अथ सप्तसागरदानम्
तत्र मत्स्यपुराणे
४.१४.१ अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
सप्तसागरकं नाम सर्वपापप्रणाशनम् ॥ [म्प् २८७.१, हेम् ३३७]
४.१४.२ पुण्यं दिनम् अथासाद्य कृत्वा ब्राह्मणवाचनम् ।
तुलापुरुषवत् कुर्याल् लोकेशावाहनं बुधः ।
ऋत्विङ्मण्डपसंभारभूषणाछादनादिकम् ॥ [म्प् २८७.२–३, हेम् ३३७]
४.१४.३ कारयेत् सप्त कुण्डानि काञ्चनानि विचक्षणः ।
प्रादेशमात्राणि तथा रत्निमात्राणि वा पुनः ॥ [म्प् २८७.३–४, हेम् ३३७]
४.१४.४ कुर्यात् सप्तपलाद् ऊर्ध्वम् आसहस्राच् च शक्तितः ॥ [म्प् २८७.४, हेम् ३३८]
इरत्निमात्राणि रत्न्यादिस्वरूपं मार्कण्डेयपुराण उक्तṁ तद्यथा—
४.१४.५ रत्निर् अङ्गुष्ठपर्वाणि संख्यया त्व् एकविंशतिः ॥
इतदर्धं प्रादेशः ।
४.१४.६ संस्थाप्यानि च सर्वाणि कृष्णाजिनतिलोपरि ॥ [म्प् २८७.५, हेम् ३३८]
४.१४.७ प्रथमं पूरयेत् कुण्डं लवणेन विचक्षणः ।
द्वितीयं पयसा तद्वत् तृतीयं सर्पिषा पुनः ॥ [म्प् २८७.५–६, हेम् ३३८]
४.१४.८ चतुर्थं तु गुडेनैव दध्ना पञ्चमम् एव च ।
षष्ठं शर्करया तद्वत् सप्तमं तीर्थवारिणा ॥ [म्प् २८७.६–७, हेम् ३३८]
४.१४.९ स्थापयेल् लवणस्यान्ते ब्रह्माणं काञ्चनं शुभम् ।
केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम् ॥ [म्प् २८७.७–८, हेम् ३३८]
४.१४.१० भास्करं गुडमध्ये तु दधिमध्ये ऽमराधिपम् ।
शर्करायां न्यसेल् लक्ष्मीं जलमध्ये तु पार्वतीम् ॥ [म्प् २८७.८–९, हेम् ३३८]
४.१४.११ सर्वेषु सर्वरत्नानि धान्यानि च समन्ततः ।
तुलापुरुषवच् छेषम् अत्रापि परिकल्पयेत् ॥ [म्प् २८७.९–१०, हेम् ३३८]
४.१४.१२ ततो वारुणहोमान्ते स्नापितो वेदपुंगवैः ।
त्रिः प्रदक्षिणम् आवृत्य मन्त्रान् एतान् उदाहरेत् ॥ [म्प् २८७.१०–११, हेम् ३३८]
वारुणहोमान्ते वारुणहोमानन्तरम् । स च होमो ऽधिकः सर्वशेषे कर्तव्यः ।
४.१४.१३ नमो वः सर्वसिन्धूनाम् आधारेभ्यः सनातनाः ।
जन्तूनां प्राणदेभ्यश् च समुद्रेभ्यो नमो नमः ॥ [म्प् २८७.११, हेम् ३३९]
४.१४.१४ क्षीरोदकाज्यदधिमाधवलावणेक्षु-
सारामृतेन भुवनत्रयजीवसङ्घान् ।
आनन्दयन्ति वसुभिश् च यतो भवन्तस्
तस्मान् ममाप्य् अघविघातम् अलं विदध्वम् ॥ [म्प् २८७.१२, हेम् ३३९]
४.१४.१५ यस्मात् समस्तभुवनेषु भवन्त एव
तीर्थामरासुरसुबद्धमणिप्रतानम् ।
पापक्षयाम्बरविलेपनभूषणाय
लोकस्य बिभ्रति तद् अस्तु ममापि लक्ष्मीः ॥ [म्प् २८७.१३, हेम् ३३९]
४.१४.१६ इति ददाति रसामरसंयुतान्
शुचिर् अविस्मयवान् इह सागरान् ।
अमलकाञ्चनवर्णमयान् असौ
पदम् उपैति हरेर् अमरावृतः ॥ [म्प् २८७.१४, हेम् ३३९]
४.१४.१७ सकलपापविघातविराजितः
पितृपितामहपुत्रकलत्रकम् ।
नरकलोकसमाकुलम् अप्य् अलं
झटिति सो ऽर्पयते शिवमन्दिरम् ॥ [म्प् २८७.१५, हेम् ३३९]
इति सप्तसागरदानम् ॥