०५ ०२ लवणाचलदानम्

अथ लवणाचलदानम्

तत्र मत्स्यपुराणे

५.२.१ अथातः संप्रवक्ष्यामि लवणाचलम् उत्तमम् ।
यत्प्रदानान् नरो लोकम् आप्नोति शिवसंयुतम् ॥ [म्प् ८४.१, हेम् ३६०]

५.२.२ उत्तमः षोडशद्रोणः कर्तव्यो लवणाचलः ।
मध्यमः स्यात् तदर्धेन चतुर्भिर् अधरः स्मृतः ॥ [म्प् ८४.२, हेम् ३६०]

५.२.३ वित्तहीनो यथाशक्त्या द्रोणाद् ऊर्ध्वं तु कारयेत् ।
चतुर्थांशेन विष्कम्भपर्वतान् कारयेत् पृथक् ॥ [म्प् ८४.३, हेम् ३६०]

५.२.४ विधानं पूर्ववत् कुर्याद् ब्रह्मादीनां च सर्वदा ।
तद्वद् धेममयान् सर्वांल् लोकपालान् निवेशयेत् ॥ [म्प् ८४.४, हेम् ३६०–६१]

५.२.५ सरांसि कामदेवादींस् तद्वच् चात्र निवेशयेत् ।
कुर्याज् जागरम् अत्रापि दानमन्त्रान् निबोधत ॥ [म्प् ८४.५, हेम् ३६१]

५.२.६ सौभाग्यरससंभूतो यतो ऽयं लवणो रसः ।
तदात्मकत्वेन च मां पाहि पापान् नगोत्तम ॥ [म्प् ८४.६, हेम् ३६१]

५.२.७ यस्माद् अन्नरसाः सर्वे नोत्कटा लवणं विना ।
प्रियं च शिवयोर् नित्यं तस्माच् छान्तिं प्रयच्छ मे ॥ [म्प् ८४.७, हेम् ३६१]

५.२.८ विष्णुदेहसमुद्भूतं यस्माद् आरोग्यवर्धनम् ।
तस्मात् पर्वतरूपेण पाहि संसारसागरात् ॥ [म्प् ८४.८, हेम् ३६१]

५.२.९ अनेन विधिना यस् तु दद्याल् लवणपर्वतम् ।
उमालोके वसेत् कल्पं ततो याति परां गतिम् ॥ [म्प् ८४.९, हेम् ३६१]

इति लवणाचलदानम् ॥