४.८ अथाश्वरथदानम्
तत्र मत्स्यपुराणे
४.८.१ अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
पुण्यम् अश्वरथं नाम महापातकनाशनम् ॥ [म्प् २८१.१, हेम् २७९]
४.८.२ पुण्यं दिनम् अथासाद्य कृत्वा ब्राह्मणवाचनम् ।
लोकेशावाहनं कुर्यात् तुलापुरुषदानवत् ॥ [म्प् २८१.२, हेम् २७९]
४.८.३ ऋत्विङ्मण्डपसंभारभूषणाछादनादिकम् ।
कृष्णाजिने तिलान् कृत्वा काञ्चनं स्थापयेद् रथम् ॥ [म्प् २८१.३, हेम् २७९]
४.८.४ सप्ताश्वं चतुरश्वं वा चतुश्चक्रं सकूबरम् ।
ऐन्द्रनीलेन कुम्भेन ध्वजरूपेण संयुतम् ॥ [म्प् २८१.४, हेम् २७९–८०]
कूबरो युगाधारकाष्ठम् । ऐन्द्रनीलेन इन्द्रनीलमणिमयेन कलशेन ध्वज-रूपेण संयुतम् ।
४.८.५ लोकपालाष्टकोपेतं पद्मरागदलान्वितम् ।
चत्वारः पूर्णकलशा धान्यान्य् अष्टादशैव तु ॥ [म्प् २८१.५, हेम् २८०]
४.८.६ कौशेयवस्त्रसंयुक्तम् उपरिष्टाद् वितानकम् ।
माल्येक्षुफलसंयुक्तं पुरुषेण समन्वितम् ॥ [म्प् २८१.६, हेम् २८०]
४.८.७ यो यद्भक्तः पुमान् कुर्यात् स तन्नाम्नाधिवासनम् ॥ [म्प् २८१.७, हेम् २८०]
४.८.८ छत्त्रचामरकौशेयवस्त्रोपानहपादुकाः ।
गोभिर् विभवतः सार्धं दद्याच् च शयनासनम् ॥ [म्प् २८१.७–८, हेम् २८०]
४.८.९ आभारात् त्रिपलाद् ऊर्ध्वं शक्तितः कारयेद् बुधः ॥ [म्प् २८१.८, हेम् २८०]
इभारः पलसहस्रद्वयम् ।
४.८.१० अश्वाष्टकेन संयुक्तं चतुर्भिर् अथ वाजिभिः ।
द्वाभ्याम् अथ युतं दद्याद् धेमसिंहध्वजान्वितम् ॥ [म्प् २८१.९, हेम् २८०]
४.८.११ चक्ररक्षाव् उभौ तस्य तुरगस्थाव् अथाश्विनौ ॥ [म्प् २८१.१०, हेम् २८१]
इचक्ररक्षौ चक्रसमीपे ऽश्वारूढाव् अश्विनीकुमारौ कार्यौ ।
४.८.१२ पुण्यं कालं ततः प्राप्य पूर्ववत् स्नापितो द्विजैः ।
शुक्लमाल्याम्बरो दद्याद् इमं मन्त्रम् उदीरयेत् ॥ [म्प् २८१.१०–११, हेम् २८१]
४.८.१३ नमो नमः पापविनाशनाय विश्वात्मने वेदतुरंगमाय ।
धाम्नाम् अधीशाय भवाभिधाय पापौघदावानल देहि शान्तिम् ॥
[म्प् २८१.१२, हेम् २८१]
४.८.१४ वस्वष्टकादित्यमरुद्गणानां त्वम् एव धाता परमं निधानम् ।
यतस् ततो मे हृदयं प्रयातु धर्मैकतानत्वम् अघौघनाशात् ॥
[म्प् २८१.१३, हेम् २८१]
४.८.१५ इति तुरगरथप्रदानम् एवं
भवभयसूदनम् अत्र यः करोति ।
स कलुषपटलैर् विमुक्तदेहः
परमम् उपैति पदं पिनाकपाणेः ॥ [म्प् २८१.१४, हेम् २८२]
४.८.१६ देदीप्यमानवपुषा विजितप्रभावम्
आक्रम्य मण्डलम् अखण्डम् अखण्डभानोः ।
सिद्धाङ्गनानयनषट्पदपीयमान-
वक्त्राम्बुजो ऽम्बुजभवेन चिरं सदास्ते ॥ [म्प् २८१.१५, हेम् २८२]
४.८.१७ इति पठति शृणोति वा य इत्थं
कनकतुरंगरथप्रदानम् एवम् ।
स न नरकपुरं व्रजेत् कदाचिन्
नरकरिपोर् भवनं प्रयाति भूयः ॥ [म्प् २८१.१६, हेम् २८३]
इति हिरण्याश्वरथदानम् ॥