अथ कामधेनुदानम्
तत्र मत्स्यपुराणे
४.६.१ अथातः शृणु भूपाल कामधेनुविधिं परम् ।
सर्वकामप्रदं नॄणां महापातकनाशनम् ॥ [म्प् २७९.१, हेम् २६५]
४.६.२ लोकेशावाहनं तद्वद् धोमः कार्यो ऽधिवासनम् ।
तुलापुरुषवत् कुर्यात् कुण्डमण्डपवेदिकाम् ॥ [म्प् २७९.२, हेम् २६५]
४.६.३ स्वल्पेष्व् एकाग्निवत् कुर्याद् गुरुर् एव समाहितः ।
काञ्चनस्यातिशुद्धस्य धेनुं वत्सं च कारयेत् ॥ [म्प् २७९.३, हेम् २६५]
४.६.४ उत्तमा पलसाहस्रैस् तदर्धेन तु मध्यमा ।
कनीयसी तदर्धेन कामधेनुः प्रकीर्तिता ।
शक्तितस् त्रिपलाद् ऊर्ध्वम् अशक्तो ऽपीह कारयेत् ॥ [म्प् २७९.४–५, हेम् २६५]
४.६.५ वेद्यां कृष्णाजिनं न्यस्य गुडप्रस्थसमन्वितम् ।
न्यसेद् उपरि तां धेनुं महारत्नैर् अलंकृताम् ।
कुम्भाष्टकसमोपेतां नानाफलसमन्विताम् ॥[म्प् २७९.५–६, हेम् २६६]
४.६.६ तथाष्टादश धान्यानि समन्तात् परिकल्पयेत् ।
इक्षुदण्डाष्टकं तद्वन् नानाफलविभूषितम् ।
भाजनं चासनं तद्वत् ताम्रदोहनकं तथा ॥ [म्प् २७९.७, हेम् २६६]
४.६.७ कौशेयवस्त्रद्वयसंप्रयुक्तां दीपातपत्राभरणाभिरामाम् ।
सचामरां कुण्डलिनीं सघण्टागणित्रिकापादुकरौप्यपादाम् ॥
[म्प् २७९.८, हेम् २६६]
४.६.८ रसैश् च सर्वैः पुरतो ऽभिजुष्टां हरिद्रया पुष्पफलैर् अनेकैः ।
अजाजिकुस्तुम्बुरुशर्कराभिर् वितानकं चोपरि पञ्चवर्णम् ॥
[म्प् २७९.९, हेम् २६६–६७]
सघण्टागणित्रिकापादुकरौप्यपादाम् इति सघण्टागणित्रिकापादुका च सा रौप्यपादा चेति विग्रहः । गणित्रिका अक्षमाला । अजाजी जीरकः । कुस्तुम्बुरु धान्याकम् ।
४.६.९ स्नातस् ततो मङ्गलशब्दघोषैः प्रदक्षिणीकृत्य सपुष्पहस्तः ।
आवाहयेत् तां गुडधेनुमन्त्रैर् द्विजाय दद्याद् अथ दर्भपाणिः ॥
[म्प् २७९.१०, हेम् २६७]
द्विजायेति एकस्मै द्विजाय । एतच् चैकाग्निविधानपक्षे । अनेकाग्निविधानपक्षे तु तुलापुरुषवद् अनेकेभ्यो ऽपि देया ।
४.६.१० त्वं सर्वदेवगणमन्दिरमङ्गभूता
विश्वेश्वरत्रिपथगोदधिपर्वतानाम् ।
त्वद्दानशस्त्रशकलीकृतपातकौघः
प्राप्तो ऽस्मि निर्वृतिम् अतीव परां नमामि ॥ [म्प् २७९.११, हेम् २६७]
४.६.११ लोके यथेप्सितफलार्थविधायिनीं त्वाम्
आसाद्य को हि भवदुःखम् उपैति मर्त्यः ।
संसारदुःखशमनाय यतस्व कामं
त्वां कामधेनुर् इति देवगणा वदन्ति ॥ [म्प् २७९.१२, हेम् २६७–६८]
४.६.१२ आमन्त्र्य शीलकुलरूपगुणान्विताय
विप्राय यः कनकधेनुम् इमां प्रदद्यात् ।
प्राप्नोति धाम स पुरंदरदेवजुष्टं
कन्यागणैः परिवृतः पदम् इन्दुमौलेः ॥ [म्प् २७९.१३, हेम् २६८]
इति कामधेनुदानम् ॥