अथ पर्वतदानानि
तत्र मत्स्यपुराणे
उमापतिर् उवाच
५.१.१ मेरोः प्रदानं वक्ष्यामि दशधा मुनिसत्तम ।
यत्प्रदानान् नरो लोकान् आप्नोति सुरपूजितान् ॥ [म्प् ८३.२, हेम् ३४६]
५.१.२ पुराणेषु च वेदेषु यज्ञेष्व् आयतनेषु च ।
न तत् फलम् अधीतेषु कृतेष्व् इह यद् अश्नुते ॥ [म्प् ८३.३, हेम् ३४६–४७]
५.१.३ तस्माद् विधानं वक्ष्यामि पर्वतानाम् अनुत्तमम् ।
प्रथमो धान्यशैलः स्याद् द्वितीयो लवणाचलः ॥ [म्प् ८३.४, हेम् ३४७]
५.१.४ गुडाचलस् तृतीयस् तु चतुर्थो हेमपर्वतः ।
पञ्चमस् तिलशैलः स्यात् षष्ठः कार्पासपर्वतः ॥ [म्प् ८३.५, हेम् ३४७]
५.१.५ सप्तमो घृतशैलश् च रत्नशैलस् तथाष्टमः ।
राजतो नवमस् तद्वद् दशमः शर्कराचलः ॥ [म्प् ८३.६, हेम् ३४७]
५.१.६ वक्ष्ये विधानम् एतेषां यथावद् अनुपूर्वशः ॥ [म्प् ८३.७, हेम् ३४७]
[५.१ अथ धान्यपर्वतदानम्]
५.१.७ अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।
शुक्लपक्षे तृतीयायाम् उपरागे शशिक्षये ॥ [म्प् ८३.७–८, हेम् ३४७]
५.१.८ विवाहोत्सवयज्ञेषु द्वादश्याम् अथ वा पुनः ।
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः ॥ [म्प् ८३.८–९, हेम् ३४७]
५.१.९ धान्यशैलादयो देया यथाशास्त्रं विधानतः ॥ [म्प् ८३.९, हेम् ३४७]
५.१.१० गोमयेनानुलिप्तायां यथाश्रद्धं विधानतः ।
तीर्थे वायतने वापि गोष्ठे वा भवनाङ्गणे ॥ [म्प् ८३.१०, हेम् ३४७]
५.१.११ मण्डपं कारयेद् भक्त्या चतुरस्रम् उदङ्मुखम् ।
प्रागुदक्प्रवणं तद्वत् प्राङ्मुखं वा विधानतः ॥ [म्प् ८३.१०, हेम् ३४७]
५.१.१२ गोमयेनोपलिप्तायां भूमाव् आस्तीर्य वै कुशान् ।
तन्मध्ये पर्वतं कुर्याद् विष्कम्भैः पर्वतैर् युतम् ॥ [म्प् ८३.११, हेम् ३४८]
५.१.१३ धान्यद्रोणसहस्रेण भवेद् गिरिर् इहोत्तमः । [म्प् ८३.१२, हेम् ३४८]
द्रोणश् च प्रमाणस्थपुरुषस्य प्रमाणस्थकरचरणस्य द्वादशभिः प्रसृतिभिः कुडवो भवति । अनेन कुडवेन चतुर्गुणोत्तरं प्रस्थाढकद्रोणा भवन्ति । अतश् चतुःषष्ठ्या कुडवैर् द्रोणो भवति ।
५.१.१४ मध्यमः पञ्चशतिकः कनिष्ठः स्यात् त्रिभिः शतैः ॥ [म्प् ८३.१२, हेम् ३४८]
५.१.१५ मेरुर् महान् व्रीहिमयस् तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात् ॥
[म्प् ८३.१३, हेम् ३४८]
वृक्षत्रयं शर्कराचले त्रयो वृक्षा वक्ष्यमाणा मन्दारपारिजातकल्पपादपाः ।
५.१.१६ पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः ।
पश्चाच् च गारुत्मतनीलरत्नैः सौम्येन वैडूर्यसरोजरागैः ॥
[म्प् ८३.१३–१४, हेम् ३४८]
५.१.१७ श्रीखण्डखण्डैर् अभितः प्रवाललतान्वितः शुक्लशिलातलः स्यात् ॥
[म्प् ८३.१४, हेम् ३४९]
५.१.१८ ब्रह्माथ विष्णुर् भगवान् पुरारिर् दिवाकरो ऽप्य् अत्र हिरण्मयः स्यात् ।
मूर्धव्यवस्था गतमत्सरेण कार्यास् त्व् अनेके च पुनर् द्विजौघाः ॥
[म्प् ८३.१५, हेम् ३४९]
मूर्धव्यवस्था उपरिदेशस्थिताः । द्विजौघाः पक्षिसमूहाः । ते च सौवर्णाः हिरण्मयत्वस्य प्रकृतत्वात् ।
५.१.१९ चत्वारि शृङ्गाणि च राजतानि नितम्बभागेष्व् अपि राजतः स्यात् ।
आर्द्रेक्षुवंशावृतकन्दरस् तु घृतोदकप्रस्रवणश् च दिक्षु ॥
[म्प् ८३.१६, हेम् ३४९]
५.१.२० शुक्लाम्बराण्य् अम्बुधरावली स्यात् पूर्वेण पीतानि च दक्षिणेन ।
वासांसि पश्चाद् अथ कर्बुराणि रक्तानि चैवोत्तरतो घनाली ॥ [म्प् ८३.१७, हेम् ३४९]
इक्षुर् एव वंशः । घृतम् एवोदकम् । वासांस्य् एव मेघाः । घनाली मेघ-माला ।
५.१.२१ रौप्यान् महेन्द्रप्रमुखान् अथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण ।
नानाफलाली च समन्ततः स्यान् मनोरमं माल्यविलेपनं च ॥
[म्प् ८३.१८, हेम् ३४९]
५.१.२२ वितानम् एवोपरि पञ्चवर्णम् अम्लानपुष्पाभरणं सितं वा ॥
[म्प् ८३.१९, हेम् ३४९]
५.१.२३ इत्थं निवेश्यामरशैलम् अग्र्यं मेरोस् तु विष्कम्भगिरीन् क्रमेण ।
तुरीयभागेन चतुर्दिशं तु संस्थापयेत् पुष्पविलेपनाढ्यान् ॥
[म्प् ८३.१९–२०, हेम् ३५०]
५.१.२४ पूर्वेण मन्दरम् अनेकफलैश् च युक्तं
युक्तं गणैः कनकभद्रकदम्बचिह्नम् ।
कामेन काञ्चनमयेन विराजमानम्
आकारयेत् कुसुमवस्त्रविलेपनाढ्यम् ॥ [म्प् ८३.२०–२१, हेम् ३५०]
५.१.२५ क्षीरारुणोदसरसा च वनेन चैव
रौप्येण शक्तिघटितेन विराजमानम् ॥ [म्प् ८३.२१, हेम् ३५०–५१]
मन्दरो ऽपि व्रीहिमय एव । क्षीरारुणोदसरसा क्षीरपूरितेनारुणोदसंज्ञकेन तडागेन रूप्यघटितेन । वनेनापि रौप्येण ।
५.१.२६ याम्येन गन्धमदनश् च निवेशनीयो
गोधूमसंचयमयः कलधौतजम्ब्वा ।
हैमेन यक्षपतिना घृतमानसेन
वस्त्रैश् च राजतवनेन च संयुतः स्यात् ॥ [म्प् ८३.२२, हेम् ३५१]
गन्धमदनो गन्धमादनः । कलधौतजम्ब्वा सुवर्णजम्बूवृक्षेण । घृत-मानसेन घृतकल्पितमानससरसा ।
५.१.२७ पश्चात् तिलाचलम् अनेकसुगन्धिपुष्पं
सौवर्णपिप्पलहिरण्मयहंसयुक्तम् ।
आकारयेद् रजतपुष्पवनेन तद्वद्
वस्त्रान्वितं दधिशितोदसरस् तथाग्रे ॥ [म्प् ८३.२३, हेम् ३५१]
५.१.२८ संस्थाप्य तं विपुलशैलम् अथोत्तरेण
शैलं सुपार्श्वम् अपि माषमयं सवस्त्रम् ॥ [म्प् ८३.२४, हेम् ३५१]
पश्चात् पश्चिमदेशे । विपुलशैलं विपुलं नाम पर्वतम् ।
५.१.२९ पुष्पैश् च हेमवटपादपशेखरं तम्
आकारयेत् कनकधेनुविराजमानम् ।
माक्षीकभद्रसरसा च वनेन तद्वद्
रौप्येण भास्वरवता च युतं विधाय ॥ [म्प् ८३.२४–२५, हेम् ३५१]
५.१.३० होमश् चतुर्भिर् अथ वेदपुराणविद्भिर्
दान्तैर् अनिन्द्यचरिताकृतिभिर् द्विजेन्द्रैः ।
पूर्वेण हस्तमितम् अत्र विधाय कुण्डं
कार्यस् तिलैर् यवघृतेन समित्कुशैश् च ॥ [म्प् ८३.२५–२६, हेम् ३५२–५३]
५.१.३१ रात्रौ च जागरम् अनुद्धतगीततूर्यैर्
आवाहनं च कथयामि शिलोच्चयानाम् ॥ [म्प् ८३.२६, हेम् ३५३]
५.१.३२ त्वं सर्वदेवगणधामनिधिर् विरुद्धम्
अस्मद्गृहेष्व् अमरपर्वत नाशयाशु ।
क्षेमं विधत्स्व कुरु शान्तिम् अनुत्तमां नः
संपूजितः परमभक्तिमता मया हि ॥ [म्प् ८३.२७, हेम् ३५३–५४]
५.१.३३ त्वम् एव भगवान् ईशो ब्रह्मा विष्णुर् दिवाकरः ।
मूर्तामूर्तपरं बीजम् अतः पाहि सनातन ॥ [म्प् ८३.२८, हेम् ३५४]
५.१.३४ यस्मात् त्वं लोकपालानां विश्वमूर्तेश् च मन्दिरम् ।
रुद्रादित्यवसूनां च तस्माच् छान्तिं प्रयच्छ मे ॥ [म्प् ८३.२९, हेम् ३५४]
५.१.३५ यस्माद् अशून्यम् अमरैर् नारीभिश् च शिरस् तव ।
तस्मान् माम् उद्धराशेषदुःखसंसारसागरात् ॥ [म्प् ८३.३०, हेम् ३५४]
५.१.३६ एवम् अभ्यर्च्य तं मेरुं मन्दरं चाभिपूजयेत् ॥ [म्प् ८३.३१, हेम् ३५४]
५.१.३७ यस्माच् चैत्ररथेन त्वं भद्राश्वप्रमुखेन च ।
शोभसे मन्दर क्षिप्रम् अलं तुष्टिकरो भव ॥ [म्प् ८३.३१–३२, हेम् ३५४]
५.१.३८ यस्माच् चूडामणिर् जम्बुद्वीपे त्वं गन्धमादन ।
गन्धर्ववनशोभावान् अतः कीर्तिर् दृढास्तु मे ॥ [म्प् ८३.३२–३३, हेम् ३५४]
५.१.३९ यस्मात् त्वं केतुमालेन वैभ्राजेन वनेन च ।
हिरण्मयाश्वत्थशिखस् तस्मात् पुष्टिर् ध्रुवास्तु मे ॥ [म्प् ८३.३३–३४, हेम् ३५४]
यस्मात् त्वं केतुमालेनेत्य् आदिना पुष्टिर् ध्रुवास्तु मे । इत्य् अनेन मन्त्रेण विपुलपर्वतामन्त्रणम् ।
५.१.४० उत्तरैः कुरुभिर् यस्मात् सावित्रेण वनेन च ।
सुपार्श्व राजसे नित्यम् अतः श्रीर् अक्षयास्तु मे ॥ [म्प् ८३.३४–३५, हेम् ३५४]
५.१.४१ एवम् आमन्त्र्य तान् सर्वान् प्रभाते विमले पुनः ।
स्नात्वाथ गुरवे दद्यान् मध्यमं पर्वतोत्तमम् ॥ [म्प् ८३.३५–३६, हेम् ३५४]
५.१.४२ विष्कम्भान् पर्वतान् दद्याद् ऋत्विग्भ्यः क्रमशो मुने ।
गाश् च दद्याच् चतुर्विंशद् अथ वा दश शक्तितः ॥ [म्प् ८३.३६–३७, हेम् ३५५]
५.१.४३ शक्तितः सप्त चाष्टौ वा पञ्च दद्याद् अशक्तिमान् ।
एकां वा गुरवे दद्यात् कपिलां च पयस्विनीम् ॥ [म्प् ८३.३७–३८, हेम् ३५५]
५.१.४४ पर्वतानाम् अशेषाणाम् एष एव विधिः स्मृतः ।
त एव पूजने मन्त्रास् त एवोपस्कराः स्मृताः ॥ [म्प् ८३.३८–३९, हेम् ३५५]
५.१.४५ ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वदा ।
स्वमन्त्रेण च सर्वेषु होमः शैलेषु पठ्यते ॥ [म्प् ८३.३९–४०, हेम् ३५५–५६]
५.१.४६ उपवासो भवेन् नित्यम् अशक्तौ नक्तम् इष्यते ॥ [म्प् ८३.४०, हेम् ३५६]
५.१.४७ विधानं सर्वशैलानां क्रमशः शृणु नारद ।
दानकाले च ये मन्त्राः पर्वतेषु च यत् फलम् ॥ [म्प् ८३.४१, हेम् ३५६]
५.१.४८ अन्नं ब्रह्म यतः प्रोक्तम् अन्नं प्राणाः प्रकीर्तिताः ।
अन्नाद् भवन्ति भूतानि जगद् अन्नेन वर्तते ॥ [म्प् ८३.४२, हेम् ३५६]
५.१.४९ अन्नम् एव यतो लक्ष्मीर् अन्नम् एव जनार्दनः ।
धान्यपर्वतरूपेण पाहि तस्मान् नमो नमः ॥ [म्प् ८३.४३, हेम् ३५६]
५.१.५० अनेन विधिना यस् तु दद्याद् धान्यमयं गिरिम् ।
मन्वन्तरशतं साग्रं देवलोके महीयते ॥ [म्प् ८३.४४, हेम् ३५६]
५.१.५१ अप्सरोगणगन्धर्वैर् आकीर्णेन विराजता ।
विमानेन दिवः पृष्ठम् आयाति ऋषिसेवितः ॥ [म्प् ८३.४५, हेम् ३५६]
५.१.५२ कर्मक्षयाद् राजराज्यं प्राप्नोतीह न संशयः ॥ [म्प् ८३.४५, हेम् ३५६]
इति धान्याचलदानम् ॥