०५ ०३ गुडपर्वतदानम्

अथ गुडपर्वतदानम्

तत्र मत्स्यपुराणे

५.३.१ अथातः संप्रवक्ष्यामि गुडपर्वतम् उत्तमम् ।
यत्प्रदानान् नरः श्रीमान् स्वर्गम् आप्नोति पूजितः ॥ [म्प् ८५.१, हेम् ३६१]

५.३.२ उत्तमो दशभिर् भारैर् मध्यमः पञ्चभिर् मतः ।
त्रिभिर् भारैः कनिष्ठः स्यात् तदर्धेनाल्पवित्तवान् ॥ [म्प् ८५.२, हेम् ३६१]

५.३.३ तद्वद् आमन्त्रणं पूजा हेमवृक्षसुरार्चनम् ।
विष्कम्भपर्वतांस् तद्वत् सरांसि वनदेवताः ॥ [म्प् ८५.३, हेम् ३६१]

५.३.४ होमजागरणं तद्वल् लोकपालाधिवासनम् ।
धान्यपर्वतवत् कुर्याद् इमं मन्त्रम् उदीरयेत् ॥ [म्प् ८५.४, हेम् ३६२]

५.३.५ यथा देवेषु विश्वात्मा प्रवरो ऽयं जनार्दनः ।
सामवेदस् तु वेदानां महादेवस् तु योगिनाम् ॥ [म्प् ८५.५, हेम् ३६२]

५.३.६ प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा ।
तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥ [म्प् ८५.६, हेम् ३६२]

५.३.७ मम तस्मात् परां लक्ष्मीं ददस्व गुडपर्वतः ॥ [म्प् ८५.७, हेम् ३६२]
५.३.८ यस्मात् सौभाग्यदायिन्या भ्राता त्वं गुडपर्वतः ।
निवासश् चापि पार्वत्यास् तस्मान् मां पाहि सर्वदा ॥ [म्प् ८५.७, हेम् ३६२]

५.३.९ अनेन विधिना यस् तु दद्याद् गुडमयं गिरिं ।
पूज्यमानः स गन्धर्वैर् गौरीलोके महीयते ॥ [म्प् ८५.८, हेम् ३६२]

५.३.१० पुनः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ।
आयुरारोग्यसंपन्नः शत्रुभिश् चापराजितः ॥ [म्प् ८५.९, हेम् ३६२]

इति गुडपर्वतदानम् ॥