०४ ११ पृथिवीदानम्

अथ पृथिवीदानम्

तत्र मत्स्यपुराणे

४.११.१ अथातः संप्रवक्ष्यामि धरादानम् अनुत्तमम् ।
पापक्षयकरं नॄणाम् अमङ्गल्यविनाशनम् ॥ [म्प् २८४.१, हेम् २९४]

४.११.२ कारयेत् पृथिवीं हैमीं जम्बूद्वीपानुकारिणीम् ।
मर्यादापर्वतवतीं मध्ये मेरुसमन्विताम् ।

लोकपालाष्टकोपेतां नववर्षसमन्विताम् ॥ [म्प् २८४.२–३, हेम् २९४]

मर्यादापर्वता अष्टौ हिमवदादयः ।

४.११.३नदीनदशतोपेतां सप्तसागरवेष्टिताम् ।
महारत्नसमाकीर्णां वसुरुद्रार्कसंयुताम् ॥ [म्प् २८४.३–४, हेम् २९४, २९८]

४.११.४ हेम्नः पलसहस्रेण तदर्धेनाथ शक्तितः ।
शतत्रयेण वा कुर्याद् द्विशतेन शतेन वा ॥ [म्प् २८४.४–५, हेम् २९८]

४.११.५ कुर्यात् पञ्चपलाद् ऊर्ध्वम् अशक्तो ऽपि विचक्षणः ॥ [म्प् २८४.५, हेम् २९८]
४.११.६ तुलापुरुषवत् कुर्याल् लोकेशावाहनं बुधः ।
ऋत्विङ्मण्डपसंभारभूषणाछादनादिकम् ॥ [म्प् २८४.६, हेम् २९८]

४.११.७ वेद्यां कृष्णाजिनं कृत्वा तिलानाम् उपरि न्यसेत् ॥ [म्प् २८४.७, हेम् २९८]
४.११.८ तथाष्टादश धान्यानि रसांश् च लवणादिकान् ।
तथाष्टौ पूर्णकलशान् समन्तात् परिकल्पयेत् ॥ [म्प् २८४.७–८, हेम् २९८]

४.११.९ वितानकं च कौशेयं फलानि विविधानि च ।
तथांशुकानि रम्याणि श्रीखण्डशकलानि च ॥ [म्प् २८४.८–९, हेम् २९८]

४.११.१० इत्य् एवं रचयित्वा ताम् अधिवासनपूर्वकम् ।
शुक्लमाल्याम्बरधरो मुक्ताभरणभूषितः ॥ [म्प् २८४.९–१०, हेम् २९८]

४.११.११ प्रदक्षिणं ततः कृत्वा गृहीतकुसुमाञ्जलिः ।
पुण्यकालम् अथासाद्य मन्त्रान् एतान् उदाहरेत् ॥ [म्प् २८४.१०–११, हेम् २९८]

४.११.१२ नमस् ते सर्वदेवानां त्वम् एव भवनं यतः ।
धात्री च सर्वभूतानाम् अतः पाहि वसुंधरे ॥ [म्प् २८४.११–१२, हेम् २९९]

४.११.१३ वसु धारयसे यस्माद् वसु चातीव निर्मलम् ।
वसुंधरा ततो जाता तस्मात् पाहि भयाद् अलम् ॥ [म्प् २८४.१२–१३, हेम् २९९]

४.११.१४ चतुर्मुखो ऽपि नो गच्छेद् यस्माद् अन्तं तवाचले ।
अनन्तायै नमस् तस्मात् पाहि संसारसागरात् ॥ [म्प् २८४.१३–१४, हेम् २९९]

४.११.१५ त्वम् एव लक्ष्मीर् गोविन्दे शिवे गौरीति संस्थिता ।
गायत्री ब्रह्मणः पार्श्वे ज्योत्स्ना चन्द्रे रवौ प्रभा ॥ [म्प् २८४.१४–१५, हेम् २९९]

४.११.१६ बुद्धिर् बृहस्पतौ ख्याता मेधा मुनिषु संस्थिता ।
विश्वं व्याप्य स्थिता यस्मात् ततो विश्वंभरा मता ॥ [म्प् २८४.१५–१६, हेम् २९९]

४.११.१७ धृतिः स्मृतिः क्षमा क्षोणी पृथ्वी वसुमती रसा ।
एताभिर् मूर्तिभिः पाहि देवि संसारसागरात् ॥ [म्प् २८४.१६–१७, हेम् २९९]

४.११.१८ एवम् उच्चार्य तां देवीं ब्राह्मणेभ्यो निवेदयेत् ॥ [म्प् २८४.१७, हेम् २९९]
४.११.१९ धरार्धं वा चतुर्भागं गुरवे प्रतिपादयेत् ।
शेषं चैवाथ ऋत्विग्भ्यः प्रणिपत्य विसर्जयेत् ॥ [म्प् २८४.१८, हेम् २९९]

४.११.२० अनेन विधिना यस् तु दद्याद् धेमधरां शुभाम् ।
पुण्यकाले तु संप्राप्ते स पदं याति वैष्णवम् ॥ [म्प् २८४.१९, हेम् ३००]

४.११.२१ विमानेनार्कवर्णेन किङ्किणीजालमालिना ।
नारायणपुरं गत्वा कल्पत्रयम् अथो वसेत् ॥ [म्प् २८४.२०, हेम् ३०१]

४.११.२२ पितॄंश् च पुत्रपौत्रांश् च तारयेद् एकविंशतिम् ॥ [म्प् २८४.२०, हेम् ३०१]
४.११.२३ इति पठति य इत्थं यः शृणोति प्रसङ्गाद्
अपि कलुषवितानैर् मुक्तदेहः समन्तात् ।

दिवम् अमरवधूभिर् याति संप्रार्थ्यमाणः

पदम् अमरसहस्रैः सेवितं चन्द्रमौलेः ॥ [म्प् २८४.२१, हेम् ३०१]

इति पृथिवीदानम् ॥