अथ पञ्चलाङ्गलदानम्
तत्र मत्स्यपुराणे
४.१०.१अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
पञ्चलाङ्गलकं नाम महापातकनाशनम् ॥ [म्प् २८३.१, हेम् २८७]
४.१०.२ पुण्यां तिथिम् अथासाद्य युगादिग्रहणादिकाम् ।
भूमिदानं नरो दद्यात् पञ्चलाङ्गलकान्वितम् ॥ [म्प् २८३.२, हेम् २८७]
४.१०.३ कर्वटं खेटकं चापि ग्रामं वा सस्यमालिनम् ।
निवर्तनशतं वापि तदर्धं वापि शक्तितः ॥ [म्प् २८३.३, हेम् २८८]
४.१०.४ सारदारुमयान् कृत्वा हलान् पञ्च विचक्षणः ।
सर्वोपकरणैर् युक्तान् अन्यान् पञ्च च काञ्चनान् ॥ [म्प् २८३.४, हेम् २८८]
कर्वटादिस्वरूपं मार्कण्डेयपुराणे तद्यथा—
४.१०.५ सोत्सेधवप्रप्राकारं सर्वतः खातकावृतम् ।
योजनार्धार्धविष्कम्भम् अष्टभागायतं पुरम् ।
तदर्धेन तथा खेटं तत्पादोनं च कर्वटम् ॥ [मार्प् ४६.४३–४५, हेम् २८८]
४.१०.६ तथा शूद्रजनप्राया सुसमृद्धकृषीवला ।
क्षेत्रोपभोगभूमध्ये वसतिर् ग्रामसंज्ञिता ॥ [मार्प् ४६.४७, हेम् २८८]
उपकरणानि युगयोक्त्रादीनि ।
४.१०.७वृषान् लक्षणसंयुक्तान् दशैव च धुरंधरान् ।
सुवर्णशृङ्गाभरणान् मुक्तालाङ्गूलभूषितान् ॥ [म्प् २८३.५, हेम् २८८]
४.१०.८ रौप्यपादाग्रतिलकान् रक्तकौशेयभूषितान् ।
स्रग्दामचन्दनयुतान् शालायाम् अधिवासयेत् ॥ [म्प् २८३.६, हेम् २८८]
४.१०.९ पर्जन्यादित्यरुद्रेभ्यः पायसं निर्वपेच् चरुम् ।
एकस्मिन्न् एव कुण्डे तु चरुम् अस्मै निवेदयेत् ॥ [म्प् २८३.७, हेम् २८८]
पर्जन्यादित्यरुद्रेभ्य इति विहितस्य पायसचरुप्रभृतेर् होमस् तल्लिङ्गैर् मन्त्रैः ।
४.१०.१० पलाशसमिधस् तद्वद् आज्यं कृष्णतिलांस् तथा ।
तुलापुरुषवत् कुर्याल् लोकेशावाहनं बुधः ॥ [म्प् २८३.८, हेम् २८९]
४.१०.११ ततो मङ्गलशब्देन शुक्लमाल्याम्बरो बुधः ।
आहूय द्विजदांपत्यं हेमसूत्राङ्गुलीयकैः ॥ [म्प् २८३.९, हेम् २८९]
४.१०.१२ कौशेयवस्त्रकटकैर् मणिभिश् चाभिपूजयेत् ।
शय्यां सोपस्करां दद्याद् धेनुम् एकां पयस्विनीम् ॥ [म्प् २८३.१०, हेम् २८९]
४.१०.१३ तथाष्टादश धान्यानि समन्ताद् अधिवासयेत् ।
ततः प्रदक्षिणं कुर्याद् गृहीतकुसुमाञ्जलिः ॥ [म्प् २८३.११, हेम् २८९]
४.१०.१४ इमम् उच्चारयेन् मन्त्रम् अथ सर्वं निवेदयेत् ॥ [म्प् २८३.१२, हेम् २८९]
४.१०.१५ यस्माद् देवगणाः सर्वे स्थावराणि चराणि च ।
धुरंधराङ्गे तिष्ठन्ति तस्माद् भक्तिः शिवे ऽस्तु मे ॥ [म्प् २८३.१२–१३, हेम् २९०]
४.१०.१६ यस्मात् तु भूमिदानस्य कलां नार्हन्ति षोडशीम् ।
दानान्य् अन्यानि मे भक्तिर् धर्म एव दृढा भवेत् ॥ [म्प् २८३.१३–१४, हेम् २९०]
४.१०.१७ दण्डेन सप्तहस्तेन त्रिंशद् दण्डान् निवर्तनम् ।
त्रिभागहीनं गोचर्ममानम् आह प्रजापतिः ॥ [म्प् २८३.१४–१५, हेम् २९०]
४.१०.१८ मानेनानेन यो दद्यान् निवर्तनशतं बुधः ।
विधिनानेन तस्याशु क्षीयते पापसंहतिः ॥ [म्प् २८३.१५, हेम् २९०]
४.१०.१९ तदर्धम् अपि वा दद्याद् अपि गोचर्ममात्रकम् ।
भवनस्थानमात्रं वा सो ऽपि पापैः प्रमुच्यते ॥ [म्प् २८३.१६, हेम् २९०]
४.१०.२० यावन्ति लाङ्गलकमार्गमुखानि भूमेर्
भासां पतेर् दुहितुर् अङ्गजरोमकाणि ।
तावन्ति शङ्करपुरे स समा हि तिष्ठेद्
भूमिप्रदानम् इह यः कुरुते मनुष्यः ॥ [म्प् २८३.१७, हेम् २९०]
४.१०.२१ गन्धर्वकिंनरसुरासुरसिद्धसङ्घैर्
आधूतचामरम् उपेत्य महद् विमानम् ।
संपूज्यते पितृपितामहबन्धुयुक्तः
शम्भोः पुरं व्रजति चामरनायकः सन् ॥ [म्प् २८३.१८, हेम् २९०–९१]
४.१०.२२ इन्द्रत्वम् अप्य् अधिगतं क्षयम् अभ्युपैति
गोभूमिलाङ्गलधुरंधरसंप्रदानात् ।
तस्माद् अघौघपटलक्षयकारि भूमेर्
दानं विधेयम् अभिभूतिभवोद्भवाय ॥ [म्प् २८३.१९, हेम् २९१]
इति पञ्चलाङ्गलदानम् ॥