०५ ०४ सुवर्णाचलदानम्

अथ सुवर्णाचलदानम्

तत्र मत्स्यपुराणे

५.४.१ अथ पापहरं वक्ष्ये सुवर्णाचलम् उत्तमम् ।
यस्य प्रदानाद् भवनं वैरिञ्चं याति मानवः ॥ [म्प् ८६.१, हेम् ३६४]

५.४.२ उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः ।
तदर्धेनावरस् तद्वद् अल्पवित्तो ऽपि शक्तितः ॥ [म्प् ८६.२, हेम् ३६४]

५.४.३ दद्याद् एकपलाद् ऊर्ध्वं यथाशक्त्या विमत्सरः ॥ [म्प् ८६.२, हेम् ३६४]
५.४.४ धान्यपर्वतवत् सर्वं विदध्यान् मुनिपुंगव ।
विष्कम्भशैलांस् तद्वच् च ऋत्विग्भ्यः प्रतिपादयेत् ॥ [म्प् ८६.३, हेम् ३६५]

५.४.५ नमस् ते ब्रह्मगर्भाय ब्रह्मबीजाय वै नमः ।
यस्माद् अनन्तफलदस् तस्मात् पाहि शिलोच्चयः ॥ [म्प् ८६.४, हेम् ३६५]

५.४.६ यस्माद् अग्नेर् अपत्यं त्वं तस्मात् तेजो जगत्पतेः ।
हेमपर्वतरूपेण तस्मात् पाहि नगोत्तम ॥ [म्प् ८६.५, हेम् ३६५]

५.४.७ अनेन विधिना यस् तु दद्यात् कनकपर्वतम् ।
स याति परमं स्थानं ब्राह्मम् आनन्दकारकम् ॥ [म्प् ८६.६, हेम् ३६५]

५.४.८ तत्र कल्पशतं तिष्ठेत् ततो याति परां गतिम् ॥ [म्प् ८६.६, हेम् ३६५]
इति कनकपर्वतदानम् ।