अथ हेमहस्तिरथदानम्
तत्र मत्स्यपुराणे
४.९.१अथातः संप्रवक्ष्यामि हेमहस्तिरथं शुभम् ।
यस्य प्रसादाद् भुवनं वैष्णवं याति मानवः ॥ [म्प् २८२.१, हेम् २८३]
४.९.२ पुण्यां तिथिं समासाद्य तुलापुरुषदानवत् ।
विप्रवाचनकं कुर्याल् लोकेशावाहनं बुधः ॥ [म्प् २८२.२, हेम् २८३]
४.९.३ ऋत्विङ्मण्डपसंभारभूषणाछादनादिकम् ।
अत्राप्य् उपोषितस् तद्वद् ब्राह्मणैः सह भोजनम् ॥ [म्प् २८२.२–३, हेम् २८३]
४.९.४ कुर्यात् पुष्परथाकारं काञ्चनं मणिमण्डितम् ।
वलभीभिर् विचित्राभिश् चतुश्चक्रसमन्वितम् ॥ [म्प् २८२.३–४, हेम् २८३]
इपुष्परथः क्रीडार्थो रथः । स च वलभीभिर् युक्तो भवति ।
४.९.५ लोकपालाष्टकोपेतं ब्रह्मार्कशिवसंयुतम् ।
मध्ये नारायणोपेतं लक्ष्मीपुष्टिसमन्वितम् ॥ [म्प् २८२.५, हेम् २८३–८४]
४.९.६ कृष्णाजिने तिलद्रोणं कृत्वा संस्थापयेद् रथम् ।
तथाष्टादश धान्यानि भाजनासनचन्दनैः ॥ [म्प् २८२.४, ६, हेम् २८४]
४.९.७ दीपिकोपानहछत्त्रदर्पणं पादुकान्वितम् ।
ध्वजे तु गरुडं कृत्वा कूबराग्रे विनायकम् ॥ [म्प् २८२.६–७, हेम् २८४]
४.९.८ नानाफलसमायुक्तम् उपरिष्टाद् वितानकम् ।
कौशेयं पञ्चवर्णं तु अम्लानकुसुमान्वितम् ॥ [म्प् २८२.७–८, हेम् २८४]
४.९.९ चतुर्भिः कलशैः सार्धं गोभिर् अष्टाभिर् अन्वितम् ।
चतुर्भिर् हेममातंगैर् मुक्तादामविभूषितैः ॥ [म्प् २८२.८–९, हेम् २८४]
४.९.१० स्वरूपतः करिभ्यां च युक्तं कृत्वा निवेदयेत् ।
कुर्यात् पञ्चपलाद् ऊर्ध्वम् आभाराद् अपि शक्तितः ॥ [म्प् २८२.९–१०, हेम् २८४]
४.९.११ तथा मङ्गलशब्देन स्नापितो वेदपुंगवैः ।
त्रिः प्रदक्षिणम् आवृत्य गृहीतकुसुमाञ्जलिः ।
इमम् उच्चारयेन् मन्त्रं ब्राह्मणेभ्यो निवेदयेत् ॥ [म्प् २८२.१०–११, हेम् २८५]
४.९.१२ नमो नमः शङ्करपद्मजार्कलोकेशविद्याधरवासुदेवैः ।
त्वं सेव्यसे वेदपुराणयज्ञतेजोमयस्यन्दन पाहि तस्मात् ॥
[म्प् २८२.१२, हेम् २८५]
४.९.१३ यत् तत् पदं परमगुह्यतमं मुरारेर्
आनन्दहेतु गुणरूपविमुक्तम् अन्तः ।
योगैकमानसदृशो मुनयः समाधौ
पश्यन्ति तत् त्वम् असि नाथ रथे ऽधिरूढः ॥ [म्प् २८२.१३, हेम् २८५]
४.९.१४ यस्मात् त्वम् एव भवसागरसंप्लुतानाम्
आनन्दभाण्डभृतम् अध्वरपानपात्रम् ।
तस्माद् अघौघशमनेन कुरु प्रसादं
चामीकरेभरथमाधव संप्रदानात् ॥ [म्प् २८२.१४, हेम् २८६]
४.९.१५ इत्थं प्रणम्य कनकेभरथप्रदानं
यः कारयेत् सकलपापविमुक्तदेहः ।
विद्याधरामरमुनीन्द्रगणाभिजुष्टं
प्राप्नोत्य् असौ पदम् अतीन्द्रियम् इन्दुमौलेः ॥ [म्प् २८२.१५, हेम् २८७]
४.९.१६ कृतदुरितवितानप्रोज्ज्वलद्वह्निजाल-
व्यतिकरहतदेहोद्वेगभाजो ऽपि बन्धून् ।
नयति च पितृपुत्रान् रौरवाद् अप्य् अशेषान्
कृतगजरथदानाच् छाश्वतं सद्म विष्णोः ॥ [म्प् २८२.१६, हेम् २८७]
इति हेमहस्तिरथदानम् ॥