०४ १८ गोसहस्रदानम्, तिलद्रोणदानम्
४.१८ कालिकापुराणे
४.१८.१ अथापरं स्मृतं दानं येन रोहन्ति देहिनः ।
दुर्लभं तत् परं धाम तृप्ताः कामैर् अशेषतः ॥ [हेम् २५८]
४.१८.२ सहस्रं तु सवत्सानां धेनूनां यः शिवाय वै ।
स्नानार्थं विधिवद् दद्यात् सो ऽपि तत्पदम् आप्नुयात् ॥ [हेम् २५९]
४.१८.३ तद्गोसहस्रक्षीरेण तथा दध्ना च शङ्करम् ।
सर्पिषा च समग्रेण स्नाप्य वाद्यादिमङ्गलैः ।
दद्यात् सरसिजं रौक्मं लिङ्गं संपूज्य यत्नतः ॥ [हेम् २५९]
रौक्मं सौवर्णम् ।
४.१८.४ तदन्ते वाथ पुष्पैस् तु आपीठान्तं सुशोभनम् ।
वितानहेमघण्टादीन् युगांश् चैव निवेदयेत् ॥ [हेम् २५९]
आपीठान्तं पुष्पैः पूरयेद् इति शेषः ।
४.१८.५ दीपदर्पणनैवेद्यं हेमदण्डं च चामरम् ॥ [हेम् २५९]
४.१८.६ अग्निं संतर्प्य चाज्येन मन्त्रविच्छ्रोत्रियेण च ।
हेमवस्त्रसुयुग्मेन भूषितेन द्विजेन वै ॥ [हेम् २५९]
आज्येनेत्यादि आज्येन द्रव्येण श्रोत्रियेण ऋत्विग्भूतेन संतर्पयेद् इत्य् अर्थः । हेम-वस्त्रसुयुग्मेनेति हेम्ना शोभनवस्त्रयुग्मेनेत्य् अर्थः ।
४.१८.७ ततो ब्रह्मरवेणैव शुक्ला गौस् तत्र या शुभा ।
वितानं चोच्छ्रयेत् तस्या गच्छेत् प्राग्दक्षिणं पुनः ॥ [हेम् २५९]
४.१८.८ हराय चापराः सर्वा गावस् तद् अनुचालयेत् ।
मण्डिता हेमवस्त्राद्यैर् महावादित्रनिस्वनैः ॥ [हेम् २५९]
४.१८.९ प्रदक्षिणं ततो देवं कृत्वा गावस् तदग्रतः ।
स्थापयित्वा तु ताः सर्वा यजमानः प्रदक्षिणम् ॥ [हेम् २५९]
४.१८.१० सुरभी या च या मुख्या तस्यास् त्व् अग्रे च कारयेत् ।
सर्वं तद् गोसहस्रं तु महाब्रह्मरवेण वै ॥ [हेम् २५९–६०]
४.१८.११ ततस् तु पुच्छम् आदाय तिलहेमयवाक्षतैः ।
सपुष्पोदकहस्ताभ्यां शङ्कराय निवेदयेत् ॥ [हेम् २६०]
यवाक्षतैर् अक्षतयवैः ।
४.१८.१२ ततस् त्व् एकादशभ्यस् तु ब्राह्मणेभ्यस् तथापराः ।
गावो वत्सान्विता दद्यात् तेभ्यो देयं विचिन्त्य च ॥ [हेम् २६०]
४.१८.१३ अव्रतान् सव्रतांस् तत्र ब्राह्मणांश् च विशेषतः ।
दीनान्धदुःखितांश् चैव भोजयेद् अनिवारितान् ॥ [हेम् २६०]
४.१८.१४ विधिनानेन भक्त्या च स्वर्जिता गोसवेन तु ।
उद्दिश्य शङ्करं देवं मुच्यते भवबन्धनात् ॥ [हेम् २६०]
स्वर्जिद्गोसवौ दृष्टान्तार्थौ ।
४.१८.१५ अथ वान्यप्रकारेण दद्याद् गोशतम् उत्तमम् । [हेम् २६०]
गोशतम् उत्तमम् इति शतशब्दो बहुवाची । स चात्र सहस्रपरः अग्रे सहस्र-विनियोगदर्शनात् ।
४.१८.१६ एकादशाधिकं रुद्रे चिच्छक्ताय मिताय च ॥ [हेम् २६०]
४.१८.१७ संपूर्णं पूर्ववत् कृत्वा विधिम् आदौ प्रयत्नतः ।
होमपूजादिसंयुक्तं दद्यात् तत्रैव शम्भवे ॥ [हेम् २६०]
४.१८.१८ दीक्षितानां शतं ह्य् एकम् आहृत्य शिवमन्दिरे ।
ततः पूज्य यथान्यायं दद्यात् तेभ्यो यथा शृणु ॥ [हेम् २६०]
४.१८.१९ दशकं दशकं चैव एकैकस्य पृथक् पृथक् ।
हृदि शम्भुं गवां चैव ध्यात्वा तेषां निवेदयेत् ॥ [हेम् २६०]
४.१८.२० अधिकं दशकं यत् तु नीलकण्ठेन्दुशेखरे ।
दद्यात् पूर्वविधानेन धेनूनां च सवत्सकम् ॥ [हेम् २६०–६१]
दीक्षितानां शतम् इत्य् आदि शम्भुप्रीतये शम्भुं हृदि ध्यात्वा दीक्षितानां संप्रदानभूतानां दद्याद् इत्य् अर्थः । पूर्वविधानेन क्षीरादिस्नपनप्रकारेण ।
४.१८.२१ अथ वा श्रोत्रियान् विप्रान् वेदवेदाङ्गपारगान् ।
आहृत्य द्विगुणांस् तेभ्यः पञ्च पञ्च ददेत् सुधीः ॥ [हेम् २६१]
४.१८.२२ कृत्वा विधिम् इमं जन्तुर् न शोच्यः स्यात् कदाचन ।
गर्भागारज्वरे भूयः परिक्लामति नैव सः ॥ [हेम् २६१]
गर्भागारज्वरे गर्भवासक्लेशे ।
इति त्रिप्रकारं गोसहस्रदानम् ॥
आदित्यपुराणे
४.१८.२३ अथ प्रयच्छेद् विप्रेषु गोसहस्रं महामुने ।
अर्चयेद् गन्धपुष्पैस् तु पटैः सर्वाः समर्चयेत् ॥ [हेम् २६३]
इपटैर् वस्त्रैः ।
४.१८.२४ सर्वाः कनकशृङ्गाभाः सर्वा रूप्यखुरार्चिताः ।
सर्वाः प्रदक्षिणीः कृत्वा प्रयच्छेत द्विजातिषु ॥ [हेम् २६३]
४.१८.२५ सुवर्णशृङ्गरचिता वस्त्राभरणभूषिताः ।
हीनाङ्गा न ददेद् गावः कृशा वृद्धातुरास् तथा ॥ [हेम् २६३]
४.१८.२६ एकां गाम् अर्चयेत् तासां शेषाणां च विधिं शृणु ।
तिलानां तु शतं ह्य् एकं दद्याद् विप्रेषु दक्षिणाम् ।
पाद्येन विधिना चैव तर्पयित्वा द्विजांस् तथा ॥ [हेम् २६३]
तिलानां शतं तिलानां द्रोणशतम् इत्य् अर्थः । पाद्येन पाद्यार्घादिना ।
४.१८.२७ शुचिः शुद्धमना भूत्वा यो ऽर्चयेच् च जनार्दनम् ।
प्रणम्य शिरसा देवं दत्त्वा गावश् च सत्वरम् ।
तेन ता अर्चिताः सर्वा भविष्यन्ति न संशयः ॥ [हेम् २६३]
४.१८.२८ वेदशास्त्रार्थतत्त्वज्ञाः संहिताध्यापका द्विजाः ।
अग्निहोत्ररता ये च स्वाध्यायनिरताश् च ये ।
एतान् विप्रान् परीक्षेत गोप्रदाने महामुने ॥ [हेम् २६३]
४.१८.२९ ईदृशानां तु यद् दत्तं तच् चानन्तम् इहोच्यते ।
अनन्तं तस्य तद् दानम् इति सत्यं महामुने ॥ [हेम् २६३]
४.१८.३० उपोष्य विधिवच् चैव प्रसन्नमानसेन्द्रियः ।
उपेत्य ब्राह्मणान् पश्येद् दद्याद् गावश् च सत्वरः ॥ [हेम् २६३–६४]
४.१८.३१ तर्पयित्वा च ता गावः प्रणिपातेन पूजयेत् ।
स्पर्शयित्वा च ता गावः सुमनाः सुसमाहितः ॥ [हेम् २६४]
स्पर्शयित्वा दत्त्वा ।
४.१८.३२ न चैतास् ताडयेद् दण्डैर् न हस्तेन न लेष्टुना ॥ [हेम् २६४]
४.१८.३३ यथोक्तं गोसहस्रं तु यः प्रयच्छति वै द्विजः ।
सर्वान् क्लेशान् परित्यज्य विष्णुलोके महीयते ॥ [हेम् २६४]
इति गोसहस्रदानम् ॥
तथा
४.१८.३४ तिलानां च शतं यस् तु विना गोभ्यः प्रयच्छति ।
पलम् एकं सुवर्णस्य गोसहस्राद् विशिष्यते ॥ [हेम् २६४]
४.१८.३५ यथोक्तं गोसहस्रं तु यः प्रयच्छेद् द्विजातिषु ।
तत्फलं लभते दाता सद्यः पापात् प्रमुच्यते ॥ [हेम् २६४]
४.१८.३६ यस् तु पश्यति पापात्मा सो ऽपि पापात् प्रमुच्यते ॥ [हेम् २६४]
४.१८.३७ एकविंशतिम् उद्धृत्य ये च पूर्वे व्यवस्थिताः ।
तारयन्ति नराः क्षिप्रं कुलान्य् एकोत्तरं शतम् ॥ [हेम् २६४]
४.१८.३८ अलाभे गोसहस्रस्य सुवर्णं दातुम् अर्हति ।
सहस्रार्धं शतं न्यूनं द्विजानां च तिलैः सह ॥ [हेम् २६४]
४.१८.३९ तथा च लभते नित्यं संपूर्णं द्विजसत्तम ।
अर्चितानां सहस्राणां फलं प्राप्नोति मानवः ॥ [हेम् २६४]
४.१८.४० संपूर्णदक्षिणं विप्र गोसहस्रं प्रकीर्तितम् ।
तिलानां तु शतं ह्य् एकं गवां दानेन तत् समम् ॥ [हेम् २६४]
सहस्रार्धं सुवर्णस्य षोडशमाषपरिमितस्येति शेषः ।
महाभारते
४.१८.४१ गवां सहस्रदः प्रेत्य नरकं नैव पश्यति ।
सर्वत्र विजयं चापि लभते मनुजाधिपः ॥ [म्ब् १३.६५.४३, हेम् २६४]
४.१८.४२ दशगोसहस्रदो नित्यं शक्रेण सह मोदते ।
अक्षयांल् लभते लोकान् नरः शतसहस्रदः ॥ [म्ब् १३.६५.५२, हेम् २६५]
४.१८.४३ सुवर्णशृङ्गैस् तु विराजितानां गवां सहस्रस्य पुनः प्रदाता ।
प्राप्नोति पुण्यं दिवि देवलोकम् इत्य् एवम् आहुर् मुनिवेदसङ्घाः ॥
[म्ब् १३.५७.२७, हेम् २६५]
इति तिलद्रोणदानम् ॥