०४ १३ कल्पलतादानम्

अथ कल्पलतादानम्

तत्र मत्स्यपुराणे

४.१३.१अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
महाकल्पलतानाम महापातकनाशनम् ॥ [म्प् २८६.१, हेम् ३३४]

४.१३.२ पुण्यां तिथिम् अथासाद्य कृत्वा ब्राह्मणवाचनम् ।
ऋत्विङ्मण्डपसंभारभूषणाछादनादिकम् ।

तुलापुरुषवत् कुर्याल् लोकेशावाहनादिकम् ॥ [म्प् २८६.२–३, हेम् ३३४]

४.१३.३ चामीकरमयीः कुर्याद् दश कल्पलताः समाः ।
नानापुष्पफलोपेता नानांशुकविभूषिताः ॥ [म्प् २८६.३–४, हेम् ३३४]

४.१३.४ विद्याधरसुपर्णानां मिथुनैर् उपशोभिताः ।
हारान् आदित्सुभिः सिद्धैः फलानि च विहंगमैः ॥ [म्प् २८६.४–५, हेम् ३३४]

४.१३.५ लोकपालानुसारिण्यः कर्तव्यास् तासु देवताः ॥ [म्प् २८६.५, हेम् ३३४]
४.१३.६ ब्राह्मीम् अनन्तशक्तिं च लवणस्योपरि न्यसेत् ।
अधस्ताल् लतयोर् मध्ये पद्मशङ्खधरे शुभे ॥ [म्प् २८६.६, हेम् ३३४]

४.१३.७ भासनस्था तु गुडे पूर्वतः कुलिशायुधा ।
रजन्यजस्थिताग्नेयी स्रुवपाणिर् अथानले ॥ [म्प् २८६.७, हेम् ३३५]

रजन्यजस्थिता छागवाहना हरिद्रोपरि संस्थिता । आनले आग्नेयदिग्भागे ।

४.१३.८ याम्यां च महिषारूढा गदिनी तण्डुलोपरि ।
घृते तु नैरृती स्थाप्या सखड्गा दक्षिणापरे ॥ [म्प् २८६.८, हेम् ३३५]

दक्षिणापरे दक्षिणपश्चिमदिग्भागे ।

४.१३.९ वारुणे वारुणी क्षीरे झषस्था नागपाशिनी ।
पताकिनी च वायव्ये मृगस्था शर्करोपरि ॥ [म्प् २८६.९, हेम् ३३५]

४.१३.१० सौम्या तिलेषु संस्थाप्या शङ्खिनी निधिसंस्थिता ।
माहेश्वरी वृषगता नवनीते त्रिशूलिनी ॥ [म्प् २८६.१०, हेम् ३३५]

४.१३.११ मौलिन्यो वरदास् तद्वत् कर्तव्या बालिकान्विताः ।
शक्त्या पञ्चपलाद् ऊर्ध्वम् आसहस्रात् प्रकल्पयेत् ॥ [म्प् २८६.११, हेम् ३३५]

४.१३.१२ सर्वासाम् उपरिष्टाच् च पञ्चवर्णं वितानकम् ।
धेनवो दश कुम्भाश् च वस्त्रयुग्मानि चैव हि ॥ [म्प् २८६.१२, हेम् ३३५]

४.१३.१३ मध्यमे द्वे तु गुरवे ऋत्विग्भ्यो ऽन्यास् तथैव च ॥ [म्प् २८६.१३, हेम् ३३६]
४.१३.१४ ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो बुधः ।
त्रिः प्रदक्षिणम् आवृत्य मन्त्रान् एतान् उदीरयेत् ॥ [म्प् २८६.१३, हेम् ३३६]

४.१३.१५ नमो नमः पापविनाशिनीभ्यो ब्रह्माण्डलोकेश्वरपालिनीभ्यः ।
आशंसिताधिक्यफलप्रदाभ्यो दिग्भ्यस् तथा कल्पलतावधूभ्यः ॥

[म्प् २८६.१४, हेम् ३३६]

४.१३.१६ इति सकलदिगङ्गनाप्रदानं
भवभयसूदनकारि यः करोति ।

अभिमतफलदे स नाकलोके

वसति पितामहवत्सराणि त्रिंशत् ॥ [म्प् २८६.१५, हेम् ३३६–३७]

अभिमतफलदे इष्टफलदायिनि ।

४.१३.१७ पितृशतम् अथ तारयेद् भवाब्धेर्
भवदुरितौघविनाशशुद्धदेहः ।

सुरपतिवनितासहस्रसंख्यैः

परिवृतम् अम्बुजसंभवाभिनन्द्यः ॥ [म्प् २८६.१६, हेम् ३३७]

४.१३.१८ इति विधानम् इदं सदिगङ्गना-
कनककल्पलताविनिवेदने ।

पठति यः स्मरतीह तथेक्षते

स पदम् एति पुरंदरसेवितम् ॥ [म्प् २८६.१७, हेम् ३३७]

इति कल्पलतादानम् ॥