०४ ०७ हिरण्याश्वदानम्

अथ हिरण्याश्वदानम्

तत्र मत्स्यपुराणे

४.७.१ अथातः संप्रवक्ष्यामि हिरण्याश्वविधिं परम् ।
यस्य प्रसादाद् भुवनम् अनन्तफलम् अश्नुते ॥ [म्प् २८०.१, हेम् २७४–७५]

४.७.२ पुण्यां तिथिम् अथासाद्य कृत्वा ब्राह्मणवाचनम् ।
लोकेशावाहनं कुर्यात् तुलापुरुषदानवत् ॥ [म्प् २८०.२, हेम् २७५]

४.७.३ ऋत्विङ्मण्डपसंभारभूषणाछादनादिकम् ।
स्वल्पे त्व् एकाग्निवत् कुर्याद् धेमवाजिमखं बुधः ॥ [म्प् २८०.३, हेम् २७५]

४.७.४ स्थापयेद् वेदिमध्ये तु कृष्णाजिनतिलोपरि ।
कौशेयवस्त्रसंवीतं कारयेद् धेमवाजिनम् ॥ [म्प् २८०.४, हेम् २७५]

४.७.५ शक्तितस् त्रिपलाद् ऊर्ध्वम् आसहस्रपलाद् बुधः ।
पादुकोपानहछत्त्रचामरासनभाजनैः ॥ [म्प् २८०.५, हेम् २७५]

४.७.६ पूर्णकुम्भाष्टकोपेतं माल्येक्षुफलसंयुतम् ।
शय्यां सोपस्करां तद्वद् धेममार्तण्डसंयुताम् ॥ [म्प् २८०.६, हेम् २७५]

४.७.७ ततः सर्वौषधिस्नानस्नापितो वेदपुंगवैः ।
इमम् उच्चारयेन् मन्त्रं गृहीतकुसुमाञ्जलिः ॥ [म्प् २८०.७, हेम् २७६]

४.७.८ नमस् ते सर्वदेवेश वेदाहरणलम्पट ।
वाजिरूपेण माम् अस्मात् पाहि संसारसागरात् ॥ [म्प् २८०.८, हेम् २७६]

४.७.९ त्वम् एव सप्तधा भूत्वा छन्दोरूपेण भास्करम् ।
यस्माद् भ्रामयसे लोकान् अतः पाहि सनातनः ॥ [म्प् २८०.९, हेम् २७६]

४.७.१० एवम् उच्चार्य गुरवे तम् अश्वं विनिवेदयेत् ।
दत्त्वा पापक्षयाद् भानोर् लोकम् अभ्येति शाश्वतम् ॥ [म्प् २८०.१०, हेम् २७६]

४.७.११ गोभिर् विभवतः सर्वान् ऋत्विजश् चाभिपूजयेत् ।
सर्वधान्योपकरणं गुरवे विनिवेदयेत् ॥ [म्प् २८०.११, हेम् २७६]

४.७.१२ सर्वशय्यादिकं दत्त्वा भुञ्जीतातैलम् एव हि ।
पुराणश्राविणं तद्वत् कारयेद् भोजनादिकम् ॥ [म्प् २८०.१२, हेम् २७६]

विभवतः स्वविभवानुसारेण ऋत्विग्भ्यो गां दद्यात् । सर्वधान्योपकरणम् इति विनियोगात् पूर्वं धान्यासादनं गम्यते । पुराणश्रावी पुराणस्य श्रावयिता ।

४.७.१३ इमं हिरण्याश्वविधिं करोति यः संपूज्यमानो दिवि देवतेन्द्रैः ।
विमुक्तपापः स पुरं मुरारेः प्राप्नोति सिद्धैर् अभिपूजितः सन् ॥

[म्प् २८०.१३, हेम् २७७]

४.७.१४ इति पठति य एतद् धेमवाजिप्रदानं
स कलिकलुषमुक्तः सो ऽश्वमेधेन भूयः ।

कनकमयविमानेनार्कलोकं प्रयाति

त्रिदशपतिवधूभिः पूज्यते यो ऽथ पश्येत् ॥ [म्प् २८०.१४, हेम् २७७]

४.७.१५ यो वा शृणोति पुरुषो ऽल्पधनः स्मरेद् वा
हेमाश्वदानम् अभिनन्दयतीह लोके ।

सो ऽपि प्रयाति हतकल्मषशुद्धदेहः

स्थानं पुरंदरमहेश्वरदेवजुष्टम् ॥ [म्प् २८०.१५, हेम् २७७]

इति हिरण्याश्वदानम् ॥