०४ १२ विश्वचक्रदानम्

अथ विश्वचक्रदानम्

तत्र मत्स्यपुराणे

४.१२.१अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
विश्वचक्रम् इति ख्यातं सर्वपापप्रणाशनम् ॥ [म्प् २८५.१, हेम् ३२६]

४.१२.२ तपनीयस्य शुद्धस्य विश्वचक्रं तु कारयेत् ॥ [म्प् २८५.२, हेम् ३२६]
४.१२.३ श्रेष्ठं पलसहस्रेण तदर्धेन तु मध्यमम् ।
तस्यार्धेन कनिष्ठं स्याद् विश्वचक्रम् उदाहृतम् ॥ [म्प् २८५.२–३, हेम् ३२६]

४.१२.४ अन्यद् विंशत्पलाद् ऊर्ध्वम् अशक्तो ऽपि निवेदयेत् ॥ [म्प् २८५.३, हेम् ३२६]
४.१२.५ षोडशारं ततश् चक्रं भ्रमन्नेम्यष्टकावृतम् ।
नाभिपद्मे स्थितं विष्णुं योगारूढं चतुर्भुजम् ।

शङ्खचक्रे ऽस्य पार्श्वे तु देव्यष्टकसमावृतम् ॥ [म्प् २८५.४–५, हेम् ३२६]

४.१२.६ द्वितीयावरणे तद्वत् पूर्वतो जलशायिनम् ।
अत्रिर् भृगुर् वसिष्ठश् च ब्रह्मा कश्यप एव च ॥ [म्प् २८५.५–६, हेम् ३२७]

४.१२.७ मत्स्यः कूर्मो वराहश् च नरसिंहो ऽथ वामनः ।
रामो रामश् च रामश् च बुद्धः कल्की च स क्रमात् ॥ [म्प् २८५.६–७, हेम् ३२७]

४.१२.८ तृतीयावरणे गौरी मातृभिर् वसुभिर् वृता ।
चतुर्थे द्वादशादित्या वेदाश् चत्वार एव च ॥ [म्प् २८५.७–८, हेम् ३२८–२९]

४.१२.९ पञ्चमे पञ्च भूतानि रुद्राश् चैकादशैव तु ।
लोकपालाष्टकं षष्ठे दिङ्मातङ्गास् तथैव च ॥ [म्प् २८५.८–९, हेम् ३२९]

४.१२.१० सप्तमे ऽस्त्राणि सर्वाणि मङ्गलानि च कारयेत् ।
अन्तरान्तरतो देवान् विन्यसेद् अष्टमे पुनः ॥ [म्प् २८५.९–१०, हेम् ३२९]

मातरो ब्रह्माण्याद्याः सप्त । अस्त्राणि खड्गादीन्य् अष्टौ । मङ्गलानि दक्षिणावर्त्त-शङ्खादीनि । अन्तरान्तरतः अन्तराणां मध्ये ।

४.१२.११ तुलापुरुषवच् छेषं समन्तात् परिकल्पयेत् ।
ऋत्विङ्मण्डपसंभारभूषणाछादनादिकम् ॥ [म्प् २८५.१०–११, हेम् ३३१]

४.१२.१२ विश्वचक्रं ततः कुर्यात् कृष्णाजिनतिलोपरि ।
तथाष्टादश धान्यानि रसांश् च लवणादिकान् ॥ [म्प् २८५.११–१२, हेम् ३३१]

४.१२.१३ पूर्णकुम्भाष्टकं चैव वस्त्राणि विविधानि च ।
माल्येक्षुफलरत्नानि वितानं चापि कारयेत् ॥ [म्प् २८५.१२–१३, हेम् ३३१]

४.१२.१४ ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो गृही ।
होमाधिवासनान्ते तु गृहीतकुसुमाञ्जलिः ।

इमम् उच्चारयेन् मन्त्रं त्रिः कृत्वा तु प्रदक्षिणम् ॥ [म्प् २८५.१३–१४, हेम् ३३२]

४.१२.१५ नमो विश्वमयायेति विश्वचक्रात्मने नमः ।
परमानन्दरूपि त्वं पाहि नः पापकर्दमात् ॥ [म्प् २८५.१४–१५, हेम् ३३२]

४.१२.१६ तेजोमयम् इदं यस्मात् सदा पश्यन्ति योगिनः ।
हृदि त्वां त्रिगुणातीतं विश्वचक्रं नमाम्य् अहम् ॥ [म्प् २८५.१५–१६, हेम् ३३२]

४.१२.१७ वासुदेवे स्थितं चक्रं चक्रमध्ये तु माधवः ।
अन्योन्याधाररूपेण प्रणमामि स्थिताव् इह ॥ [म्प् २८५.१६–१७, हेम् ३३२]

४.१२.१८ विश्वचक्रम् इदं यस्मात् सर्वपापहरं परम् ।
आयुधं चाधिवासश् च भवाद् उद्धर माम् अतः ॥ [म्प् २८५.१७–१८, हेम् ३३२]

४.१२.१९ इत्य् आमन्त्र्य ततो दद्याद् विश्वचक्रं विमत्सरः ।
विमुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ॥ [म्प् २८५.१८–१९, हेम् ३३२]

४.१२.२० वैकुण्ठलोकम् आसाद्य चतुर्बाहुः सनातनः ।
सेव्यते ऽप्सरसां सङ्घैस् तिष्ठेत् कल्पशतत्रयम् ॥ [म्प् २८५.१९–२०, हेम् ३३३]

४.१२.२१ प्रणमेद् वा स्वयं कृत्वा विश्वचक्रं दिने दिने ।
तस्यायुर् वर्धते नित्यं लक्ष्मीश् च विपुला भवेत् ॥ [म्प् २८५.२०, हेम् ३३३]

४.१२.२२ इति सकलजगत्सुराधिवासं
वितरति यस् तपनीयषोडशारम् ।

हरिभवनम् उपागतः स सिद्धैश्

चिरम् अधिगम्य नमस्यते शिरोभिः ॥ [म्प् २८५.२१, हेम् ३३३]

४.१२.२३ असुदर्शनतां प्रयाति शत्रोर्
मदनसुदर्शनतां च कामिनीनाम् ।

स सुदर्शनकेशवानुरूपः

कनकसुदर्शनदानदग्धपापः ॥ [म्प् २८५.२२, हेम् ३३३]

४.१२.२४ कृतगुरुदुरितानि षोडशार-
प्रवरसुदर्शनदानतो निरस्य ।

व्रजति च स मुरारिधाम भित्त्वा

भवम् अभितो भुवने भयानि भूयः ॥ [म्प् २८५.२३, हेम् ३३३]

इति विश्वचक्रदानम् ॥