०४ १७ पद्मपुराणे ब्रह्माण्डदानविधिः

०४ १७ पद्मपुराणे ब्रह्माण्डदानविधिः

अथ पद्मपुराणे ब्रह्माण्डदानविधिः

राजोवाच

४.१७.१ विधिं ब्रह्माण्डदानस्य कृत्वा यं मोक्षभाग् भवेत् ।
कालं देशं विप्रतीर्थं सर्वम् एतद् वदस्व मे ॥ [प्प् ३४.३८५, हेम् २४०]

४.१७.२ कृतेन येन सर्वस्य फलभागी भवाम्य् अहम् ।
कुत्सितस्यास्य भावस्य मोक्षः स्याद् अचिराच् च मे ॥ [प्प् ३४.३८६, हेम् २४०]

वसिष्ठ उवाच

४.१७.३ एवं श्रुत्वा ततो राजन् पुरोधास् तस्य तं द्विजः ।
ब्रह्माण्डं कारयामास सौवर्णं सर्वधातुभिः ॥ [प्प् ३४.३८७, हेम् २४१]

४.१७.४ पीठं निष्कसहस्रेण पद्मं तत्र प्रकल्पयेत् ।
तत्र ब्रह्मा तस्य मध्ये पद्मरागैर् अलंकृतः ॥ [प्प् ३४.३८८, हेम् २४१]

४.१७.५ सावित्र्या चैव गायत्र्या मुनिभिर् ऋषिभिः सह ।
नारदाद्यैः सुतैः सर्वैर् इन्द्राद्यैश् च सुरैस् तथा ॥ [प्प् ३४.३८९, हेम् २४१]

४.१७.६ सौवर्णविग्रहाः सर्वे ब्रह्मणस् तु पुरःसराः ॥ [प्प् ३४.३९०, हेम् २४१]
४.१७.७ वराहरूपो भगवान् लक्ष्म्या सह सनातनः ।
नीलान् मरकतांश् चैव भूषायां तस्य कारयेत् ॥ [प्प् ३४.३९०–९१, हेम् २४१]

४.१७.८ रजतस्य च शुद्धस्य देहं रुद्रस्य कारयेत् ।
गोमेदकैस् तस्य शोभां कारयेद् अत्र बुद्धिमान् ॥ [प्प् ३४.३९१, हेम् २४१]

४.१७.९ मौक्तिकैश् चापि सोमस्य शोभां वज्रैर् दिवाकरे ।
ग्रहाणां चैव सर्वेषां सुवर्णानि च दापयेत् ॥ [प्प् ३४.३९२, हेम् २४१]

४.१७.१० पीठात् सप्तगुणं रौप्यं रौप्यात् ताम्रं तथाविधं ।
ताम्रात् सप्तगुणं कार्यं कांस्यम् अत्र नराधिप ।

त्रपुणः पुरतः सीसं तावल् लोहं च कारयेत् ॥ [प्प् ३४.३९३–९४, हेम् २४३]

४.१७.११ सप्त द्वीपाः समुद्राश् च सप्त वै कुलपर्वताः ।
अनया संख्यया कृत्वा निपुणैः शिल्पिभिः कृताः ॥ [प्प् ३४.३९५, हेम् २४३]

४.१७.१२ यादसानि च भूतानि राजतान्य् एव कारयेत् ।
आरण्यानि च सत्त्वानि सौवर्णानि च कारयेत् ।

वृक्षान् वनस्पतींश् चात्र तृणवल्लीः सवीरुधः ॥ [प्प् ३४.३९६–९७, हेम् २४३]

४.१७.१३ सर्वं प्रकल्प्य विधिवत् तीर्थे देयं विचक्षणैः ॥ [प्प् ३४.३९७, हेम् २४३]
४.१७.१४ कुरुक्षेत्रे गयायां च प्रयागे ऽमरकण्टके ।
द्वारवत्यां प्रभासे वा गङ्गाद्वारे च पुष्करे ।

तीर्थेष्व् एतेषु वै देयं ग्रहणे सोमसूर्ययोः ॥ [प्प् ३४.३९८–९९, हेम् २४३–४४]

४.१७.१५ दिनच्छिद्रेषु सर्वेषु अयने दक्षिणोत्तरे ।
व्यतीपाते बहुगुणं विषुवे च विशेषतः ॥ [प्प् ३४.३९९–४००, हेम् २४४]

४.१७.१६ दातव्यम् एतद् राजेन्द्र विचारं नैव कारयेत् ।
बालाग्निहोत्रिणं विप्रं सुरूपं च गुणान्वितं ॥ [प्प् ३४.४००–०१, हेम् २४४]

४.१७.१७ सपत्नीकं च संपूज्य भूषयित्वा तु भूषणैः ।
पुरोहितं मुख्यतमं कृत्वान्ये च तथा द्विजाः ॥ [प्प् ३४.४०१–०२, हेम् २४४]

४.१७.१८ चतुर्दश गुणोपेताः सपत्नीका निमन्त्रिताः ।
अहताम्बरसंछन्नाः स्रग्विणः सुविभूषिताः ॥ [प्प् ३४.४०२, हेम् २४४]

४.१७.१९ अङ्गुलीयकानि तथा कर्णवेष्टांश् च दापयेत् ॥ [प्प् ३४.४०३, हेम् २४४]
४.१७.२० एवंविधांश् च संपूज्य तेषाम् अग्रे स्वयं स्थितः ।
अष्टाङ्गप्रणिपातेन प्रणम्य च पुनः पुनः ।

पुरोहिताय पुरतः कृत्वा वै करसंपुटम् ॥ [प्प् ३४.४०३–०४, हेम् २४४]

४.१७.२१ यूयं वै ब्राह्मणाः प्रीता मैत्रत्वेनानुगृह्णत ।
सौमुख्येनेह भवतां भवेत् पूतो नरः स्वयम् ॥ [प्प् ३४.४०५, हेम् २४४]

४.१७.२२ भवतां प्रीतियोगेन स्वयं प्रीतः पितामहः ।
ब्रह्माण्डेन तु दत्तेन तोषम् एति जनार्दनः ॥ [प्प् ३४.४०६, हेम् २४४]

४.१७.२३ पिनाकपाणिर् भगवान् शक्रश् च त्रिदशेश्वरः ।
एते वै तोषम् आयान्ति अनुध्याता द्विजोत्तमैः ॥ [प्प् ३४.४०७, हेम् २४४]

४.१७.२४ एवं स्तुत्वा ततो राजा ब्राह्मणान् वेदपारगान् ।
ब्रह्माण्डं तु गुरोः प्रादात् सविधानं पुनः क्षणात् ॥ [प्प् ३४.४०८, हेम् २४४–४५]

४.१७.२५ सर्वकामैस् ततस् तृप्तो ययौ स्वर्गं नराधिपः ।
तेनापि गुरुणा तच् च विभक्तं ब्राह्मणैः सह ॥ [प्प् ३४.४०९, हेम् २४५]

४.१७.२६ दत्तस् तैर् अपि चान्येभ्यो ब्रह्माण्डांशो नराधिप ॥ [प्प् ३४.४१०, हेम् २४५]
४.१७.२७ ब्रह्माण्डं भूमिदानं च ग्राह्यं नैकेन तद् भवेत् ।
गृह्णन् दोषम् अवाप्नोति ब्रह्महत्यां न संशयः ॥ [प्प् ३४.४१०–११, हेम् २४५, ५८]

४.१७.२८ सर्वेषां चैव प्रत्यक्षं दातव्यं तन् नराधिप ।
दीयमानं च पश्यन्ति ते ऽपि भूता भवन्ति हि ।

दर्शनाद् एव ते पूता भवेयुर् नात्र संशयः ॥ [प्प् ३४.४११–१२, हेम् २४५]

४.१७.२९ भीमद्वादशी या प्रोक्ता स्वर्णनाभं मृगाजिनम् ।
एतानि गत्वा पश्येत् तु दृष्टैर् एतैः क्रियाफलम् ।

अयत्नाद् एव लभ्येत कर्तुश् चैव सलोकता ॥ [प्प् ३४.४१३–१४, हेम् २४५]

इति ब्रह्माण्डदानम् ॥