.४ यस्मान् मधुवधे विष्णोर् देहस्वेदसमुद्भवाः ।
तिलाः कुशाश् च माषाश् च तस्माच् छं नो भवन्ति ते ॥ [म्प् ८७.४, हेम् ३६६]

५.५.५ हव्यकव्येषु यस्माच् च तिला एवाभिरक्षणम् ।
भवाद् उद्धर शैलेन्द्र तिलाचल नमो ऽस्तु ते ॥ [म्प् ८७.५, हेम् ३६६]

५.५.६ इत्य् आमन्त्र्य च यो दद्यात् तिलाचलम् अनुत्तमम् ।
स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम् ॥ [म्प् ८७.६, हेम् ३६६]

५.५.७ दीर्घायुषम् अवाप्नोति पुत्रं पौत्रं च मानवः ।
पितृभिर् देवगन्धर्वैः पूज्यमानो दिवं व्रजेत् ॥ [म्प् ८७.७, हेम् ३६६]

इति तिलपर्वतदानम् ॥