अथ रत्नधेनुदानम्
तत्र मत्स्यपुराणे
४.१५.१ अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
रत्नधेनुर् इति ख्यातं गोलोकफलदं नृणाम् ॥ [म्प् २८८.१, हेम् ३४०]
४.१५.२ पुण्यं दिनम् अथासाद्य तुलापुरुषदानवत् ।
लोकेशावाहनं कृत्वा ततो धेनुं प्रकल्पयेत् ॥ [म्प् २८८.२, हेम् ३४०]
४.१५.३ भूमौ कृष्णाजिनं कृत्वा लवणद्रोणसंयुतम् ।
धेनुं रत्नमयीं कुर्यात् संकल्पविधिपूर्वकम् ॥ [म्प् २८८.३, हेम् ३४०]
४.१५.४ स्थापयेत् पद्मरागाणाम् एकाशीतिं मुखे बुधः ।
पद्मरागशतं तद्वद् घोणायां परिकल्पयेत् ॥ [म्प् २८८.४, हेम् ३४०]
इघोणा नासिकाग्रभागः ।
४.१५.५ ललाटे हेमतिलकं मुक्ताफलशतं दृशोः ।
भ्रूयुगे विद्रुमशतं शुक्ती कर्णद्वये स्थिते ॥ [म्प् २८८.५, हेम् ३४०]
४.१५.६ काञ्चनानि च शृङ्गानि शिरो वज्रशतात्मकम् ।
ग्रीवायां नेत्रपटकं गोमेदकशतात्मकम् ॥ [म्प् २८८.६, हेम् ३४०–४१]
४.१५.७ इन्द्रनीलशतं पृष्ठे वैडूर्यशतपार्श्वकौ ।
स्फाटिकैर् उदरं तद्वत् सौगन्धिकशतात् कटिम् ॥ [म्प् २८८.७, हेम् ३४१]
स्फाटिकैर् उदरं तद्वद् इति शतसंख्यैर् इत्य् अर्थः ।
४.१५.८ खुरा हेममयाः कार्याः पुच्छं मुक्तावलीमयम् ।
सूर्यकान्तेन्दुकान्तौ च घ्राणे कर्पूरचन्दनम् ॥ [म्प् २८८.८, हेम् ३४१]
४.१५.९ कुङ्कुमानि च रोमाणि रौप्यां नाभिं च कारयेत् ॥ [म्प् २८८.९, हेम् ३४१]
४.१५.१० गारुत्मतशतं तद्वद् अपाने परिकल्पयेत् ।
तथान्यानि च रत्नानि स्थापयेत् सर्वसंधिषु ॥ [म्प् २८८.९–१०, हेम् ३४१]
४.१५.११ कुर्याच् छर्करया जिह्वां गोमयं च तदात्मकम् ।
गोमूत्रम् आज्येन तथा दधि दुग्धं स्वरूपतः ॥ [म्प् २८८.१०–११, हेम् ३४१]
४.१५.१२ पुच्छाग्रे चामरं दद्यात् समीपे ताम्रदोहनम् ।
कुण्डलानि च हेमानि भूषणानि च शक्तितः ॥ [म्प् २८८.११–१२, हेम् ३४१]
४.१५.१३ कारयेद् एवम् एवं तु चतुर्थांशेन वत्सकम् ॥ [म्प् २८८.१२, हेम् ३४१]
४.१५.१४ तथा धान्यानि सर्वाणि पादाश् चेक्षुमयाः स्मृताः ।
नानाफलानि सर्वाणि पञ्चवर्णं वितानकम् ॥ [म्प् २८८.१३, हेम् ३४१]
४.१५.१५ एवं विरचनां कृत्वा तद्वद् धोमाधिवासनम् ।
ऋत्विग्भ्यो दक्षिणां दत्त्वा धेनुम् आमन्त्रयेत् ततः ॥ [म्प् २८८.१४, हेम् ३४१]
४.१५.१६ गुडधेनुवद् आमन्त्र्य इदं चोदाहरेत् ततः ॥ [म्प् २८८.१४, हेम् ३४१]
गुडधेनुवद् या लक्ष्मीर् इत्य् आदिना ।
४.१५.१७ त्वां सर्वदेवगणधाम यतः पठन्ति
रुद्रेन्द्रचन्द्रकमलासनवासुदेवाः ।
तस्मात् समस्तभुवनत्रयदेवयुक्ता
मां पाहि देवि भवसागरपीड्यमानम् ॥ [म्प् २८८.१५, हेम् ३४२]
४.१५.१८ आमन्त्र्य चेत्थम् अभितः परिवृत्य भक्त्या
दद्याद् द्विजाय गुरवे जलपूर्विकां ताम् । [म्प् २८८.१६, हेम् ३४२]
परिवृत्य प्रदक्षिणीकृत्य ।
४.१५.१९ यः पुण्यम् आप्य दिनम् अत्र कृतोपवासः
पापैर् विमुक्ततनुर् एति पदं मुरारेः ॥ [म्प् २८८.१६, हेम् ३४२]
४.१५.२० इति सकलविधिज्ञो रत्नधेनुप्रदानं
वितरति स विमानं प्राप्य देदीप्यमानम् ।
सकलकलुषमुक्तो बन्धुभिः पुत्रपौत्रैः
सह मदनसरूपः स्थानम् अभ्येति शम्भोः ॥ [म्प् २८८.१७, हेम् ३४२]
इति रत्नधेनुदानम् ॥